१० दशमोऽध्यायः

एकदा गृहदासीषु यशोदा नन्दगेहिनी

॥ अथ दशमोऽध्यायः ॥

श्रीशुक उवाच–

एकदा गृहदासीषु यशोदा नन्दगेहिनी ।

कर्मान्तरनियुक्तासु निर्ममन्थ स्वयं दधि ॥ १ ॥

पदरत्नावली

स्वलीलया तेषां प्रीतिं चक्र इत्युक्तं सा कीदृशीति प्रपञ्च्यतेऽस्मिन्नध्याये । नन्दस्य गेहिनी गृहिणी यशोदा । कर्मान्तरनियुक्तासु मथनकर्मतोऽन्यत् कर्मान्तरं तत्र नियुक्तासु सतीषु ॥ १ ॥

सत्यधर्मीया

स्वलीलया तेषां प्रीतिं चक्र इत्युक्तम् । सा च कीदृशीत्यतस्तां दर्शयितुं यशोदा काञ्चित्तदाटीकितधाटीं तदुपयोगिनीमादावाह ॥ एकदेति ॥ स्वयं साक्षादेव नन्दगेहिनी नन्दगृहिणी तद्भार्या यशोदा दधि निर्ममन्थ । कुत इत्यत आह । एकदा कदाचिद्गृहदासीषु मथनकर्त्रीषु । कर्मान्तरनियुक्तास्वेतत्कर्मतोऽन्यत्कर्मान्तरं तत्र नियुक्तासु सतीष्विति ॥ १ ॥

सुमनोरञ्जिनी

श्रीभगवतो भक्तवश्यता प्रदर्श्यतेऽस्मिन्नध्याये । नन्दगेहिनी नन्दभार्या । स्वयं दधि निर्ममन्थ । दासीशतमहिता स्वयमेव कुतो निर्ममंथेत्यत उक्तम् । गृहदासीषु कर्मान्तरनियुक्तास्विति ॥ १ ॥

यानि यानीह गीतानि तद्बालचरितानि च ।

दधिनिर्मथने काले स्मरन्ती तान्यगायत ॥ २ ॥

पदरत्नावली

दघ्नो निर्मथनं यस्मिंस्तस्मिन् काले ॥ २ ॥

सत्यधर्मीया

तात्कालिकं स्त्रीस्वभावमाह । स्मरन्ती यशोदा तानि तान्यगायतागायदिति । ते ते पिबन्तु जिह्वयेत्यृग्भाष्यटीकादिकमुदाहृत्य प्रागुपपादितप्रकारोऽत्रानुसन्धेयः । तद्बालचरितानि स चासौ बालश्च तद्बालस्तस्य यानि यानि पूतनाघातादीनि । इदं स्वगोकुल एव । एतेन स्वदृष्टानीति ध्वन्यते । चरितानि येषु तानि गीतानि प्रबन्धात्मना रचितानि । दधिनिर्मथने दध्नो निर्मथनं यस्मिंस्तस्मिन्काले इ अद्भुता ईहा । यद्वा प्रकृतिभाव आर्षः । ई इच्छाविषय ईहा चेष्टा येषामिति ते । इष्टदानात्तथेन्दव इति ऋग्भाष्योक्तेः । इच्छा एतज्ज्ञानविषयिणी येषां तैरीहैर्देवतादिभिर्गीतानि तद्बालचरितानि यानि यानि तानि तानीति वा ॥ २ ॥

सुमनोरञ्जिनी

इह मया । यानि यानि तस्य श्रीकृष्णस्य । बालचरितानि पूतना-संहरणादीनि । गीतानि त्वां प्रति प्रतिपादितानि तानि, दध्नः निर्मन्थनं यस्मिन् तस्मिन्काले । अगायत चेति ॥ २ ॥

क्षौमं वासः पृथुकटितटे बिभ्रती सूत्रनद्धं

पुत्रस्नेहस्रुतकुचयुगं१ जातकम्पं च सुभ्रूः ।

रज्ज्वाकर्षश्रमभुजचलत्कङ्कणौ कुण्डले च

स्विन्नं वक्त्रं कबरविगलन्मालती निर्ममन्थ ॥ ३ ॥

पदरत्नावली

अत्र वासःप्रभृतीनां द्वितीयान्तानां बिभ्रतीत्यनेनान्वयः । क्षुमनामक-कृमितन्तुनिर्मितं क्षौमम् । सूत्रेण काञ्च्या नद्धं बद्धम् । जातः दधिमथनानुकूलव्यापारजः कम्पो यस्य तत्, पुत्रस्नेहेन स्नुतयोः क्षीरस्राविणोः कुचयोर्युगम् । रज्जोराकर्षस् तेनोत्पन्नः श्रमो ययोस्तौ च तौ भुजौ च, चलन्ति कङ्कणानि ययोस्तौ, रज्ज्वाकर्षश्रमभुजौ च तौ चलत्कङ्कणौ चेति विशेषणस्य परनिपातत्वं बोध्यम् । कणकणायमानत्वेन कं शुभं कणन्तीति कङ्कणानि । ‘कण शब्दे’ इति धातोः । स्विन्नं स्वेदोपेतम् । कबरात् केशबन्धाद् विगलन्त्यो मालत्यो जातिप्रसूनानि यस्याः सा । शोभने भ्रुवौ यस्याः सा सुभ्रूः । दधि निर्ममन्ध अगायत च ॥ ३ ॥

सत्यधर्मीया

कबरेति पर्यन्तं बिभ्रतीत्यनेनान्वयः । पृथुकटितटे क्षौमं क्षुमकृमितन्तुनिर्मितं पीताम्बरं वासश्च तदन्तरेकम् । क्षौममट्टे दुकूले स्यादिति विश्वः । वास इति पृथक् सत्त्वात्क्षौमशब्दः क्षुमतन्तुनिर्मितत्वमात्रवाचक इति वा । प्राग्यत्र वासो वासुदेवस्य तस्मिन्कटितट इत्यन्वयो वा । सूत्रं काञ्ची तन्नद्धं बद्धम् । णह बन्धन इति स्मरन्ति । जातकम्पं जातः कम्पो यस्य तत् । पुत्रस्नेहेन स्रुतं स्रवत्क्षीरं कुचयोर्युगम् । रज्वाकर्षश्रमभुजचलत्कङ्कणौ । कङ्कणं करभूषणमित्यमरः । कङ्कणं शेखरे हस्तसूत्रमण्डनयोरपीति विश्वः । कङ्कणे इति सुपठम् । रज्जोराकर्ष आकर्षणं तज्जातः श्रमो ययोस्तौ च तौ भुजौ च । चलती कङ्कणे करभूषणे ययोस्तौ । रज्वाकर्षश्रमभुजौ च तौ चलत्कङ्कणौ चेति विग्रहे न लिङ्गभङ्ग इति ज्ञेयम् । विशेषणस्य परनिपातमात्रं सामयिकमिति न जघन्यम् । कुण्डले कर्णभूषणे । स्विन्नं वक्त्रं च । कबरं केशशाकविशेषयोः कबरमिति विश्वः । केशपाशाद्विगलन्त्यो मालत्यो जातीकुसुमानि । मालती जातिभेदे स्यादिति विश्वः । यस्याः सा सुभ्रूर्दधि ममन्थ ॥ ३ ॥

