१४ चतुर्दशोऽध्यायः

विलोक्य दूषितां कृष्णां कृष्णः कृष्णाहिना विभुः

॥ अथ चतुर्दशोऽध्यायः ॥

श्रीशुक उवाच—

विलोक्य दूषितां कृष्णां कृष्णः कृष्णाहिना विभुः ।

तस्या विशुद्धिमन्विच्छन् सर्पं तमुदवासयत् ॥ १ ॥

पदरत्नावली

वेणुधरचरणरेणुधारिणां भक्तानां दुर्जरवीर्यसंसारविषं निर्वीर्यं भवतीति निदर्शयितु-मतीताध्याये सङ्क्षिप्योक्तं कालियनागमर्दनमहिमानं प्रपञ्चयत्यस्मिन्नध्याये । तत्र राज्ञः प्रश्नमुत्थापयितुं सङ्क्षिप्य कथामाह विलोक्येति । कृष्णां यमुनाम् । कृष्णाहिना कालसर्पेण कालियेन । विशुद्धिं निर्विषताम् । उदवासयत् ततोऽन्यत्रावासमकल्पयत् ॥ १ ॥

सत्यधर्मीया

संसारविषमतां जरयत्कंसारिचरितं सङ्कुच्योक्तं प्रपञ्चयत्यस्मिन्नध्याये । तत्रादौ शुको राजप्रश्नबीजमावपतीति निरूपयति ॥ श्रीशुक इति । कृष्णः कृष्णाहिना सकालिम्ना कालियेन कृष्णां यमुनां दूषितां विषविषमतया जनानुपयोजनां वीक्ष्य तस्या विशुद्धिं निर्विषतामन्विच्छस्तं सर्पमुदवासयत्ततो निष्कासयामास ॥ १ ॥

सुमनोरञ्जिनी

यथा श्रीकृष्णः कालियविषदूषितं यामुनं जलं तन्निष्कासनेन निर्मलीचकार एवं प्रसन्नो हरिः संसारव्यालगरलदूषितं स्वभक्तजनं संसारान्मोचयिष्यतीति भावेन कालियनाग-शिक्षणरूपं महिमानं विस्तरतो विवक्षया सामान्यतोऽनुवदति शुकः ॥ विलोक्येति ॥ कृष्णाहिना कालियनामकेन कृष्णसर्पेण । कृष्णां यमुनाम् । तस्या यमुनायाः । विशुद्धिं निर्विषत्वम् । तं सर्पम् । उदवासयन् निष्कासितवान् ॥ १ ॥

राजोवाच—

कथमन्तर्जलेऽगाधे न्यगृह्णाद् भगवानहिम् ।

स वै बहुयुगावासी यथाऽऽसीद् विप्र कथ्यताम् ॥ २ ॥

पदरत्नावली

अगाधे अतलस्पर्शे । ‘अगाधमतलस्पर्शम्’ इत्यभिधानम् । न्यगृह्णान् निगृहीतवान्, प्रसह्य गृहीतवानित्यर्थः । यथा येन प्रकारेण आसीत् स प्रकारः ॥ २ ॥

सत्यधर्मीया

स कुतो निकेतनं तत्र चक्रे कथं वा बहुविधं तत्र कृतवासं वासुदेवोऽवासित-मचीकरत्सोऽप्यनन्ताज्ञप्तः क्व वाऽवात्सीत्सर्वं हे विप्र सर्वज्ञ कथयेति पृच्छति परीक्षिदित्याह ॥ राजेति ॥ अगाधे लोडयितुमशक्ये जलेऽहिं भगवान्कथं न्यगृह्णाज्जग्राह । स सर्पोऽन्तर्यमुनान्तः कथं बहुयुगावास्यासीत् हे विप्रेदं सर्वं कथ्यताम् इदानीम् । शुकेन बहुयुगेत्याद्यनुक्तामपि मानान्तरतोऽवगत्याप्राक्षीत्परीक्षिदित्यर्थद्योतको वैशब्दः ॥ २ ॥

सुमनोरञ्जिनी

अथ जातजिज्ञासू राजा पृच्छति ॥ कथमिति ॥ अगाधे गम्भीरे । अन्तर्जले जलस्यान्तः । अहिं कथं न्यगृण्हन् निगृहीतवान् । सः कालियः । अन्तर्जल इत्यनुकृष्यते । यथा येन प्रकारेण । अन्तर्जले, बहुयुगम् आवासोऽस्यास्तीति तथोक्तः । बहुकालम् आवासवान् आसीत् । तदपि कथ्यताम् ॥ २ ॥

ब्रह्मन् भगवतस्तस्य भूम्नः स्वच्छन्दवर्तिनः ।

गोपालोदारचरितं कस्तृप्येतामृतं जुषन् ॥ ३ ॥

पदरत्नावली

स्वच्छन्दवर्तिनः स्वेच्छानुसारेण प्रवर्तमानस्य भूम्नः परिपूर्णस्य भगवतो गोपालोदारचरितं गोपालैः सह कृतं यदुदारमुत्कृष्टं चरितं तदमृतं जुषन् सेवमानः कस्तृप्येत? अतस्तत् कथ्यतामिति ॥ ३ ॥

दुर्घटभावदीपिका

हे ब्रह्मन् । गोपालोदारचरितं गोपालेभ्य उदारस्योत्कृष्टस्य कृष्णस्य चरितम् । सर्पनिग्रहानन्तरं भाविसर्पानुग्रहादिचरितं कथ्यतामिति पूर्वेण सम्बन्धः । कृष्णमाहात्म्यं पुनः पुनः कुतो वक्तव्यमित्यत आह ॥ भगवत इति ॥ भूम्नः पूर्णस्य स्वच्छन्दानुवर्तिनः स्वेच्छानु-सारेण प्रवर्तमानस्य तस्य भगवतोऽमृतं कथामृतं जुषन् कस्तृप्येत न कोऽपीति । एतेन भगवत इत्यादिषष्ठ्यन्तानां भिन्नपदत्वाद् गोपालस्येति वक्तव्यं गोपालोदारचरितमिति समस्तपदप्रयोगोऽनुपपन्न इति दूषणं परिहृतम् । गोपालोदारचरितमित्यस्य कथ्यतामित्यनेनान्वयः । भगवत इत्यादी-नाममृतमित्यनेनान्वय इत्युक्तत्वात् । एतेनैव भगवान् कथमहिं न्यगृह्णादिति प्रश्नवद् भगवान् कथमहिमन्वगृह्णादित्यादिप्रश्नोऽपि कर्तव्य इति चोद्यं परिहृतम् । गोपालोदारचरितमित्यस्य कथ्यतामित्यनेनान्वयमङ्गीकृत्यानुगृह्णादिप्रश्नो लब्ध इत्यभ्युपगमात् ॥ ३ ॥

सत्यधर्मीया

इयतापि नातुष्यः किलेलापालेत्यतो लपति ॥ ब्रह्मन्निति ॥ स्वच्छन्दवर्तिनो भूम्नस्तस्य भगवतो गोपालोदारचरितं गोपालैर्गोपालिभिर्गोपालैश्च सह कृतं यदुदारचरितममृतं तदाख्यं पीयूषं जुषन्सेवमानः कस्तृप्येत अलमिति लपेत् । यदि कश्चित्तृप्येतालमिति वदेत्तर्हि स कः कुत्सित इत्यपि कश्छन्दसां योगमावेदेत्यादिवदन्वयो ज्ञेयः ॥ ३ ॥

सुमनोरञ्जिनी

भूम्नः पूर्णस्य । स्वच्छन्देन स्वेच्छयैव वर्तते प्रवर्तते इति तथोक्तस्य । स्वतन्त्रस्येत्यर्थः । तस्य श्रीकृष्णस्य । गोपालेषु मध्ये यद् उदारम् उत्कृष्टं चरितं तज् जुषन् शृृण्वन्निति यावत्, कस्तृप्येत अलम्बुद्धिमान् स्यात् । अमृतं जुषन् सेवयन्निव । अथवा गोपालोदारचरितं तल्लक्षणममृतं जुषन् कस्तृप्येतेति ॥ ३ ॥

श्रीशुक उवाच—

कालिन्द्यां कालियस्यासीद् ह्रदः कश्चिद् विषाग्निना ।

श्रप्यमाणपयो यस्मिन् पतन्त्युपरिगाः खगाः ॥ ४ ॥

पदरत्नावली

श्रप्यमाणं क्वथ्यमानं पयो जलं यस्य सः, अत उपरिगा उपरि चरन्तः खगाः पक्षिणो यस्मिन् पतन्ति सः, कश्चित् कालिन्द्यां कालियस्य कालीयनागस्य ह्रद आसीत्

॥ ४ ॥

सत्यधर्मीया

यस्मिन् श्रप्यमाणं श्रा पाके पुगन्तः । विषजनिताग्निना क्वथ्यमानं पयो जलम् । उपरिगाः खगाः पक्षिणोऽपि पतन्ति स कश्चित्कालिन्द्यां कालियस्य कालीयस्य संज्ञाद्वयं ज्ञेयं हृद आसीत् ॥ ४ ॥

सुमनोरञ्जिनी

कालियस्य तन्नामकसर्पस्य विषाग्निना । श्रप्यमाणं क्वथ्यमानं पयो यस्मिन् सः श्रप्यमाणपयाः । श्रप्यमाणपय इति पाठे यस्मिन्नासीदिति सम्बन्धः । अत उपरिगा उपरि गच्छन्तः खगा यस्मिन् ह्रदे । पतन्ति ॥ ४ ॥

विप्लुष्मता विषोदोर्मिमारुतेनाभिमर्शिताः ।

म्रियन्ते तीरगा यस्य प्राणिनः स्थिरजङ्गमाः ॥ ५ ॥

पदरत्नावली

विप्लुष्मता विशेषेण दहता । प्लुष दाहे इति धातुः । विषैर्विदूषितानि यान्युदानि, तेषां ये ऊर्मयस्तरङ्गा विषोदोर्मयः, तैः सङ्गतो यो मारुतः विषोदोर्मिमारुतस्तेनाऽभि-मर्शिताः संस्पृष्टा यस्य ह्रदस्य तीरगाः स्थिरजङ्गमाः, स्थिरा लताः शाखिनश्च जङ्गमा मृगाद्याः प्राणिनः प्रकर्षेण विनाशचेष्टावन्तः सन्तः म्रियन्ते । ‘अन चेष्टायाम्’ इति धातुः ॥ ५ ॥

सत्यधर्मीया

चेत्किमित्यतो वक्ति ॥ विप्लुष्मतेति ॥ विप्लुष्मता विषाग्निकणवता । विषोदोर्मिमारुतेन विषविदूषितं यदुदं तस्य ये या वोर्मयस्तरङ्गास्तत्सङ्गतः सदा तेनाभिमर्शिताः स्पृष्टाः । यस्य तीरगाः स्थिरजङ्गमाः प्राणिनो म्रियन्ते । प्राणिनोऽन्तश्चेष्टावतः कालियस्येति वाऽ-न्वयः । अनेन स्थिरजङ्गमा इत्यत्रत्यजङ्गमपदेन प्राणिनां लाभात्तदतिरिच्यत इति निरस्तम् ॥५॥

सुमनोरञ्जिनी

विप्लुष्मता अम्बुबिन्दुयुतेन । विषोदस्य विषमिश्रोदकस्य ये ऊर्मयस् तरङ्गास् तत्सङ्गिमारुतेन अभिमर्शिताः स्पृष्टाः । यस्य ह्रदस्य । तीरगास् तीरे गच्छन्ति तिष्ठन्तीति तथोक्ताः

॥ ५ ॥

तं चण्डवेगविषवीर्यमवेक्ष्य तेन

दुष्टां नदीं च खलसंयमनावतारः ।

कृष्णः कदम्बमधिरुह्य ततोऽतितुङ्गा-

दास्फोट्य गाढरसनो न्यपतद् विषोदे ॥ ६ ॥

पदरत्नावली

चण्डो ऽप्रतिकार्यत्वेन प्रचण्डो वेगो यस्य तच् चण्डवेगं, तच्च तद् विषं च, तदेव वीर्यं यस्य स तथा तम् । तेन कालियेन । खलानां लोकोपद्रवकारिणां क्रूराणां संयमनार्थं निग्रहार्थम् अवतारो यस्य स तथा । आस्फोट्य कोमलकरतलयुगलेन बाहुयुगमास्फाल्य । गाढा दृढीकृता रशना काञ्ची येन सः । विषोदे विषविदूषितोदकवति ह्रदे । पुरा काद्रवेयैराशीविषैर्नियुक्तेन सुरलोकात् सुधाकलशमाहरता गरुत्मता आक्रान्तत्वात् स कदम्बो विषवारितरङ्गसङ्गादपि न शुष्क इत्यवसेयम् । यथोक्तं मात्स्ये ‘गृहीत्वाऽमृतपात्रं हि गच्छन् मार्गे क्षुधार्दितः । कदम्बे कलशं न्यस्य यमुनातीरगो विराट् । जहार मत्स्यं नीरस्थं शप्तः सौभरिणा रुषा’ इति ॥ ६ ॥

दुर्घटभावदीपिका

गाढरशन इत्यस्य गाढा दृढा रशना कटिप्रदेशो यस्यासौ गाढरशन इत्यर्थः । दृढया रशनया कटिं बबन्धेति भावः ॥ ६ ॥

सत्यधर्मीया

चण्डः प्रचण्डोऽपरिहार्यो वेगो यस्य तच्च तद्विषवीर्यं यस्य तमवेक्ष्य तेन च दुष्टां नदीं यमुनां चावेक्ष्य । किमार्द्रकवणिजो वहित्रचिन्तयेति पशुपालस्य पथिकस्येयती व्यथेत्यतः कथयति । खलस्य संयमनं येन सः । संयमयतीति संयमनोऽवतारो यस्य स इति कृष्णः । कदम्बं नीपपादपम् । कदम्बमाहुः सिद्धार्थे नीपेऽपि निकुरम्बक इति विश्वः । तन्मात्रस्य विषोर्मिवातघातेऽपि न घातो गरुत्मतो हरतोऽमृतं बिन्दुः पतितः करत इति । यथोक्तं मात्स्ये–

गृहीत्वाऽमृतपात्रं हि गच्छन्मार्गे क्षुधार्दितः ।

कदम्बे कलशं न्यस्य यमुनातीरगो विराट् ।

जहार मत्स्यं नीरस्थं शप्तः सौभरिणा रुषा ॥ इति ।

सर्पराजसचिवमोचितविषभयं काननं तद्विहारार्थं रक्षितमिति वृक्षेऽपि तदुपान्तवर्त्यवर्ततेति वा । यथोक्तं हरिवंशे–

तदिदं दारुणाकारमरण्यं रूढशाद्वलम् ।

रक्षितं सर्पराजस्य सचिवैराप्तकारिभिः ।

वनं निर्विषयाकारं विषान्नमिव दुःस्पृशम् ।

तैराप्तकारिभिर्नित्यं सर्वतः परिरक्षितम् ॥ इत्यादि ।

अधिरुह्य ततस्तस्यातितुङ्गात्प्रदेशाद्गाढरसनो दृढबद्धकाञ्चिर्दृढशब्द इति वा । यथोक्तं हरिवंशे । ‘बद्ध्वा परिकरं दृढम् । ह्रदमध्येऽकरोच्छब्दं निष्पतन्नम्बुजेक्षणः’ इति । रसनं स्वादने ध्वाने रसना काञ्चिजिव्हयोरिति विश्वः । आस्फोट्य भुजेनैकेनापरं भुजं द्वाभ्यां कराभ्यामङ्कद्वन्द्वं वाऽस्फालयित्वा विषोदे हृदे न्यपतदुड्डीनं कृतवान् ॥ ६ ॥

सुमनोरञ्जिनी

तं कालियम् । कीदृशम् । चण्डः क्रूरो वेगो यस्य तच्चण्डवेगम् । तादृशं विषमेव वीर्यं यस्यासौ तथोक्तस् तम् । तेन कालियेन । दुष्टां नदीं चावेक्ष्य । यतः कृष्णः । खलानां दुर्जनानां संयमनार्थं निग्रहार्थम् अवतारो यस्य तादृशः कृष्णः । कदम्बं तन्नामकं वृक्षम् । अधिरुह्य । अतितुङ्गाद् उन्नतात् । ततः वृक्षात् । गाढा दृढं बद्धा रशना कक्ष्या कटिबन्धनवस्त्रं येन सः । आस्फोट्य स्ववामबाहुं दक्षिणकरतलेन सशब्दम् आहत्य । विषोदे विषसंपृक्तजले ॥ ६ ॥

सार्पो ह्रदः पुरुषसारनिपातवेग-

सङ्क्षोभितोरगविषोच्छ्वसिताम्बुराशिः ।

विष्वक् प्लुतो विषकषायविभीषणोर्मि-

भीमो धनुःशतमनन्तबलस्य किं तत् ॥ ७ ॥

पदरत्नावली

सर्पस्य निवासभूतह्रदः सार्पह्रदः । पुरुषसारस्य पुरुषोत्तमस्य निपातवेगेन सङ्क्षोभितस्य सञ्चालितस्योरगस्य विषैरुच्छ्वसित उद्रेचितोऽम्बुराशिर्यस्य ह्रदस्य स तथा । ‘रसः सारो वरः श्रेष्ठः’ इत्युत्पलमाला । विषकषायेण विषक्काथेन विभीषणोर्मिभिर् भयङ्करतरङ्गैर् भीमो भयजनकः । ‘रागे क्वाथे कषायोऽस्त्री निर्यासे सौरभे रसे’ इति यादवः । एवंविधो ह्रदो धनुःशतं तत्प्रमाणस्थलं पर्यक् परितः प्लुत आवृतः । हरेरेतन्न चित्रमित्याह अनन्तबलस्येति ॥ अनन्तं बलं यस्य तथाभूतस्य धनुःशतसलिलोत्प्लावनं किं कियत् । कुतस्तर्हि इतोऽप्यधिकं न प्लावितमिति न चोद्यम् । तत्रत्यसुहृद्बालकबाधो न भवेदिति तावदेवाचरितम् ॥ ७ ॥

सत्यधर्मीया

सर्पस्यायं सार्पो हृदः । पुरुषसारस्य, रसः सारो वर इति गीताभाष्योक्तेः पुरुषोत्तमस्य, निपातस्य यो वेगस्तेन सङ्क्षोभितस्येतस्ततश्चलनवत उरगस्य सर्पस्य गतं यद्विषं तेनोच्छ्वसित उद्रेचितोऽम्बुराशिर्जलजालं यस्मिन्सः । विषकषायेण तत्क्वाथेन विभीषयन्ति जनानिति विभीषणा ऊर्मयस्तैस्ताभिर्वा भीमो भयङ्करः । रागे क्वाथे कषायोऽस्त्री निर्यासे सौरभे रस इति यादवः । कषायोऽपि सुरभौ लोहितेऽन्यवदिति विश्वाद्रसविशेषो वा । धनुःशतं तत्प्रमाणम् । विष्वङ्नद्याः परितः प्लुत आप्लुतः । इदं यदुपतेर्न चित्रमित्याह ॥ अनन्तबलस्य किं तदिति ॥ अनन्तं बलं यस्य तस्य धनुःशतजलोत्प्लावनं किं कियत् । तर्हि बहुदवीयः पदवीं प्रति कुतो नाकारि वारिप्लावनं भगवतेति तु तत्रत्यजनार्दनं स्यादिति जानता जनार्दनेनैतावदेवाकारीति निरस्तम् । अमितादिपदानि बन्धनानन्तपदबन्धनेन नोभयथापि विषविषमतेति द्योतयन्ति । अनन्ते शेषे बलं परिवर्तमानं यस्य स तथा शेषशयनस्य न विषबाधेति नाद्भुतम् । योऽनन्तनामा गरुडस्तदंसक इत्यादेरनन्तो गरुडस्ते वलनं सञ्चरणं यस्य तस्येति नाद्भुतमिति ॥ ७ ॥

सुमनोरञ्जिनी

सार्पः सर्पाश्रयभूतः हृदः । पुरुषसारस्य पुरुषोत्तमस्य निपातवेगेन संक्षोभितश् चलित उरगस्य विषोच्छसितं विषफूत्कारो यस्मिन् तादृशश्च अंबुराशिर्यस्य तथोक्तः । संक्षोभितेत्युरगविशेषणं वा । विषेण कषायै रक्तैर् विभीषणैर् भयजनकैर् ऊर्मिभिस् तरङ्गैर् भीमः भयङ्करः । एतादृशो ह्रदः । धनुःशतपरिमितं देशम् । पर्यक् परितः प्लुतः प्रसृतः । इदं न चित्रमित्याह ॥ अनन्तबलस्य तत् किं, किं चित्रमिति ॥ ७ ॥

तस्मिन् ह्रदे विहरतो भुजदण्डघूर्ण-

वार्घोषमङ्ग वरवारणविक्रमस्य ।

आश्रुत्य तत् स्वसदनाभिभवं ससैन्य-

श्चक्षुःश्रवाः समसरत् तममृष्यमाणः ॥ ८ ॥

पदरत्नावली

अङ्ग हे नृप । वरः श्रेष्ठो वारणो गजस्तस्य विक्रम इव विक्रमो यस्य स तथा तस्य हरेर्भुजदण्डाभ्यां घूर्णाः प्रहता वारः, तेषां घोषमाश्रुत्य स्वसदनस्य स्वनिलयस्य अभिभवस्तिरस्क्रिया येन तममृष्यमाणो ऽसहमानश् चक्षुःश्रवाः सर्पः ससैन्य इतरसरीसृपसहितस् तत् तस्मात् सरसस् तं कृष्णं समसरद् उपससार, संहर्तुमिति शेषः ॥ ८ ॥

सत्यधर्मीया

चक्षुरेव श्रवः श्रवणं यस्य स सर्पस्तस्मिन्हृदे विहरतः क्रीडतः । अङ्ग हे राजन् । वरवारणविक्रमस्य वरः श्रेष्ठो वारणो गजस्तस्य विक्रम इव विक्रमो यस्य तस्य । ओन वरो वारणः पुष्ट इति तस्येति । भुजदण्डाभ्यां घूर्णन्भ्रमन्वारुदकं तस्य घोषम् । स्वसदन-स्याभिभवस्तिरस्क्रिया येन तं ध्वनिं श्रुत्वा ससैन्य इतरसरीसृपयुतोऽमृष्यमाणोऽसहमानस्तत्तस्मात्स-मसरदुपगतः । वरवारणविक्रमस्येत्युक्तिस्त्वितरालक्ष्यतां निमित्तीकृत्येति वा । जलविहारोत्साहो बहुलस्तस्येति वेति ज्ञेयम् ॥ ८ ॥

