०९ नवमोऽध्यायः

गर्गः पुरोहितो राजन् यदूनां सुमहायशाः

॥ अथ नवमोऽध्यायः ॥

श्रीशुक उवाच–

गर्गः पुरोहितो राजन् यदूनां सुमहायशाः ।

व्रजं जगाम नन्दस्य वसुदेवप्रचोदितः ॥ १ ॥

पदरत्नावली

तत्तज्जन्मसु तत्तद्योनिविहितं कर्म कर्तव्यमेवेति देवमानवशिक्षणार्थं हरेस्तत्तदवतारः । तद्विधिबोधनाय हरेः कर्म विधीयतेऽस्मिन्नध्याये ॥

सत्यधर्मीया

तत्तदवतारे तत्तत्कुलानुकूलकर्म कर्तव्यं दिविजमनुजशिक्षार्थमिति मतिर्गर्गादि-रचितसूचितं तत्समयेऽच्युतो न मेन इति शंसति ॥ गर्ग इत्यादीति ॥ वसुदेवप्रचोदितो गर्गो नन्दस्य व्रजं जगाम ॥ १ ॥

सुमनोरञ्जिनी

भक्तवत्सलो भगवान् यस्यानन्तनामत्वेऽपि गर्गकृतनामकरणः स्वस्मि-न्निरन्तरस्नेहार्द्रहृदययोर्नन्दयशोदयोः स्वविषयपरब्रह्मभावस्याविस्मरणाय यन्माहात्म्यान्तरमाविश्चकार तदेव मन्दानुजिघृक्षया राजव्याजेन शुकोक्तमनुवदत्यस्मिन्नध्याये । वसुदेवेन नामकरणादिसंस्कारार्थं प्रचोदितः प्रेरितः ॥ १ ॥

तं दृष्ट्वा परमप्रीतः प्रत्युत्थाय कृताञ्जलिः ।

आनर्चाधोक्षजधिया प्रणिपातपुरस्सरम् ॥ २ ॥

पदरत्नावली

आनर्च पूजयामास ॥ २ ॥

सत्यधर्मीया

आनर्चापूजयत् । अधोक्षजधिया सर्वसभाजनभाजनं जनार्दन इति मत्या प्रणिपातो दण्डवदवनौ पातो नमनमिति यावत् । तत्पूर्वकम् ॥ २ ॥

सुमनोरञ्जिनी

तं गर्गम् । नन्द इति शेषः । अधोक्षजधिया अधोक्षजस्य हरेरधिष्ठानत्व-बुद्ध्या । प्रणिपातः साष्टाङ्गप्रणामस् तत्पुरःसरम् । आनर्च पूजयामास ॥ २ ॥

सूपविष्टं कृतातिथ्यं गिरा सूनृतया मुनिम् ।

नन्दयित्वाऽब्रवीद् ब्रह्मन् पूर्णस्य करवाम किम् ॥ ३ ॥

पदरत्नावली

सूनृतया यथार्थमधुरया । पूर्णस्य कृतकृत्यस्य ॥ ३ ॥

सत्यधर्मीया

नन्दयित्वा सन्तोष्य । पूर्णस्यास्मत्कर्तव्यकर्मरहितस्याथापि किं करवामेति सूनृतया गिराऽब्रवीत् ॥ ३ ॥

सुमनोरञ्जिनी

सुखेन उपवष्टम् । कृतम् आतिथ्यम् अतिथिपूजनं यस्मै सः कृतातिथ्यः । कृतं स्वीकृतम् आतिथ्यं येनेति वा । सूनृतया यथार्थत्वे सति मधुरया । पूर्णस्य कृतकृत्यस्य । वयं किं करवाम न किमपि । अतो भवदागमनं नात्मार्थमिति भावः ॥ ३ ॥

महद्विचलनं नॄणां गृहिणां दीनचेतसाम् ।

निःश्रेयसाय भगवान् कल्पते नान्यथा क्वचित् ॥ ४ ॥

पदरत्नावली

महतां पुंसां विचलनं गमनं निःश्रेयसाय सर्वविधपुरुषार्थाय ॥ ४ ॥

सत्यधर्मीया

महतां विचलनं सञ्चारः । निःश्रेयसाय अचतुरनिपातः क्षेमायेह मोक्षाय च ॥ ४ ॥

सुमनोरञ्जिनी

किन्तु महतां पुंसां विचलनं संचरणम् । दीनचेतसां गृहिणाम् । निःश्रेयसाय कल्पते भवति ॥ ४ ॥

ज्योतिषामयनं साक्षाद् यत्तज्ज्ञानमतीन्द्रियम् ।

प्रणीतं भवता येन पुमान् वेद परावरम् ॥ ५ ॥

पदरत्नावली

ज्योतिषामयनं ग्रहाणां राशे राश्यन्तरगमनगोचरं ज्योतिश्शास्त्रम् । ज्ञायते अनेनेति ज्ञानम् । अतीन्द्रियम् अतीन्द्रियार्थम् । येन भवत्प्रणीतेन । परावरम् अतीतानागतविषयम्

॥ ५ ॥

सत्यधर्मीया

पुत्रस्योत्तरत्र बलाबले कथं कथय वर्तेतेतीप्सया तस्य तत्समयप्रणायकतां पुरस्कृत्य तं स्तौति ॥ ज्योतिषामिति ॥ येन त्वन्निर्मितेन पुमांस्तदधीती परावरं भूतभविष्यद्वेद तज्ज्योतिषां नक्षत्रादीनामयनमाश्रयीभूतमतीन्द्रियमतीन्द्रियार्थयुक्तं साक्षाज्ज्ञानं तत्साधनं शास्त्रं भवता प्रणीतं निर्मितम् ॥ ५ ॥

सुमनोरञ्जिनी

यत्, ज्योतिषां गृहराश्यादिज्योतिर्गणस्य अयनम् आश्रयः ज्योतिश्चक्रमिति यावत् । यद्वा अयनं वर्त्म, गतिरिति यावत् । तस्य ज्ञानं ज्ञायन्तेऽनेनेति ज्ञानसाधनं शास्त्रमित्यर्थः । कीदृशम् । अतीन्द्रियम् अतीन्द्रियार्थगोचरम् । येन भवता प्रणीतं स पुमान् त्वं भवान् परावरं वेद । सर्वज्ञोऽसीति भावः । येन भवत्प्रणीतशास्त्रेण परावरं कालविप्रकृष्टमप्रकृष्टं च वेद जानातीति तद्भवता प्रणीतमिति वा ॥ ५ ॥

त्वं हि ब्रह्मविदां श्रेष्ठः संस्कारान् कर्तुमर्हसि ।

बालयोरनयोर्नॄणां जन्मना ब्राह्मणो गुरुः ॥ ६ ॥

पदरत्नावली

संस्कारान् जातकर्मादीन् । संस्कारकर्ता मदन्यः किं न स्यादिति तत्राह नॄणामिति ॥ ६ ॥

सत्यधर्मीया

स त्वं ब्रह्मविदां श्रेष्ठोऽनयोर्बालयोः रामकृष्णयोः संस्काराञ्जातकर्मादीन् कर्तुमर्हसि । अहं कुत इत्यत आह । हि यतो नॄणां ब्राह्मणस्तज्जातिजो गुरुरुपदेष्टाऽतः कुर्विति

॥ ६ ॥

सुमनोरञ्जिनी

हि यस्मात् त्वम् । ब्रह्मविदां वेदविदाम् । संस्कारान् जातकर्मादीन् । त्वं त्वमेव कर्तुमर्हसि । कुतः । नॄणां मध्ये ब्राह्मणः । जन्मना उत्पत्यैव । गुरुः श्रेष्ठः । गुरुत्व-मौत्पत्तिकमेव नागन्तुकमिति भावः । यद्वा नॄणाम् अस्मदादीनाम् । जन्मना जन्मारभ्य । ब्राह्मण एव गुरुः संस्कारादिकर्ता अत इत्यर्थः ॥ ६ ॥

गर्ग उवाच–

यदूनामहमाचार्यः ख्यातश्च भुवि सर्वतः ।

सुतं मया संस्कृतं ते मन्यते देवकीसुतम् ॥ ७ ॥

कंसः पापमतिः सख्यं तव चानकदुन्दुभेः ।

देवक्या अष्टमो गर्भो न स्त्री भवितुमर्हति ॥ ८ ॥

इति सञ्चिन्तयन् श्रुत्वा देवकीदारिकावचः ।

अपि हन्ता गताशङ्कस्तर्हि तन्नोऽनयो महान् ॥ ९ ॥

पदरत्नावली

स्वस्य संस्कारकर्तृत्वे काञ्चिदनुपपत्तिं नन्दं प्रति गर्गो वक्तीत्याह शुकः गर्ग इति ॥ चशब्दो हिशब्दार्थः । योऽहं यदूनामाचार्यः पुरोहित इति सर्वतो भुवि विख्यातो हि । मया संस्कृतं सुतं कंसो मन्यते चेद् देवकीसुतमेव मन्यते ॥

कंसः हिंसाशीलः । कसि हिंसायामिति धातोः । अत एव पापमतिः । कथमयं कंसो मया संस्कृतं चेत् ते सुतं देवकीसुतं मन्यते इत्यत्र निमित्तमाह सख्यमिति ॥ तवानकदुन्दुभेश्च सख्यं यत् स जानाति अतोऽनयोः सुतविनिमयोऽभूदिति मन्यते । निमित्तान्तरं चाह देवकीदारिकेति ॥ देवकीकन्यायास् तव हन्ता क्वचिज्जात इति निश्चयकं वचः श्रुत्वा देवक्या अष्टमो गर्भो स्त्री भवितुं नार्हति पुमानेव भवेदिति सञ्चिन्तयन् गताशङ्को नष्टहननशङ्कः, अपगताशङ्को वा हन्ता भवेद् यदि तर्हि तत् तेन हननेन नो महाननयोऽनर्थो भवेदित्यर्थः । ज्योतिश्शास्त्रविचक्षणेन गर्गेणापि कृष्णहननशङ्काप्रदर्शनं लोकरीत्येत्यवसेयम् ॥ ७-९ ॥

दुर्घटभावदीपिका

यतः पापमतिः कंसो देवकीदारकीवचो देवकीकन्यायास्तव पूर्वशत्रुः क्वचिद्वर्तत इति श्रुत्वा देवक्या अष्टमे गर्भे स्त्री भवितुं नार्हतीति सदा सञ्चितयन् भवति । तवानकदुन्दुभेः सख्यं मन्यते च । यतश्चाहं यदूनामाचार्यः पुरोहित इति भुवि सर्वतः सर्वदेशेषु ख्यातोऽतो मया संस्तुतं ते सुतं मन्यते मन्येत । अनन्तरं गताशङ्कः सन् हन्ता भवेत्तर्हि तत्तेन हननेन नोऽस्माकं महाननर्थो भवेदिति ॥ ७-९ ॥

