कथ्यतां भगवन्नेतत्तयोः शापस्य कारणम्
॥ अथ एकादशोऽध्यायः ॥
राजोवाच–
कथ्यतां भगवन्नेतत्तयोः शापस्य कारणम् ।
यत् तद् विगर्हितं कर्म येन देवऋषेस्तमः ॥ १ ॥
पदरत्नावली
हरेरेव संसारबन्धान्मोक्ष इति दर्शयितुं नलकूबरमणिग्रीवयोः शापप्रकारं निरूपयत्यस्मिन्नध्याये । तत्र राजा शुकं पृच्छतीत्याह राजेति । यद् विगर्हितं निन्दितं कर्म तदेतत् कथ्यताम् । येन कर्मणा देवऋषेस्तमोगुणकार्यक्रोधोऽभूत् ॥ १ ॥
सत्यधर्मीया
किं मदादिमौ चक्रतुः कुपितश्च शापमदान्नारदो येन तदादितो वदेति परीक्षित्पृच्छतीत्याह ॥ राजेति ॥ एतत्तयोरिति पदमेकम् । एतौ वृक्षात्मकौ तौ चेत्येतत्तौ । तयोः शापस्य कारणं यद्विगर्हितं कर्म तत्कथ्यतामित्यन्वयः । तत्कर्मज्ञानेन देवऋषेः । ऋत्यक इति प्रकृतिभावः । तमस्तत्कार्यं कोपोऽभूत् । यद्विगर्हितं न गर्हितं च श्रीकृष्णकृतमोचनकारणं किं च कथ्यतामित्यप्यन्वयः । एतीति यत्तमो येन देवऋषेः प्राप्तं तम इति येन तदित्यन्वयः । येनेति वा यदिति वाऽतिरिक्तमिति मन्तव्यम् ॥ १ ॥
सुमनोरञ्जिनी
हे भगवन् एतत् कथ्यताम् । किं तत् । तयोर् नलकूबरमणिग्रीवयोः शापस्य कारणम् । नारदस्य स्वाभाविकः कोप एवेति चेत् । देवऋषेः । अनेन सत्वैकस्वभावता प्रकटिता । तथाविधस्य नारदस्य । तमस् तमोगुणकार्यक्रोधोऽपि येन केन निमित्तेन कोपकारणं ताभ्यां कृतम् । विगर्हितं कर्मैव चेत्तत् तदपि यद् यज्जातीयं स्यात् । येन कर्मणा देवऋषेर्निमित्तात् । तच्छापादिति यावत् । तमस् तमःकार्यस्थावरजन्म अभूत् ॥ १ ॥
श्रीशुक उवाच–
रुद्रस्यानुचरौ भूत्वा सुदृप्तौ धनदात्मजौ ।
कैलासोपवने रम्ये मन्दाकिन्यां मदोत्कटौ ॥ २ ॥
सत्यधर्मीया
औत्तरेयप्रश्नमुत्तरयति ॥ श्रीशुक इति ॥ अनुचरौ भृत्यौ पूर्वमसुदृप्तौ अनन्तरं मदोत्कटौ उत्कटमदावित्यर्थः । कैलासोपवने मन्दाकिन्यां वियद्गङ्गायाम् ॥ २ ॥
सुमनोरञ्जिनी
सुदृप्तौ अतीव मत्तौ । धनदस्य कुबेरस्यात्मजौ । मन्दाकिन्यां मन्दाकिनी-तीरस्थे । सामीपकाधिकरणे सप्तमी । वटे गाव इतिवत् । मदेन उत्कटौ उत्कृष्टौ उत्कटमदोपेतौ
॥ २ ॥
वारुणीं मदिरां पीत्वा मदाघूर्णितलोचनौ ।
स्त्रीजनैरनुगायद्भिश्चेरतुः पुष्पिते वने ॥ ३ ॥
पदरत्नावली
वारुणी वरुणाज्जाताम् ॥ ३ ॥
सत्यधर्मीया
वारुणीं वरुणजां मदिरां पीत्वा मदेन स्वाभाविकेने वा स्वाभाविकेनापि घूर्णिते लोचने ययोस्तौ । अनुगायद्भिः स्त्रीजनैः सह । पुष्पिते तारकादिः ॥ ३ ॥
सुमनोरञ्जिनी
तत्र निमित्तान्तरमाह । वारुणीं वरुणाज्जाताम् । मदाघूर्णितलौचनौ मदेन आघूर्णिते भ्रामिते लोचने यस्य स च स च तौ । घूर्णितः प्रचलायित इत्यमरः । पुष्पिते, पुष्पाण्यस्य संजातानीति पुष्पितम् । तादृशे वने भजनीये शुकपिकादिना युक्ते वा । वन षण संभक्तौ । ष्टन वनशब्द इति च धातुव्याख्यानात् । कैलासस्य उपवने चेरतुरित्यन्वयः ॥३॥
अन्तः प्रविश्य गङ्गायामम्भोजवनराजिनि ।
चिक्रीडतुर्युवतिभिर्गजाविव करेणुभिः ॥ ४ ॥
पदरत्नावली
अम्भोजानां वनानि तेषां राजय अस्मिन्निति ॥ ४ ॥
सत्यधर्मीया
गङ्गायां तत्राप्यन्तः । कथम्भूतेऽन्तः । अम्भोजवनराजिनि अम्भोजानां वनानि तेषां राजिरस्मिन्निति । अम्भोजानां वनानामुदकानां वा राजिरस्मिन्निति वा । अम्भोजवनै राजत इति राजि णिनिः । तस्मिन्निति वा । कथम्भूतायां गङ्गायाम् । अम्भोजवनराजि अम्भोजैर्वनै राजत इति राट् तस्याम् । नीत्युपसर्गस्य चिक्रीडतुर्निचिक्रीडतुरित्यन्वयः । नियेन मुक्तिहत्ययैन्द्रसानसिं रयमित्यादिवत् । करेणुभिर्बह्वीभिर्गजाविव ॥ ४ ॥
सुमनोरञ्जिनी
गङ्गायाम् अन्तः मध्यदेशे । कथम्भूते । अम्भोजवनानि राजन्तेऽस्मिन्निति तथोक्ते । अम्भोजवनराजयो विद्यन्तेऽस्मिन्निति वा तथोक्ते ॥ ४ ॥
यदृच्छया च देवर्षिर्भगवांस्तत्र कौरव ।
अपश्यन्नारदो देवौ क्षीबाणौ समबुद्ध्यत ॥ ५ ॥
पदरत्नावली
क्षीबाणौ मत्तौ ॥ ५ ॥
सत्यधर्मीया
क्षीबाणौ मत्तौ । यद्यपि मत्ते शौण्डोत्कटक्षीबा इत्यमरेऽकारान्तः क्षीबशब्दः श्रूयते । क्षीबृ मदे अकर्मकत्वात्कर्तरि क्तो ऽनुपसर्गात्कुल्लक्षीबकृशोल्लाघा इति निपातितः शब्दः । तथाप्युणादयो बहुलमित्युक्तेः कनिप्रत्यये अट्धेति णत्वे क्षीबाणाविति ज्ञेयम् । यद्वाऽण-तोऽभिमुखमागच्छत इत्याणौ क्षीबौ च तावाणौ च ताविति शब्दापयन्ताविति वा । समबुद्ध्यत व्यज्ञासीत् ॥ ५ ॥
सुमनोरञ्जिनी
तत्र आगतः सन् । अपश्यत् । दृष्ट्वा च, क्षीबाणौ मत्तौ । समबुद्ध्यत ज्ञातवान् ॥ ५ ॥
तं दृष्ट्वा व्रीडिता देव्यो विवस्त्राः शापशङ्किताः ।
वासांसि पर्यधुः शीघ्रं विवस्त्रौ नैव गुह्यकौ ॥ ६ ॥
पदरत्नावली
पर्यधुः संवेष्टितवत्यः ॥ ६ ॥
सत्यधर्मीया
तं नारदम् । विवस्त्रा इति शापशङ्किता देव्यो वासांसि स्वानि स्वानि पर्यधुरधारयन् । विवस्त्रौ गुह्यकौ न पर्यधत्तां मत्तत्वात् ॥ ६ ॥
सुमनोरञ्जिनी
तं नारदम् । देव्यः देवस्त्रियः व्रीडिताः शापशङ्किताश्च । वासांसि पर्यधुः परिवेष्टितवत्यः । तौ गुह्यकौ तु न परिवेष्टितवन्तौ बभूवतुरिति सम्बन्धः ॥ ६ ॥
तौ दृष्ट्वा मदिरामत्तौ श्रीमदान्धौ सुरात्मजौ ।
तयोरनुग्रहार्थाय शापं दास्यन्निदं जगौ ॥ ७ ॥
सत्यधर्मीया
सुरात्मजावित्यनुग्रहार्थाय शापं दास्यन्नारद इदं वक्ष्यमाणं जगौ ॥ ७ ॥
सुमनोरञ्जिनी
सुरात्मजाविति कुलीनताप्रयुक्तमदो दर्शितः । तत एव श्रीमदान्धौ । तत्रापि मदिरामत्तौ मदिरया मद्येन मत्तौ । अनुग्रहः मदनाशेन श्रीकृष्णे भक्त्यभिव्यक्तिप्रयोजकप्रसादरूपः । इदं वक्ष्यमाणम् ॥ ७ ॥
नारद उवाच–
न ह्यन्यो जुषतो १जोष्याद् बुद्धिभ्रंशो रजोगुणः ।
श्रीमदादभिजात्यादेर्यत्र २स्त्रीद्यूतमासवः ॥ ८ ॥
पदरत्नावली
नारदेन किं गीतमिति तत्राह– न हीति । विषयान् जुषतः सेवमानस्य पुंसः जोष्यात् सेव्याद् विषयात् श्रीमदाद् धनकनकादिसम्पदोत्पन्नमदाद् आभिजात्यादेः कुलीनत्व-निमित्तमदाद् विद्यादिमदाच्चान्यो बुद्धिभ्रंशः सज्ज्ञाननाशकरो रजोगुणः रजोविकारः, रागे स्पृहारूपो दोष इत्यर्थः, न ह्यस्ति, विषयादिरेव सज्ज्ञाननाशकर इत्यर्थः । तत् कथमित्यत आह यत्रेति ॥ यत्र विषयाभिजात्यादिमदेषु स्त्रियो द्यूतमासवम् असुतर्पकं मद्यपानादिकं सम्भवति । हिरवधारणे । ‘हिर्हेताववधारणे’ इति यादवः । अन्यो नास्त्येव, स्त्र्याद्यासक्तिर्भवत्येवेत्यर्थः । आसव इति पाठे मद्यमित्यर्थः ॥ ८ ॥
सत्यधर्मीया
नारदः किं जगावित्यत आह ॥ न हीति ॥ विषयं जुषतः सेवसानस्य जोष्याद्विषयजातात् । श्रीमदात्तथाऽभिजात्या जातात् । आदिपदेन विद्यादिमदाच्च । अन्यो रजोगुणो रजसो गुणो रागे विकारस्तत्स्पृहारूपः । अगुण इत्यगुणापरपर्यायो दोष इति यावन् न ह्यस्ति । तत्कार्यमाह ॥ बुद्धिभ्रंश इति ॥ बुद्धेः सन्मतेर्भ्रंशो येन सः । विषयादिकाङ्क्षणमेव ज्ञानहानिदमिति भावः । बुद्धिभ्रंशेनैतदादिसक्तिरिति तत्राप्येतयोः स्वदृष्टा यत्कृता नष्टिस्तामादितो गृहीत्वाऽऽह ॥ यत्रेति ॥ यत्र बुद्धिभ्रंशे जाते स्त्री एवं तरुणीपरवशता द्यूतासक्तिरासवो मद्यं चेति तदासक्तिरपि भवति । हिरवधारणे । नास्त्येवेति वा । स्त्र्याद्यासक्तिर्भवत्येवेति वाऽन्वयः । आसवमिति पाठेऽसूनामिदमासवं प्राणतर्पकं मद्यपानादिकमित्यर्थः । आसवो यज्ञ इत्यप्यान्तरङ्गिकोऽपि भावो देवर्षेः । अन्यथा हन्यन्ते पशव इति तत्पुरस्करणं न स्यादिति वर्णयाञ्चक्रुः ॥ ८ ॥
सुमनोरञ्जिनी
वस्तुतोऽजोष्यान् असेव्यान् विषयान् जुषतः सेवमानस्य पुंसः । श्रीमदात्, अभिजात्यादेः सत्कुलविद्यादेर् मदादिबुद्ध्या विविच्यान्वेतव्यम् । तथा च श्रीमदादेस्तमोगुण-कार्यादन्यः रजोगुणः बुद्धिभ्रंशः बुद्धिं भ्रंशयतीति तथोक्तः । बुद्धिभ्रंशकारणमित्यर्थः । न भवति । इत्थं च तद्गुण एव श्रीमदादिद्वारा बुद्धिभ्रंशकारणमिति भावः । कुतस्तमोगुणकार्यत्वं श्रीमदादेरित्यत उक्तम् ॥ यत्रेति ॥ यत्र श्रीमदादिषु सत्सु स्त्री, द्यूतम्, आसवः मद्यं चेत्येतत्त्रयम् अजोष्यमपि जोष्यमासीदित्यर्थः । न ह्येतत्सेवनमतामसानां संभवतीति भावः । अजोष्यादिति पञ्चम्यंतपाठो बहुपुस्तकेषु दृश्यते । तत्रैवं योजना । जुषतः विषयान् सेवमानस्य पुंसः यो बुद्धिभ्रंशः बुद्धिभ्रंशकारणम् । अतो ऽजोष्यात् प्रेक्षावद्भिर् असेव्याद् विषयात् । जोष्याद् ग्राम्यैः सेव्यादिति वा । श्रीमदादभिजात्यादेर्मदाच्चान्यः रजोगुणः । अन्यद् रजोगुणकार्यं न भवति । रजोगुणकार्यं श्रीमदादिकमेव बुद्धिभ्रंशकारणमिति भावः । कुतो विषयस्य बुद्धिभ्रंशकारणत्वमित्यत उक्तम् ॥ यत्रेति ॥ यत्र येषु विषयेषु स्त्रीद्यूतमासवं चेत्येतत्त्रयं यतोऽन्तर्भवति अत इति ॥ ८ ॥
हन्यन्ते पशवो यत्र निर्दयैरजितात्मभिः ।
मन्यमानैरिमं देहमजरामृत्यु नश्वरम् ॥ ९ ॥
पदरत्नावली
यत्र स्त्रीमदादिषु सत्सु इमं नश्वरं देहमजरामृत्यु जरामृत्युरहितं यथा तथा मन्यमानैरजितात्मभिर् अजितोऽवशीकृत आत्मा मनो येषां तैर्निर्दयैः पशवो भूतानि हन्यन्ते । हननमत्र बहुविधम् । देहवियोगकरणं, धनापहरणं, देशोच्चाटनम् अभिमानभङ्गकरणमित्यादि ॥९॥
सत्यधर्मीया