सुमनोरञ्जिनी

हे ओति परीक्षितः सम्बोधनम् । तस्मिन् ह्रदे विहरतः बाहुभ्यां प्लवतः । वरवारणस्य गजश्रेष्ठस्य विक्रम इव विक्रमो यस्य तस्य श्रीकृष्णस्य । भुजदण्डाभ्यां घूर्णस्य इतस्त-तश्चलितस्य वारः जलस्य घोषं शब्दम् । आश्रुत्य, तेन स्वसदनस्याभिभवं नाशं च आश्रुत्य निरीक्ष्य । चक्षुःश्रवत्त्वेन श्रवणचक्षुषोरेकत्वात् । अथवाऽभिभवम् अमृष्यमाणो ऽसहमानस् तं श्रीकृष्णं समसरद् अभिससार ॥ ८ ॥

तं प्रेक्षणीयसुकुमारघनावदातं श्रीवत्सपीतवसनं स्मितसुन्दरास्यम् ।

क्रीडन्तमप्रतिभयं कमलोदराङ्घ्रिं सन्दश्य मर्मसु रुषा १भुजया चछाद ॥ ९ ॥

पदरत्नावली

प्रेक्षणीयो ऽतिसुन्दरश्चासौ सुकुमारश्चासौ घनवन्मेघवदवदातः श्यामलस्तम् । ‘अवदातोऽरुणे श्यामे पीते श्वेते निरामये’ इति यादवः । श्रीर्वत्से वक्षसि यस्य स चासौ पीतं वसनं यस्य स तथा तम् । ‘वत्सं तु वक्षसि’ इत्यभिधानम् । कमलोदरवद् अङ्घ्रिर्यस्य स तथा तम् । चछाद आवृतवान् । ‘छद अपवारणे’ इति धातुः ॥ ९ ॥

सत्यधर्मीया

प्रेक्षणीयश्चातिसुन्दरश्चासौ सुकुमारश्चासौ घनवन्मेघवदवदातः श्यामस्तम् । अवदातोऽरुणे श्यामे पीते श्वेते निरामय इति यादवः । श्रीर्वत्से वक्षसि यस्य स चासौ पीतं वसनं यस्य स च तम् । उरो वत्सं च वक्षश्च । वत्सं तु वक्षसीत्यमरविश्वौ । स्मितेन सुन्दरमास्यं यस्य स तम् । अप्रतिभयं प्रति प्रतिस्थितप्रतिभटभयशून्यम् । तु विप्रतिं नरमित्यृग्भाष्ये महान्प्रतिस्थश्च तु विप्रतिरीरित इत्युक्तेः । विस्तरस्तु तट्टीकादितोऽनुसन्धेयः । क्रीडन्तं, कमलोदराङ्घ्रिमुदरनाभिश्चाङ्घ्रिः पादश्च तौ कमले इव यस्य तमिति केचित् । कमलोदरवदङ्घ्रिर्यस्य स तं पद्मगर्भारुणेक्षणम् । पद्मोदरसुन्दराभ्यामित्यादेः । मर्मसु सन्दश्य भुजया वाहयेतिवद्भुजाशब्दष्टाबन्तः । भोगेनेति यावत् । चछादापावृणोत् । तं नागभोगेत्युत्तरोक्तिस्वारस्यात्सरसः पाठः । ललितशुलया बाहयेति प्रयोगाद्भुजग इति लेखकगतिः ॥ ९ ॥

सुमनोरञ्जिनी

प्रेक्षणीयः दर्शनीयः सुकुमारश्च, घनवद् अवदातः श्यामश्चेति तथाविधस् तम् । अवदातोऽरुणे पीते श्वेते श्यामे निरामय इत्यभिधानात् । श्रीवत्सपीतवसनम् । पीतं वसनं यस्य सः पीतवसनः । श्रीवत्सयुक्तश्चासौ पीतवसनश्च तम् । स्मितेन मन्दहासेन सुन्दरं मनोहरम् आस्यं यस्यासौ तथोक्तस् तम् । अप्रतिभयं प्रतिवीराद्भयरहितम् । कमलोदरमिव कोमले अङ्घ्री यस्य स तथाविधस् तम् । चछाद आच्छादितवान् ॥ ९ ॥

तं नागभोगपरिवीतमदृष्टचेष्टमालोक्य तत्प्रियसखाः पशुपा भृशार्ताः ।

कृष्णेऽर्पितात्मसुहृदर्थकलत्रकामा दुःखानुशोकभयमूढधियो निपेतुः ॥ १० ॥

पदरत्नावली

नागस्य भोगेन देहेन परिवीतं परिवेष्टितम् । अत एव अदृष्टा अन्यैरलक्षिता चेष्टा यस्य स तथा तम् । दुःखमन्तस्तापस् तदनु शोको बहिरश्रुमोचनादिकं भयं चैतैर्मूढा कर्तव्य-स्फूर्तिरहिता धीर्येषां ते तथा ॥ १० ॥

सत्यधर्मीया

यस्मिन् कृष्णेऽर्पितात्मसुहृदर्थकलत्रकामा अर्पिताः सुहृदो बान्धवा अर्था रायः कलत्रं भार्याः कामोऽपेक्षणीयसर्वविषयो यैस्ते । नागभोगपरिवीतम् । अत्र नागपददृष्ट्या भोगशब्दः शरीरमात्रपरः । सरीसृपशरीरबद्धम् । अदृष्टचेष्टं स्वतः सचेष्टमपीतरादृष्टा चेष्टा यस्य तं विलोक्य । स प्रियो येषां ते च ते सखायश्चेति ते पशुपा गोपा भृशमार्ताः । दुःखं चान्तरङ्गिकं तदनुशोको बहिरश्रुप्रदर्शनं भयं चैतैर्मूढा कर्तव्यास्फूर्तिहेतुर्धीर्येषां ते निपेतुः ॥ १० ॥

सुमनोरञ्जिनी

नागस्य भोगेन देहेन परिवीतं वेष्टितम् । तस्य प्रियाः, स प्रियो येषामिति वा सखायश्च असवयस्काः, प्रेमपात्राः प्रियाः, सवयस्कास् तथाविधाः सखाय इति भेदः । पशुपा गोपाः । कृष्णे अर्पिताः, आत्मदेहः, सुहृदः बन्धवः, अर्थश्च, कलत्रं च तद्रूपाः कामाः, काम्यन्त इति कामा विषया यैस्तथाविधाः कृष्णार्थमेवेदं देहादि । तद्विनात्यर्थमिति मन्वाना इति भावः

॥ १० ॥

गावो वृषा वत्सतर्यः क्रन्दमानाः सुदुःखिताः ।

कृष्णे न्यस्तेक्षणा भीता रुदन्त्य इव तस्थिरे ॥ ११ ॥

पदरत्नावली

वत्सतर्यः गर्भाधानयोग्यवयस्काः ॥ ११ ॥

सत्यधर्मीया

वत्सतर्यो गर्भाधानयोग्यवयस्काः क्रन्दमानाः क्रोशमाना रुदन्त्य इव तस्थिरे । छान्दसमात्मनेपदम् । ईत्याश्चर्यात्मकमव्ययम् । वतस्थिरेऽवतस्थिरे । वष्टि भागुरिरल्लोपम-वाप्योरित्युक्तेरल्लोपे समवप्रविभ्यस्थ इति वाऽऽत्मनेपदता ॥ ११ ॥

सुमनोरञ्जिनी

वत्सतर्यः गर्भाधानयोग्यवयस इति रत्नावल्याम् ॥ ११ ॥

अथ व्रजे महोत्पातास्त्रिविधा ह्यतिदारुणाः ।

उत्पेतुर्दिवि भुव्यात्मन्यासन्नभयशंसिनः ॥ १२ ॥

पदरत्नावली

त्रिविधा इत्युक्तं विव्रियते दिवीत्यादिना । दिवि धूमकेतूल्कापातादयः । भुवि कम्पादिकम् । आत्मनि देहे नेत्रस्फुरणादि । आसन्नं सन्निहितं भयं शंसितुं शीलं येषां ते तथा ॥ १२ ॥

सत्यधर्मीया

व्रजेऽतिदारुणास्त्रिविधा उत्पाता उत्पेतुः । तान्प्रकारानुदीरयति । दिवि सवितरि सुषिरादिदर्शनं भुवि कम्पादिरात्मनि देहे पुंसि वामलोचनादिस्फुरणं वामलोचनानां दक्षिणाक्ष्यादिस्फुरणादीनिति । तत्फलं लपति । आसन्नभयंशसिन आसन्नमतिसमीपसमापतद्यद्भयं तच्छंसितुं शीलं येषामस्तीति ते तथा । अन्ततो गत्वा किंरूपास्त इत्यतोऽप्याह ॥ आसन्निति ॥ अभयशंसिनोऽभयं शंसितुं शीलमेषां ते तथा त आसन् ॥ १२ ॥

सुमनोरञ्जिनी

के ते त्रिविधा इत्यत आह ॥ दिवीत्यादि ॥ उल्कापातादयः । भुवि भूविदारणकम्पादयः । आत्मनि देहे । वामनेत्रस्फुरणादयः । आसन्नभयशंसिनः समीपे भयसूचकाः

॥ १२ ॥

तानालक्ष्य भयोद्विग्ना गोपा नन्दपुरोगमाः ।

विना रामेण गाः कृष्णं ज्ञात्वा चारयितुं गतम् ॥ १३ ॥

पदरत्नावली

तान् उत्पातान् ॥ १३ ॥

सत्यधर्मीया

नन्दपुरोगमा गोपास्तानुत्पातानालक्ष्य दृष्ट्वा भयेनोद्विग्नाः कातराः कृष्णस्य किं भयमायातमित्युद्विग्ना भीता वा । चारयितुं सञ्चारयितुं तृणानि खादयितुं वा ॥ १३ ॥

सुमनोरञ्जिनी

तान् आलक्ष्य । भयोद्विग्नाः सन्तो गोकुलान् निर्जग्मुरित्यन्वयः । भयेन उद्विग्नाः सम्भ्रान्तचित्ताः । तं श्रीकृष्णं, न विदन्ति अप्रतिहतमहिमानं न जानन्तीत्यतद्विदः । तत्प्राणास् तस्मिन्नेव न्यस्तेन्द्रियाः । पशुवृत्तयः । सर्वान् अविशेषेण पश्यतीति पशुः । तद्वद्वृत्ति-र्येषाम् । कृष्णम् इतराविशेषेण मन्यमाना इत्यर्थः । अनेनातद्विद इत्येतद्विवृतं भवति ॥ १३-१५ ॥

तैर्दुर्निमित्तैर्निधनं मत्वा प्राप्तमतद्विदः ।

तत्प्राणास्तन्मनस्काश्च दुःखशोकभयातुराः ॥ १४ ॥

पदरत्नावली

अतद्विदः भगवन्माययैव हरेर्निरतिशयसामर्थ्यानभिज्ञाः । तस्मिन्नेव प्राणा येषां ते ॥ १४ ॥

सत्यधर्मीया

तैस्तैर्दिव्यभौमकायकैः । अतद्विदस्तत्प्रभावाज्ञाः ॥ १४ ॥

आबालवृद्धवनिताः सर्वेऽङ्ग पशुवृत्तयः ।

निर्जग्मुर्गोकुलाद् दीनाः कृष्णदर्शनलालसाः ॥ १५ ॥

पदरत्नावली

पशूनां वृत्तिवद् वृत्तिर्येषां ते तथा । पशवो यथाऽऽपत्काले वत्सरक्षणाय निर्मलवात्सल्यभारभरितास् त्वरयन्ति तथेति यावत् ॥ १५ ॥

सत्यधर्मीया

आबालवृद्धवनिता इति पदे आ अभिव्याप्य । इत्यादयः सर्वे पशुवृत्तयः पशूनां वृत्तिवद्वृत्तिर्येषां ते मुग्धा इति यावत् ॥ १५ ॥

तांस्तथा कातरान् वीक्ष्य भगवान् माधवो बलः ।

प्रहस्य किञ्चिन्नोवाच प्रभावज्ञोऽनुजस्य सः ॥ १६ ॥

पदरत्नावली

माधवः मधुकुलोद्भवः ॥ १६ ॥

सत्यधर्मीया

माधवो मधुकुलजो बलोऽनुजस्य कृष्णस्य प्रभावज्ञो प्रहस्य किञ्चिदपि नोवाच

॥ १६ ॥

सुमनोरञ्जिनी

कातरान् भीतान् । माधवः मधुकुलोद्भवः । बलः बलरामः ॥ १६ ॥

तेऽन्वेषमाणा दयितं कृष्णं सूचितया पदैः ।

भगवल्लक्षणैर्जग्मुः पदव्या यमुनातटम् ॥ १७ ॥

पदरत्नावली

भगवल्लक्षणैर् हरेः पद्मध्वजवज्राङ्कुशाद्यसाधारणलक्षणोपेतैः पदैश् चरणचिह्नैः सूचितया पदव्या मार्गेण अन्वेषमाणा यमुनातटं जग्मुः ॥ १७ ॥

सत्यधर्मीया

भगवन्ति श्रीमन्त्यैश्वर्यवन्तीतरविलक्षणानि लक्षणानि येषां तानि तैः पदैः पादैः । अनेन कृष्णमिति पृथक् सत्त्वात्तल्लक्षणैः पदैरिति वक्तव्यं भगवदित्यतिरिक्तमिति निरस्तम् । भग ऐश्वर्यमाहात्म्यज्ञानवैराग्ययोनिषु । यशोवीर्यप्रयत्नेच्छाश्रीधर्मरविमुक्तिष्विति विश्वः । सूचितया पदव्याऽन्वेषमाणा यमुनातटं जग्मुः ॥ १७ ॥

सुमनोरञ्जिनी

भगवतो हरेर्यानि लक्षणानि ध्वजवज्राङ्कुशपद्मादीनि तानि येषु तैः । पदैर् भुवि न्यस्तचरणाङ्कैः । सूचितया मापितया पदव्या जग्मुः ॥ १७ ॥

ते तत्र तत्राब्जयवाङ्कुशाशनिध्वजोपपन्नानि पदानि विश्पतेः ।

मार्गे गवामन्यपदान्तरान्तरे निरीक्षमाणा ययुरङ्ग सत्वराः ॥ १८ ॥

पदरत्नावली

तच्चैवं प्रपञ्चयति त इति ॥ विश्पतेः प्रजापतेर् अब्जरेखादिभिरुपपन्नानि पदानि । तत्र यवो व्रीहिविशेषः । अशनिर्वज्रम् । ‘शतकोटिः स्वरुः शम्बो दम्भोलिरशनिर्द्वयोः’ इत्यमरः । गवां मार्गे अन्येषां गोपानां पदानामन्तरान्तरे मध्ये मध्ये निरीक्षमाणाः सत्वरास् त्वरायुक्ता ययुः ॥ १८ ॥

सत्यधर्मीया

लक्षणान्येवंरूपाणीति निरूपयति ॥ त इति ॥ अब्जं कमलरेखा यवो व्रीहिरेखा अशनिर्वज्रमङ्कुशरेखा ध्वजेन चोपपन्नानि पदानि । विश्पतेः प्रजास्वामिनः । शब्दसुश्राव्यतायै विश्पतिरिति छान्दसः प्रयोगः । गवां मार्गेऽन्यपदान्तरान्तरेऽन्येषां गोपानां पदान्तरान्तरे तन्मध्यावकाशे निरीक्षमाणाः पश्यन्तः सत्वरा ययुः ॥ १८ ॥

सुमनोरञ्जिनी

अब्जं पद्मरेखा । अशनिर् वज्ररेखा । विश्पतेर् विशां प्रजानां पत्युः श्रीकृष्णस्य । द्वौ विशौ वैश्यमनुजावित्यमरः । पदानि । गवां मार्गे । अनेन रेणुपौष्कल्यं व्यङ्ग्यम् । अन्येषां गोपानां यानि पदान्तराणि ध्वजवज्रादिचिह्नरहितानि पदानि । तेषामन्तरान्तरे मध्ये मध्ये निरीक्ष्यमाणाः । सत्वरास् त्वरया सहिताः ॥ १८ ॥

अन्तर्ह्रदे भुजगभोगपरीतमारात्

कृष्णं निरीहमुपलक्ष्य जलाशयान्ते ।

गोपांश्च मूढधिषणान् परितः पशूंश्च

सङ्क्रन्दतः परमकश्मलमापुरार्ताः ॥ १९ ॥

पदरत्नावली

भुजगभोगपरीतं सरीसृपशरीरपरिवेष्टितम् । जलाशयान्ते ह्रदसमीपे । मूढधिषणान् मूर्च्छितबुद्धीन् । परमकश्मलम् अतिमूर्च्छाम् ॥ १९ ॥

सत्यधर्मीया

हृदे भुजगभोगपरीतं भुजगश्च भोगश्च ताभ्यां बहिरन्तश्च परीतस्तम् । भोगः सुखे धने चाहेः शरीरफणकाययोरिति विश्वः । अन्तर्निभृतसुखम् । जलाशयान्ते ह्रदसमीपे । मूढधिषणान्बुद्धिहीनान्सङ्क्रन्दतो रुदतः स्वयमार्ताः परमकश्मलमापुः ॥ १९ ॥

सुमनोरञ्जिनी

ह्रदे अन्तः । भुजगस्य भोगेन शरीरेण परीतं वेष्टितम् । तेन निरीहं निश्चेष्टम् उपलक्ष्य ज्ञात्वा । जलाशयस्य ह्रदस्य । अन्ते समीपे । मूढधिषणान् मोहयुतबुद्धीन् । तेषां परितः स्थितान् । संक्रन्दतः हंभावं च कुर्वतः पशूंश्च । आलक्ष्य । परमकश्मलम् अतीव मूर्च्छां, मूर्छा तु कश्मलं मोह इत्यमरः ॥ १९ ॥

**गोप्योऽनुरक्तमनसो भगवत्यनन्ते **

तत्सौहृदस्मितविलोकगिरः स्मरन्त्यः ।

**ग्रस्तेऽहिना प्रियतमे भृशदुःखतप्ताः **

शून्यं प्रियव्यतिहृतं ददृशुस्त्रिलोकम् ॥ २० ॥

पदरत्नावली

अनुरक्तं मनो यासां ताः । तस्य कृष्णस्य सौहृदं च स्मितं च विलोकाश्च गिरश्च तत्सौहृदस्मितविलोकगिरः, ताः स्मरन्त्यः । प्रियेण श्रीकृष्णेन व्यतिहृतं विरहितम् ॥२०॥

सत्यधर्मीया

अनुरक्तं मनो यासां ताः । तस्य तत्कर्तृकाः, सौहृदं च स्मितं च विलोकश्च गिरो वचनानि च ताः स्मरन्त्यस्त्रिलोकं प्रियव्यतिहृतं प्रियविरहितं ददृशुः ॥ २० ॥

सुमनोरञ्जिनी

तस्य श्रीकृष्णस्य सौहृदं स्नेहः, स्मितं मन्दहासः, विलोकः कटाक्षवीक्षणं, गिरः भाषणानि च । स्मरंत्यः । प्रियेण श्रीकृष्णेन व्यतिहृतं विरहितं त्रिलोकं त्रैलोक्यं शून्यमेव ददृशुः ॥ २० ॥

ताः कृष्णमातरमपत्यमनुप्रविष्टां

तुल्यव्यथाः समनुगृह्य शुचः स्रवन्त्यः ।

त्रस्ता व्रजप्रियकथाः कथयन्त्य आसन्

कृष्णाननेऽर्पितदृशो १मृतकप्रतीताः ॥ २१ ॥

पदरत्नावली

अपत्यं पुत्रमनूद्दिश्य प्रविष्टं प्रवेष्टुमुद्युक्तां कृष्णमातरं समनुगृह्य परिरभ्य, तुल्यव्यथा यशोदादुःखतुल्यव्यथाः शुचः शोकादश्रूणि स्रवन्त्यः । बाष्पधारया सरितं कुर्वन्त्य इति यावत् । याः पूर्वं व्रजप्रियस्य श्रीकृष्णस्य कथाः कथयन्त्य आसन् ता अधुना त्रस्ताः कृष्णननेऽर्पिता तदेकविषया दृशो यासां ता मृतकप्रतीका मृतसदृशा आसन् ॥ २१ ॥

सत्यधर्मीया

अपत्यमनुप्रविष्टां ह्रदं प्रवेष्टुकामां कृष्णमातरं समनुगृह्य परिरभ्य स्थापयित्वा तुल्यव्यथास्तद्यशोदासमानखेदाः शुचो निमित्ताच्छ्रवन्त्यः श्रावयन्त्यो बिन्दूंस्त्रस्ता अन्याः प्रति । व्रजप्रियकथा व्रजे कृताः प्रियस्य कृष्णस्य कथाः । एवं बहव उपद्रवा जाताश्चेदपि न पोतघात इदानीमप्येवमिति चिन्ता कुत इति तत्कथाः कथयन्त्यः । अथवा प्राग्या एतादृश्यस्ता इदानीं मृतकप्रतीताः शववन्निश्चेष्टा ज्ञाताः । लोकेन लोकेशेन वा । प्रतीका इति पाठे शवसदृशा इत्यर्थः । कृष्णानने तन्मुखेऽर्पितास्तदेकविषया दृशो यासां ता आसन् । कृष्णस्याननं चेष्टां तद्विषयेऽर्पितदृश इति वा । हे कृष्णेति मातरं मा न विद्यत आतरस्तरपण्यं यस्य स तदपत्यमन्विति वा तरणोपकरणविरहितमित्यर्थः । आतरस्तरपण्यं स्यादित्यमरः ॥ २१ ॥

सुमनोरञ्जिनी

ता गोप्यः । अपत्यम् । मनसाऽनुप्रविष्टां तदेकमनस्कामिति यावत् । यद्वा अपत्यम् अनु अनुसृत्य प्रविष्टां जले प्रविष्टामित्यर्थः । कृष्णमातरं यशोदां समनुगृह्य कराभ्यां परिरभ्य । तस्या व्यथया तुल्या व्यथा यासां ताः । शुचः शोकात् । स्रवन्त्यो ऽश्रूणि मुञ्चन्त्यः । शुचः शोकाश्रूणीति वा । व्रजप्रियस्य कृष्णस्य याः कथास् ताः कथयंत्य एव मृतकप्रतीका आसन् । तूष्णीमासन्नित्यर्थः । अनेन शोकातिशयो व्यङ्ग्यः ॥ २१ ॥

