गोपा नन्दादयः श्रुत्वा द्रुमयोः पततो रवम्
॥ अथ द्वादशोऽध्यायः ॥
श्रीशुक उवाच–
गोपा नन्दादयः श्रुत्वा द्रुमयोः पततो रवम् ।
तत्राजग्मुः कुरुश्रेष्ठ १निर्घातरवशङ्किताः ॥ १ ॥
पदरत्नावली
श्रीहरेर्दुरितहररुचिरबालचरितश्रवणमननोपासनानि मुक्तिसाधनानि भवन्तीति तन्माहात्म्यं निरूप्यतेऽस्मिन्नध्याये । तत्रादौ यमलार्जुनभञ्जनान् नन्दाद्याश्चर्यं वक्ति गोपा इत्यादिना ॥ निर्घातरवशङ्किता अशनिनिर्घोषशङ्किताः ॥ १ ॥
सत्यधर्मीया
हरिचरितं दुरितहरणपुरःसरं संविन्निदानं सत्साधनं तद्धामाप्तय इति निरूप्यतेऽस्मिन्नध्याये । तत्रादौ यमलार्जुनभञ्जनतो नन्दाद्याश्चर्यं स्वजातरज्जुविसर्जनं कथयति ॥ गोपा इति ॥ पततोर्द्रुमयो रवं शब्दं श्रुत्वा निर्घातस्याशने रवस्तत्पातज इति शङ्किताः सन्देहयुतास्तत्र तत्स्थल आजग्मुः । भयशङ्किता इति पाठः स्फुटार्थः ॥ १ ॥
सुमनोरञ्जिनी
पततोर् द्रुमयोः रवं शब्दम् । निर्घातो ऽशनिपात इति भयेन शङ्किताः
॥ १ ॥
भूम्यां निपतितौ तत्र ददृशुर्यमलार्जुनौ ।
बभ्रमुस्तदविज्ञाय लक्ष्यं पतनकारणम् ॥ २ ॥
पदरत्नावली
बभ्रमुर् भ्रान्ता बभूवुः । उक्तं च हरिवंशे ‘विना वातं विना वर्षं विद्युत्प्रपतनं विना । विना हस्तिकृतं दोषं केनेमौ पातितौ द्रुमौ’ इति ॥ २ ॥
सत्यधर्मीया
पतनकारणं लक्ष्यं प्रत्यक्षविषयमविज्ञाय बभ्रमुर्भ्रान्ता अभवन् । तत्तर्कणप्रकारस्तु
विना वर्षं विना वातं विद्युत्प्रपतनं विना ।
विना हस्तिकृतं दोषं केनेमौ पतितौ द्रुमौ ॥
इति हरिवंशशंसितोऽवसेयः ॥ २ ॥
सुमनोरञ्जिनी
पतनकारणं लक्ष्यं प्रत्यक्षसिद्धमपि तदविज्ञाय बभ्रमुः । किं तल्लक्ष्यं कारणमित्यत आह ॥ उलूखलमिति ॥ यद्वा, यद्यपि दाम्ना बद्धम् उलूखलं विकर्षंतं बालकं कृष्णं ददृशुस्तथापि तं पतनकारणमविज्ञाय बभ्रमुरिति पूर्वेणान्वयः । इदं चर्यं कस्य, कुतो वा कारणात् । उत्पातभयेन कातरा व्याकुलचित्ताः । आः कष्टमिति । आश्चर्यमद्भुतमिति वा ॥ २,३ ॥
उलूखलं विकर्षन्तं दाम्ना बद्धं च बालकम् ।
कस्येदं कुत आश्चर्यमुत्पातभयकातराः१ ॥ ३ ॥
पदरत्नावली
बालकम्, स्वस्तिमन्तमवलोक्येति शेषः । कस्य सम्बन्धि महत्तरुनिपातनकर्मेदं कुतः किङ्कारणमाश्चर्यमिति उत्पातो दैविकारिष्टं तस्माद् यद् भयं तेन कातरा व्याकुलचित्ताः । ‘उत्पात इति कातराः’ इति केचित् पठन्ति ॥ ३ ॥
सत्यधर्मीया
दाम्ना बद्धमुलूखलं विकर्षन्तं बालकं च स्वस्तिमन्तं दृष्ट्वा । इदमे-तत्पादपपातनं कस्य कर्मेदं कुतः किं कारणमाश्चर्यम् । उत्पातो दैविकारिष्टं तस्माद्यद्भयं तेन कातरा इत्यालोचयामासुः ॥ ३ ॥
बाला ऊचुरनेनेति तिरश्चीनमुलूखलम् ।
विकर्षता मध्यगेन पुरुषावप्यचक्ष्महि ॥ ४ ॥
पदरत्नावली
वृक्षयोर्मध्यगेन तिरश्चीनमुलूखलं विकर्षताऽनेन कृष्णेनेदं तरुनिपातनं कर्म कृतम् । पुरुषौ वृक्षाभ्यां विनिर्गतौ द्वौ दिव्यपुरुषावपि अचक्ष्महि दृष्टवन्त इति बाला ऊचुः ॥४॥
सत्यधर्मीया
एवं सन्दिहानान्नन्दादींस्तत्रत्या बाला अवोचन्नित्याह ॥ बाला इति ॥ मध्यगेन वृक्षयोर्मध्यगेनोलूखलं तिरश्चीनं विकर्षताऽनेन पातनं तत्रापि पुरुषौ द्वावप्यचक्ष्महि दृष्टवन्त इति बाला ऊचुः ॥ ४ ॥
सुमनोरञ्जिनी
तिरश्चीनम् उलूखलं विकर्षता मध्यगेन वृक्षयोर्मध्यगतेन । अनेनैवेदं कृतम् । किं च वृक्षान्निर्गतौ द्वौ पुरुषावपि वयम् अचक्ष्महि दृष्टवन्त इति बाला ऊचुरित्यन्वयः ॥ ४ ॥
न ते तदुक्तं जगृहुर्न घटेतेति तस्य तत् ।
बालस्योत्पाटनं तर्वोः केचित् सन्दिग्धचेतसः ॥ ५ ॥
पदरत्नावली
तदुक्तं बालोक्तम् । केचित् पूतनादिहननस्मृतिमन्तः सन्तः सन्दिग्धं चेतो येषां ते तथाऽभवन् ॥ ५ ॥
सत्यधर्मीया
तर्वोर्बालस्योत्पाटनं तस्य तन्न घटत इति केचित्तदुक्तं न जगृहुः । असम्भावितमनृतगिर एत इति न स्वीचक्रुः । केचित्पूतनादिघातस्मृतिमन्तो दृष्ट्वैतन्निषेद्धृकाः सन्दिग्धं चेतो येषां ते तथाऽभवन् ॥ ५ ॥
सुमनोरञ्जिनी
तस्य श्रीकृष्णस्य बालस्य तत् तर्वोः समूलोत्पाटनं न घटेत न युज्येतेति तदुक्तं बालोक्तं न जगृहुर् न स्वीचक्रुः ॥ ५ ॥
उलूखलं विकर्षन्तं दाम्ना बद्धं स्वमात्मजम् ।
विलोक्य नन्दः प्रहसद्वदनो विमुमोच ह ॥ ६ ॥
पदरत्नावली
जगद्बन्धमोक्षादिकर्तुर्यद् बन्धनं मोचनं च तस्योपहासे हेति ॥ ६ ॥
सत्यधर्मीया
प्रहसद्वदनं यस्य सः । किमिदं सुदती व्यदधादिति नन्दो मन्दं हसन्नन्दनं विमुमोचामोचयत् । हेत्यनेन जगद्बन्धकस्येव मोचकस्य बन्धं तथा मोचनं चोपजहास व्यास इति ज्ञेयम् ॥ ६ ॥
सुमनोरञ्जिनी
विमुमोच मोचयामास ॥ ६ ॥
गोपीभिः स्तोभितोऽनृत्यद्१ भगवान् बालवत् क्वचित् ।
उद्गायति क्वचिन्मुग्धस्तद्वशो दारुयन्त्रवत् ॥ ७ ॥
पदरत्नावली
स्तोभितः प्रोत्साहितः ॥ ७ ॥
सत्यधर्मीया
स्तोभितो वञ्चित इव नर्तनं कुरु कर्तरित्युक्तावनृत्यन्ननर्त । नृत्यन्निति शत्रन्तपाठे तथा सन्नुद्गायतीत्यन्वयः । तद्वशो गोपीवशो दारुयन्त्रवत्काष्ठमयनियम्यपुत्तलिकादिवन्मुग्धः किञ्चिदजानान इव ॥ ७ ॥
सुमनोरञ्जिनी
श्रीकृष्णस्य बालानुकरणमाह ॥ गोपीभिरिति ॥ स्तोभितः फलं दास्यामि नटनं कुर्विति वञ्चितः । नृत्यन् नर्तनं कुर्वन् । उद्गायति उच्चैर्गायति । क्वचिच्च दारुयन्त्रवद् दारुपुत्रिकावत् । तद्वशस् तैर्गृहीतहस्तः सन् नृत्यति ॥ ७ ॥
बिभर्ति क्वचिदाज्ञप्तः पीठकोन्मानपादुकम् ।
बाहुक्षेपं च कुरुते स्वानां च प्रीतिमावहन् ॥ ८ ॥
पदरत्नावली
पीठकं विष्टरम्, उन्मानं धान्यमापकं प्रस्थं, पादुकं पादपीठम् ॥ ८ ॥