सुमनोरञ्जिनी

तदानीन्तनावस्थां वर्णयति ॥ क्षौममिति । शोभने भ्रुवौ यस्याः सा यशोदा । क्षौमम् । क्षुमः क्रिमिः । तत्तन्तुनिर्मितं वासः । कथंभूतम् । सूत्रनद्धं सूत्रैः पुनर्नद्धं चित्रितम् । सूत्रेण कांचीदाम्ना नद्धं बद्धमिति वा । पुत्रस्नेहेन स्रुतकुचयुगं स्त्रवत्पयःपयोधरयुग्मं च बिभ्रती । कीदृशं, जातकंपं जातचलनम् । रज्जोर् मन्थनरज्जोर् आकर्षेण यः श्रमः स ययोस्तौ च तौ भुजौ च । तयोश् चलन्तौ कंकणौ । कुण्डले च कर्णभूषणे अपि । तथा स्विन्नं स्वेदयुक्तं वक्त्रं च बिभ्रती । कबरात्केशपाशाद्विगलंत्यो मालत्यो यस्याः सा तथाविधा भूत्वा निर्ममन्थेति

॥ ३ ॥

तां स्तन्यकाम आसाद्य मथ्नन्तीं जननीं हरिः ।

गृहीत्वा दधिमन्थानं न्यषेधत् प्रीतिमावहन् ॥ ४ ॥

पदरत्नावली

न्यषेधन् निवारितवान् ॥ ४ ॥

सत्यधर्मीया

स्तन्यकामो हरिर्मथ्नन्तीं तां जननीमासाद्य दधिमन्थानं गृहीत्वा प्रीतिमावहन्सन् न्यषेधन्निषिषेधे ॥ ४ ॥

सुमनोरञ्जिनी

स्तन्यकामो हरिर् दधिमन्थानं दधिमथनदण्डम् । मन्थानो मन्थदण्डक इत्यमरः । मथ्नन्तीं जननीम् । न्यषेधत् । कलवाण्या प्रीतिम् आवहन् उत्पादयन् ॥ ४ ॥

तमङ्कमारूढमपाययत् स्तनं स्नेहस्नुतं सस्मितमीक्षती मुखम् ।

अतृप्तमुत्सृज्य जवेन सा ययावुत्सिच्यमाने पयसि त्वधिश्रिते ॥ ५ ॥

पदरत्नावली

अतृप्तम् अलम्बुद्धिमप्राप्तम् । अधिश्रिते अधिकपाकं प्राप्ते पयसि उत्सिच्यमाने उद्रिच्यमाने सति, पयो ऽवरोपयितुमिति शेषः ॥ ५ ॥

सत्यधर्मीया

सस्मितं सहासं मुखमीक्षती ईक्षमाणा स्वयमपि सस्मितमीक्षतीत्यप्यन्वयः । अधिश्रितेऽधिकपाकं प्राप्ते । श्रा पाक इति स्मृतिः । पयसि क्षीरे उत्सिच्यमाने पात्रादुद्रिच्यमाने सत्यतृप्तं क्षीरेण, स्वमुत्सृज्य त्यक्त्वा सा जवेन ययौ । अवरोपयितुं वा जलं स्थापयितुं वा यदा ॥ ५ ॥

सुमनोरञ्जिनी

सस्मितं मन्दहाससहितं मुखम् ईक्षती सती । अङ्कमारूढं सुतं प्रति । स्नेहेन स्रुतं स्तनम् अपाययत् । अतृप्तम् अलंबुद्धिमप्राप्तम् । अधिश्रिते चुल्लीमारोपिते । पयसि उत्सिच्यमाने उद्रिच्यमाने सति तदवरोपयितुं ययावित्यन्वयः ॥ ५ ॥

सञ्जातकोपः स्फुरितारुणाधरं सन्दश्य दद्भिर्दधिमण्डभाजनम् ।

भित्त्वा मृषाश्रुर्दृषदश्मना रहो जघास हैयङ्गवमन्तरं गतः ॥ ६ ॥

पदरत्नावली

दद्भिर् दन्तैः । दधिमण्डभाजनं मस्तुपूर्णपात्रम् । ‘दधिमण्डो भवेन्मस्तु’ इति हलायुधः । मृषाश्रुर् बालशोकविडम्बनरूपत्वेन मुधा अश्रूणि यस्य सः । दृषदश्मना पेषणसम्बन्धिपाषाणेन । अन्तरं गृहमध्यम् । हैयङ्गवं नवनीतम् ॥ ६ ॥

सत्यधर्मीया

तदा सञ्जातकोपः सञ्जातः कोपो यस्य स तथा तत्प्रदर्शकः । स्फुरितारुणाधरं स्फुरितः कम्पमानः प्रकाशमानोऽरुणोऽधरो दन्तवसनं दद्भिः सन्दश्य । मृषाश्रुस् त्रिसर्गो मृषेत्येतत्तात्पर्ये– ‘‘न चातृप्तः प्रवर्तते । किन्तु मृषा वृथैव । ‘भित्वा मृषाश्रु’रितिवत्’’ इत्युक्तेरहेतुप्रयोजनान्यश्रूणि यस्य स तथा । दुःखमेव कारणं कुतो नेत्यत आह ॥ दृषदिति ॥ लुप्तोपमेयम् । आखणाश्मसम इति शोकः सम्भवी नेति भावः । हरिरपि समयार्हां हानिमस्यै प्रदातुं दृषत्खण्डेनाखण्डयन्मण्डभाण्डमित्याह ॥ अश्मनेति ॥ पाषाणशकलेन दधिमण्डभाजनं मस्तुपूर्णं पात्रम् । दधिमण्डो भवेन्मस्त्विति हलः । भित्वा । मातरि कार्यान्तरव्यापृतायामन्तरमवकाशं गतः प्राप्तो रह एकान्ते हैय्यङ्गवं हैय्यङ्गवीनं नवनीतं जघास । लिट्यन्यतरस्यामित्यादेर्वा घस्लादेशः । जघास जक्षतुर्जक्षुरिति रूपाणि । यद्यपि हियङ्गुरादेशः खञ्सन्नियोगशिष्टस्तथाऽप्यञि परतोऽप्यार्षो ज्ञेयः । यथोक्तं महाभाष्ये कैय्यटादिषु । हैय्यङ्गवीनं संज्ञायां हैयङ्गवीनमिति किं निपात्यते । ह्योगोदोहस्य हियङ्ग्वादेशसंज्ञायां तस्य विकारो ह्योगोदोहस्य हियङ्ग्वादेशो निपात्यते संज्ञायां विषये तस्य विकार इत्यस्मिन्नर्थे ह्योगोदोहस्य विकारो हैय्यङ्गवीनं घृतम् । संज्ञायामिति किमर्थम् । ह्योगोदोहस्य विकार उदस्विदत्र मा भूदिति । किं निपात्यत इति प्रकृतिसन्देहात्प्रश्नः । ह्योगोदोहस्येति । ह्यःशब्दस्य गोदोहशब्दस्य सुप्सुपेति समासः । दुह्यत इति दोहः क्षीरमुच्यते । ह्यःशब्दः कालप्रत्यासत्तिः प्रतिपाद्यते । तेन विकृतरूपगन्धमेव घृतं हैय्यङ्गवीनमुच्यत इत्याहुरिति कौमुदीकाशिकावृत्त्योर्नवनीतमित्युक्तेर्नवनीतम् । अन्तरङ्गत एकान्ते जघास । अरहो बहिरङ्गे मृषाश्रुरिति वा ॥ ६ ॥