कृष्णप्राणान् निर्विशतो नन्दादीन् वीक्ष्य तं ह्रदम् ।

प्रत्यषेधत् स भगवान् रामः कृष्णानुभाववित् ॥ २२ ॥

पदरत्नावली

कृष्ण एव प्राणो येषां ते तथा तान् । ह्रदं निर्विशतः प्रवेष्टुमुद्युक्तान् । कृष्णस्य अनुभावं प्रभावं वेत्तीति कृष्णानुभाववित् ॥ २२ ॥

सत्यधर्मीया

कृष्णानुभावविद्भगवान्स रामः, कृष्णः प्राणो येषां ते तथा तान्नन्दादीन् ह्रदं निर्विशतः प्रवेष्टुकामान्प्रत्यषेधन्निषिषेध ॥ २२ ॥

सुमनोरञ्जिनी

कृष्णे प्राणा येषाम् । कृष्ण एव प्राणो येषामिति वा । निर्विशतः प्रवेष्टु-मुद्युक्तान् । कृष्णस्यानुभावं वेत्तीति तथाविधो रामः प्रत्यषेधत् ॥ २२ ॥

इत्थं स्वगोकुलमनन्यगतिं निरीक्ष्य

सस्त्रीकुमारमतिदुःखितमात्महेतोः ।

**आज्ञाय मर्त्यपदवीमनुवर्तमानः **

स्थित्वा मुहूर्तमुदतिष्ठदुरङ्गबन्धात् ॥ २३ ॥

पदरत्नावली

आज्ञाय ज्ञात्वा । उरङ्गबन्धात् सर्पकृतबन्धादुदतिष्ठद् उत्थितोऽभूत् ॥२३॥

सत्यधर्मीया

इत्थं स्वगोकुलं तज्जनं सस्त्रीकुमारमात्महेतोः स्वनिमित्तमतिदुःखितमाज्ञाय ज्ञात्वा पुच्छं वामकरेण धृत्वेति शेषः । यथोक्तं रुक्मिणीशविजये–

स दन्दशूकस्य मुखं विभिन्दंस्तदीयपुच्छं जगृहे करेण ।

यथापराधं ननु दण्डदाता निरागसं कं वरयेन्न शौरिः ॥

इति । स्वस्वामिनो याच्नां कृत्वा मोचनं कार्यमित्यत आह । इत्थं स्वमनन्यगतिं गत्यन्तरशून्यं स्वात्मानमेव सर्वगतिं निरीक्ष्य च मर्त्यपदवीमनुवर्तमानो मुहूर्तं स्थित्वोरङ्गबन्धादुरगबन्धात् । नुमागमो बिन्दुर्वा इतराशक्यपरिहारताद्योतको बन्धस्येति ज्ञेयः । उदतिष्ठत् । एवमाज्ञाय निरीक्ष्येति पदयोरन्वयेऽश्लिष्टता । अन्यथाऽन्यतरवैय्यर्थ्यमिवानन्यगतीति भाव्यं कथमनन्यगतिमिति च निरस्तम् । गवां कुलानि गोकुलो गोकुलश्च तमिति वा । अनुबन्धो हि भक्तिः स्याद्बन्धः स्नेह उदाहृत इति वचनादुरङ्गात्मनो बलरामस्नेहं निमित्तीकृत्योरङ्गबन्धादुदतिष्ठदिति वा । यथोक्तं हरिवंशे–

सङ्कर्षणस्तु सङ्क्रु द्धो बभाषे कृष्णमव्ययम् ।

कृष्ण कृष्ण महाबाहो गोपानां नन्दवर्धन ।

दम्यतामेष वै क्षिप्रं सर्पराजो विषायुधः ।

इमे नो बान्धवास्तात त्वां मत्वा मानुषं विभो ।

परिदेवन्ति करुणं सर्वे मानुषबुद्धयः ।

तच्छ्रुत्वा रौहिणेयस्य वाक्यं तत्स्नेहयन्त्रितः ।

विक्रुश्यास्फोटयद्बाहू ….. इत्यादि ॥ २३ ॥

सुमनोरञ्जिनी

अनन्यगतिं स्वमन्तराऽन्यगतिशून्यम् । निरीक्ष्य । तत्रापि आत्महेतोः स्वनिमित्तम् । इत्थम् अतिदुःखितम् । आज्ञाय, मर्त्यानां पदवीं रीतिम् । अनुवर्तमानो ऽनुरुन्धानः । मुहूर्तं स्थित्वा उरङ्गबन्धात् सर्पबन्धात् । उदतिष्ठद् उत्थितः ॥ २३ ॥

तत्प्रथ्यमानवपुषा व्यथितात्मभोग-

स्त्यक्त्वोन्नमय्य कुपितः स्वफणान् भुजङ्गः ।

तस्थौ श्वसन् श्वसनरन्ध्रविषाम्बरीष-

स्तब्धेक्षणोल्मुकमुखो हरिमीक्षमाणः ॥ २४ ॥

पदरत्नावली

कृष्णे उत्थिते सति कृष्णसर्पः किंक्रियोऽभूदित्यत्राह तत्प्रथ्यमानेति ॥ तेन कृष्णेन प्रथ्यमानवपुषा वर्ध्यमानशरीरेण व्यथितः पीडायुक्त आत्मभोगः स्वशरीरं यस्य स तथा । हरिं त्यक्त्वा उत्सृज्य । श्वसनानां नासिकानां रन्ध्रेषु विषं ज्वलद्गरलमेव अम्बरीषं भ्राष्ट्रं लाजभर्जनभाण्डं यस्य सः श्वसनरन्ध्रविषाम्बरीषः, स्तब्धानि ईक्षणानि यस्य सः, उल्मुकयुक्तानि मुखानि यस्य सः, श्वसनरन्ध्रविषाम्बरीषश्चासौ स्तब्धेक्षणश्च, स चासौ उल्मुखमुखश्च । ‘क्लीबेऽम्बरीषं भ्राष्ट्रो ना कन्दुर्ना स्वेदिनी स्त्रियाम्’ इत्यमरः । ‘अङ्गारोऽलातमुल्मुकम्’ इत्यमरः । ईक्षमाणः श्वसन् तस्थौ ॥ २४ ॥

सत्यधर्मीया

तस्य कृष्णस्य तेन वा प्रथ्यमानं विपुलीभवद्वपुः कलेवरं तेन । व्यथितो व्यथायुक्त आत्मनः स्वस्य भोगो यस्य सः । हरिं त्यक्त्वोत्सृज्य स्वफणानुन्नमय्योद्धृत्य भुजङ्गः कुपितः श्वसन्श्वसनरन्ध्रयोर्नासिकयोर्विषमेवाम्बरीषं भ्राष्ट्रं लाजभर्जनभाण्डं यस्य कालिम्ना साम्यं स्तब्धानीक्षिणानि यस्य चासौ, उल्मुकानीवास्पृश्यानि आस्यानि मुखानि यस्य सः । अम्बरीषं भवेद्भ्राष्ट्र इति विश्वः । क्लीबेऽम्बरीषं भ्राष्ट्रो ना । अङ्गारेऽलात उल्मुक इत्युभयतश्चामरः । ईक्षमाणः श्वसंस्तस्थौ ॥ २४ ॥

सुमनोरञ्जिनी

तस्य कृष्णस्य, तेन कृष्णेन वा प्रथ्यमानं विस्तीर्यमाणं यद्वपुस्तेन । स चासौ प्रथ्यमानवपुश्च तेनेति वा । व्यथित आत्मनो भोगः शरीरं यस्यासौ तादृशः । त्यक्त्वा श्रीकृष्णं परित्यज्य । कुपितः स्वफणान् उन्नमय्य । श्वसनरंध्रेषु वायुसंचारयुक्तरंध्रेषु मुखनासिका-दिच्छिद्रेषु विषं यस्य, अम्बरीषमिव भ्राष्ट इव स्तब्धे अनिमिषे ईक्षणे यस्य, उल्मुकानि अङ्गाराणि मुखे यस्य स तथा । मुखादङ्गाराणि विसृजन्तमित्यर्थः । अम्बरीषः पुमान्भ्राष्ट्रमित्यभिधानम् । भ्राष्ट्रः भर्जनपात्रम् । अङ्गारेऽलात उल्मुकमित्यमरः । क्लीबेऽम्बरीषं भ्राष्टो नेत्यमरश्च ॥ २४ ॥

तं जिह्वया द्विशिखया परिलेलिहानं

द्वे सृक्विणी ह्यतिकरालविषाग्निदृष्टिम् ।

क्रीडन्नमुं परिससार यथा खगेन्द्रो

बभ्राम सोऽप्यपसरन्१ प्रसमीक्षमाणः ॥ २५ ॥

पदरत्नावली

द्वे शिखे अग्रभागौ यस्याः सा तया जिह्वया । प्रातिस्विकमेकैकमुखजिह्वयेति ज्ञेयम् । द्वे सृक्विणी ओष्ठप्रान्तभागौ । ‘सृक्वि स्यादोष्ठपर्यन्तः’ इत्यभिधानम् । तममुं कालियं क्रीडन्नेव परिससार परितश्चचार । तत्र दृष्टान्तमाह यथेति । सः कालीयोऽपि अपसरन् तिर्यग्गच्छन् प्रसमीक्षमाणः सन् बभ्राम अष्टदिशं परिवर्तमानोऽभूत् ॥ २५ ॥

सत्यधर्मीया

तं, यथा खगेन्द्रो गरुडस्तथा जिह्वया द्विशिखया द्वे शिखे अग्रभागौ यस्याः सा तथा प्रातिस्विकमेकैकमुखशिखया । द्वे सृक्किणी ओष्ठान्तःपुटयोर्लेलिहानमास्वादयन्तमतिकरालो यो विषाग्निस्तद्युक्तनेत्रममुं क्रीडन्नेव परिससार । सोऽप्यपसरन्पश्चाद्गच्छन्प्रसमीक्षमाणः सन् बभ्राम चचार ॥ २५ ॥

सुमनोरञ्जिनी

द्वे शिखे प्रान्तभागौ यस्याः सा तया । जिह्वया । सृक्विणी ओष्ठप्रान्तभागौ । प्रान्तावोष्टस्य सृक्विणी इत्यमरः । परिलेलिहानम् । अतिकरालविषाख्याग्निर्दृष्टिषु यस्य तम् । अमुं सर्पम् । परिससार परितश्चचार । सोऽपि सर्पोऽपि । अपसरन् तिर्यग्गच्छन् । परितो बभ्राम । अवसरं प्रसमीक्ष्यमाण इति पाठे अवसरम् अवकाशमित्यर्थः ॥ २५ ॥

एवं परिभ्रमहतौजसमुन्नतांसमानम्य तत्पृथुशिरस्यधिरूढ आद्यः ।

तन्मूर्धरत्ननिकरस्पर्शातिताम्रपादाम्बुजोऽ१मृतकलाधिगुरुर्ननर्त ॥ २६ ॥

पदरत्नावली

परिभ्रमेण परिवर्तनेन हतं क्षीणमोजो बलं यस्य स तथा तम् । उन्नता अंसाः स्कन्धा यस्य स तथा तम् । आनम्य आनमय्य, प्रह्वीकृत्येत्यर्थः । आद्यः पुराणपुरुषः । यद्वा यः पूर्वं भुजगेन भक्ष्यत्वेन कृतः स अधिरूढ इति । अमृतकालश् चन्द्र एवाधिरधिको मूलपुरुषः यस्य तस्य वंशस्य गुरुः । अमृतकलानाम् अमृतकिरणचन्द्रवृन्दानामधिरधिको गुरुः स्वामीति च । अतितीक्ष्णविषनाशने ओषधीशवृन्देभ्योऽप्यतिशयेनेश इति यावत् ॥ २६ ॥

सत्यधर्मीया

एवं परिभ्रमेण परितः परिवर्तनेन हतमोजो यस्य सः । उन्नता अंसाः स्कन्धा यस्य तमानम्यानमय्य शिरस्यधिरूढ आद्यः पुराणपुरुष आद्यः प्राक्तेन भक्ष्यत्वेन कृतः सोऽप्यधिरूढ इति वा । अदधातोर्ऋहलोर्ण्यदिति ण्यत्प्रत्ययः । तस्य मूर्धसु विद्यमानानां रत्नानां निकरस्तत्स्पर्शेनातिताम्रं पादाम्बुजं यस्य सः । अमृतकलाधिगुरुरमृतकलो ह्यमृतकिरणः सोमः स एवादिगुरुर्मूलपुरुषो यस्य सः । अमृतकला अधिरधिको यस्य तस्य वंशस्य गुरुरिति वा । अखिलकलाधिगुरुरिति पाठे सकलकलास्वामीत्यर्थः । पक्षद्वन्द्वेऽपि न विषयविषमताऽस्येति ध्वन्यते । ननर्त ॥ २६ ॥

सुमनोरञ्जिनी

एवं परितो भ्रमणेन हतम् ओजः सामर्थ्यं यस्य तम् । उन्नतौ अंसौ यस्य तम् । आनम्य नम्रीकृत्वा । तस्य सर्पस्य पृथुशिरसि विस्तृते मूर्धनि । अधिरूढः सन् । तस्य मूर्धसु विद्यमानो यो रत्ननिकरस् तस्य स्पर्शेन अतिताम्रं पादाम्बुजं यस्य सः । ननर्त । ननु एतस्य विषाग्निना पार्श्वस्थाः कथं न दग्धा इत्यत उक्तम् ॥ अमृतकलस्य चन्द्रस्य अधिगुरुरिति ॥ चन्द्रापेक्षयाऽधिकशीतलकृपावलोकनेन न दग्धा इति ध्वनितम् । अखिलकलाधिगुरुरिति पाठे तु नर्तनकौशलं सूचितं भवति ॥ २६ ॥

तं नर्तुमुद्यतमवेक्ष्य तदा तदीयगन्धर्वसिद्धसुरचारणदेववध्वः ।

प्रीत्या मृदङ्गपणवानकवाद्यगीतपुष्पोपहारनुतिभिः सहसोपसेदुः ॥ २७ ॥

पदरत्नावली

उपसेदुर् उपस्थिताः ॥ २७ ॥

सत्यधर्मीया

नर्तुं नर्तितुमुद्यन्तं तं कृष्णमवेक्ष्य । तदीयास्तद्भक्ताश्च गन्धर्वसिद्ध-मुनिचारण-देववध्वः प्रीत्या मृदङ्गपणवानकवाद्यगीतपुष्पोपहारनुतिभिः सहसोपसेदुर् उपस्थिताः सहस उपसेदुरिति पदद्वयं हे सहस एवं विपर्यासेऽपि हाससहितेत्युपसेदुरिति वा ॥ २७ ॥

सुमनोरञ्जिनी

ननु नर्तनाङ्गमृदङ्गतालोपगीताद्यभावे नर्तनं कथं शोभत इत्यत आह ॥ तमिति ॥ तं श्रीकृष्णम् । नर्तुं नर्तनं कर्तुम् उद्यतम् । तदीयाः श्रीकृष्णे भक्तिमत्यः गन्धर्वादीनां वध्वः । मृदङ्गादिभिर् उपसेदुर् उपस्थिताः । तत्र गन्धर्वादिस्त्रियो मृदङ्गादिभिः । मुन्यादिस्त्रियस्तु पुष्पोपहारनुतिभिरिति विवेकः ॥ २७ ॥

यद्यच्छिरो न नमते गरकालशीर्ष्ण-

स्तत्तन्ममर्द खलदण्डधरोऽङ्घ्रिपातैः ।

क्षीणे बले भगवतोल्बणमाशु वक्त्राद्

रक्तं वमन् परमकश्मलमाप नागः ॥ २८ ॥

पदरत्नावली

गरेण विषेण कालानि नीलानि शीर्षाणि यस्य सस् तस्य । उल्बणं प्रचुरं रक्तम् । ‘मूर्च्छा तु कश्मलं मोहः’ इत्यमरः ॥ २८ ॥

सत्यधर्मीया

गरेण कालानि श्यामानि शीर्षाणि यस्य तस्य यद्यच्६िछरो न नमते न नमति तत्तद्दण्डधरोऽङ्घ्रिपातैः पादकुट्टनैममर्द । एवं भगवता बले क्षीणे सति वक्त्रान्मुखेभ्य आशूल्बणं रक्तं वमन्परमकश्मलं मूर्छां नाग आप । मूर्छा तु कश्मलं मोह इत्यमरः । परमकश्मलं नागः किं, न प्राप्तोऽसि किमिति ममर्द ॥ २८ ॥

सुमनोरञ्जिनी

गरेण विषेण कालशीर्ष्णः नीलशिरसः नागस्य यद्यच्छिरो न नमते न प्रह्वीभवति तत्तच्छिरो ऽङ्घ्रिपातैर् ममर्द । कुतः । यस्मादयं खलेभ्यो दण्डधरः । खलानां शिक्षणार्थ-मेवावतीर्ण इति भावः । भगवता श्रीकृष्णेन निमित्तेन । बले क्षीणे सति । उल्बणं रक्तं वमन् । परमकश्मलं मोहमापेति सम्बन्धः ॥ २८ ॥

तस्याक्षिभिर्गरलमुद्वमतः शिरस्सु

यद्यत् समुन्नमति निःश्वसतो रुषोच्चैः ।

नृत्यन् पदाऽनुनमयन् १स यदा बभूव

पुष्पैः स्तुतोऽथ भगवान् पुरुषः पुराणः ॥ २९ ॥

पदरत्नावली

शिरस्सु मध्ये यद्यच्छिरः समुन्नमति उद्धृतं बभूव तत्तच्छिरः पदाऽनुनमयन् प्रह्वीकुर्वन् नृत्यन् यदा बभूव तदा पुष्पैस् तद्वर्षणपुरःसरं स्तुतो बभूव ॥ २९ ॥

दुर्घटभावदीपिका

पुष्पैः स्तुतोऽथ भगवान् पुरुषः पुराण इत्यस्य पुरुषः पुराणो भगवान्देवादिभिः पुष्पैर्वृष्टः । अथशब्दः समुच्चये । स्तुतश्चेत्यर्थः । एतेन पुष्पैः स्तुत इत्यनुपपन्नमिति दूषणं परिहृतम् । देवादिभिर्वृष्ट इत्यनयोः शेषमङ्गीकृत्य देवादिभिः पुष्पैर्वृष्टः, स्तुत इत्यर्थस्योक्तत्वात्

॥ २९ ॥

सत्यधर्मीया

अक्षिभिर्नयनैर्गरलमुद्वमतो रुषा चोच्चैरुच्छ्वसतः । शिरस्सु मध्ये यद्यत्स-मुन्नमति प्रव्हं भवति नृत्यंश्च पदाऽनुनमयन् पुनर्नम्रं कुर्वन्नृत्यन्यदा बभूव तदा पुष्पैस्तद्वर्षणपुरःसरं स्तुतो बभूव । दमयाम्बभूवेत्यपि पठन्ति । तत्र पदद्वयम् । नियतश्चानुप्रयोगः । पुष्पैः सुपूजित इवेह पुमान्पुराण इति केचित्पठन्ति । स्फुटार्थः पाठः ॥ २९ ॥

सुमनोरञ्जिनी

अक्षिभिर्गरलं विषम् । उद्वमतः विसृजतः । रुषा उच्चैर् निःश्वसतः फूत्कारं कुर्वतः । तस्य नागस्य । शिरस्सु मध्ये । यद्यत्समुन्नमति स्तब्धतया तिष्ठति तत्तच्छिर अनुनमयन् सन् । नृत्यन् नर्तनकर्ता यदा बभूव तदा देवैः पुष्पैर् वृष्टः स्तुतश्चेति ॥ २९ ॥

तच्चित्रताण्डवविरुग्णफणातपत्रो रक्तं मुखैरुरु वमन् नृप भग्नगात्रः ।

स्मृत्वा चराचरगुरुं पुरुषं पुराणं नारायणं तमरणं मनसा जगाम ॥ ३० ॥

पदरत्नावली

तस्य कृष्णस्य चित्रं यत् ताण्डवं तेन विरुग्णं भग्नं फणारूपमातपत्रं यस्य सः । अरणं शरणम् ॥ ३० ॥

सत्यधर्मीया

तस्य श्रीकृष्णस्य चित्रं यत्ताण्डवम् ।

अनीनदत्पद्मभवो मृदङ्गं जगौ हनूमाञ्जगतामधीशम् ।

अदर्शयत्तालगतीः कपर्दी ननर्त गोपालकबालमौलिः ॥

इत्यादेश्चित्रता ताण्डवस्य । तेन विरुग्णं भग्नं फणारूपं फणरूपं वाऽऽतपत्रं यस्य सः । मुखैरुरु यथा रक्तं वमन् । भग्नमितरद्गात्रं यस्य सः । चराचरगुरुं पुराणं पुरुषं नारायणं स्मृत्वा स एवायमिति सञ्चिन्त्य मनसाऽरणं शरणं दंशनादिरणाभावं च जगाम ॥ ३० ॥

सुमनोरञ्जिनी

तस्य श्रीकृष्णस्य चित्रं नानाजातीयम् । चित्रं चेतनानां रमणं रञ्जकं वा । चिच्छब्दोपपदाद्रमतेः रञ्जतेर्वा डः । ताण्डवं नर्तनम् । तेन विरुग्णं भग्नं फणातपत्रं फणालक्षणम् आतपत्रं छत्रमेव यस्य सः । उरु पूर्वापेक्षया उत्कृष्टं रक्तम् । वमन् । तं श्रीकृष्णम् । नारायणं स्मृत्वा प्रत्यभिज्ञाय मनसा अरणं शरणं जगामेति ॥ ३० ॥

कृष्णस्य गर्भजगतोऽतिभरावसन्नपार्ष्णिप्रहारपरिरुग्णफणातपत्रम् ।

दृष्ट्वाऽहिराजमुपसेदुरमुष्य पत्न्य आर्ताः श्लथद्वसनभूषणकेशबन्धाः ॥ ३१ ॥

पदरत्नावली

गर्भे जठरे जगद् यस्य स गर्भजगत् तस्य कृष्णस्य अतिभरेण अवसन्नाः पीडिताः, पार्ष्णेः पादपृष्ठभागस्य प्रहारैः परि परितो रुग्णा भग्नाश्च ताः फणाश्च पार्ष्णिप्रहार-परिरुग्णफणाः, अतिभरावसन्नाश्च ताः पार्ष्णिप्रहारपरिरुग्णफणाश्च अतिभरावसन्नपार्ष्णिप्रहारपरिरुग्ण-फणाः, ता एवातपत्राणि यस्य स तथा तम् । श्लथन्तो विस्रंसमाना वसनादयो यासां ताः