सत्यधर्मीया
पीठकं चोपवेष्टव्यफलकमुन्मानं मापकवैणवं प्रस्थादिकम् । पादुका दारुमयोपानत् । अथ पादुका पादूरुपानत्स्त्रीत्यमरः । पादुकं सर्वो द्वन्द्व इत्येकवद्भावः । जातिर-प्राणिनामिति पीठकादीनां समाहारो वा । स्वानां ज्ञात्यादियोषिताम् ॥ ८ ॥
सुमनोरञ्जिनी
ताभिर् आज्ञप्तः । पीठकं पीठं, उन्मानं धान्यादिमापकं प्रस्थं, पादुकं पादपीठम् । बाहुक्षेपं बाह्वोर् आस्फोटनम् । आवहन् कुर्वन् ॥ ८ ॥
दर्शयंस्तद्विदां लोक आत्मनो भक्तवश्यताम् ।
व्रजस्योद्वाहयन् हर्षं भगवान् बालचेष्टितैः ॥ ९ ॥
पदरत्नावली
लोके आत्मनो भक्तवश्यतां तद्विदां स्वावतारज्ञानिनां नारदादीनां दर्शयन् व्रजस्य व्रजस्थजनव्रजस्य हर्षमुद्वाहयन् बाहुक्षेपं च कुरुत इति पूर्वेणान्वयः ॥ ९ ॥
सत्यधर्मीया
तद्विदां स्वस्वरूपज्ञानिनां नारदादीनाम् । लोके स्वस्य भक्तवश्यतां दर्शयन् बालचेष्टितैर्व्रजस्य तद्गतजनव्रजस्य हर्षमुद्वाहयन्प्रवहन् तं तन्वन्बाहुक्षेपं च कुरुत इत्यतीतेनान्वयः
॥ ९ ॥
सुमनोरञ्जिनी
तद्विदां हरिरेवायमवतीर्ण इति ज्ञानवतां नारदादीनाम् । आत्मनः स्वस्य भक्तवश्यतां दर्शयन् । व्रजस्य हर्षम् उद्वाहयन् अवर्धयन् ॥ ९ ॥
गोपवृद्धा महोत्पाताननुभूय बृहद्वने ।
नन्दादयः समागम्य व्रजकार्यमचिन्तयन् ॥ १० ॥
सत्यधर्मीया
समागम्य मिलित्वा । व्रजकार्यं भविष्यत् ॥ १० ॥
सुमनोरञ्जिनी
गोपेषु वृद्धा वयसा बुद्ध्या च । समागम्य स्थानविशेषे मिलित्वा । व्रजकार्यं गोकुलस्य हितकरं कृत्यम् ॥ १० ॥
तत्रोपानन्दनामाऽऽह गोपो ज्ञानवयोधिकः ।
देशकालार्थतत्त्वज्ञः प्रियकृद् रामकृष्णयोः ॥ ११ ॥
पदरत्नावली
तत्र नन्दादिषु ॥ ११ ॥
सत्यधर्मीया
ज्ञानं च वयश्च ताभ्यामधिकः । तज्ज्ञानमेव विवेचयति ॥ देशकालार्थतत्त्वज्ञ इति ॥ रामकृष्णयोः प्रियकृत् । एतेन श्रीकृष्ण एव स्थानान्तरं गन्तुं तानप्रेरयदिति ध्वन्यते
॥ ११ ॥
सुमनोरञ्जिनी
तत्र तेषु मध्ये । देशकालार्थानां तत्त्वं स्वरूपं जानातीति तथोक्तः । अस्मिन् देशे काले वा अयमर्थो हितो ऽन्योऽहित इति ज्ञानवानित्यर्थः ॥ ११ ॥
उत्थातव्यमितोऽस्माभिर्गोकुलस्य हितैषिभिः ।
आयान्त्यत्र महोत्पाताः प्रजानां नाशहेतवः ॥ १२ ॥
पदरत्नावली
महोत्पाता वृकाद्याः । श्रीकृष्ण एव वृन्दावनं यियासुः सन् स्वरोमकूपेभ्यः महावृकान् सृष्ट्वा व्रजस्थजनव्रजान् भीषयित्वा तानपि तथा प्रेरयामासेति ज्ञेयम् । ‘विनिष्पेतुर्भयकराः सर्वशः शतशो वृकाः । ते वृकाः पञ्चबद्धाश्च दशबद्धास्तथाऽपरे । निश्चेरुस्तस्य गात्रेभ्यः श्रीवत्सकृतलक्षणाः ।’ इति हरिवंशोक्तेः ॥ १२ ॥
सत्यधर्मीया
उत्थाने निमित्तमाह । प्रजानां नाशहेतवो महोत्पातास्ते चोत्पाता वृकाद्याः । यथोक्तं हरिवंशे । सन्त्रासयावो भद्रं ते किञ्चिदुत्पाद्य कारणमित्यारभ्य घोरांश्चिन्तयतस्तस्य स्वतनूरुहजास्तथा । विनिष्पेतुर्भयकराः सर्वशः शतशो वृकाः । ते वृकाः पञ्चबद्धाश्च दशबद्धा-स्तथापरे । निश्चेरुस्तस्य गात्रेभ्यः श्रीवत्सकृतलक्षणा इति गर्भीकृत्य व्रजो निष्पन्दचेष्टः स्म एकस्थानचरः कृत इत्यन्तेन । ते च स्थलान्तरगमनमनसा श्रीकृष्णेन बहिराविर्भावितास्तदात्मका इति ज्ञेयम् । श्रीवत्सकृतलक्षणा इति तदसाधारणलक्षणोक्तेः । अत्रायान्तीत्यपरिचितस्थलं चेज् झडिति न घटेत तदनिष्टमिति भावः ॥ १२ ॥
सुमनोरञ्जिनी
इत एतत्स्थानात् । उत्थातव्यम् । गोकुलस्य गोसमुदायस्य ॥ १२ ॥
मुक्तः कथञ्चिद् राक्षस्या बालघ्न्या बालकोऽप्यसौ ।
हरेरनुग्रहान्नूनमनश्चोपरि नापतत् ॥ १३ ॥
पदरत्नावली
अनः शकटः ॥ १३ ॥
सत्यधर्मीया
अपिना बालकतां गर्हयामास । अनुग्रहान्नोपर्यनुग्रहं प्राप्य कथञ्चिदस्म-दूहानास्पदतया कथञ्चित्केनाप्युपायेन बालघ््नया राक्षस्या मुक्तोऽनः शकटश्च हरेरस्योपरि नापतन्नूनं निश्चयो बाह्यार्थस्तु लोकानुवृत्त्या ॥ १३ ॥
सुमनोरञ्जिनी
असौ बालकः कृष्णः । बालघ््नया राक्षस्याः पूतनायाः । अनश्च शकटोऽपि । उपरि कृष्णस्योपरि ॥ १३ ॥
चक्रवातेन नीतोऽयं दैत्येन वियदूह्यता ।
शिलायां पातितस्तत्र परित्रातः सुरेश्वरैः ॥ १४ ॥
सत्यधर्मीया
वियदाकाशं प्रत्यूह्यता । वचि स्वपीति सम्प्रसारणम् । लटः शता यत्प्रत्ययः कर्तरि छान्दसः । वियन्नीतः शिलायां पातितस्तत्रापि सुरेश्वरैर्देवैस्त्रातो रक्षित इति बहिः । सुरा हरेर्गुणाः प्रोक्ता इत्येकादशतात्पर्योक्तेस्तेषामीश्वरैः । भावप्रधानः । सामर्थ्यविशेषैस्ते च त ईश्वराः स्वभेदेन तैरयमस्मच्छुभदैवं च निमित्तीकृत्येति शेषः । परित्रातः स्वगुणैरेव रक्षित इत्यन्तरर्थः
॥ १४ ॥
सुमनोरञ्जिनी
चक्रवातेन । तत्स्वरूपेण दैत्येन । ऊह्यता श्रीकृष्णं वहता । वियत् प्रति । तत्र तस्याम् अवस्थायाम् ॥ १४ ॥
यन्न म्रियेत द्रुमयोरन्तरं प्राप्य बालकः ।
असावन्यतमो वाऽपि तच्चाप्यच्युतरक्षणम् ॥ १५ ॥
पदरत्नावली
असौ कृष्णः, अन्यतमो वाऽपि कश्चिद् बालको न म्रियेतेति यत् तच्चाप्यच्युतेनैव रक्षणमभूत् ॥ १५ ॥
सत्यधर्मीया
द्रुमयोरन्तरं मध्यं प्राप्यापि बालको यः कोऽपि चेन्म्रियेत न मृतः सुरेश्वरै-र्हेतोरन्यतमोऽपि बालको न म्रियेतेति यत्तच्चाप्यच्युतस्य रक्षणं कृतं तेनेत्येतद्रक्षणमित्यर्थः
॥ १५ ॥
सुमनोरञ्जिनी
द्रुमयोरन्तरं मध्यम् । अन्यतमः कृष्णादन्यबालकेषु कश्चिद् बालकः न म्रियेत इति यत् तदपि अच्युतरक्षणम् अच्युतकृतं रक्षणमेव ॥ १५ ॥
यावदौत्पातिकोऽरिष्टो व्रजं नाभिभवेदितः ।
तावद् बालानुपादाय यास्यामोऽद्यैव सानुगाः ॥ १६ ॥