सुमनोरञ्जिनी

स्फुरितं प्रचलितम् अरुणाधरम् । दद्भिर् दन्तैः । संदश्य । दृषदश्मना शिलापुत्रकेण । दधिमण्डो दधिसारः । मण्डः स्यात्सारपिच्छयोरिति विश्वः । तेन पूर्णं भाजनं भित्वा । मृषा वृथा दुःखमन्तरा अश्रु नेत्रजलं यस्य सः । अन्तरं बाह्यदेशं गतः । अंतरं परिधानीये बाह्ये स्वीयेऽन्तरात्मनीति यादवः । हैयङ्गवं ह्यस्तनगोदोहविकारः । ह्योदोहशब्दस्य हियंगुरादेशः । नवनीतमिति यावत् । रह एकान्ते ॥ ६ ॥

उत्तार्य गोपी सुशृतं पयः पुनः प्रविश्य सन्दृश्य च दध्यमत्रकम् ।

भग्नं विलोक्य स्वसुतस्य कर्म तज्जहास तं चापि न तत्र पश्यती ॥ ७ ॥

पदरत्नावली

उत्तार्य चुल्लीतोऽवरोप्य । सुशृतं सुपक्वम् । प्रविश्य दधिमथनस्थलम् । दध्यमत्रकं दधिभाण्डम् । स्वसुतस्य तत् कर्म प्रति जहास अहसत् ॥ ७ ॥

सत्यधर्मीया

गोपी सुश्रुतं पयस्तत्पूर्णपात्रमिति यावद् उत्तार्य चुल्लीतोऽवतार्य प्रविश्य मथनस्थानं दध्यमत्रं दधिपात्रं तदेवामत्रकं भग्नं सन्दृश्य दृष्ट्वा । स्वस्य क्षीरोदधिमथकतया पूर्वं दधिमथनमिति तद्भाण्डखण्डनं ततान देव इति ध्वनिः । स्वसुतस्य कर्म तदिति विलोक्य तं च तत्र तत्स्थं न पश्यतीत्यनवलोकयन्ती जहासाहसत् । सन्दृश्य, कर्म च सन्दृश्येत्यन्वये विलोक्यो दर्शनीयो यः स्वसुतस्तस्येति पदमेकमिति मन्तव्यम् । न तत्र न मज्जनरक्षकेति चेत्पश्यती न तथेति न तत्र पश्यतीत्युक्तिरिति वा ॥ ७ ॥

सुमनोरञ्जिनी

गोपी यशोदा । सुशृतं सुतप्तम् । पय उत्तार्य चुल्या अवरोप्य । मन्थनगृहं प्रविश्य । भग्नं दध्यमत्रकं दधिभाण्डम् । संदृश्य दृष्ट्वा । तत् स्वसुतस्य कर्म इति विलोक्य निश्चित्य । जहास न कुपिता बभूव ॥ ७ ॥

उलूखलाङ्घ्रेरुपरि व्यविस्थितं मर्काय कामं ददतं १यथेप्सितम् ।

हैयङ्गवं चौर्यविशङ्कितेक्षणं निरीक्ष्य पश्चात् सुतमागमच्छनैः ॥ ८ ॥

पदरत्नावली

उलूखलाङ्घ्रेर् अधोमुखीकृतोलूखलस्योपरि व्यवस्थितं, चौर्येण कृतेन विशङ्किते किञ्चिदुन्मीलननिमीलनयुक्ते ईक्षणे यस्य स तथाभूतं मर्काय मार्जाराय कामं स्वाभीष्टानुसारं यथेप्सितं मर्कादीनामीप्सितमनुसृत्य हैयङ्गवं ददतं सुतं निरीक्ष्य दूरादालक्ष्य पश्चात् पृष्ठतः शनैर्मन्दमागमत्

॥ ८ ॥

सत्यधर्मीया

उलूखलोत्तानतायामङ्घ्रिस्तदधस्तनप्रदेश उपरि भवति तस्योपरि व्यवस्थितं चौर्येण कृतेन, आर्याऽविचार्य कां चर्यां कुर्याद्वेति विशङ्किते ईक्षणे यस्य तम् । ददौ बिडालाय जनन्यदृष्टस्तदा स्वनीतं नवनीतजातम् । क्षिणोति नूनं धनलोभभाजां धनान्यनर्हत्स्वतिदिश्य देव इति ध्वनयन्नाह । कामं यथास्वेष्टं, यथेप्सितं कर्मादीनामीप्सितमनुसृत्य मर्काय बिडालाय तेभ्यो हैय्यङ्गवं ददन्तं सुतं निरीक्ष्य दूरादालक्ष्य पश्चादिति पृष्ठतः शनैर्मन्दमागमद् आ अगमदगच्छदिति । सिचि स्थितमिति पाठे सिचि सिक्ये स्थितं हैय्यङ्गवमित्यन्वयः ॥ ८ ॥

सुमनोरञ्जिनी

उलूखलाङ्घ्रेः परिवर्तितोलूखलस्य । उपरि । मर्काय मार्जाराय कामम् अपेक्षितं हैय्यङ्गवं, यथेप्सितं स्वमनोनुसारेण ददतम् । चौर्येण विशंकिते चंचले ईक्षणे यस्यासौ तं सुतम् । निरीक्ष्य । पश्चात् पृष्ठतः । शनैः कङ्कणादिशब्दमकुर्वन्ती ॥ ८ ॥

तामात्तयष्टिं प्रसमीक्ष्य सत्वरस्ततोऽवरुह्याभिससार भीतवत् ।

गोप्यन्वधावन्न यमास योगिनां क्षमं प्रवेष्टुं तपसेरितं मनः ॥ ९ ॥

पदरत्नावली

अभिससार विदधाव । यं योगिनां तपसा ईरितं तदासक्तत्वेन प्रेरितं मनः प्रवेष्टुं न क्षमं न समर्थमास तमन्वधावत् ॥ ९ ॥

सत्यधर्मीया

सत्वरस्त्वरासहितः कृष्णः । आत्ता यष्टिर्यया सा तां प्रसमीक्ष्य । तत उलूखलादवरुह्य भीतवत्सर्वभीषकस्य भीतिर्मातुर्नेति सूचयति वतिः । अभिससार दुद्राव । यं योगिनामजादीनां तपसेरितं प्रेरितं तदासक्ततानीतं मनः प्रवेष्टुं न क्षमं न समर्थमास तमन्वधावत् । अत एव गोपी लोकालोके किमप्यविदुषीं वा वीक्ष्यायं पशुपाल इयं पशुपालिकेत्यालपति । गोप एव मूर्खस्तत्पत्नी तु ततोऽपीति वा गोपीति ॥ ९ ॥

सुमनोरञ्जिनी

सत्वरस् त्वरया सहितः । तत उलूखलात् । अवरुह्य । अभिससार गतवान् । गोपी तम् अनु अनुसृत्य अधावत् । तं गृहीतुमिति शेषः । इदमतीव चित्रमित्याह ॥ यमिति ॥ योगिनां मनोऽपि । तपसा तपःप्रभावेन । ईरितम् उपबृंहितं सदपि । यं परमात्मानम् । प्रवेष्टुं विषयीकर्तुं क्षमं न समर्थम् आस तं कराभ्यां ग्रहीतुमन्वधावदिति ॥ ९ ॥