सत्यधर्मीया

तत्र गर्गो नायमनर्गलमार्ग इति काञ्चिदनुपपत्तिं सर्वजनीनां प्रदर्श्य तदुदितवर्त्मना तच्चक्र इव तत्स्वरूपं च न्यरूरुपन्नन्दं प्रतीत्याह कैश्चित् श्लोकैः ॥ गर्ग इति ॥ अहं यदूनामाचार्यः । नाप्रसिद्ध इति द्योतयति ख्यातश्च । सर्वतः सर्वस्यां भुवीति सर्वप्रकारेणेति वा सर्वैरिति वेति । मया संस्कृतं सुतं पापमतिः कंसो मन्यते चेज्ज्ञातवांश्चेद्देवकीसुतमेव मन्यते । कुत इत्यत आह । सख्यं तव चानकदुन्दुभेश्च यत्स मन्यते जानाति तत इति । देवकीदारि-कायास्तत्कुमारिकाया वचः श्रुत्वा देवक्या गर्भोऽष्टमः स्त्री भवितुं नार्हति पुमानेव भवेदिति सञ्चिन्तयन्गताशङ्को गतसंशयोऽत्रागत्य हन्ता भवेद्यर्हि तर्हि तन्नो महाननयोऽन्यायो भवेत् । बालयोरनयोरित्युक्तत्वेऽपि सुतमित्याद्युक्तिस्तस्याशङ्कास्पदत्वेनेति ज्ञेयम् । इदमदो वेति ज्योतिःसमयप्राज्यसाम्राज्यस्य गर्गस्यापि लोकरीतित इति ज्ञेयम् ॥ ७-९ ॥

सुमनोरञ्जिनी

एवमुक्तो गर्गः स्वाभिलभिषतमतिगौप्येन नामकरणकरणादि नन्दमुखेन वाचयितुमाह ॥ यदूनामिति ॥ चो यस्मादित्यर्थे । देवक्या अष्टमो गर्भो न स्त्री भवितुमर्हति अपि तु प्रायः पुमानेव स्यात् । स च क्वास्ते इति संचिन्तयन् अहोरात्रमालोचयानः कंसः, ते सुतं मया संस्कृतं मन्यते चेद् आनकदुन्दुभेस्तव च सख्यं सञ्चिन्तयन् स्मरन् ते सुतं देवकीसुतं देवक्याः प्रसूतं मन्यते । कुत एतत्सर्वम् । यतोऽहं यदूनां च यदूनामेवाचार्यः कुलपुरोहित इति भुवि सर्वतः सर्वजनेषु ख्यातो ऽत इत्यर्थः । जानातु कंसः किं तत इत्यत आह ॥ हन्तेति ॥ एवं जानन् पापमतिः कंसः गताशङ्कः संशयरहित एव सन् त्वां वसुदेवं च हन्ता । तर्हि तदा । तत् संस्कारकरणम् । महान् अनयो ऽन्यायो भवेत् । आगता प्ताप्रा शङ्काऽयमेव प्रायो मे मृत्युरिति संभावना यस्येति वा । तत्र निमित्तान्तरमप्यस्तीत्याह ॥ श्रुत्वेति ॥ देवक्या या दारिका कन्यका दुर्गा तस्या वचः ‘‘तव हन्ता क्वचिज्जात’’ इत्यादिरूपं वचनमपि श्रुत्वेति सम्बन्धः ॥ ७-९ ॥

नन्द उवाच–

अलक्षितेऽस्मिन् रहसि मामकैरपि गोव्रजे ।

कुरु द्विजातिसंस्कारं स्वस्तिवाचनपूर्वकम् ॥ १० ॥

पदरत्नावली

मामकैरप्यलक्षितेऽज्ञातेऽस्मिन् गोव्रजे । तत्रापि रहसि ॥ १० ॥

सत्यधर्मीया

उपायमपायापाये नन्दो वदति ॥ अलक्षित इति ॥ मामकैर्गोपैरप्यलक्षितेऽ-ज्ञाते । रहस्येकान्तेऽत्रैव गोव्रजे गवाशब्देन व्रजे तत्पदवाच्ये । व्रज इत्यनेनैव व्रजो गोष्ठाध्वेति विश्वाद्युक्तेरतिरिक्तं गोपदमिति निरस्तम् । गवां मार्गे तत्सद्म इति वा । व्रजो गोष्ठाध्ववृन्देष्विति विश्वः । अपि सम्भावनाविषयकगमनवानित्यपि गो व्रज इति वा । अपि मध्यं गृहमध्यङ्गं मतीति स वा सन् । अपि प्रश्नानुनययोः समयेऽन्तिकमध्ययोरिति विश्वः । अपिः पदार्थसम्भाव-नेत्यादिपाणिनीयस्मृतेः । द्विजातिसंस्कारान्क्षत्रियजातियोग्यान् । यथोक्तमाचार्यैः । चक्रे क्षत्रिययोग्यान्संस्कारानिति । द्वितीया जातिर्द्विजातिः क्षत्रिया जातिः । द्विशब्दस्य द्वितीयार्थकत्वं तु त्रिभागशेषामिति माघव्याख्यावसरे सङ्ख्याया वृत्तिविषये पूर्णार्थत्वमिति वार्तिकोक्तेरिति पेद्दंभट्टव्याख्यानाज्ज्ञेयम् । त्रिदशास्तु विराजते ॥ १० ॥

सुमनोरञ्जिनी

अस्मिन् गोव्रजे मामकैरप्यलक्षिते अज्ञाते । रहसि स्थलविशेषे । द्विजातेः क्षत्रियस्य विहितं संस्कारं कुर्वित्यन्वयः ॥ १० ॥

श्रीशुक उवाच–

एवं सम्प्रार्थितो विप्रः स्वचिकीर्षितमेव तत् ।

चकार नामकरणं गूढो रहसि बालयोः ॥ ११ ॥

सत्यधर्मीया

स्वचिकीर्षितं स्वेनैव कर्तव्यमित्यालोचितमेव तन्नन्दबोधितमिति स विप्रो गूढः स्वयं रहसि बालयोर्नामकरणं नामस्थापनोपयुक्तं कर्म चक्रे ॥ ११ ॥

सुमनोरञ्जिनी

वसुदेवचोदनया तदर्थमेवागतस्य स्वस्य तज् जातकर्मादिकरणं चिकीर्षितमेव कर्तुमिष्टमेव ॥ ११ ॥

अयं हि रोहिणीपुत्रो रमयन् सुहृदो गुणैः ।

आख्यास्यते राम इति बलाधिक्याद् बलं विदुः ।

यदूनामपृथग्भावात् सङ्कर्षणमुशन्त्युत ॥ १२ ॥

पदरत्नावली

नेदं साङ्केतिकं नाम किन्तु नितरामन्वर्थकमिति निरूपयति अयमित्या-दिना ॥ गुणैः सुहृदः शोभनहृदयान् रमयन्नयं रोहिणीपुत्रो राम इत्याख्यास्यते, जनैरिति शेषः । यदूनां मध्ये एनं सङ्कर्षणमुशन्ति इच्छन्ति । कुत इत्याह अपृथग्भावादिति । स्वकीयान् सङ्कृष्य एकत्र मेलनात् ॥ १२ ॥

दुर्घटभावदीपिका

रोहिणीपुत्रेण निमित्तेन यदूनामपृथग्भावादपृथक्त्वात् । एकविषयमिति मत्वेति यावत् । ज्ञानिनो रोहिणीपुत्रम् । उतशब्दश्चार्थे । सङ्कर्षणमुत सङ्कर्षणनामकं चोशन्तीच्छन्तीति । एतेनापृथक्त्वस्य यदुनिष्ठत्वेन सङ्कर्षणनिष्ठत्वाभावाद्यदूनामपृथग्भावात् सङ्कर्षणमुशन्तीति कथनमनुपपन्न-मिति दूषणमपास्तम् । यदुनिष्ठापृथक्त्वहेतुं रोहिणीपुत्रात्सङ्कर्षणवाच्यत्वे निमित्तमित्युच्यत इत्यभ्युप-गमात् ॥ १२ ॥

सत्यधर्मीया

अन्तर्निकेतं सङ्केतमात्रत इदं न नाम किन्तु समनुकृतार्थमिति निरूप्य विविच्य वक्ति ॥ अयमित्यादिना ॥ गुणैः सुहृदः शोभनमनस्कान्सतो रमयन्नित्ययं रोहिणीपुत्रो राम इत्याख्यास्यते जनैः । योऽयं रमयन्वर्ततेऽस्य राम इत्याख्येति योजना वा । त एव लोका बलाधिक्यादमुं बलं च विदुः । यदूनां मध्येऽमुं सङ्कर्षणमुशन्तीच्छन्ति । वश कान्तौ कान्तिरिच्छा । ग्रहिज्येति सम्प्रसारणम् । सङ्कर्षणशब्दं निर्वक्ति ॥ अपृथग्भावादिति ॥ सङ्कर्षयित्वैकत्र मेलयतीति भावः ॥ १२ ॥

सुमनोरञ्जिनी

नामकरणप्रकारमेवाह ॥ अयमिति ॥ अयं रोहिणीपुत्रो राम इति आख्यास्यते । आ सम्यक् व्यवह्रीयते । लोकैः । कुतः । यतोऽसौ सुहृदः सुमनस्कान् । गुणैः रमयन् सुखयन् । अनेन रमयतीति राम इत्यन्तर्णीतणिजन्तमिदमित्युक्तं भवति । बलाधिक्या-न्निमित्तात् । बलं बलशब्दवाच्यं विदुः । अनेन अर्शाद्यजन्तो बलशब्दः । असाधारण्येन व्यपदेशा भवन्तीति न्यायाद् बलाधिक्यं वक्तीत्युक्तं भवति । यदूनाम् । अपृथग्भावात् पृथक् बलदेवादन्यत्र विद्यमानो भावो मनः पृथग्भावः । तदभावो ऽपृथग्भावः । तस्मात् । यदूनां बलदेवादन्यत्र मनसोऽभावान्निमित्तादित्यर्थः। यदूनामत्यन्तं प्रियत्वादिति यावत् । संकर्षणमुत संकर्षणमपि । उशन्ति इच्छन्ति । अनेन सर्वेषां मनांसि, सं सम्यक् कर्षतीति संकर्षण इति व्युत्पत्तिः सूचिता भवति । यद्वा यदूनां मध्ये । आद् अकारवाच्याद् विष्णोस् तदाज्ञयेति यावत् । पृथक् पूर्वगर्भादन्यत्र भावान्निमित्तात्संकर्षणमुशन्तीत्यर्थः । पूर्वं कंसोपद्रवात् पृथग्भूतानां देशान्तरे तत्र तत्र स्थितानां यदूनाम् अपृथग्भावाद् एकीकरणान्निमित्तादित्यर्थ इत्यप्याहुः ॥ १२ ॥

