ततश्च पौगण्डवयः श्रितौ व्रजे बभूवतुस्तौ पशुपालसम्मतौ
॥ अथ त्रयोदशोऽध्यायः ॥
श्रीशुक उवाच–
ततश्च पौगण्डवयः श्रितौ व्रजे बभूवतुस्तौ पशुपालसम्मतौ ।
गाश्चारयन्तौ सखिभिः समं पदैर्वृन्दावनं पुण्यमतीव चक्रतुः ॥ १ ॥
पदरत्नावली
श्रवणमननाभ्यां दुरितहरणाय हरेः पौगण्डवयःकृतचित्रसुचरित्रं निरूपय-त्यस्मिन्नध्याये । ततः कौमारात् पौगण्डसञ्ज्ञं वयः श्रितौ प्राप्तौ । पशुपालत्वेन लोकानां सम्मतौ योग्यौ । स्वतः पुण्यं वृन्दावनम् अतीव पुनरधिकं पुण्यवच् चक्रतुः ॥ १ ॥
सत्यधर्मीया
आपञ्चमसंवत्सरं बाल्यमानव पौगण्डं तत उत्तरमाषोडशं कैशोरं तत्र कृष्णपौगण्डवयःकृतं चरितं दुरितहारि निरूपयत्यस्मिन्नध्याये । ततो बाल्यात्पौगण्डसंज्ञं वयःश्रितौ । पशवो महान्तस्तत्पालाविति सम्मतौ तत्त्वेन लोकानां सम्मतौ बभूवतुः । सखिभिर्मित्रैः समं साकं गाश्चारयन्तौ पदैः साङ्घ्रिक्षेपैः स्वतः पुण्यं वृन्दावनमतीव पुनरधिकं चक्रतुः ॥ १ ॥
सुमनोरञ्जिनी
श्रीहरेः पौगण्डवयसि क्रियमाणं विक्रमं निरूपयत्यस्मिन्नध्याये । ततः कौमारात् । पौगण्डवयः नववर्षलक्षणं वयः । श्रितौ प्राप्तौ । पशुपालनयोग्य इति संमतौ । वृन्दावनम् अतीव पुण्यम् अत्यन्तपवित्रम् ॥ १ ॥
तन्माधवो वेणुमुदीरयन् वृतो गोपैर्गृणद्भिः स्वयशो बलान्वितः ।
पशून् पुरस्कृत्य पशव्यमाविशद् विहर्तुकामः कुसुमाकरं वनम् ॥ २ ॥
पदरत्नावली
उदीरयन् नादयन् । तद् वनं पशव्यं पशुभ्यो हितम् । कुसुमाकरं पुष्पोत्पत्ति-स्थानम् ॥ २ ॥
सत्यधर्मीया
स्वयशो गृणद्भिः स्तुवद्भिर्गोपैर्वृतो माधवः सबलः पशून्पुरस्कृत्य, पशव्यं तद्धितम् । विहर्तुकामः । तुं काममनसोरपीत्यादेर्विहर्तुं काम इच्छा यस्य सः । कुसुमाकरं कुसुमानां पुष्पाणामाकरः खनिरुत्पत्तिस्थानमिति यावत् तद्वनं वेणुमुदीरयन्रणयन्प्राविशत् ॥ २ ॥
सुमनोरञ्जिनी
माधवः वेणुम् उदीरयन् ध्वनयन् । स्वयशः गृणद्भिर् वृतः । तद्वनम् आविशत् । कीदृशम् । कुसुमाकरं कुसुमोत्पत्तिस्थानम् ॥ २ ॥
तन्मञ्जुघोषालिमृगद्विजाकुलं महन्मनः प्रख्यपयःसरस्वता ।
वातेन जुष्टं शतपत्रगन्धिना निरीक्ष्य रन्तुं भगवान् मनो दधे ॥ ३ ॥
पदरत्नावली
मञ्जवो मनोहरा घोषा येषां ते अलयश्च मृगाश्च द्विजाश्च तैराकुलं व्याप्तम् । महतां नारायणचरणारविन्दनिरन्तरनिरतमनसां मनः, तेन प्रख्यं नैर्मल्येन तुल्यं पयो जलं यस्य तत् तथा, महन्मनःप्रख्यपयश्च तत् सरश्च महन्मनःप्रख्यपयःसरः, तदस्यास्तीति महन्मनः-प्रख्यपयःसरस्वान् तेन । शतपत्रगन्धिना शतपत्राख्यपद्मानां गन्धोऽस्यास्तीति शतपत्रगन्धी तेन वातेन वायुना ॥ ३ ॥
सत्यधर्मीया
मञ्जवो मञ्जुला मनोहरा घोषा येषां तेऽलयश्च भ्रमराश्च मृगाः सिंहादयश्च द्विजाः कोकिलादिपक्षिणश्च तैराकुलम् । मञ्जुघोषेत्यलिमात्रविशेषणं वा । तन्मञ्जुघोषेण वेणुमनोहरघोषेणालयो मृगा द्विजा आकुला अपूर्वरवश्रवणतो यत्रेति तद्वा । महतां मनो महन्मनस्तेन । प्रख्यं नैर्मल्येन तुल्यं पयो जलं तद्वत्सरस्तद्वान् तदुपरि पतनेन तेनात एव शतपत्राणां कुशेशयानां गन्धः सोऽस्यास्तीति तद्वांस्तेन वातेन जुष्टं निरीक्ष्य भगवान्रन्तुं मनो दधे दध्रे ॥ ३ ॥
सुमनोरञ्जिनी
भगवान् । तद्वनं निरीक्ष्य रन्तुं मनो दधे । मंजु मनोहरा घोषा येषान्ते च ते अलयः भ्रमराः, मृगाः, द्विजाः पक्षिणश्च तैर् आकुलं व्याप्तम् । महतां भागवतानां मनःप्रख्यं मनस्तुल्यं तद्वत् स्वच्छं पयो येषु तानि सरांसि यस्मिन्देशे सन्ति तेन । तथा शतपत्राणां पद्मानां गन्धोऽस्मिन्नस्तीति वा, गन्धिनो गन्धवदवयवा यस्मिन्निति वा तेन । वातेन जुष्टं सेवितम् ॥३॥
स तत्र तत्रारुणपल्लवश्रिया फलप्रसूनोरुभरेण पादयोः ।
स्पृशच्छिखान् वीक्ष्य वनस्पतीन् मुदा स्मयन्निवाहाग्रजमादिपूरुषः ॥ ४ ॥
पदरत्नावली
अरुणाश्च ते पल्लवाश्च अरुणपल्लवाः, तेषां श्रिया सह फलानां प्रसूनानां चोरुर्महान् भरो भारस्तेन पादयोः स्पृशन्त्यः शिखा एव कराग्रकोटयो येषां ते तथा तान् वनस्पतीन् वृक्षान् वीक्ष्य । अत्र भगवद्भक्तिभरभुग्नग्रीवाः पुरुषा यथा पुष्पनिचयादिना मुकुन्दचरणारविन्दमर्चयन्ति तथा वृक्षाश्च पुष्पभरोपनतशाखाकराग्रैः पूजयन्तीति श्लेषार्थो बोद्धव्यः । स्वभावत एव सर्वदा प्रसन्नाननत्वादिवेत्युक्तम् ॥ ४ ॥
सत्यधर्मीया
स आदिपूरुषस्तत्र तत्र वनावनौ । अरुणपल्लवश्रियाऽरुणानां पल्लवानां श्रिया सह । अनेन नीराजनं ध्वन्यते । फलानां प्रसूनानां चोरुर्महान्भरो भारस्तेन । पादयोः, स्पृशन्त्यः शिखा अग्रभागा येषां ते तान् । अनेन नमनसत्कृतनमनमनवद्ध्वन्यते । वीक्ष्य मुदा स्मयन्नग्रजं बलं प्राह । स्वसाम्राज्यं जनसभाजनार्थमग्रजेऽर्पयन्नाहेतीवशब्देन द्योतयति ॥ ४ ॥
सुमनोरञ्जिनी
आदिपूरुषः श्रीकृष्णः । तत्र तत्र वनस्पतीन् वृक्षान् वीक्ष्य । अग्रजं बलभद्रम् आहेत्यन्वयः । कथम्भूतान् । अरुणानां पल्लवानां नवदलानां श्रिया सह । फलप्रसूनानां फलपुष्पाणाम् उरुभरेण भारेण । पादयोः रामकृष्णपादयोः । स्पृशंत्यः शिखा अग्रभागा येषां तान् । पदरत्नावल्याम् अरुणपल्लवश्रिया युक्तयोः पादयोरित्यन्वयो दर्शितः ॥ ४ ॥
श्रीभगवानुवाच—
अहो अमी देववरामरार्चितं पदाम्बुजं ते सुमनःफलार्हणम् ।
नमन्त्युपादाय शिखाभिरात्मनस्तमोपहत्यै तरुजन्म यत्कृतम् ॥ ५ ॥
पदरत्नावली
लोकशिक्षणाय आत्मन्यर्पितार्हणादिकमग्रजं प्रत्यर्पन्नेवमाह अहो इति ॥ हे देववर अमरार्चितं सुरपूजितं ते पादाम्बुजं सुमनःफलार्हणं पुष्पफलात्मकपूजोपायनमुपादाय शिखाभिर्नमन्ति । किमर्थमित्याह आत्मन इति ॥ येन तमोनिमित्तपापेन कृतं सम्पादित-मात्मनस्तरुजन्म तस्य तमसो ऽज्ञाननिमित्तपापस्य उपहत्यै निरासाय ॥ ५ ॥
सत्यधर्मीया
किमाह महामाहात्म्यो हरिर्हलधरं प्रतीत्यतः श्लोकत्रितयेनाह ॥ अहो इति ॥ हे देववर । अमरार्चितं देवपूजितं ते पदाम्बुजं पादकमलं सुमनःफलार्हणं पुष्पफलात्मकं पूजोपायनमुपादाय शिखाभिर्येन पापेन कृतमात्मनस्तरुजन्म तस्य तमसः पापस्यापहत्या अमी शिखाभिर्नमन्ति । अहो आश्चर्यचर्योऽस्यार्थित्वमिति भावः ॥ ५ ॥
सुमनोरञ्जिनी