अन्वञ्चमाना जननी बृहच्चलच्छ्रोणीभराक्रान्तगतिः सुमध्यमा ।

जवेन विभ्रंशितकेशबन्धनच्युतप्रसूनानुगतिः परामृशत् ॥ १० ॥

पदरत्नावली

अन्वञ्चमाना अनुगच्छन्ती । अञ्चु गतिपूजनयोरिति धातुः । बृहत्योश् चलत्योः श्रोण्योर्नितम्बयोर्भारेणाक्रान्ता स्तब्धा गतिर्यस्याः सा । विभ्रंशिताद् विस्रंसितात् केशबन्धनाच् च्युतानि प्रच्युतानि प्रसूनानि, तेषामनुगतिर्यस्याः सा परामृशज् जग्राह ॥ १० ॥

सत्यधर्मीया

अन्वञ्चमानान्वञ्चती अनुव्रजन्ती । बृहत्योश्चलत्योः श्रोण्योर्नितम्बयोर्भारेणा-क्रान्ता मन्दीभवन्ती गतिर्गमनं यस्याः सा सुमध्यमा । जवेन, केशानां बन्धनं, विभ्रंशितं च तत्केशबन्धनं च तस्मात्प्रच्युतानि प्रसूनानि पुष्पाणि धम्मिल्लमुल्लङ्घ्य पुरश्च्युतानि तेषामनुगतिर्यस्याः सा । कृष्णचरणयोः कुसुमार्पणेन प्राप्तिः सत्वरं भविष्यतीतीदमपदेशेन सभाजितवत्यजितचरणद्वन्द्वमिति तं परामृशदिति ध्वनिः । न च चमदकतैवम्भावाविष्करणम् । स्वनिर्माल्यमालानामसमार्पणीयत्वादिति चेत् । कुरुशबरीवरिवश्यां विभ्रंशितकेशबन्धनवः । तानि पश्चात्प्रसूनानि यस्याः सा । अनु अनुसृत्य गतिर्यस्याः सा चेति वा । तदनु यात्राऽपि तत्परामर्शहेतुरिति तं परामृशदिति वा । परानुयात्रार्जित-पुण्यपात्रेति रुक्मिणीशविजयोक्तेः ॥ १० ॥

सुमनोरञ्जिनी

अनु पश्चाद् अंचमाना गच्छन्ती । श्रोण्योः कटिपश्चाद्भागयोर् भरेण भारेण आक्रान्ता पीडिता मन्दीभूतेति यावद् गतिर्यस्याः सा । सु सूक्ष्मं मध्यमं कटिर्यस्या असौ तथोक्ता । जवेन वेगेन विभ्रंशितात् शिथिलात् केशबन्धनात् केशपाशाच् च्युतानि यानि प्रसूनानि तेषामनुगतिस् तत्कर्तृकानुगमनं यस्याः सा । परामृशत् पस्पर्श ॥ १० ॥

कृतागसं तं प्ररुदन्तमक्षिणी कषन्तमञ्जन्मषिणी स्वपाणिना ।

उद्वीक्षमाणं भयविह्वलेक्षणं हस्ते गृहीत्वा भिषयन्त्यवागुरत् ॥ ११ ॥

पदरत्नावली

कृतागसं कृतापराधम् । अञ्जन्ती प्रसरन्ती मषी अञ्जनं ययोस्ते अञ्जन्मषिणी अक्षिणी नेत्रे कषन्तं निष्पीडयन्तम् । कष हिंसायामिति धातुः । भयेन विह्वलं चञ्चलम् ईक्षणमवलोकनं यस्य तम् । भिषयन्तीति ह्रस्वप्रयोगेण विश्वभीषकस्य भीषणविडम्बनत्वं प्रकाश्यते । अवागुरत् ताडनोद्यमवती बभूव । गुरी उद्यमने इति धातुः ॥ ११ ॥

सत्यधर्मीया

जननी कृतागसं कृतापराधं प्ररुदन्तम् । अञ्जन्मषिणी अञ्जती सर्वतः प्रसरन्ती मषी कज्जलमनयोरित्यञ्जन्मषिणी । अक्षिणी नयने स्वपाणिना कषन्तं मृजन्तमुद्वीक्षमाणम् । भयेन विह्वलं चञ्चलमीक्षणमवलोकनं यस्य तम् । हस्ते गृहीत्वा । सक्थिनि कर्णे वा महाभाष्य-प्रयोगात्प्रयोगाच्च शृङ्गे कर्णे वा गृहीत्वा गामिव नागम इति तत्त्वनिर्णये । हस्ते गृहीत्वेति सम्भवति । विस्तरस्तु भाष्यदीपिकायुक्तिवात्यायामस्मत्कृतायामनुसन्धेयः । भीषयन्ती, सङ्कोचनेन भीत्यस्य, न सर्वभीषकस्य भीषणं सम्भवतीति सूचयति । अपिमाषं मषं नीत्या छन्दश्छेदार्थं लघुर्भिः पाठ्यः । अवागुरद् गूरी उद्यमने दिवादिः पुषादिभ्यः पूर्वतनश्चेति नाङ् विकरणव्यत्ययेन शः । उद्यमवत्यभवद् लङ् ॥ ११ ॥

सुमनोरञ्जिनी

कृतागसं कृतापराधम् । अंजन्मषिणी अंजिता मषिर् अंजनं ययोस्ते । अक्षिणी नेत्रे । कषन्तं संमर्दयन्तम् । उद् ऊर्ध्वमेव ईक्षमाणम् । भिषयन्ती भीषयन्ती । ह्रस्वश्छान्दसः । अवागुरद् अभर्त्सयत् ॥ ११ ॥

त्यक्त्वा यष्टिं सुतं भीतं विज्ञायार्भकवत्सला ।

इयेष किल तं बन्धुं दाम्नाऽतद्वीर्यकोविदा ॥ १२ ॥

पदरत्नावली

अतद्वीर्यकोविदा कृष्णमाहात्म्यविशेषमजानती, उक्तरीत्या तन्माययेति ज्ञेयम् । दाम्ना वत्सपाशेन ॥ १२ ॥

सत्यधर्मीया

अतद्वीर्यकोविदा तद्वीर्याज्ञा तं बन्धुम् । बन्ध बन्धने बन्धिर्युधीत्यनिट्कः । बन्ध बन्धन इति सेट्कः । बद्धुमिति प्रामादिको व्यवहारः ॥ १२ ॥

सुमनोरञ्जिनी

सुतवत्सला यशोदा सुतं भीतं विज्ञाय । यष्टिं त्यक्त्वा । दाम्ना पाशेन । अतद्वीर्यकोविदा श्रीकृष्णमहिमानमजानन्ती । तं बन्धुम् इयेष इच्छितवती ॥ १२ ॥

न चान्तर्न बहिर्यस्य न पूर्वं नापि चापरम् ।

पूर्वापरं बहिश्चान्तर्जगतो यो जगन्मयः ॥ १३ ॥

पदरत्नावली

सर्वव्यापकतया पूर्वापरभागविधुरोऽयं कथं खलु कमलनालतुल्यवत्सपाशान्तरे बद्धो भवेदित्यर्थमावेदयितुं तत्स्वरूपं निरूपयति न चेति । यस्यान्तः नियामको नैवास्ति, बहिश्च भूपालादिवन्नास्ति । किन्तु स्वस्यैव नित्यं निखिलनियामकत्वम् । सर्वत्रैतस्य सत्वादन्तर्बाह्य-विशेषाभावश्चावसेयः । यस्मात् पूर्वमादिभूतं वस्तु नास्ति, अपरं च नास्ति । सदैतस्य सत्वादे-तदभावदशाभावादपराभाव इति यावत् । यः कृष्णः जगतः पूर्वमपरं बहिरन्तश्च, वर्तते इति शेषः । जगतः परिच्छिन्नत्वाद् उत्पत्तिनाशवत्त्वाच्च यश्च जगन्मयः जगत्प्रधानः । ‘प्रधानं मय इत्याहुः प्राधान्यान्मायता भवेत्’ इति भाल्लवेयश्रुतिः ॥ १३ ॥