आसन् वर्णास्त्रयो ह्यस्य गृह्णतोऽनुयुगं तनूः ।

शुक्लो रक्तस्तथा पीत इदानीं कृष्णतां गतः ॥ १३ ॥

पदरत्नावली

वर्णाः शुक्लाद्याः । अनुयुगं युगानुसारेण तनूर् वपूंषि गृह्णतः स्वीकुर्वतः

॥ १३ ॥

सत्यधर्मीया

इति नामत्रयं बलस्योक्त्वाऽनन्तनाम्नो वर्णादिवर्णनपूर्वकं नामनिरुक्तिपूर्वकं वक्ति ॥ आसन्नित्यादिना ॥ अनुयुगं युगानुसारेण तनूः शरीराणि गृह्णतः स्वीकुर्वतोऽस्य त्रयोऽस्य वर्णा आसन् । शुक्लो रक्तस्तथा पीत इति त्रयः । गुणे शुक्लादयः पुंसीत्यमरः । इदानीं कृष्णतां श्यामतां गतोऽर्थात्कृष्णवर्ण इति कृष्णनामेति सूचितमनेनेति ज्ञेयम् ॥ १३ ॥

सुमनोरञ्जिनी

अनुयुगं प्रतियुगम् । तनूर् गृह्णतो ऽस्य कृष्णस्य शुक्लो रक्तः पीतश्चेति त्रयो वर्णाः पूर्वं गृहीता आसन् । हयग्रीवादिरूपेण शुक्लः । जामदग्न्यादिना रक्तः । नृसिंहादिना पीतवर्णो गृहीत इति विवेकः । इदानीं तु कृष्णतां नीलनीरदश्यामतां गतः । अतः कृष्ण इति एनं प्रचक्षते ॥ १३ ॥

प्रागयं वसुदेवस्य क्वचिज्जातस्तवात्मजः ।

वासुदेव इति श्रीमानभिज्ञाः सम्प्रचक्षते ॥ १४ ॥

पदरत्नावली

तवात्मजोऽयं वसुदेवस्य प्राक् क्वचिन्मधुरायां कारागारे जातः । अभिज्ञा वैयाकरणा वसुदेवस्यापत्यमिति व्युत्पत्या वासुदेव इति सम्प्रचक्षते । अभिज्ञा महामतयस्तु ‘वानात् सूतेर्देवनाद् वासुदेवो वासाद् द्युतेश्छादनात् क्रीडया च । बलादसुत्वाद् दातृतो वर्तनाच्च तं वासुदेवं प्रवदन्ति वेदाः’ इति सौकरायणश्रुतेः, ‘सर्वत्रासौ समस्तं च वसत्यत्रेति वै यतः । ततः स वासुदेवेति विद्वद्भिः परिकीर्तितः’ इति विष्णुपुराणादिवचनाच्च वासुदेव इति सम्प्रचक्षते । समग्रा श्रीरैश्वर्यमस्यास्तीति श्रीमान् ॥ १४ ॥

सत्यधर्मीया

अयं वसुदेवसुत इति प्रकाश्योक्तौ दुश्चित्तो भवेन्नन्द इति किञ्चिदाच्छाद्य वक्ति ॥ प्रागिति ॥ वसुदेवस्य प्राक् क्वचित्तवात्मजो जातः । ततो वसुदेवस्यापत्यमिति व्युत्पत्त्या वासुदेव इत्यभिज्ञा वैयाकरणाः सम्प्रचक्षते । अभिज्ञा महामतयस्तु गीताभाष्याद्युदाहृतबाभ्रव्यशाखा- द्यभिहितकारणेन वासुदेव इति सम्प्रचक्षत इत्यान्तरङ्गिकोऽर्थो ज्ञेयः । विस्तृतं स्कन्धान्तर-विवरणेऽस्माभिरनुसन्धेयम् ॥ १४ ॥

सुमनोरञ्जिनी

क्वचिन् मधुरायाम् । वसुदेवस्य सकाशात् । अतः श्रीमानयं वासुदेव इति सम्प्रचक्षते । अभिज्ञा वसुदेवजातत्वाभिज्ञाः ॥ १४ ॥

बहूनि सन्ति नामानि रूपाणि च सुतस्य ते ।

गुणकर्मानुरूपाणि तान्यहं वेद नो जनाः ॥ १५ ॥

पदरत्नावली

नामानि गुणानुगुणत्वादिना विशिनष्टि गुणकर्मेति ॥ महासुरवृन्दमहारण्यस्य प्रलयाग्निकल्पत्वात् कृष्णः । ‘कृष्णो नीलेऽनले व्यासे’ इत्यभिधानम् । तथा ‘कृषिर्भूवाचकः शब्दो णश्च निर्वृतिवाचकः । तयोरैक्यं परं ब्रह्म कृष्ण इत्यभिधीयते’ इति भारतवचनात्, ‘यतः कर्षसि देवेश नियम्य सकलं जगत् । अतो वदन्ति मुनयः कृष्णं त्वां ब्रह्मवादिनः ॥’ इति महाकौर्मवचनादिना गुणानुगुणानि कृष्णादिनामानि ज्ञेयानि । मधुहननादिकर्मानुगुणानि मधुसूदनादीनि । तानि नामानि साकल्येनाहं नो वेद पामरजनाश्च नो विदुरित्यर्थः ॥ १५ ॥

सत्यधर्मीया

तर्हि मम सुतनामानि पञ्चषाणि वद वर्तन्ते चेदित्यत आह ॥ बहूनीति ॥ गुणकर्मानुरूपाणि तान्यहं वेद जनाः पामरा न विदुः । मध्ये नो इति वदन् स्वस्यापि साकल्यतो वैकल्यं ज्ञानस्य सूचयति । तानि च नामानि गुणानुगुणानि कृष्णादीनि मधुसूदनादीनि क्रियानुगुणानि । इदमपि स्थूलदृश्वविवक्षयाऽपि सङ्कीर्णानीति मन्तव्यम् । आधास्यदकरिष्यदाधास्यति वा । भाविभावं कथयति ॥ एष इति ॥ अञ्जः सम्यक् पुरा पृथ्ववतारे दस्युपीडिताः साधवोऽराजके तत्पितृमरणानन्तरमरक्षमाणाः समेधिता अभिवृद्धा सन्तो दस्यून् जिग्युः । नरनारायणरूपेणेति वा । यथोक्तमुद्योगपर्वाणि– ‘ब्रह्मोवाच । यावेतौ पृथिवीं द्यां च भासतौ यौ तपस्विनौ । नरनारायणावेता’-वित्यारभ्य–

‘‘नारायणस्तथैवात्र भूयः सोऽन्याञ्जघान ह ।

वासुदेवार्जुनौ वीरौ समवेतौ महारथौ ।

नरनारायणौ देवौ पूर्वदेवाविति श्रुतिः ।

अजेयौ मानुषे लोके सेन्द्रैरपि सुरासुरैः ।

एष नारायणः कृष्णः’’

इत्यन्तेन । एतस्मिन्कृष्णे ये महाभागाः प्रीतिं कुर्वन्त्येतानरयो नाभिभवन्ति । प्रकारान्तरेण निदर्शनमाचक्षाण आह ॥ असुरा विष्णुपक्षान्देवानिवेति ॥ १५-१८ ॥

सुमनोरञ्जिनी

न केवलं नामद्वयं किं तु अनन्तान्यस्य नामानि रूपाणि च । अतो भगवान्हरिरवतीर्ण इति जानीहीत्याशयवानाह ॥ बहूनीति ॥ बहूनि अनन्तानि । कीदृशानि नामानि । गुणकर्मानुरूपाणि । गुणकर्माण्यनुरूपयन्ति ज्ञापयन्तीति तथोक्तानि । तथा च महायोगवृत्या गुणकर्माभिधायीन्येव । न देवदत्तादिपदवत्साङ्केतिकानीति भावः । तान्यहमपि नो वेद किम्वन्ये जना इति ॥ १५ ॥

एष वः श्रेय आधास्यद् गोपगोकुलनन्दनः ।

अनेन सर्वदुर्गाणि यूयमञ्जस्तरिष्यथ ॥ १६ ॥

पदरत्नावली

यदि यूयमभक्ष्यन् तर्हि युष्माकं श्रेय आधास्यद् अकरिष्यद् आधास्यतीति वा । अञ्जः सम्यक् ॥ १६ ॥

सुमनोरञ्जिनी

श्रेय आधास्यत् कुर्वन् स चासौ गोपगोकुलयोर्नन्दन आनन्दनः । आधास्यद् आधास्यतीति वा । उत्तरत्राप्ययमेव भवच्छे्रयो विधास्यतीत्याह ॥ अनेनेति ॥ १६ ॥

पुराऽनेन व्रजपते साधवो दस्युपीडिताः ।

अराजकेऽरक्ष्यमाणा जिग्युर्दस्यून् समेधिताः ॥ १७ ॥

पदरत्नावली

पुरा पृथ्ववतारे । वेनराजे मृते सति अराजके राष्टे्र अरक्ष्यमाणा दस्युपीडिता ये साधवस्तेऽनेन त्वत्पुत्रेण समेधिताः सन्तो दस्यून् जिग्युः ॥ १७ ॥

सुमनोरञ्जिनी

कुतोऽस्मान् रक्षेदित्यतो भक्तानुकंपितस्य भगवतस्तस्य स्वभाव इत्याह ॥ पुरेति ॥ हे व्रजपते अत्र रक्ष्यमाणा अरक्ष्यमाणा इति द्वेधापि पदविभागोऽभिप्रेतः । पुरा पृथ्ववतारे । अराजके राष्ट्रे । अरक्ष्यमाणा दस्युपीडिताः साधवोऽनेन पृथुनाम्नाऽवतीर्णेन रक्ष्यमाणाः सन्तः समेधिता अभिवृद्धा दस्यून् जिग्युरिति ॥ १७ ॥

य एतस्मिन् महाभागाः प्रीतिं कुर्वन्ति मानवाः ।

नारयोऽभिभवन्त्येतान् विष्णुपक्षानिवासुराः ॥ १८ ॥

पदरत्नावली

विष्णुपक्षान् विष्णुसहायान् देवान् । ‘पक्षः पार्श्वगरुत्साध्यसहायबलभित्तिषु’ इति यादवः ॥ १८ ॥

सुमनोरञ्जिनी

ये प्रीतिं भक्तिं कुर्वन्ति । एतान् अरयो नाभिभवन्ति । विष्णुपक्षान् विष्णुः पक्षः सहायो येषां तान् ॥ १८ ॥