यत्र बुद्धावनध्वनीनायाम् । अजितात्मभिरजितोऽवशीकृत आत्मा मनो येषां तैर्निर्दयैः पशवो हन्यन्ते । कुत इत्यतो मांसलताया इत्याह ॥ मन्यमानैरिति ॥ इमं नश्वरं देहमजरामृत्यु जरामरणरहितं यथा तथा मन्यमानैरिति केचित् । नश्वरमिति भावप्रधानः । जरामृत्युनश्वरताशून्यं मन्यमानैरिति वा । नश्वरम् इमम् इः काम्यो विषयादीष्टं तस्य मा निषेधोऽभाव इति यावत् । यस्य तद्देहमजरामृत्यु तद्रहितं मन्यमानैरिति वा । कायो देहः क्लिबपुंसोरित्यमरः । अतो न नञर्थभेदानुपपत्तिरिति मन्तव्यम् । इष्टदानात्तथेन्दव इत्यृग्भाष्यटीकादिभ्यो विशेषोऽवसेयः । नायमिदंशब्दः किन्त्विमशब्दोऽकारान्तः ॥ ९ ॥
सुमनोरञ्जिनी
प्रकारान्तरेणापि बुद्धिभ्रंशकत्वं श्रीमदादेरुपपादयति ॥ हन्यन्त इति ॥ यत्रेति । यत्र येषु श्रीमदादिषु सत्सु । इदानीं देवसंज्ञितम् । नृदेवभूदेवादिसंज्ञया व्यवह्रीयमाणमपि अन्ते कृमिसंज्ञितम् । श्वसूकरादिभक्षणे विट् संज्ञितम् । दग्धे तु भस्मसंज्ञितम् । एतादृशं नश्वरमपीमं देहम् । अजरामृत्यु यथा भवति तथा मन्यमानैः स्वसौख्याय पशवो हन्यन्त इति योजना । एवं भूतध्रुक् भूतानां प्राणिनां द्रोग्धा । स्वार्थं स्वस्य सुखावप्त्यादिप्रयोजनार्थम् । कुरुते परस्वाप-हरणादिकं कुरुते । परंतु सः स्वार्थं किं वेद किं जानाति, किमनुभवतीत्यर्थः । कुतः । यत इत्यावर्तते । यतो यस्माद् यतो भूतद्रोहान् निरय एव भवति । अत इत्यर्थः ॥ ९,१० ॥
देवसंज्ञितमप्यन्ते कृमिविड्भस्मसंज्ञितम् ।
भूतध्रुक् कुरुते स्वार्थं किं वेद निरयो यतः ॥ १० ॥
पदरत्नावली
नश्वरं देहमित्युक्तं विशदयति देवेति । आदौ देवसञ्ज्ञितं भूदेवनरदेवसढञ्ज्ञितमन्ते मृत्यनन्तरं श्वसृगालादिभिरभक्षिते पुत्रादिभिरदग्धे च सति कृमिसञ्ज्ञितं, भक्षिते सति विट्सञ्ज्ञितं, दग्धे सति भस्मसञ्ज्ञितम् । याज्ञियपश्वालम्भनवत् परलोकविषयत्वेन पुण्यसाधनायेदं हिंसनं किं न स्यादित्यत्राह भूतध्रुगिति । किंशब्द आक्षेपार्थः । ‘प्रश्ने क्षेपे विकल्पे किम्’ इति यादवः । य एवं भूतध्रुक् भूतेभ्यः द्रुह्यतीति तथा स स्वार्थं कुरुते किं ? न कुरुते । भूतध्रुक् स्वार्थं वेद किम् ? न वेद । दैनन्दिनजीवनमन्तरेण किमपि न जानातीत्यर्थः । किमिति न वेदेति तत्राह निरय इति । यतो भूतद्रोहान्निरयः निर्गतो ऽयः गमनं निर्गमनं यस्मात् स तमोलोको भवतीति । ‘अय गतौ’ इति धातुः । हिंसामात्रेण तमसोऽभावेऽपि हिंसाविशेषेण तमः स्यात् । तथा हि– भूर् गुणपरिपूर्णश्चासौ तः हरिश्च भूतः । ‘तः कीर्तितो हरौ तीव्रे चोरे नीले च चञ्चले’ इत्यभिधानम् । तद्द्रोहः सर्वेशस्य पूर्णानन्दादिगुणपूर्णस्य ब्रह्मणोऽनीशेन दुःखादिदोषिणा जीवेनैकत्वोपासना प्रथमहिंसा । सार्वज्ञ्यादिगुणान् श्रुतानपहाय निर्गुणत्वचिन्तनं द्वितीया । तदवताररूपाणां दुःखाज्ञानादिकल्पनं तृतीया । प्रत्यक्षादिप्रमाणसिद्धस्य प्रपञ्चस्य तद्विवर्तत्वकथनं चतुर्थीत्यादिकम् । एवं विधस्य तमःप्राप्तिः स्यादिति ॥ १० ॥
दुर्घटभावदीपिका
भूतध्रुक् स्वार्थं किं कुरुते । किमाक्षेपे । स्वार्थं न कुरुते । भूतध्रुक् स्वार्थं वेद किं न वेद प्रत्युत स्वानर्थं कुरुते । स्वानर्थं न वेद चेति शेषः । तत्र हेतुमाह ॥ निरय इति ॥ यतो यस्मात्कारणाद्भूतद्रोहान्निरयो भवति तस्माद्भूतध्रुक् स्वानर्थं कुरुते न वेद चेति । यद्यपि भूतध्रुक् ऐहिकं स्वार्थं कुरुते वेद च तथा चैहिकार्थस्याल्पत्वादविवक्षामाश्रित्य भूतध्रुक् स्वार्थं न कुरुते न वेदेत्युक्तमिति द्रष्टव्यम् ॥ १० ॥
सत्यधर्मीया
नश्वरस्यास्यैवं दुःखस्येत्यप्याह ॥ देवेति ॥ आदौ देव नृदेव भूदेवसंज्ञितमन्ते अदाहे श्वश्वापदाद्यदने विट्संज्ञितम् । तथैव यत्र क्वचन पाते कृमिसंज्ञितम् । दग्धं चेद्भस्मसंज्ञोपेतम् । याज्ञियपशुवदिदं पशुविशसनं नेति शंसति ॥ भूतध्रुगिति ॥ यः कुरुते तद्धननमिति शेषः । य एवं भूतध्रुग्भूतेभ्यः स्वहिंस्येभ्यो द्रुह्यति स तथा स स्वार्थं वेद किं, न वेद । वेद चेदेवं न कुर्यात् । किं तेन भवदनिष्टमित्यत आह ॥ निरयो यत इति ॥ यतो भूतघातान्निरयो नरकाद्यनर्थ-प्राप्तिरिति न स वेदेति भावः । न चाप्रामाणिकोऽयं कार्यकारणभाव इत्यप्यावेदयति ॥ वेदनिरय इति । वेद वेदितश्चासौ निरयो नरकादिः । यतो यस्मात् । वेदनिरयो नितरां वेदैरयो ज्ञापनम् । अयतेर्गत्यर्थत्वाज्ज्ञानार्थताऽन्तर्णीतण्यर्थता चेति ज्ञेयम् । यतोऽस्मि तत इति वा । स केन कथं वृथा भूतघातरूपं कर्म करोतीत्यतोऽप्याह ॥ कुरुत इति । कुत्सिते रुते नानादुःसमयरूपे शब्दे सति स तदनुरोधेन करोति । निर्गतो गमनमयोऽपि प्रत्यावृत्तिर्यस्मात्स तमोलोको यतो भवति तद्भूतध्रुक् । एको विष्णुर्महद्भूतमित्यादेरीश्वरोऽहमहं भोगीत्यादेरेवम्भूतभगवद्द्रोही न वेदेत्यपि विवृण्वन्ति ॥ १० ॥
देहः किमन्नदातुः स्यान्निषेक्तुर्मातुरेव वा ।
मातुः पितुर्वा विक्रेतुर्बलिनोऽग्नेः शुनोऽपि वा ॥ ११ ॥
पदरत्नावली
नियतसत्त्वरहितत्वेन देहेऽस्मिन्नहन्तामोहो हेय इत्याशयेनाह देह इति ॥ किंशब्दो विकल्पार्थः । अन्नदातुः पोषयितुः । निषेक्तुर् गर्भाधानकर्तुः । मातुः पितुर् मातामहस्य । विक्रेतुर्द्रव्यादिप्रदानेन विक्रयकर्तुः । बलिनः बलिष्ठस्य निग्रहीतुः । अग्नेर्दाहे । अदाहे शुनः शृगालादेरपि ॥ ११ ॥
दुर्घटभावदीपिका
काकुस्वरविशिष्टं स्यादित्येतत्सर्वत्र सम्बध्यते । किंशब्द आक्षेपे । देहोऽत्र दातुः स्यात् । अन्नदातुर्न भवतीत्येतत्किम् । न । किं त्वन्नदातुर्भवत्येव । देहो निषेक्तुः स्यादिति किं निषेक्तुर्नेति न किं तु निषेक्तुर्न भवत्येव । वाशब्दोऽप्यर्थे । देहो मातुरपि स्यादेव किं मातुरपि नैवेति किम् । मातुरपि स्यादेव । देहो मातुः पितुर्वा मातुः पितुरपि स्यात्किं मातुः पितुरपि नेति । न । किन्तु मातुः पितुरपि भवत्येव । देहे बलिनः स्यात्किं बलिनो नेति । न । किन्तु बलिनो भवत्येव । देहः क्रेतुः स्यात्किं क्रेतुर्नेति । न । किंतु क्रेतुर्भवत्येव । देहोऽग्नेः स्यात्किमग्ने-र्नेति । न । किं त्वग्नेर्भवत्येव । शुनोऽपि वेति । वाशब्द एवार्थे । देहः शुनोऽपि स्यात्किं शुनोऽपि नैवेति । न किन्तु शुनोऽपि भवत्येव । एवं साधारणमव्यक्तप्रभवाप्ययं देहे को विद्वानात्म-सात्कृत्वाऽऽत्ममात्राधीनं ज्ञात्वाऽसतोऽसज्जनानृते जन्तून्हन्तीति । एतेन देहस्य साधारण्येनोपपादनार्थं देह आत्मदात्रादीनां न स्यादिति वक्तव्यं देहः किमन्नस्य स्यादित्यादिना । अन्नदातादीनां न भवतीति कथनमनुपपन्नमिति दूषणं निरस्तम् । स्याच्छब्दस्य निषेधार्थककाकुस्वरविशिष्टत्वं किंशब्दस्याक्षेपार्थत्वं चाङ्गीकृत्य द्वौ नञौ प्रकृतमर्थं सातिशयं गमयत इति न्यायमाश्रित्य देहोऽन्नदात्रादीनां न भवतीति न किं त्वन्नदात्रादीनां भवत्येवेत्यर्थस्योक्तत्वात् ॥ ११ ॥
सत्यधर्मीया
अनिर्णीतैतदादित्वके काये कियानयमहो मोह इति द्वाभ्यामाह ॥ देह इति ॥ देहः किमन्नदातुः स्यात् । किंशब्दो विकल्पार्थः । सर्वापेक्षया विनाऽन्नं सद्यस्तनस्यापि न जीवनमिति तद्दातुरुक्तिरादाविति ज्ञेयम् । पितुर्मातुरित्युक्तौ मातृपूर्वभाषणं माता पूर्वरूपमित्यादेर्माता गरीयसीति कौसल्योक्तेश्च कर्तव्यं पितुः कुतः प्रागुक्तिरिति शङ्का नोत्तरितान्तरङ्गतः स्यादिति निषेक्तुरित्युक्तिः । एतेन निषेकात्पूर्वं मासत्रितयं वासः प्राथमिकस्तत्रेति प्रथमं तदुक्तिरिति युक्तिः सूचितेति ज्ञेयम् । मातृगरीयस्त्ववाद एकोपाधिकपित्रपेक्षया । यदि विद्याद्यनुबन्धोऽपि तस्मिन्वर्तेत तर्हि स मातुरपि गरीयानित्येवमुक्तिर्वा । उक्तं च मोक्षधर्मे पाराशरगीतायाम् । पिता परं दैवतं मानवानां मातुर्विशिष्टं पितरं वदन्ति । ज्ञानस्य लाभमित्यादि । मातुःपितुर्मातामहस्य । मातामहस्येति शक्य एवं निर्देशेनासङ्गृहीतसङ्ग्राह्यता, मातुर्ज्ञातुराचार्यस्य पितुः पालकजनकस्य पुत्रिकापुत्रत्वेन स्वीकुर्वतो मातामहस्येत्यपि पराकृतेति ज्ञेयम् ।
ननु पूर्वं जनन्या इत्यनुक्तेरुक्तेश्च मातुरिति तेनैव विवक्षिताक्षतेर्मातामहस्येति भाषणं भूषणमिति चेत् । प्रौढोऽसि । कृतं परिखोड्डीनं परन्तु व्यत्यस्तवितस्तिजातं पालकपितुरलाभात्तत्र तदतन्त्रतापत्तेश्चेत्थमुक्तिरित्यवेहि । विक्रेतुर्वेतनादिवितरणेन विक्रयकर्तुर्बलिनो बलिष्ठस्य निग्रहीतुरग्नेर्दाहेऽदाहे शुनस्तदादेः ॥ ११ ॥
सुमनोरञ्जिनी
किं च यं देहमात्मीयत्वेन ज्ञात्वा प्राणिहिंसां करोति तज्ज्ञानमपि बुद्धिभ्रंश-मूलकमेव । तस्यात्मीयत्वाभावादित्याह ॥ देह इति ॥ अन्नदातुर् अन्नदानादिना पोषयितुः । स्थितौ स्वाधीनत्वाभिमानात् । निषेक्तुर् गर्भाधानकर्तुर् उत्पत्तौ तथाभिमानात् । मातुर् गर्भधारणादिना तदुत्पत्तौ सहकारित्वाभिमानात् । उपलक्षणमेतत् । पितुः पितुरित्यपि ग्राह्यम् । मातुः पितुर् मातामहस्य । उभयोरप्यदृष्टजन्यत्वाद्वा । तयोरपि परंपरया तथात्वात् । बलिनः बलात्कारेण विष्टिगृहीतुस् तस्य यथेष्टविनियोज्यत्वाभिमानात् । क्रेतुः क्रयेण गृहीतुः । तस्यापि तथाभिमानात् । इदं जीवनदशायाम् । अन्यदा तु । अग्नेर् भस्मीकरणादौ अधीनत्वाभिमानात् । शुनः सारमेयस्य । स्वोपभोग्यत्वेन स्वादृष्टजन्यत्वाभिमतेः ॥ ११ ॥
एवं साधारणं देहमव्यक्तप्रभवाप्ययम् ।
को विद्वानात्मसात् कृत्वा हन्ति जन्तून् ऋतेऽसतः ॥ १२ ॥
पदरत्नावली