दुर्घटभावदीपिका

न चान्तरित्यस्य भगवतोऽन्तः किमपि न चैवास्तीत्यर्थः । सर्वापेक्षया भगवानेवाणुर्भगवदपेक्षयाऽन्योऽणुपदार्थो नास्तीति भावः । एतेन सर्वजगतो भगवतोऽन्तर्विद्यमानत्वा-द्भगवतोऽन्तः किमपि नास्तीति कथनमयुक्तमिति चोद्यं निरस्तम् । भगवदपेक्षया सर्वपदार्थानां स्थूलत्वं नाणुत्वमित्यत्र तात्पर्यमित्यभ्युपगमात् ॥ १३ ॥

सत्यधर्मीया

किं तद्वीर्यं यदज्ञेयं राज्ञि इत्यत आह ॥ न चेति ॥ यस्यान्तरे कोऽपि नियामको न चास्ति बहिरपि महीपत्यादिवन्नास्ति यस्मात्पूर्वमादिभूतं वस्तु नास्ति अपरं च नास्ति । सर्वदैतस्य सत्त्वादेतदभावदशाभावादपराभाव इति भावः । यः पूर्वमपरं बहिरन्तश्च वर्तत इति जगन्मयो जगत्प्रधान इति कथं व्यापकः पाशमध्येऽयं भवेत्पाशो वा कथं व्यापकः सन्नेनमन्तरा तनुया-त्पूर्वापरभागविकलत्वादिति भावः । मयः प्रधान उद्दिष्ट इति तृतीयतात्पर्योक्तेरयं मयशब्दः

॥ १३ ॥

सुमनोरञ्जिनी

तद्वीर्याकोविदत्वमेव प्रपंचयति ॥ न चेति ॥ यस्य श्रीकृष्णाख्यस्य वस्तुनः सकाशात् । इदमन्त इदं बाह्यमिति विभागो नास्ति । न केवलं देशतो ऽपि च कालतोऽपि । यस्य यदपेक्षया पूर्वं पूर्वकालीनम् । अपरम् अपरकालीनमिति विशेषोऽपि नास्ति । कुतः । यः स्वयमेव जगतो विश्वस्य बहिर् बहिर्विद्यमानो ऽन्तो ऽन्तर्विद्यमानश्च । व्याप्त इत्यर्थः । तथा पूर्वः पूर्वकालीनः । अपरो ऽपरकालीनश्च । अनादिनित्य इत्यर्थः । ततश्च व्याप्तत्वात्तदपेक्षया अन्तर्बाह्यमिति, अनादिनित्यत्वात्तदपेक्षया पूर्वमपरं च नास्तीति भावः । इदमपि कुतः । यतो जगन्मयः जगतः स्थावरजंगमात्मकस्य मयः श्रेष्ठो ऽत इति ॥ १३ ॥

तं मत्वाऽर्भकमव्यक्तं मर्त्यलिङ्गमधोक्षजम् ।

गोपिकोलूखले दाम्ना बबन्ध प्राकृतं यथा ॥ १४ ॥

पदरत्नावली

सूक्ष्मतः सूक्ष्मत्वादव्यक्तसञ्ज्ञं ब्रह्म । तदुक्तम् ‘तदव्यक्तमाह हि’ इति । हि यस्मात् ‘अरूपमक्षरं ब्रह्म सदाऽव्यक्तं च निष्कलम् । यज्ज्ञात्वा मुच्यते जन्तुरानन्दश्चाव्ययो भवेत्’ इति श्रुतिराह तस्मात् तद् ब्रह्म अव्यक्तं पुरुषप्रयत्नेन द्रष्टुमशक्यस्वभावमित्यर्थः । अक्षज-मिन्द्रियजं ज्ञानं तदधःकृतं यस्मात् स तथा । इन्द्रियागोचरं तत्प्रसादमन्तरेत्यर्थः । मर्त्यानां लिङ्गं लक्षणमिव लक्षणं यस्य तमर्भकं शिशुं मत्वा प्राकृतं शिशुं यथा तथा बबन्ध बन्धनार्थमुद्युक्ता

॥ १४ ॥

सत्यधर्मीया

अव्यक्तं सूक्ष्मतः सूक्ष्मम् । विविधसांसारिकदुःखस्पृष्टं व्यक्तं तन्नेत्यव्यक्तम् । तदव्यक्तमाह हि । अव्यक्तमचलम् । नक्तोषा सेत्यृग्भाष्यादेः । अधोक्षजमधःकृतेन्द्रियज-ज्ञानमिन्द्रियागोचरं प्रसादमन्तरेत्यर्थः । मर्त्यानां लिङ्गं लक्षणमिव लक्षणं यस्य तमर्भकं शिशुं मत्वा प्राकृतं बालं यथा तथा दाम्ना उलूखले गोपिका बबन्ध तं बन्धुमारेभे इत्यर्थः । उलूखल इत्यनेन चोरस्येव तत्सहकारिणोऽपि लोके लोकैः शिक्षणमीक्षितमित्यसाध्यभागगमस्त्वादिवस्तुग्रहणानु-कूलोलूखलमपि खलं मत्वा गोपी तेन सहैनमपि बबन्धेति प्रेक्षावन्त उत्प्रेक्षयन्ति ॥ १४ ॥

सुमनोरञ्जिनी

अव्यक्तम् अव्यक्तस्वभावमपि मर्त्यलिङ्गमिव लिङ्गं शरीरं यस्य सः । तम् अर्भकं मत्वा बबन्ध ॥ १४ ॥

तद्दाम बध्यमानस्य स्वार्भकस्य कृतागसः ।

द्व्यङ्गुलोनमभूत् तेन सन्दधेऽन्यच्च गोपिका ॥ १५ ॥

पदरत्नावली

तद्याम्नो द्व्यङ्गुलोनत्वमहिम्ना स्वस्याबध्यतां प्रकाशयामासेत्याशयेनाह– तद्दामेति ॥ तद् बन्धनार्थमुपात्तं दाम द्व्यङ्गुलोनम् अङ्गुलिद्वयपरिमाणेनापूर्णमभूदित्यर्थः । गोपिका यदा तेन द्व्यङ्गुलोनेनाऽन्यद् दाम सन्दधे तदपि द्व्यङ्गुलं न्यूनमासीदिति । बद्ध्यते अनेनेति बन्धनं दाम ॥ १५-१६ ॥