हे देववर सुमनःफलार्हणैः पुष्पफलरूपपूजासाधनैः । सुष्ठु मनसः फलं यद्ध्यानादिरूपं तद्रूपार्हणैरिति वा । अमरार्चितं ते पादाम्बुजम् । अमी वृक्षाः । शिखाभिः शिखाग्रैर् उपादाय स्वीकृत्य स्पृष्ट्वेति यावत् । त्वां नमन्ति । कस्मै प्रयोजनाय । तमसोऽज्ञानस्य अपहत्यै परिहाराय । यद् यदर्थं त्वत्पूजार्थमेव । तरुजन्म कृतं स्वीकृतं, ऋष्यादिभिरिति । येन तमसा तरुजन्म कृतं तत्तमसोऽपहत्यै इति वा ॥ ५ ॥
एतेऽलिनस्तव यशोऽखिललोकतीर्थं
गायन्त आदिपुरुषानुपथं भजन्ते ।
प्रायो अमी मुनिगणा भवदीयमुख्या
गूढं वनेऽपि न जहत्यनघात्मदैवम्१ ॥ ६ ॥
पदरत्नावली
हे आदिपुरुष अग्रज । ‘भ्रमराणां पक्षमूलमलमाहुर्मनीषिणः’ इत्युक्तेः, अलानि पक्षमूलानि सन्ति एषामित्यलिनो भ्रमराः । अखिलानां लोकानां तीर्थं मुनिजनसेवितजलवत् कीर्तनयोग्यं दुरितप्रक्षालनक्षमम् । यद्वा अखिलो ऽनल्पः लोकः ज्ञानलक्षणप्रकाशो येषां ते तथा तेषां तीर्थं शास्त्रस्थानीयम् । ‘लोकृ दर्शने’ इति धातुः । ‘तीर्थं शास्त्रे गुरौ क्षेत्रे मुनिजुष्टजले तथा’ इत्यभिधानम् । अनुपथम् अनुगमनम् । ‘पथे गतौ’ इति धातुः । अनुपदं वा यशो गायन्तः सन्तः भजन्ते । मुनिगणाः सर्वज्ञकल्पानां देवादीनां गणाः । ‘वेत्ता वेद्यस्य सर्वस्य मुनिः सद्भि-रुदाहृतः’ इत्युत्पलमाला । भवदीयेषु भृत्येषु मुख्या वने गूढं मनुष्यलिङ्गधरमपि त्वां न जहति न त्यजन्ति । ‘ओ हाक् त्यागे’ इति धातुः । अमराणाम् आत्मदैवं स्वेष्टदैवम् । अनघात्मदैवमिति पाठे अनघानां निर्दुःखानां मुक्तानाम् आत्मदैवम् । ‘मुक्तानां परमा गतिः’ इत्यादेः । ‘दुःखैनोव्यसनेष्वघम्’ इत्यमरः । हे अनघ निर्दोष आत्मदैवं स्वस्तुत्यमिति वा ॥ ६ ॥
सत्यधर्मीया
हे आदिपूरुष अग्रज । अलानि पक्षमूलानि सन्त्येषामित्यलिनः । भ्रमराणां पक्षमूलमलमाहुर्मनीषिण इति वचनात् । अखिललोकतीर्थमखिलानां लोकानां तीर्थमृषिजुष्टजलतुल्यम् । अखिललोकस्य ज्ञानिजनस्य शास्त्ररूपमिति तीर्थं वा । यशो दिक्स्फूर्तिमतीं कीर्तिम् । दिक्षु यानाद्यश इति छान्दोग्यभाष्योक्तेः । गायन्तः सन्तोऽनुपथमनुपदं वा भजन्ते यतोऽतः प्रायो बाहुल्येन भवदीयेषु तावकसेवकेषु मुख्या मुनिगणा एवामी । हे अनघ निर्दोष हे अमर वा । आत्मदैवं स्वस्तुत्यं त्वां वने गूढमपि न जहति न त्यजन्ति । मनुजतनुं निगूढं त्वामेतेऽप्यल्यादितया गूढस्वस्वरूपास्तज्जात्यनुरूपस्वरादिना त्वां सेवन्त इति भावः । अला वृश्चिकलाङ्गूलं तदिवास्त्येषा-मित्यलिनः । अल भूषणादौ सर्वधातुभ्य इन् । मधुपालिनः, षट्पदभ्रमरालय इत्युभयतश्चामरः । पूर्वत्र चोपयुक्त उत्तरत्र चोपयोक्ष्यत इति लेखनमत्रेति ज्ञेयम् ॥ ६ ॥
सुमनोरञ्जिनी
हे आदिपूरुष एते अलिनो भ्रमराः । अखिललोकानां तीर्थं पावनम् । शास्त्रेऽप्यम्भसि पावन इति च । तव यश एव गायन्ति । अनुपथं मार्गमनुसृत्य । भजन्ते च । इदं नोत्प्रेक्षेत्याह ॥ प्राय इति ॥ प्रायः प्रायशः । अमी मुनिगणाः । कीदृशाः । भवदीयेषु वैष्णवेषु मुख्याः । अत एव गूढं मर्त्यलिङ्गधरमपि । अमराणाम् आत्मदैवं कुलस्वामिनं न जहति न त्यजन्ति ॥ ६ ॥
नृत्यन्त्यमी शिखिन ईड्य मुदा हरिण्यः
कुर्वन्ति गोप्य इव ते प्रियमीक्षणेन ।
सूक्तैश्च कोकिलगणा गृहमागताय
धन्यो वनौकस इयान् हि सतां निसर्गः ॥ ७ ॥
पदरत्नावली
ईड्य स्तुत्य । शिखिनो मयूराः, अन्यत्र जटाधारिणस् तापसाः । हरिण्यः हरिणस्त्रियः, अन्यत्र हिरण्मयवत् तपस्तेजसा ज्वलन्तः । ‘हरिणी स्याद् हिरण्मयी’ इति हलायुधः । ते तव ईक्षणेन निरीक्षणेन प्रियं कुर्वन्ति । कोकिलगणाश्च सूक्तैः पञ्चमरागादिमञ्जुलकीर्तनैः, अन्यत्र कः ब्रह्मा उः शिवस् तयोः किल वार्ता सङ्कीर्तनं येषां ते कोकिला इन्द्रकामादिदेवास् तेषां गणाः सूक्तैः श्रुतिवचनैः प्रियं कुर्वन्ति । ‘वार्तासम्भाव्ययोः किल’ इति यादवः । स्मार्तन्यायं सूचयति गृहमिति ॥ गृहमागताय अतिथये गृहिणाऽर्ध्यादिकं दातव्यमिति यत् तस्माद् वनौकसो वनमेव ओको निकेतनं येषां ते मृगादयो वानप्रस्थादयो वा गृहं वनरूपस्वनिवासमागताय भवते प्रियं कुर्वन्तीति धन्याः कृतार्थाः । सतां निसर्गः स्वभाव इयान् एतावान् । हिशब्देन उक्तार्थे नानामानानि सूचयति । ‘वैश्वानरः प्रविशत्यतिथिर्ब्राह्मणो गृहान् । तस्यैतां शान्तिं कुर्वन्ति हर वैवस्वतोदकम् । आशा प्रतीक्षे सङ्गतं सूनृतां चेष्टापूर्ते पुत्रपशूंश्च सर्वान् । एतद् वृङ्क्ते पुरुषस्याल्पमेधसो यस्यानश्नन् वसति ब्राह्मणो गृहे’ इत्यादेः ॥ ७ ॥
सत्यधर्मीया
अमी शिखिनः केकिनः । शिखी केकीत्यमरः । नृत्यन्ति । ईड्य मुदेति योग्ययोग्यान्वयि । इदं तु स्वजलदतुलकायच्छविविलोकनघटितनटनानेतान्भ्रातर्यारोप्योचे हरिरित्यामर-पामरं विज्ञातमेव सर्वत्रासम्भावितं भगवति योज्यमित्यान्तरङ्गिको भावोऽवसेयः । ईड्यमुदेति पदमेकं वा । या रमयेड्यः स्तुत्योऽहं तद्धेतुकमुदेति तदाऽर्थः । यद्वा शुभ्राण्यप्यभ्राणि सन्ति बलकलेवरमपि शुभ्रमिति तदभ्रभ्रान्त्या तन्नर्तनप्रवर्तनं युक्तमित्येवमुक्तिः । उक्तं च रामायणे । पाण्डुरारुणवर्णानि नीलमाञ्जिष्ठकानि च । प्रविशन्नभ्रजालानि निष्क्रामंश्च पुनः पुन इति । अत एव नीलमेघसमाभास इत्यादौ नीलादिपदसार्थकता दृढनिरूढेति ज्ञेयम् । हरिण्यो हरिणतरुण्यो गोप्य इव ते ईक्षणेन निरीक्षणेन प्रियं कुर्वन्ति । कोकिलगणाः सूक्तैः पञ्चमरागप्रपञ्चनवचनैर्वनौकसो वनमोको भवनं येषां ते तथा । गृहं वनरूपस्वनिवासमागताय प्रियं कुर्वन्ति किलैतत्सम्भावितं हि यतोऽतो धन्यः कृतार्थः सतां निसर्गः स्वभाव इयानेतावानेव । अमी मुनिगणा इति पूर्वोक्तमत्राप्यनुसन्धेयम्
॥ ७ ॥
सुमनोरञ्जिनी
हे ईड्य स्तुत्य । शिखिनो मयूराः । त्वां दृष्ट्वा मुदा नृत्यन्ति । हरिण्यः हरिणस्त्रियः । मुदा ईक्षणेन सप्रेमावलोकनेन । गोप्य इव ते प्रियं कुर्वन्ति । गृहं वनौकसां गृहं वनमेव तत्प्रत्यागताय ते । कोकिलगणाश्च । सूक्तैर् मधुरस्वरवचनैः प्रियं कुर्वन्ति । एते वनौकसो धन्याः सज्जनाः । कुतः । हि यस्मात् सताम् इयान् यद्गृहमागताय सप्रेमावलोकनसूनृतवाण्यादिभिः प्रीणनमित्येतावान् निसर्गः स्वभावः । तस्मात् । इति रामाविष्टस्वांशमुद्धिश्य भगवानुवाचेति ॥७॥
श्रीशुक उवाच—
एवं वृन्दावनं कृष्णः श्रीमत् प्रीतमनाः पशून् ।
रेमे सञ्चारयन्नद्रेः सरिद्रोधस्सु सानुगः ॥ ८ ॥