तस्मान्नन्दात्मजोऽयं ते नारायणसमो गुणैः ॥ १९ ॥

पदरत्नावली

नारायणसमस् तत्स्वरूपत्वात् ॥ १९ ॥

सत्यधर्मीया

निगमयन्नवगमयति ॥ तस्मादिति ॥ नारायणसम इति नारायण एवेत्यर्थः

॥ १९ ॥

सुमनोरञ्जिनी

हे नन्द गुणैः, अनुभावेन सामर्थ्येन । नारायणसमः । गगनं गगनाकार-मिति वादभेदेऽपि सदृशव्यवहारः । अन्यस्य सदृशस्याभावाद् आत्मानं स्वम् । आशिषाम् । षष्ठी तृतीयार्थे । आशीर्भिः पूर्णं मेने ॥ १९,२० ॥

श्रिया कीर्त्याऽनुभावेन गोपायस्व समाहितः ।

इत्यात्मानं समादिश्य गर्गे च स्वगृहं गते ।

नन्दः प्रमुदितो मेने आत्मानं पूर्णमाशिषाम् ॥ २० ॥

पदरत्नावली

आत्मानं नन्दम् । आत्मानं स्वम् ॥ २० ॥

सत्यधर्मीया

गुणैरित्युक्तं विशदयति ॥ श्रियेति ॥ कीर्त्या श्रियाऽनुभावेनेत्यादि गुणैर्नारायणसम इत्यन्वयः । समाहितस्त्वं, समे सर्वे कंसादयोऽहिता यस्य स तं गोपायस्व । समाहित इति छेदः । स्वैः सह समाहितो रक्षय समाहितेन साकं वर्तत इति स त्वम् । आत्मानं स्वमित्यादिश्याज्ञाप्य गर्गे स्वगृहं स्वाश्रमं गते सति नन्दः प्रमुदितः सन् आत्मानं स्वमाशिषां पूर्णं मेने व्यजानत् । एवं मेने माया इनो मेन स्वस्मिन्स्वगृहं गते सत्यात्मानमाशिषां पूर्णं पूर्णमनोरथं मेन इत्यावृत्त्याऽन्वयो वा ॥ २० ॥

कालेन व्रजताऽल्पेन गोकुले रामकेशवौ ।

जानुभ्यां सह पाणिभ्यां १रङ्गमाणौ विचेरतुः ॥ २१ ॥

पदरत्नावली

व्रजता गच्छता । रङ्गमाणौ सरीसृपमाणौ, चेष्टमानौ वा ॥ २१ ॥

सत्यधर्मीया

व्रजतैवं गच्छताऽल्पेन कालेन रामकेशवौ जानुभ्यां पाणिभ्यां सहेति यथायथमन्वयि । रङ्गमाणौ गच्छन्तौ विचेरतुः । रिङ्गमाणौ रङ्गमाणौ रिङ्खमाणावित्यपि पठन्ति । अर्थः सर्वत्र समः ॥ २१ ॥

सुमनोरञ्जिनी

व्रजता गच्छता अल्पेन कालेन । अल्पे काले गते सतीत्यर्थः । रङ्गमाणौ रिङ्खणं कुर्वन्तौ ॥ २१ ॥

तावङ्घ्रियुग्ममनुकृष्य सरीसृपन्तौ घोषप्रघोषरुचिरव्रजकर्दमेषु ।

तन्नादहृष्टमनसावनुसृत्य लोकं मुग्धप्रभीतवदुपेयतुरन्ति मात्रोः ॥ २२ ॥

पदरत्नावली

सरीसृपन्तौ पुनः पुनः भृशं सर्पन्तौ । घोषाणां किङ्किणीनां प्रघोषः प्रकृष्टनिनादस्तेन रुचिरः, स चासौ व्रजश्च तस्य कर्दमाः पङ्कास्तेषु । ‘आभीरपल्लीकिङ्किण्योर्घोषो गोपालशब्दयोः’ इति वचनात् । तन्नादेन किङ्किणीस्वरेण हृष्टं ययोस्तौ लोकं मन्दजनमनुसृत्य विडम्ब्य मुग्धप्रभीतवन् मुग्धाविव अतिभीताविव च मात्रो रोहिणीयशोदयोर् अन्ति अन्तिकमुपेयतुः प्राप्तवन्तौ ॥ २२ ॥

सत्यधर्मीया

तौ रामकृष्णावङ्घ्रियुग्मं पादद्वन्द्वमनुकृष्य सरीसृपन्तावतिशयेन पुनः पुनः प्रसर्पन्तौ । घोषाणां किङ्किणीनां प्रघोषः शब्दविशेषस्तेन रुचिरो यो व्रजस्तस्य कर्दमाः पङ्कास्तेषु । तेषां नादस्तेन हृष्टं तुष्टं मनो ययोस्तौ । लोकं जनमनुसृत्य मुग्धौ मनोहरौ मूर्खौ वा प्रभीतावतिभीतौ ताविव प्रभीतवत्ताविव मात्रोः रोहिणीयशोदयोरन्ति अन्तिकमुपेयतुः । आभीरपल्लीकिङ्किण्योर्घोषो गोपालशब्दयोरिति वचनात् ॥ २२ ॥

सुमनोरञ्जिनी

तद्रिङ्खणं स्वभावोक्त्या वर्णयति ॥ तौ रामकृष्णौ । अङ्घ्रियुग्मम् अनुकृष्य कर्षयित्वा । सरीसृपन्तौ संचरन्तौ । घोषाणां किंकिणीनां प्रकृष्टेन घोषेण शब्देन रुचिरो यो व्रजस् तस्य कर्दमेषु । आभीरपल्लीकिंकिण्योर्घोषो गोपालशब्दयोरिति वचनात् । तन्नादेन किंकिणीनादेन हृष्टमनसौ । लोके बालानां किञ्चिद्दूरं गत्वा तत्र कमपि दृष्ट्वा भयेन पुनर्मातुः समीपम् आगमनं दृष्टं तथा लोकम् अनुसृत्य विडम्ब्य । यद्वा कमपि गच्छन्तं लोकम् अनुसृत्य गत्वा । मुग्धप्रभीतवन् मोहाद्भीतवत् । मात्रोर् यशोदारोहिण्योर् अन्ति अन्तिके उपेयतुर् उपजग्मतुर् इति पदरत्नावल्याम्

॥ २२ ॥

**तन्मातरौ निजसुतौ घृणया स्रवन्त्यौ **

पङ्काङ्गरागरुचिरावुपगुह्य१ दोर्भ्याम् ।

दत्वा स्तनं प्रपिबतोः स्म मुखं निरीक्ष्य

मुग्धस्मिताल्पदशनं ययतुः प्रमोदम् ॥ २३ ॥

पदरत्नावली

घृणया दयया स्तन्यं स्रवन्त्यौ । पङ्क एवाङ्गरागश्चन्दनं तेन रुचिरौ दीप्तिमन्तौ । मुग्धं सुन्दरं स्मितं मन्दहासो ऽल्पदशना अणुतरदन्ताश्च यस्मिंस्तन्मुखं निरीक्ष्य, स्म संस्मृत्य, सुताचरितबहुलविलासानिति शेषः । प्रकृष्टमोदं ययतुः । ‘स्म पादपूरणेऽतीते स्मरणे च’ इति यादवः ॥ २३ ॥

सत्यधर्मीया

तन्मातरौ रोहिणीयशोदे । घृणया स्रवन्त्यौ करुणात्मकस्रवणीयरसोपेते श्चोतत्करुणारससमेते इति यावत् । पङ्क एवाङ्गरागो मलयजस्तेन रुचिरौ मनोहरौ । निजसुतौ स्वतनयौ । एकैकस्य विवक्षया दोर्भ्यामित्युक्तिः । प्रायकद्विभुजत्वाभिप्रायेण वा । स्तनौ दधानाः परिवव्रुरङ्गना इत्यादिवत् । उपगुह्यालिङ्ग्य स्तनं दत्वा । तदपि शब्दपूर्वकं चेद्भीतौ तौ जायेतामित्यतः कुचमित्यवचनाद्दत्वा स्तनमित्येकसरण्योदाहरणादस्तनमशब्दं यथा भवति तथेत्यपि योजना ज्ञेयेत्यसूचयदिति ज्ञेयम् । प्रपिबतोः । मुग्धस्मितं मनोहरेषद्धसितं यस्य तच्चाल्पा दशना अङ्कूरणोपेता इत्यणवो दशना यस्य तच्च तन्मुखं निरीक्ष्य स्म पूर्वकृतं स्मरन्त्यौ च । स्म पादपूरणेऽतीते स्मरणे चेति यादवः । प्रमोदं ययतुर् उपगृह्येति सङ्ग्राह्यः पाठः । उपगुह्येति पाठे पङ्कसङ्कलितकलेवरोपगूहने केवलप्रेमपारवश्यं द्योत्यत इत्यर्थविशेषलाभो ज्ञेयः ॥ २३ ॥

सुमनोरञ्जिनी

तन्मातरौ यशोदारोहिण्यौ । घृणया दयया स्रवन्त्यौ स्तन्यं स्रवन्त्यौ । निजसुतौ अनुस्रवंत्यौ अनुसृत्य गच्छन्त्याविति वा । पङ्केन अङ्गरागेण रुचिरौ निजसुतौ । दौर्भ्याम् उपगुह्य आलिङ्ग्य स्तनं दत्वा । प्रपिबतोः सुतयोः प्रत्येकं मुखं निरीक्ष्य । प्रमोदं ययतुः । कीदृशं मुखम् । मुग्धं मन्दं स्मितं यस्मिन् । तच् च तत्, अल्पा दशना अणुतरदन्ता यस्मिन् तथाविधम् ॥ २३ ॥

यर्ह्यागतातिरमणीयकुमारलीला-

वन्तर्व्रजे तदबलाः प्रगृहीतपुच्छैः ।

वत्सैरितस्तत उभावनुकृष्यमाणौ

प्रेक्ष्यन्त्य उत्स्मृतगृहा जगृहुर्हसन्त्यः ॥ २४ ॥

पदरत्नावली

अतिरमणीयाः कुमारलीला बालक्रीडा ययोस्तौ तथा तौ यर्हि अन्तर्व्रजे व्रजमध्ये आगता आगतौ । ‘द्वा सुपर्णा सयुजा’ इतिवद् आत्वम् । तदबला व्रजयोषितः प्रगृहीतं पुच्छं येषां तैर् वत्सैर्गोवत्सैः । तदा प्रेक्षन्त्य उत्स्मृतगृहा विस्मृतगृहव्यापाराः ॥ २४ ॥

सत्यधर्मीया

यर्हि यदाऽऽगताः सद्यः प्राप्ता अतिरमणीयाः कुमारलीला बालक्रीडा ययोस्तौ । आगतानां जनानामतिरमणीयाः कुमारलीला ययोरिति वा । व्रजे गोष्ठे । तदबला व्रजयोषितः । प्रगृहीतं पुच्छं येषां तैर्वत्सैर्गोवत्सैरितस्तत उभावनुकृष्यमाणौ प्रेक्षन्त्यः प्रेक्षमाणा उत्स्मृतमुद्गतस्मरणं गृहं यासां ता विस्मृतस्वगृहाः सत्यो ऽन्तर्हसन्त्यश्च जगृहुर्गृहीतवत्यः । कुलललनानामन्तर्हासः परमधर्म इति तथा चक्रुः ॥ २४ ॥