॥ ३१ ॥

सत्यधर्मीया

गर्भ उदरमध्ये जगद्यस्य तस्य योऽतिभरस्तेनावसन्नं कृशं पार्ष्णेः पादपृष्ठ-भागस्य प्रहारैस्ताडनैः परिरुग्णं भग्नं फणातपत्रं यस्य तमहिराजं दृष्ट्वाऽमुष्य पत्न्यः श्लथद्वसन-भूषणकेशबन्धाः सत्य आर्ता उपसेदुः ॥ ३१ ॥

सुमनोरञ्जिनी

गर्भे जगद् यस्य तस्य कृष्णस्य अतिभरेणैव अवसन्नः पीडितः । तत्रापि पार्ष्णिर्गुल्फाधोभागस्तेन यः प्रहारस्तस्मात् परिरुग्णं फणातपत्रं यस्य तम् । पुमान्पार्ष्णिस्तयोरध इत्यमरः । एवंविधमहिराजं दृष्ट्वा । अमुष्य पत्न्य उपसेदुस् तत्समीपं प्राप्ताः । कीदृश्यः । श्लथद्वसनभूषणकेशबन्धा विस्रंस्यमाना वस्त्रालङ्कारवेण्यो यासां ताः । उद्विग्नानां स्वभावोक्तिरियम्

॥ ३१ ॥

तं ता विपन्नमनसोऽथ पुरस्कृतार्हाः

कायं निधाय भुवि भूतपतिं प्रणेमुः ।

साध्व्यः कृताञ्जलिपुटाः परमस्य भर्तु-

र्मोक्षेच्छवः शरणदं शरणं प्रपन्नाः ॥ ३२ ॥

पदरत्नावली

पुरस्कृतोऽर्होऽर्हणसाधनं याभिस्ताः । भुवि जलस्थाने दण्डवत् कायं निधाय भूतानां सर्वप्राणिनां पतिं प्रणेमुः । परमस्य स्वोत्तमस्य भर्तुः कालियस्य मोक्षेच्छव मोक्षे मोक्षणे इच्छा यासां तास्तथा ॥ ३२ ॥

दुर्घटभावदीपिका

कायं निधाय भुवि भूतपतिं प्रणेमुरित्यस्य जले दण्डवत्कायं निधाय दुष्टनिग्रहार्थं भुव्यवतीर्णं भूतपतिं भूतानां ब्रह्मादीनां पतिं प्रणेमुरित्यर्थः । एतेन नागपत्नीनां जले विद्यमानत्वाद्भुवि कायं निधाय प्रणेमुरिति वचनमनुपपन्नमिति दूषणमपास्तम् । दुष्टनिग्रहार्थ-मवतीर्णमित्यनयोः पदयोः शेषमङ्गीकृत्य भूतपतिरत्र कुत आगत इत्याशङ्कापरिहारार्थं दुष्टनिग्रहार्थं कृष्णो भुव्यवतीर्ण इत्युच्यत इत्यभ्युपगमात् ॥ ३२ ॥

सत्यधर्मीया

विपन्नमनसो नम्रचित्ताः पुरस्कृतोऽर्होऽर्हणसाधनं याभिस्ताः खिन्नमानसा वा । भुवि तीरभूमौ जलादिस्थानमात्रे वा कायं निधाय दण्डवत्, कायं निधायेत्यनेन विना न कायजबाधाबाध इति वध्वो ध्वनयामासुरिति तच्चातुर्यं महदिति ज्ञेयम् । भूतपतिं जगद्राजं कृताञ्जलि-पुटाः परमस्य स्वोत्तमस्य भर्तुः कालियस्य मोक्षेच्छवो मोक्षमिच्छन्तीति तास्तथा । नलोकेति निषेधान्न षष्ठी । स्वपतिमोचनमिच्छन्त्यः । परमस्य सकाशात्पत्युर्मोक्षेच्छव इति व्याख्याने भूतपति-मिति किञ्चिद्दुश्चित्तं भवतीति वदन्ति । शरणदं शरणं प्रपन्नाः प्रणेमुर्नेमुः । भुवि शरणदमिति वाऽन्वयः ॥ ३२ ॥

सुमनोरञ्जिनी

साध्व्यः पतिव्रताः । परमस्य सकाशात् । स्वभर्तुर् मोक्षं मोचनमिच्छन्त्यः । कृताञ्जलिपुटाः सत्यः शरणं प्रपन्नाः । अथ पुरस्कृतानि अर्हाणि पूजासाधनानि याभिस्ताः । भुवि कायं निधाय प्रणेमुः साष्टाङ्गं प्रणेमुरित्यर्थः ॥ ३२ ॥

नागपत्न्य ऊचुः–

न्याय्यो हि दण्डः कृतकिल्बिषेऽस्मिन् तवावतारः खलनिग्रहाय ।

रिपोः सुतानामपि तुल्यदृष्टेर् धत्से दमं फलमेवानुशंस्यम् ॥ ३३ ॥

पदरत्नावली

दण्डः शासनं न्याय्यो न्यायप्राप्तः । रिपोः सुतानामिति षष्ठी सप्तम्यर्थे । रिपौ सुतेष्वपि तुल्यदृष्टेः । अनुशंस्यमानम् अपराधानुगुणतया वर्णनीयं फलं तद्रूपं दममनुग्रहं धत्से करोषि ॥ ३३ ॥

सत्यधर्मीया

कृतकिल्बिषेऽस्मिन्विषधरे दण्डः शिक्षा न्याय्यो न्यायादनपेतो न्यायप्राप्त इति यावत् । रिपोर्वैरिवारे सुतानां पुत्रेष्वपि तुल्या समा तत्तद्योग्यतानुसारिणी दृष्टिर्यस्य तस्य तवावतारः खलनिग्रहायैव । अनुशास्यमानोऽनुगुणतया वर्णनीयं फलं तद्रूपं दममनुग्रहं धत्से धरसि करोषीति यावत् ॥ ३३ ॥

सुमनोरञ्जिनी

अस्मिन्सर्पे यो दण्डः निग्रहलक्षणः सः न्याय्यः युक्तः । ननु अनपराधिनि कथं दण्डो युक्त इत्यत आह ॥ कृतेति ॥ कृतं किल्बिषम् अपराधो येन तस्मिन् । कृतकिल्बिषेऽपि कुतो निग्रह इत्यत उक्तम् ॥ तवावतारः खलानां निग्रहाय निग्रहार्थमेव भवतीति । नैतावता त्वयि निग्रहानुग्रहलक्षणं वैषम्यं मन्तव्यमित्याह ॥ तुल्यदृष्टेरिति ॥ तुल्या अपराधाद्यनुसारिणी दृष्टिर्यस्य स तथा तस्य । यद्वा तुल्यदृष्टेरिति पञ्चमी तृतीयार्थे । तुल्यदृष्ट्या अपराधानुसारिदृष्ट्या रिपोः सुतानामपि यद्दमं दण्डं धत्से तत् फलम् अनुग्रहरूपमेवेत्यनुशंसनीयं प्रशंसनीयं न तु निग्रहरूपं मन्तव्यम् ॥ ३३ ॥

अनुग्रहोऽयं भवता कृतो हि नो दण्डोऽसतां ते खलु कल्मषापहः ।

यद् दन्दशूकत्वममुष्य देहिनः क्रोधोऽपि तेऽनुग्रह एव सम्मतः ॥ ३४ ॥

तात्पर्यम्

‘दण्डोऽपि भगवच्चीर्णो ममैषोऽनुग्रहः १स्मृतः । इति भक्त्या चिन्तयतां शुभकारी भवत्यलम् । तत्रापि कुर्वतां द्वेषं तमःप्राप्त्यै तथा भवेदि’ति च ॥ ३४ ॥

पदरत्नावली

ननु निग्रहः कृतोऽयमनुग्रहः कथमित्यतो निग्रहस्यानुग्रहरूपतामेवाह अनुग्रह इति । हिरवधारणे । भवता कृतोऽयं दण्डो नोऽस्माकमनुग्रह एव । ते त्वया क्रियमाणो दण्डोऽसता-मौपाधिकासाधुभावानां कल्मषापहः खलु पापपरिहारक एव । यद् यस्मात् कल्मषाद् अमुष्य देहिनः कालीयस्य दन्दशूकत्वं प्राणिगणदंशनयोनित्वं तस्मादयमसन् । अत एतन्नीचजन्मापादकपाप-मोचकत्वात् क्रोधोऽपि तेऽनुग्रह एवेति नः सम्मतः । महाकौर्मवचनमुक्तार्थे मानम् ‘दण्डोऽपि भगवच्चीर्णो ममैषोऽनुग्रहः कृतः । इति भक्त्या चिन्तयतां शुभकारी भवत्यलम् । तत्रापि कुर्वतां द्वेषं तमःप्राप्त्यै तथा भवेत्’ इति ॥ ३४ ॥

सत्यधर्मीया

अनुग्रहोऽयं भवता कृत इति श्लोके केशवकृतदमनमात्रस्य पात्राधिकारि-मात्रपापनाशकता प्रतीयते । तथा चेज्जरासन्धादिदुर्जनैर्नो नाशकतापन्ना । सा च मानदूनेत्यतो मानतस्तदभिप्रायमाह ॥ दण्डोऽपीति ॥ एष भगवच्चीर्णो दण्डो ममोपर्यनुग्रहः कृत इति चिन्तयताम् । तदपि न साल्वादिचिन्तनवदित्याह ॥ भक्त्येति ॥ अलं शुभकारी भवति । तत्राप्येवं दण्डे कृते द्वेषमेवं कृतवान्भगवानिति द्वेषं कुर्वतां तमःप्राप्त्यै यथाऽशुभाप्त्यै तथा भवेदिति च महाकौर्म इति शेषः ॥ तताश्चायं श्लोकार्थः । ननु निग्रहः कृतोऽयमनुग्रहः कथमित्यत एवमनुसन्धाने स तथा । नैवं चेदनेवमित्यावेदयन्ति ॥ अनुग्रह इति ॥ भवता कृतो दण्डो न उपर्यनुग्रहस्तदात्मा । हि यतस्ते दण्डोऽसतामौपाधिकासत्कर्मणां कल्मषापहः पापहरः खलु निश्चयः । अयं तु तिर्यग्जन्मवानिति भवति चासन्नित्याह ॥ यदिति ॥ अमुष्य देहिनः कालीयस्य यद्यतो दन्दशूकत्वं जनदंशनयोनित्वं तदयमसदत एतज्जन्मापादकपापमोचकत्वाद्वैतद्योनावपि त्वच्चरणस्मरणकारणत्वाद्वाऽयं क्रोधोऽपि तेऽनुग्रह एवेति नः सम्मतः । येऽसत्कर्माणोऽपि दण्डे त्वया चीर्णेऽयमग्रनुहः कृतः कृतज्ञेनेति चिन्तयन्ति तेषामन्तः सत्स्वभावानां कल्मषमसुरावेशादिसन्निवेशकृतं पापमपहन्ति स तथा । अखलु यत्कल्मषमपहन्तीति वा । खं मोक्षसुखं लुनाति छिनत्तीति तच्च तत्कल्मषं च तन्न भवतीत्यखलुकल्मषं तदपहन्ति नाशयतीति स तथेति वा । अनेन तत्पातकस्य स्वरूपाननुबन्धिता ध्वन्यते । येषामसतामसत्स्वभावानां चीर्णे दण्डे क्रोधो जरासन्धादीनां भवता कृतो दण्डः कल्मषापहः पातकघातकः खलु नेत्यप्यर्थो मानानुयानेन ज्ञेयः । अलंखल्वोः प्रतिषेधयोः खलु निषेधने च वीप्सायामिति विश्वः । पापापनोदेन तेषां तमःप्राप्त्यै भवतीति भावः । उपलक्षणमेतत् । असतां मध्यमानां च दण्डः खलुश्च कल्मषापहश्चेत्युभयरूप इत्यपि योजना ज्ञेया । इति भवता कृतो भवोऽस्त्येषामित्यर्शआद्यचि संसारिणस्तेषां भावो भवता नित्यसंसारिता कृता येन स इति तदर्थ इति वा । उतामृतत्वस्येशान इतिवद्वर्गार्थे वा त्वप्रत्ययवदयं तल् । संसार-सङ्घकृदिति वा । अमुष्यामुं पतिभिक्षामिति यावत् । नो देहीत्यान्तरङ्गिको भावो भामिनीनां ज्ञेयः

॥ ३४ ॥

सुमनोरञ्जिनी

कथं दण्डोऽनुग्रहरूप इत्यतस्तदेव प्रपञ्चयति ॥ अनुग्रहेति ॥ भवता कृतो ऽयं व्यापारो ऽनुग्रह एव नो दण्डः । कुतः । हि यतोऽसतामप्यस्माकं कल्मषापहः पापपरिहारकः । किं तत्कल्मषमित्यत आह ॥ यद् यस्मात् कल्मषाद् अमुष्य देहिनः दंदशूकत्वं सर्पजन्म प्राप्तमिति । ननु क्रोधपूर्वको व्यापरः कथं न दण्ड इत्यत उक्तम् ॥ क्रोधोऽपीति ॥ ते त्वया क्रियमाणः निग्रहरूपव्यापारः क्रोधोऽपि क्रोधकार्यतया प्रतीयमानोऽपि अनुग्रह एवेति सम्मतः सम्यक् भक्त्या मतश् चिन्तितोऽस्माभिरिति । न केवलं वाचा व्यवहरामो ऽपि तु भक्त्या चिन्तयाम इति भावः । अथवा नो ऽस्माकं यो दण्डो भवता कृतो ऽयमनुग्रह एव न निग्रह इति पदरत्नावलीरीतिरनुसर्तव्या । ननु भर्तृव्यसनव्यग्रचेतोभिस् तत्परिहार एव प्रार्थनीयो न पुनस्तस्य दण्डानुमोदनं कर्तव्यमित्याशङ्कायां न दण्डानुमोदनं कृतमपि तु भगवत्कृतदण्डस्यानुग्रहतया चिन्तनं भगवत्तुष्टिकरणमेव सम्पादयेत् । अन्यथा त्वन्यथेति तथानुसंहितमाभिरिति भावेनाहुराचार्याः ।

दण्डोऽपि भगवच्चीर्णो ममैषोऽनुग्रहः कृतः ।

इति भक्त्या चिन्तयतां शुभकारी भवत्यलम् ।

तत्रापि कुर्वतां द्वेषं तमःप्राप्त्यै तथा भवेत् । इति ।

यद्यपि दण्डो निग्रहस्तथापि । तत्रापि तत्र तु । भगवत्कृतदण्डे त्वित्यन्वयार्थः ॥ ३४ ॥

तपः सुतप्तं किमनेन पूर्वं निरस्तमानेन च मानदेन ।

धर्मोऽथवा सर्वजनानुकम्पया यतो भवांस्तुष्यति सर्वजीवः ॥ ३५ ॥

पदरत्नावली

एतादृशविशेषानुग्रहनिमित्तत्वेन स्वपतेः पूर्वजन्मन्यत्युत्कटतपआद्यनुष्टितत्व-मपि अनुमान्ति तप इत्यादिना । निरस्तो मानोऽहङ्कारः येन स तेन तथा मानदेन महद्भ्यः पूजाप्रदेन । भूदानादिलक्षणो धर्मः । सर्वान् जीवयतीति सर्वजीवः ॥ ३५ ॥

सत्यधर्मीया

स्वपतिरपि न पतितः किन्तु त्वदनुग्रहपात्रमिति महानित्याहुः ॥ तप इति ॥ अनेन । निरस्तो मानोऽहन्ता येन स तेन । तथा मानदेन माननीयमानप्रदेन । मानदेन मौनव्रतवता वा । मा न विद्यते नदः समुद्रः स्वावासत्वेन यस्य स इति प्रस्तुतविवक्षया । इदानीं त्यक्तसमुद्रवासेन प्राक् किं किंरूपं तपः सुतप्तं कृतम् । निर्धारणे सप्तमी तपस्सु तन्मध्ये किं तपश्चीर्णमिति वा । यथोक्तं हरिवंशे–

उत्सृज्य सागरावासं यो मया विदितः पुरा ।

भयात्पतगराजस्य सुपर्णस्योरगाशिनः ॥ इति ।

सर्वजनानुकम्पया सर्वेषु जनेष्वनुकम्पया । धर्मो भूदानादिलक्षणोऽथवाऽनुष्ठितः । कुत इत्यत आह ॥ यत इति ॥ भवान्सर्वजीवः सर्वजीवनदस्तुष्यति ॥ ३५ ॥

सुमनोरञ्जिनी

रमाप्रमुखसर्वदैवतवरप्रार्थनीयोऽपि त्वच्चरणरेणुस्पर्शाधिकारो यदस्य दन्दशूकस्याभूत्तत्प्राग्भवीयभवद्विषयतपआदिषु किंप्रभावप्रभवमिति न जानीम इत्यभिनन्दन्तीत्याह ॥ तप इति ॥ न इत्यनुवर्तते शेषो वा । नो ऽस्माकं मानदेन पत्या । हे मानदेन स्वामिन् इति वा । यद्वा मानं गर्वं द्यन्ति खण्डयन्ति ये ते मानदाः । तेषाम् इनेति वा । निरस्तः मानो गर्वो यस्य तेन । अनेन सर्पेण । किं तपः । सु सम्यक् त्वत्प्रीत्युद्देशेनेति यावत् । तप्तं कृतम् । प्राग्जन्मनीति शेषः । अथ सर्वान् जीवयतीति तथाविधो भवान् । यतो यस्माद्धर्माद् अनुष्ठितात् तुष्यति स धर्मोऽनुष्ठितो वा किम् ? ॥ ३५ ॥

कस्यानुभावोऽस्य न देव विद्महे तवाङ्घ्रिरेणुस्पर्शाधिकारः ।

यद्वाञ्छया श्रीर्ललनाऽचरत् तपो विहाय कामान् सुचिरं धृतव्रता ॥ ३६ ॥

पदरत्नावली

कस्य तपआद्यन्यतमस्यानुभावः प्रभावोऽयमिति न विद्महे । ‘अनुभावः प्रभावे स्यात् सतां च मतिनिश्चये’ इत्यभिधानम् । हरिचरणरेणूनां दौर्लभ्यं कुत इत्यत आहुर् यदिति ॥ काम्यन्ते अमी इति कामा विषयास्तान् ॥ ३६ ॥

सत्यधर्मीया

हे देव । अयं कस्य तपआद्यन्यतमस्यानुभावः प्रभाव इति न विद्महे न जानीमः । हे देव न विद्मेति वा । अयं क इत्यत आह ॥ तवाङ्घ्रिरेणुस्पर्शाधिकार इति ॥ अङ्घ्रयोः रेणवो धूलयस्तेषां स्पर्शः सम्बन्धस्तस्मिन्नधिकारोऽनुभाव इत्यप्यन्वेति । कुतस्तस्य दुर्मिलता चरणरेणुस्पर्शस्येत्यत आहुः ॥ यदिति ॥ ललना श्रीरपि कामानितरविषयान्विहाय सुचिरं धृतव्रता सती यद्वाञ्छया तपोऽचरच्चचार ॥ ३६ ॥

सुमनोरञ्जिनी

अस्य सर्पस्य । तवाङ्घ्रिरेणुस्पर्शेऽधिकारो योग्यता । तप आदिषु मध्ये । कस्य सुकर्मणो ऽनुभावः माहात्म्यं सामर्थ्यमिति यावत् तन् न विद्महे । यस्य तव अङ्घ्रिरेणुस्पर्शस्य वाञ्छया इच्छया । श्रीर्ललना महालक्ष्मीरपि । तप आलोचनम् । नूनं तपो यस्य न मन्युनिर्जय इत्यादिरूपम् । अचरद् अकरोत् । अथ च कामान् काम्यान् ब्रह्मादीनपि विहाय त्वय्येव सुचिरं धृतव्रता आसीत् । त्वया नित्यावियोगिनी बभूवेति भावः ॥ ३६ ॥

न नाकपृष्ठं न च पारमेष्ठ्यं न सार्वभौमं न रसाधिपत्यम् ।

न योगसिद्धीरपुनर्भवं वा वाञ्छन्ति १त्वत्पादरजःप्रपन्नाः ॥ ३७ ॥

तात्पर्यम्

‘अपुनर्भवमात्रात्तु हरिसामीप्यमुत्तमम् । तत्रापि स्पर्शयोग्यत्वं यथा वेदविदो विदुरि’ति पाद्मे ॥ ३७ ॥

पदरत्नावली

त्वत्पादपद्मरजस्सु सम्प्राप्तेषु सत्सु नाकलोकसत्यलोकादिकमपि तुच्छमिति भावेन संस्तुवन्ति न नाकेति ॥ नाकपृष्ठं स्वर्लोकम् । ‘नाकस्य पृष्ठे सुकृते तेऽनुभूत्वा इमं लोकं हीनतरं वा विशन्ति’ इत्यादेः । पारमेष्ठ्यं सत्यलोकः । सार्वभौमं चक्रवर्तित्वम् । ‘इमा रामाः सरथाः सतूर्याः’ इत्यादेः । रसाधिपत्यं भूर्लोकादधस्तनलोकाधिपत्यम् । योगसिद्धीरणिमादीन् । अपुनर्भवं हरिसामीप्यस्पर्शनादिरहितं जनिमृतिनिरयादिविधुरलक्षणसामान्यमोक्षम् । तदुक्तम् ‘अपुनर्भवमात्रात्तु हरिसामीप्यमुत्तमम् । तत्रापि स्पर्शयोग्यत्वं यथा वेदविदो विदुः ॥’ इति ॥३७॥