सत्यधर्मीया

माधव इदमपदेशेन स्वस्याबध्यतां स्फोरयामासेत्याह ॥ तद्दामेति ॥ यदा कृतागसो बध्यमानस्य स्वार्भकस्य स्वबालकस्य । स्वस्मिन्नर्भका अतीतकल्पे मुक्ता ब्रह्मादिबालका यस्य स तस्यापीति वा कृतागसं तं किल नैव माता शशाक बद्धुं मम तु प्रतर्कः । तदीय-रम्योदरमध्यसंस्थविमुक्तशक्त्यैव न बन्ध आसीदित्युत्प्रेक्षाक्षितिरेवं चेदासीदिदं यदमिति मन्तव्यम् । तद्दाम व्द्यङ्गुलं द्वे अङ्गुली प्रमाणमस्य । मात्रचो द्विगोर्नित्यमिति लुक् । व्द्यङ्गुलं च तदूनम् । ‘‘तत्पुरुषस्य सङ्ख्याव्ययादेः’’ सङ्ख्याव्ययादेरङ्गुल्यं तस्य तत्पुरुषस्य समासान्तोऽच् स्यादिति कौमुद्युक्तेः समासान्तोऽच्प्रत्ययः । तेनोनमिति वा । ऊनं न्यूनमभूत्तदा गोपिका तेन पूर्वदाम्नाऽन्यच्च दाम सन्दधे । द्व्यङ्गुलन्यूनीकरणं तत्स्वबन्धनाशाशान्त्यर्थम् । बहुन्यूनताप्रदर्शने मत्वा बन्धनमशक्यं माता विरमेदिति रमानाथ एवमचीचरच्चरितमिति ज्ञेयम् ॥ १५ ॥

सुमनोरञ्जिनी

येन दाम्ना बबन्ध तद्दाम । द्व्यङ्गुलोनं द्वाभ्याम् अङ्गुलिभ्याम् ऊनम् अपूर्णम् । तेन ऊनेन दाम्ना । अन्यद् दाम सन्दधे ॥ १५ ॥

विरोधोद्धारः

तद्दामेति । अत्र द्व्यङ्गुलस्यैवोनत्वे किं निमित्तमित्यस्यापरिहारदर्शनाद्वक्तु-रभिप्रायो व्यक्तीक्रियते । भगवद्बन्धनाङ्गीकारविषयकृपोत्पादने साधनत्रयमपेक्षितम् । भक्तिर्ज्ञानं वैराग्यं चेति । तत्र यशोदाया यदि ज्ञानं स्यात्तर्हि न चान्तर्न बहिर्यस्येत्यादिनोक्तस्य बन्धने कथं प्रवृत्तिः स्यात् । तथा वैराग्यं यदि स्यात्तर्हि दधिभाण्डविध्वंसेन तद्बन्धने कथं प्रवृत्तिरत उभयाभावः । भक्तिस्तु । ‘जातयोर्नौ महादेवे भुवि विश्वेश्वरे हरौ । भक्तिः स्यात्परमा लोके ययाऽञ्जो दुस्तरं त्यजेत् । अस्त्वित्युक्त’ इत्यारभ्य ‘ततो भक्तिर्भगवति पुत्रीभूते जनार्दने । दंपत्योर्नितरामासीदि’त्युक्तेः सिद्धा । अत्र द्व्यङ्गुलिशब्दो न केवलोन्मानार्थकः किन्तु वस्तुद्वयशंसने द्व्यङ्गुलप्रसारणवत्संकेतेन सङ्ख्यार्थकश्च । अत एकभक्तिसद्भावेऽपि उभयोर्ज्ञानवैराग्ययोर्न्यूनतां द्योतयितुं द्व्यङ्गुलोनताया एव प्रदर्शनम् । अत एव चतुरध्याय्यां साधनाध्याये चतुष्पादानां पृथक् पृथक् प्रमेयत्वेऽपि ‘सद्भिर्वैराग्यभक्तिश्रुतिमतिनियतध्यानजज्ञानयोगाद्गम्यमि’त्युक्त्या तृतीयपादोक्तोपासनाया ज्ञानकारणत्वं प्रदर्श्य वैराग्यभक्तिज्ञानानामेव त्रयाणां भगवद्रतिसाधनत्वं टीकाचार्यैः प्रतिपादितम् । यद्यप्यत्र कृपापर-पर्यायप्रसादोत्पादकज्ञानस्य वैराग्यभक्त्युपासनहेतुकत्वमुक्तं तथापि कलौ मानुषलोके प्रायः स्त्रीणां वेदार्थश्रवणमननध्यानकर्मण्यधिकाराभावादुपासां विनैवात्र साधनत्रयमङ्गीकृतमिति बोध्यम् ॥१५॥

यदाऽऽसीत् तदपि न्यूनं तेनान्यदपि सन्दधे ।

तदपि द्व्यङ्गुलं न्यूनं यद्यदादत्त बन्धनम् ॥ १६ ॥

सत्यधर्मीया

व्द्यङ्गुलमिति अत्राप्यन्वेति । बन्धनं तत्साधनं दाम बन्धनमुद्दिश्य यद्यदादत्त तत्तव्द्यङ्गुलं न्यूनमभूत् ॥ १६ ॥

सुमनोरञ्जिनी

तदपि यदा द्व्यङ्गुलोनमासीत्तदा अन्यत्तदपीत्यादि । बन्धनं बध्यतेऽनेनेति बन्धनं दाम ॥ १६ ॥

एवं स्वगेहदामानि यशोदा सन्दधत्यपि ।

गोपीनां सुस्मयन्तीनां स्मयन्ती विस्मिताऽभवत् ॥ १७ ॥

पदरत्नावली

एवं स्वगेहसमस्तदामसञ्चयसमाप्तौ सुतमाहात्म्यदर्शनेन स्मयन्ती मन्दं हसन्ती विस्मिताऽभवत् ॥ १७ ॥

सत्यधर्मीया

एवं स्वगेहदामानि । निजेत्याद्यजल्पनेन स्वगेहत्वादिजल्पनेन च सु अगेहदामानि परगृहगतानि दामानीत्यपि सूचयामासेत्यवसेयम् । गोपीनां पार्श्वस्थानां स्मयन्तीनां सतीनां हसन्तीनां स्मयमानानां स्वयमपि स्मयन्ती स्मयमाना । स्म यन्तीति वा एतीति यन्ती पुनः पुनर्गच्छन्त्यागच्छन्तीति वा विस्मिताऽभवत् ॥ १७ ॥

सुमनोरञ्जिनी

गोपीनां स्मयन्तीनां सतीनाम् । स्वयमपि स्मयन्ती मन्दं हसन्ती । विस्मिता अभवत् ॥ १७ ॥

स्वमातुः स्विन्नगात्राया विस्रस्तकबरस्रजः ।

दृष्ट्वा परिश्रमं कृष्णः कृपयाऽऽसीत् स्वबन्धने ॥ १८ ॥

पदरत्नावली

स्विन्नं स्वेदभरितं गात्रं यस्याः सा तस्याः, विस्रस्ताः कबरस्रजो यस्याः सा तस्याः स्वमातुः परिश्रमं दृष्ट्वा कृपया स्वबन्धने तद्विषये आसीदनुकूलोऽभूत् ॥ १८ ॥

सत्यधर्मीया

स्विन्नं गात्रं यस्याः सा तस्याः । विस्रस्तकबरस्रजः परिश्रमं श्रान्तिं दृष्ट्वा कृपया स्वबन्धने तद्विषये आसीदनुकूलोऽभूदिति भावः ॥ १८ ॥

सुमनोरञ्जिनी

विस्रस्ता गलिताः कबरे बद्धस्रजो यस्याः सा तस्याः । स्वमातुः परिश्रमं दृष्ट्वा । स्वबन्धने आसीत् । अनुकूल इति शेषः । स्वयमेव बद्धोऽभूदिति यावत् ॥ १८ ॥