पदरत्नावली
औत्पातिक उत्पातेनोत्पन्नोऽरिष्टोऽनर्थो यावद् व्रजं तत्स्थं जनं नाभिभवेन् न पराभावयेत् तावन्मध्ये बालानुपादाय इतो बृहद्वनाद् यास्यामः । विलम्बेन न भाव्यं नैकेनापि स्थेयमित्याह औव सानुगा इति ॥ १६ ॥
सत्यधर्मीया
औत्पातिक उत्पातोत्पन्नोऽरिष्टोऽनर्थः । तत्रारिष्टं शुभाशुभे इति विश्वः । लिङ्गाशिष्यतयाऽरिष्ट इत्युक्तम् । अरिष्टमस्यास्तीत्यरिष्टः । औत्पातिकिः कश्चनानर्थ इति शेष इति वा । यावद्व्रजं नाभिभवेन्न तत्स्थं जनं पराभावयेत्तावन्मध्ये बालानुपादायेतोऽस्माद्देशाद्यास्यामः । आलस्येन न भाव्यं न स्थेयं चैकेनाप्यस्मदीयेनेत्याह ॥ औव सानुगा इति । तत्स्थलं सम्यग्वाऽ-सम्यग्वाऽऽलायो मिलत वैको गत्वा विचार्यायात्वत उत्तरं याम इति नेति स्वस्थितिमाहुः । वयं सानुगाः स्वान्वित्युपलक्षणम् । सानुगिरिदर्यादिवासिनां न गृहादिकृत्यमत इदानीमेव यास्याम इति भावः ॥ १६ ॥
सुमनोरञ्जिनी
औत्पातिक उत्पातसूचितः । अरिष्टो ऽनर्थः । व्रजं गोकुलम् । नाभिभवेन् न नाशयेत् तावत् ततः पूर्वमेव । इतः बृहद्वनात् ॥ १६ ॥
वनं वृन्दावनं नाम पशव्यं नवकाननम् ।
गोपगोपीगवां सेव्यं १पुण्याद्रितृणवीरुधम् ॥ १७ ॥
पदरत्नावली
पशव्यं पशुभ्यो हितम् । नवानि नूतनानि काननानि अवान्तराणि उपवनानि यस्मिंस्तत् । पुण्येति अद्रितृणवीरुधां विशेषणम् । पुण्याद्रयः पुण्यवृक्षाः पुण्यानि तृणानि पुण्या वीरुधा गुल्माश्च यस्मिंस्तत् । पुण्याद्रिर् गोवर्धनो वा । ‘अद्रयो द्रुमशैलार्काः’ इत्यमरः ॥ १७ ॥
सत्यधर्मीया
यदस्मदवश्यापेक्षितं तदत्र वर्तत इति नाम निदर्श्योपनन्द उपदिशति ॥ वनमिति ॥ वृन्दावनं नाम प्रसिद्धं वनम् । पशव्यं पशुभ्यो हितम् । नवानि नूतनानि कानना-न्यवान्तराण्युपवनानि यस्मिंस्तत् । नवा एव नवका नूतनागता इतो वयं तेषामेवाननं चेष्टा गमनमिति यावद् यस्मिंस्तत् । एतावत्पर्यन्तं कैरप्यनवलोकितमिति यावदिति वा । गोपगोपीगवाम् । कृत्यानां कर्तरि वेति षष्ठी । सेव्यं सेवनीयम् । पुण्येत्यद्य्रादिवीरुधां विशेषणम् । पुण्याद्रयः पुण्यानि तृणानि पुण्या वीरुधा गुल्माश्च यस्मिंस्तत् । टापं चेति टाबन्तो वीरुधाशब्दः । पुण्यद्व्रिति क्वचित्पाठः । द्रुद्रुमागमा इत्यमराद्द्रवो द्रुमा इत्यर्थः ॥ १७ ॥
सुमनोरञ्जिनी
पशव्यं पशूनां हितम् । नवानि काननानि अवान्तरवनानि यस्मिन् तत् । पुण्या मनोहराः, अद्रयः, तृणाः, वीरुधो गुल्मिन्यः यस्मिन् तत् । वीरुद्गुल्मिन्यपीत्यमरः । वीरुधशब्दोऽकारान्तोऽप्यस्तीति पदरत्नावल्याम् ॥ १७ ॥
तत् तत्राद्यैव यास्यामः शकटान् युङ्ध्व माचिरम् ।
गोधनान्यग्रतो यान्तु भवतां यदि रोचते ॥ १८ ॥
पदरत्नावली
युङ्ध्व प्रस्थानयोग्यान् कुरुध्वम् । ध्वमो मलोपश्छान्दसः ॥ १८ ॥
दुर्घटभावदीपिका
शकटान्युङ्ध्व माचिरमित्यस्याचिरं शीघ्रं शकटानायुङ्ध्वमित्यर्थः । एतेन शीघ्रं शकटान्युङ्ध्वमिति वक्तव्यम् अचिरं शकटान्युङ्ध्वमिति कथनमयुक्तमिति दूषणं परिहृतम् । युङ्ध्वम् आ अचिरमिति पदच्छेदमङ्गीकृत्य आ इत्यस्य युङ्ध्वम् इत्यनेनान्वयमङ्गीकृत्याचिरं शीघ्रं शकटानायुङ्ध्वमित्यर्थस्योक्तत्वात् ॥ १८ ॥
सत्यधर्मीया
तत् ततः । तत्राद्यैव यास्यामः शकटाननांसि यूयं युङ्ध्व युङ्ध्वं चिरं माऽस्त्वित्यर्थः । ध्वमो मलोपश्छान्दसः । यद्वा युङ्ध्वम् आचिरमिति छेदः । आ सम्यगिति अचिरं शीघ्रमतिशीघ्रम् । अभिविधिरेवात्र सम्यक्त्वेन विवक्षित इति क्त्वान्न प्रकृतिभावः । युङ्ध्वं भवतामग्रतो गोधनानि यान्तु । अग्रत इत्यावर्तते । सार्वविभक्तिकश्च तसिः । अग्रेभ्यो प्रधानेभ्यो यदि रोचते तर्हि शकटान्युङ्ध्वं यास्याम इत्यन्वयः । अग्रमालम्बने वाते परिणामे परस्य च । प्रान्ते पुरस्तादधिके प्रधाने प्रथमोर्ध्वयोरिति विश्वः । एवं च रुच्यर्थानामित्यस्योपपत्तिर्जातेति ज्ञेयम् । युङ्क्ष्वमाचिरमिति पाठस्तु कल्पितः । एतदर्थापनानिपुणैर्बहुवचनक्रमाननुगुण इत्युपेक्ष्यः ॥ १८ ॥
सुमनोरञ्जिनी
तत् तस्मात् । मा चिरं शीघ्रम् । युङध्वम् अनडुद्भिः संयोजयध्वमित्यर्थः । भवतां भवद्भ्यः ॥ १८ ॥
तच्छ्रुत्वैकधियो गोपास्सर्वे नन्दपुरोगमाः ।
उपनन्दवचो राजन् प्रतिनन्द्य गृहान् ययुः ॥ १९ ॥
पदरत्नावली
एकस्मिन् वृन्दावनगमनविषये धीर्बुद्धिर्येषां ते ॥ १९ ॥
सत्यधर्मीया
नन्दपुरोगमा नन्दादय उपनन्दवचः श्रुत्वा केचनानुमेनिरे नानुमेनिरे च केचनेति नेतीरयति ॥ सर्व एकधिय इति ॥ एकस्मिन्वृन्दावनगमनविषये धीर्येषां ते गोपास्त-त्प्रतिनन्द्य गृहान्स्वान्स्वान्ययुः ॥ १९ ॥
सुमनोरञ्जिनी
तद् उपनन्दोक्तम् । एकधिय एकविषयकधियः । प्रतिनन्द्य शिरसा श्लाघ्य
॥ १९ ॥
सरित्तीरगतं कृष्णं भग्नार्जुनमथाह्वयत् ।
रामं च रोहिणी देवी क्रीडन्तौ बालकैर्भृशम् ॥ २० ॥
सत्यधर्मीया
बालकैर्भृशं क्रीडन्तौ क्रीडां कुर्वन्तौ भग्नार्जुनं सरित्तीरगतं कृष्णमथ रामं चेत्येतौ रोहिणी देव्याह्वयदाजुहावेत्यर्थः ॥ २० ॥
सुमनोरञ्जिनी
सरित्तीरे यमुनातीरे गतम् । भग्नौ अर्जुनौ येन तम् । रामं च राममपि
॥ २० ॥
नोपेयातां यदाहूतौ क्रीडासङ्गेन पुत्रकौ ।
यशोदां प्रेषयामास रोहिणी पुत्रवत्सला ॥ २१ ॥
पदरत्नावली
नोपेयातां समीपं नागतौ ॥ २१ ॥
सत्यधर्मीया
यदा क्रीडासङ्गेन तदासक्त्याऽऽहूतावपि नोपेयातां समीपं नापतुस्तदा पुत्रवत्सला रोहिणी यशोदां प्रेषयामास त्वं वा कारयेति ॥ २१ ॥
सुमनोरञ्जिनी
यदा आहूतावपि । क्रीडायाम् आसङ्ग आसक्तिस्तेन । नोपेयातां समीपं नागतौ तदा ॥ २१ ॥