एवमुक्तप्रकारेणाऽन्नदात्रादिस्वातन्त्र्योपेतमिति साधारणं देहमव्यक्तप्रभवाप्ययम् अव्यक्तात् प्रकृतेः प्रभव उत्पत्तिः, अव्यक्ते अप्ययः प्रलयोऽपि यस्य स तथा तम् । ‘अव्यक्तादीनि भूतानि व्यक्तमध्यानि भारत । अव्यक्तनिधनान्येव तत्र का परिवेदना’ इत्यादेः । को विद्वान् आत्मसात् कृत्वा आत्मत्वेन विज्ञाय असत ऋते जन्तून् दुष्कर्मरहितान् हन्ति ॥ १२ ॥
सत्यधर्मीया
एवमुक्तप्रकारेणान्नदात्रादिस्वातन्त्र्योपेतमिति साधारणं देहमव्यक्तप्रभवाप्य-यमव्यक्तात्प्रकृतेः प्रभव उत्पत्तिरप्ययोऽपि तदन्तर्निवेशश्च यस्य स तम् । ‘अव्यक्तादीनि भूतानि व्यक्तमध्यानि भारत । अव्यक्तनिधनान्येव तत्र का परिवेदना’ इत्यादेः । यद्वाऽव्यक्तोऽस्पष्ट-मधश्चेत्यज्ञातौ प्रभवोऽप्ययश्च यस्य स तम् । को विद्वानात्मसात्कृत्वा स्वाधीनं कृत्वाऽसतो ऋते विना जन्तूननागस्कारिणो जनान्हन्ति घातयति । अन्यारादितरर्त इत्यसत इति पञ्चमी द्वितीयाबहुवचनं वा । ज्ञानसूर्यमृते, विना वातं, विना वर्षमित्याद्युदाहृत्य प्रोक्तं स्कन्धान्तरेऽनु-सन्धेयम् । सातिस्तु तदधीनवचन इत्यनेन वा विभाषा सातिकार्त्स्न्य इत्यनेन वा स्वाधीनं कृत्वाऽऽत्मानं कृत्वेत्यर्थक इति मन्तव्यम् ॥ १२ ॥
सुमनोरञ्जिनी
एवंप्रकारेण साधारणम् अन्नादात्रादिभिः स्वीयत्वेन अभिमन्तुं योग्यम् । वस्तुगत्या तु अव्यक्तात्प्रकृतेरुपादानात् तदधिष्ठितहरेर्निमित्तात् प्रभव उत्पत्तिर् अव्यक्तेऽप्ययः प्रलयो यस्य तं भगवदेकाधीनम् । आत्मसाद् आत्मीयत्वेन कृत्वा । अविद्वानपि । असतस् तामसाद् ऋते कः जन्तून् हन्ति । विद्वांस्तु न कोऽपीत्यर्थः । सतः निरपराधिनः जन्तून् को हन्तीति वा ॥ १२ ॥
मन्यमानैरिमं देहमजरामृत्यु नश्वरम् ।
देवसंज्ञितमप्यन्ते कृमिविट्भस्मसंज्ञितम् ॥ १३ ॥
सत्यधर्मीया
इतःपरं श्रूयमाणो मन्यमानैरिमं देहमित्यादिः श्लोकः पुनर्लेखकप्रमादतो लिखित इति मन्तव्यम् । व्याकृतचरश्च ॥ १३ ॥
सुमनोरञ्जिनी
प्रागुक्तं स्मारयति ॥ मन्यमानैरिति ॥ यद्वा इमं देहम् अजरामृत्युनश्वरं मन्यमानैर् ऋते । सतो निरपराधिनः जन्तून् को हंति । देहं तथाविधं मन्यमाना एव घ्नन्ति नान्य इत्यर्थ इति पूर्वश्लोकेनान्वयः ॥ १३ ॥
असतः श्रीमदान्धस्य दारिद्र्यं परमञ्जनम् ।
आत्मौपम्येन भूतानि दरिद्रः परमीक्षते ॥ १४ ॥
पदरत्नावली
असतो हननादिकर्तुः श्रीमदान्धस्यान्ध्यपरिहाराय परमाञ्जनं महौषधं किंरूप-मित्यत्राह दारिद्र्यमिति । कथमिदमौषधमान्ध्यव्याधिनाशकमिति तत्राह आत्मेति । आत्मौपम्येन आत्मसाम्येन दरिद्रः परं केवलं भूतानि दुःखादिसंसक्तानि ईक्षते, न तु घातयतीत्यर्थः ॥१४॥
दुर्घटभावदीपिका
असत उपाधितोऽसतोऽत एव श्रीमदान्धस्य भाग्यमदेन ज्ञानरहितस्य दारिद्य्रं परमुत्कृष्टमञ्जनं ज्ञानसाधनमिति । अयं भावः । यस्यासत्त्वमौपाधिकं तस्य भाग्येन मद आन्ध्यं च भवति । दारिद्य्रप्राप्तावान्ध्यं च गच्छति । यस्यासत्त्वं स्वाभाविकं वौपाधिकं वा नास्ति तस्य भाग्येन मदो बाध्यं वा न भवति । आन्ध्यपरिहारार्थं दारिद्य्रं च नापेक्षितमिति । एतेन सतां दारिद्य्रप्राप्तावप्यान्ध्यनिवृत्तेरभावादसतो दारिद्य्रं परमाञ्जनमिति कथनमनुपपन्नमिति दूषणं पराकृतम् । उपाधित इत्यस्य शेषेण यस्यौपाधिकमसत्त्वं तस्य दारिद्य्रं परमाञ्जनमित्यर्थस्योक्तत्त्वात् ॥१४॥
सत्यधर्मीया
असतो ऋत इति प्रागभिहितं तदुद्धृतिरपि कथमित्यत आह ॥ असत इति ॥ श्रीमदान्धस्यासतो हननकर्तुर्जनस्य परमञ्जनं महौषधम् । तत्किं रूपमित्यत आह ॥ दारिद्य्रमिति ॥ कुतस्तदान्ध्यौषधमित्यतस्तद्वद्भाविभावमावेदयति ॥ आत्मौपम्येनेति । दरिद्रो भूतान्यात्मौपम्येनोपमाया भाव औपम्यमात्मनाऽऽत्मनो वौपम्यं साम्यं तेन भूतानि परं केवलं समीक्षते तद्धननं न करोतीत्यर्थः । अतो दारिद्य्रं परमञ्जनम् । परमाञ्जनमित्यपि निरञ्जनः पाठः ॥ १४ ॥
सुमनोरञ्जिनी
एवं श्रीमदकार्यमुक्त्वा तत्प्रतीकारं वदति ॥ असत इति ॥ परं श्रेष्ठम् । कथमञ्जनसाम्यं दारिद्र्यस्येति तत्राह ॥ आत्मेति ॥ आत्मौपम्येन आत्मसाम्येन । भूतानि प्राणिनः । तेन न द्रुह्यतीति भावः ॥ १४ ॥
यथा कण्टकविद्धाङ्गो जन्तोर्नेच्छति तां व्यथाम् ।
जीवसाम्यं गतो लिङ्गैर्न तथाऽविद्धकण्टकः ॥ १५ ॥
पदरत्नावली
अत्र दृष्यान्तमाह यथेति ॥ कण्टकैर्विद्धमङ्गं यस्य स दुःखादिव्यञ्जक-मुखग्लान्यादिलिङ्गैर्जीवसाम्यं गतः स्वेतरेषां स्वस्य च साधर्म्यज्ञानवान् तां कण्टकवेधजां व्यथां वेदनां यथा नेच्छति तथाऽविद्धकण्टको न ॥ १५ ॥
सत्यधर्मीया
अत्र दृष्टान्तमाचष्टे ॥ यथेति ॥ कण्टकैर्विद्धमङ्गं यस्य सः । जीवसाम्यं गतः स्वेतरेषामप्येतदादिना न मद्वत्स्वेदो भवेदिति स्वसाम्यज्ञानवान् जन्तोः स्वेतरस्य तल्लिङ्गैर्मुखम्लानादिरूपैस्तां व्यथां कण्टकवेधजनितां यथा नेच्छति न भवत्वस्यापि सा व्यथेतीच्छति तथाऽविद्धकण्टकोऽतद्वेधबोधोऽविद्धः कण्टकेनाविद्धः कण्टकोऽयं स इति वा न नेच्छति ॥१५॥
सुमनोरञ्जिनी
तत्र दृष्टान्तमाह ॥ यथेति ॥ तां कण्टकवेधजनिताम् । व्यथां व्यसनम् । जन्तोः स्वव्यतिरिक्तस्य । लिङ्गैर् व्यसनचिह्नैर् मुखग्लान्यादिभिः । जीवानां साम्यं दुःखादिना स्वसाम्यं गतो ज्ञाता सन् । अविद्धकण्टकस्तु तथा सर्वत्र स्वसाम्यज्ञोऽन्येषां व्यसनानिच्छुश्च न भवति ॥ १५ ॥
दरिद्रो निरहंस्तम्भो मुक्तः सर्वमदैरिह ।
कृच्छ्रं यदृच्छयाऽप्नोति तद्धि तस्य परं तपः ॥ १६ ॥
पदरत्नावली
ननु दारिद्र्यस्य क्लेशातिशयरूपत्वात् कथं तत् स्तूयते इति चेत् तस्य मुक्तिसाधकपरमतपोरूपत्वान्मुमुक्षुभिराशास्यमेवैतदित्याशयेनाह दरिद्र इति । निरहंस्तम्भः निर्गतोऽहङ्काररूपः स्तम्भो यस्मात् सः श्रेष्ठवंशोद्भवत्वविद्यादिसर्वमदैर्मुक्तो दरिद्रः यदृच्छया दैवेच्छया यत् कृच्छ्रमाप्नोति तत् कृच्छ्रमस्य दरिद्रस्य परं तपो भवति । ‘एतद् वै परमं तपो यद् व्याधितस्तप्यते’ इति श्रुतिर्हिशब्दगृहीता ॥ १६ ॥
सत्यधर्मीया
ननु दरिद्राणामपि गाधेतरखेददर्शनात्कथं दारिद्र्यं परमं सुखमित्युच्यत इत्यत आह ॥ दरिद्र इति ॥ अहङ्कारकारणकस्तम्भो न विद्यते यस्य । निर्गतस्तस्मादिति वा । सर्वमदैः पुरोदीरितधनाभिजनविद्याद्युपजनैर्मुक्तो विमुक्तो यदृच्छया भगवदिच्छया कृच्छ्रं कष्टं कर्तृ व्याध्यादिजं वाऽऽप्नोति तदेतदस्य दरिद्रस्य परं तपस्तद्रूपमेव खेदरूपं नेत्यर्थः । हिश्च सर्वमदैर्मुक्तताप्रामित्ये कृच्छ्रतपस्त्वप्राप्तिप्रामित्ये चेति ज्ञेयम् । एतद्वै परमं तपो यद्व्याधितस्तप्यत इति श्रुतिर्हिशब्दगृहीता । यदृच्छया यो दरिद्रः कष्टमाप्नोति तदस्य परं तप इत्यन्वयो वा ॥ १६ ॥
सुमनोरञ्जिनी
ननु दुःखानुभवरूपदारिद्र्यं कथमन्येषामिच्छसि । ‘ऋषयः करुणाः सदा । सुखमिच्छन्ति भूतानां प्रायो दुःखासहा नृणाम्’ इत्युक्तर्षिलक्षणहान्यापत्तेरित्यतो न दारिद्र्यदुःख-मनिष्टं किंतु परमानन्दरूपमोक्षसाधनत्वान्न तदिच्छा मम विरुद्ध्यत इत्याह ॥ दरिद्र इति ॥ निर्गतो ऽहंस्तम्भो ऽहंकारेण स्तब्धता यस्यासौ तथोक्तः । सर्वमदैर्मुक्तो भवति । तत्कारणाहङ्कारा-भावात् । परन्तु यदृच्छया दैवेच्छया । यत्कृच्छ्रं कष्टम् आप्नोति तत्परं तप एवेत्यनुसंहितं सत् तप एव भवतीति भावः ।
व्याधींश्छवहृतींश्चैव शवदाहादिकं तथा ।
विष्णवे तप इत्येव चिन्तयन्याति तत्पदम् ॥
इति प्रसिद्धिं सूचयति हिशब्देन ॥ १६ ॥
नित्यं क्षुत्क्षामदेहस्य दरिद्रस्यान्नकाङ्क्षिणः ।
इन्द्रियाण्यनु शुष्यन्ति हिंसाऽपि विनिवर्तते ॥ १७ ॥
पदरत्नावली
कथं कृच्छ्रं तपोरूपमित्यत्राह नित्यमिति । क्षुधा क्षामः क्षीणो देहो यस्य स तस्य । अन्नं काङ्क्षतीति तस्यान्नकाङ्क्षिणः । अनुशुष्यन्ति देहशोषमनुसृत्य विशुष्यन्ति । इन्द्रियप्राबल्यदौर्बल्ययोः सतोः प्रवृत्तिनिवृत्ती स्याताम् । ते चान्नसत्तान्नाभावादिना स्याताम् । अन्नाभावादिन्द्रियप्राबल्यसाध्या हिंसालक्षणा प्रवृत्तिर्न भवतीति भावः ॥ १७ ॥
सत्यधर्मीया
कथं तत्तपोरूपं भवतीत्यतस्त्रिभिराह ॥ नित्यमिति ॥ क्षुधा क्षामः कृशः देहः कायो यस्य स तस्य । अन्नं काङ्क्षतीत्यन्नकाङ्क्षी तस्य । दरिद्रस्यानु क्षामतामनु इन्द्रियाणि शुष्यन्ति असत्सु विषयेषु न प्रसरन्ति । तल्लौल्यमूला हिंसाऽपि विनिवर्तते ॥ १७ ॥
सुमनोरञ्जिनी
दुःखानुभवमात्रं कथं तपो भवेदित्यत इन्द्रियनिग्रहरूपमोक्षोपयोगि गुणान्तरमप्यनेनैव सिद्ध्यतीत्याह ॥ नित्यमिति ॥ क्षुधा क्षामः कृशो देहो यस्य तस्य । तत्र हेतुरन्नकांक्षिण इत्यादि । अनुशुष्यन्ति देहशोषमनुसृत्य शुष्यन्ति । हिंसापि विनिवर्तते । अदृढदेहेंद्रियत्वात् ॥ १७ ॥
दरिद्रस्यैव युज्यन्ते साधवः समदर्शिनः ।
सद्भिः क्षिणोति तत्तर्षं तत आराद्धि सिद्ध्यति ॥ १८ ॥
पदरत्नावली
समदर्शिनो निर्दोषब्रह्मदर्शिनः । ‘निर्दोषं हि समं ब्रह्म’ इत्यादेः । मया रमया, माभिरागमादिमानैर्वा सहितत्वात् समः । ‘मा लक्ष्मी च प्रकीर्तिता । मा च मातरि माने च’ इत्यभिधानात् । सर्वत्र सर्वरूपेषु समत्वात्, तत्तद्योग्यफलप्रदातृत्वाच्च समस् तस्य दर्शिनः ज्ञानिनः साधवो युज्यन्ते सङ्गम्यन्ते, सत्सङ्गतिर्भवतीत्यर्थः । तत्फलमाह सद्भिरिति । सद्भिः सङ्गतैस् तत्तर्षं विषयतृष्णां क्षिणोति नाशयति । ‘रसोऽप्यस्य परं दृष्ट्वा निवर्तते’ इति स्मृतेः । ततः विषयतृष्णानिवृत्तेरारात् क्षिप्रं सिद्ध्यति मुक्तो भवति । ‘आराद् दूरसमीपयोः’ इत्यमरः ॥ १८ ॥