दुर्घटभावदीपिका

त्वत्पादरजःप्रपन्नाः कृष्णपादरजःप्रपन्नाः, अपुनर्भवं, मोक्षवान्भवतीत्युक्त्या संसारे ये कृष्णपादरजःप्रपन्नास्तत्सुखापेक्षयाऽल्पाधिकारिणां मोक्षसुखमल्पमित्युक्तं भवति । एतेन सर्वसुखापेक्षया मोक्षसुखस्याधिकत्वात् त्वत्पादरजःप्रपन्ना मोक्षं वा न वाञ्छन्तीत्यनुपपन्नमिति दूषणं निरस्तम् । अपुनर्भवशब्देनाल्पाधिकारिमोक्षस्य विवक्षितत्वात् ॥ ता. अर्थः ॥ अपुनर्भवमात्रान्मोक्षमात्रात् । अल्पाधिकारिमोक्षसुखादिति यावत् । उत्तमाधिकारिभिः संसारप्राप्तं हरिसामीप्यमुत्तमसुखजनकम् । तत्रापि हरिसामीप्यप्राप्तेष्वपि यैरुत्तमाधिकारिभिः संसारे स्पर्शयोग्यत्वं हरिपादस्पर्शयोग्यत्वं प्राप्तं तेषां सुखमधिकं संसारे हरिपादस्पर्शप्राप्तानां सुखमधिकमिति किमु वक्तव्यमिति वेदविदो यथावेदार्थविदो विदुरिति ॥ ३७ ॥

सत्यधर्मीया

न नाकपृष्ठमिति श्लोके न मोक्षसदृशं किञ्चिदित्याद्युक्तपुरुषार्थोत्तमं मोक्षं न वाञ्छन्तीति कथं कथ्यत इत्यतस्तत्तात्पर्यं मानेनाह ॥ अपुनर्भवमात्रादिति ॥ जननादि-विकलान्मोक्षाद्धरिसामीप्यं तद्रूपो मोक्ष उत्तमस्तत्रापि सामीप्येऽपि स्पर्शयोग्यत्वमुत्तममित्यन्वेति । यथा सम्यगुत्तममिति वेदविदो विदुः ॥ ततश्चायं श्लोकार्थः ॥ के ते कामास्तस्य त्यक्ता इत्यतस्तानाहुः ॥ नेति ॥ नाकपृष्ठं नाकस्य पृष्ठे सुकृते तेऽनुभूत्वेत्यादेः स्वर्गं, न च पारमेष्ठ्यं सत्यलोकाधिपत्यं न सार्वभौमं चक्रवर्तितां गतम् । इमा रामाः सरथाः सतूर्या इत्युक्तेः साम्राज्यं रसाधिपत्यं बलिप्रभावं न योगसिद्धीरणिमादीन् । अपुनर्भवं सामान्यमुक्तिम् । तत्पादरजःप्रपन्नाः । तदित्यव्ययं षष्ठ्यर्थे । त्वत्पादेति पाठस्तु स्फुटार्थः । न वाञ्छन्तीत्यन्वयः ॥ ३७ ॥

सुमनोरञ्जिनी

अन्येऽपि त्वत्पादरजःप्रपन्ना नाकपृष्ठादिकं न वाञ्छन्तीत्यन्वयः । नाकपृष्ठं स्वर्गम् । पारमेष्ठ्यं सत्यलोकाधिपत्यम् । सार्वभौमं चक्रवर्तिपदम् । रसाधिपत्यं रसातलाधिपत्यम् । सार्वभौमातिरिक्तभूपतित्वं वा । योगसिद्धीर् अणिमाद्याः । अपुनर्भवं पुनर्भवशून्यं लोकम् । नन्विदमयुक्तमिवाभाति । पुनर्भवशून्यलोको हि मोक्ष एव । तत्रानाकांक्षाया अयोगादित्याशङ्कां मोक्षेऽपि तारतम्यसद्भावाद्भगवदंगस्पर्शलक्षणमोक्षापेक्षया अपुनर्भवमात्रस्यावरत्वेन तत्रौदासीन्यं भगवत्पादरजः प्रपन्नानां युक्तमेवेति भावेन परिहरन् मोक्षेऽपि तारतम्यबोधकं पाद्मवचनमेवोदाहरति भगवानाचार्यः–

अपुनर्भवमात्रात्तु हरिसामीप्यमुत्तमम् ।

तत्रापि स्पर्शयोग्यत्वं यथा वेदविदो विदुः ॥ इति पाद्म इति ।

अपुनर्भवमात्रात्, न विद्यते पुनर्भव उत्पत्तिर्यस्मिन्सोऽपुनर्भवाख्यो मुक्तिविशेषः । केचिदत्रैव मुच्यन्त इत्यादिशास्त्रोक्तः । तस्मात् । हरिसामीप्यम् आदघ्नास इत्याद्युक्तम् । तत्रापि सामीप्येऽपि । स्पर्शयोग्यत्वं हरेरङ्गस्पर्शयोग्यत्वम् उत्तमम् । इतीमं प्रभेदम् । यथा यथावत् । वेदं विदन्तीति तथोक्ता वेदार्थज्ञानिनो विदुरित्यर्थः ॥ ३७ ॥

तदीश१ नाथाप दुरापमन्यैस्तमोजनिः क्रोधवशोऽप्यनीशः१ ।

संसारचक्रे भ्रमतः शरीरिणो यदीप्सितं स्याद्धि भवत्समक्षम् ॥ ३८ ॥

पदरत्नावली

ईशनाथ शङ्करस्वामिन् यद् भवत्समक्षं भवतः साक्षात्करणं तदाप । दुरापं ‘न चक्षुषा पश्यति कश्चिदेनं नान्यैर्देवैर्मनसा नापि वाचा’ इत्यादिश्रुतेः, साधनसामग्रीविधुरैर् दुष्प्रापमित्यर्थः । तमसा गुणेन जनिर्जन्म यस्य स तथा । अत एव क्रोधवशस् तथाप्यनीशोऽसमर्थः

॥ ३८ ॥

सत्यधर्मीया

ईश लक्ष्मीसुखद नाथ सर्वनाथ संसारचक्रे तत्समूहे वा तदात्मकचक्रे वा भ्रमतः शरीरिणो देहधारिणो यदीप्सितं वाञ्छितं स्यात्तदन्यैः साधनसामग्रीशून्यैर्दुरापं दुष्प्राप्यं तमोजनिः क्रोधवशोऽनीशोऽस्मदादिप्राणिनां नाथः समर्थेतरो वा । भवत्समक्षं भवतोऽपरोक्षं प्राप । हिना सर्वानुभवसिद्धतामाहुः ॥ ३८ ॥

सुमनोरञ्जिनी

हे ईशानां ब्रह्मादीनामपि नाथ संसारचक्रे भ्रमतः । अनीशोऽस्वतन्त्रस्य शरीरिणः । संसारनिवर्तकतया यद्भवतः समक्षं साक्षात्कारणमीप्सितं वाञ्छितम् अन्यैर्दुरापं तद् भवतः समक्षम् आप । तमोजनिस् तमोगुणेन जनिर्जन्म यस्यासौ तथोक्तः । क्रोधवशोऽपि भवदपरोक्षसाधनसामग्रीरहितोऽपीति यावत् । भवतः समक्षं प्रत्यक्षत एव तद् भवत्पादरज आपेति केचिद्योजयन्ति । अहीश इत्यपि पठन्ति ॥ ३८ ॥

नमस्तुभ्यं भगवते पुरुषाय महात्मने ।

भूतावासाय भूताय पराय परमात्मने ॥ ३९ ॥

तात्पर्यम्

भूताय सदा विद्यमानाय ॥ ३९ ॥

पदरत्नावली

भूतावासायेत्यनेन भूतनाशेन नाशः स्यादित्युच्यत इति शङ्कां निवारयति भूतायेति । सर्वदा विद्यमानाय । ‘भू सत्तायाम्’ इति धातुः ॥ ३९ ॥

सत्यधर्मीया

नमस्तुभ्यं भगवत इति पद्ये भूताय भूतभूतायेति जगज्जनार्दनैक्यमुच्यत इति भ्रमं भ्रंशयन्ननूद्य व्याकरोति ॥ भूताय सदा विद्यमानायेति ॥ भू सत्तायामित्यस्मात्कप्रत्ययः । कालप्रबन्धमात्र इति द्योतयितुं सदेति पूर्वाचार्यैरिति ज्ञेयम् ॥ ततश्चायं पद्यार्थः ॥ महात्मने भगवते पुरुषाय भगवते नमः । भूतावासाय जगन्निलयाय भूताय सदा विद्यमानाय पराय परात्मने । तत्तद्वेदान्तगतशब्दानुकृतिरियमिति न पुनरुक्तिरिति हृदयम् । एवमुत्तरत्रापि ॥ ३९ ॥

सुमनोरञ्जिनी

भगवते पूर्णषड्गुणाय पुरुषाय अन्तर्यामिणे । पुरुषो हृदिस्थः परम इति ब्राह्मवचनात् । भूतानां प्राणिनामावासाय । भूताय विद्यमानाय भू सत्तायामिति धातोः । काल-विशेषानुक्तेः सर्वदा विद्यमानायेति यावत् । तदुक्तं भूताय सर्वदा विद्यमानायेति । पराय विलक्षणाय । भूतेभ्य इति लभ्यते । परमात्मने परमश्चासावात्मा चेति तस्मै । परमम् उत्कृष्टज्ञानम् आददातीति तथोक्ताय वा ॥ ३९ ॥

ज्ञानविज्ञाननिधये ब्रह्मणेऽनन्तशक्तये ।

अगुणायाविकाराय नमस्तेऽप्राकृताय च ॥ ४० ॥

तात्पर्यम्

अप्राकृताय ॥ ४० ॥

पदरत्नावली

ज्ञानं सामान्यं, विज्ञानं विशेषज्ञानं ‘सामान्यैर्ये त्वविज्ञेया विशेषा मम गोचराः । देवादीनां तु तज्ज्ञानं विज्ञानमिति कीर्तितम्’ इत्युक्तेः । अविकारायेत्युक्तं समर्थयते अप्राकृतायेति ॥ ४० ॥

सत्यधर्मीया

ज्ञानेति श्लोकेऽप्राकृतेति पदमिति दर्शयति ॥ अप्राकृतायेति ॥ ज्ञानं सामान्यं, विज्ञानं, सामान्यैर्ये त्वविज्ञेया विशेषा मम गोचराः । देवादीनां तु तज्ज्ञानं विज्ञानमिति कीर्तितमिति मानिकं विज्ञानं तन्निधये । अगुणायाविकारायाप्राकृताय तुभ्यं नमः ॥ ४० ॥

सुमनोरञ्जिनी

भगवत्त्वमेव विवृण्वन्ति ॥ ज्ञानेति ॥ ब्रह्मणे ऐश्वर्यादिगुणैर् अपरिच्छिन्नाय । अगुणाय सत्वादिगुणबन्धशून्याय । स्वभिन्नानन्दादिगुणरहिताय वा । तदुक्तं पूर्वमेव । अगुणो गुणदेहत्वादिति । अविकाराय । कुतः । अप्राकृताय । न विद्यते प्राकृतं शरीरादिकं यस्य तस्मै । अत्र प्राकृतायेति पदविभागभ्रमं वारयितुम् अप्राकृतायेति विभागमात्रं प्रदर्शितं तात्पर्ये ॥ ४० ॥

कालाय कालनाभाय कालावयवसाक्षिणे ।

विश्वाय तदुपद्रष्टे्रे तत्कर्त्रे विश्वहेतवे ॥ ४१ ॥

तात्पर्यम्

कालनाभाय कालाश्रयाय । ‘विश्वस्य तदधीनत्वाद्विश्वं विष्णुरुदीर्यते । मूलहेतुत्वतो हेतुः कर्ता प्रातिस्विकं कृते’रित्याग्नेये ॥ ४१ ॥

पदरत्नावली

कालाय भक्तकामधेनवे । कालनाभाय कालाश्रयाय । कालावयवसाक्षिणे क्षणलवाद्यवयवसाक्षिणे । विश्वाय स्वाधीनप्रपञ्चाय । तस्य विश्वस्योपद्रष्ट्रे अध्यक्षाय । तत्कर्त्रे प्रातिस्विकं तदुत्पत्तिकर्त्रे । प्रकृतेर्मूलकारणत्वं निवारयति विश्वहेतव इति । प्रपञ्चस्य मूलकारणाय । तदुक्तम् ‘विश्वस्य तदधीनत्वाद् विश्वं विष्णुरुदीर्यते । मूलहेतुत्वतो हेतुः कर्ता प्रातस्विकं कृतेः’ इति । ‘विश्वाय विराट्पुरुषाय तत्कर्त्रे विश्वस्योत्पादनमायाप्रेरकाय’ इत्यादिरर्थो न युक्तः । अप्रामाणिकत्वात् ॥ ४१ ॥

सत्यधर्मीया

कालनाभायेत्यप्रतीतेरनूद्य व्याचष्टे ॥ कालनाभायेति ॥ नाभिशब्दपर्यायोऽयं स्वार्थतद्धितो नाभशब्दः कालाश्रयत्वार्थक इति केचित् । नाभिरित्यथ नाभः स्याद्विष्णुः सर्वाश्रयो यत इत्यादेर्नाभिशब्द आश्रयमात्रार्थकः । तथा च कालस्य नाभ इति विग्रह इति वदन्ति । भगव-दङ्गानां भगवताऽभेदात्कालो नाभौ स्वस्मिन्नित्यच्प्रत्ययेति योगविभागात्कालनाभः पद्मनाभस्तस्मै । बहुव्रीह्यर्थ एवाचार्यैः साम्मुग्ध्येनोक्त इत्यपि व्याचक्रिरे । विश्वाय तत्कर्त्रे । विश्वहेतव इति पदार्थं मानत आह ॥ विश्वस्येति ॥ मूलहेतुत्वतो विष्णुहेतुः प्रातिस्विकं प्रति व्यक्तिकरणत्वात्कर्तेत्युच्यत इत्यन्वयः । अनेन मूले कर्तृपदानन्तरं सतो विश्वहेतुपदस्य मुख्यसर्वकारणार्थकत्वात् प्रागन्वयनीयता सूचितेति मन्तव्यम् । ततश्चायं श्लोकार्थः ॥ कालाय पुमर्थदात्रे । कालनाभाय तदाश्रयाय । कालावयवसाक्षिणे क्षणलवादिलक्षणतदवयवसाक्षिणे । विश्वाय स्वाधीनीकृतप्रपञ्चत्वाद्विश्वशब्दवाच्याय । तदुपद्रष्टे तत्तत्कृतसुकृतदेयफलज्ञाय । तद्धेतवे तन्मूलकारणाय । तत्कर्त्रे प्रातिस्विकं तदुत्पत्तिकर्त्रे

॥ ४१ ॥

सुमनोरञ्जिनी

कालाय कालनियामकाय । सर्वगताय रुद्रान्तर्गताय वा ।

पुरुषो हृदिस्थः परमः कालः सर्वगतो हरिः ।

अथ वा रुद्रदेहस्थो हरिः काल इतीरितः ॥

इति तृतीयोदाहृतब्राह्मवचनात् । यद्वा कालाय सर्वज्ञाय, सर्वजगद्बन्धकाय, सर्वसंहारकाय वा । कल ज्ञाने, कल बन्धने, कल छेदने, कल कामधेनुरिति पठन्तीति गीताभाष्योक्तरीत्याऽर्थः । कालनाभाय कालाश्रयाय । तदुक्तं कालनाभाय कालाश्रयायेति । कालावयवानां सूक्ष्मकालानां साक्षिणे साक्षाद्द्रष्ट्रे । विश्वाय स्वाधीनप्रपञ्चाय । तदुक्तं विश्वस्य तदधीनत्वाद्विश्वं विष्णुरुदीर्यत इति । तदुपद्रष्ट्रे तत्साक्षिणे । सर्वज्ञायेति यावत् । तत्कर्त्रे तस्य विश्वस्य कर्त्रे । विश्वस्य हेतवे मूल-कारणाय । अत्र पौनरुक्त्यपरिहाराय तात्पर्यम् । मूलहेतुत्वतो हेतुः कर्ता प्रातिस्विकं कृतेः । इत्याग्नेय इति । तथा च हेतव इत्यनेन प्रकृत्यादिनियमनेन मूलकारणत्वम् । कर्त्र इत्यनेन कुलालादौ स्थित्वा प्रातिस्विककर्तृत्वं विवक्षितमिति न पौनरुक्त्यमिति भावः ॥ ४१ ॥

भूतमात्रेन्द्रियप्राणमनोबुद्ध्याशयात्मने ।

निर्गुणेनाभिमानेन गूढस्वात्मानुभूतये ॥ ४२ ॥

पदरत्नावली

विश्वस्य भगवदधीनत्वं विवृणोति भूतेति ॥ भूतानि पञ्च, मात्राः शब्दादयः, इन्द्रियाणि श्रोत्रादीनि दश, प्राणा दश, मनः सङ्कल्पविकल्पलक्षणं, बुद्धिः कार्याकार्यविनिश्चयः, एषामाशयः स्थानमात्मा स्वभावो यस्य स तथा तस्मै । ‘आत्मा यत्नो धृतिर्बुद्धिः स्वभावो ब्रह्म वर्ष्म च’ इत्यमरः । ‘स्थानेऽभिप्राय आशयः’ इति यादवः । निर्गुणेन सत्त्वादिगुणसम्बन्धरहितेन अभिमानेन ज्ञानेन गूढा अप्रकाशिता स्वात्मानुभूतिर्यस्य स तथा तस्मै ॥ ४२ ॥

सत्यधर्मीया

भूतानि पञ्च । मात्राः शब्दाद्याः । इन्द्रियाणि श्रोत्रादीनि दश । प्राणाः पञ्च दश वा । मनः सङ्कल्पात्मकम् । बुद्धिः कार्याकार्यविनिश्चयो बुद्धिः । ज्ञानं प्रतीतिर्बुद्धिस्तु कार्याकार्यविनिश्चय इति गीताभाष्योक्तेः । भूतादीनामाशयः स्थानमात्मा देहः स्वभावो वा यस्य तस्मै । आशयोऽन्तःकरणं वा तेषामात्मा स्वामी तस्मै वा । आत्मा यत्नो धृतिर्बुद्धिः स्वभावो ब्रह्म वर्ष्म चेत्यमरः । स्थानेऽभिप्राय आशय इति यादवः । निर्गुणेन सत्त्वादिगुणसम्बन्ध-विधुरेणाभिमानेनेच्छया । गूढाऽप्रकाशिताऽऽत्मनां जीवानां स्वा स्वरूपभूताऽनु मुक्तिगा भूतिरैश्वर्यं येन स तस्मै । अन्वाश्रये बन्धने मोक्ष इति विश्वः ॥ ४२ ॥

सुमनोरञ्जिनी

भूतानि आकाशादीनि, मात्राः शब्दादयः, इन्द्रियाणि, प्राणाः, मनः संकल्पविकल्पात्मकमन्तःकरणं, बुद्धिः कार्याकार्यनिश्चयस् तद्धेतुर्वा । बुद्धिस्तु कार्याकार्यविनिश्चय इति गीताभाष्यात् । एतासाम् आशय आश्रयो जीवः । स्थानेऽभिप्राय आशय इति यादवः । तस्यात्मने अन्तर्यामिणे । भूतादीनामाशयश्चासावात्मा चेति वा । गूढस्य सर्वहृदयगुहासु निगूढस्य । अव्यक्तस्वभावस्य वा । स्वात्मनः स्वस्वरूपस्य बिम्बसंज्ञकस्य अनुभूतिर् अनुभवो ऽपरोक्षज्ञानं यत्प्रसादाद्भवति सस् तादृशः । तस्मै । निर्गुणेन सत्वादिगुणानुत्पन्नेन । अभिमानेन परमेश्वरे बहुमानेन । निर्गुणेन भक्तिलक्षणगुणशून्येन । अभिमानेन, अभि मीयते अनेनेति व्युत्पत्या अभिमानपदबोध्यज्ञानसामग्य्रा अहंकारेण वा । गूढ अनाविर्भूतः स्वस्वरूपविषयकानुभवो यस्येति वा । भक्त्यैकलभ्यायेति यावत् ॥ ४२ ॥

नमोऽनन्ताय सूक्ष्माय कूटस्थाय विपश्चिते ।

नानावादानुरोधाय वाच्यवाचकशक्तये ॥ ४३ ॥

पदरत्नावली

अनन्ताय नित्याय सर्वगताय च । सूक्ष्माय अव्यक्ताय । ‘नित्यं विभुं सर्वगतं सुसूक्ष्मम्’ इति श्रुतेः । कूटस्थाय शश्वदेकप्रकाराय । कूटवद् आकाशवत् तिष्ठतीति तस्मै । ‘कूटं खं विदलं व्योम सन्धिराकाश उच्यते’ इत्यभिधानम् । विपश्चिते सर्वज्ञाय । नानावादानां नानाविधसत्सिद्धान्तानाम् अनुरोधाय अनुकूलतया वर्तमानाय । वाच्यवाचकानां शब्दार्थशब्दानां शक्तिः, वाच्यत्ववाचकत्वसामर्थ्यं येन तस्मा इति वा ॥ ४३ ॥

सत्यधर्मीया

अनन्ताय निर्नाशायाबद्धाय वा । सूक्ष्मायाव्यक्ताय । अनन्ताय सर्वगताय वा । नित्यं विभुं सर्वगतं सुसूक्ष्ममिति श्रुतेः । कूटस्थाय शश्वदेकप्रकाराय । कूटमाकाशः । कूटं खं विदलं व्योम सन्धिराकाश उच्यत इत्यभिधानाद् गीताभाष्ये । विपश्चिते पूर्णज्ञानाय । नानावादानुरोधाय नानाविधा वादाः सत्सिद्धान्तास्तेषामनुरोधायानुकूलतया स्थिताय । नानावादाना-मनुरोधो मर्यादा येन स तस्मै वा । वाच्यवाचकानां शब्दार्थशब्दानां शक्तिर्वाच्यत्ववाचकत्वसामर्थ्यं येन तस्मा इति वा ॥ ४३ ॥

सुमनोरञ्जिनी

अनन्ताय नित्याय । अपरिमिताय वा । सूक्ष्माय अणीयसे । कूटवद् आकाशवत् स्थिताय । निर्विकाराय व्याप्तायेति वा । कूटं खं विदलं व्योमेत्यभिधानात् । विपश्चिते ज्ञानस्वरूपाय । नानावादः भेदवादस् तदनुरोधाय तदनुकूलाय । भेदवादप्रियायेति यावत् । यद्वा नानाविधाः शिवो जगत्कर्तेत्यादिरूपा वादास् तेषामनुकूलाय शिवादिशब्दवाच्यत्वेन तत्प्रतिपाद्यायेति यावत् । अथ वा नानाविधा वादास्