**क्रीडन्तं स्वसुतं बालमतिवेलं सहाग्रजम् । **
यशोदाऽजोहवीद् वीक्ष्य पुत्रस्नेहस्नुतस्तनी ॥ २२ ॥
पदरत्नावली
अजोहवीद् आह्वयामास ॥ २२ ॥
सत्यधर्मीया
बालमतिवेलं भृशं सहाग्रजं सहरामं क्रीडन्तं स्वसुतं पुत्रस्नेहेन स्रुतौ स्तनौ यस्याः सा । स्वाङ्गादिङीष् । यशोदाऽजोहवीत् । ह्वेञ् स्पर्धायां शब्दे चेत्यस्माद्यङ्लुगन्ताल्लङि अभ्यस्तस्येति सम्प्रसारणे कुहोश्चुरिति चुत्वेन जकारे गुणो यङोरिति गुणे यङो वेतीडागमे सार्वधातुकगुणे अडागमे च रूपम् । शब्दमात्रार्थकत्वेऽपि पुनः पुनः स्तुतिपूर्वकाकरणार्थत्वं प्राकरणिकं ज्ञेयम् । यथोक्तं प्रथमाष्टकाष्टमाध्यायदशमवर्गीयाजोहवीन्नासत्याकरवामित्यादिव्याख्यायां माधवेन वध्रिमती नाम रुच्यचिराजर्षेः पुत्री नपुंसकभर्तृका । सा पुत्रलाभार्थं नासत्यौ करा अभिमतकर्तारौ अजोहवीत् । पुनः पुनः स्तुत्या पुत्रलाभार्थमाहूतवती । ह्वयतेर्यङ्लुगन्ताल्लङ् यङो वेति तिप ईडागम इति ॥ २२ ॥
सुमनोरञ्जिनी
यशोदा । अतिवेलं वेलां भोजनकालमतिक्रम्य क्रीडन्तम् । अजोहवीद् आह्वयत् ॥ २२ ॥
कृष्ण कृष्णारविन्दाक्ष तात एहि स्तनं पिब ।
अलं विहारैः क्षुत्क्षान्तस्तद् भवान् भोक्तुमर्हति ॥ २३ ॥
सत्यधर्मीया
तात त्वमेहि क्वासि न दृश्यस इति न वदेति वदति ॥ तेऽरविन्दाक्षतेति ॥ यतोऽरविन्दाक्षता तेऽतः पश्य एहीति । कमलपत्रलोचन सूर्यचन्द्रवल्लोचनेति वा नानवलोकनं युक्तमिति भावः । विहारैः क्रीडाभिरलम् । कुत इत्यत आह ॥ क्षुत्क्षान्त इति ॥ बहुलवत ऊहनं मोहनाङ्ग्या इति ज्ञेयम् । यद्वक्ष्यति च प्रातरेव कृताहार इति ॥ २३,२४ ॥
सुमनोरञ्जिनी
हे तात । क्षुधा क्षान्तः श्रान्तोऽसि ॥ २३ ॥
हे रामागच्छ ताताशु सानुजः कुलनन्दन ।
प्रातरेव कृताहारः क्रीडाश्रान्तोऽसि पुत्रक ॥ २४ ॥
सुमनोरञ्जिनी
सानुजो ऽनुजेन कृष्णेन सहितः । कुलं नन्दयति आनन्दयतीति तथोक्तः
॥ २४ ॥
प्रतीक्षते त्वां दाशार्हो भोक्ष्यमाणो व्रजाधिपः ।
एह्यावयोः प्रियं धेहि स्वगृहान् १यान्तु बालकाः ॥ २५ ॥
पदरत्नावली
व्रजाधिपः नन्दगोपः । धेहि विधेहि ॥ २५ ॥
सत्यधर्मीया
दाशार्हो व्रजाधिपो नन्दोऽधिपो मां व्रजेत्युक्त्वा त्वां प्रतीक्षते सहाशितव्य-मित्यासीनो मार्गं निरीक्षते । एह्यावयोः प्रियं धेहि पिधेहि बालकाः स्वगृहान्यान्तु । यातेति पाठे हे बालका यात गच्छतेत्यर्थः । बालान्स्वबालाभ्यां सहानाजुहाव यशोदा भुक्त्यर्थम् । न दारिद्य्रान्न वा लोभादपि स्वपुत्रेण सहादनसाधनसुकृताप्त्याद्याप्यनुदितत्वादिति मन्तव्यम् ॥ २५ ॥
सुमनोरञ्जिनी
दाशार्हः दशार्हकुलोत्पन्नः । व्रजाधिपो नन्दगोपः भोक्ष्यमाणः । त्वां प्रतीक्षते त्वदागमनमाकांक्षते । आवयोर् मह्यं नन्दाय च रौहिण्यै चेति वा । हे बालकाः । यात गच्छत
॥ २५ ॥
जन्मर्क्षं तेऽद्य भविता विप्रेभ्यो देहि गाः शुचिः ।
धूलिधूसरिताङ्गस्त्वं तात मज्जनमावह ॥ २६ ॥
पदरत्नावली
धूलिधूसरितानि अङ्गानि अवयवानि यस्य सः ॥ २६ ॥
सत्यधर्मीया
धूलिधूसरितान्यङ्गान्यवयवा यस्य सः । मज्जनं स्नानं चावह । नन्दादिमं त्वमन्यं नावह परकीयोऽयमिति नोऽनुसन्दध्याः किन्तु मज्जनं मम जनो हि मज्जनस्तमावह । अत इत आगते स्वकीयता स्फुटीभविष्यतीति भावः । हे मज्ज मत्तो जायत इति स तथा । तातमिति शेषः । आव सम्यग्रक्ष च । हेत्येतदुभयकार्यकारितेतरत्र दुःसाधनेति द्योत्यते । हे अज्ज आश्चर्यकरजन्म । उर्वरितं पूर्ववत् । हे मज्जन मत्तो जनो जननं यस्य तत्सम्बुद्धिः । मा मामवेति वा ॥ २६ ॥
सुमनोरञ्जिनी
अन्यच्च निमित्तमस्तीत्याह ॥ जन्मेति ॥ जन्मर्क्षं जन्मनक्षत्रम् । शुचिः सन् । धूलिधूसरिताङ्गः रजसा मलिनाङ्गः । मज्जनम् अभ्यङ्गस्नानम् । आवह कुरुष्व ॥ २६ ॥
पश्य पश्य वयस्यांस्ते मातृमृष्टान् स्वलङ्कृतान् ।
त्वं च स्नातः कृताहारो विहरस्व स्वलङ्कृतः ॥ २७ ॥
सत्यधर्मीया
मातृमृष्टान्स्वमातृकृताभ्यङ्गशोधिताङ्गान्स्वमात्रलङ्कृतान् । विहरस्व क्रीड । ञित्त्वात्स्वरितञित इत्यात्मगामिनि क्रियाफल आत्मनेपदता ॥ २७ ॥
सुमनोरञ्जिनी
मातृमृष्टान् स्वस्वमातृभिर् मृष्टान् निर्मलीकृतान् । त्वं च त्वमपि ॥ २७ ॥
इत्थं यशोदा तमशेषशेखरं मत्वा सुतं स्नेहनिबद्धधीर्नृप ।
हस्ते गृहीत्वा सहराममच्युतं नीत्वा स्ववाटं कृतवत्यथोदयम् ॥ २८ ॥
पदरत्नावली
स्ववाटं स्वगृहम् । उदयं मज्जनभोजनाद्युत्सवम् ॥ २८ ॥
सत्यधर्मीया
इत्थं यशोदाऽशेषशेखरमशेषाणां शेखरमशेषः शेषविरोधी गरुडः स शेखरे यस्य स गरुडध्वजस्तमिति वा मा पीडारूपस्तम् । शिखास्वापीडशेखरावित्यमरः । शिरोधार्य-मालावाच्यप्ययं शिरोमान्यतां निमित्तीकृत्योत्तमार्थक इति ज्ञेयम् । शिखि गतौ । बाहुलकादरः । आगमशासनानित्यतया नुम् पुगन्तगुणे रूपम् । स्ववाटं व्रजं स्वमार्गं वा । उदयं मज्जनाद्युत्सवं कृतवती ॥ २८ ॥
सुमनोरञ्जिनी
अशेषस्य शेखरम् । सर्वोत्तममित्यर्थः । तं कृष्णम् । सुतं मत्वा । स्नेहेन निबद्धा युक्ता धीर्मनो यस्याः सा । स्ववाटं स्वव्रजं प्रति । उदयं जन्मर्क्षनिमित्तोत्सवम् ॥२८॥
अथ नन्दः समाहूय गोपानिदमभाषत ।
श्वोऽतो वृन्दावनं यामो यत्ता भवथ माचिरम् ॥ २९ ॥
पदरत्नावली
यत्ताः सन्नद्धाः ॥ २९ ॥
सत्यधर्मीया
श्वोऽत एतत्स्थलाद्यत्ताः सन्नद्धाः । श्वो याम इति लकारव्यत्ययः । यद्वा श्वोऽपि माचिरमित्यन्वयः ॥ २९ ॥
सुमनोरञ्जिनी
श्वः परदिने । अतो ऽमुष्मात् स्थानात् । यत्ताः सन्नद्धाः ॥ २९ ॥
तच्छ्रुत्वैकधियो गोपाः साधु साध्विति वादिनः ।