सुमनोरञ्जिनी

यर्हि यदा । अन्तर्व्रजे व्रजस्यान्तः । आगतौ च तौ अत्यन्तं रमणीया कुमारलीला बालक्रीडा ययोस्तौ तथाभूतौ जातौ । आगता आगतौ द्वा सुपर्णेतिवदिति पदरत्ना-वल्याम् । तत् तदा । प्रगृहीतानि पुच्छानि येषां तैर् वत्सैर् इतस्ततो विकृष्यमाणौ तौ । प्रेक्षन्त्योऽ-बलाः स्त्रियः । उत्स्मृतगृहा विस्मृतगृहव्यापाराः सत्यो हसन्त्यो जहृषुर् हृष्टा बभूवुः ॥२४॥

शृङ्ग्यग्निदंष्ट्य्रहिजलद्विजकण्टकेभ्यः

क्रीडापरावतिचलौ१ स्वसुतौ निषेद्धुम् ।

गृह्याणि कर्तुमपि यत्र न तज्जनन्यौ

शेकात आपतुरलं मनसोऽनवस्थाम् ॥ २५ ॥

पदरत्नावली

शृङ्गिणो गवादयः । दंष्ट्रिणो वानरप्रभृतयः । द्विजाः शुकादयः । गृह्याणि गृहकर्माणि । अनवस्थां चाञ्चल्यम् । नानालीलावलोकनसौख्यमलमापतुरिति यावत् ॥ २५ ॥

सत्यधर्मीया

शृृङ्गिणो गोमहिष्यादयोऽग्निर्दंष्ट्रिणः सारमेयादयोऽहयो द्विजाः पक्षिणो जालकं च कण्टकाश्च तेभ्यः क्रीडापरौ स्वसुतावतिबलौ निषेद्धुम् । गृह्याणि गृहकर्माण्यपि कर्तुं यत्र यदा तज्जनन्यौ न शेकाते तदा मनसोऽनवस्थां चाञ्चल्यमलमवापतुः । धार्यौ कुमारौ वा कार्यं गृहकर्मेति भ्रान्ते इति भावः । शेकात आपतुरित्यत्र मणीवादिकार्यं ज्ञेयम् । अनेन च बालयोरेव प्रगृह्यता नात्रेति ध्वनयति । अतिबलाविति पाठेऽपि बल परिवर्तन इति स्मरणादतिचलावित्येवार्थः । शृृङ्गी वत्सासुरोऽग्निर्दवानलो दंष्ट्री केशी अहिः कालियो जलं यामुनमिन्द्रवृष्टं वा । द्विजो बककण्टकाश्च क्षुद्रशत्रवश्च तैरिति । भाविनं व्यर्थीभवन्तमनर्थं ग्रन्थकृत्कटाक्षयतीति मन्तव्यम् । कण्टकः क्षुद्रशत्रौ चेति विश्वः ॥ २५ ॥

सुमनोरञ्जिनी

शृृङ्गिणो गवादयः । दंष्ट्रिणः सारमेयादयः । द्विजा गृध्रादयः । तेभ्यः भयशङ्किते तज्जनन्यौ । अतिचलौ अत्यन्तं चपलौ । स्वसुतौ । क्रीडायाः सकाशान् निषेद्धुम् । गृह्याणि गृहकर्माण्यपि कर्तुं तज्जनन्यौ यदा न शेकाते तदा अलं मनसोऽनवस्थां व्याकुलताम् आपतुः

॥ २५ ॥

कालेनाल्पेन राजर्षे रामः कृष्णश्च गोकुले ।

अघृष्टजानुभिः पद्भिर्विचक्रमतुरञ्जसा ॥ २६ ॥

पदरत्नावली

न घृष्टानि पृथ्वीघर्षणमनाप्तानि जानूनि चत्वारि येषां तैः पद्भिरञ्जसा विचक्रतुः पादविक्षेपं चक्रतुः ॥ २६ ॥

सत्यधर्मीया

अघृष्टजानुभिर्न घृष्टानि जानूनि चत्वारि येषां तैः पद्भिरञ्जसा विचक्रमतुः । अघृष्टजानुभिः कैश्चिद्वयस्यैरिति वा ॥ २६ ॥

सुमनोरञ्जिनी

न घृष्टानि जानूनि येषां तैः पद्भिः पादैर् अंजसा विचक्रमतुः पादविक्षेपं चक्रतुरित्यर्थः ॥ २६ ॥

ततस्तु भगवान् कृष्णो वयस्यैर्व्रजबालकैः ।

सहरामो व्रजस्त्रीणां १चिक्रीडे जनयन् मुदम् ॥ २७ ॥

सत्यधर्मीया

व्रजस्त्रीणां मुदं जनयंश्चिक्रीडे चिक्रीड । क्वचित्तथैव पाठः । वृतानतिवृतेः स सुन्दरः ॥ २७ ॥

सुमनोरञ्जिनी

वयस्यैः सवयस्कैः । व्रजस्त्रीणाम् । मुदं सन्तोषम् । चिक्रीडे क्रीडां चक्रे

॥ २७ ॥

कृष्णस्य रुचिरं गोप्योऽदीनकौमारचापलम् ।

शृण्वन्त्याः किल तन्मातुरिति होचुः समागताः ॥ २८ ॥

पदरत्नावली

रुचिरं च तददीनम् उदारं च तत् कुमारभावोचितं चापलं चपलत्वं यासु तास्तथा । तन्मातुः शृण्वन्त्याः सत्याः समागता गप्य इति वक्ष्यमाणप्रकारेणोचुः ॥ २८ ॥

सत्यधर्मीया

कृष्णस्य गोप्यो रुचिरं वीक्ष्य । कौमारचापलमिति पाङ्क्तः पाठः । रुचिरादीन-कौमारचापला इति पाठे रुचिरमदीनकौमारचापलं यासु ता इति ज्ञाततत्करा इति गोपीविशेषणम् । समागता मिलिता इति वक्ष्यमाणप्रकारेण । मातुः शृृण्वन्त्याः । जनन्या इत्यनुक्त्वोक्त्वा मातुरिति ज्ञातुः कृष्णस्य शृृण्वतः । उपसर्गाणां धातुलीनद्योतकतापक्षे मातुर्निर्मातुरिति वाऽर्थमसूचयदिति मन्तव्यम् ॥ २८ ॥

सुमनोरञ्जिनी

गोप्यः कृष्णस्य रुचिरा अदीना उत्कृष्टा याः कौमारा बालक्रीडास् ताभिश् चापलं मनोव्याकुलत्वं यासां तास् तथाविधाः सत्यः । यद्वा रुचिरं, अदीनं, कुमारभावोचितं चापलं चपलत्वं यासु ताः । क्रीडा इति शेषः । शृृण्वंत्यास्तस्य कृष्णस्य मातुः पुरतः समागताः । इति वक्ष्यमाणप्रकारेण ऊचुर् इति सम्बन्धः ॥ २८ ॥

वत्सान् मुञ्चन् २क्वचिदसमयान् क्रोशसञ्जातहासः

स्तेयं स्वाद्वत्त्यथ दधि पयः कल्पितैः स्तेययोगैः ।

मर्कं भोक्ष्यन् विभजति स चेन्नास्ति भाण्डं भिनत्ति

द्रव्यालाभे सुभृशकुपितो यात्युपक्रोश्य तोकान् ॥ २९ ॥

पदरत्नावली

असमयान् अप्राप्तदोहनवेलान् । अस्मदादीनां क्रोशेन सञ्जातो हासो यस्य स तथा । अथ कदाचित् स्वेन कल्पितैः स्तेययोगैश् चौर्योपायैः । स्तेयं चौर्यापन्नं दधि पयश्च स्वादु यथा तथाऽत्ति पिबति च । मर्कं बालं मार्जारं वानरं वा भोक्ष्यन् भोजयिष्यन् विभजयति विभज्य ददाति । स मार्जारादिर्नास्ति चेन्नवनीतादिभाण्डम् अस्मत्खेदेन मोदनार्थं भिनत्ति । द्रव्यालाभे दध्यादिद्रव्याप्राप्तौ सुभृशकुपितः सन् तोकान् बालकान् अनुक्रोश्य रोदयित्वा याति । ‘मर्को मनसि वायौ च तोके मार्जारकीशयोः’ इति यादवः ॥ २९ ॥

सत्यधर्मीया

असमये असमयानिति सरलौ पाठौ । असमयान्न विद्यते समयो दोहन-भ्रामणादियोग्यो येषां तान् । उक्तैतद्विकले लवे । वत्सांस्तर्णकान्मुञ्चन् । क्वचित् क्रोशादस्माभिः कृतादाक्रोशात्सञ्जातो हासो यस्य सः । अथ क्वचित्कल्पितैः स्तेययोगैश्चौर्योपायैरागतं स्तेयं दधि च पयः स्वादु यथा तथाऽत्ति । स्तैन्यं चौर्ये स्तेयं तद्धनमित्यमरः । मर्कं मर्कटं मार्जारं बालकं वा । मर्को मनसि वायौ च तोके मार्जारकीशयोरिति यादवः । भोक्ष्यन्भोजयिष्यन्विभजति विभज्य ददाति । स मर्कटादिर्नास्ति चेद्भाण्डं लोकावलोकनतः स्वतृप्त्यनन्तरं पात्रं भिनत्ति । द्रव्यालाभे नवनीताद्यलाभे सुभृशं कुपितः सन् तोकान्बालकाननुक्रोश्य रोदयित्वा याति । नास्ति चेन्नवनीतादीति व्याख्याने द्रव्यालाभ इति न वक्तव्यमिति, स इति मर्कपरामर्शकमिति सरलपन्थाः । मर्कमित्येकवचनान्तपाठः स चेदित्यानुकूल्येन चेतोहरः । बहुवचनान्तपाठे स इति जात्येकवचनमिति मन्तव्यम् ।

हे असम कृष्ण ते त्वयैव कल्पितैरययोगैः शुभावहोऽवधिरयो योगा यज्ञादिस्तदितरोपायास्तस्य सम्बन्धा इति तद्वैचित्र्याद्बहुवचनम् । अथ दधिपयोऽन्यो निरन्नोऽपि बलेन भूयानित्यादेश्च । न विद्यते थमन्नम् । अन्नं थमिति श्रुतिः । टीका च ‘अतिथिं जनानामित्यृग्व्याख्यावसरेऽतिथिं बह्वन्नमिति । अनश्नन्नन्य इति श्रुतेः । न केवलं त्वमेवमपि तु गुहां प्रविष्टो शुभं पिबतीत्यादेरिति सूचयत्याचारार्थकक्विपेति मन्तव्यम् । निरन्नवदाचरन्तोऽथंतस्तदधिप । स चासावधिपश्चेति वा । अयं तदितरो जीवस्ते सकाशादेव स्वाद्वत्ति अस्वाद्वेव स्वादुत्वेनात्ति कर्मफलं, पिप्पलं स्वाद्वत्तीत्यनुकृतिः । स साररूपो वत्सान्वत्सो वायुस्तेन सह आनिति स्वात्मानं प्रतीति स जीवसङ्घः । स एनान्ब्रह्म गमयति सोऽहं वायुं दिशां वत्सं वेदेत्यादेः ।