पदरत्नावली
एवमग्रजार्पितप्रभूतनिजसाम्राज्यः कृष्णः श्रीमद् वृन्दावनमिति प्रीतमना ओः गोवर्धनगिरेः पादेषु सरितो यमुनाया रोधस्सु तीरेषु सानुगः पशून् चारयन् रेमे । ‘कूलं रोधश्च तीरं च’ इत्यमरः ॥ ८ ॥
सत्यधर्मीया
एवमग्रजसमर्पितस्वप्राज्यसाम्राज्यः श्रीमद्वृन्दावनमिति प्रीतमना ओर्गोवर्धन-सम्बन्धिनी या सरिद्यमुना तद्रोधस्सु तत्तीरेषु । कूलं रोधश्च तीरं चेत्यमरः । सानुगः पशूंश्चारयन्रेम इत्यन्वयः । ओः सानुग इति वाऽन्वयः । तदणुशृृङ्गोपरिग इत्यर्थः ॥ ८ ॥
सुमनोरञ्जिनी
एवं श्रीमद्वृन्दावनं प्रति । प्रीतमनाः कृष्णः । सानुगः सन् । ओः पादेषु । सरितां रोधस्सु तटेषु । रेमे चिक्रीडे ॥ ८ ॥
क्वचिद् गायति गायत्सु मदान्धालिष्वनुव्रतैः ।
उपगीयमानचरितः सखिसङ्कर्षणान्वितः ॥ ९ ॥
पदरत्नावली
रतिप्रकारं प्रपञ्चयति क्वचिदिति ॥ अनुव्रतैर् अनुचरैः, वृन्दारकादिवृन्दैरिति यावत् । सखिभिः सङ्कर्षणेन चान्वितो ऽनुगतः ॥ ९ ॥
सत्यधर्मीया
कुसुमरसास्वादनमदेनान्धा अलिनोऽलयो वा तेषु गायत्सु क्वचित्क्वापि गायति । अनुवृतैस्तत्कूजनानुकृतस्वकूजनैरुपगीयमानचरित इदं मुद्रणाभावाद्देवादिभिरित्यर्थः । अनुव्रतैर्गोपालै-रिति व्याख्या सखीति स्तुत्यकृष्णेन सह छत्रिन्यायेन वा तदाप्ततमत्वेन स्तव्यतया सम्मतजन-विशेषविषयकतया नेतव्यम् । सखीभिः सङ्कर्षणेन चान्वितोऽनुगतः ॥ ९ ॥
सुमनोरञ्जिनी
तत्प्रकारमेवाह ॥ क्वचिदिति नवतिश्लोकैः । अनुव्रतैर् अनुगैः । उपगीय-मानचरितः । सख्या श्रीदाम्ना संकर्षणेन चान्वितः । मदान्धेष्वलिषु गायत्सु स्वयं गायति
॥ ९ ॥
क्वचिच्च कलहंसानामनु कूजति कूजितम् ।
अभिनृत्यति नृत्यन्तं बर्हिणं हासयन् क्वचित् ॥ १० ॥
पदरत्नावली
हासयन् हासं जनयन् ॥ १० ॥
सत्यधर्मीया
कूजितं कूजनमनु कूजति । बर्हिणं मयूरं हासयन्पार्श्वस्थैर्लोकैरयं स्वरो न कृष्णस्वरवदित्युपहासयन् बर्हिणमिति वा ॥ १० ॥
सुमनोरञ्जिनी
कलहंसानां कूजितम् अनु अनुसृत्य कूजति । बर्हिणं नृत्यन्तम् अभि पुरतः नृत्यति । सखीन् हासयन् ॥ १० ॥
मेघगम्भीरया वाचा नामभिर्दूरगान् पशून् ।
क्वचिदाह्वयति प्रीत्या गोगोपालमनोज्ञया ॥ ११ ॥
पदरत्नावली
नामभिः स्वसङ्केतितैः । गवां गोपालानां मनो जानातीति तथा ॥११॥
सत्यधर्मीया
गोगोपालमनोज्ञया मनोहारिण्या मेघगम्भीरया वाचा नामभिः स्वसङ्केतितैः । तन्मनो जानातीति तथा ॥ ११ ॥
सुमनोरञ्जिनी
क्वचिच्च गवां गोपालानां च मनोज्ञया मनोहारिण्या । वाचा । नामभिर् गङ्गा यमुनेत्यादिस्वसंकेतितनामभिः ॥ ११ ॥
चकोरक्रौञ्चचक्राह्वभारद्वाजालिबर्हिणाम् ।
अनुरौति स्म सत्वानां भीतवद् व्याघ्रसिंहयोः ॥ १२ ॥
पदरत्नावली
व्याघ्रसिंहयोः सकाशाद् भीतवद् अनुरौति तच्छब्दमनुकरोति ॥ १२ ॥
सत्यधर्मीया
चकोरक्रौञ्चचक्राह्वभारद्वाजालिबर्हिणामित्यत्रान्तराविद्यमानमाह्वेति देहलीदीप-न्यायेन सर्वान्वयि । चकोरेत्यादि बर्हिणान्तं गतम् । चकोरादीनां सत्वानामिति सामानाधिकरण्यम् । वैय्यधिकरण्येन तदितरेषां सत्त्वानां प्राणिनामिति वा । अनु रौति तद्रुतवद्रुतं करोतीत्यर्थः । सिंह-व्याघ्रयोः सकाशाद्भीतवदनुरौति । व्याघ्रो मां ग्रसत्यर आगच्छेति यं कञ्चित्प्रति शब्दं करोति
॥ १२ ॥
सुमनोरञ्जिनी
चकोरादीन् बर्ह्यन्तान् अनुकृत्य रौति । सत्वानाम् इतरसत्वानाम् । व्याघ्रादीनप्यनुरौति । क्वचिच्च व्याघ्रसिंहयोः सकाशाद् भीतवत् प्रदर्शयति । पलायतीति भावः
॥ १२ ॥
क्वचित् क्रीडापरिश्रान्तं गोपोत्सङ्गोपबर्हणम् ।
स्वयं विश्रामयत्यार्यं पादसंवाहनादिभिः ॥ १३ ॥
पदरत्नावली
गोपस्य उत्सङ्गोऽङ्क एव उपबर्हणं शिरःपीठं यस्य स तथा तम् आर्यं ज्येष्ठं पादसंवाहनादिभिः स्वयं साक्षाद् विश्रामयति क्रीडाप्राप्तक्लेशं नाशयति ॥ १३ ॥
सत्यधर्मीया
गोपस्य यस्य कस्यचिदुत्सङ्ग आरोह उपबर्हणं शिरःपीठम्, आर्यं पादसंवाहनादिभिः स्वयं साक्षाद्विश्रामयति । वा चित्तविराग इत्यनुवृत्तो वाशब्दो व्यवस्थित-विकल्पार्थः । विश्रमं करोति । रजो विश्रामयन्राज्ञां धुर्यान्विश्रामयेति स इत्यादिवत् ॥ १३ ॥
सुमनोरञ्जिनी
गोपस्य उत्सङ्ग एव उपबर्हणं शिरोवलम्बनं यस्य सः । तम् आर्यं ज्येष्ठं बलभद्रम् । पादसंवाहनादिभिः । विश्रामयति विगतश्रममकरोत् । इदं च बलरामस्य लक्ष्मणजन्मनि कृतस्वयोग्यताधिकसाधनस्य ह्रासार्थं मन्तव्यम् । तदुक्तं श्रीमन्महाभारततात्पर्ये ॥ १३ ॥
नृत्यतो गायतो वाऽपि वल्गतो युध्यतो मिथः ।
गृहीतहस्तौ गोपालान् हसन्तौ प्रशशंसतुः ॥ १४ ॥
पदरत्नावली
वल्गतः लत्प्लवतः । गृहीतौ हस्तौ याभ्यां तौ रामकृष्णौ गोपालान् प्रशशंसतुर् नर्तनगानोत्प्लवनादिकं श्लाघयामासतुः ॥ १४ ॥
सत्यधर्मीया
वल्गत उत्प्लवनादि कुर्वतः । गृहीततद्धस्तौ रामकृष्णौ हसन्तौ प्रशशंस-तुर्नर्तनादिकं बहुसमीचीनमिति तुष्टुवतुः ॥ १४ ॥
सुमनोरञ्जिनी
रामकृष्णौ गृहीतहस्तौ वल्गत उत्प्लवनं कुर्वतः । नृत्यादीन् कुर्वतो गोपालान् सम्यक् नृत्यतः प्रशशंसतुः । अलं हसन्तौ बभूवतुः ॥ १४ ॥
क्वचित् पल्लवतल्पेषु नियुद्धश्रमकर्शितः ।
वृक्षमूलाश्रयः शेते गोपोत्सङ्गोपबर्हणः ॥ १५ ॥
पदरत्नावली
नियुद्धं द्वन्द्वयुद्धं तेन जातो यः कृतकश्रमस् तेन कर्शितः म्लान इव ॥१५॥
सत्यधर्मीया
नियुद्धं द्वन्द्वयुद्धं तेन जातो यः श्रमस्तेन कर्शितः क्लिष्ट इव । पल्लवतल्पेषु कोमलकिसलयकलितास्तरणेषु ॥ १५ ॥
सुमनोरञ्जिनी
नियुद्धेन यः श्रमस्तेन कर्शित इव । पल्लवमयतल्पेषु शेते स्वपिति ॥१५॥
पादसंवाहनं चक्रुः केचित् तस्य महात्मनः ।
अपरे हतपाप्मानो व्यजनैः समवीजयन् ॥ १६ ॥
सत्यधर्मीया
हतः पाप्मा येषां ते तथा । इदं संवहद्वीजयद्विशेषणम् ॥ १६ ॥
सुमनोरञ्जिनी
पादयोः संवाहनं कराभ्यां पीडनम् । व्यजनैर् अपरे समवीजयन् । शुकस् तान् स्तौति । हतपाप्मान इति ॥ १६ ॥
अन्ये तदनुरूपाणि मनोज्ञानि महात्मनः ।
गायन्ति स्म महाराज स्नेहक्लिन्नधियः शनैः ॥ १७ ॥
पदरत्नावली
तदनुरूपाणि चरितानि । स्नेहेन भक्तिरसेन क्लिन्ना आर्द्रा धीर्येषां ते तथा
॥ १७ ॥
सत्यधर्मीया
तदनुरूपाणि चरितानीति पूरणीयम् । स्नेहेन, एतत्पादस्य कृष्णहस्त-स्पर्शायोग्यत्वादेवोत्तरत्र गूढत्वप्राप्तिः फलमित्युत्प्रेक्षयन्ति । भक्तिरसेन क्लिन्ना आर्द्रा धीर्येषां ते तथा शनैर्निद्राविद्रुतिदरतः ॥ १७ ॥