त्वां ब्रह्म केचिदवयन्त्युत धर्ममेक

एकं परं सदसतोः पुरुषं परेशम् ।

अन्ये वदन्ति नवशक्तियुतं परं त्वां

केचिन्महापुरुषमव्ययमात्मतन्त्रम् ॥

इत्यादिरूपास् तदनुकूलाय तद्विषयायेति । वाच्यवाचकयोः शक्तिर्यस्मात् । वाच्ये स्थित्वा वाच्यत्वशक्तिप्रदाय । वाचके शब्दे तच्छक्तिप्रदायेत्यर्थः ॥ ४३ ॥

नमः प्रमाणमूलाय कवये शास्त्रयोनये ।

प्रवृत्ताय निवृत्ताय निगमाय नमो नमः ॥ ४४ ॥

पदरत्नावली

प्रमाणमूलाय प्रत्यक्षादिप्रमाणप्रतिष्ठापकाय । कवये अतिक्रान्तदर्शिने । शास्त्रं योनिर् ज्ञप्तिकारणं यस्य स तथा तस्मै । ‘योनिः स्त्रीणां भगे स्थाने कारणे ताम्रके पणे’ इति यादवः । शास्त्रस्य इदं कुर्यादिदं न कुर्यादिति निर्देशस्य योनिः कारणं तस्मै, विधिकर्त्रे इति यावत् । ‘निर्देशग्रन्थयोः शास्त्रम्’ इत्यमरः । प्रवृत्ताय प्रवृत्तिमार्गप्रवर्तकाय, निवृत्ताय निवृत्तिमार्गप्रवर्तकाय च । उभयेषां निगमाय मार्गाय विषयायेत्यर्थः । ‘अयनं पदवी मार्गः पद्या च निगद्यते निगमः’ इति हलायुधः । वेदमूर्तये वा निश्चायकाय वा । ‘निगमो निश्चये वेदे परे पथि वणिक्पथे’ इति यादवः ॥ ४४ ॥

सत्यधर्मीया

प्रमाणानां मूलं प्रतिष्ठापकस्तस्मै । कवयेऽतिक्रान्तदर्शिने । शास्त्रयोनये शास्त्रं योनिर्ज्ञप्तिकारणं यस्य तस्मै । प्रवर्तकतया प्रवृत्तायैवं निवृत्ताय निगमाय गर्भगतागमाय मार्गरूपाय वा । अयनं पदवी मार्गः पद्या चेति निगद्यत इति हलः । निश्चायकाय वा । निगमो निश्चये वेदे परे पथवणिक्पथ इति यादवः ॥ ४४ ॥

सुमनोरञ्जिनी

शास्त्रं योनिर्ज्ञप्तिकारणं यस्य तस्मै । शास्त्रज्ञेयत्वमपि नापाततः किं तु प्रमाणमूलाय । प्रमाणानि प्रमापकानि उपक्रमादीनि श्रुतिलिङ्गादीनि च मूलानि ज्ञापकानि यस्यासौ तथोक्तस् तस्मै । प्रत्यक्षादिप्रतिष्ठापकाय वा । कवये सर्वज्ञाय । प्रवृत्ताय प्रवृत्तधर्मफलरूपाय । निवृत्तधर्मफलरूपाय च । तथा चोक्तं बृहद्भाष्ये । ‘किं पुनर्निगमाय विधिनिषेधात्मकशास्त्रस्यापि नियामकाय’ इति ॥ ४४ ॥

नमः कृष्णाय रामाय वसुदेवसुताय च ।

प्रद्युम्नायानिरुद्धाय सात्वतां पतये नमः ॥ ४५ ॥

पदरत्नावली

कृष्णाय उत्कृष्टानन्दरूपाय, भक्तजनदुरितकर्षणशीलाय वा, शत्रूणामग्नये वा, नीलवर्णाय वा । ‘कृष्णः सीसाद्यलोकेषु मृगे नीलेऽनले कलौ । शूद्रे काके पिके व्यासे ध्वान्ते पक्षेऽर्जुने हरौ’ इत्यभिधानम् । रामाय रामनाम्ने अभिरामाय वा । प्रकृष्टं द्युम्नं बलं यस्य स तथा तस्मै । दिवि म्नायत इति व्युत्पत्या द्युम्नं यशः । ‘म्ना अभ्यासे’ इति धातुः । प्रकृष्टयशसे इति च । ‘हिरण्यं द्रविणं द्युम्नम्’ इत्यभिधानात् प्रकृष्टसुवर्णाय च । केनापि रुद्धो न भवतीत्यनिरुद्धस् तस्मै । अनिना मुख्यप्राणेन नानोपासनाप्राचुयर्ेेण स्वहृदि सदा रुद्ध्यत इति च ॥ ४५ ॥

सत्यधर्मीया

कृष्णाय वर्णतोऽपि । नामतः गतम् । रामाय तन्नाम्ने । प्रकृष्टं द्युम्नं यस्य स तस्मै । कीर्तिर्द्युम्नं सहस्रसातममित्यृग्भाष्ये विद्यां कीर्तिं, टीकायां च द्युम्नं कीर्तिं चेति व्याख्या-तत्वात् । तथा तु विद्युम्न महाकीर्ते इति तत्रैवोक्तत्वाच्च । म्ना अभ्यास इत्यस्माद्घञर्थे कविधानमिति कर्मणि कप्रत्यये दिवि म्नायत इति व्युत्पत्त्या द्युम्नशब्देन कीर्तिरुच्यते । हिरण्यं द्रविणं द्युम्नमित्युक्तेः प्रकृष्टसुवर्णवान्वा तस्मै । द्युम्नं द्योतयतेऽर्थशो वाऽन्नं वेति यास्कनिरुक्तेः प्रकृष्टान्नरूपाय वेति । अनिरुद्धाय केनापि निरुद्धो न भवतीति, अनिनः प्राणिनः सर्वे रुद्धा येनेति वा स तस्मै वा । सात्वन्तो भक्ता यादवा वा तेषां पतिस्तस्मै । सात्वतामिति षष्ठ्याऽलुक्त्वेनैकपद्ये घिसंज्ञेति वा षष्ठीयुक्तश्छन्दसि वेति वा पतिशब्दो लाक्षणिकोऽयमिति वोपपत्तिः ॥ ४५ ॥

सुमनोरञ्जिनी

नियमेन सकललोककर्षणात्कृष्णाय । यद्वा कृष्णाय उत्कृष्टाय । निरुक्तत्वाट् टकारस्य णकारः । तत एवोपपदलोपश्च । उत्कृष्टं णं सुखं यस्येति वा । एवमेवाचार्यचरणैः श्रीमन्महाभारततात्पर्यनिर्णये कृष्णशब्दनिर्वचनं कृतम् । रामाय लोकरमणत्वाद्रामः । रश्चामश्चेति वा रामस् तस्मै । आनन्दरूपाय निष्परिमाणायेत्यर्थः । आनन्दरूपो निष्परिमाण एष लोकश्चैतस्माद्रमते । तेन राम इति गीताभाष्योदाहृतश्रुतेः । प्रद्युम्नाय प्रकृष्टद्युत्या मेयत्वेन तच्छब्दवाच्याय । अनिरुद्धाय अप्रतिबद्धाय । सातिः सुखार्थः । पूर्णानन्दरूपत्वात्सात् परमात्मा । तद्वन्तो भक्तजनास् तेषां पतये स्वामिने ॥ ४५ ॥

नमो गुणप्रदीपाय गुणात्मस्थोदयाय च ।

गुणप्रत्युपलक्ष्याय गुणद्रष्टे्र स्वसंविदे ॥ ४६ ॥

तात्पर्यम्

गुणप्रदीपाय गुणज्ञापकाय । गुणात्मस्थोदयाय । गुणात्मिका प्रकृतिस् तस्यां स्थित उदयस्वरूपो हरिः ॥ ४६ ॥

पदरत्नावली

गुणाः सत्त्वादयः, भक्तिज्ञानादयो वा, तेषां प्रदीपाय ज्ञापकाय । गुणात्मिका प्रकृतिः, तस्यां स्थित उदयः स्वरूपं यस्य स तथा तस्मै । गुणैः प्रत्युपलक्षयितुं योग्यतानु-सारेणावगन्तुं योग्याय । गुणद्रष्ट्रे भक्तगुणसाक्षिणे । स्वसंविदे स्वयंप्रकाशाय । ‘तद् ब्रह्म वेदाहं ब्रह्मास्मि’ इत्यादिश्रुतेः ॥ ४६ ॥

सत्यधर्मीया

नमो गुणप्रदीपायेत्यत्राकारप्रश्लेषेण पदभ्रमं विश्लेषयन्विवक्षितमर्थमाह ॥ गुणप्रदीपायेति ॥ गुणान्दीपयति ज्ञापयतीति स तथा तस्मै । गुणात्मस्थोदयायेत्यनूद्य व्याचष्टे ॥ गुणात्मस्थोदयायेति ॥ गुणात्मिका प्रकृतिस्तस्यां स्थित उदयः स्वरूपं यस्य स हरिस्तस्मै ॥ ततश्च श्लोकव्याकृतिः ॥ गुणान्प्रदीपयति ज्ञापयतीति स तथा तस्मै । गुणात्मनि तिष्ठतीति स उदयो यस्येति वा स चासावुदयश्चेति वा तस्मै । गुणैः प्रत्युपलक्षयितुं योग्यतानुसारेण ज्ञातुं योग्यस्तस्मै । गुणद्रष्ट्रे भक्ततरतमभावस्थितगुणसाक्षिणे । स्वसंविदे स्वप्रकाशाय । तद्ब्रह्मास्मीत्यादेः

॥ ४६ ॥

सुमनोरञ्जिनी

गुणप्रदीपाय गुणानां स्वगुणानां ज्ञापकाय । गुणात्मनि प्रधाने तिष्ठतीति गुणात्मस्थ उदयस्वरूपश्च प्रकाशस्वरूप इत्यर्थः । तस्मै । तदुक्तमाचार्यैः । ‘गुणप्रदीपाय गुणज्ञापकाय । गुणात्मस्थोदयाय च । गुणात्मिका प्रकृतिस् तस्यां स्थितः । उदयस्वरूपो हरिः’ इति । मूले गुणप्रत्युपलक्ष्याय । गुणैरानन्दादिभिः प्रत्युपलक्ष्याय ज्ञेयाय । गुणान्प्रत्युपलक्ष्याय लक्ष्यस्वरूपाय । आनन्दादिगुणैर् लक्षितायेत्यर्थः । गुणद्रष्ट्रे गुणानां विषयाणां द्रष्टे्र । जीवेन्द्रियच्छुरितस्वेन्द्रियैरिति शेषः । स्वसंविदे स्वप्रकाशाय ॥ ४६ ॥

अव्याकृतविहाराय सर्वव्याकृतसिद्धये ।

हृषीकेश नमस्तेऽस्तु मुनये १मौनशालिने ॥ ४७ ॥

पदरत्नावली

अव्याकृता व्याहर्तुमशक्याः सृष्ट्यादिविहारा यस्य स तथा तस्मै । ननु व्याहर्तुमशक्यविहारश्चेत् कथं तर्हि तज्ज्ञानम् ? अत्राहुः सर्वेति । सर्वैर्व्याकृता विवृता सिद्धिः स्वरूपज्ञानं यस्य स तथा तस्मै । स्वानुग्रहेण यथायोग्यं ज्ञापितस्वरूपायेति यावत् । हृषीकाणा-मिन्द्रियाणामीशो नियन्ता तस्य सम्बुद्धिः । मुनये सर्वज्ञाय । मौनशीलिने असम्भाष्य-भाषणशून्यशीलाय ॥ ४७ ॥

सत्यधर्मीया

अव्याकृताः साकल्येन व्याख्यातुं विवरीतुमिति यावद् अशक्या विहारा यस्य स तस्मै । दयायां, सर्वव्याकृता सिद्धिर्यथायोग्यं येन तस्मै । मनःपूर्वकं नागस्कृदयं नाग इति त्वं जानीष इति मनसि कृत्वा तथा सम्बोध्य नमन्ति ॥ हृषीकेशेन्द्रियस्वामिन्निति ॥ मुनये गतम् । मौनशालिनेऽसम्भाष्यभाषणशून्याय । इयताऽपि प्रयत्नेन किञ्चिदोष्ठानाकुञ्चनमिति युवतयोऽनेन कटाक्षयन्ति ॥ ४७ ॥

सुमनोरञ्जिनी

हृषीकाणाम् इन्द्रियाणाम् ईश यः प्राणे तिष्ठन्नित्यादेः । यद्वा अग्नीषोमाद्यन्तर्यामितया तदंशुनिविष्टैः स्वकेशैर् जगतो हर्षणात् हृषीकेशः । तथा हृष्या हर्षहेतवः केशा यस्येति विग्रहः । एवमेव निरुक्तं गीताभाष्ये एकादशेऽध्याये । अव्याहृता व्याहर्तुमशक्याः साकल्येन वाङ्मानसागोचरा इत्यर्थः । विहाराः सृष्ट्यादिव्यापारा यस्य तस्मै । तर्हि तज्ज्ञानं कथम्? सर्वव्याकृतसिद्धये । सर्वान् भक्तान्प्रति, स्वेनैव व्याकृता प्रकटिता सिद्धिः स्वस्वरूपज्ञानं येन तस्मै । अव्यक्तस्वभावत्वेऽपि स्वप्रसादेनैव ज्ञेयायेति भावः । यथोक्तं, अतोऽनन्तेन तथा हि लिङ्गमिति । मुनये सर्वविद्यानामनादितो द्रष्ट्रे । ऋषिस्तु सर्वविद्यानामित्यादेः । सर्वविद्याप्रवर्तकायेति यावत् । तथापि मौनं मननम् । तत्स्वभावाय । लोकशिक्षणायेति शेषः । यदि ह्यहं न वर्तेयमित्यादेः ॥ ४७ ॥

परावरगतिज्ञाय सर्वाध्यक्षाय ते नमः ।

अविश्वाय च विश्वाय तद्द्रष्ट्रे विश्वहेतवे ॥ ४८ ॥

तात्पर्यम्

अविश्वाय जीवेभ्योऽन्यस्मै । ‘शरीरेषु प्रविष्टत्वाद्विश्वो जीव उदीर्यते । जीवस्य तदधीनत्वाद्विश्वो विष्णुरिति स्मृतः । तस्योत्पत्त्यादिहेतुत्वाद्विश्वहेतुश्च कीर्त्यत’ इति मात्स्ये ॥ ४८ ॥

पदरत्नावली

परावरगतिज्ञाय कार्यकारणस्थितिज्ञाय । सर्वाध्यक्षाय सर्वेषां स्वामिने । अविश्वाय विश्वेभ्यो जीवेभ्योऽन्यस्मै । जीवविलक्षणायेत्यर्थः । विश्वाय स्वाधीनजीवगणाय । तद्द्रष्टे जीवगुणकर्मादिसाक्षिणे । विश्वस्य जीवस्योत्पत्त्यादिहेतवे । तदुक्तमाचार्यैः ‘शरीरेषु प्रविष्टत्वाद् विश्वो जीव उदीर्यते । जीवस्य तदधीनत्वाद् विश्वो विष्णुरिति स्मृतः । तस्योत्पत्त्यादिहेतुत्वाद् विश्वहेतुश्च कीर्त्यते’ इति ॥ ४८ ॥

सत्यधर्मीया

परावरगतिज्ञायेति श्लोकेऽविश्वाय विश्वायेति व्याहतमुच्यते । तद्द्रष्ट्रे विश्वहेतव इति प्रागभिहितेः पुनरुक्तिश्चेत्यतो विश्वपदं स्वयं व्याकृत्य मानं चोदाहृत्य पुनरुक्तिमपाकरोति ॥ अविश्वाय जीवेभ्योऽन्यस्मा इति ॥ न विश्वोऽविश्व इति व्युत्पत्तिः । शरीरेषु प्रविष्टत्वाज्जीवो विश्व उदीर्यते । विशेरौणादिकः कर्तर्यशुपृषिलटिकणिखटिविशिभ्यः क्वन्निति क्वन्प्रत्यये विशतीति विश्व इति व्युत्पत्तिर्ज्ञेया । विश्वायेति घटयदाह । जीवस्य विश्वस्य भगवदधीनत्वाद्विष्णुर्विश्व इति स्मृत इत्यन्वयः जीवस्यैव विश्वस्योत्पत्त्यादिहेतुत्वाद्विश्वहेतुरित्यत्र विश्वो जीवः, प्राग्जगद्विश्वपदार्थ इति न पुनरुक्तिरिति भावः ॥ ततश्च श्लोकार्थः ॥ परावरगतिज्ञाय कारणकार्यस्थितिविदे उत्तमाधम-गतिमतये वा । सर्वाध्यक्षाय सर्वस्वामिनेऽविश्वाय जीवविलक्षणाय विश्वाय स्वाधीनजीवनिकायाय । तद्द्रष्टे जीवगुणकर्मादिद्रष्टे्र । विश्वस्य जीवस्योत्पत्त्यादिहेतवे नमः । प्रभुर्हि जीवो जडमपेक्ष्येत्युक्तेः प्रपञ्चान्तर्गतत्वेऽपि विशेषशङ्कास्पदतेति पृथगुक्तिरिति ज्ञेयम् ॥ ४८ ॥

सुमनोरञ्जिनी

परावराणां कार्यकारणानां गतिं स्थितिं जानातीति तथोक्ताय । इदम् एतादृशमेवोत्पादयतीति सूक्ष्मतरास्मदाद्युत्प्रेक्षागोचरस्थितिज्ञायेत्यर्थः । सर्वाध्यक्षाय सर्वाधिपतये । अविश्वशब्दघटकविश्वो जीवो न भवतीत्यविश्वः । विश्वाय जीवस्वामिने । विश्वस्य जीवस्य हेतवे । जन्मादिप्रदाय । ननु प्रथमविश्वशब्दः कथं जीवपरः । तथात्वेऽपि वा द्वितीयस्तु केन निमित्तेन भगवत्परः । विश्वाय विश्वहेतव इति पूर्वमुक्त्या पुनर्विश्वहेतव इत्युक्ते च पुनरुक्तिश्च, जीवस्य नित्यत्वेन तद्धेतुत्वमयुक्तं चेति शङ्काः परिहरति भगवानाचार्यः–

शरीरेषु प्रविष्टत्वाद्विश्वो जीव उदीर्यते ।

जीवस्य तदधीनत्वाद्विश्वो विष्णुरिति स्मृतः ।

तस्योत्पत्यादिहेतुत्वाद्विश्वहेतुश्च कीर्त्यते ॥

इति माहात्म्य इति च । विश् प्रवेशने, वृतु वर्तने, शरीरेषु इति योग्यतया लभ्यते । प्रविश्य वर्तत इति विश्वो जीव इत्युक्तं भवति । अनेनाद्यशङ्का परिहृता । जीवस्य तदधीनत्वादित्यनेन द्वितीया तृतीया चापाकृता । विष्णुर्विश्व इति स्मृत इत्यन्वयः । तदधीनत्वादर्थवदिति न्यायेनेति भावः । तथा च पूर्वं विश्वशब्देन प्रपञ्चो विवक्षितः । अत्र जीव इति न पौनरुक्त्यमिति, न जीवं प्रति हेतुः किन्तु जीवस्य यच्छरीरसम्बन्धादिलक्षणोत्पत्त्यादि तद्धेतुत्वं विवक्षितमित्यभिप्रायकेण तस्येत्यनेन चतुर्थी परिहृता ज्ञेया । पूर्वेणास्य गतार्थत्वेऽपि सामान्यविशेषभावाश्रयेण पुनर्वचनम् । जीवस्य चेतनत्वेन स्वातन्त्र्यशङ्कानिवारणार्थत्वेनेति पदरत्नावलीकृत उपदिशन्ति ॥ ४८ ॥

त्वं ह्यस्य जन्मस्थितिसंयमान् विभो गुणैरनीहोऽकृतकालशक्तिधृक् ।

तस्मात् स्वभावात् प्रतिबोधयस्व नः समीक्षयाऽमोघविहार ईहसे ॥ ४९ ॥

तात्पर्यम्

‘हरेः स्वरूपशक्तिर्या कालशक्तिरुदीर्यते । सदा सर्वगुणात्मत्वाद्दुर्गा वाप्यवरा ततः । सर्वसंहारकारित्वाद्वायुः सर्वस्य जीवनात् । कालाभिमानिनावेतौ दुर्गा वायुश्च कीर्तितावि’ति प्रकाशसंहितायाम् ॥ ४९ ॥

पदरत्नावली

विश्वस्य मूलकारणं हरिरित्युक्तम् । तत् स्पष्टयितुमाह त्वमिति । ‘सत्यधर्मा सत्यकर्मा’ इति श्रुतेः, अमोघविहारोऽव्यर्थक्रीडस्त्वमत एवानीहोऽक्लिष्टकर्मा सन् सत्त्वादिगुणैरस्य जगतो जन्मादीनीहसे । हीति ‘देवस्यैष स्वभावोऽयमाप्तकामस्य का स्पृहा’ इत्यादिश्रुतिं सूचयति । तस्मात् तव सत्यप्रपञ्चस्रष्टृत्वस्वभावात् समीक्षया सम्यग्ज्ञानेन नोऽस्मान् प्रतिबोधयस्व । लोके वरादिना मायया वा अन्यसहायेन वा श्रमेण कर्तृत्वं सिद्धम् । न तथा तवेत्याशयेनाह अकृतेति ॥ अकृता वरादिनिमित्तहीना, नित्येति यावत् । कालशक्तिः सर्वगुणोद्रेकात् कालाख्या शक्तिस्तां धृष्णोतीति अकृतकालशक्तिधृक् । तदुक्तम् ‘हरेः स्वरूपशक्तिर्या कालशक्तिरुदीर्यते । सदा सर्वगुणात्मत्वात्’ इति । अथ स्वनियतदुर्गावायुभ्यां संहारस्थिती करोषीत्याशयेनोक्तम् अकृतेति ॥ कालाभिमानित्वेन दुर्गावायू कालशक्तिनामानौ । अकृता नित्या कालशक्तिर्दुर्गा वायुश्च, तौ धृष्णोतीति अकृतकालशक्तिधृक् । दुर्गावायुद्वारा संहारसंरक्षणकर्तेत्यर्थः । तदुक्तम् ‘दुर्गा चाप्यवरा ततः । सर्वसंहारकारित्वाद् वायुः सर्वस्य जीवनात् । कालाभिमानिनावेतौ दुर्गा वायुश्च कीर्तितौ’ इति ॥४९॥