रथान् स्वान् स्वान् समायुज्य ययू रूढपरिच्छदाः ॥ ३० ॥
पदरत्नावली
रूढाः शकटारोपिताः परिच्छदा भाण्डादिसाधनानि यैस्ते ॥ ३० ॥
सत्यधर्मीया
रूढा आरोपिताः परिच्छदा आस्तरणानि साधनानि यैस्ते ॥ ३० ॥
सुमनोरञ्जिनी
समायुज्य वृषैः संयोज्य । रूढाः शकटाधिष्ठिताः परिच्छदा भाण्डादि-साधनानि यैस्ते ॥ ३० ॥
वृद्धान् बालान् स्त्रियो राजन् सर्वोपस्करणानि च ।
अनस्स्वारोप्य गोपालान् यत्ता आत्तशरासनाः ॥ ३१ ॥
पदरत्नावली
अनस्सु शकटेषु । आत्तानि गृहीतानि शरासनानि धनूंषि यैस्ते ॥३१॥
सत्यधर्मीया
सर्वोपस्कराणि घरट्टक्षुब्धादीनि गतमुपरिस्करेति । आत्तं शरासनं धनुर्यैस्ते
॥ ३१ ॥
सुमनोरञ्जिनी
अनस्सु शकटेषु । यत्ताः सन्नद्धाः । आत्तानि स्वीकृतानि शरासनानि यैस्ते तथोक्ताः ॥ ३१ ॥
गोधनानि पुरस्कृत्य शृङ्गाण्यापूर्य सर्वतः ।
तूर्यघोषेण महता ययुः सहपुरोहिताः ॥ ३२ ॥
पदरत्नावली
शृङ्गाणि विषाणनिर्मितगोपोचितवाद्यानि आपूर्य सर्वतः महता तूर्यघोषेण ययुः
॥ ३२ ॥
सत्यधर्मीया
शृृङ्गाणि विषाणरचितगोपोचितवाद्यान्यापूर्य पूरयित्वा महता तूर्याणां घोषेण च । तूर्येति गतम् । सहपुरोहिता गर्गो वा स्वासत्तादशायां तेन स्थापितो वा यः कश्चित्पुरोहितस्तेन सहिताः ॥ ३२ ॥
सुमनोरञ्जिनी
शृृङ्गाणि मुखेनाध्मायमानवाद्यविशेषान् । सर्वत आपूर्य आध्माय्य । तूर्याणां वाद्यानाम् । सर्वतः सर्वाण्यपि गोधनानि ॥ ३२ ॥
गोप्यो रूढरथा नृत्यत्कुचकुङ्कुमकान्तयः ।
कृष्णलीलां जगुः प्रीताः स्निग्धकण्ठ््यः सुवाससः ॥ ३३ ॥
पदरत्नावली
नृत्यत्सु कुचेषु कुङ्कुमानां कान्तिर्यासां तास्तथा । स्निग्धा मनोहरा कण्ठा यासां तास्तथा ॥ ३३ ॥
सत्यधर्मीया
नृत्यन्तो विशङ्कटशकटनटनेन नटन्तश्च ते कुचाश्च तेषु कुङ्कुमानां कान्तिर्द्युति-र्यासां ताः । स्निग्धा मनोहराः कण्ठा यासां ताः ॥ ३३ ॥
सुमनोरञ्जिनी
नृत्यत्कुचाश्च ता कुङ्कुमकान्तयश्च । नृत्यत्कुचेषु कुङ्कुमकान्तिर्यासामिति वा । स्निग्धः मनोहरः कण्ठः ध्वनिर्यासां ताः ॥ ३३ ॥
तथा यशोदारोहिण्यावेकं शकटमास्थिते ।
रेजतुः कृष्णरामाभ्यां तत्कथाश्रवणोत्सुके ॥ ३४ ॥
सत्यधर्मीया
कृष्णरामाभ्यां सहोपविष्टाभ्याम् ॥ ३४ ॥
सुमनोरञ्जिनी
कृष्णरामाभ्यां सह । तथा कृष्णरामाभ्यां कथ्यमाना या कथाऽव्यक्तमधुर-रूपा । तयोर् या कथा व्रजस्त्रीभिर्गीयमाना वा तच्छ्रवणोत्सुके यशोदारोहिण्यौ रेजतुरित्यन्वयः
॥ ३४ ॥
वृन्दावनं सम्प्रविश्य सर्वकालसुखावहम् ।
तत्र चक्रुर्व्रजावासं शकटैरर्धचन्द्रवत् ॥ ३५ ॥
पदरत्नावली
अर्धचन्द्रवद् अर्धचन्द्राकारवत् । यथोक्तं हरिवंशे ‘निवेशं विपुलं चक्रे गवां चैव हिताय च । शकटावर्तपर्यन्तं चन्द्रार्धाकारसंस्थितम्’ इति ॥ ३५ ॥
सत्यधर्मीया
सर्वेषु कालेषु सर्वर्तुषु यत्सुखं तदावहतीति तत् । अर्धचन्द्रवदर्धचन्द्रानुकारं व्रजावासं चक्रुः ॥ ३५ ॥
सुमनोरञ्जिनी
व्रजावासं गोकुलस्थानम् । अर्धचन्द्राकारं चक्रुः ॥ ३५ ॥
वृन्दावनं गोवर्धनं यमुनापुलिनानि च ।
वीक्ष्यासीदुत्तमा प्रीती राममाधवयोर्नृप ॥ ३६ ॥
सत्यधर्मीया
वृन्दावनं, गोवर्धनं पर्वतं, यमुनायाः पुलिनानि च । प्रीतिः । रामेति गतम्
॥ ३६ ॥
सुमनोरञ्जिनी
गोवर्धनं तन्नामकं पर्वतम् । गवां वर्धनं वृन्दावनमिति वा ॥ ३६ ॥
एवं व्रजौकसां प्रीतिं यच्छन्तौ बालचेष्टितैः ।
कलवाक्यैश्च कालेन वत्सपालौ बभूवतुः ॥ ३७ ॥
पदरत्नावली
कलवाक्यैः सुमधुरभाषितैः ॥ ३७ ॥
सत्यधर्मीया
कालेन वत्सपालौ तर्णरक्षकौ बभूवतुः ॥ ३७ ॥
सुमनोरञ्जिनी
यच्छन्तौ दास्यन्तौ । कलवाक्यैर् अव्यक्तमधुरवचनैः । कालेन तद्योग्य-कालेन । वत्सपालौ गोवत्सपालौ ॥ ३७ ॥
अविदूरे व्रजभुवः सह गोपालबालकैः ।
चारयामासतुर्वत्सान् नानाक्रीडापरिच्छदौ ॥ ३८ ॥
पदरत्नावली
अविदूरे समीपे । नानाविधाः क्रीडापरिच्छदाः क्रीडोपकरणानि ययोस्तौ
॥ ३८ ॥
सत्यधर्मीया
अविदूरे समीपे । नानाप्रकारक्रीडासाधनोपेतौ ॥ ३८ ॥
सुमनोरञ्जिनी
व्रजभुवः गोकुलनिवासात् । अविदूरे समीपे । चारयामासतुर् गतिभक्षणे कारयामासतुः । नाना नानाविधः क्रीडापरिच्छदः क्रीडासामग्री ययोस्तौ ॥ ३८ ॥
क्वचिद् वादयतो वेणून् क्षेपणैः क्षिपतः क्वचित् ।
क्वचित् पदैः किङ्किणीभिः क्वचित् कृत्रिमगोवृषैः ॥ ३९ ॥
पदरत्नावली
क्षेपणैर् अश्मयन्त्रैः । पदैः पादैः । कृत्रिमगोवृषैर् मृद्दारुकृतगोवृषैः ॥ ३९ ॥
सत्यधर्मीया
क्षेपणैरश्मयन्त्रैः कवणीत्यपभ्रष्टभाषया । किङ्किणीभिः क्षुद्रघण्टाभिः कृत्रिमगोवृषैर्मृद्वृषदारुगवकादिभिः ॥ ३९ ॥
सुमनोरञ्जिनी
क्रीडाप्रकारमाह ॥ क्वचिदिति ॥ वेणून् वादयतः स्वनयतः । क्षेपणैर् अश्मयन्त्रैः । बिल्वामलकादिभिर्वा । क्षिपतः परस्परम् । लक्ष्यं वा ताडयतः । किङ्किणीभिः किङ्किणीयुक्तैः । क्वचित् कदाचित् । कृत्रिमगोवृषैर् मृद्दार्वादिनिर्मितगोवृषैः ॥ ३९ ॥
वृषायमाणौ नर्दन्तौ युयुधाते परस्परम् ।
अनुकृत्य रुतैर्जन्तून् चेरतुः प्राकृतौ यथा ॥ ४० ॥
पदरत्नावली
वृषायमाणौ वृषभवदाचरन्तौ । नर्दन्तौ वृषभशब्दं कुर्वन्तौ । नर्द शब्दे इति धातुः । जन्तून् शुककोकिलादीन् रुतैस् तत्तच्छब्दैर् अनुकृत्य विडम्ब्य ॥ ४० ॥
सत्यधर्मीया
वृषायमाणौ वृषवदाचरन्तौ । नर्दन्तौ कूजन्तौ । जन्तून् रुतैस्तत्तच्छब्दैरनुकृत्य कृत्वाऽनुकरणं चेरतुः ॥ ४० ॥
सुमनोरञ्जिनी
क्वचिच्च स्वयमपि वृषायमाणौ वृषवद्वर्तमानौ । तद्वदेव नर्दन्तौ शब्दं कुर्वन्तौ । परस्परं युयुधाते इत्यर्थः । क्वचिच्च रुतैः शब्दैः । जन्तून् हंसमयूरादीन् । अनुकृत्य विडंब्य ॥४०॥