सुमनोरञ्जिनी
अन्ये तदनुरूपाणि तत्कालोचितानि । महात्मनः श्रीकृष्णस्य । मनोज्ञानि सन्तोषकारीणि । शनैर् गायन्ति गानानि कुर्वन्ति । सर्वेषां मनोज्ञानि महात्मनश् चरित्राणि गायन्तीति वा । स्नेहेन क्लिन्ना आर्द्रा धीर्येषां ते तथाविधाः ॥ १७ ॥
एवं निगूढात्ममतिः स्वमायया गोपात्मजत्वं चरितैर्विडम्बयन् ।
रेमे रमालालितपादपल्लवो ग्राम्यैः समं ग्राम्यवदीशचेष्टितम् ॥ १८ ॥
पदरत्नावली
स्वमायया स्वेच्छयैव निगूढात्ममतिः प्रच्छन्नस्वरूपानुभवः, अन्यापेक्षयेति शेषः । ग्राम्यैर् मूर्खजनैः समं ग्राम्यवन् मूर्खजनवद् रेमे । एवमीशस्य सर्वेशस्य कृष्णस्य चेष्टितम्, चित्रमिति शेषः ॥ १८ ॥
दुर्घटभावदीपिका
रमालालितपादपल्लवः श्रीकृष्णो ग्राम्यैर्मूर्खजनैः समं सह ग्राम्यजनव-न्मूर्खजनवद्रेमे । एवमीशचेष्टितमीशस्य सर्वेशस्य कृष्णस्य चेष्टितमिति चित्रमिति । एतेनेशचेष्टित-मित्येतदनन्वितमिति दूषणं परास्तम् । एवमिति चित्रमित्यनयोः शेषेणान्वयस्योक्तत्वात्
॥ १८ ॥
सत्यधर्मीया
एवं निगूढात्मनो मतिर्यस्य सः । स्वरूपभूतेत्यात्मा मतिर्यस्येति वा । गूहनमीहात एव नेतरत इत्याह ॥ स्वमाययेति ॥ स्वेच्छयेत्यर्थः । चरितैः कर्मभिर्गोपात्मजत्वं विडम्बयन्ननुकुर्वन् रमालालितपादपल्लवोऽपि ग्राम्यैरश्लीलजनैः समं साकं रेमे । नरेषु जनने नरवत्प्रवृत्तिरित्यादेरीशचेष्टितं ग्राम्यवदश्लीलवद्भवति । अयं चानुकरणस्य महामहिमा ॥ १८ ॥
सुमनोरञ्जिनी
स्वमायया स्वेच्छया निगूढा अनाविर्भाविता आत्ममतिर् आत्मा परमात्मेति मतिर्येन स तथा । अन्येषामिति शेषः । चरितैर् गोपात्मजत्वं नन्दात्मजत्वम् । विडम्बयन् ज्ञापयन् । रमालालितपादपल्लवोऽपि । ग्राम्यैर् भूतैः समं ग्राम्यवदेव रेमे । तत्किमर्थमित्यत आह ॥ ईशेति ॥ ईशचेष्टितं, एवमेव ग्राम्यैः समं ग्राम्यवदेव । तदुक्तं भारततात्पर्ये । यद्वा एवं रेमे । कुत इति चेत् । ईशचेष्टितं ग्राम्यैः समं ग्राम्यवदेवेति ॥ १८ ॥
धन्येयमद्य धरणी तृणवीरुधस्तत्
पादस्पृशो द्रुमलताः करजाभिमृष्टाः ।
नद्योऽद्रयः खगमृगाः सदयावलोकै-
र्गोप्योऽन्तरेण भुजयोरपि यत्स्पृहा श्रीः ॥ १९ ॥
पदरत्नावली
तृणानि श्रीतृणानि वीरुधो गुल्माख्यौषधिलताश्च धन्याः । कुतः ? यतस्तस्य कृष्णस्य पादौ स्पृशन्तीति तत्पादस्पृशः । करजैर्नखैर् अभिमृष्टाः संस्पृष्टा द्रुमलताश्च धन्याः । नद्यादयो दयासहितैरवलोकैर् धन्याः । श्रीरपि यद्भुजयोरन्तरं वक्षःस्थलं स्पृहयतीति यत्स्पृहा तस्मिन् भुजयोरन्तरेण मध्ये आलिङ्गिता गोप्योऽपि धन्याः ॥ १९ ॥
सत्यधर्मीया
हरिचरणस्मरणपरवशचेताः शुकः स्वयमवन्यादिधन्यतां मनस्यानीय लोकावगत्यै प्रकाशयति ॥ धन्येति ॥ अद्य धरिणीयं धन्या । तृणवीरुधस्तृणानि श्रीतृणानि धन्याः । तत्र तन्त्रम् । यत्पादस्पृशो यस्य हरेः पादौ स्पृशन्तीति तास्तथा । नद्योऽद्रयश्च धन्याः । सदयावलोकैः खगमृगा धन्याः । श्रीरपि यत्स्पृहा यस्योरसः स्पृहेच्छा यस्याः सा । तद्भुजयोरन्त-रेणोरसाऽऽलिङ्गितेन गोप्यो धन्याः । परवशश्रीरियमिति न पूर्वोत्तरसङ्गतिरेतस्याः ॥ १९ ॥
सुमनोरञ्जिनी
शुकः सानन्दं तदानीन्तनतृणादिकं स्तौति ॥ धन्येति ॥ इयं धरिणी भूमिर् धन्या । तृणानि वीरुधः पत्रशाखादिप्रतानवत्यो लता धन्या इति वचनव्यत्ययेनानुवर्तते । कुतः । यस्मादेतास् तत्पादस्पृशस् तस्य श्रीकृष्णस्य पादं स्पृशन्तीति तथोक्ताः । द्रुमलताश्च धन्याः । करजैर् नखैर् अभिमृष्टाः स्पृष्टा नद्यादयः । सदयैर् अवलोकैर् अभिमृष्टा अवलोकिताः । श्रीरपि, यत्स्पृहेति सर्वत्रान्वेति । येभ्यः पादस्पर्शादिभ्यः स्पृहयतीति तथोक्तेति । भुजयोरन्तरेण गोप्योऽपि अभिमृष्टा अतस्ता अपि धन्याः ॥ १९ ॥
श्रीदामा नाम गोपालो रामकेशवयोः सखा ।
सुबलास्तोककृष्णाद्यान् गोपान् प्रेम्णेदमब्रवीत् ॥ २० ॥
पदरत्नावली
अधुना धेनुकासुरसंहाराख्यदुरितहरचरितमुपक्रमते श्रीदामेति । सुबलश्चाशोकश्च कृष्णश्चाद्या येषां ते तथा तान् । ‘सुबलस्तोककृष्णाद्या गोपाः प्रेम्णेदमब्रुवन्’ इति केचिदपपठन्ति
॥ २० ॥
दुर्घटभावदीपिका
रामकेशवयोः सखा श्रीदामा नाम गोपालः । सुबलाशोककृष्णाद्यानित्यत्र कृष्णशब्देन कृष्णादन्यः कृष्णनामा कश्चन विवक्षितः । सुबलाशोककृष्णाद्यान्गोपालानुद्दिश्य तेषां प्रेरणया । तेषां फलभोगार्थमिति यावत् । रामकृष्णौ प्रति प्रेम्णेदमब्रवीदिति । एतेन रामेत्यादिना रामकृष्णयोरेव सम्बोधनाद्रामकृष्णावब्रवीदिति वक्तव्यं न तु सुबलादीनब्रवीदिति वक्तव्यमिति चोद्यं परास्तम् । उद्दिश्य रामकृष्णावित्यनयोः शेषेण सुबलाशोककृष्णाद्यानुद्दिश्य रामकृष्णाव-ब्रवीदित्यर्थस्योक्तत्वात् । सुबलादीनां प्रेरणयोक्तत्वादेव सुहृद्वचः श्रुत्वेत्यनेन रामरामेत्यादिवचनस्य सुबलादि सर्वसुहृत्सम्बन्धत्वं वक्ष्यति ॥ २० ॥
सत्यधर्मीया
प्रकृत आह ॥ श्रीदामेति ॥ सुबलास्तोककृष्णाद्यान् गोपान् पे्रम्णा स्नेहेनेदं वक्ष्यमाणमब्रवीत् । सुबलस्तोककृष्णाद्या गोपाः प्रेम्णेदमब्रुवन्निति पाठः सरलः । श्रीदाम्न एकस्योत्कृष्य कथने निमित्तं बहुप्रेमपात्रता । सुबलः कृष्णश्चान्यौ बलकृष्णाभ्याम् ॥ २० ॥
सुमनोरञ्जिनी
इदानीं धेनुकासुरसंहाररूपं श्रीकृष्णविक्रमं वक्तुं प्रक्रमते ॥ श्रीदामेत्यादिना ॥ श्रीदामा तन्नामकः । सुबलश्च अशोकश्च कृष्णश्च त एवाद्या येषां तान् ॥ २० ॥
रामराम महासत्त्व कृष्ण दुष्टनिबर्हण ।
इतोऽविदूरे सुमहद्वनं तालालिसङ्कुलम् ॥ २१ ॥
पदरत्नावली
दुष्टनिबर्हण दुष्टजनोन्मूलन । अविदूरे निकटे । तालानामालयः पङ्क्तयस्ताभिः सङ्कुलं निबिडम् ॥ २१ ॥
सत्यधर्मीया
श्रीदामा श्रीदामोदरमतद्भागत्वाद्धेनुकस्यापुरस्कृत्य पुरस्कृत्य न तिरस्कार्योऽय-मनार्य इति मतिमान् किञ्चायं तालाङ्क इति नेयादुपायात्तमन्यं निवारयेदिति तन्मुखबन्धं विधातुं बलं प्रत्यादावलपदित्यालपति ॥ राम रामेति ॥ अविदूरे समीपे । तालानां तृणराजतरूणामालयः पङ्क्तयस्ताभिः सङ्कुलं व्याप्तम् ॥ २१ ॥
सुमनोरञ्जिनी
महत्सत्वं बलं यस्यासौ तथोक्तः । दुष्टानां निबर्हणं निग्रहो यस्मात्स तथोक्तः । अविदूरे समीपे । तालानां तालवृक्षाणाम् आलिभिः पङ्क्तिभिः सङ्कुलं निबिडम् ॥२१॥