एवं सन्दर्शिता ह्यङ्ग हरिणा भक्तवश्यता ।

स्ववशेनापि कृष्णेन यस्येदं सेश्वरं वशे ॥ १९ ॥

पदरत्नावली

अङ्ग राजन् यस्येदम् ईश्वरैः रमाब्रह्मादिभिः सहितं सेश्वरं विश्वं वशे वर्तते तेन स्ववशेनापि कृष्णेन हरिणा भक्तवश्यतैवं सन्दर्शिता ॥ १९ ॥

सत्यधर्मीया

यस्येदं सेश्वरमीश्वरै रमाब्रह्मादिभिः सहितं विश्वं वशे वर्तते तेन स्ववशेनापि कृष्णेन हरिणा अङ्ग हे राजन् भक्तवश्यतैव दर्शिता ॥ १९ ॥

सुमनोरञ्जिनी

इदं भक्तवश्यतालक्षणगुणख्यापनार्थमेवेत्याह ॥ सेश्वरमिदं विश्वं यस्य वशे । तेन स्ववशेनेत्यन्वयः ॥ १९ ॥

नेमं विरिञ्चिर्न भवो न श्रीरप्यङ्गसंश्रया ।

प्रसादं लेभिरे गोप्यो२ यत् तत् ३प्राप विमुक्तिदात् ॥ २० ॥

पदरत्नावली

गोप्यो विमुक्तिदात् कृष्णाद् यद् यं प्रसादं लेभिरे तत् तमिमं प्रसादं विरिञ्चिः पुत्रः न प्राप, भवः पौत्रः न प्राप, अङ्गं वक्षः संश्रयं यस्याः सा श्रीरपि न प्राप, इति दामोदरो दानवमोहनाय गोपिकावृन्देषु प्रसादवैषम्यं प्रथयामासेत्यवसेयम् । ‘एकत्रैकस्य वात्सल्यं विशेषाद् दर्शयेद् हरिः । अवरस्यापि मोहाय क्रमेणैवापि वत्सलः ॥’ इति ब्रह्माण्डोक्तेः ॥ २० ॥

दुर्घटभावदीपिका

गोप्यो यशोदाविमुक्तिदात्कृष्णाद्यं प्रसादं प्राप्तास्तत्तमिमं प्रसादं विरिञ्चो ब्रह्मा पुत्रोऽपि न लेभिरे न लेभे । भवो रुद्रः पौत्रोऽपि न लेभे । श्रीर्महालक्ष्मीरङ्गसंश्रया भार्याऽपि न लेभे इत्यविद्यमानविषयकीर्तिं यशोदायाः कृष्णो दैत्यमोहनार्थं व्यञ्जयामासेति । एतेन गोप्या ब्रह्माद्यपेक्षयाऽधिकप्रसादस्याप्राप्तत्वाद् गोपी ब्रह्माद्यपेक्षयाऽधिकं प्रसादं प्रापेति वचनमनुपपन्नमिति दूषणं परिहृतम् । इत्यविद्यमानविषयकीर्तिमित्यादीनां शेषेण इत्यविद्यमानविषयकीर्तिं यशोदायाः कृष्णो दैत्यमोहनार्थं व्यञ्जयामासेत्यर्थस्योक्तत्वात् ॥ २० ॥

॥ इति श्रीभागवतटिप्पण्यां सत्याभिनवयतिकृतायां

दुर्घटभावदीपिकायां दशमस्कन्धपूर्वार्धे दशमोऽध्यायः ॥ १०-१० ॥

सत्यधर्मीया

गोप्यो यं प्रसादं विमुक्तिदाल्लेभिरे तं प्रसादं तादृशमेवेमं विरिञ्चः पुत्रो नाप भवः पौत्रो नाप । अङ्गसंश्रयाऽङ्गमुरः संश्रय आश्रयो यस्याः साऽपि नाप । तात्पर्यं तु सप्तम-नवमोक्तप्रकारेणानुसन्धेयम् । गोपी यत्तदिति पठन्ति । यत्तद् यं तम् । यत्तत्प्रापुर्विमुक्तिदादिति पाठे विरिञ्चो नाप भवो नापाङ्गसंश्रया श्रीरपि नापेत्याहत्य नापुरित्यन्वय इति वदन्ति । केचित्तु लेभिरं स्यादुलूखलमित्यभिधानादुलूखे सतिले नापुरिति च ॥ २० ॥

सुमनोरञ्जिनी

विरिञ्चिर् ब्रह्मा । भवो रुद्रः । ओ भगवदङ्गे उरसि उत्संगे वा, सम्यक् श्रयत इति तथोक्ता । श्रीरपि इमं प्रसादम् । अत्र लेभिर इति बहुवचनेन एकवचनान्तं पदत्रयं लक्ष्यते । न क्रोधो न च मात्सर्यमितिवत् । तेन नञ्त्रयस्यान्वयः । कोऽयं प्रसादः । विमुक्तिदाद् गोप्यो यद् यम् प्रसादं प्रापुस् तत् तम् । अथवा विरिंच्यादयो देवा इमं भगवत्प्रसादं न लेभिर इति न किं तु लेभिरे । परं तु गोप्यो यं प्रसादं लेभिरे तं न लेभिर इति नञामन्वयो बोध्यः । गोपी प्रापेत्यपि पाठो दृश्यते । तत्पाठे लेभिरं स्यादुलूखलमित्यभिधानात् । लेभिरे उलूखले विषये । गोपी यद् यं प्रसादं प्राप तम् इमं विरिञ्चिर्न प्रापेत्यादि योज्यमित्यप्युपदिशन्ति । गोप्यो यत्तत्प्रापेति पाठे न कापि शङ्का । गोप्यो यं प्रसादं लेभिरे प्रापुस् तमिमं प्रसादं विरिञ्चिर्न प्राप । भवो न प्रापेत्यादियोजनोपपत्तेः ॥ २० ॥