तर्हि तेषां स्वतो मतिरस्ति किमित्यत आह ॥ चिज्ज्ञानं क्वेति ॥ यो यान् तं जनं यदाक्रोशेन तत्कालप्रदर्शितेन सञ्जातांस्तत्कल्पोत्पन्नान्हन्तीति स तथा तदा मुञ्चन् । अन्तर्णीतण्यर्थो मुचिः । लिङ्गभङ्गं कारयन् यो भवान्कथं मर्कं मनः स्वमनोऽनुसारं तज्ज्ञानमनुसृत्य वा भोक्ष्यन्भोज-यिष्यन्विभजति । आनन्दादिकं विभजति यस्तु विभजति विभजते । न च स च चेदिति भजना-भजनस्वभावो नित्यसंसारान्तमस्ति । भाण्डं सुखमिति ज्ञेयम् । भाण्डं भूषणमात्रेऽपि भाण्डं मूलवणिग्धने । नदीपात्रे तुरङ्गाणां भूषणे भाजनेऽपि चेति विश्वः । यो न विभजति स्वं न सेवते स चेन्नातमोयोग्योधिकार्यस्ति । द्रव्यालाभे तत्समर्पिताप्राप्तौ तस्य भाण्डं विवक्षातो विरजापात्रं दूरे यस्येति नास्ति तदेव यस्येति तं तथैव तं मुञ्चन् अस्ति क्षीरागोरितिवन्नास्ति भाण्डं सुखदुःख-भाजनरूपं लिङ्गाङ्गं भिनत्ति । सुभृशकुपितोऽतः स दुर्जनः । अकान्न विद्यते कं सुखमात्रं येषु तान् लोकान् तामिस्रादीनुपक्रोशी रुदन् याति । इति महिमा भवानित्यान्तरङ्गिको भावो भामिनीनां विभावनीयः ।

एवमुत्तरत्रापि शक्यो वर्णयितुमर्थस्तथाऽपि विस्तरो नो भीषयतीत्युपरतम् । तत् । असुषु भृशकुपित इति वा । वत्सांस्तर्णकानिव विद्यमानांस्तोकानात्मजान् यांस्तत्कल्पे संहार्यतया ज्ञातान् । क्रोशेनाक्रोशेन सहितश्चासौ सञ्जातो हासश्च यस्य सः । संहारस्य कोपप्रदर्शनं विनाऽदर्शनात्क्रोशोऽ-दुःखाद्धास इति ज्ञेयम् । सुभृशकुपित इवोपक्रोश्य रोदयित्वाऽत्ति भक्षयति ॥ अत्ता चराचरग्रहणात् । सर्वं वा अत्तीत्यादेः । तन्मध्ये यदथदन्नभिन्नवदाचरच्चर्मास्थिपूर्वकं शक्यं भक्षयितुं तथाऽपि न लोके तथेत्याचारक्विपा सूचयति । भाण्डमलङ्कारात्मना मुञ्चन्स्थापयन् । ब्रह्मचर्मशिरः पट्टी दिवपालोर्ध्वाङ्ग-भूषण इति तात्पर्यान्तरवचनात् । तर्हि सुवर्णाद्यलाभो भगवतः किमित्यत आह ॥ न द्रव्यलाभ इति । उद्गीत एवोद्गीथ इत्यादौ तथकारवदत्र यत्तकारेऽस्ति अस्थीति वा तदादि भाण्डमिति वा । अथदस्तीत्यन्वयः । अथानन्तरमधिपयः पयसि क्षीराब्धाविति यावद्याति । पूर्ववदुर्वरितम् । अथतोऽभीतवदाचरन्तस्त्वदनुग्रहतस्तदधिप । अरक्षकवद्विद्यमानाधिपेदानीमिति वा । थं भये रक्षणे शुभ इति विश्वः ॥ २९ ॥

सुमनोरञ्जिनी

वत्सान् । असमयान् अप्राप्तदोहनसमयान् । क्रोशे अस्माभिः कृते सति । संजातहासः । स्वेन कल्पितैः रचितैः स्तेयोपायैः स्तेयं चौर्येण संपादितं दधि पयश्च स्वादु चेदत्ति पिबति । स्वादु नास्ति चेत् । मर्कान् मार्जारान् मर्कटान्वा बालान्वा भोक्ष्यन् भोजयिष्यन् । विभजति । द्रव्यस्य स्वाशक्यशिक्याद्यधिष्ठितनवनीतादेरलाभे । दण्डादिना भाण्डं भिनत्ति । तेनास्माभिर्भर्त्सनादिना कुपितः कोपं प्रापितश्चेत्तोकान् ताडनादिना उपक्रोश्य रोदयित्वा यातीति । मर्के मनसि वायौ च तोके मार्जारकीशयोरित्यभिधानात् ॥ २९ ॥

हस्ताग्राह्ये रचयति विधिं पीठकोलूखलाद्यै

श्छिद्रं ह्यन्तर्निहितवयुने१ शिक्यभाण्डेषु तद्वत् ।

ध्वान्तागारे धृतमणिगणं स्वाङ्गमर्थप्रदीपं

काले गोप्यो यर्हि गृहकृत्येषु सुव्यग्रचित्ताः ॥ ३० ॥

पदरत्नावली

स्तेययोगैरित्युक्तं दर्शयति हस्तेति ॥ यर्हि यस्मिन् काले गोप्यो गृहकृत्येषु सुव्यग्रचित्ता भवन्ति तस्मिन् काले हस्ताग्राह्ये स्वस्य ह्रस्वत्वेन प्रदर्शनाद् हस्तेन ग्रहीतुमशक्ये सति पीठकोलूखलनिक्षेपणसहचरस्कन्धारोहणाद्यैर्विधिं तद्ग्रहणोपायं रचयति । शिक्यानि दधिनवनीतादिद्रव्यरक्षार्थयष्टिलम्बिरज्जुमयाधारविशेषाः, ‘काचं शिक्यमिति प्रोक्तम्’ इत्यभिधानम् । तत्स्थापितभाण्डेषु अन्तर्निहितवयुने अन्तर्निक्षिप्तदधिनवनीतज्ञाने जाते तद्वद् यथा तल्लब्धुं सुशकं तथा छिद्रं रचयति, लगुडादिनेति शेषः । अन्धकारप्रचुरागारे स्थापितेष्वपि तासां यत्नो न फलित इत्याह ध्वान्तागार इति । धृतमणिगणं दिव्यमणिमयाभरणभूषितं, दिनमणिनिशामणिज्योतिर्गणसंवीतं च स्वाङ्गं निरतिशयप्रकाशस्वरूपशरीरम् अर्थप्रदीपं नवनीतभाण्डादिपदार्थान् प्रदीपयति प्रकाशयतीति तत् तथा ॥ ३० ॥

दुर्घटभावदीपिका

तद्वदतिशयेन दध्यादिस्वीकारोपायवित्कृष्णो यर्हि यस्मिन्काले गोप्यो गृहकृत्येषु सुव्यग्रचित्ता भवन्ति तस्मिन्काले ध्वान्तागारे धृतमणिगणं स्वांगमर्थप्रदीपं दध्यादियुक्त-भाण्डलक्षणार्थज्ञानहेतुं कृत्वा दध्यादौ हस्ताग्राह्ये हस्तेन गृहीतुमशक्ये सति शिक्यभाण्डेषु शिक्यस्थापितभाण्डेष्वन्तर्निहितानां स्थापितानां दध्यादीनां चयुनार्यं ज्ञानार्थम् । छिद्रमित्यतः परं कृत्वेत्यादीनां शेषः । छिद्रं कृत्वा छिद्रेण शिक्यभाण्डस्थितदध्यादिकं ज्ञात्वा दध्यादिप्राप्त्यर्थं पीठकोलूखलाद्यैर्विधिमुपायं रचयति करोतीति । एतेन तद्विदिति वक्तव्या । तद्वदिति कथनमनु-पपन्नमिति चोद्यं परिहृतम् । तृतीयोऽतिशय इत्यनेनातिशयार्थतद्विदितीकारस्याकारादेशे तद्वदिति रूपं निष्पन्नमित्यभ्युपेत्य तद्वद्वित्यस्यातिशयेन दध्यादिस्वीकारोपायज्ञानवानित्यर्थ इत्युक्तत्वात् । एतेनैवान्तर्निहितज्ञानार्थमित्यर्थलाभार्थमन्तर्निहितवयुनार्थमिति वक्तव्यम् । अन्तर्निहितवयुन इति सप्तमीप्रयोगोऽनुपपन्न इति चोद्यं पराकृतम् । अन्तर्निहितवयुन इति सप्तमी तादर्थ्य इत्यभ्युपगमात्

॥ ३० ॥

सत्यधर्मीया

स्तेययोगैरित्युक्तं दर्शयति ॥ हस्ताग्राह्य इति ॥ स्वस्य ह्रस्वतया प्रदर्शनाद्धस्ताग्राह्ये विधिं तदुपायं पीठिकोलूखलाद्यैः पीठिकं चोलूखलं च । उलूखलं गुग्गुले स्यात्कण्डनार्थेऽप्युलूखल इति विश्वः । तदाद्यै रचयति । शिक्यभाण्डेषु शिक्यानि यष्टिलम्बीनि जालविशेषाः । भारयष्टिस्तदालम्बि शिक्यं काच इत्यमरः । तेषु स्थापितानि भाण्डानि पात्राणि तेषु निहितस्य स्थापितस्य हय्यङ्गवीनादेर्वयुने ज्ञाने जाते । तद्वद्यथा तदाप्तिः स्यात्तद्वच्छिद्रं रचयति लकुटादिना । अन्तर्निहितवयुन इति पाठे तन्मतिमानित्यर्थः । सान्धकारागारे हे अङ्गनाः स्थापयतेत्यतो वदन्ति ॥ ध्वान्तेति ॥ स्वाङ्गमर्थप्रदीपमर्थान्प्रदीपयति प्रकाशयतीति तत्तथा । न च मणिधारणात्तथा भवेदिति भ्रमस्तु स्यादित्याहुः ॥ अधृतमणिगणमिति ॥ सहजकान्तिरेव तादृशीति भावः । धृतमणिगणमित्यनकारप्रश्लेषपदेन कायकान्त्यतिशयलाभ इत्युपर्येव ज्ञायते । परस्परालङ्क्रियतेति मिथ्या स भूषणं सर्वविभूषणानामित्यादेः । भास्वत्कौस्तुभभासकमित्यादेश्च । कालेऽपहारकाले भवति यर्हि यदाऽन्तर्गृहान्तर्गोप्यो वयं गृहकृत्येषु सुव्यग्रचित्तास्तदाऽयमेव रचयतीति । वयुनं ज्ञानमितीशावास्यभाष्योक्तेः ॥ ३० ॥