फलानि तत्र भूरीणि पतन्ति पतितानि च ।
सन्ति किन्त्ववरुद्धानि धेनुकेन दुरात्मना ॥ २२ ॥
पदरत्नावली
तत्र खरतालवने । फलानि तानि नापक्वानीत्याशयेनाह पतन्तीति ॥ तर्हि तान्यानीय भुज्यन्तामित्यत आह किन्त्विति ॥ २२ ॥
सत्यधर्मीया
पतितानि प्राक्, पतन्तीदानीम् । तर्हि गच्छ भक्षय को नेति वदतीत्यत आह । किन्तु दुरात्मना धेनुकेन तन्नाम्नाऽसुरेणावरुद्धानि प्रतिबद्धानीति ॥ २२ ॥
सुमनोरञ्जिनी
भूरीणि बहूनि । सन्ति चेदुपभुक्ष्मामह इति तत्राह ॥ किं त्विति ॥२२॥
सोऽतितीव्रोऽसुरो राम हे कृष्ण खररूपधृक् ।
आत्मतुल्यबलैरन्यैर्ज्ञातिभिर्बहुभिर्वृतः ॥ २३ ॥
पदरत्नावली
अतितीव्रः बहुक्रूरः । खररूपधृक् गर्दभाकारधरः । एकाकी चेत् सर्वैर्निष्कास्य भुज्यन्तामित्यत आह आत्मेति ॥ २३ ॥
सत्यधर्मीया
कुमारान् गृहीत्वा गत्वा मारयित्वा तं भुङ्क्ष्वेत्युक्तावाह ॥ स इति ॥ अतितीव्रो बहुतापकः । तीव्रमत्युत्कटकटुकनितान्तेष्वन्यवन्मतमिति विश्वः । तद्रूपं निरूपयति ॥ खररूपधृगिति ॥ गर्दभाकारः । आत्मतुल्यबलैरात्मना तुल्यं स्वबलसदृशं बलं येषां ते तैः । साम्येति पाठे आत्मनो बलेन साम्यं यस्य तद्बलं येषामिति विग्रहः । अन्यैस्तर्हि भेदं विधायादाय फलान्यागच्छेत्यत आह ॥ ज्ञातिभिरिति ॥ नास्मच्चतुर्विधोपायसाध्यः स इति भावः ॥२३॥
सुमनोरञ्जिनी
एवं चेत्स एव हन्तव्य इति तत्राह ॥ स इति ॥ तीव्रः क्रूरः । खररूपं गर्दभदेहं धारयतीति तथोक्तः । असहायश्चेत्तत्राह ॥ आत्मेति ॥ आत्मन आत्मबलस्य साम्यं यस्य तदात्मसाम्यम् । तच्च तद्बलं येषां तैः । आत्मनः साम्यं खररूपपादिलक्षणं बलं च येषां तैरिति ॥ २३ ॥
तस्मात् कृतनराहाराद् भीतैर्नृभिरमित्रहन् ।
न सेव्यते पशुगणैः १पक्षिसङ्घैर्विवर्जितम्२ ॥ २४ ॥
पदरत्नावली
कृतः नराणामाहारः येन सः, तस्मात् । अमित्रहन् शत्रुसंहारक ॥ २४ ॥
दुर्घटभावदीपिका
पक्षिसङ्घविवर्जितमित्यस्य पक्षिसङ्घैर्विवजितमित्यर्थः । एतेन पक्षिसङ्घै-र्विवर्जितत्वस्य वनविशेषणत्वात्पक्षिसङ्घैर्विवर्जितमिति वक्तव्यम् पक्षिसङ्घविवर्जितमिति कथनमनु-पपन्नमिति दूषणं परिहृतम् । विवर्जितैरिति तृतीयाबहुवचनं विवर्जितमिति प्रथमवचनादेश इत्यङ्गी-कारात् ॥ २४ ॥
सत्यधर्मीया
गताश्चेत्किं गतिं यापयति स इत्यत आह । कृतनराहारात् कृतो नराणां गतानामाहारो येन तस्मादिति । हे अमित्रहन् शत्रुसंहारक । पृथक् पृथगन्वयः । भीतैर्नृभिर्वनं न सेव्यते । पशुगणैः पक्षिसङ्घैश्च विवर्जितम् । विवर्जितमिति सरलः पाठः । विवर्जितैरिति पाठे सुपां सुपो भवन्तीति प्रथमायास्तृतीयादेश इत्युपदिशन्ति । भीतैः कथञ्चिद्गतैर्विवर्जितैः प्राणेभ्यः शवैः सेव्यत इति वा ॥ २४ ॥
सुमनोरञ्जिनी
कृतः नररूप आहारो येन स तथा । तस्माद्भीतैः । विवर्जितं परित्यक्तम्
॥ २४ ॥
विद्यन्तेऽभुक्तपूर्वाणि फलानि सुरभीणि च ।
एष वै सुरभिर्गन्धो विषूचीनो विगृह्यते ॥ २५ ॥
पदरत्नावली
पूर्वमभुक्तानि अभुक्तपूर्वाणि । विष्वग् सर्वत्र अञ्चतीति विषूचीनः, सर्वत्र व्याप्तिमानित्यर्थः । विगृह्यते विशेषेण गृह्यते, घ्राणेन्द्रियेणेति शेषः ॥ २५ ॥
सत्यधर्मीया
सुरभीण्यभुक्तपूर्वाणि पूर्वमभुक्तान्यभुक्तपूर्वाणि । एतदावासात्प्राग्भुक्तपूर्वाणि पूर्वजैरिति वा । पक्षद्वन्द्वेऽपि तत्सुरसता कथं ज्ञातेत्यत ऊहनत इत्याह ॥ एष इति ॥ विषूचीनो विष्वगञ्चतीति विष्वगिति स्थिते ऋत्विगित्यादिनाऽञ्चेः सुप्युपपदे क्विन्प्रत्यये तस्य सर्वापहारित्वेन लोपे तस्यानिदितां हल उपधायाः क्ङितीत्युपधानकारलोपे विभाषाञ्चेरदिविस्त्रयां स्वार्थे खप्रत्यये तस्येनादेशे यचि भमिति भसंज्ञायामच इति धात्वकारलोपे चावित्यणो दीर्घे विषूचीनो व्याप्त इत्यर्थः। सुरभिर्गन्धो विगृह्यते विशेषेण गृह्यते नासिकयेति शेषः ॥ २५ ॥
सुमनोरञ्जिनी
अन्यैर् अभुक्तपूर्वाणि पूर्वमभुक्तानि । विषूचीनः विष्वक् सर्वतो ऽंचति प्रसरतीति विषूचीनः । विशेषेण गृह्यते घ्राणेन ॥ २५ ॥
प्रयच्छ तानि नः कृष्ण गन्धलोभितचेतसाम् ।
वाञ्छाऽऽसीन्महती राम गम्यतां यदि रोचते ॥ २६ ॥
पदरत्नावली
गन्धेन लोभितं साकाङ्क्षं चेतो येषां ते, तेषाम् । लुभ गार्ध्ये, गृधु अभिकाङ्क्षायामिति धातोः ॥ २६ ॥
सत्यधर्मीया
अन्ततो गत्वा बलबलोदयं कृष्णत एवेति तं पुरस्करोतीतीरयति ॥ प्रयच्छ तानि नः कृष्ण इति । गन्धेन लोभितम् । लुभ गार्ध्ये । गृध अभिकाङ्क्षायामिति स्मरणात्साकाङ्क्षं चेतो येषां तेषां नो, लोभितेति णिजन्तान्निष्ठा तानि फलानि प्रयच्छ देहि । हे राम महती, विना तत्फलदानमनिवर्त्या वाञ्छाऽऽसीत् । यदि तुभ्यं रोचते तर्हि गम्यताम् ॥ २६ ॥
सुमनोरञ्जिनी
तानि नो ऽस्मभ्यं प्रयच्छ । कुतः । गन्धेन लोभितानि आकांक्षायुक्तानि चेतांसि येषां तेषाम् । अस्माकं वाञ्छा तत्फलेषु इच्छा आसीद् अत इत्यर्थः । यदि तत्र गमनं भवते रोचते तर्हि गम्यताम् ॥ २६ ॥
एवं सुहृद्वचः श्रुत्वा सुहृत्प्रियचिकीर्षया ।
प्रहस्य जग्मतुर्गोपैर्वृतं तालवनं प्रभू ॥ २७ ॥
सत्यधर्मीया
एवं सुहृदः श्रीदाम्नः सुहृदां श्रीदामादीनां वा वचः श्रुत्वा सुहृत्प्रियचिकीर्षया कियानयं खर इति प्रहस्य गोपैर्वृतं तालवनं प्रतिजग्मतुः । एवं साहसं नानुष्ठेयमित्यत आह ॥ प्रभू इति ॥ २७ ॥
सुमनोरञ्जिनी
एवम् उक्तप्रकारेण । सुहृदां वचः ॥ २७ ॥
बलः प्रविश्य बाहुभ्यां तालान् सम्परिकम्पयन् ।
फलानि पातयामास मतङ्गज इवौजसा ॥ २८ ॥
पदरत्नावली
मतङ्गजः मत्तगजः । ओजसा बलेन । ‘ओजोऽवष्टम्भबलयोः’ इति यादवः
॥ २८ ॥
सत्यधर्मीया
तालो द्रुमभेद इति विश्वः । मतङ्गजो मत्तगजः । ओजसा बलेन । ओजोऽवष्टम्भबलयोरिति यादवः ॥ २८ ॥
सुमनोरञ्जिनी
तालान् तालवृक्षान् मतङ्गज इव कुरङ्ग इव । ओजसा बलेन ॥ २८ ॥
फलानां पततां शब्दं निशम्यासुररासभः ।
अभ्यधावत् क्षितितलं सनगं परिकम्पयन् ॥ २९ ॥
पदरत्नावली
असुररासभः गर्दभरूपी दैत्यः । सनगं वृक्षैः पर्वतेन च सहितम् ॥ २९ ॥
सत्यधर्मीया
असुररासभो रासभरूपी दैत्यः सनगं सवृक्षं क्षितितलं परिकम्पयन्नभ्यधावत्
॥ २९ ॥
सुमनोरञ्जिनी
असुररासभो ऽसुरस्वरूपो रासभः । सनगं नगैर् वृक्षैः सहितम् ॥ २९ ॥
समेत्य तरसाऽऽवृत्य द्वाभ्यां पद्भ्यां बलं बली ।