कदाचिद् यमुनातीरे वत्सान् चारयतोः स्वकैः ।
वयस्यैः कृष्णबलयोर्जिघांसुर्दैत्य आगमत् ॥ ४१ ॥
सत्यधर्मीया
जिघांसुर्हन्तुमिच्छुः ॥ ४१ ॥
सुमनोरञ्जिनी
स्वकैर् वयस्यैः सह । कृष्णबलयोः । षष्ठी द्वितीयार्थे ॥ ४१ ॥
तं वत्सरूपिणं वीक्ष्य वत्सयूथगतं हरिः ।
दर्शयन् बलदेवाय शनैर्मुग्ध इवासदत् ॥ ४२ ॥
पदरत्नावली
आसदद् आजगाम ॥ ४२ ॥
सत्यधर्मीया
वत्सयूथगतं स्वगोवत्ससमूहनिविष्टं मुग्ध इवाज्ञवच्छनैर्मन्दं शनैः शनैश्चर-ग्रहवत्स यथा प्रायेणायमशुभग्रह इति पञ्चमोक्तेर्दुःस्थानस्थितोऽनर्थदस्तथाऽसददित्यावृत्त्याऽप्यन्वयः
॥ ४२ ॥
सुमनोरञ्जिनी
वत्सयूथगतं वत्ससमुदाये प्रविष्टम् । तं दैत्यम् । मुग्ध इव अजानन्निव । आसदत् समीपमागतवान् ॥ ४२ ॥
गृहीत्वाऽपरपादाभ्यां सहलाङ्गूलमच्युतः ।
भ्रामयित्वा कपित्थाग्रे प्राहिणोद् गतजीवितम् ॥ ४३ ॥
पदरत्नावली
अपरपादाभ्यां पाश्चात्यचरणाभ्याम् । कपित्थस्य दधित्थाख्यवृक्षस्य अग्रे । प्राहिणोत् प्राक्षिपत् ॥ ४३ ॥
दुर्घटभावदीपिका
अच्युतः कृष्णो वत्सासुरस्यापरपादाभ्यां सहलाङ्गूलं गृहीत्वा वत्सासुरं भ्रामयित्वा गतजीवितं कृत्वा कपित्थाग्रे प्राहिणोत्स्थापितवानिति । एतेन गतजीवितमित्ये-तदनन्वितमिति दूषणं परास्तम् । कृत्वेति शेषेणान्वयस्योक्तत्वात् ॥ ४३ ॥
सत्यधर्मीया
अपरपादाभ्यां पाश्चात्यचरणाभ्यां सहलाङ्गूलं पुच्छं गृहीत्वा तथैव भ्रामयित्वा कपित्थागे्र तत्तर्वग्रे गतजीवितं प्राहिणोच्चिक्षेप । भ्रामणक्षण एव गतप्राणं वृक्षोपरि प्राक्षिपदिति । अथ कपित्थे स्युर्दधित्थग्राहिमन्मथाः । तस्मिन्दधिफलं पुष्पफलं दन्तशठावपीत्यमरः ॥ ४३ ॥
सुमनोरञ्जिनी
अपरपादाभ्यां पाश्चात्यपादाभ्यां सह लाङ्गूलं गृहीत्वा । भ्रमणेन गतजीवितम् । तं दैत्यम् । प्राहिणोच् चिक्षेप ॥ ४३ ॥
स कपित्थैर्महाकायः पात्यमानैः पपात ह ।
तं वीक्ष्य विस्मिता बालाः शशंसुः साधु साध्विति ॥ ४४ ॥
पदरत्नावली
कपित्थैः कपित्थशाखायुक्तफलैः ॥ ४४ ॥
सत्यधर्मीया
स पात्यमानैः कपित्थानां फलानि कपित्थानि तैः फलैः सह पपात । तन्महादेहसंस्पर्श एव फलपतनहेतुरिति भावः । तं वत्सं फलपातं च । विस्मिता बालाः साधु साध्विति शशंसुः । अनायासेन यातानि नः फलानि निहितश्चायं दैतेय इति विस्मय इति भावः
॥ ४४ ॥
सुमनोरञ्जिनी
स महाकायः सन् । कपित्थैः कपित्थफलैः सह पपात । तं पूर्वं वत्साकृतिम् अनन्तरं महाकायम् ॥ ४४ ॥
देवाश्चोपरि सन्तुष्टा बभूवुः पुष्पवर्षिणः ।
तौ वत्सपालकौ भूत्वा सर्वलोकैकपालकौ ॥ ४५ ॥
सत्यधर्मीया
देवाश् च ऊपरीति छेदः । उत्कृष्टत्वादुनामासाविति छान्दोग्यभाष्योक्तेः । ओः उत्कृष्टस्य कृष्णस्योपरि तदुपरीतिवद्देवाः पुष्पसन्ततिं ववृषुः । सर्वलोकैकपालकौ सर्वलोकैकपौ तावलकावलकौ शुक्लकृष्णकेशात्मकाविति वा भूत्वा वत्सपालकौ सन्तौ तौ ॥ ४५ ॥
सुमनोरञ्जिनी
वत्सपालकौ भूत्वापि । सर्वलोकानाम् एकपालकौ मुख्यपालकौ । दुष्टशिष्टशिक्षणेनेत्येवं सन्तुष्टा देवाः । उपरि श्रीकृष्णोपरि । पुष्पसन्ततिम् । ववृषुरिति सम्बन्धः
॥ ४५ ॥
सप्रातराशौ गोवत्सान् चारयन्तौ विचेरतुः ।
स्वंस्वं वत्सकुलं सर्वे पाययिष्यन्त एकदा ॥ ४६ ॥
पदरत्नावली
सप्रातराशौ प्रातराशेन प्रातर्भोजनेन सहितौ, कृतप्रातरशनौ इत्यर्थः ॥ ४६ ॥
सत्यधर्मीया
सप्रातराशौ आशोऽशनं प्रातराशेन प्रातर्भोजनेन सहितौ कृतप्रातरशनौ गोवत्सांश्चारयन्तौ विचेरतुरित्यन्वयः । सर्वे बालाः ॥ ४६ ॥
सुमनोरञ्जिनी
प्रातराशौ प्रातर्भोजनवन्तौ । पाययिष्यन्तः पाययितुमिच्छन्तः ॥ ४६ ॥
गत्वा जलाशयाभ्याशं पाययित्वा पपुर्जलम् ।
ते तत्र ददृशुर्बाला महासत्त्वमवस्थितम् ॥ ४७ ॥
पदरत्नावली
जलाशयाभ्याशं महासरसः समीपम् । महासत्वम् बृहज्जन्तुं, महान् सत्वो गोगोपालहननोद्यमरूपो व्यवसायः पराक्रमश्च यस्य स तथा तम् । ‘सत्वोऽस्त्री जन्तुषु क्लीबे व्यवसाये पराक्रमे । आत्मभावे पिशाचे च द्रव्ये सत्तास्वभावयोः’ इति यादवः ॥ ४७ ॥
सत्यधर्मीया
जलाशयस्य महासरसोऽभ्याशं समीपम् । पाययित्वा ताञ्जलं पपुः स्वयं च । महासत्त्वमद्भुतजन्तुम् । सत्त्वोऽस्त्री जन्तुष्विति यादवः ॥ ४७ ॥
सुमनोरञ्जिनी
जलाशयस्याभ्याशं समीपम् । महासत्वं महान्तं जन्तुम् ॥ ४७ ॥
तत्रसुर्वज्रसंभिन्नगिरेः शृङ्गमिव च्युतम् ।
स वै बको नाम महानसुरो बकरूपधृक् ॥ ४८ ॥
पदरत्नावली
असुरः सुरवरानपि अस्यति क्षिपतीति । असु क्षेपणे इति धातोर् उरन्प्रत्ययः । वैशब्दः स्वरूपतोऽपि बकारव्यमहासुरत्वमवधारयति । ‘स्युरेवं तु पुनर्वैवेत्यवधारणवाचकाः’ इत्यमरः
॥ ४८ ॥
सत्यधर्मीया
वज्रसम्भिन्नश्चासौ गिरिश्च तस्य सकाशाच्च्युतं शृृङ्गमिव ददृशुः । अनन्तरं तत्रसुरिदमित्थमित्यनिर्णयादिति भावः । स बको नाम नाम्ना प्रागपीति वैकारः सूचयति । इदानीं बकरूपधृक् बकस्य कङ्कस्य । बकः कङ्क इत्यमरः । रूपं धृष्णाति धरतीति स तथा ॥४८॥
सुमनोरञ्जिनी
कीदृशम् । वज्रसंभिन्नगिरेश्च्युतं शृृङ्गमिव स्थितम् । दृष्ट्वा तत्रसुर् भीता अभवन् । सः महासत्वः बको नामतः । वै प्रसिद्धः ॥ ४८ ॥
आगत्य तरसा कृष्णं तीक्ष्णतुण्डोऽग्रसद् बली ॥ ४९ ॥
पदरत्नावली
अग्रसत् प्रजग्रास ॥ ४९ ॥
सत्यधर्मीया
तीक्ष्णतुण्डो बली बकस्तरसाऽऽगत्य कृष्णमग्रसज्जग्रास ॥ ४९ ॥
कृष्णं महासुरग्रस्तं दृष्ट्वा रामादयोऽर्भकाः ।
बभूवुरिन्द्रियाणीव विना प्राणैर्विचेतसः ॥ ५० ॥
पदरत्नावली