विरोधोद्धारः

नेममिति । विरिञ्चादयस्त्रयो मिलित्वा कर्तृत्वेन योजिताश्चेत्त्रयाणां नकाराणामनन्वयः । तदर्थं पृथक् पृथगन्वये क्रियाबहुवचनायोगः । अतोऽर्थान्तरस्य वक्तव्यतायां केचिद् लेभिर इत्यस्य लेभिरं स्यादुलूखलमिति कोशबलेनोलूखलार्थकतां कल्पयित्वा लक्षणया बन्धनाधिकरणतां वदन्ति । तच्चिन्त्यम् । तत्कोशस्यैवानुपलब्धेः । अत इत्थं योजना । तत्रैवं पदच्छेदः । ना इमं विरिञ्चो ऽनभवः नश्रीर् अपि अङ्गसंश्रया प्रसादं लेभिरे गोपी यत् तत् प्राप विमुक्तिदाद् इति ॥ गोपी यशोदा । यद् यस्मात्कारणात् । इमं स्वसम्बन्धानानुकूल्यरूपं प्रसादम् । विमुक्तिदाद् यथायोग्यविशेषसहितमुक्तिदातुर्भगवतः सकाशात् प्राप तत् तस्मात्कारणाद् इमम् उक्तार्थं प्रसादम् । हरिप्रीतिसाधनत्वाभावात् । अपि गर्हितम् । अपि गर्हासमुच्चये इत्यभि-धानात् । ना सर्वप्रवर्तको मुख्यप्राणः । विरिञ्चः ब्रह्मा । अनभवः । अन चेष्टायामिति धातोः । मारुत्येव यतश्चेष्टेत्युक्तेश्च । अनः प्राणस् तत्पुत्रः रुद्रः । आभासकोऽस्य पवनः पवनस्य रुद्र इत्युक्तेः । श्रीर् भारती लक्ष्मीर्वा । अङ्गसंश्रयेति विशेषणं लिङ्गविपरिणामेन सर्वकर्तृषु योज्यम् । उद्यद्रविप्रकरसन्निभमच्युताङ्के स्वासीनमित्यादेः । ध्यायेन्निषण्णमजमच्युतमादिपद्मे इत्युक्तेः । सर्वात्मनोऽन्तःकरणं गिरित्र इत्युक्तेः । स्वभर्तुरङ्कस्थितामित्युक्त्या आश्रयते स्वभर्त्रङ्कमिति व्युत्पत्त्या च परंपरया भगवदाश्रितत्वात् । सरस्वती प्रादुरभूत्किलास्यत इत्युक्तेर्वा । श्रियो निवासो यस्योर इत्युक्तेश्च । एतेन लेभिरे बन्धनानुकूलीकरणेच्छाभावात् । न तु यशोदायाः सकाशात् । गुणहीन-त्वात् । तेषामादिसृष्टौ प्रथमोत्पन्नत्वात् । यत उक्तम् - ‘आदिसृष्टौ पूर्वजाये तेऽधिकाः सर्वदा गुणैः । अनाद्यनन्तकालेषु मुक्तावपि यथाक्रम’मिति निर्बन्धे । ‘कृपानिमित्ता या प्रीतिर्नीचभक्तेषु साऽधिका । आन्तरैव तु या प्रीतिः सा तूच्चेषु यथाक्रमम् । यथा कश्चित्स्वात्मानं प्रियापुत्रमथाऽपि वा । अतिहाय कृपायुक्तो भिक्षवेऽन्नं ददात्यपि । कदाचिदेव न पुनः स्वात्मादेः सार्वकालिकम् । योगक्षेमबहुत्वं च नित्यं स्वात्मादिषु स्फुटम् । एवमेव परेशस्य भक्तेषु श्रीयजादिषु ।’ इति प्रियविवेके च । अत एव भक्त्या भगवता स्वबन्धनाय कृतमप्यानुकूल्यं प्रियकारित्वाभावात्कृष्णवियोग-जन्यदुःखकारणं जातमिति भावः ॥ २० ॥

॥ इति श्रीमद्भागवतदशमस्कन्धपूर्वार्धव्याख्याने पाङ्घरी श्रीनिवासाचार्यकृते

विरोधोद्धारे दशमोऽध्यायः ॥ १०-१० ॥

नायं सुखाप्यो भगवान् देहिनां गोपिकासुतः ।

ज्ञानिनां चात्मपोतानां यथा भक्तिमतामिह ॥ २१ ॥

पदरत्नावली

निरन्तरनिरतिशयभक्तिप्रमदैव भगवत्कर्षणनिपुणेत्याशयेनाह नायमिति ॥ आत्मैव परमात्मैव पोतो नौर्येषां तेषां भक्तिमतां ज्ञानिनां यथा सुखाप्यः, न तथा देहिनां देहाभिमानवतां सुखाप्यः ॥ २१ ॥

सत्यधर्मीया

भक्तिरेवैनं गमयति भक्तिवशः पुरुष इति श्रुत्यर्थं वदन्नाह ॥ नेति ॥ आत्मपोतानां देहाभिमानिनां भगवान् गोपिकासुतः सुखाप्यो न ॥ २१ ॥

सुमनोरञ्जिनी

भक्तिरेवान्तरङ्गसाधनं भगवत्प्राप्तौ नान्यदित्याह ॥ नायमिति ॥ देहिनां संसारिणां षष्टी कर्तरि । अयं, सुखेन अनायासेन वैराग्यादिभक्त्यंतरसाधनमन्तरा आप्यः प्राप्यो न भवति । किन्तु आत्मैव पोतो येषां तेषाम् । विष्णुपादैकसंश्रयाणामिति यावत् । तेन भक्तिमतां तथा च ज्ञानिनामेवेति । यथा भक्त्यादिमताम् आप्यो न तथा साधनांतरेण सुखाप्य इति योजना

॥ २१ ॥

कृष्णस्तु गृहकृत्येषु व्यग्रायां मातरि प्रभुः ।

अद्राक्षीदर्जुनौ पूर्वं गुह्यकौ धनदात्मजौ ॥ २२ ॥

पदरत्नावली

पूर्वजन्मनि गुह्यकौ, अधुना नाम्ना अर्जुनौ ककुभवृक्षौ ॥ २२ ॥

सत्यधर्मीया

बद्ध इति तुः सूचयति । मातरि गृहकृत्येषु व्यग्रायां सत्यां पूर्वं धनदात्मजौ गुह्यकौ । इदानीमर्जुनौ अर्जुनः ककुभे पार्श्व इति विश्वः । ककुभवृक्षौ मत्तीत्यपभ्रष्टभाषा । अद्राक्षीत्

॥ २२ ॥

सुमनोरञ्जिनी

मातरि यशोदायां गृहकर्मसु व्यग्रायाम् आसक्तायाम् । पूर्वं पूर्वजन्मनि गुह्यकौ इदानीम् अर्जुनौ अर्जुनवृक्षरूपौ ॥ २२ ॥

पुरा नारदशापात् तौ वृक्षतां प्रापितौ मदात् ।

नलकूबरमणिग्रीवाविति ख्यातौ श्रियाऽन्वितौ ॥ २३ ॥

॥ इति श्रीमद्भागवते दशमस्कन्धपूर्वार्धे दशमोऽध्यायः ॥

पदरत्नावली

शापनिमित्तमाह मदादिति । मदहेतुमाह श्रियेति ॥ २३ ॥

॥ इति श्रीमन्महेन्द्रतीर्थपूज्यपादशिष्यविजयध्वजतीर्थभिक्षुकृतायां पदरत्नावल्यभिधायां श्रीमद्भागवतटीकायां दशमस्कन्धपूर्वार्धे दशमोऽध्यायः ॥

सत्यधर्मीया

तौ जातौ वृक्षौ कुत इत्यत आह ॥ पुरेति ॥ नलकूबरमणिग्रीवावित्याख्यातौ श्रियाऽन्वितौ मदात्पुरा नारदशापाद्वृक्षतामर्जुनवृक्षतां प्रापितौ । एकेनाक्षरेणेत्यादेरेकवर्णाधिक्यं न दोषाय ॥ २३ ॥

॥ इति श्रीभागवतटिप्पण्यां सत्यधर्मयतिकृतायां

दशमस्कन्धपूर्वार्धे दशमोऽध्यायः ॥ १०-१० ॥

सुमनोरञ्जिनी

कस्माद्वृक्षतां प्राप्तौ किं नामकौ पूर्वमित्यत आह ॥ पुरेति ॥ श्रियान्विता-विति मदोपपादकम् ॥ २३ ॥

**॥ इति श्रीमद्भागवतदशमस्कन्धपूर्वार्धव्याख्यायां **

(गूढकर्तृकायां) सुमनोरञ्जिन्यां दशमोऽध्यायः ॥ १०-१० ॥