सत्यधर्मीया
समदर्शिनो निर्दोषब्रह्मदर्शिनः । निर्दोषं हि समं ब्रह्मेत्यादेः । सर्वत्र भगवानस्तीति समदर्शिनः साधवो युज्यन्ते तत्सहवासो भवति तस्येति भावः । समदर्शिन इत्येतत् षष्ठ्यन्तं सद् दरिद्रविशेषणं वा । सद्भिः सङ्गतैस्तत्तर्षं विषयकामं क्षिणोति नाशयति । ततस्तर्षापकर्षादारात्क्षिप्रं सिद्ध्यति संसिद्धो भवति । आराद्दूरसमीपयोरित्यमरः ॥ १८ ॥
सुमनोरञ्जिनी
समदर्शिनः साधवः युज्यन्ते । सत्समागमो भवतीत्यर्थः । सद्भिः सद्गुरूपदेशैरिति यावत् । तत्तर्षं तेषु विषयेषु तृष्णाम् । क्षिणोति । ततः विषयवितृष्णतालक्षण-वैराग्यानन्तरम् । आरात् शीघ्रमेव । भक्त्युपासनाजनितापरोक्षज्ञानेन सिद्ध्यति मुक्तो भवतीति भावः ॥ १८ ॥
साधूनां समचित्तानां मुकुन्दचरणैषिणाम् ।
उपेक्ष्यैः किं धनस्तम्भैरसद्भिरसदाश्रयैः ॥ १९ ॥
पदरत्नावली
ननु साधूनां दरिद्रा इव धनिनोऽपि किं न प्रिया इति चेत् समचित्तानां सतां विषमचित्ता धनिन उपेक्ष्या एवेत्याशयेनाह साधूनामिति । मुकुन्दचरणैषिणां मुकुन्दचरणा-विच्छन्ति निरतिशयपुरुषार्थत्वेन अपेक्षन्त इति तेषामुपेक्ष्यैर् धनस्तम्भैर् धनादिनिमित्तकमदोपेतैर् असदाश्रयैर् असतामाश्रयभूतैरसन्त एवाश्रया येषां तैरिति वा असद्भिः प्रावण्यगुणरहितैर्मर्त्यैः किम् ? न किमपि कृत्यमिति यावत् ॥ १९ ॥
सत्यधर्मीया
साधवोऽपि धनिकैरेव प्रायेण प्रीयन्त इति तत्राह ॥ साधूनामिति ॥ मुकुन्दचरणैषिणां मुकुन्दचरणाविच्छन्ति अपेक्षन्त इति ते तथा । तेषामिषेच्छा येषामस्ति तेषामिति वा तेषामुपेक्ष्यैः । कृत्यानां कर्तरि वेति स्मरणात् षष्ठी । असदाश्रयैरसन्त एवाश्रयो येषां ते तैः । स्वतोऽसद्भिरमङ्गलैः । असन्तोऽसमर्था आश्रयो येषां त इति वा । समर्थं सदिति प्रोक्तम-समर्थमसन्मतमित्येकादशतात्पर्योक्तेः । धनस्तम्भैस्तदादीनां मदैस्तज्जातमदैरिति यावत् । किं, न किमपि स्यादतस्ते त्याज्या इति भावः ॥ १९ ॥
सुमनोरञ्जिनी
ननु धनिका अपि धनादिना साधून् प्रसाद्य तदनुग्रहेण मुक्ता भवेयुरेव । किं दुःखाकरदारिद्र्येणेत्यत आह ॥ साधूनामिति ॥ मुकुन्दस्य चरणमात्रं प्राप्तुमिच्छावतां लोष्टाश्मकांचनेषु समबुद्धीनाम् । धनेन स्तम्भः स्तब्धता येषां तैः । असताम् आश्रयभूतैर् अत एवोपेक्ष्यैर् असद्भिः किं प्रयोजनम् । न किमपि । समलोष्टाश्मकांचनानां साधूनां धनिका उपेक्ष्या एव । अतो न तैर्वशीकर्तुं योग्या इति भावः ॥ १९ ॥
तदहं मत्तयोर्माध्व्या वारुण्या श्रीमदान्धयोः ।
तमोमदं हरिष्यामि स्त्रैणयोरजितात्मनोः ॥ २० ॥
पदरत्नावली
तत् तस्मात् श्रीमदादेः सज्ज्ञानभ्रंशकरत्वाद् वारुण्या वरुणोत्पन्नया माध्व्या मधुकृतया सुरया मत्तयोः । तमोमदम् अज्ञानकृतामहन्ताम् । स्त्रैणयोः स्त्रीवश्ययोः ॥ २० ॥
सत्यधर्मीया
यदर्थमत्यर्थमुपन्यसनं तत्तात्पर्यमवसाययति ॥ तदिति । वारुण्या वरुणोत्पन्नया माध्व्या मद्येन मत्तयोः श्रीमदेन चान्धयोस्तत्प्राययोरजितात्मनोस्तत एव स्त्रैणयोः कामिनीकामुकयोः । स्त्रीपुंसाभ्यां नञ्स्नञौ भवनादिति स्मरणात् । ञित्वादादिवृद्धौ णत्वे स्त्रैण इति भवति । तमोमदमज्ञाननिदानिकामहन्तामहं हरिष्यामीति मतिं तेने मुनिरिति भावः ॥ २० ॥
सुमनोरञ्जिनी
वारुण्या वारुणीसंज्ञया । माध्व्या मद्येन । मत्तयोर् अत एव स्त्रैणयोः स्त्रीलोलुपयोः । तमोमदं तमोगुणकार्यं मदम् । हरिष्यामि परिहरिष्यामि । शापदानेनेत्यर्थः ॥२०॥
**यदिमौ लोकपालस्य पुत्रौ भूत्वा तमःप्लुतौ । **
न विवाससमात्मानं विजानीतः सुदुर्मदौ ॥ २१ ॥
पदरत्नावली
यद् यस्माद् लोकपालस्य कुबेरस्य पुत्रौ भूत्वाऽपि इमौ भवन्तौ तमःप्लुतौ अज्ञानावृतौ विवाससं वस्त्रहीनमात्मानं न विजानीतो ऽतः स्थावरतां वृक्षतां प्राप्तुमर्हतः । पुनर्यथा नैवं मदान्धौ स्यातां तथा तत्रापि स्थावरत्वेऽपि मत्प्रसादेन स्मृतिः स्यात् ॥ २१-२२ ॥
सत्यधर्मीया
पथिकस्येयती व्यथा कुतो भवतो भवतान्तौ किं वेत्यतो वक्ति ॥ यदिति ॥ यद्यस्मादिमौ लोकपालस्य कुबेरस्य पुत्रौ भूत्वाऽपीदानीं तमःप्लुतावज्ञाननिमग्नौ विवाससं विगतं वासो यस्मात्स तमात्मानं स्वं वा स्वदेहं वा । सुदुर्मदौ मद्येनापि । न विजानीतो न ज्ञातवन्तावत इत्युत्तरेणान्वयः ॥ २१ ॥
सुमनोरञ्जिनी
शापप्रकारमाह ॥ यदिति ॥ यद् यस्मात् । लोकपालस्य कुबेरस्य । पुत्रौ भूत्वापि । तमसा अज्ञानेन प्लुतौ व्याप्तौ सन्तौ । आत्मानं स्वशरीरम् । विवाससं वस्त्रहीनम् । न विजानीतः ॥ २१ ॥
अतोऽर्हथः स्थावरतां स्यातां नैवं यथा पुनः ।
स्मृतिः स्यान्मत्प्रसादेन१ तत्रापि मदनुग्रहात् ॥ २२ ॥
सत्यधर्मीया
स्थावरतां वृक्षतामर्हथः पुनर्यथा नैवं मदान्धौ स्यातां तथा । तत्रापि स्थावरकलेवरतायामपि मत्प्रसादेन स्मृतिः ॥ २२ ॥
सुमनोरञ्जिनी
अतः कारणात् सर्वदा वस्त्रानर्हम् अज्ञानाप्लुतमेव देहं प्राप्तुमर्हावित्याह ॥ अत इति ॥ स्थावरतां वृक्षत्वम् । प्राप्तुमर्हथ इति । पुनरेव मत्तौ यथा न स्यातां तथेति । एवं तर्हि निग्रह एव कृतः स्यान्नानुग्रह इत्यत आह ॥ स्मृतिरिति ॥ मत्प्रभावेन महिम्ना । तत्रापि स्थावरजन्मन्यपि । स्मृतिः पूर्वजन्मस्मृतिः ॥ २२ ॥
**वासुदेवस्य सान्निध्यं लब्ध्वा दिव्यशरच्छते । **
वृत्ते स्वर्लोकतां भूयो लब्ध्वा भक्तौ भविष्यतः ॥ २३ ॥
पदरत्नावली
स्मृतेः फलमाह वासुदेवस्येति । दिव्यशरदां देवतासम्बन्धिसंवत्सराणां शतं तस्मिन् वृत्ते अतीते सति स्वः स्वर्गः लोको येषां ते स्वर्लोका देवाः, तेषां भावः स्वर्लोकता तां देवत्वम् । भक्तौ, वासुदेवस्येति अत्राप्यन्वयः ॥ २३ ॥
सत्यधर्मीया
वासुदेवस्य सान्निध्यं लब्ध्वा । दिव्यशरच्छते शरदां समानां शतम् । दिव्यं देवतासम्बन्धि तच्च तस्मिन्वृत्ते गते सति स्वर्लोकतां स्वर्लोक ओको येषां ते स्वर्लोका देवा तेषां भावस्तत्ता तां देवत्वं भूयो लब्ध्वा । वासुदेवस्येत्यत्राप्यन्वेति । भक्तौ मदनुग्रहाद्भविष्यत इत्यन्वयः
॥ २३ ॥
सुमनोरञ्जिनी
एवं दिव्यानां शरदां वत्सराणां शते वृत्ते प्रवृत्ते सति । मदनुग्रहाद् वासुदेवस्य सान्निध्यं लब्ध्वा । स्वर्लोकतां स्वः स्वर्ग एव लोको निवासस्थानं ययोस्तौ । तयोर्भावः स्वर्लोकता ताम् । स्वर्गलोकमित्यर्थः । पुनः यथापूर्वं भक्तौ । भगवति भागवतेषु च ॥ २३ ॥
श्रीशुक उवाच–
स एवमुक्त्वा देवर्षिर्गतो नारायणाश्रमम् ।
नलकूबरमणिग्रीवावासतुर्यमलार्जुनौ ॥ २४ ॥
पदरत्नावली
नारायणाश्रमं बदरिकाश्रमम् । यमलौ सहोत्पन्नौ च तौ अर्जुनौ तन्नामकवृक्षौ च यमलार्जुनौ ॥ २४ ॥
सत्यधर्मीया
स देवर्षिरेवमेतौ प्रत्युक्त्वा नारायणाश्रमं बदरिकाश्रमं गतः । नलकूबर-मणिग्रीवौ चैवं शप्तौ यमलार्जुनौ यमलौ च तौ सहोत्पन्नावर्जुनौ च तावासतुः । भूरुहमात्रगात्र-ताशापेऽपि स्मृतिर्भवत्वित्युक्तत्वादर्जुनः प्रीतिपात्रं वासुदेवस्येति श्रुततत्कथौ तन्नामकानौकहीभवने भगवान्प्रीतो नौ मोचयेदथवा तमद्वितीयार्जुनं विधातुं वेति मतिमन्तौ तावर्जुननगतां गताविति तात्पर्यमवधेयम् ॥ २४ ॥
सुमनोरञ्जिनी
नारायणाश्रमं बदरिकाश्रमम् । यमलौ सहोत्पन्नौ । अर्जुनौ अर्जुनद्रुमौ
॥ २४ ॥
ऋषेर्भागवतमुख्यस्य सत्यं कर्तुं वचो हरिः ।
जगाम शनकैस्तत्र यत्रास्तां यमलार्जुनौ ॥ २५ ॥
सत्यधर्मीया
भागवतस्य मुख्यर्षेर्वचः सत्यं कर्तुं हरिः शनकैर्मन्दं यत्रास्तां तत्र तत्स्थलं जगाम । शुकोक्तिरियम् ॥ २५ ॥
सुमनोरञ्जिनी
हरिः श्रीकृष्णः ॥ २५ ॥
देवर्षिर्मे प्रियतमो यदिमौ धनदात्मजौ ।
तत् तथा साधयिष्यामि यद् गीतं तन्महात्मना ॥ २६ ॥
सत्यधर्मीया
भगवांस्तूचितैवमालोचनस्तत्र जगामेत्याह ॥ देवर्षिरिति ॥ मे प्रियतमः । इमौ धनदस्यात्मजौ च । यन्नारदेन महात्मना गीतमुक्तं तथा यथार्थं साधयिष्यामीति ॥२६॥
सुमनोरञ्जिनी
किं तत्सत्यकरणमिति तत्राह ॥ देवर्षिरिति । यद् यस्माद् देवर्षिर् नारदः । मेऽत्यन्तं प्रियः । इमौ च धनदात्मजौ । धनदोऽपि मद्भक्त इति भावः । तत् तस्मान् महात्मना नारदेन । यद्गीतं वासुदेवस्य सान्निध्यमित्यादिना । तत् तथैव साधयिष्यामीति ॥ २६ ॥
इत्यन्तरेणार्जुनयोः कृष्णस्तु यमयोर्ययौ ।
आत्मनिर्वेशमात्रेण तिर्यग्गतमुलूखलम् ॥ २७ ॥
पदरत्नावली
अन्तरेण मध्ये । आत्मनः स्वस्य निर्वेशमात्रेण प्रवेशमात्रेण । तिर्यग्गतं तिरश्चीनम् ॥ २७ ॥
सत्यधर्मीया
यमयोरर्जुनयोरन्तरेण मध्येन ययौ । आत्मनः स्वस्य निर्वेशोऽत्र प्रवेशस्तन्मात्रेण केवलं तेनोलूखलं तिर्यग्गतं तिरश्चीनमभूत् ॥ २७ ॥
सुमनोरञ्जिनी
इति इत्यभिप्रायेण । यमयोर्यमलयोर् अर्जुनयोः । अन्तरेण मध्येन । आत्मनः श्रीकृष्णस्य । निर्वेशमात्रेण मध्ये प्रवेशमात्रेण कृष्यमाणम् । उलूखलं तिरश्चीनमिति रत्नावली ॥२७॥
बालेन निष्कृष्टमुलूखलं तद् दामोदरेण तरसोत्कलिताङ्घ्रिबन्धौ ।
निष्पेततुः १पवनविक्रमितातिवेलस्कन्धप्रवालविटपौ२ कृतचण्डशब्दौ ॥ २८ ॥
पदरत्नावली