निहत्योरसि काशब्दं मुञ्चन् पर्यचरद् बलम् ॥ ३० ॥
पदरत्नावली
आवृत्य परावृत्य । पद्भ्यां पाश्चात्त्याभ्याम् । काशब्दं गर्दभजातिजं कर्कशरवम् । पर्यचरत् परितो बभ्राम ॥ ३० ॥
सत्यधर्मीया
बलं समेत्य सङ्गम्य तरसाऽऽवृत्य परावृत्य द्वाभ्यां क्षितितलं स्पृष्ट्वा पद्भ्यां पाश्चात्त्याभ्याम् । गूढपात्परिवृढस्य पादघात एवारुन्तुदस्तत्रापि पाश्चात्याङ्घ्रिकुट्टनं बहुरोषावहमिति तत्स्वाभाविकेदं क्रियापदेशेन ग्रन्थकृद्ध्वनयामासेति ज्ञेयम् । उरसि निहत्योरगत्वादुरसि ताडनमपि तथा काशब्दं स्वजात्यनुरूप एव पथ्यक्षपुरुषान्यतमत्वाभावेऽपि शब्दशब्दस्य तस्मिन्परतः कुशब्दस्य कादेश आर्षः । अनुकरणशब्दो वा । इतिशब्दकलोपीति । इतिशब्दव्यपेतानीत्यादेः शेषो वेति-शब्दस्य मुञ्चन्बलं पर्यचरत् । अयमपि स्वभावो गर्दभानाम् ॥ ३० ॥
सुमनोरञ्जिनी
तरसा समेत्य आवृत्य पराङ्मुखो भूत्वा । बलं द्वाभ्यां पद्भ्याम् उरसि निहत्य ताडयित्वा काशब्दं कुत्सितं शब्दं पर्यचरत् परितश्चचार ॥ ३० ॥
पुनरासाद्य संरब्ध १उपक्रष्टुं पराक् स्थितः ।
चरणावपरौ राजन् बलाय प्राहिणोद् रुषा ॥ ३१ ॥
पदरत्नावली
उपक्रोष्टुं काशब्दं कर्तुं पराक् अनभिमुखः स्थितः सन् अपरौ पाश्चात्त्यौ चरणौ बलाय प्राहिणोत् संहर्तुं प्राक्षिपत् ॥ ३१ ॥
सत्यधर्मीया
पुनर्बलमासाद्योपक्रष्टुं काशब्दं कर्तुं संरब्धः संरम्भयुतः पराक् स्थितः पुरेवापरौ चरणौ बलाय प्राहिणोत्ताभ्यां तताडेति यावत् ॥ ३१ ॥
सुमनोरञ्जिनी
पुनरपि बलं बलभद्रम् उपक्रोष्टम् । क्रोशतिरत्रक्षेपार्थः । क्रोष्टुं क्षेप्तुमिति रत्नावली । पराक् स्थितः सन् । अपरौ पाश्चात्यौ । प्राहिणोच् चिक्षेप ॥ ३१ ॥
स तं गृहीत्वाऽथ पदोर्भ्रामयित्वैकपाणिना ।
चिक्षेप तृणराजाग्रे भ्रामणत्यक्तजीवितम् ॥ ३२ ॥
पदरत्नावली
पदोः पादयोः । तृणराजाग्रे तालमस्तके । भ्रामणेनैव त्यक्तं जीवितं येन तम् ॥ ३२ ॥
सत्यधर्मीया
स बलस्तं खरासुरं पदोः पादयोरेकपाणिनैकेन हस्तेन भ्रामयित्वा तेन भ्रामणेनैव त्यक्तं जीवितं येन तं मृतं, तृणराजस्तालस्तदग्रे तत्प्रान्तभागे चिक्षेप ॥ ३२ ॥
सुमनोरञ्जिनी
सः बलभद्रः । पदोस् तं रासभम् एकपाणिना गृहीत्वा । भ्रामणेन त्यक्तं जीवितं जीवनं येन तम् । तृणराजस्तालस् तस्याग्रे ॥ ३२ ॥
तेनाहतो महातालः पतमानो बृहच्छिराः ।
पार्श्वस्थं कम्पयन् भग्नः स चान्यं सोऽपि चापरम् ॥ ३३ ॥
पदरत्नावली
तेन बलरामहतखरासुरशरीरबलेन आहतः सन्ताहितो बृहच्छिरा महाग्रभागो महातालः पतमानः सन् पार्श्वस्थं तालं कम्पयन् पातयन् भग्नोऽभूत् । स च पार्श्वस्थतालोऽन्यं तालं सोऽप्यपरं तालमित्येवं पङ्क्तिशस्ताला भग्नाः ॥ ३३ ॥
सत्यधर्मीया
तेन खरशवेनाहतस्ताडितो बृहच्छिराः पतमानो हि पतन्महातालः पार्श्वस्थं तालं कम्पयन् सन् स्वयं भग्नः । स च तालविलोलितस्तालोऽन्यत्तालं सोऽप्यन्यमित्येवं पङ्क्तिशः समकम्पत ॥ ३३ ॥
सुमनोरञ्जिनी
तेन खरदेहेन । आहतस् ताडितः पार्श्वस्थं तालम् । कंपयन् स्वयं भग्नः
॥ ३३ ॥
बलस्य लीलयोत्सृष्टखरदेहहताहताः ।
तालाश्चकम्पिरे सर्वे महावातेरिता इव ॥ ३४ ॥
पदरत्नावली
बलस्य रामस्य लीलया लघुक्रीडया उत्सृष्टेन उत्क्षिप्तेन खरदेहेन हततालाहताः
॥ ३४ ॥
सत्यधर्मीया
स्वदेहहत एकस्तदाहतहता महावातेरिता इव सर्वे तरवश्चकम्पिरे ॥ ३४ ॥
सुमनोरञ्जिनी
बलस्य रामस्य लीलया अनायासक्रियया उत्सृष्टस् तालोपरि क्षिप्तः यः खरदेहस् तेन हतो यस् तालस् तेनाहता इत्यर्थः । महावातेन चण्डमारुतेन ईरिता नुन्ना इव चकंपिरे अकंपन्त ॥ ३४ ॥
नैतच्चित्रं भगवति ह्यनन्ते जगदीश्वरे ।
ओतप्रोतमिदं यस्मिन् तन्तुष्वङ्ग यथा पटः ॥ ३५ ॥
पदरत्नावली
हेलया बलिष्ठदैत्यदेहप्रक्षेपमात्रेण महद्वनकम्पनमहातालपङ्क्ति भञ्जनमहिमान-माकर्ण्य बहुचित्रं बलस्य बलमिति भावयन्तं परीक्षितं प्रति शुक आह नैतदिति । अङ्ग हे राजन् । हिशब्दो ‘धराऽखिलेयं ननु सर्षपायति’ इत्यादिप्रसिद्धिं द्योतयति ॥ ३५ ॥
सत्यधर्मीया
एकतालताडने तालालीनां कम्पकं बलस्य बलमियदहो कथमिति मनसि सन्देहं कुर्वन्तमिवोर्वीशं विदित्वा शुकस्तमपास्तं कर्तुं किञ्च स्वस्य तत्त्वेनैव तत्त्वतो मुक्ताववस्थानं चेति तन्महिमानमाह ॥ नैतदिति ॥ जगदीश्वरे जगत्स्वामिनि । अङ्ग हे परीक्षित् । तन्तुषु पटो यथा तथेदं जगदोतं प्रोतं तद्धारकतयाऽनन्ते तन्नामि्न शेषे । धराऽखिलेयं ननु सर्षपाय-तीत्यादिप्रसिद्धं हिराह । तस्मिन्नेतत्खरासुरासुहरणं तरुकम्पनं चेत्येतच्चित्रमाश्चर्यं नेति सर्वोपपत्तिकृद्भवतीति भगवति जगदीश्वरे कृष्णे सहाये सतीति वा ॥ ३५ ॥
सुमनोरञ्जिनी
जगत इन्द्रादिजगत ईश्वरे । एतद् धेनुकासंहरणादिकम् । अनन्ते शेषावतारे । हि यस्मात् । इदं जगत् । तन्तुषु पटो यथा तथा । यस्मिन् ओतप्रोतम् ओतप्रोतमिव तदाधारतया स्थितमिति यावत् । ओति परीक्षितं प्रति प्रियसंबोधनम् ॥ ३५ ॥
ततः कृष्णं च रामं च ज्ञातयो धेनुकस्य ये ।
क्रोष्टारोऽभ्यद्रवन् सर्वे संरब्धा हतबान्धवाः ॥ ३६ ॥
पदरत्नावली
क्रोष्टारः काशब्दं कुर्वन्तो गर्दभाः । ताच्छीलिकस्तृन्प्रत्ययः । अभ्यद्रवन् जिघांसया अभिमुखमधाविषुः ॥ ३६ ॥
सत्यधर्मीया
क्रोष्टारः । क्रोष्टृशब्दो ऋकारान्तः । काशब्दं कुर्वन्तो, हतो बान्धवो धेनुको येषां ते तथाऽभ्यद्रवन् ॥ ३६ ॥
सुमनोरञ्जिनी
धेनुकस्य ये ज्ञातयः । क्रोष्टार आक्रोशन्तः । संरब्धाः क्रुद्धाः । हतो बान्धवो येषां ते ॥ ३६ ॥
तांस्तानापततः कृष्णो रामश्च नृप लीलया ।
गृहीतपश्चाच्चरणान् प्राहिणोत् तृणराजसु ॥ ३७ ॥
सत्यधर्मीया
प्राहिणोदिति पृथगन्वेति । तृणराजस्विति, जानन्ति पूर्वराजान इत्यादि-वत्समासान्तविधेरनित्यताश्रित्योक्तमिति ज्ञेयम् । तृणराजानां तालानां सूर्गर्भवद्विद्यमानफलस्तबकमोचनं यस्मिन्कर्मणि तद्यथा भवति तथोपरि प्राहिणोदिति वा । ह्रस्वो नपुंसक इति ह्रस्वः । सा तु हिंसायां सूस्तू गर्भविमोचन इति विश्वः ॥ ३७ ॥
सुमनोरञ्जिनी
आपतत आगच्छतः । गृहीतौ पश्चाच्चरणौ येषां तान् । तृणराजसु तालद्रुमेषु
॥ ३७ ॥
फलप्रकरसङ्कीर्णा दैत्यदेहैर्गतासुभिः ।
रराज भूः सतालाग्रैर्घनैरिव नभस्तलम् ॥ ३८ ॥
पदरत्नावली