विचेतसो निश्चेष्टिताः, पाषाणविग्रहकल्पाः ॥ ५० ॥
सत्यधर्मीया
इन्द्रियाणि प्राणैर्विना यथा विचेतसो विमनस्का बभूवुः ॥ ५० ॥
सुमनोरञ्जिनी
रामादयो विचेतसः कर्तव्यज्ञानहीना आसन् ॥ ५० ॥
तं तालुमूलं प्रदहन्तमग्निवद् गोपालसूनुं पितरं जगद्गुरोः ।
चच्छर्द सद्योऽतिरुषाऽक्षतं बकस्तुण्डेन हन्तुं पुनरभ्यपद्यत ॥ ५१ ॥
पदरत्नावली
जगद्गुरोर् हिरण्यगर्भस्य पितरम् । अक्षतम् ईक्षित्वा अतिरुषा तुण्डेन चञ्च्वा हन्तुं पुनरभ्यपद्यत अभिमुखमापद्यत ॥ ५१ ॥
सत्यधर्मीया
अग्निवदग्निमिव तालुमूलं द्रंष्ट्रामूलम् । तालु काकुदमित्यमरः । प्रदहन्तम् । जगद्गुरोश्चतुराननस्य पितरं तातम् । अनेन गोपालसूनुतामुपजहास मूलकृदिति मन्तव्यम् । सद्यश्चच्छर्द । निरष्टीवदक्षतं मत्वाऽतिरुषा तुण्डेन चञ्चुपुटेन हन्तुं पुनरभ्यपद्यत ॥ ५१ ॥
सुमनोरञ्जिनी
जगद्गुरोश्चतुर्मुखस्य पितरम् । अग्निमिव । तालुमूलं कण्ठम् । प्रदहन्तम् । चच्छर्द वान्तवान् । तथापि तम् अक्षतम् । पुनरपि रुषा तुण्डेन चञ्चुपुटेन हन्तुम् । अभिमुखं प्राप्तवान् ॥ ५१ ॥
तमापतन्तं स निगृह्य तुण्डयोर्दोर्भ्यां बकं कंससखं सतां पतिः ।
पश्यत्सु बालेषु ददार लीलया मुदावहो वीरणवद् दिवौकसाम् ॥ ५२ ॥
पदरत्नावली
कटस्योपादानं तृणं वीरणम् । ‘वीरणं श्रीतृणं विदुः’ इति यादवः ॥ ५२ ॥
सत्यधर्मीया
स कृष्णः । कंसस्य सखा कंससखो राजाहःसखिभ्यष्टजिति टच् । तम् । वीरणवत्तृणविशेषवत् । वीरणं श्रीतृणं विदुरिति यादवः । दिवौकसां मुदावहो बालेषु पश्यत्सु सत्सु तुण्डयोर्दोर्भ्यां निगृह्य ददारादारयत् । नायास आसेत्याह ॥ लीलयेति ॥ ५२ ॥
सुमनोरञ्जिनी
सः । कंसस्य सखायं मित्रं बकम् । तुण्डयोर् निगृह्य । बालेषु पश्यत्सु सत्सु । वीरणवत् पर्वरहिततृणविशेषवत् । विददार । तेन दिवौकसां मुदावहश्चासीदिति ॥ ५२ ॥
तदा बकारिं सुरलोकवासिनः समाकिरन् नन्दनमल्लिकादिभिः ।
समीडिरे चानकशङ्खसंस्तवैस्तद् वीक्ष्य गोपालसुता विसिस्मिरे ॥ ५३ ॥
पदरत्नावली
आनकशङ्खसंस्तवैर् दुन्दुभिशङ्खादिमङ्गलघोषसहितैर् उत्तमस्तोत्रैः समीडिरे संस्तुतवन्तः । तद् बकासुरसंहारसुरस्तोमसंस्तवनादिकृष्णविजयोत्सवम् । विसिस्मिरे विस्मिताः
॥ ५३ ॥
दुर्घटभावदीपिका
समीडिरे चानकशङ्खसंस्तवैरित्यस्यानकशङ्खसंस्तवैः समीडिरे पूजयाञ्चक्रु-श्चेत्यर्थः । एतेनानकशङ्खानां स्तुतिसाधनत्वाभावाद् आनकशङ्खसंस्तवैः स्तुतिं चक्रुरिति कथनमनु-पपन्नमिति दूषणं परास्तम् । धातूनामनेकार्थत्वेन ईड धातोः पूजार्थत्वमङ्गीकृत्य समीडिर इत्यस्य पूजयांचक्रुरित्यर्थस्योक्तत्वात् ॥ ५३ ॥
सत्यधर्मीया
तद्बककबलनं तत्संहरणं पुष्पवर्षणं देवस्तवनादिकं च वीक्ष्य विसिस्मिरे विस्मिताः ॥ ५३ ॥
सुमनोरञ्जिनी
नन्दनवनोत्पन्नमल्लिकादिभिः कुसुमैर् अवाकिरन् ववृषुः । आनकैः शंखैश्च संस्तवैः स्तुतिसाधनैः प्रबन्धैश्च । सम्यक् ईडिरे स्तुतवन्तः पूजयामासुः । तत् पुष्पवृष्ट्यादिकं वीक्ष्य । विसिस्मिरे विस्मिता बभूवुः ॥ ५३ ॥
मुक्तं बकास्यादुपलभ्य बालका रामादयः प्राणमिवैन्द्रियो गणः ।
स्थानागतं तं परिरभ्य निर्वृताः प्रणीय वत्सान् व्रजमेत्य तज्जगुः ॥ ५४ ॥
पदरत्नावली
स्वस्थानं प्रति आगतं प्राणम् इन्द्रियाणामयम् ऐन्द्रियो गण इव । प्रणीय स्वगोष्ठं नीत्वा । तद् बकभञ्जनादिकृष्णचरितम् ॥ ५४ ॥
सत्यधर्मीया
ऐन्द्रिय इन्द्रियाणामयमैन्द्रियो गणः । स्थानं स्वावस्थितस्थलं प्रति वत्सान्प्रणीय नीत्वा तत्कृष्णकृतं कर्म जगुः ॥ ५४ ॥
सुमनोरञ्जिनी
इन्द्रियगण इन्द्रियाभिमानिदेवसमूहः । स्थानागतं स्वस्थानमागतम् । प्राणं मुख्यप्राणमिव । रामादयः । तं कृष्णम् । उपलभ्य परिरभ्य आश्लिष्य । निर्वृताः सन्तुष्टाः सन्तो वत्सान् स्वस्थानं प्रणीय नीत्वा । तद् बकवधलक्षणं श्रीकृष्णचरितम् ॥ ५४ ॥
तच्छ्रुत्वा विस्मिता गोपा गोप्यश्चातिप्रियादृताः ।
प्रेत्यागतमिवौत्सुक्यादैक्षन्त तृषितेक्षणाः ॥ ५५ ॥
पदरत्नावली
कृष्णे अतिशयेन प्रियेण आदरेण युताः । प्रेत्यागतं लोकान्तरादागतमिव । तृषिते तदवलोकनलोलुपे ईक्षणे येषां ते, यासां ताश्च ॥ ५५ ॥
सत्यधर्मीया
अतिप्रियमित्यादृताः प्राप्तादराः । तृषिते तद्विलोकनलोलुपे ईक्षणे यासां ताः ॥ ५५ ॥
सुमनोरञ्जिनी
अतिप्रये श्रीकृष्णे आदृता आदरेण युक्ताः । प्रेत्यागतमिव लोकान्तरं गत्वा आगतमिव । तृषितानि तृष्णोपेतानि अतृप्तानि ईक्षणानि यासां येषां च तथाविधाः
॥ ५५ ॥
अहो बतास्य बालस्य बहवो मृत्यवोऽभवन् ।
अप्यासीद् विप्रियं तेषां कृतं पूर्वं यतो भयम् ॥ ५६ ॥
पदरत्नावली
बत खेदे । मृत्यवः मृतिहेतवः । अपि तु यतो येभ्यो भयं मृत्युलक्षणं प्रजानां पूर्वमासीत् तेषां तदेव विप्रियं मरणरूपानिष्टं कृतमासीत् । अहो आश्चर्यम् ॥ ५६ ॥
दुर्घटभावदीपिका
बालस्यास्य कृष्णस्य मरणार्थं बहुमृत्यवो मरणहेतव आगता अभवन् । यतो यैर्मृतिहेतुभिरन्येषां बालानां पूर्वं भयं मरणभयम् मरणमिति यावत्, कृतं तेषामपि विप्रियं मरणदुःखमासीत् । अहो बत अत्याश्चर्यमिति । एतेन कृष्णस्य मरणाभावात् । अस्य कृष्णस्य बहवो मृत्यवोऽभवन्नित्येतदनुपपन्नमिति दूषणं निरस्तम् । मृत्युशब्देन मरणहेतूनां ग्रहणात् । एतेनेवास्य मरणार्थं मरणहेतव आगता अभवन्निति वक्तव्यम्, अस्य मृतिहेतवोऽभवन्निति कथनमनुपपन्नमिति चोद्यं पराकृतम् । मरणार्थम् आगता इत्यनयोः शेषेण मरणार्थं मृतिहेतव आगता अभवन्नित्यर्थ-स्योक्तत्वात् । एतेनैव कृष्णस्य भयाभावेन यैः पूर्वं कृष्णस्य भयं कृतमिति वचनमनुपपन्नमिति चोद्यं परिहृतम् । अन्येषां बालानामित्यस्य शेषेण यैरन्येषां बालानां पूर्वं भयं कृतमित्यर्थस्योक्तत्वात्