यदा दामोदरेण बालेन तदुलूखलं निष्कृष्टमाकृष्टं तदाऽर्जुनवृक्षौ तरसा वेगेन निष्पेततुः । कीदृशौ ? उत्कलिताङ्घ्रिबन्धौ उन्मूलितमूलभागौ, पवनस्य तदानीमुद्भूतस्य वायोर्विक्रमितेन पराक्रमेणाऽतिवेलमतिक्रान्तमर्यादं स्कन्धप्रवालविटपाः स्कन्धाः शाखाः प्रवालाः पल्लवास्तेषां विटपो विस्तारो ययोस्तौ । ‘अति स्यादधिकार्थोक्तौ प्रशंसायामतिक्रमे’, ‘विस्तारो विटपोऽस्त्रियाम्’ इति यादवामरौ । कृतश्चण्डः प्रचण्डः शब्दो याभ्यां तथाभूतौ ॥ २८ ॥
सत्यधर्मीया
यदा दामोदरेण बालेन तदुलूखलं निष्कृष्टमाकृष्टम् । उत्कलिताङ्घ्रिबन्धाविति द्वन्द्वान्वयी । उत्कलित उन्मूलितोऽङ्घ्रिबन्धो बेरं ययोस्तौ । पवनस्य तदोदितस्य वायोर्विक्रमितेन पराक्रमेणातिवेलमतिक्रान्तमर्यादं स्कन्धप्रवालविटपाः स्कन्धाः शाखाः प्रवालाः किसलयास्तेषां विटपो विस्तारो ययोस्तौ । विटपैरित्यपि पाठः । विटपे पल्लवे रिङ्गे विस्तारे स्तम्बशाखयोरिति विश्वः । कृतश्चण्डः प्रचण्डः शब्दो याभ्यां तौ । परमविक्रमितेति पाठः परमः । परमस्य परमात्मनो विक्रमितं चरणक्षेपस्तेन । अतिवेप इति पाठे वेपः कम्पो येषां ते स्कन्धादयश्च ययोस्तावित्यर्थः । निष्पेततुरिति सरसः पाठः ॥ २८ ॥
सुमनोरञ्जिनी
यदा दामोदरेण दाम उदरे बद्धं यस्य तेन बालेन श्रीकृष्णेन । तद् उलूखलं तरसा निष्कृष्टमाकृष्टम् । तदा तौ अर्जुनौ । उत्कलित उत्पाटितो ऽङ्घ्रिबन्धः मूलबन्धो ययौस्तौ । कृतश् चण्डः क्रूरः शब्दो ययोस्तौ । पवनस्य तदानीमुत्पन्नवायोर् विक्रमितेन पराक्रमेण अतिवेलैः सीमामतिक्रान्तैः स्कन्धैः स्थूलशाखाभिः प्रवालविटपैः किसलयोपेताल्पशाखाभिश्च सहैव निपेततुः । ततो तत्तरुसमाश्रितौ धुनिचमुनामकौ दैत्यावपि निषूदिताविति ज्ञेयम् । तदुक्तं ‘धुनिश्चमुश्च तौ तरू समाश्रितौ निषूदितौ’ इति ॥ २८ ॥
**तत्र श्रिया परमया ककुभः स्फुरन्तौ **
सिद्धावुपेत्य कुजयोरिव जातवेदौ ।
**कृष्णं प्रणम्य शिरसाऽखिललोकनाथं **
बद्धाञ्जली विरजसाविदमूचतुः स्म ॥ २९ ॥
पदरत्नावली
तत्र तस्यामवस्थायाम् । कौ जायेते इति कुजौ वृक्षौ तयोर् जातवेदौ अग्नी इव उपेत्य अभिव्यज्य परमया श्रिया शरीरतेजसा ककुभो दिशः स्फुरन्तौ प्रकाशयन्तौ । ककुभवृक्षयोस्तयोः ककुभप्रकाशकत्वं समुचितमिति ध्वन्यते । विरजसौ शापमोक्षेण अभिव्यक्त-सत्त्वस्वभावौ बद्धाञ्जली सिद्धौ यक्षौ अखिललोकनाथं कृष्णं शिरसा प्रणम्य इदं वक्ष्यमाणमूचतुः स्म सुगुणगणस्मरणपूर्वकमुक्तवन्तौ । ‘स्मृतौ वृत्तनिषेधे स्म’ इति यादवः ॥ २८ ॥
सत्यधर्मीया
तत्र तदवस्थायां तद्वृक्षे क्षितौ वा परमया श्रियाऽङ्गकान्त्या ककुभो दिशः स्फुरन्तौ स्फोरयन्तौ स्वयं ककुभवृक्षत्वेन ककुभस्फोरणं रचितुमुचितमिति ध्वन्यते । कुजयोः कौ जायत इति कुजौ भूरुहौ तयोः सकाशाज्जातवेदाविव जातवेदसावग्नी इव । आकारान्तः सान्तत्वावच्छेदेनेति मतेनादन्तः । जातवेदा इति पठित्वा कुजयोर्वृक्षयोः स्थितो जातवेदा अग्निर्मूर्तिमानुपैति तथोपेत्येति व्याकरणे कुजयोरिति न वक्तव्यं स्यात्स्याच्च कुजस्येति तथा स्फुरन्तौ सिद्धावित्यनानुरूप्यमुपर्येव ज्ञायत इति न सरसः पाठः । प्राग्विस्तृतं सान्तादन्तत्वविषयेऽनुसन्धेयम् । अखिललोकनाथं कृष्णं शिरसा प्रणम्य विरजसौ विगतशापोपयुक्तपापौ बद्धाञ्जली । स्म नारदोक्तस्मृतिमन्तौ । इदं वक्ष्यमाणमूचतुः । स्मृतौ वृतनिषेधे स्मेति यादवः ॥ २९ ॥
सुमनोरञ्जिनी
तत्र तस्मिन्देशे तदानीं वा । जातवेदाविव जातवेदसाविव अग्नी इव । परमया श्रिया । ककुभः दिशः । स्फुरन्तौ प्रकाशयन्तौ । सिद्धौ नलकूबरमणिग्रीवौ । कुजयोर् द्रुमयोः सकाशाद् उपेत्य । कुजयोः सिद्धौ अभिव्यक्तौ जातवेदाविवेति वा । विरजसौ विगतमलौ । इदं वक्ष्यमाणम् ॥ २९ ॥
यक्षावूचतुः–
कृष्ण कृष्ण महायोगिन् त्वमाद्यः पुरुषः परः ।
व्यक्ताव्यक्तमिदं विश्वं रूपं ते ब्राह्मणा विदुः ॥ ३० ॥
तात्पर्यम्
‘रूप्यत्वात्तु जगद्रूपं विष्णोः साक्षात्सुखात्मकम् । नित्यपूर्णं समुद्दिष्टं स्वरूपं परमात्मन’ इति वामने ॥ ३० ॥
पदरत्नावली
नियमनादिनाऽशेषविश्वकर्षकत्वाद् उलूखलकर्षकत्वाच्च हे कृष्ण महायोगिन् महाणिमाद्युपाय त्वमाद्यः परः सर्वश्रेष्ठः पुरुषस् तन्नामकावतारवान् । व्यक्ताव्यक्तं कार्यकारणात्मकमिदं विश्वं ते तव रूप्यत्वात् प्रतिमात्वेन निरूप्यत्वात्, उत्पाद्यत्वाद् वा रूपमित्युच्यते । न तु साक्षाद् रूपम् । तर्हि कुत्रासौ रूपशब्दो मुख्यार्थ इति चेन् नित्यपूर्णसुखात्मकं परमात्मनः स्वरूपं साक्षान्मुख्यं समुद्दिष्टमित्यवगन्तव्यम् । ‘रूप्यत्वात्तु जगद्रूपं विष्णोः साक्षात् सुखात्मकम् । नित्यपूर्णं समुद्दिष्टं स्वरूपं परमात्मनः ॥’ इति वामनवचनात् । ब्रह्म अणन्तीति ब्राह्मणा अपरोक्षज्ञानिनः
॥ ३० ॥
सत्यधर्मीया
कृष्ण कृष्ण महायोगिन्निति श्लोके लोकेशस्य ब्राह्मणा इदं व्यक्ताव्यक्तं विश्वं ते स्वरूपं विदुरिति जगदैक्यमुच्यत इत्यन्यथाप्रतीत्यापदपनुत्तये प्रमाणेन रूपादिपदार्थनिरूपणपरेण तत्तात्पर्यमाह ॥ रूप्यत्वादिति ॥ रूप्यत्वान्निरूप्यत्वादुत्पाद्यत्वादिति यावत् । रूप प्रतिष्ठायामिति स्मरणात्प्रतिष्ठाप्यत्वादिति वा । जगद्रूप्यत्वाद्विष्णो रूपमित्युच्यते । गौणोऽत्र रूपपदार्थश्चेत्क्वासौ मुख्यार्थ इत्यत आह ॥ सुखात्मकमिति ॥ नित्यपूर्णसुखात्मकं परमात्मनः स्वरूपं साक्षान्मुख्यं समुद्दिष्टमिति वामनोक्ते रूपं निरूप्यमित्यर्थः । ननु बहुस्थले जगदैक्यपराकृतये पराक्रान्तं प्रागाचार्यैस्तत्प्रणाड्यार्थो ज्ञातुं प्राज्ञैः शक्यत इति पुनः पुनः कुतः प्रमाणोपन्यसनं क्रियत इति चेत् । प्रथमद्वितीयस्कन्ध एवैवमनुयोज्यं किङ्करनियोज्यभवता भवतु किं जातं वदामः । एकस्मिन्नर्थे मानानि नानाप्रणाड्या व्यवस्थापकानि सन्ति तानि चैकत्रैवोदाहृतानि चेन्मन्दविन्दविन्दुसन्दोहरूढाणि भवेयुः । ते ते प्रकाराश्च बोध्या बोध्यान्प्रतीति कृपणकरुणावरुणशरणमाचार्या उदाजह्रुरुदाहरिष्यन्ति च इति चेतः परं वा चेतः परं कुरु ॥
ततश्चायं श्लोकार्थः ॥ यतः कर्षसि देवेश नियम्य सकलं जगदित्यादेर्जगत्कर्षकत्वात् हे कृष्ण प्रस्तुतमुलूखलकर्षकतया चेति पुनर्हे कृष्णेत्युक्तिः । महायोगिन्महोपाय महाणिमादियोग त्वमाद्यः परः सर्वोत्कृष्टः पुरुषः । व्यक्ताव्यक्तं कार्यकारणात्मकमिदं विश्वं जगत्ते तव रूप्यत्वाद्रूपमिति ब्राह्मणा अपरोक्षज्ञानिनः । ब्रह्माणतीति ब्राह्मणोऽपरोक्षज्ञानीति गीताभाष्योक्तेः । वर्णविपर्ययो निरुक्तत्वादित्युक्तत्वात्तट्टीकायाम् । आद्यत्वपरत्वपुरुषत्वमहायोगित्वादियुतं त्वमन्यद्रूपं विदुरित्यपि मानानुयानयोजना ज्ञेया । त्वत्वावन्यपर्यायौ ऋचां त्वः पोषमास्त इत्यादेस्त्वशब्दोऽन्यार्थकः ॥३०॥
सुमनोरञ्जिनी
हे कृष्ण कृष्ण महायोगिन् महान् योग ऐश्वर्यं यस्य । आद्यः कारणीभूतः । आदीनां जगत्कारणब्रह्मादीनां यो नियामकः । पुरुषः पूर्षु शेत इति पुरुषः । पर उत्कृष्टः । आद्यत्वं विवृणोति ॥ व्यक्तेति ॥ व्यक्ताव्यक्तं कार्यकारणात्मकम् । विश्वं ते त्वया रूपं रूप्यते निर्मीयते इति रूपम् । निर्मितमित्यर्थः । यद्वा प्रतिमास्थानीयम् । न तु रूपमभिन्न-मित्यर्थः । ब्राह्मणाः, ब्रह्म वेदस् तम् अणन्ति अर्थज्ञानपूर्वमुच्चरन्ति अध्यापयन्ति वा तथोक्ता वेदार्थज्ञानिनः विदुरिति । इदं विश्वं ते रूपमित्यनेन आपातप्राप्तविश्वाभेदशङ्कां प्रमाणेनैव परिहरन्त्याचार्याः ॥ रूप्यत्वादिति ॥
रूप्यत्वात्तु जगद्रूपं विष्णोः साक्षात्सुखात्मकम् ।
नित्यपूर्णं समुद्दिष्टं स्वरूपं परमात्मनः ॥ इति ।
रूप्यत्वान् निर्मितत्वात् । अथवा रूप्यत्वात्प्रतिमात्वेन सन्निधानपात्रत्वाज् जगद् विष्णोः रूपमुच्यत इत्यर्थः । विष्णोर्यत्साक्षात्सुखात्मकं निरतिशयसुखात्मकम् । नित्यं पूर्णं देशतो गुणतश्च व्याप्तम् । स्वरूपं मत्स्यादिकं तत्स्वरूपम् । सद् रूपं समुद्दिष्टं स्वरूपत्वान्निमित्ताद् रूपशब्दवाच्यमित्यर्थः ॥ ३० ॥
त्वमेकः सर्वभूतानां देह आत्मेन्द्रियेश्वरः ।
त्वमेव कालो भगवान् विष्णुरव्यय ईश्वरः ॥ ३१ ॥
तात्पर्यम्
देहे शरीरे । ‘विष्णुः सर्वगुणोद्रेकात्काल इत्यभिधीयत’ इति च ॥३१॥
पदरत्नावली
सर्वभूतानां देहे आत्मनो मनस इन्द्रियाणां चेश्वरः स्वविषयशक्तिप्रदः । यद्वा आत्माऽन्तर्यामी इन्द्रियेश्वर इति भिन्ने पदे । न केवलमन्तरेव प्रवर्तकः बहिरपि सर्वशक्तिमत्त्वात् तत्तच्छक्तिप्रबोधक इति भावेनाह– त्वमिति ॥ ‘कल बन्धने’, ‘कल संहरणे’, ‘कल ज्ञाने’, ‘कल विद्रावणे’, ‘कल कामधेनौ’ इति धातुपाठात् पूर्णसद्गुणैः कलितत्वात् सम्बद्धत्वात् कालः सर्वगुणपूर्णः । तथा जगद्बन्धनसंहरणबोधनविद्रावणादिकर्मयुक्तत्वात् कालनियामकत्वाच्च कालनामकस्त्वमेव । तदुक्तम् ‘विष्णुः सर्वगुणोद्रेकात् काल इत्यभिधीयते ।’ इति वामने । महावाराह च ‘कालः कलितसम्पूर्णसद्गुणत्वाज्जनार्दनः । संहारात् सर्ववित्त्वाद् वा सर्वविद्रावणेन वा ॥’ इति । सर्वव्यापित्वाद् विष्णुः । विष्लृ व्याप्तौ इति धातोः । अव्ययश् चतुर्विधनाशशून्यः । ‘अनित्यत्वं देहहानिर्दुःखप्राप्तिरपूर्णता । नाशश्चतुर्विधः प्रोक्तस्तदभावो हरेः सदा । तदन्येषां तु सर्वेषां नाशाः केचिद् भवन्ति हि’ इति महावाराहवचनात् । ईश्वर ईशेभ्यो ब्रह्मभवादिभ्यो वरः ॥ ३१ ॥
सत्यधर्मीया