फलप्रकरेण तालफलनिकरेण सङ्कीर्णा व्याप्ता । सतालाग्रैरिति देहविशेषणम्
॥ ३८ ॥
सत्यधर्मीया
फलानां प्रकरो निकरस्तेन सङ्कीर्णा आकुला । गतासुभिर्दैत्यदेहैर्गता असवः प्राणा येभ्यस्तैः । सतालाग्रैस्तालशिरोभिः सहितैरिति देहविशेषणम् । घनैः सहितं नभस्तलमाकाश-प्रदेश इव भू रराजाशोभत । नभस्तलमिन्द्रनीलमिति सुधाभिधानादिन्द्रनीलवच्च रराजेति वा । फलानां नैल्यात्तदुपमता चेति तलशब्दश्च केवलप्रदेशमात्रार्थकतापेक्षया युक्ततया चेति ज्ञेयम् । चशब्दा-ध्याहारमात्रं सोढव्यम् ॥ ३८ ॥
सुमनोरञ्जिनी
फलानां प्रकरः समूहस् तेन सङ्कीर्णा व्याप्ता । दैत्यदेहैर् निमित्तैः । दैत्यदेहैश्च तालाग्रैश्च सङ्कीर्णेति वा । अनेन अरुणश्वेतनीलमेघसादृश्यं सम्पादितं भवति । घनैर् मेघैः । नभः स्थलमिव भूः रराजेति ॥ ३८ ॥
तयोस्तत् सुमहत्कर्म निशाम्य विबुधादयः ।
मुमुचुः पुष्पवर्षाणि चक्रुर्वाद्यानि तुष्टुवुः ॥ ३९ ॥
पदरत्नावली
तयोः रामकृष्णयोः । निशाम्य अवलोक्य । वाद्यानि चकु्रः वादयामासुः
॥ ३९ ॥
सत्यधर्मीया
वाद्यानि चक्रुरवादयन् ॥ ३९ ॥
सुमनोरञ्जिनी
तयोः कृष्णरामयोः । निशाम्य दृष्ट्वा । विबुधादयः देवगन्धर्वादयः । पुष्पवर्षाणि मुमुचुः पुष्पवृष्टिमकुर्वन् ॥ ३९ ॥
अथ तालफलान्यादन् मनुष्या गतसाध्वसाः ।
तृणं च पशवश्चेरुर्हतधेनुककानने ॥ ४० ॥
पदरत्नावली
आदन् अभक्षयन् । गतं साध्वसं भयं येषां ते । चेरुर् भक्षितवन्तः । हतो धेनुको यस्मिंस्तच्च तत् काननं च, तस्मिन् ॥ ४० ॥
सत्यधर्मीया
आदन्भक्षयन् । गतं साध्वसं भयं येषां ते । हतो धेनुको यस्मिंस्तच्च तत्काननं वनं च तस्मिन् । तृणं पशवश्चेरुरभक्षयन् ॥ ४० ॥
सुमनोरञ्जिनी
अथ अनन्तम् । गतम् अपगतं साध्वसं भयं येषां ते तथाविधाः । आदन् भक्षयामासुः । चेरुर् अभक्षयन् ॥ ४० ॥
कृष्णः कमलपत्राक्षः पुण्यश्रवणकीर्तनः ।
स्तूयमानोऽनुगैर्गोपैः साग्रजो व्रजमाव्रजत् ॥ ४१ ॥
पदरत्नावली
पुण्ये श्रवणकीर्तने यस्य विषये स तथा ॥ ४१ ॥
सत्यधर्मीया
पुण्यानि तद्वन्ति श्रवणानि येन तत्कीर्तनं यस्य स तथा ॥ ४१ ॥
सुमनोरञ्जिनी
कमलपत्रवद् विशाले आरक्तरेखासम्पन्ने च अक्षिणी यस्य सः । पुण्यं मनोहरं पुण्यकरं वा श्रवणं यद्विषयकं तादृशं कीर्तनं च यस्य सः । साग्रजः सहरामः ॥४१॥
तं गोरजश्छुरितकुन्तलबद्धबर्ह-
वन्यप्रसूनरुचिरेक्षणचारुहासम् ।
वेणुं क्वणन्तमनुगैरुपगीतकीर्तिं
गोप्यो दिदृक्षितदृशोऽभ्यगमन् समेताः ॥ ४२ ॥
पदरत्नावली
तं व्रजमाविशन्तं कृष्णम् । गवां रजोभिश् छुरिता लिप्ताश्च ते कुन्तलाश्च तेषु बद्धानि बर्हाणि पिच्छानि वन्यप्रसूनानि काननोद्भवकुसुमानि च यस्य सः, गोरजश्छुरित-कुन्तलबद्धबर्हवन्यप्रसूनः, स चासौ रुचिरे ईक्षणे यस्य सः, स चासौ चारुर् मनोहरो हासो यस्य स तथा तम् । ‘पिच्छबर्हे नपुंसके’ इत्यमरः । उपगीता कीर्तिर्यस्य स तथा तम् । दिदृक्षिता दर्शनोत्कण्ठायुक्ता दृशो यासां ताः । अभ्यगमन् अभिमुखमाजग्मुः ॥ ४२ ॥
सत्यधर्मीया
गवां रजसा छुरिता रूषिताश्च ते कुन्तलाश्च तेषु बद्धानि बर्हाणि पिच्छानि, वन्यानि वनभवानि प्रसूनानि यस्य स चासौ, रुचिरे ईक्षणे यस्य स चासौ चारुर्मनोहरो हासो यस्य च । पिच्छबर्हे नपुंसक इत्यमरः । दिदृक्षिता दर्शनेच्छावत्त्वेनाशङ्किता दृशो यासां ता गोप्यः समेता मिलिता वेणुं क्वणन्तमनुगैरुपगीतकीर्तिं प्रत्यगमन् ॥ ४२ ॥
सुमनोरञ्जिनी
गोरजसा छुरितानि मिश्रितानि । तेषु कुन्तलेषु वक्रकेशेषु बद्धानि बर्हाणि, वन्यानि वनजानि प्रसूनानि च यस्य । रुचिरे ईक्षणे चारुहासश्च यस्य । तं क्वणन्तं वादयन्तम् । दिदृक्षिता दर्शनोत्कण्ठा दृशो यासां ताः ॥ ४२ ॥
पीत्वा मुकुन्दमुखसारघमक्षिभृङ्गै-
स्तापं जहुर्विरहजं व्रजयोषितोऽह्नि ।
तत्सत्कृतिं समधिगम्य विवेश गोष्ठं
सव्रीडहासविगमो यदपाङ्गमोक्षः ॥ ४३ ॥
पदरत्नावली
मुकुन्दस्य मुखमेव सारघं मधु तत् । सरघाणां मधुमक्षिकाणामिदं सारघम् । ‘सरघा मधुमक्षिका भवेत् क्षुद्रा’ इति हलायुधः । अह्नि यो हरेर्विरहः, तज्जं तापम् । यासाम-पाङ्गमोक्षः कटाक्षनिरीक्षणम्, व्रीडया लज्जया सहितः सव्रीडः, स चासौ हासश्च, तस्य विगमो विशेषेण प्राप्तिर्यस्य स तथा । तासां सत्कृतिं सत्कारं समधिगम्य प्राप्य गोष्ठं विवेश ॥४३॥
सत्यधर्मीया
व्रजयोषितोऽह्नि विरहजं हरिविरहजातं तापमक्षिभृङ्गैरक्षीण्येव भृङ्गास्तैर्मुकुन्द-मुखसारघं मुकुन्दस्य मुखमेव सरघा मधुमक्षिकास्तासामिदं सारघं मधु पीत्वा । सरघा मधुमक्षि-केत्यमरः । सरं गतिं घातयति हन्त्यन्येभ्योऽपीति डः णिलोपटिलोपः रघणं रघि गतौ स्वनौघश्चेति घित्करणादन्येभ्योऽपीति घः । आगमशासनस्यानित्यत्वान्न नुम् । सहरघं वर्तत इति सरघा । यासामपाङ्गमोक्षो वीक्षणं तन्निरीक्षणम् । सव्रीडहासविगमो व्रीडा लज्जा तया सहितः सव्रीडो हासस्तस्य विगमो येन स लज्जाहासनिरासककटाक्षमोक्षो यासां तत्सत्कृतिं समधिगम्य प्राप्य गोष्ठं विवेश । यासां सव्रीडहासविगमो बहिर्व्रीडासहितहासप्रसरोऽपाङ्गस्यानङ्गस्य तदुपद्रवस्येति यावन् मोक्षो मोचनं येन सः । यासां तत्सत्कृतिं सत्कारमिति वा ॥ ४३ ॥
सुमनोरञ्जिनी
व्रजयोषितः गोप्यः । मुकुन्दस्य मुखपद्मे विद्यमानं सारघं, सरघा मधुमक्षिकेत्यमरात् तत्सम्बन्धि सारघं मुधु । अक्षिभृङ्गैः पीत्वा अह्नि विरहजं श्रीकृष्णविरहेणोत्पन्नं तापं मनस्तापम् । जहुस् तत्यजुः । सव्रीडः व्रीडया लज्जया सहितः हासस् तस्य विगमो निर्गमः । अपांगमोक्षः कटाक्षवीक्षणं चेति यत् तत् सत्कृतिं गोपीजनकृतसत्कारं समधिगम्य ज्ञात्वा प्राप्य वा । गोष्ठं विवेशेति सम्बन्धः ॥ ४३ ॥
तदा यशोदारोहिण्यौ पुत्रयोः पुत्रवत्सले ।
यथाकालं १यथाकामं व्यधत्तां परमाशिषः ॥ ४४ ॥
दुर्घटभावदीपिका
यथायोगादित्येतद् यथामनोयोगं यथाकाममिति यावदिति व्याख्येयम्
॥ ४४ ॥
॥ इति श्रीभागवतटिप्पण्यां सत्याभिनवयतिकृतायां
दुर्घटभावदीपिकायां दशमस्कन्धपूर्वार्धे त्रयोदशोऽध्यायः ॥ १०-१३ ॥
सत्यधर्मीया
रोहिणीयं बाल्हीकपुत्री कौरव्यायणी । यथोक्तं बृहदारण्यकभाष्ये । बाल्हीकसुता रोहिणी । अतो बलभद्रः कौरव्यायणीपुत्र इति । प्रसङ्गसङ्गत्येदमुक्तमिति ज्ञेयम् । आशिषः परं व्यधत्तां परमाशिषो व्यधत्तामिति वा ॥ ४४ ॥
सुमनोरञ्जिनी