सत्यधर्मीया

त्वं ह्यस्य जन्मस्थितिसंयमान् विभाविति श्लोके दुर्गमार्थत्वात्कालशक्तिपदं स्वयं व्याख्याय तत्स्थेम्ने मानमुदाहरति । अकृतकालशक्तिधृक् अकृतं वराद्यनिर्मितं स्वरूपमिति यावदिति । हरेर्या स्वरूपशक्तिः सा सदा सर्वगुणात्मकत्वान्निमित्तात्कालशक्तिरुदीर्यते । कल कामधेनुरिति स्मरणाद् गतम् । अन्यत्रापि तच्छब्दं सप्रवृत्तिनिमित्तं दर्शयति ॥ तत इति ॥ ततो हरेरवरा दुर्गाऽपि सर्वसंहारकारित्वात्कालशक्तिरुदीर्यते । वाशब्दो वायुरित्यनेन समुच्चायकः सन्नन्वेति । सर्वस्य जीवनाद्वायुर्वा कालशक्तिरुदीर्यते । किञ्च कालाभिमानिनावभिमानी चाभिमानी चेत्यभिमानिनौ । एवमेवैतौ कीर्तिताविति ज्ञेयम् । अतोऽपि कालशक्तित्वं तयोः प्रबोधिन्याम् । अनीहोऽकृतकालशक्तिधृगित्यत्र कृतकालशक्तिधृगिति पदच्छेदेन काले शक्तिः कालशक्तिः कृता च सा कालशक्तिश्च तां धरतीति हरिशक्तेस्तत्काले जातत्वभ्रान्तिर्भवति तन्निरासाय पदच्छेदं प्रदर्श्य व्याचष्ट इत्यवतारितम् । तत्र पूर्वपक्षी सर्वथाऽप्रेक्षावांश्चेन्न तर्हि कक्षीकार्यः प्रेक्षावांश्चेदनीहोऽकृतेत्यत्र कुः पोः कः पौ चेति कथं कृतेत्यादिपदं विच्छिन्द्यादथैत उभयाप्यनुपपन्नावतारिकेति वदन्ति ॥

ततश्चायं श्लोकार्थः ॥ मूलकारणं हरिरित्युक्तं स्पष्टयितुमाह ॥ त्वं हीति ॥ अमोघविहारोऽ-व्यर्थक्रीडस्त्वमस्य जगतोऽनीहोऽक्लिष्टकारित्वादकृतकालशक्तिधृक् अकृताऽकारणिका नित्येति यावत् कालशक्तिः सकलगुणात्मकत्वात्कालाख्या शक्तिस्तां धृष्णोतीति कालशक्तिधृक् । कालशक्तिर्दुर्गा वायुश्च तौ धृष्णाति तद्द्वारा सृष्ट्यादिकरणेन तौ धारयसीति भावः । गुणैः सत्त्वादिभि-र्जन्मस्थितिसंयमानीहसे हि यतस्तस्मात् । देवस्यैष स्वभावोऽयमाप्तकामस्य का स्पृहेत्यादेः । स्पृहापूर्वं सृष्ट्याद्यकरणात्स्वभावात्समीक्षया सम्यग्ज्ञानेन नोऽस्मान्प्रतिबोधयस्व जाग्रतीकुरु । स्वभावत एवाततीति स तथेति वा । दासप्राणाविति । अनीहोऽनिनि मुख्यप्राणे ईहा चेष्टा यस्य सः । ईहसे या रमाया हसे हासार्थं सन्तोषार्थमिति यावत् । अमोघविहार इत्यर्थकरणे मानानुयानं भवतीति ज्ञेयम् ॥ ४९ ॥

सुमनोरञ्जिनी

एवं स्तुत्वा प्रार्थयते ॥ त्वमिति ॥ त्वम् अनीहो ऽक्लिष्टकर्मा । अस्य जगतः । गुणैः रजःसत्वतमोभिः । जन्मस्थितिसंयमान् सृष्टिस्थितिसंहारान् । नियमनं च । स्थिति-शब्देन नियमः क्वचिज्जीवनमुच्यत इत्येकादशतात्पर्ये वक्ष्यमाणत्वात् । अकृत अकरोः । कीदृशः । कालशक्तिधृक् । कालशक्तिं कालाख्यस्वरूपशक्तिं धारयतीति तथोक्तः । यद्वा कालशक्तिपदबोध्यौ दुर्गावायू धारयति संहारे स्थितौ चेति ते निमित्ततया स्वीकरोतीति तथाविधः । एतादृशस्त्वं, नः, समीक्षया समीचीनया करुणार्द्रयेति यावत् । ईक्षया अवलोकनेन । तस्मात्स्वभावाद् दन्दशूक-स्वभावात् । प्रतिबोधयस्व उज्जीवय । अमोघविहारो ऽमोघव्यापारस् त्वम् । ईहसे चेद् उज्जीवयितु-मिच्छसि चेत् तथा कुरुष्वेति । यद्वा जन्मादीनीहसे करोषीत्यन्वयः । कीदृशः । अकृतां नित्यां कालाख्यां शक्तिं धारयतीति तथोक्त इत्यर्थः । तदुक्तमाचार्यैः–

हरेः स्वरूपशक्तिर्या कालशक्तिरुदीर्यते ।

सदा सर्वगुणात्मत्वाद्दुर्गा वाप्यवरा ततः ।

सर्वसंहारकारित्वाद्वायुः सर्वस्य जीवनात् ।

कालाभिमानिनौ त्वेतौ दुर्गा वायुश्च कीर्तितौ ॥

इति प्रकाशिकायामिति । अस्यायमर्थः । या विष्णोः स्वरूपशक्तिः सा सदा सर्वगुणात्मत्वा-न्निमित्तात्कालाख्या शक्तिरित्युदीर्यते । कल धातोः सर्वगुणार्थत्वादिति भावः । ततः हरेः स्वरूपशक्तेर् अवरा दुर्गा वा कालशक्तिरुदीर्यते । तत्र निमित्तं, सर्वसंहारकारित्वादिति । कल च्छेदन इति धातोः । कामधेनुवत्सर्वार्थवाचकत्वात्कलधातोः सर्वस्य जीवनान्निमित्ताद्वायुरपि कालशक्तिरुदीर्यत इति पूर्वेणान्वयः । निमित्तान्तरमप्याह ॥ कालाभिमानिनाविति ॥ दुर्गा वायुश्चेत्येतौ कालाभिमानिनौ तु कालाभिमानिनावपि । अतोऽपि तत्पदबोध्याविति ॥ ४९ ॥

**तस्यैव तेऽमूस्तनवस्त्रिलोक्यां **

शान्ता अशान्ता उत मूढयोनयः ।

**शान्ताः प्रियास्ते ह्यधुनाऽवितुः सतां **

स्थातुश्च ते कर्मपरीप्सयेहतः ॥ ५० ॥

तात्पर्यम्

‘अन्तःप्रियं बहिश्चेति द्विधा प्रियमुदाहृतम् । अन्तःप्रिया हरेः सन्तः १सर्वं चापि हरेः प्रियम् । असन्तश्चापि संहार ईषदन्तःप्रिया इव । तदपेक्षया तथा सन्तो विशेषान्तःप्रियाः २स्थिता’ इति षाड्गुण्ये । ‘सुखान्तं प्राप्नुयुर्यस्माद्देवाः शान्ता ३उदी-रिताः । अशान्ता मानुषाः प्रोक्ता विमूढा आसुरा मता’ इति प्रकाशसंहितायाम् । कर्म-परीप्सया कर्मप्रवर्तनार्थम् । सर्वशरीरेषु स्थातुर् ईहतः प्राणस्य सकाशात् । प्राण-सकाशाद्धि ४कर्मप्रवर्तनमिच्छति भगवान् । ‘वायोः सकाशाज्जगतः प्रवृत्तिं कामयत्यजः । प्राणप्राणमतः प्राहुर्विष्णुं वायोरपि प्रभुमि’ति च ॥ ५० ॥

पदरत्नावली

विश्वायेत्यादिना हरेर्जगदात्मकत्वमुक्तमिति मन्दाशङ्कानिरासाय स्थावराज्जङ्गमं पृथक्वृत्य, तस्य त्रैविध्यकथनेन मिथोऽपि भेदस्तात्त्विक इति दर्शनार्थं तस्य भगवत्प्रतिमात्वेन तत्त्वतः स्तवनेन हरेरतिशयिता प्रीतिर्भवतीति भावेनाहुस् तस्यैवेति । तस्यैव ‘नमस्तुभ्यं भगवते’ इत्यादिना प्रसक्तस्यैव तेऽमूस्तनवः प्रतिमास्थानीयाः । सन्निधानपात्राणीति यावत् । त्रिलोक्यां विद्यमानचेतनेषु शान्ता अशान्ता मूढयोनय इति यास्त्रिधा भिन्ना अमूरित्यर्थः । अत्रापि तारतम्यमस्तीत्याहुः शान्ता इति । शं सुखमेवान्ते येषां ते तथेति शान्ता देवाः । सतामवितुः सतां पालनार्थं प्रवृत्तस्य ते शान्ता देवा एव प्रियाः । ‘परा पूर्वेषां सख्या वृणक्ति वितर्तुराणो अपरेभिरेति’ इत्यादिश्रुतेः । प्रियेष्वपि तारतम्यविशेषद्योतको हिशब्दः । प्रियं द्विविधम् अन्तःप्रियं बहिःप्रियं चेति । तत्रान्तःप्रियाः सन्तः । बहिःप्रिया असन्तः । संहारे कर्तव्ये संहारसहकारित्वादसन्त ईषदन्तःप्रिया इव । न तु प्रिया एव । स्थितिसहकारित्वाद् लोकोपकारादिनियतसत्कर्मनिरताः सन्तो विशेषान्तःप्रियाः । तर्हि सन्तोऽपि किमन्त एव प्रिया इत्यतोऽधुनेति विशिनष्टि । तदुक्तम् ‘अन्तःप्रियं बहिश्चेति द्विधा प्रियमुदाहृतम् । अन्तःप्रिया हरेः सन्तः सर्वं चापि बहिःप्रियम् । असन्तश्चापि संहार ईषदन्तःप्रिया इव । तदपेक्षया तथा सन्तो विशेषान्तःप्रियाः स्थितौ’ इति । देवादीनां शान्तत्वादिकं ‘सुखान्तं प्राप्नुयुर्यस्माद् देवाः शान्ता उदीरिताः । अशान्ता मानुषाः प्रोक्ता विमूढा असुरा मताः’ इति स्मृतिसिद्धम् । शान्ताः सात्त्विका देवाः, अशान्ता राजसा मानुषाः, मूढा योनिर्येषां ते मूढयोनयस्तामसा असुराः । अवनादिकर्मप्रवर्तनं च पवनमुखेनेत्याहुः स्थातुरिति । कर्मपरीप्सया कर्मप्रवर्तनेच्छया कर्मप्रवर्तनार्थमित्यर्थः । सर्वशरीरेषु स्थातुरीहतः प्रवर्तमानस्य प्राणस्य सकाशात् । सतामवितुः । ईहधातोरनधातोश्च चेष्टारूपैकार्थत्वेन ईहतः प्राणस्य सकाशादित्युक्तम् । प्राणसकाशाद् हि कर्मप्रवर्तनमिच्छति भगवानित्यतः स महाविभुरित्यर्थः । तदुक्तम्– ‘वायोः सकाशाज्जगतः प्रवृत्तिं कामयत्यजः । प्राणप्राणमतः प्राहुर्विष्णुं वायोरपि प्रभुम्’ इति । ‘प्राणस्य प्राणम्’ इत्यादि-प्रसिद्धिसमुच्चायकश्चशब्दः ॥ ५० ॥

सत्यधर्मीया

तस्यैव तेऽमूस्तनवस्त्रिलोक्यामिति श्लोके शान्ताः क्रोधरहितास्ते तव प्रिया इति निष्कोपस्य कस्यचिद्भगवत्प्रियत्वमिति भ्रान्तिनिरासाय प्रमाणेन तत्तात्पर्यं दर्शयंस्तेनैव प्रमाणेन भगवत्प्रियाणामैकविध्यभ्रान्तिं निरस्यानेकविधत्वं च दर्शयति ॥ अन्तःप्रियमिति ॥ अन्तःप्रियं बहिःप्रियमित्यावर्तितमन्वेति । इति द्विधा प्रियमुदाहृतम् । चः समुच्चये । सन्तो हरेरन्तःप्रियाः सर्वे च सदसत्त्वाविवेकेन सर्वं हरेर्बहिःप्रियम् । सर्वमिति सङ्कोचयति ॥ असन्तश्चेति ॥ संहारे कर्तव्ये ईषत्किञ्चिदसन्तोऽन्तःप्रिया इव भवन्ति तदपेक्षयाऽसदपेक्षया सन्तो विशेषान्तःप्रियाः । कुत इत्यत आह ॥ तथा स्थिता इति ॥ तथैव स्थितिमन्त इति । सन्तः शान्ताः कथमित्यतो मानेन तद्व्युत्पत्तिप्रकारमाह ॥ सुखान्तमिति ॥ शस्य सुखस्यान्तो निर्णयो येषां ते तथा यस्मात्सुखान्तं प्राप्नुयुस्तस्माद्देवाः शान्ता उदीरिता अशान्ताः सुखदुःखमिश्रफलतयाऽतदन्ता मानुषाः प्रोक्ता असुरा विमूढा मताः । तत्रैव स्थातुः कर्मपरीप्सयेहत इत्यप्रतीतार्थतयाऽनूद्य व्याकरोति । सर्वकर्मपरीप्सया कर्मप्रवर्तनार्थम् । अनेन तृतीया चतुर्थ्यर्थ इति सूचयति । स्थातुरित्यस्य किञ्चिदध्याहृत्यान्वयं दर्शयति ॥ सर्वशरीरेषु स्थातुरिति ॥ ईहत ईहमानस्य प्राणस्य सकाशात् । विशिष्टवाक्यार्थमाह ॥ प्राणसकाशाद्धि कर्मप्रवर्तनमिच्छति भगवानिति ॥ प्राणाद्धीति वक्तुं शक्ये प्राणस्य सकाशादिति वचनं मानगतवायोः सकाशादित्यनुकरणरूपं सत्समानस्य छन्दसीत्यतः समानस्येति योगो विभज्यते । तेन सपक्षः साधर्म्यं सजातीयमित्यादि सिद्धमिति काशिकोक्तेः । प्राणस्य समानः काशः सुखभोजनं यस्य तस्माच्चतुर्मुखात् । सहशब्दो वा सदृशावाची । सदृशः सख्या ससखीति यथेति । तेनायमस्वपदविग्रहो बहुव्रीहिः । समानः पक्षो यस्येत्यादीति कौमुद्युक्तेः समानः काशो यस्येति सकाशस्तस्मादित्यर्थविशेषं द्योतयितुं सकाशादित्युक्तम् । अजो भगवान्हरिर्वायोः सकाशाज्जगतः प्रपञ्चस्य प्रवृत्तिं कर्मप्रवर्तनं कामयतीच्छति । पदव्यत्ययेन तमतिहायापि हरेः सामर्थ्यं द्योतयति वायोरपि प्रभुं विष्णुमतः प्राणप्राणं प्राहुः प्रेक्षावन्तः ।

॥ अथ श्लोकार्थः ॥ त्रिलोक्यां विद्यमानचेतने । तस्यैव नमस्तुभ्यमिति प्रस्तुतस्तुतस्यामूस्तन-वस्ते तनव इव तनवः सन्निधानपात्रम् । ता आह । शान्ताः शस्यान्तो निर्णयो येषां देवानां तेऽशान्ता नित्यसंसारिण उत मूढयोनयो मूढा योनिर्येषां तेऽसुरा अधुना सतामवितू रक्षयितुस्ते शान्ता विशेषान्तःप्रियाः । हिशब्दोऽन्तःप्रियाः किञ्चिदन्तःप्रिया इव बहिः प्रियाश्चेति मानिकार्थ-द्योतकः । सतामवनादिकं पवनद्वारकमित्याह ॥ स्थातुरिति ॥ सर्वशरीरस्थितस्येहत ईहमानस्यानस्य सकाशात्कर्मपरीप्सया कर्मणां परीप्सा तदर्थं तत्प्रवर्तनार्थमीहतश्चेष्टमानस्य त इत्यप्यन्वयः । यो भवान्कर्मपरीप्सया कर्मप्रवर्तनं स्थातुरीहतो वायोः सकाशादिच्छति तस्यैव ते नम इति वाऽन्वयः । अधुनेत्यनेन नास्मन्नाथनाशसमयोऽयमतो मुञ्चेति द्योतयन्ति । प्राणस्य प्राणमित्यादिप्रसिद्धिं वा हिराह ॥ ५० ॥

सुमनोरञ्जिनी

विश्वायेत्यनेनापातप्रतीत्या प्राप्तां जीवाभेदशङ्कां जीवानां भगवत्प्रतिमास्था-नीयत्वोक्त्या परिहरति ॥ तस्यैवेति ॥ हे कृष्ण तस्यैव यो जगत्कारणत्वेन प्रकृतस्तस्यैव ते तव । अमूः शान्ताः शं सुखं तस्यान्तं प्रान्तं येषां ते तथोक्ता देवाः । अशान्ता अतथा-विधा मानुषाः । मूढयोनयो मूढजन्मानो ऽसुराश्चैतास्तिस्रोऽपि प्रजास् तनवः प्रतिमास्थानीयाः । तत्रापि विशेषमाहुः । ईहतः मुख्यप्राणस्य सकाशात् । कर्मपरीप्सया कर्मप्रवर्तनेच्छया । सर्वशरीरेष्विति शेषः । सर्वशरीरेषु स्थातुः । सतां सज्जनानाम् । अवितुः रक्षकस्य ते तव । शान्ता देवा अधुना स्थितिसमये प्रियाः । अन्ये अप्रिया इति भावः । अवितुर् अधुना शान्ताः प्रिया इत्यनेनान्ये अन्यदा प्रिया इति लभ्यते । तत्कथं मानुषादीनां भगवत्प्रियत्वमित्यतोऽस्य तात्पर्यमाविश्चक्रुराचार्यचरणाः–

अन्तःप्रियं बहिश्चेति द्विधा प्रियमुदाहृतम् ।

अन्तःप्रिया हरेः सन्तः सर्वे चापि बहिःप्रियाः ।

असन्तश्चापि संहार ईषदन्तः प्रिया इव ।

तदपेक्षया तथा सन्तो विशेषान्तःप्रियाः स्थिताः ॥ इति षाड्गुण्ये ।

सुखान्तं प्राप्नुयुर्यस्माद्देवाः शान्ता उदाहृताः ।

अशान्ता मानुषाः प्रोक्ता विमूढा असुरा मताः ॥ इति प्रकाशिकायाम् ।

कर्मपरीप्सया कर्मप्रवर्तनार्थं सर्वशरीरेषु ईहतः प्राणस्य सकाशात् । प्राणसकाशाद्धि कर्म प्रवर्तयति भगवान् ।

वायोः सकाशाज्जगतः प्रवृत्तिं कामयत्यजः ।

प्राणप्राणमतः प्राहुर्विष्णुं वायोरपि प्रभुम् ॥ इति चेति ।

अयमर्थः । अन्तःप्रियं बहिश्च बहिःप्रियं चेति प्रियं वस्तु द्विविधम् । सन्तो देवादयः हरेरन्तःप्रियाः । अन्ये बहिःप्रिया इत्यर्थः । यद्यपि संहारे कर्तव्ये निमित्तत्वादसन्तोऽपि ईषदन्तःप्रिया इव । तथा च सन्त एवान्तःप्रिया इति व्यपदेशोऽनुपपन्नः । तथापि सन्तो देवाः स्थितौ कर्तव्ये तदपेक्षया असदपेक्षया । विशेषेणान्तःप्रियाः । अतो देवानामन्तःप्रिया इति व्यपदेशः । असाधारण्येन व्यपदेशा भवन्तीति भावः । इत्थं च अधुना स्थितिसमये देवा प्रिया इत्युक्त्या संहारेऽन्येषामपि प्रियत्वं लब्धम् । एतच्च प्रियत्वमीषदेव न देववद्विशेषेणेति तात्पर्यमवसेयमित्युक्तं भवति । एवं वाक्यार्थमुक्त्वा पदार्थमाह ॥ सुखेति ॥ सुखस्य अन्तं प्रान्तं पारमिति यावत् । स्वयोग्यतानुसारेण परिपूर्तिरिति यावत् । यस्माद्देवाः प्राप्नुयुस् तस्माच्छान्ता उदाहृता इत्यर्थः । अतथाविधा मानुषा अशान्ता इति प्रोक्ताः । तेषां मिश्रफलत्वेन सुखस्य परिपूर्तेरभावादिति भावः । असुरास्तु विमूढाः । विशेषेण मोहः दुःखादौ सुखाभिमानः । तेन युक्तत्वाद् विमूढा इति मता इत्यर्थः । कर्मपरीप्सयेति मूलस्थं पदमनूद्य व्याख्यातं कर्मप्रवर्तनार्थमिति ॥ सर्वशरीरेष्विति शेषोक्तिः । ईहत इत्यस्यार्थो प्राणस्येति ॥ तत्र प्रमाणं प्रतिजानीते ॥ प्राणेति ॥ हि प्रमाणप्रसिद्धमित्यर्थः । किं तत्प्रमाणमित्याशङ्कायां न्यायोपेतां स्मृतिमाह ॥ वायोरिति ॥ यतः जगतः प्रवृत्तिं स्वनियम्याद्वायोः सकाशात् कामयति कारयितुमिच्छति अत एव निमित्ताद् वायोरपि प्रभुं विष्णुं प्राणप्राणमाहुः । प्राणस्य प्राणमित्याद्याः श्रुतय इति । प्राणस्य सकलजगच्चेष्टकस्य प्राणश् चेष्टक इत्यनेन प्राणद्वारा भगवान् सकलचेष्टक इति लभ्यते । अन्यथा प्राणस्य प्राण इत्युक्तिरेव न स्यादिति भाव इत्याचार्यवचनार्थो द्रष्टव्यः ॥ ५० ॥

अपराधः सकृद् भर्त्रा सोढव्यः स्वप्रजाकृतः ।

क्षन्तुमर्हसि शान्तात्मन् मूढस्य त्वामजानतः ॥ ५१ ॥

पदरत्नावली

सोढव्यः क्षन्तुमर्हसीति द्विर्वचनमादरार्थम् । शान्तानां देवानामात्मन् स्वामिन् । मूढस्येत्यस्य विवरणं त्वामजानत इति ॥ ५१ ॥