सुमनोरञ्जिनी

स्तेययोगं प्रपञ्चयति ॥ हस्तेति ॥ गोप्यो यर्हि काले यस्मिन्काले । गृहकृत्येषु सु अत्यन्तं व्यग्रचित्तास् तदा हस्ताग्राह्ये शिक्यादिगते वस्तुनि । तद्ग्रहणार्थम् । पीठकोलूखलाद्यैः । विधिम् उपायं रचयति । शिक्यस्थितभाण्डेषु । अन्तर्निहितवयुने अन्तर्निक्षिप्त-नवनीतभाण्डे । तद्वद् यथा लब्धुं शक्यते तथा च्छिद्रं दण्डादिना विवरं रचयतीत्यन्वयः । ध्वान्तयुक्तागारे तु । धृतमणिगणम् । धृता मणिगणा यस्मिन् तत् स्वांगम् । अर्थप्रदीपं पदार्थप्रकाशकम् । रचयति ॥ ३० ॥

एवं धार्ष्ट्याद् विशति कुरुते मेहनादीनि वास्तौ

स्तेयोपायैर्विरचितकृतिः सुप्रतीको यथाऽऽस्ते ।

इत्थं स्त्रीभिः सभयनयनश्रीमुखालोकिनीभिः

व्याख्यातार्थप्रहसितमुखी न ह्युपालब्धुमैच्छत् ॥ ३१ ॥

पदरत्नावली

एवं धार्ष्ट्याद् प्रागल्भ्याद् विशति, गृहमिति शेषः । वास्तौ देहल्यादौ मेहनादीनि पुरीषोत्सर्जनादीनि कुरुते । स्तेयोपायैर् विरचिता कृतिः कर्म येन स तथाभूतोऽपि तवाग्रे सुप्रतीकः सु शोभावन्तः प्रतीका अवयवा यस्य सः ‘अङ्गं प्रतीकोऽवयवः’ इत्यमरः । सच्चरित्रो यथा तथाऽऽस्ते । सभये नयने यस्मिन् तत् सभयनयनं, श्रिया युक्तं मुखं श्रीमुखं, सभयनयनं च तत् श्रीमुखं च सभयनयनश्रीमुखं, तस्य श्रीकृष्णमुखस्यालोको यासामस्ति ताः सभयनयनश्रीमुखालोकिन्यः, ताभिः, व्याख्याताः प्रख्यापिता अर्थाश् चौर्यादिव्यापारा यस्याः सा । उपालब्धुं निर्भर्त्सयितुम् ॥ ३१ ॥

सत्यधर्मीया

एवं धार्ष्ट्यात्प्रागल्भ्याद्विशति गृहम् । वास्तौ देहल्याम् । मेहनादीनि पुरीषमूत्रादीनि कुरुते । स्तेयोपायैर्विरचितकृतिः स्तेय उपाया येषां तैर्विरचिताऽरचिता कृतिर्यस्य सः । ये चौर्यसमर्थास्तैरप्यसाध्यचौर्यकर्तेत्यर्थः । यथा सुप्रतीकः सु शोभावन्तः प्रतीका अवयवा यस्य । अङ्गं प्रतीकोऽवयव इत्यमरः । सुप्रतीकः शोभनाङ्गे भवेदीशान्यदिग्गज इति विश्वः । तथा आस्त साधुवदास्त इति तात्पर्यम् । सभयनयनश्रीमुखालोकिनीभिः सभये नयने यस्य तच्छ्रीमद्यन्मुखं सभयनयनं च तच्छ्रीमुखं तस्य श्रीकृष्णस्य मुखस्यावलोको यासामस्ति ताः सभयनयनश्रीमुखालोकिन्यस्ताभिः । इत्थं व्याख्यातार्थप्रहसितमुखी व्याख्यातोऽर्थस्तेन प्रहसितं मुखं यस्याः सा व्याख्यातार्था प्रहसितमुखीति पाठेऽप्यर्थादर्थः प्रहासनिमित्तमिति ज्ञेयम् । तमुपालब्धुं बद्धुं नैच्छत् ॥ ३१ ॥

सुमनोरञ्जिनी

एवं धार्ष्ट्यात् प्रागल्भ्यात् । गेहं विशति । वास्तौ गृहे । मेहनादीनि पुरीषोत्सर्जनादीनि । कुरुते । एवं स्तेयोपायैर् विरचितकृतिः सन् । सुप्रतीको यथा साधुरिव मार्जारवद् आस्ते । इत्थं स्त्रीभिर् व्याख्यातार्था, व्याख्यातः प्रख्यापितो ऽर्थः सुतव्यापारो यस्याः सा । उपालब्धुम् आक्षेप्तुं भर्त्सयितुमिति यावत् । नैच्छत् । कथंभूताभिः स्त्रीभिः । सभये नयने यस्य तच्च तत् श्रिया युक्तं मुखं श्रीकृष्णमुखं तस्यावलोकनं यासामस्ति ताभिरित्यर्थः ॥ ३१ ॥

एकदा क्रीडमानास्ते रामाद्या गोपबालकाः ।

कृष्णो मृदं भक्षितवानिति मात्रे न्यवेदयन् ॥ ३२ ॥

सत्यधर्मीया

क्रीडमानाः क्रीडन्त इत्येव । इतिमात्रे एतावति लघीयसि कार्येऽनिवेदनीये न्यवेदयन्निति वा ॥ ३२ ॥

सुमनोरञ्जिनी

मात्रे श्रीकृष्णमात्रे यशोदायै । एकदा एकस्मिन्दिने । क्रीडमाना रामाद्या गोपबालकाः । कृष्णो मृदं मृत्तिकां भक्षितवान् इति न्यवेदयन्, इत्यन्वयः ॥ ३२ ॥

सा गृहीत्वा करे कृष्णमुपालभ्य हितैषिणी ।

यशोदा भयसम्भ्रान्तप्रेक्षणाक्षमभाषत ॥ ३३ ॥

पदरत्नावली

उपालभ्य निर्भर्त्स्य । भयेन सम्भ्रान्तानि चञ्चलानि प्रेक्षणानि दर्शनानि ययोस्ते अक्षिणी यस्य स तथा तम् ॥ ३३ ॥

सत्यधर्मीया

उपालभ्य निर्भर्त्स्य । गोपीभिः पूर्वमुक्तावनुपलम्भ उपालम्भ इदानीं कुतो यशोदाया इत्यत आह ॥ हितैषिणीति ॥ मृद्भक्षणे उदरशूलादिकं स्यादिति सुतहितैषिणी हितं काङ्क्षन्ती । अनेन दध्यादिचौर्य इव मेहनादौ च न पुत्रगात्ररोग इत्युपालम्भोपेक्षणं प्रागिति मन्तव्यम् । भयेन भ्रान्तानि प्रेक्षणानि ययोस्ते अक्षिणी यस्य तमभाषत ॥ ३३ ॥

सुमनोरञ्जिनी

हितैषिणी हितमिच्छन्ती सा यशोदा । कृष्णं करे गृहीत्वा । उपालभ्य निन्दावचनमुक्त्वा । स निन्द उपालम्भ इत्यमरः । भयेन संभ्रान्तानि चञ्चलानि प्रेक्षणानि अवलोकनानि ययोस्ते च ते अक्षिणी यस्य स तथोक्तस् तं श्रीकृष्णम् अभाषतेति सम्बन्धः । उपालम्भरूपं भाषणं चकारेति यावत् ॥ ३३ ॥

कस्मान्मृदमदीनात्मन् भवान् भक्षितवान् रहः ।

वदन्ति तावका ह्येते कुमारास्तेऽग्रजोऽप्ययम् ॥ ३४ ॥

पदरत्नावली

अदीनात्मन् उदारचित्त । मया मृदभक्ष्यतेत्यत्र किं प्रमाणामिति तत्राह वदन्तीति ॥ ३४ ॥

सत्यधर्मीया

अदीनात्मन् उदारचित्त भवान् रहो मृदं कस्माद्भक्षितवान् । न नेति वदेति साक्षिण आह ॥ वदन्तीति ॥ एते कुमाराः । ते च नास्मदीया इति न वदेत्याह ॥ तावका इति ॥ तत्राप्यनाश्वासः कृतमत्कलहास्त इत्यत आह ॥ तेऽग्रजो रामोऽयमपि वदतीति ॥ अप्ययं नाशं गच्छेरिति शेषः । कस्मान्मृदं भक्षितवानसीति वा ॥ ३४ ॥

सुमनोरञ्जिनी

तत्र उपालम्भो द्वेधा । गुणाविष्करणपूर्वको दोषाविष्करणपूर्वकश्चेति । तत्रादौ महाकुलीनस्य तव नेदमुचितमिति तत्र यशोदाकृतगुणाविष्करणपूर्वकमुपालम्भप्रकारमाह ॥ कस्मा-दिति ॥ हे अदीनात्मन् । अदरिद्रस्वभाव अनेन गुणाविष्करणं कृतम् । कस्मान्मृदं भक्षितवान् । इदं तव न योग्यमिति भावः । रहः विजनस्थले । तावकास् त्वयि स्निग्धाः । अग्रजः बलभद्रोऽपि

॥ ३४ ॥

श्रीकृष्ण उवाच–

नाहं भक्षितवानम्ब सर्वे मिथ्याभिशंसिनः ।

यदि सत्यगिरस्तर्हि समक्षं पश्य मे मुखम् ॥ ३५ ॥

पदरत्नावली

मिथ्यावादित्वं प्रत्यक्षतो दर्शयामीत्याशयेनाह यदीति ॥ ३५ ॥

सत्यधर्मीया

अम्ब । अम्बार्थेति ह्रस्वः । सर्वेऽग्रजादयो मिथ्याऽभिशंसन्तीति ते तथा । तन्मिथ्यात्वनियोगो यदि तवापेक्षितः सत्यगिर इत्यभिमानो मानिनि तर्हि समक्षं मे मुखं पश्य । न निरुपादाना सृष्टिः सम्भवेति सा तदानीमेतस्यास्ये दर्शनीयेति धिया । किञ्च तद्भारावतारायाय-मवतार इति तया च धरया किञ्चिदुपयोगिन्या भवामीति मतितो मृददनमुचितमच्युतस्य तर्हीश्वरो नानृतात्पातकं परमिति जानन्कथं जननीं प्रति जननीतिशासकः सोऽनृतमवादीदित्यत आन्तरङ्गिको भगवतो विरलच्छ्लोकस्य, ना परमपुरुषोऽहं मृदं भक्षितवान्सर्व एते मिथ्याभिशंसिनः । हे सति मातः सर्वेऽगिरस्तूष्णीका यदि तर्ह्यगिरो मम मुखं समक्षं पश्य । कार्येण कारणभवगतं भवतीति शिष्टं श्लिष्टम् । पञ्चीकरणपक्षे सर्वभूतमेलनादेकस्यां मृदि भक्षितायामन्तरिक्षाद्युपादेयप्रदर्शनं नासम्भवीति वर्णयन्ति ॥ ३५ ॥