त्वमेकः सर्वभूतानां देह आत्मेति श्लोके देह इति प्रथमान्तेन जडदेहैक्यतोच्यत इत्यन्यथाप्रतीतिनिरासाय स्वयं पदं विवक्षितं दर्शयति ॥ देहे शरीर इति ॥ तत्रैव त्वमेव काल इति क्षणलवाद्यात्मजडकालात्मकता विष्णोस्तथैवोत्तरस्मिन्महदादिरूपतोच्यत इत्यापत्प्रच्युत्यै प्रमाणे आह ॥ विष्णुरिति ॥ सर्वगुणोद्रेकादुद्रिक्तगुणयुक्तत्वाद्विष्णुः काल इत्यभिधीयते न तु कालात्म-कत्वादित्यर्थः । कल छेदने कल बन्धने कल ज्ञाने कल कामधेनुरिति च पठन्ति । यथा कामधेनुः सर्वार्थान्ददाति तथाऽयमपि धातुः सर्वार्थवाचीत्यर्थ इति गीताभाष्यप्रमेयदीपिकाभ्यामुक्तेः सकल-गुणोद्रिक्तता कालशब्दार्थ इत्यर्थः । प्रथमान्तः कामधेनुरिति पाठे ललितार्थ इतरस्तु टीकाकृदटीकत इत्युपेक्ष्यः । क्लिष्टार्थताऽपि स्पष्टमाभातीति वामन इति शेषः ॥ ततश्चायं श्लोकार्थः ॥ सर्वभूतानां देहे आततत्वादात्मा इन्द्रियाणां चेश्वरः स्वविषयशक्तिप्रदस्त्वमेव कालः सर्वगुणोदीर्ण ईश्वर ईशेभ्यो वरः । अव्ययो नाशशून्यो भगवान्विष्णुस्त्वमेकोऽन्तर्भेदहीनस्तत्तदन्तर्गतरूपः ॥ ३१ ॥
सुमनोरञ्जिनी
पुरुषत्वं प्रपञ्चयति ॥ त्वमिति ॥ त्वं सर्वभूतानां देहे स्थूले सूक्ष्मे च स्थितः । केवलं पिशाचादिवन्न किं तु आत्मेन्द्रियेश्वरः । आत्मा मनः जीवो वा । इन्द्रियाणि दश मनसा सहैकादश वा । तेषाम् ईश्वरो नियामकः । कालः सर्वगुणोद्रिक्तः । कल कामधेनुरित्युक्तेः । तदुक्तं तात्पर्ये । विष्णुः सर्वगुणोद्रेकात्काल इत्यभिधीयत इति । ईश्वर ईशेभ्यो ब्रह्मादिभ्यो वरः । तदुक्तं गीताभाष्ये । इशेभ्यो ब्रह्मरुद्रश्रीशेषादिभ्यो यतो भवानिति ॥३१॥
त्वं महान् प्रकृतिः सूक्ष्मा रजस्सत्त्वतमोमयी ।
त्वमेव पुरुषोऽध्यक्षः सर्वक्षेत्रविकारवित् ॥ ३२ ॥
तात्पर्यम्
‘प्रकृत्यादेस्तद्वशत्वात्प्रकृत्यादिरुदीर्यते । यथा राजा भृत्यकृतात्स्वयं कर्तेत्युदीर्यते । यथा देहं स्वतन्त्रत्वात्स्वयमित्याहुरञ्जसे’ति पाद्मे ॥ ३२ ॥
पदरत्नावली
महान् महत्तत्वम् । रजःसत्त्वतमोमयी सूक्ष्मा प्रकृतिस्त्वम् । स्वाधीन-प्रकृत्यादिकत्वान् महान् प्रकृतिश्चेत्युदीर्यते । तदुक्तम् ‘प्रकृत्यादेस्तद्वशत्वात् प्रकृत्यादिरुदीर्यते । यथा राजा भृत्यकृतात् स्वयं कर्तेत्युदीर्यते । यथा देहं स्वतन्त्रत्वात् स्वयमित्याहुरञ्जसा’ इति पाद्मे । पुरि सर्वप्राणिशरीरे शेते नियन्तृतया वर्तत इति वा पूर्णत्वाद् वा पुरुषः । ‘स वा अयं पुरुषः सर्वासु पूर्षु पुरिशयो नैनेन किञ्चनानावृतं नैनेन किञ्चनासंवृतम्’ इति श्रुतेः । ‘पृ पालनपूरणयोः’ इत्यतः ‘विदिपुरोश्च’ इति कुषन्प्रत्ययविधानात् पूर्णमिति सिद्ध्यति । अध्यक्षः साक्षी । साक्षित्वं व्यनक्ति सर्वेति । ‘स प्राणमसृजत । प्राणाच्छ्रद्धां खं वायुर्ज्योतिरापः पृथिवीन्द्रियं मनोऽन्नमन्नाद् वीर्यं तपो मन्त्राः कर्म लोका लोकेषु नाम च’ इति श्रुतेः सर्वक्षेत्राणां कारणभूतानि यानि विकारशब्दवाच्यानि पृथिव्यप्तेजोवाय्वादीनि तानि तत्त्वेन वेत्तीति स तथा ॥ ३२ ॥
सत्यधर्मीया
प्रकृत्यादेस्तद्वशत्वात्तदधीनत्वाद्विष्ण्वधीनत्वात्स्वाधीनप्रकृत्यादिकत्वाद्विष्णुः प्रकृत्यादिरित्युदीर्यते । तत्र दृष्टान्तमाचष्टे ॥ यथेति ॥ भृत्यकृताद् भृत्यप्राप्तफलात्स्वयं राजा कर्ता जयादिकर्ता तत्फलवानितीर्यते । यथा देहं स्वतन्त्रत्वात्स्वाधीनत्वात्स्वयमित्याहुः । अञ्जसेत्यत्रेव प्रागप्यन्वेति । स्वातन्त्र्यं तद्गतत्वं च शब्दवृत्तेर्हि कारणम् । स्वातन्त्र्यं तत्र मुख्यं स्यात्कुतो राज्ञि जयोऽन्यथेत्युक्त्यनुरोधतो यथा राजेत्येकं यथा देहमित्यपरं निदर्शनमिति ज्ञेयम् । ततश्चायं श्लोकार्थः ॥ मूले महान्प्रकृतिरित्युक्तिर्माने च प्रकृत्यादेरिति च कथमिति चेत् । केचिन्महा-नित्यप्युदीर्यत इति योजनमुशन्ति । प्रकृतिग्रहणेनैव महतः प्राकृतस्य ग्रहणं भवत्येवेति तात्पर्ये तदग्रहः । मूले तु व्यक्तमव्यक्तमित्युक्त्यनुरोधेन महतः पूर्वं प्रकृतेश्चानन्तरमुक्तिरिति समादधुः । वस्तुतस्तु प्रकृतिरादिर्यस्य तस्य महतस्तथैव प्रकृत्यादिर्महानित्यन्वयने सोऽपि महानुक्तो भवतीति समाधिरवधेयः । त्वं महान्महत्तत्त्वम् । रजःसत्त्वतमोमयी सूक्ष्मा प्रकृतिस्त्वं तत्तत्स्वामि-कत्वान्महान्प्रकृतिश्चेत्युदीर्यते । अध्यक्षः पुरुषो जीवस्त्वमध्यक्षः साक्षितया पुरुषः पूर्णगुणतया शरीरशायित्वेन वा । साक्षिता साक्षितैतस्मिंस्त्वयीत्याह ॥ सर्वक्षेत्रविकारविदिति ॥ सर्वेषां क्षेत्राणां ये विकारा आरम्भकाः पृथिव्यप्तेजोवाय्वाद्याः खं वायुः पृथ्वीत्यादेः, तान्वेत्तीति स तथा
॥ ३२ ॥
सुमनोरञ्जिनी
त्वं महान् महत्तत्वनियामकः । महत्तत्वं त्वदधीनमेवेति द्वेधापि योज्यम् । एवमुत्तरत्रापि । रजःसत्वतमोमयी । तदात्मिका सूक्ष्मा प्रकृतिरपि त्वमेव त्वदधीनैव । पुरुषः क्षराक्षरभेदेन द्विविधोऽपि त्वदधीन एव । अत एव सर्वस्याध्यक्षः । सर्वाणि स्वेदजादिभेदेन चतुर्विधान्यपि क्षेत्राणि शरीराणि विक्रीयन्ते यैरिति सर्वक्षेत्रविकाराः सर्वशरीरकारणानि आकाशादीनि वेत्ति जानातीति तथोक्तः । यद्वा सर्वक्षेत्रेषु ये विकारा इन्द्रियवृत्तयो ज्ञानादयस् तान् वेत्तीति तथोक्तः । सर्वेन्द्रियगुणद्रष्टेत्यर्थः । अत्र महानित्यादिना भगवतो महदाद्यभेद इत्यन्यथाप्रतीतिं प्रमाणेनैव परिहरन्त्याचार्याः ।
प्रकृत्यादेस्तद्वशत्वात्प्रकृत्यादिरुदीर्यते ।
यथा राजा भृत्यकृतात्स्वयं कर्तेत्युदीर्यते ।
यथा देहं स्वतन्त्रत्वात्स्वयमित्याहुरञ्जसा ॥
इति पाद्म इति । प्रकृत्यादेर् इत्यत्र आदिशब्देन महदादिपरिग्रहः । तद्वशत्वाद् विष्णुवशत्वाद् विष्णोस्तन्नियामकत्वादिति यावत् । सः प्रकृत्यादिरुदीर्यते । त्वं महान् प्रकृतिरित्यादौ न तु तदात्मकत्वात् । ननु तत्पदप्रवृत्तिनिमित्तानधिकरणस्य कथं तच्छब्दवाच्यत्वम् । अतिप्रसंगादित्यतः केवलं प्रवृत्तिनिमित्ताधिकरणत्वमेव तच्छब्दवाच्यतायां न तन्त्रमपि तु तत्पदवाच्यत्वमपि । तत्र द्वितीयमेव मुख्यमिति भावेन तत्र दृष्टान्तमाह ॥ यथेति ॥ भृत्येन कृतात् शत्रुजयाद् राजा जयकर्ते-त्युच्यते जयाश्रयभृत्यस्वामित्वात्तथा भगवतः प्रकृत्यादिस्वामित्वाद्भगवान् प्रकृत्यादिरुच्यत इति भावः । स्वामित्वेन निमित्तेन भगवान् प्रकृतिरिति व्यवहारे दृष्टान्तमुक्त्वा स्वाधीनत्वं निमित्तीकृत्य प्रकृत्यादिर्भगवानिति व्यवहारेऽपि दृष्टान्तमाह ॥ यथेति ॥ यथा स्वस्य तन्त्रत्वादधीनत्वाद् देहं स्वयमित्याहुः स्वाभेदेन व्यपदिशन्ति तथा प्रकृत्यादिर्भगवानिति व्यपदेशो युज्यत इति भावः ॥३२॥
गृह्यमाणस्त्वमग्राह्यो विकारैः प्राकृतैर्गुणैः ।
को न्विहार्हति विज्ञातुं प्राक् सिद्धं गुणसंस्थितेः ॥ ३३ ॥
तात्पर्यम्
स्वात्मना गृह्यमाणः ॥ ३३ ॥
पदरत्नावली
स्वयमेव स्वात्मना साकल्येन गृह्यमाणः, न त्वन्येनेत्यर्थः । तदुक्तम् ‘स्वात्मना गृह्यमाणः’ इति । प्राकृतैर्विकारैर्महदाद्यभिमानिभिर्ब्रह्मादिभिरग्राह्यः । ननु सर्वत्र सर्वदा व्याप्ताभिः श्रीभूदुर्गाभिर्ग्राह्यो भवेदित्यत आह गुणैरिति । सत्त्वरजस्तमोभिमानिश्रीभूदुर्गाभिरप्यग्राह्यः, साकल्येनेति शेषः । गुणसंस्थितेः सत्त्वादिगुणानां कार्योन्मुखीभवनाद् उत्पत्तेरिति भावः । इह जीवराशौ सत्त्वादित्रिगुणसंस्थानरूपब्रह्माण्डोत्पत्तेः प्रागेव सिद्धम् ‘आनीदवातं स्वधया तदेकं तस्माद्धान्यन्न परः किञ्चनास’ इत्यादिश्रुतिसिद्धं ब्रह्म विज्ञातुं साकल्येनाऽवगन्तुं कोऽर्हति ? न कोऽपि । इह अधिकारिवर्गे कोऽपि अर्हति चेत् ‘इयदामननात्’ इत्यादेः कश्चतुर्मुख एवेत्या-वृत्त्याऽन्वयः । ‘कश्छन्दसां योगमावेद धीरः’, ‘वेदाहमेतं पुरुषं महान्तम्’ ‘स्त्रियः सतीस्ता उमे पुंस आहुः पश्यदक्षण्वान्न वि चेतदन्धः । कविर्यः पुत्रः स ईमा चिकेत यस्ता विजानात् स पितुष्पितासत्’, ‘ब्रह्मैनं पश्यति स्फुटम्’ इत्यादिश्रुतेः । इदमपि दर्शनं तत्प्रसादेनैवेति बोध्यम् । ‘यमेवैष वृणुते तेन लभ्यः’ इत्यादिश्रुतेः ॥ ३३ ॥
दुर्घटभावदीपिका
स्वात्मना गृह्यमाणस्त्वं विकाराभिमानिभिर्ब्रह्मादिभिः प्राकृतैर्गुणैः प्रकृतिकार्य-सत्त्वरजस्तमोभिमानिश्रीभूदुर्गाभिरग्राह्यः । तदेवोपपादयति ॥ क इति ॥ गुणसंस्थितेर्गुणानां गुणाभिमानिश्रीभूदुर्गाणाम् । उपलक्षणमेतत् । विकाराणां च विकाराभिमानिब्रह्मादीनां च संस्थितेरुत्पत्तेः प्राक् सिद्धं त्वामिह जगति कोऽनु सम्यक् । साकल्येनेति यावत् । किं ज्ञातुम् अर्हति । न कोऽपीति । किञ्चिज्ज्ञानं लक्ष्म्यादीनामस्तीति भावः । गुणानां प्रकृतिजन्यत्वेन विकारित्वेऽपि पृथग्ग्रहणं महदाद्यपेक्षयाऽऽल्पविकारित्वज्ञापनार्थम् । तदुक्तं मधुश्छन्दसशाखायाम् । कार्याकार्या गुणास्तिस्रोऽतः स्वल्पोद्भवोऽजनाविति । तिस्र इति लिङ्गव्यत्ययश् छान्दसः ॥ ३३ ॥
॥ इति श्रीभागवतटिप्पण्यां सत्याभिनवयतिकृतायां
दुर्घटभावदीपिकायां दशमस्कन्धपूर्वार्धे एकादशोऽध्यायः ॥ १०-११ ॥
सत्यधर्मीया