सत्यधर्मीया

फलितमभिलपन्ति ॥ अपराध इति ॥ यस्माद्भर्त्रा पोषयित्रा । सकृदेक-वारम् । स्वप्रजाकृतः सोढव्यस्तस्मात् । यस्मात्तस्मादिति च पूर्वश्लोकादनुवर्तेते । त्वं ह्यस्य जन्मेत्यादि त्वन्महिम्नाऽयं त्वत्प्रजेति । हे शान्तात्मन् देवस्वामिन् समाधानमूर्त इत्यन्तर्भावः । मूढस्येत्युक्तौ मूढयोनय इत्युक्तमूढता चेन्न कदाचिदपि दयनीयता स्यादिति त्वामजानत इति मौढ्यं विवृतवत्य इति ज्ञेयम् । क्षन्तुमर्हसि ॥ ५१ ॥

सुमनोरञ्जिनी

भर्त्रा सर्वस्वामिना त्वया । अपराधः सोढव्यः । कुतः । यतोऽयमपराधः स्वप्रजाकृत इति । स्वपुत्रकृतापराधं पिता यथा सहते तथा त्वमपि कुर्विति भावः । यद्वा क्षन्तुमर्हसीति प्रार्थयितुं सामान्यं न्यायमाह ॥ अपराध इति ॥ भर्त्रा राज्ञा । सहने निमित्तान्तरमाह ॥ क्षन्तुमिति ॥ शान्तात्मन् सुखपूर्ण त्वां परमपुरुषत्वेनाजानतः । अत एव मूढस्य मानुषत्वप्रकारकमोहयुक्तस्य नागस्य । अपराधमिति विभक्तिव्यत्ययेनानुवर्तते । तथा चाज्ञानकृतत्वा-दपराधः सोढव्य इत्यर्थः ॥ ५१ ॥

अनुगृह्णीष्व भगवन् प्राणांस्त्यजति पन्नगः ।

स्त्रीणां नः साधुशोच्यानां पतिः प्राणः प्रदीयताम् ॥ ५२ ॥

पदरत्नावली

साधुभिः शोच्याः शोकयोग्याः, तासाम् ॥ ५२ ॥

सत्यधर्मीया

अम्बुजाक्ष्यः क्षणं प्रतीक्षध्वं मोक्षणमनन्तरं तनुयामिति नानन्त वद तावदवकाशो नास्तीति विज्ञापयन्ति । अनुगृह्णीष्वेति । हे भगवन् साधु यथा तथा शोच्यानां शोकयोग्यानां तत्रापि स्त्रीणां नोऽनुगृह्णीष्वानुग्रहं कुरु । पन्नगः प्राणांस्त्यजति । अनुग्रहविग्रहमाहुः । पतिः प्राणस्तत्समः प्रदीयताम् । समस्तपाठे पतिश्चासौ प्राणश्चेति वा पत्युः प्राण इति वा विग्रहो ज्ञेय इति । साधुभिः शोच्यानामिति वा ॥ ५२ ॥

सुमनोरञ्जिनी

साधुशोच्यानां साधुभिः सज्जनैः परशोकनिमित्तशोकवद्भिरिति यावत् । शोच्यानां शोकोद्देश्यानाम् । प्राणः प्राणवत्प्रियः पतिः प्रदीयतामित्यन्वयः ॥ ५२ ॥

विधेहि ते किङ्करीणामनुष्ठेयं तवाज्ञया ।

यच्छ्रद्धयाऽनुतिष्ठन् वै मुच्यते स पुमान् भयात् ॥ ५३ ॥

पदरत्नावली

अनुष्ठेयं विधेहि । सस् त्वत्कृपापात्रः पुमान् चेतनमात्रम् ॥ ५३ ॥

दुर्घटभावदीपिका

पुमानित्यस्य चेतन इत्यर्थः । एतेन पुमान् स्त्री चेति वक्तव्यमिति दूषणस्यानवकाशः ॥ ५३ ॥

॥ इति श्रीभागवतटिप्पण्यां सत्याभिनवयतिकृतायां

दुर्घटभावदीपिकायां दशमस्कन्धपूर्वार्धे चतुर्दशोऽध्यायः ॥ १०-१४ ॥

सत्यधर्मीया

युष्मत्पतिप्राणप्रदानमन्यमरणकारणमित्यत आहुः ॥ विधेहीति ॥ ते तव किङ्करीणां दासीनां तवाज्ञयाऽनुष्ठेयं विधेहि । यत्त्वदाज्ञप्तं श्रद्धयाऽनुतिष्ठन् यः पुमान्स भयान्मुच्यते । अयं श्रद्धयाऽनुतिष्ठन्भवेदित्येतद्दृष्टिविषयः । पुमांश्चेतनमात्रं भयाद्विषयान्मुच्यत इत्यावृत्त्याऽन्वयोऽपि ज्ञेयः । इतःपरं नाद्यादयं परान्नरादीनिति हृदयम् ॥ ५३ ॥

सुमनोरञ्जिनी

दुष्टजन्तुषु युष्मासु अनुकम्पा अन्येषां मनःकम्पहेतुरिति चेत्तत्राहुः ॥ विधेहीति ॥ तवाज्ञया । अनेन अस्मद्भर्त्रा । अनुष्ठेयम् इतःपरं कर्तव्यम् । ते किंकरीणां नः विधेहि अनुशाधि । यद् भवदाज्ञप्तमनुतिष्ठन् कुर्वन् ॥ ५३ ॥

श्रीशुक उवाच—

इत्थं स नागपत्नीभिर्भगवान् समभिष्टुतः ।

मूर्च्छितं भग्नशिरसं विससर्जाङ्घ्रिकुट्टनैः ॥ ५४ ॥

पदरत्नावली

अङ्घ्रिकुट्टनैर् अङ्घ्रिभ्यां प्रहारैः ॥ ५४ ॥

सत्यधर्मीया

स भगवान्नागपत्नीभिरित्थं समभिष्टुतः । अङ्घ्रिकुट्टनैः । अनेन गूढपदः पादप्रहारो बह्वरुन्तुद इति माधवस्तथा चकारेति ध्वन्यते । भग्नानि शिरांसि यस्य तं मूर्छितं विससर्ज । ततोऽहिपत्नीप्रियमञ्जुवाक्यं निशम्य तं निर्भयमाशु चक्रे । तथा हि नारीकृतमृदुभाषणेन न कस्य चित्तं मृदुतामुपैतीति रुक्मिणीशविजयोक्तेः ॥ ५४ ॥

सुमनोरञ्जिनी

अङ्घ्रिकुट्टनैर् अङ्घ्रिताडनैः ॥ ५४ ॥

प्रतिलब्धेन्द्रियप्राणः कालियः शनकैर्हरिम् ।

कृच्छ्रात् समुच्छ्वसन् दीनः कृष्णं प्राह कृताञ्जलिः ॥ ५५ ॥

सत्यधर्मीया

शनकैः प्रतिलब्धेन्द्रियप्राणः कृच्छ्रात्समुच्छ्वसन्दीनः कृष्णं हरिं कृताञ्जलिः सन् प्राह ॥ ५५ ॥

सुमनोरञ्जिनी

प्रतिलब्धेन्द्रियप्राणः प्रतिलब्धा उद्बुद्धशक्तयो इन्द्रियाणि प्राणाश्च यस्य सः । कृच्छ्रात्समुच्छ्वसन् । शनकैः प्राहेत्यन्वयः ॥ ५५ ॥

वयं खलाः सहोत्पत्त्या तामसा दीर्घमन्यवः ।

स्वभावो दुस्त्यजो नाथ भूतानां यदसद्ग्रहः ॥ ५६ ॥

पदरत्नावली

यद् यतोऽसद्ग्रहः दुराग्रहः ॥ ५६ ॥

सत्यधर्मीया

उत्पत्त्या सह खला आजनीनखलतोपेतास्तामसास्तमःप्रचुरा दीर्घकोपाश्च । स्वभावस्यानपायादित्याह ॥ भूतानां नाथेति ॥ यद्यतोऽसद्ग्रहोऽसन् ग्रह आग्रहो दुराग्रहः स भूतानां स्वभाव इति वाऽन्वयः । दुस्त्यजो हातुमशक्यः ॥ ५६ ॥

सुमनोरञ्जिनी

वयं सहोत्पत्या खलाः स्वभावत एव खला इत्यर्थः । तत्र निमित्तं तामसा इति । तत्र ज्ञापकं दीर्घमन्यव इति । हे नाथ यदसद्ग्रहो दुराग्रहः सः स्वभावश्च दुस्त्यजः

॥ ५६ ॥

त्वया सृष्टमिदं विश्वं धातुर्गुणविसर्जनम् ।

नानास्वभाववीर्यौजोयोनिबीजाशयाकृति ॥ ५७ ॥

तात्पर्यम्

धातुर्गुणविसर्जनम् । हिरण्यगर्भसकाशाद्गुणभूता सृष्टिरस्य जगतः । प्राधान्येन विष्णोरेव । ‘विष्णुः प्रधानतः स्रष्टा गुणस्रष्टा चतुर्मुख’ इति नारदीये ॥५७॥

पदरत्नावली

धातुर्गुणविसर्जनं धातुर्हिरण्यगर्भस्य सकाशाद् गुणभूता सृष्टिरस्य जगतः, प्राधान्येन सृष्टिस्तु विष्णोरेव । यथोक्तं नारदीये ‘विष्णुः प्रधानतः स्रष्टा गुणस्रष्टा चतुर्मुखः’ इति । कथम्भूतमित्याह नानेति । नानास्वभावा अग्नेरूर्ध्वज्वलनं वायोस्तिर्यग्गमनं सलिलस्य स्यन्दनमित्यादिनानाविधाः स्वभावाः, वीर्याणि पराक्रमादीनि, ओजोऽवष्टम्भः, योनिरुत्पत्तिक्षेत्रं, बीजं कारणम्, आशयो वासना, आकृतिः संस्थानं यस्य तत् ॥ ५७ ॥

सत्यधर्मीया

त्वया सृष्टमिदं विश्वमिति श्लोके धातुर्गुणविसर्जनमित्यनूद्य व्याख्यायमान-मुदाहरति ॥ धातुरिति ॥ धातुर्हिरण्यगर्भस्य सकाशाद्गुणभूता सृष्टिरस्य जगतः । तावकीना तु प्रधानसृष्टिरित्याह ॥ प्राधान्येन विष्णोरेवेति ॥ विष्णुः प्रधानतो मुख्यतया स्रष्टा सृष्टिकर्ता चतुर्मुखो गुणकर्ता । ततश्च श्लोकार्थः ॥ इदं विश्वं त्वया सृष्टं मुख्यतः । धातुर्गुणरूपं विसर्जनं यस्य तत् । अर्थमाह ॥ नानेति ॥ नानास्वभावा जलादीनां स्पन्दनादयो वीर्यं विलक्षणकार्यजन-नसामर्थ्यमोजोऽवष्टम्भो योनिर्बीजं रक्तशुक्लादिराशयोऽभिप्रायो येषामाकृतिः स्वरूपं यस्य तत् ॥५७॥

सुमनोरञ्जिनी

इदं विश्वं त्वया त्वयैव सृष्टम् । धातुस्तु गुणविसर्जनम् । गुणभूता अप्रधानभूता सृष्टिरित्यर्थः । अस्य जगत इति शेषः । नाना नानाविधाः । स्वभावा वस्तुस्वभावा यथाऽग्न्यादेर् दाहकत्वादयः । वीर्याणि पराक्रमाः । ओजो ऽवष्टम्भशक्तिः । योनयः पश्वादयः । बीजं शुक्लस्वेदादि । आशयः पुण्यपापे । आकृतिः संस्थानविशेषः यथा भवति तथा त्वया सृष्टमिति पूर्वेणान्वयः ॥ ५७ ॥

वयं च तत्र भगवन् सर्पा जात्युरुमन्यवः ।

कथं त्यजामस्त्वन्मायां दुस्त्यजां मोहिताः प्रभो ॥ ५८ ॥

पदरत्नावली

जात्या जन्मनैवोरुर्मन्युः क्रोधो येषां ते ॥ ५८ ॥

सत्यधर्मीया

तत्राप्येवंविधे । वयं सर्पजातय इत्युरुमन्यवो बहुकोपा यया मोहिता वयं दुस्त्यजां तां त्वन्मायां कथं त्यजामः ॥ ५८ ॥

सुमनोरञ्जिनी

हे प्रभो वयं जात्या जन्मत एव सर्पाः । त्वन्मायां त्वदिच्छया निर्मिताम् । अत एव दुस्त्यजाम् अस्मज्जातिम् । कथं त्यजाम इति । ज्ञानमहिम्नेति चेत्तत्रोक्तम् ॥ मोहिता इति ॥ ५८ ॥

भवान् हि कारणं तत्र सर्वज्ञ जगदीश्वर ।

अनुग्रहं निग्रहं वा मन्यसे तद् विधेहि नः ॥ ५९ ॥

सत्यधर्मीया

तर्हि न कदाऽपि मोहापवाह इत्यत आह ॥ भवानिति ॥ तत्रैतन्मोहापोहे भवान्कारणमनुग्रहं वा निग्रहं वेति यन्मन्यसे तन्नो विधेहि ॥ ५९ ॥

सुमनोरञ्जिनी

तत्र अस्मत्स्वभावपरित्यागे वक्ष्यमाणनिग्रहानुग्रहयोर्वा । यन्मन्यसे तन् निग्रहानुग्रहयोरन्यतरत् ॥ ५९ ॥

श्रीशुक उवाच—

इत्याकर्ण्य वचः प्राह भगवान् कार्यमानुषः ।

नात्र स्थेयं त्वया सर्प समुद्रं याहि माचिरम् ॥ ६० ॥

पदरत्नावली

कार्यार्थं मानुषोऽवतार इति स तथा ॥ ६० ॥

सत्यधर्मीया

कार्यार्थं मानुषोऽवतार इति स तथा । आज्ञापयति ॥ नेति ॥ ६० ॥

सुमनोरञ्जिनी

कार्यमानुषः देवकार्यार्थं मानुषवत्प्रतीतः । माचिरं शीघ्रम् ॥ ६० ॥

सज्ञात्यपत्यदाराढ्यो गोनृभिर्भुज्यते नदी ।

य एतत् संस्मरेन्मर्त्यस्तुभ्यं मदनुशासनम् ।

कीर्तयन्नुभयोः सन्ध्योर्न युष्मद्भयमाप्नुयात् ॥ ६१ ॥

पदरत्नावली

सन्ध्योः सन्ध्ययोः ॥ ६१ ॥

सत्यधर्मीया

नैकल इत्यप्याह ॥ सज्ञात्यपत्यदाराढ्य इति ॥ गावश्च नराश्चेति तैः । तुभ्यं यन्मदनुशासनं मर्त्यः संस्मरेत्सन्ध्योः सन्ध्ययोर्यश्च कीर्तयन्स युष्मद्भयं नाप्नुयात् ॥६१॥

सुमनोरञ्जिनी

ज्ञातिभिरपत्यैर् दारा एवाद्या येषां तैः सहितः । कुतः । यतः गोभिर् नृभिश्चेयं नदी भुज्यते सेव्यते । अत एतत् पूर्ववृत्तं मदनुशासनम् । संध्योः प्रातःसायं सन्धियुगे । भयं नाप्नुयात् । केभ्यः ? युष्मत् । युष्मद्भयमिति समस्तं वा ॥ ६१ ॥

योऽस्मिन् स्नात्वा ममाक्रीडे देवादींस्तर्पयेज्जलैः ।

उपोष्य मां स्मरन्नर्चेत् सर्वपापैः प्रमुच्यते ॥ ६२ ॥

पदरत्नावली

आक्रीडे एवंविधक्रीडास्थाने ॥ ६२ ॥

सत्यधर्मीया

आक्रीडे एवंविधक्रीडास्थाने ॥ ६२ ॥

सुमनोरञ्जिनी

मम क्रीडास्थाने अस्मिन् ह्रदे ॥ ६२ ॥

द्वीपं रमणकं हित्वा १ह्रदमेतमुपाश्रितः ।

यद्भयात् स सुपर्णस्त्वां नाऽद्यान्मत्पादलाञ्छनम् ॥ ६३ ॥

पदरत्नावली

यस्य सुपर्णस्य भयान् नाम्ना रमणकं द्वीपं हित्वैतं ह्रदमुपाश्रितः । अथ स सुपर्णस्त्वां नाद्यान्न भक्षयेत् । तत्र तन्त्रमाह मत्पादलाञ्छनमिति । मम पादयोर्लाञ्छनं चिह्नं यस्मिन् स तथा तम् ॥ ६३ ॥

सत्यधर्मीया

न च सुपर्णभयादिहायातस्य पुनस्तत्र गच्छेति वचनं युक्तं नेति वाच्यमित्याह ॥ द्वीपमिति ॥ यद्भयाद्रमणकं द्वीपं हित्वैतं ह्रदमुपाश्रितः । एतदिति पाठेऽव्ययम् । स सुपर्णस्त्वां नाद्यान्न भक्षयेत् । तत्र तन्त्रं मत्पादलाञ्छनमिति । मम पादयोर्लाञ्छनं चिह्नं यस्मिंस्तं त्वामिति

॥ ६३ ॥

सुमनोरञ्जिनी

ननु गोगोपपरिरक्षयाऽस्मन्निष्कासनेऽस्माकं गरुडाद्भयं भवेदेवेत्यतस्तदपि नेत्याह ॥ द्वीपमिति ॥ यस्य गरुडस्य भयाद् रमणकं तत्संज्ञकं द्वीपं समुद्रमध्यवर्तिस्थानं हित्वा । स सुपर्णो गरुडः । मत्पादयोर्लाञ्छनं चिह्नं यस्मिन् तादृशं त्वां नाद्यान् न भक्षयेत् ॥ ६३ ॥

एवमुक्तो भगवता कृष्णेनाद्भुतकर्मणा ।

तं पूजयामास मुदा नागपत्न्यश्च सादरम् ॥ ६४ ॥

पदरत्नावली

नागपत्न्यश्च पूजयामासुः ॥ ६४ ॥

सत्यधर्मीया

एवमुक्तो मुदा स्वोदवसितवितरणजया तं पूजयामास नागपत्न्यश्च पूजयामासुः

॥ ६४ ॥

सुमनोरञ्जिनी

तं श्रीकृष्णं नागपत्न्यश्च पूजयामासुः ॥ ६४ ॥

दिव्याम्बरस्रङ्मणिभिः परार्घ्यैरपि भूषणैः ।

दिव्यगन्धानुलेपैश्च महत्योत्पलमालया ॥ ६५ ॥

पदरत्नावली

परार्घ्यैर् महामूल्यैः ॥ ६५ ॥

सत्यधर्मीया

परार्घ्यैर्महामूल्यैर्गन्धाः सुगन्धिद्रव्यमनुलेपा मल्लिकातैलाद्यास्तैः ॥ ६५ ॥

सुमनोरञ्जिनी

पूजाप्रकारमाह ॥ दिव्येति ॥ दिव्याभिर् द्योतमानाभिः । अम्बरमणिमय-स्रग्भिः । दिव्यगन्धैर् दशांगाद्युद्भवैर् अनुलेपैश्चन्दनादिभिश्च ॥ ६५ ॥

पूजयित्वा जगन्नाथं प्रसाद्य गरुडध्वजम् ॥ ६६ ॥

सत्यधर्मीया

गरुडध्वजमित्यनेन तन्निश्चिन्ततां ध्वनयति ॥ ६६ ॥

सुमनोरञ्जिनी

गरुडध्वजमित्युक्त्या गरुडप्रसादोऽपि भगवत्प्रसादाल्लब्ध इति ध्वनितम्

॥ ६६ ॥

नागराजोऽभ्यनुज्ञातः परिक्रम्य प्रणम्य च ।

सकलत्रसुहृत्पुत्रो द्वीपमब्धेर्जगाम ह ॥ ६७ ॥

सत्यधर्मीया

पूर्वं दाराणामुदारस्नेहपात्रत्वेऽपि कृष्णेन ज्ञात्यपत्यानन्तरमुक्तिस्तत्पक्ष- पातान्मोचनमिति न प्रकाशयितुमत्र सकलत्रेति तत्पुरस्कृतिस्तुतस्तस्य सर्वापेक्षया मूलत्वादिदानीं स्तुतितः स्वमुक्तिकर्त्रिति निमित्तत इति ज्ञेयम् ॥ ६७ ॥

सुमनोरञ्जिनी

परिक्रम्य प्रदक्षिणीकृत्य ॥ ६७ ॥

तदैव साऽमृतजला यमुना निर्विषाऽभवत् ।

अनुग्रहाद् भगवतः क्रीडामनुजरूपिणः ॥ ६८ ॥

॥ इति श्रीमद्भागवते दशमस्कन्धपूर्वार्धे चतुर्दशोऽध्यायः ॥

पदरत्नावली

क्रीडार्थं मनुजेषु यदाविष्कृतमप्राकृतरूपं तदस्यास्तीति क्रीडामनुजरूपी तस्य

॥ ६७ ॥

॥ इति श्रीमन्महेन्द्रतीर्थपूज्यपादशिष्यविजयध्वजतीर्थभिक्षुकृतायां पदरत्नावल्यभिधायां श्रीमद्भागवतटीकायां दशमस्कन्धपूर्वार्धे चतुर्दशोऽध्यायः ॥

सत्यधर्मीया

प्राङ्निर्विषा नितरां विषसहिता यमुना तदैवामृतजला तत्तुलसलिलाऽभवत् । क्रीडामनुजरूपिणो भगवतोऽनुग्रहादिति हेतूक्तिः ॥ ६८ ॥

॥ इति श्रीभागवतटिप्पण्यां सत्यधर्मयतिकृतायां

दशमस्कन्धपूर्वार्धे चतुर्दशोऽध्यायः ॥ १०-१४ ॥

सुमनोरञ्जिनी

तदैव तद्गमनोत्तरमेव । क्रीडार्थं मनुजवत्प्रतीतरूपवतः श्रीकृष्णस्यानुग्रहात् । निर्विषा सती । अमृततुल्यजला अभवत् ॥ यथा विषजलाशयात्तरणिकन्यकायाः सरीसृपं समुदवासयन्नकृत तज्जलं सज्जलं तथैव मम मानसाशयनिवेशकामाहिनं व्युदस्य कुरु भो प्रभो मम मनस्त्वदाक्रीडनम् ॥ ६८ ॥

**॥ इति श्रीमद्भागवतदशमस्कन्धपूर्वार्धव्याख्यायां **

(गूढकर्तृकायां) सुमनोरञ्जिन्यां चतुर्दशोऽध्यायः ॥ १०-१४ ॥