॥ ५५ ॥
॥ इति श्रीभागवतटिप्पण्यां सत्याभिनवयतिकृतायां
दुर्घटभावदीपिकायां दशमस्कन्धपूर्वार्धे द्वादशोऽध्यायः ॥ १०-१२ ॥
सत्यधर्मीया
मृत्यवस्तत्कारणानि । यतो येभ्यो भयं प्रसक्तं तेषां तैः कृतं तदेव विप्रियमप्यासीत् । अपिना नाकृतकार्याणां स्वदेशकदेशगमनं किन्तु मरणमासीदिति द्योतयति । तेषामपि तादृशानामपि विप्रियं कृतमासीदिति वा योजना । यतो भयमन्येषां पूर्वमासीत्तेषामिति वा । श्लोकद्विकस्यैकान्वयः ॥ ५६,५७ ॥
सुमनोरञ्जिनी
मृत्यवः मारकाः । अभवन् प्राप्ता अभवन् । अपि तथापि । यतः येभ्यः भयं संभावितं तेषाम् अनेनैव विप्रियं, कृतपूर्वं पूर्वम् एतावत्पर्यन्तं कृतमासीत् । अहो आश्चर्यं, बत
॥ ५६ ॥
अथाप्यभिभवन्त्येनं न ह्येते घोरदर्शनाः ।
जिघांसयैनमासाद्य नश्यन्त्यग्नौ पतङ्गवत् ॥ ५७ ॥
पदरत्नावली
अथशब्दः कार्त्स्न्यार्थकः । ‘मङ्गलानन्तरारम्भप्रश्नकार्त्स्न्येष्वथो अथ’ इत्यमरः । अथाऽपि सर्वेऽपि एते घोरदर्शना एनं बालकं नाभिभवन्ति क्लेशयितुं न शक्नुवन्ति । प्रत्युत जिघांसया हननेच्छया एनमासाद्य अग्नौ पतङ्गवत् शलभ इव नश्यन्ति । क्रूरकर्मकारिणामेषा दुर्दशा भवत्येवेति हिरवधारयति ॥ ५७ ॥
सुमनोरञ्जिनी
न केवलं पूर्वमेवमासीत्, अथापि अनन्तरमपि ते घोरदर्शनाः । एनं नाभिभवन्ति । किन्तु जिघांसया हन्तुमिच्छया । एनं प्राप्य । अग्नौ पतङ्गवत् शलभवन् नश्यन्ति
॥ ५७ ॥
अहो ब्रह्मविदां वाचो नासत्याः सन्ति कर्हिचित् ।
गर्गो यदाह भगवानन्वभावि तथैव तत् ॥ ५८ ॥
पदरत्नावली
ब्रह्मविदां परब्रह्मज्ञानाम् । अहो परब्रह्मज्ञानमाहात्म्यम् । गर्गो यदाह ‘नारयोऽभिभवन्त्येनम्’ इत्यादि ॥ ५८ ॥
सत्यधर्मीया
ब्रह्मविदां परब्रह्मज्ञानां वाचोऽसत्याः कर्हिचिदपि न सन्ति न भवन्ति । अहो ब्रह्मज्ञानमाहात्म्यम् । भगवान्पूज्यो गर्गोऽथापि व्रजमाव्रजन्तोऽपि घोरदर्शनास्ते तवैनं सुतं नाभिभवन्ति न पराभावयन्ति । यतोऽयं नारायणसमस्ते नैतत्पराभावकाः पराभावकाश्च नायं तेषामिति समः समाधिरित्यतोऽभिधत्ते जिघांसया हननेच्छयैनमासाद्य प्राप्य नश्यन्तीति । तत्रैतदनायासं च निदर्शनेन दर्शयति ॥ अग्नौ पतङ्गा इव शलभवदिति । इति यदाह तत्तथैवान्वभावि अनुभूतम् । पृथगन्वयने तु विप्रियं तेषां कृतमासीदित्यनन्तरं पान्त्यादेरवक्तव्यत्वेनासङ्गत्यापत्तेः । यदि पृथगन्वय इष्टस्तर्ह्येवं योजना । यतो येभ्यः पूतनादिभ्यो भयमितरेषां प्राक् तेषां सकाशात्किञ्चिद्विप्रियं कृतमासीत् । अथाऽपि घोरदर्शना एनं नाभिभावयन्ति । इतरद्यथापूर्वम् । पुरोहिताभिहितं स्मारम् । सामान्यतो ब्रह्मविदां तन्निदर्शनेन मनसि माननं तन्वते ॥ अहो इति ॥ ५८ ॥
सुमनोरञ्जिनी
असत्या अयथार्थाः । तदनुभवमारोहयति ॥ गर्ग इति ॥ यदाह तत् तथैव अभावि अभून् ननु ॥ ५८ ॥
इति नन्दादयो गोपा रामकृष्णकथां मुदा ।
कुर्वन्तो रममाणाश्च नाविन्दन् भववेदनाम् ॥ ५९ ॥
पदरत्नावली
भववेदनां संसारदुःखम् ॥ ५९ ॥
सत्यधर्मीया
रामकृष्णकथां तत्सङ्कथनम् । भववेदानां संसारदुःखं नाविन्दन्नापुः ॥ ५९ ॥
सुमनोरञ्जिनी
रामकृष्णयोः कथां गुणानुवादम् । रममाणाः सुखिनः । भववेदनां संसारदुःखम् ॥ ५९ ॥
एवं विहारैः कौमारैः कौमारं जहतुर्व्रजे ।
निलायनैः सेतुबन्धैर्मर्कटोत्प्लवनादिभिः ॥ ६० ॥
॥ इति श्रीमद्भागवते दशमस्कन्धे द्वादशोऽध्यायः ॥
पदरत्नावली
कौमारैः कुमारावस्थासम्बन्धिभिर् विहारैः क्रीडाभिः कौमारं बाल्यवयो जहतुः । ‘बाल्यं स्यात् पञ्चमाब्दान्तं पौगण्डं नवमावधि । कैशोरं षोडशाब्दान्तं यौवनं तु ततः परम्’ इति उत्पलमाला । निलायनैः कुत्रचिन्निलीनस्यैकस्य अन्येन्यान्वेषणरूपैः । सेतुबन्धैः रघुरामवेष-धरकृष्णादेशानुसारेण वानरवेषैरन्यैः कुतश्चिनिःसरन्त्या उपसरितः मृच्चयशिलाशकलैर्निरोधनादिरूपैः । मर्कटोत्प्लवनादिभिर् वानरवत् सागरतरणानुकरणादिरूपोड्डीयनैः । आदिपदेन नृसिंहादिस्वावतारान्तर-क्रीडा ग्राह्याः ॥ ६० ॥
॥ इति श्रीमन्महेन्द्रतीर्थपूज्यपादशिष्यविजयध्वजतीर्थभिक्षुकृतायां पदरत्नावल्यभिधायां श्रीमद्भागवतटीकायां दशमस्कन्धपूर्वार्धे द्वादशोध्यायः ॥
सत्यधर्मीया
कुमाराणामिमे कौमारास्तैर्विहारैः क्रीडाभिः कौमारं वयो जहतुः । निलायनैरेकेनैकस्य निलीनस्य मार्गणरूपैः सेतुबन्धैः सिकतादिभिर्मर्कटोत्प्लवनादिभिः कपिवदुड्डीव-नादिभिः । आदिशब्देन मयूरादिक्रीडा ग्राह्याः । अनेन नारायणकपिलदाशरथिभावं स्वस्य ध्वनयामास कृष्णः । एवं छत्रिन्यायेन बल एतदेकलकोऽपि गृहीत इति ज्ञेयम् । क्वचिद्विनाशायेत्यारभ्यै-तत्सुहृद्भिश्चरितं मुरारेरित्यन्तो ग्रन्थः प्रक्षिप्त इति प्रेक्षावन्तोऽतो न व्याख्यातोऽस्माभिः ॥६०॥
॥ इति श्रीभागवतटिप्पण्यां सत्यधर्मयतिकृतायां
दशमस्कन्धपूर्वार्धे द्वादशोऽध्यायः ॥ १०-१२ ॥
सुमनोरञ्जिनी
एवंरीत्या कौमारैः कुमारावस्थायोग्यैः । निलायनैर् निलीनम् एकम् अपरोऽन्वेष-यति तन्निलायनम् । तैः । सेतुबन्धैर् वालुकादिना प्रस्रवज्जलनिवारणैः । मर्कटवदुत्प्लवनमेव आदि येषां तैर् विहारैः क्रियमाणैः । कौमारं कुमारावस्थाम् । जहतुरिति योजना ॥ ६० ॥
नन्दगोपं यशोदां च लीलयाऽऽनन्दयो यथा ।
मम हृन्मन्दिरेऽप्येवं विहरानन्दयन्मनः ॥
**॥ इति श्रीमद्भागवतदशमस्कन्धपूर्वार्धव्याख्यायां **
(गूढकर्तृकायां) सुमनोरञ्जिन्यां द्वादशोऽध्यायः ॥ १०-१२ ॥