गृह्यमाणस्त्वमग्राह्य इति श्लोक एकेन गृह्यमाणत्वागृह्यमाणत्वे भगवत इति प्रतीयते । तच्च विरुद्धमित्यतः प्रमाणानुसारेणाध्याहारेण स्वयं व्याकृत्य तथोत्तरश्लोके छन्नमहिमत्व-मुक्त्वा ते नम इत्युक्तिरप्ययुक्तेत्यतो व्यवस्थापकं तन्मानमुदाहरति ॥ स्वात्मनेति ॥ स्वात्मना गृह्यमाणः स्वैः स्वकीयैः कृपापदैरात्मना च गृह्यमाण इत्यर्थः । अगृह्यमाणः स्वस्वेतरैरपि । अनन्तमिति वेतीशस्त्वनन्तत्वं, तथा अनन्तस्य तु सङ्ख्याने न तु सर्वज्ञता भवेदित्येकादशतात्प-र्योक्तेः । ज्ञेय एतैः सदा युक्तैर्भक्तिमद्भिः सुनिष्ठितैः । ज्ञानगम्यमित्यादेश्च । आचार्यचरणोऽपि स्वेनात्मनेत्येतावता पूर्तौ यत्स्वात्मनेत्यूचे तेनासूचयदमुमर्थमिति ज्ञेयम् । अन्येषां स्वाननुगृहीतानामनु-गृहीतानामपि साकल्येन छन्नः स्वस्य न तु छन्न इत्यन्वयः ॥
ततश्चायं श्लोकद्विकार्थः ॥ व्यक्ताव्यक्तत्वे एवं भगवत इत्यवगमयति ॥ गृह्यमाण इति ॥ स्वैरात्मना च गृह्यमाणः स्वैः साकल्येन तथाऽऽत्मना चेतरैः सर्वथाऽग्राह्यः । ते च क इत्यत आह । प्राकृतैर्विकारैर्महदाद्यभिमानिभिर्ब्रह्मादिभिर्गुणैः सत्त्वाद्यभिमानिनीभिरग्राह्य उक्तरीत्या । गुण-संस्थितेर्गुणानां कार्योन्मुखीभवनात्, उत्पत्तेरिति यावत् प्रागेव सिद्धं त्वां विज्ञातुमिहाधिकारिवर्गे कोऽर्हति न कोऽपि । मूले विज्ञातुमित्यत्र विपदार्थः साकल्यादिरूप इति ज्ञेयम् । इह जीवराशौ कोऽपि पुमानर्हति चेत्स इयदामननादित्यादेः कश्चतुर्मुख एवेत्यावृत्त्याऽन्वयः । कश्छन्दसां योगमावेद धीरः । वेदाहमेतं पुरुषं महान्तम् । ब्रह्मैनं पश्यति स्फुटमित्यादेः । वासुदेवाय, वेधसे ज्ञान-स्वरूपाय । तस्मै दयोदयाभावदशायां परोक्षाय । तुभ्यं दयोदयेऽपरोक्षभूताय । तस्मै शापापनोदकतया नारदेरिताय तुभ्यमिदानीमस्मादृशां दृशां विषयायेति वा । आत्मद्योतैरात्मना द्योतः प्रकाशः कार्योन्मुखता येषां तैर्गुणैः सत्त्वादिभिः प्रकृत्येति यावत् । छन्नः महिमा माहात्म्यं यस्य तत्तस्मै ब्रह्मणे गुणपूर्णाय । तुच्छेनाभ्वपिहितं यदासीत्तपसस्तन्महिनाऽजायतैकमिति श्रुतेः । पिहितत्वमपीतरापेक्षयेति प्राग्विवृतरीत्या ज्ञेयम् । नमोऽस्त्विति शेषः ॥ ३३,३४ ॥
सुमनोरञ्जिनी
स्वात्मना स्वेनैव गृह्यमाणः ज्ञायमानः । तदुक्तम् । स्वात्मना गृह्यमाण इति । प्राकृतैः प्रकृतिकार्यैर् विक्रीयमाणैर् गुणैर् इन्द्रियवृत्तिभिः । अग्राह्यः विषयीकर्तुमशक्यः प्राकृतेन्द्रियाग्राह्य इत्यर्थः । कुत इत्यत आह ॥ क इति ॥ इह जीवसमुदाये । कः पुरुषः । गुणसंस्थितेर् गुणस्य अप्रधानस्य गुणकार्यस्य वा जगतः संस्थितेः सत्तालाभरूपोत्पत्तेः प्राक् सिद्धं त्वां विज्ञातुमर्हति न कोऽपीत्यर्थः ॥ ३३ ॥
तस्मै तुभ्यं भगवते वासुदेवाय वेधसे ।
आत्मद्योतैर्गुणैश्छन्नमहिम्ने ब्रह्मणे नमः ॥ ३४ ॥
पदरत्नावली
आत्मना त्वया द्योतन्ते कार्योन्मुखतया प्रकाशन्त इति आत्मद्योताः, तैर्गुणैः सत्त्वादिभिः, प्रकृत्येत्यर्थः । छन्नो गूहितः महिमा यस्य तत् तस्मै । ‘तुच्छ्येनाभ्वपिहितं यदासीत् तपसस्तन्महिनाऽजायतैकम्’ इति श्रुतेः । अपिहितत्वमितरापेक्षया न स्वस्य, अपरिच्छिन्न-त्वेनानाच्छाद्यत्वादिति भावेनाह ब्रह्मण इति । तदुक्तम् ‘छन्नोऽन्येषां न तु स्वस्य भगवान् पुरुषोत्तमः’ इति । वासयति सर्वमाच्छादयति निवासयतीति वा वासुः । ‘वस आच्छादने’, ‘वस निवासे’ इति वा धातोर् ण्यन्तादुण् । सर्वत्र वसतीति वा वसतेरुण् । स चासौ देवश्च क्रीडादि-गुणविशिष्टश्चेति वासुदेवस् तस्मै । उक्तं च मोक्षधर्मे ‘छादयामि जगद् विश्वं भूत्वा सूर्य इवांशुभिः । सर्वभूताधिवासश्च वासुदेवस्ततो ह्यहम्’ इति । वेधसे विशेषेण धारणपोषणकर्त्रे ॥ ३३ ॥
सुमनोरञ्जिनी
वेधसे जगत्कर्त्रे । आत्मना स्वेन त्वया द्योतः प्रकाशो येषां तैर् गुणैः सत्वादिभिः । छन्नमहिम्ने अगृहीतमाहात्म्याय । आत्मद्योतैः स्वप्रकाशैर् गुणैर् आनन्दादिभिः । ब्रह्मणे पूर्णाय । अन्येषां छन्नमहिम्न इति वा । तदुक्तम् । ‘‘छन्नोऽन्येषां न तु स्वस्य भगवा-न्पुरुषोत्तमः ।’’ इति । इदं पूर्वश्लोकेऽप्युपयुज्यते ॥ ३४ ॥
यस्यावतारा ज्ञायन्ते शरीरेष्वशरीरिणः ।
तैस्तैरतुल्यातिशयैस्तिर्यग्योनिष्वसङ्गतैः ॥ ३५ ॥
तात्पर्यम्
‘छन्नोऽन्येषां न तु स्वस्य भगवान्पुरुषोत्तमः । तस्यावतारा देहस्था ओहस्था इति द्विधा । अन्तर्याम्यादिरूपाणि देहस्थानि विदो विदुः । मत्स्यकूर्मादि-रूपाणि न देहस्थानि हृत्पतेः । अन्यातुल्यैरतिशयैर्मनसो नियमादिभिः । ज्ञायन्ते तानि रूपाणि नित्यपूर्णानि सर्वश’ इति महाकौर्मे ॥ ३५ ॥
पदरत्नावली
हरेरवतारा देहस्था ओहस्था इति प्रकारद्वयविशिष्टा इति अत्राह यस्येति ॥ यस्य हरेरवताराः शरीरेष्वन्तर्यामित्वेन ज्ञायन्ते । अशरीरेषु शरीरव्यतिरिक्तबाह्यस्थलेषु अशरीरिणः मत्स्यकूर्मादयो ज्ञायन्ते । कथमेते भगवदवतारा इति ज्ञायन्ते इति तत्राह तैस्तैरिति ॥ अतुल्यातिशयैर् अतुल्यैर्महिमातिशयैर् अदृश्यमनोनियमादिभिर् देहस्था अवतारा ज्ञायन्ते । तिर्यग्योनिषु मत्स्यकूर्मवराहादिजात्यवच्छिन्नेषु असङ्गतैरसम्भावितैर् हयग्रीवसंहरणवेदमन्दरधरिण्युद्धरणादिभि-र्माहात्म्यातिशयैर् मत्स्यकूर्मवराहाद्या ओहस्था अवतारा इति ज्ञायन्ते । तदुक्तम् ‘तस्यावतारा देहस्था ओहस्था इति द्विधा । अन्तर्याम्यादिरूपाणि देहस्थानि विदो विदुः । मत्स्यकूर्मादिरूपाणि न देहस्थानि हृत्पतेः । अन्यातुल्यैरतिशयैर्मनसो नियमादिभिः । ज्ञायन्ते तानि रूपाणि नित्यपूर्णानि सर्वशः’ इति महाकौर्मे ॥ ३५ ॥
सत्यधर्मीया
यस्यावतारा इति श्लोके वस्तुतो येषां नैराकार्यं व्यवहारस्तस्मात्कार्य-मतुल्यातिशयैरधिकारिभिस्ते चावतारा ज्ञायन्त इत्यन्यथाप्रतीतिनिरासाय छन्न इत्यादित उदितमहाकौर्मप्रमाणशेषेण तात्पर्यमाह ॥ यः पुरुषोत्तमस्तस्यावतारा इति । देहस्था ओहस्था इति द्विधा । अव्ययात्तृतीयाया लुक् । वैशिष्ट्यं तदर्थः । प्रकारद्वयविशिष्टा इत्यर्थ इति न सामानाधिकरण्यं विरुणद्धीति ज्ञेयम् । अवतारपदं स्वयमेव व्याकरोति ॥ अन्तर्याम्यादिरूपाणि देहस्थानीति ॥ विदो ज्ञानिनो विदुरिति मत्स्यकूर्मादिरूपाणि देहस्थानि जीवदेहस्थानि न । हृत्पतेर्विध्यधिकस्य । यथोक्तं बृहद्भाष्ये । हरणाद्यज्ञभागादेर्ज्ञानादेर्दानतस्तथा । ब्रह्मा हृदय इत्युक्तस्तस्यैव विदपि ध्रुवमिति । यद्यपि हरणाद्यज्ञभागादेर्हृदित्यंश एव प्रकृतसङ्गतस्तथाऽप्युत्तर-त्रोपयोक्ष्यत इत्यधिकांशोदाहरणम् । तनोति ब्रह्माणं यं कर्तुं कामयते तमिति रमा च । हृतोः पतिरिति हृत्पतिस्तस्य । अन्यातुल्यैरतिशयैरिति व्याख्याति ॥ मनसो नियमादिभिरिति ॥ करणैर्भक्तैः कर्तृभिः सर्वशोऽन्तरनन्तर्विद्यमानानि सर्वाणि नित्यपूर्णान्येव ज्ञायन्ते । अन्यैस्तुल्या नेति वा । न तुल्या अतुल्या अन्येऽतुल्या येषामिति वा तैः । शरीरेषु देहेषु केचन यस्यावतारा अन्तर्यामिका अशरीरिणो न विद्यते शरीरमधिष्ठानतयैषामिति तेऽशरीरिणो मत्स्याद्याः । अन्यातुल्यै-रतिशयैरदृश्यमनसोनियमादिभिरसङ्गतैर् अं त्वामेव सङ्गतास्तैरधिकारिभिस्तिर्यगादियोनिष्वपि ज्ञायन्ते । तिर्यग्योनिष्वप्यसङ्गतैरन्यत्रासम्बद्धवेदहर्तृहयग्रीवसंहरणधरण्युद्धरणादिभिः । सममितरत् । तज्जात्यवच्छिन्नेषु कर्मपारवश्येनासम्भावितैरित्यसङ्गतैर्वा तैस्तैरतुल्यातिशयैः समाधिकविकलैस्तिर्यग्योनिषु तिर्यगादियोनिष्वप्याविर्भूतैरप्यसङ्गतैस्तत्तज्जातिप्रापककर्मसम्बन्धविधुरैः शरीरैरशरिण इत्यशरीरिण इति रणविषया मत्स्याद्या इत्यपि योजना ॥ ३५ ॥
सुमनोरञ्जिनी
शरीरेषु अन्तर्यामितया स्थिता बिम्बसंज्ञकाः । अशरीरिण ओहस्था मत्स्यादयोऽपि यस्यावतारास् तदन्तर्यामितया स्थितास्तवावताराः । अतुल्यातिशयैर् अनन्यसाध्यमनो-नियमनादिभिर्ज्ञेयाः । मत्स्याद्यास्तु तिर्यग्योनिषु असंगतैर् असंभावितैस् तैस्तैस् तत्र तत्र रूपविशेषेष्वभिव्यज्यमानैर् असदृशमहिमाविशेषैलिङ्गैर्ज्ञेया इति योज्यम् । तदुक्तम्–
तस्यावतारा देहस्था ओहस्था इति द्विधा ।
अन्तर्याम्यादिरूपाणि देहस्थानि विदो विदुः ।
मस्त्यकूर्मादिरूपाणि न देहस्थानि हृत्पतेः ।
अन्यातुल्यैरतिशयैर्मनसो नियमादिभिः ।
ज्ञायन्ते तानि रूपाणि नित्यपूर्णानि सर्वशः ॥ इति महाकौर्मे ।
इति । शरीरेष्वित्यस्यार्थो देहस्था इति । तत्र कानि रूपाणि देहस्थानीत्यत उक्तम्– अन्तर्याम्यादीति ॥ अन्तर्यामी बिम्बः । आदिपदेन मनआदिनियामकानिरुद्धादयो गृह्यन्ते । मत्स्यकूर्मादीनि न देहस्थानि ओहस्थपदबोध्यानि । अतुल्यातिशयैरित्यस्य विवरणम् ॥ अन्येति ॥ अन्येषामतुल्यैरसाध्यैः । अतिशयैरित्यस्यार्थो मनसो नियमादिभिरिति ॥ ३५ ॥
स भवान् सर्वलोकस्य भवाय १विभवाय च ।
२अवतीर्णोऽसि भागेन साम्प्रतं पतिराशिषाम् ॥ ३६ ॥
पदरत्नावली
स तादृशो भवान् सर्वलोकस्य समस्तसज्जनस्य भवाय मङ्गलाय प्रभवाय पराक्रमाय । ‘स्याज्जन्महेतौ प्रभवो ज्ञाने स्थाने पराक्रमे’ इति उत्पलमाला । आशिषां धर्मादि-पुरुषार्थानां पतिः पालयिता दाता च । अंशभागेन अंशस्य पद्मनाभस्य भागेन कृष्णकेशरूपेण अवतीर्णः, अस्तीति शेषः ॥ ३६ ॥
सत्यधर्मीया
स उक्तगुणयुक्तः सर्वलोकस्य समस्तज्ञानिजनस्य भवाय मङ्गलाय विभवायैश्वर्याय मुक्तये वा । प्रभवायेति पाठपक्षे प्रभवाय पराक्रमाय । प्रभवो जलमूले स्याज्जन्मभूमौ पराक्रम इति विश्वः । भवानाशिषां पतिः पशुपतिर्दाता वा साम्प्रतं भागेनांशानामंशेन पद्मनाभकृष्ण-केशरूपेणावतीर्णोऽसि गतम् । अतद्वान्भवांस्त्वमसीति वा । अंशभागेनेति पाठेंऽशांशेनेत्यर्थः । तदाऽस्तीति शेषः ॥ ३६ ॥