यथाकालं वयोनुसारेण । यथायोगं योग्यतानुसारेण । आशिष आशीर्वचनानि
॥ ४४ ॥
विगताध्वश्रमौ तत्र मज्जनोन्मर्दनादिभिः ।
नीवीं वसित्वा रुचिरां दिव्यस्रग्गन्धमण्डितौ ॥ ४५ ॥
पदरत्नावली
मज्जनं स्नपनम् । उन्मर्दनं शरीरमलप्रक्षालनम् । नीवी वस्त्रं वसित्वा आच्छाद्य । ‘परिधानांशुकग्रन्थौ प्रोक्ता नीवी तथांशुके’ इत्यभिधानम् ॥ ४५ ॥
सत्यधर्मीया
मज्जनं स्नपनमुन्मर्दनमङ्गादेर्मलनिष्कासनं तदादिभिरादर्शप्रदर्शनादिभिः । रुचिरां नीवीं वस्त्रं वसित्वाऽऽच्छाद्य । वस्त्रबन्धेऽपि नीवीत्यमरः । स्त्रीलिङ्गो नीवीशब्दः स्त्रीपुंससामान्यकटी-वस्त्रवाचक इति बहवः । स्त्रीकटीवस्त्रमात्रवाचक इति पक्षेऽप्यन्वयव्यत्यसनेनानुपदं क्रियमाणं व्याख्यानान्तरमिति विवेकः । निवियते व्यञ् संवरणे, नौ व्यञो यलोपः पूर्वस्य च दीर्घोण इति दीर्घः । कृदिकारादिति ङीष् । आच्छाद्य । नीवीं स्त्रीकटबन्धन इति मेदिनी । दिव्यस्रग्गन्धालङ्कृतौ रुचिरां नीवीं योषिद्वस्त्रं वसित्वा स्थितया तया जनन्योपहृतं परिवेषितं स्वाद्वन्नं प्राश्य भुक्त्वा ताभ्यामुपलालितावादौ, मृदुशय्यायां संविश्य सुखं यथा तथा सुषुपतुः ॥ ४५,४६ ॥
सुमनोरञ्जिनी
मज्जनं स्नानम् उन्मर्दनं गात्रोन्मर्दनं पादसंहननादिकं वा । तैर् विगत-मार्गश्रमाविव । नीवीं वस्त्रम् । वसित्वा परिधाय ॥ ४५ ॥
जनन्युपहृतं प्राश्य स्वाद्वन्नमुपलालितौ ।
संविश्य मृदुशय्यायां सुखं सुषुपतुर्व्रजे ॥ ४६ ॥
पदरत्नावली
जननीभ्यामुपहृतं परिवेशितम् । प्राश्य प्रकर्षेण सुखेन अशित्वा । संविश्य शयित्वा ॥ ४६ ॥
सुमनोरञ्जिनी
जनन्या यशोदया रोहिण्या वा । उपहृतम् आनीतं प्राश्य भुक्त्वा ॥ ४६ ॥
एवं स भगवान् कृष्णो वृन्दावनचरः क्वचित् ।
ययौ राममृते राजन् कालिन्दीं सखिभिर्वृतः ॥ ४७ ॥
पदरत्नावली
अधुना यमुनानिवासिनोऽतिघोरविषधरस्य कालियनामककुण्डालिनायकस्य दमनरूपं दामोदरचरितं वक्तुमुपक्रमते एवमिति ॥ अग्रे भीषणभुजगदमनावसरे संत्रस्तगोप-वृन्दप्रबोधनाय राममृते ययाविति यावत् । किञ्च स्वाग्रजस्य सर्पकुलाग्रगत्वात् तत्कुलोद्भवमहाहिमर्दनं यमुनातो बहिर्यापनं च समक्षं चेद् अग्रजो दूनमानसः स्यादिति हरेर्लोकविडम्बनं ध्वनयन्नाह राममृत इति ॥ ४७ ॥
सत्यधर्मीया
रामं बलमृते तेनालोच्य तं गोपादिशान्त्यै स्थापयित्वा गत इति ज्ञेयम् । तथा हि हरिवंशे । ससङ्कर्षणमामन्त्र्य, एवं कृते बाहुवीर्यं लोके ख्यातिं गमिष्यतीत्यादिनोक्तम् । ‘‘ज्येष्ठं विहाय स कदाचिदचिन्त्यशक्तिर्गोगोपगोगणयुतो यमुनातटेषु । रेमे भविष्यदनुवीक्ष्य हि गोपदुःखं तद्बोधनाय निजमग्रजमेष सोऽधादि’’त्याचार्योक्तेः । विना तस्य सरीसृपवरीयसाननसहगमने कालियस्याहेरेतत्परिचरस्य दमनं यमुनातो बहिर्यापनं च समक्षं चेत्किञ्चित्सङ्कुचितचेतस्कता-हेतुर्भवेदिति राममृत इत्यनेन ध्वनयतीति मन्तव्यम् ॥ ४७ ॥
सुमनोरञ्जिनी
महिमान्तरं वर्णयितुमुपक्रमते ॥ एवमिति ॥ राममृते रामं विना । क्वचित् कदाचित् । कालिन्दीं यमुनाम् ॥ ४७ ॥
अथ गावश्च गोपाश्च निदाघातपपीडिताः ।
दुष्टं जलं पपुस्तस्यास्तृषार्ता विषदूषितम् ॥ ४८ ॥
पदरत्नावली
निदाघो ग्रीष्मर्तुः, तत्सम्बन्ध्यातप औष्ण्यं तेन पीडिताः । विषदूषितमिति दुष्टम् ॥ ४८ ॥
सत्यधर्मीया
निदाघो ग्रीष्मर्तुस्तत्सम्बन्ध्यातप औष्ण्यं तेन पीडिताः । विषदूषितमिति दुष्टम् ॥ ४८ ॥
सुमनोरञ्जिनी
निदाघेन ग्रीष्मकालीनेन आतपेन पीडितास् तप्ताः । दुष्टम् । कुतः । यतो विषेण विदूषितम् ॥ ४८ ॥
विषाम्भस्तदुपस्पृश्य दैवोपहतचेतसः ।
निपेतुर्व्यसवः सर्वे मूर्छिता वै कुरूद्वह ॥ ४९ ॥
पदरत्नावली
उपस्पृश्य आचम्य पीत्वा च ॥ ४९ ॥
सत्यधर्मीया
दैवोपहतचेतसस्तद्विषाम्भ उपस्पृश्याचम्य पीत्वा च निपेतुर्व्यसवस्तत्प्रायः । मूर्च्छा सञ्जातैषामिति ते तथा । विषं जलधरैः पीतं मूर्च्छिताः पथिकाङ्गना इत्याद्युदाहृत्याकरे विस्तरत उपपादितोपपत्तिर्ज्ञेया ॥ ४९ ॥
सुमनोरञ्जिनी
विषाम्भः विषसंपृक्तोदकम् । उपस्पृश्य पीत्वा । किं विषांभ इति वार्तैव न श्रुता तैरिति चेत्तत्राह ॥ दैवेन अदृष्टविशेषेण उपहृतं चेतः स्मृतिर्येषां ते । श्रुतवार्ता अपि तदानीं विस्मृतवार्ता अभवन्निति भावः । व्यसवः विगतप्राणा इव । निपेतुः ॥ ४९ ॥
वीक्ष्य तान् वै तथाभूतान् कृष्णो योगेश्वरेश्वरः ।
ईक्षयाऽमृतवर्षिण्या स्वनाथान् समजीवयत् ॥ ५० ॥
पदरत्नावली
ईक्षया दृष्ट्या ॥ ५० ॥
सत्यधर्मीया
अमृतवर्षिण्या वीक्षया कटाक्षेण ॥ ५० ॥
सुमनोरञ्जिनी
योगेश्वराणामपीश्वरः कृष्णः । तथाभूतान् मूर्छितान् । वीक्ष्य । कथम्भूतान् । स्वयमेव नाथो येषां तान् । ईक्षया दृष्ट्या ॥ ५० ॥
ते सम्प्रतीतस्मृतय उत्थाय च जलान्तिकात् ।
आसन् सुविस्मिताः सर्वे वीक्षमाणाः परस्परम् ॥ ५१ ॥
पदरत्नावली
सम्प्रतीतस्मृतयः सम्प्राप्तप्रत्यभिज्ञानाः ॥ ५१ ॥
सत्यधर्मीया
सम्प्रति तत्काले । इता स्वान्प्राप्ता स्मृतिर्येषां ते तथा ॥ ५१ ॥
सुमनोरञ्जिनी
ते गोपाः संप्रति तत्काले इतस्मृतयः प्राप्तस्मृतयः ॥ ५१ ॥
अन्वमंसत तद् राजन् गोविन्दानुग्रहेक्षितम् ।
पीत्वा विषं परेतस्य पुनरुत्थानमात्मनः ॥ ५२ ॥
॥ इति श्रीमद्भागवते दशमस्कन्धपूर्वार्धे त्रयोदशोऽध्यायः ॥
पदरत्नावली
विषं विषमिश्रजलं पीत्वा परेतस्य मृतस्य आत्मनः पुनरुत्थानं यत् तद् गोविन्दानुग्रहेक्षितं गोविन्दस्य अनुग्रहाद् दर्शितमन्वमंसत न्यरूपयन् ॥ ५२ ॥
॥ इति श्रीमन्महेन्द्रतीर्थपूज्यपादशिष्यविजयध्वजतीर्थभिक्षुकृतायां पदरत्नावल्यभिधायां श्रीमद्भागवतटीकायां दशमस्कन्धपूर्वार्धे त्रयोदशोऽध्यायः ॥
सत्यधर्मीया
विषं पीत्वा परेतस्य तत्प्रायस्य गोपजनस्यात्मनः पुनरुत्थानं यत्तद्गोविन्दानु-ग्रहेक्षितमनुग्रहाद्दर्शितमन्वमंसत व्यजानत् ॥ ५२ ॥
॥ इति श्रीभागवतटिप्पण्यां सत्यधर्मयतिकृतायां
दशमस्कन्धपूर्वार्धे त्रयोदशोऽध्यायः ॥ १०-१३ ॥
सुमनोरञ्जिनी
विषं विषयुक्तजलं पीत्वा । परेतस्य मृतस्य । आत्मनः स्वस्य पुनरुत्थानं यत् तत् तत्कारणम् । गोविन्दस्यानुग्रहपूर्वकेक्षितम् । अन्वमंसत ज्ञातवन्तः ॥ ५२ ॥
**॥ इति श्रीमद्भागवतदशमस्कन्धपूर्वार्धव्याख्यायां **
(गूढकर्तृकायां) सुमनोरञ्जिन्यां त्रयोदशोऽध्यायः ॥ १०-१३ ॥