सुमनोरञ्जिनी
स तादृशो भवान् । सर्वलोकस्य भवाय क्षेमाय । विशेषतो अस्मदादेः प्रकृष्टभवाय मङ्गलाय च । अवतीर्णोऽसि । अंशभागेन अंशांशेन । आशिषां पतिर्दाता ॥ ३६ ॥
नमः परमकल्याण नमस्ते विश्वमङ्गल ।
वासुदेवाय शान्ताय यदूनां पतये नमः ॥ ३७ ॥
सत्यधर्मीया
विश्वमङ्गल जगन्मङ्गल स्वयं परमकल्याण मङ्गलाङ्ग । शान्ताय सुखावधेयशान्तमूर्तये वा । यदूनां पतये । पदमेकं द्वयोरुक्तिरित्युक्तिर्नमःसम्पुटिकेति मन्तव्यम्
॥ ३७ ॥
सुमनोरञ्जिनी
यदूनां पतये पत्ये । विश्वमङ्गल अस्माकं तु परमकल्याण ॥ ३७ ॥
अनुजानीहि नौ भूमन् सदाऽनुचरकिङ्करौ ।
दर्शनं नौ भगवत ऋषेरासीदनुग्रहात् ॥ ३८ ॥
पदरत्नावली
भूमन् ज्ञानानन्दादिगुणपूर्ण । अनुचरकिङ्करौ दासदासौ । यदृच्छया प्राप्त-महत्सङ्गमो भगवद्दर्शनसाधनमभूत् किं पुनर्बुद्धिपूर्वकमिति भावेनाह दर्शनमिति ॥ ३८ ॥
सत्यधर्मीया
हे भूमन् गुणपूर्ण । अनुचरकिङ्करौ दासदासौ । नोदस्वित्पूर्तिरामायणमिति-वदस्मदासत्तेत्याहतुः ॥ सदेति ॥ भगवतो दर्शनमृषेर्नारदस्यानुग्रहान्नावासीदतो नावनुजानीह्याज्ञापय । भगवत इति ऋषिपदेनाप्यन्वेति । नावित्यपि नमःपदवद्द्विवारमुक्तमुक्तकृत्यं ज्ञेयम् ॥ ३८ ॥
सुमनोरञ्जिनी
हे भूमन् । अनुजानीहि अनुज्ञां देहि । अनुचरस्य त्वदनुचरस्य रुद्रस्य किंकरौ प्रोक्तकारिणौ भृत्यावित्यर्थः । अनन्यसाध्यं त्वद्दर्शनम् ऋषेरनुग्रहादेव लब्धमित्याहतुः ॥ दर्शनमिति ॥ ३८ ॥
**वाणी गुणानुकथने श्रवणौ कथायां **
हस्तौ च कर्मसु मनस्तव पादयोर्नौ ।
**स्मृत्यां शिरस्तव सुरप्रवर प्रणामे **
दृष्टिः सतां दर्शनेऽस्तु भवत्तनूनाम् ॥ ३९ ॥
पदरत्नावली
इतः परं श्रीमदादिकमावयोर्न भवितव्यम् । यत इन्द्रियाणां विषयाभिमुख्यं स्यात् । तन्न स्यात् । किन्तु वाण्यादीन्द्रियाणां भवद्गुणानुवर्णनादिप्रवणता स्यादिति प्रार्थयेते वाणीति ॥ नौ मनः पादयोः स्मृत्यां स्मरणे । भवत्तनूनां भवन्मूर्तिभूतानां सताम् ॥ ३९ ॥
सत्यधर्मीया
इत उत्तरं न मदान्धता भवतु, भवतु चेन्द्रियविनियोगो योगीश एवमावयोरिति प्रार्थयते ॥ वाणीति ॥ हे सुरप्रवरामरस्वामिन् तव गुणानुकथने तद्वर्णने वाणी, अस्त्विति सर्वत्र यथातथं विपरिणतमन्वेति । कथायां तदाकर्णने श्रवणौ श्रवणे कर्णौ । श्रवणं श्रव इत्यमरः । ल्युडन्तो वा । कर्मसु हस्तौ, नौ मनः पादयोः स्मृत्यां स्मरणे । न इति पाठेऽस्मदो द्वयोश्चेति द्विवचनस्थाने बहुवचनम् । आद्यर्थे वा । शिरः प्रणामे भवत्तनूनां भवतस्तनवोऽन्तर्येषां स तां दर्शने दृष्टिर्दृक् भवत्तनूनां भवन्मूर्तीनां सतां वा । अयमेवार्थः सन्ततमस्मदभिमतो नान्य इति तत्तवभवत्पदैर्ध्वनयतः ॥ ३९ ॥
सुमनोरञ्जिनी
भवद्दर्शनानन्तरमावयोः सर्वेन्द्रियव्यापारस्त्वद्विषय एव भूयान्न पूर्ववदन्यविषय इति प्रार्थयतः ॥ वाणीति ॥ गुणानाम् अनुकथने अनुवादे । कथायां कथाश्रवणे । कर्मसु तव मन्दिरमार्जनादिरूपेषु । नौ आवयोर् मनस् तव पादयोः स्मृत्याम् अनुचिन्तने । हे सुरप्रवर । शिरः प्राणामे विषये । दृष्टिः, सतां निर्दुष्टानां भवत्तनूनां त्वन्मूर्तीनाम् । भवत्तनूनां त्वत्प्रतिमारूपाणां सतां सज्जनानां, दर्शन इति वा ॥ ३९ ॥
श्रीशुक उवाच–
इत्थं सङ्कीर्तितस्ताभ्यां भगवान् गोकुलेश्वरः ।
दाम्ना चोलूखले बद्धः प्रहसन्नाह गुह्यकौ ॥ ४० ॥
सत्यधर्मीया
वासुदेवो किमवादीत्तौ प्रति शुक वदेति तदनुयोगस्यावसरमददानः शुकः करुणापरवशः परीक्षितं प्रति वक्तीति वक्ति– श्रीशुक इति । ताभ्यामित्थं सङ्कीर्तितो भगवान् गोकुलेश्वरः सर्वेश्वरोऽपि यथा बदरिकानाथो द्वारकानाथ इत्यप्यर्वाङ्नाथः पराङ्नाथ इति तद्वदिहोच्यते । सर्वनाथोऽपि भगवान्सन्निधानविशेषत इति छान्दोग्यभाष्योक्तेर्गोकुलेश्वरत्वं सर्वेश्वरस्य नानुपपन्नम् । दाम्नोलूखले बद्धो मात्रा, गुह्यकौ प्रति हसन्नाह न जनसमाज इत्याह ॥ गुह्यकाविति ॥ गुह्या च सा कुश्च गुह्यकुस्तस्यामेकान्तभूमावित्यर्थः । मन्दाः स्वयमनवतीर्णनयेन स्वयं बद्ध इतर-बन्धध्वंसं कथं कुर्यादिति वदेयुरिति हासो देवस्येति वा । युष्मन्मदेनेयत्यवस्थेति वा ज्ञेयम् ॥४०॥
सुमनोरञ्जिनी
ताभ्यां धनदात्मजाभ्याम् । सङ्कीर्तितः संस्तुतः । गुह्यकौ प्रति ॥ ४० ॥
श्रीभगवानुवाच–
ज्ञातं मया पुरैवेतद् ऋषिणा करुणात्मना ।
यच्छ्रीमदान्धयोर्वाग्भिः शापः १सोऽनुग्रहः कृतः ॥ ४१ ॥
पदरत्नावली
सानुग्रहः मोक्षलक्षणानुग्रहसहितः शापः ॥ ४० ॥
सत्यधर्मीया
करुणात्मना ऋषिणा श्रीमदान्धयोर्वाग्भिः शापः कृतः सोऽनुग्रहः कृत इति यदेतन्मया पुरैव ज्ञातम् । सानुग्रहोऽनुग्रहो मोचनविषयिणी करुणा तेन सहित इति शापविशेषणमिति तत्पाठपक्षे ज्ञेयम् ॥ ४१ ॥
सुमनोरञ्जिनी
पुरैव भवद्विज्ञापनात्प्रागेव । सानुग्रहः मोचनलक्षणानुग्रहसहितः ॥ ४१ ॥
साधूनां समचित्तानां सुतरां मत्कृतात्मनाम् ।
दर्शनान्नो भवेद् बन्धः पुंसोऽक्ष्णोः सवितुर्यथा ॥ ४२ ॥
पदरत्नावली
साधूनां मानापमानादिना हर्षामर्षादिहीनानाम् । ‘न प्रहृष्यति सम्माने नावमानेन कुप्यति । न क्रुद्धः परुषं ब्रूयाद् एतत् साधोस्तु लक्षणम्’ इति गारुडे । समचित्तानां समबुद्धीनाम् । उक्तं च गारुडे ‘यथा सुहृत्सु कर्तव्यं पितृशत्रुसुतेषु च । तथा करोति पूजादि समबुद्धिः स उच्यते । सर्वदा सर्वभूतेषु समं मां यः प्रपश्यति । अचला तस्य भक्तिः स्याद् योगक्षेमं वहाम्यहम्’ इति । ‘ब्रह्मादयो हि भूतानि तेषामन्तर्गतो हरिः । समः स सर्वभूतेषु य एवं वेद तत्त्ववित्’ इति भारते । ‘सर्वेषां भूतानामन्तरपुरुषः सम आत्मेति विद्यात्’ इत्यादि-श्रुतिभ्यश्च । सुतरां मयि कृतः सन्निहित आत्मा मनो येषां ते तेषां दर्शनाद् बन्धो नो भवेत् । कृतात्मनां शिक्षितबुद्धीनां मन् मत्तः सुतरां बन्धो नो भवेदिति वा । सवितुर्दर्शना-दक्ष्णोर्बन्धोऽन्धकारं यथा न भवेत् तथेति ॥ ४२ ॥
सत्यधर्मीया
सतां माहात्म्यं स्वमाहात्म्यमहत्त्वदात्रिति तौ प्रति तदाह ॥ साधूनामिति ॥ समचित्तानां मित्रामित्रमनोरहितानां तत्रापि सुतरां मत्कृतो मयि कृतः समर्पित आत्मा मनो येषां नारदादीनां दर्शनाद्बन्धो नो भवेत् । कृतात्मनां शिक्षितमतीनां मत्तः सुतरां बन्धो न भवेदिति किं वक्तव्यमित्यन्वयो वा । एवमन्वये सुतरामिति सुतरां लग्नमिति मन्तव्यम् । सवितुः सूर्यस्य दर्शनाद्दर्शनमप्राप्य पुंसोऽवलोकयितुर्जनस्य यथा बन्धो यक्ष्माच्छादनरूपो भवेन्न तथेति व्यतिरेक-दृष्टान्तः । सूर्यावलोकयितृलोचनाच्छादनं तत्ता यतो भवतीत्यामरपामरं विदितमिति । सवितुर्दर्शने कर्तव्यतयोपस्थिते यथा बन्धो न भवेत्तथेत्यन्वयदृष्टान्तो वा । बन्धोऽन्धकारं वा ॥ ४२ ॥
सुमनोरञ्जिनी
यत्पूर्वभावो मा भूदिति प्रार्थितं तस्योत्तरमाह ॥ साधूनामिति ॥ मय्येव कृतम् आत्मा मनो येषां ते मत्कृतात्मानः । बन्धः संसारः । सवितुर्दर्शनात् । अक्ष्णोर्बन्धो ऽप्रकाश-रूपः ॥ ४२ ॥
तद् गच्छतं मत्परमौ १नरवाहनिकेतनम् ।
सञ्जातो मयि भावो वामीप्सितः परमोत्सवः ॥ ४३ ॥
पदरत्नावली
मत्परमौ मय्येव परा मा ज्ञानं ययोस्तौ । नरवाहो वैश्रवणस् तस्य निकेतनं सदनम् ॥ ४२ ॥
सत्यधर्मीया
परम उत्सवो येन सः । ईप्सितो वाञ्छितो वां, मयि भावो भक्तिः सञ्जात इति । मत्परमौ अहं परम उत्तमो ययोस्तौ । मयैव परा मा ज्ञानं पुनर्मदानर्पिका ययोस्ताविति वा । नरवाहनिकेतनं नरवाहः कुबेरः पिता तस्य निकेतनमलकां तद्गच्छतम् । नलकूबरसादनमिति पाङ्क्तः पाठो मञ्जुलश्च । प्राधान्यादेकस्य सम्बोधनम् । हे नलकूबर तत्तस्मात्सादनं सदनमिति विवरणकृद्बादरायणकालिक इति स्वं मन्यत इति तदुपेक्ष्यम् । नरवाहनिः कुबेरस्तस्य केतनं निकेतनमिति वा ॥ ४३ ॥
सुमनोरञ्जिनी
मय्येव परा आसक्ता मद्विषयिणीति यावत्, मा बुद्धिर्ययोस्तौ । नरवाहः कुबेरः । परम उत्सवः मुक्तिलक्षणो यस्मात्सः । भावो भक्तिः ॥ ४३ ॥
श्रीशुक उवाच–
इत्युक्तौ तौ परिक्रम्य प्रणम्य च पुनः पुनः ।
बद्धोलूखलमामन्त्र्य जग्मतुर्दिशमुत्तराम् ॥ ४३ ॥
॥ इति श्रीमद्भागवते दशमस्कन्धपूर्वार्धे एकादशोऽध्यायः ॥
पदरत्नावली
बद्धमुलूखलं यस्मिन् स तम् । आमन्त्र्य गच्छाव इत्युक्त्वा ॥ ४३ ॥
॥ इति श्रीमन्महेन्द्रतीर्थपूज्यपादशिष्यविजयध्वजतीर्थभिक्षुकृतायां पदरत्नावल्यभिधायां श्रीमद्भागवतटीकायां दशमस्कन्धपूर्वार्धे एकादशोऽध्यायः ॥
सत्यधर्मीया
बद्धोलूखलं बद्धमुलूखलं यस्मिन्स तम् । ननु स्वयं तेन मोचितावित्युचितम् । तदुलूखलबन्धमोचनमतयोरित्यनयोर्गमनं तथेवेति चेत् । न । एतदवतारेऽर्जुनमोचकोऽयमेवास्मत्तो मोचनेऽर्जुनमोचितः कृष्ण इत्यपप्रथा स्यात्स्वावचप्रत्यवायिनावावामिति मतिमन्तौ विना मोचनं जग्मतुरिति तात्पर्यमनेन सूचितं ज्ञेयम् । आमन्त्र्य गच्छाव इत्युक्त्वोत्तरां दिशं स्वतातपालितां जग्मतुः ॥ ४४ ॥
॥ इति श्रीभागवतटिप्पण्यां सत्यधर्मयतिकृतायां दशमस्कन्धपूर्वार्धे एकादशोऽध्यायः ॥
सुमनोरञ्जिनी
बद्धम् उलूखलं यस्मिन् तं श्रीकृष्णं, आमन्त्र्य भगवन् गच्छाव इत्यभिभाष्य
॥ ४४ ॥
॥ इति श्रीमद्भागवतदशमस्कन्धपूर्वार्धव्याख्यायां
सुमनोरञ्जन्याम् एकादशोऽध्यायः ॥ १०-११ ॥