सुमनोरञ्जिनी

सत्या यथार्था गीर्येषां ते तथाविधास् ते कुमारा इति । त्वं यदि अगिरः ब्रवीषि तर्हि समक्षं प्रत्यक्षम् ॥ ३५ ॥

यद्येवं तर्हि व्यादेहीत्युक्तः स भगवान् हरिः ।

व्यादत्ताव्याहतैश्वर्यः क्रीडामनुजबालकः ॥ ३६ ॥

पदरत्नावली

यदि असत्यगिरो बालाः, यदि त्वया न मृद् भक्षिता तर्हि मुखं विदारयेत्याह यद्येवमिति ॥ व्यादत्त विदारितवान् । न केनापि प्रकारेण व्याहतम् ऐश्वर्यं सर्वशक्तत्वादिपूर्णगुणजातं यस्य सः । क्रीडया लीलयैव मनुजबालकः । पूर्णज्ञानानन्दस्वरूपवपुरेव मनुजबालकस्य प्राकृतवपुरिव लीलया प्रदर्शयामासेत्यवसेयम् ॥ ३६ ॥

दुर्घटभावदीपिका

क्रीडामनुजबालक इत्यस्य क्रीडाप्रदर्शनार्थं मनुजानां बालक इत्यर्थः । एतेन क्रीडार्थमिति चापर इत्यादिना परमेश्वरप्रवृत्तिः क्रीडार्थमिति पक्षस्य दूषितत्वात्क्रीडामनुजबालक इत्यनुपपन्नमिति चोद्यं परास्तम् । क्रीडाशब्देन क्रीडाप्रदर्शनं गृहीत्वा क्रीडामनुजबालक इत्यस्य क्रीडाप्रदर्शनार्थं मनुजबालक इत्यर्थ इत्युक्तत्वात् ॥ ३६ ॥

सत्यधर्मीया

यदि मृदं न भक्षितवान् बलादिबालाश्च मिथ्याभिशंसिनः पश्य समक्षं मे मुखमिति च वदसि तर्हीत्थं कुर्वितीरयति ॥ यद्येवमिति ॥ तर्हि व्यादेहीति व्ये परतो हिर्लघुः सन् व्यादान-मप्यल्पमल्पकार्यानुगुणमिति ध्वनयति । अन्यथा सर्वजगद्ग्रासः स्यादिति ज्ञेयम् । क्रीडयैव मनुतनुज इति क्रीडामनुजबालको मुखं व्यादेहि । तद्व्यादत्तेति मुखतदध्याहारोऽनियतस्थलो ज्ञेयः ॥३६॥

सुमनोरञ्जिनी

यदि एवं मृदं न भक्षितवानसि तर्हि मुखं व्यादेहि विस्तारय । क्रीडार्थं मनुजबालक इव मनुजबालकः । व्यादत्त विस्तारितवान् ॥ ३६ ॥

सा तत्र ददृशे विश्वं जगत् स्थास्नु च खं दिशः ।

साद्रिद्वीपाब्धि भूगोलं सवाय्वग्नीन्दुतारकम् ॥ ३७ ॥

पदरत्नावली

जगज्जङ्गमं स्थास्नु स्थावरम् । सामान्योक्तं विशिनष्टि खमित्यादिना । खमन्तरिक्षलोकम् । दिशः दश । अद्रयो मेरुमन्दरादयः ॥ ३७ ॥

सत्यधर्मीया

तत्र मुखे विश्वं ददृशे । तदेव विशदमाह ॥ जगदिति ॥ जङ्गमं, स्थास्नु स्थावरं खं विवरं, दिशस्तद्भेदान् । अद्रयः कुलाचला द्वीपाः सप्ताब्धय एतत्सहितं भूगोलं भूमण्डलम् । तारकं सवाय्वग्नीन्दु वायुः प्रवहोऽग्निर्दार्वाद्युद्भूतः । वाय्वग्निचन्द्रसहितं तारकं नक्षत्रगणम् । कनीनिकायां नक्षत्रे तारकं तारकाऽपि चेति विश्वः ॥ ३७ ॥

सुमनोरञ्जिनी

सा यशोदा । तत्र श्रीकृष्णास्ये । विश्वं ददृशे । कीदृशं विश्वं, जगज् जङ्गमं स्थास्नु स्थावरं च । तदेव प्रपञ्चेनाह ॥ खमिति ॥ अव्याकृताकाशम् । दिशः प्राच्यादयः । साद्रिद्वीपाब्धि अद्रिद्वीपाब्धिभिः सहितम् । भूगोलं भूमण्डलम् । वायुर् भूतवायुः । अग्निर्भौमो दिव्यश्च । इन्दुश्चन्द्रः । तारका अनाख्यातनक्षत्राणि तैः सहितम् ॥ ३७ ॥

ज्योतिश्चक्रं जलं तेजो नभः स्वर्वियदेव च ।

वैकारिकाणीन्द्रियाणि मनो मात्रा गुणास्त्रयः ॥ ३८ ॥

पदरत्नावली

ज्योतिश्चक्रम् अश्विन्यादिनक्षत्रमण्डलम् । जलतेजसी बाह्याभ्यन्तरगते । नभ आकाम् । स्वः स्वर्गः, उपलक्षणया महराद्यन्यलोका अपि सङ्गाह्याः । वियत् सर्वगतं महाकाशम् । वैकारिकाणि इन्द्रियाधिष्ठातृदैवतानि । इन्द्रियाणि तैजसानि चक्षुरादीनि दश । मात्रास्तामसानि शब्दादितन्मात्राणि । त्रयो गुणाः सत्त्वादीनि ॥ ३८ ॥

सत्यधर्मीया

ज्योतिश्चक्रं जलं तेजो विद्युदादिसम्बन्धि स्वः स्वर्गं वियन्महाकाशं नभोऽन्धकारं वैकारिकाणि दैवानि तैजासानीन्द्रियाण्याहुरित्युक्तेस्तैजसानीन्द्रियाणि । मनसो मुख्यतयेन्द्रियत्वेऽपि पृथगुक्तिः । दैवान्देहान्मनः खानीत्यादेः । गुणास्त्रयस्त्रीन्गुणान् ॥ ३८ ॥

सुमनोरञ्जिनी

ज्योतिश्चक्रम् अश्विन्यादिनक्षत्रमण्डलम् । जलतेजसी बाह्याभ्यन्तरे । नभोऽन्तरिक्षम् । स्वः स्वर्गः । वियद् ब्रह्माण्डाद्बाह्यं परमव्योम । वैकारिकाणि वैकारिकाहं-कारकार्याणि देवताशरीराणि । इन्द्रियाणि तैजसानि मनश्च । मात्रा भूतसूक्ष्माणि शब्दाद्या वा । त्रयो गुणा सत्त्वाद्याः ॥ ३८ ॥

एतद् विचित्रं सह जीवकालस्वभावकर्माशयलङ्गिभेदम् ।

सूनोस्तनौ वीक्ष्य विदारितास्ये व्रजं सहात्मानमवाप शङ्काम् ॥ ३९ ॥

पदरत्नावली

स्वभावः सात्त्विकादिः । कर्म अदृष्टम् । आशयः संस्कारः । लिङ्गं लक्षणं, लिङ्गाख्यसूक्ष्मशरीरं वा । भेदस् तत्तद्वस्तुव्यावर्तकधर्मः । सहात्मानमिति व्रजविशेषणम् । तनावल्पे विदारितास्ये ॥ ३९ ॥

सत्यधर्मीया

जीवाश्च कालश्च स्वभावः सात्त्विकत्वादिः कर्मादृष्टमाशयः संस्कारो लिङ्गं लक्षणं षोडशकलकलेवरं लिङ्गशरीरं वा, एतदादिभेदोपेतं सूनोस्तनौ तत्रापि विदारितास्ये अवयव-विशेषे । सहात्मानमिति पदमेकं व्रजविशेषणम् । एतद्विचित्रं वीक्ष्य शङ्कां सन्देहमवाप ॥३९॥

सुमनोरञ्जिनी

जीवो देहमानी । कालस्वभावः प्रकृत्यादीनां परिणामादिः । कर्म धर्माधर्मौ । आशयः संस्कारः । एभिः, एतेषां लिङ्गभेदेन लक्षणभेदेन च सहितम् । सहात्मानं स्वसहितं व्रजं, सूनोः कृष्णस्य तनौ अल्पपरिमाणे विदारितास्ये प्रसारितमुखे वीक्ष्य शङ्कां संशयम् आप । एतत्सर्वं तत्काल एव भगवदनुग्रहलब्धदिव्यदृष्ट्यैवेति ज्ञेयम् । अन्यथा धर्माधर्माद्यतीन्द्रियदर्शनस्यानेनैव चक्षुषाऽयोगात् ॥ ३९ ॥

किं स्वप्न एतदुत देवमाया किं वा मदीयो बत १बुद्धिभेदः ।

अथो अमुष्यापि ममार्भकस्य यः कश्चनौत्पत्तिक आत्मयोगः ॥ ४० ॥

पदरत्नावली

शङ्कां प्रकाशयति किमिति । देवस्य हरेर्माया इच्छा । ‘इच्छामात्रं प्रभोः सृष्टिः’ इति श्रुतिः । औत्पत्तिकः स्वाभाविक आत्मयोग आत्मनः परमात्मनः योगः विश्वम्भरत्वाद्यैश्वर्यातिशयः ॥ ४० ॥

दुर्घटभावदीपिका

औत्पत्तिक आत्मयोग इत्यस्य स्वाभाविकः परमात्मप्रसादाधीनाणिमादियोग इत्यर्थः । एतेनात्मेत्येतद्व्यर्थमिति दूषणं परिहृतम् । अन्यत्राविद्यमान औत्पत्तिको योगः कृष्णस्य कथमागत इत्याशङ्कापरिहारार्थमौत्पत्तिकयोगस्य भगवत्प्रसादाधीनत्वमुच्यत इत्यभ्युपगमात् ॥४०॥

॥ इति श्रीभागवतटिप्पण्यां सत्याभिनवयतिकृतायां

दुर्घटभावदीपिकायां दशमस्कन्धपूर्वार्धे नवमोऽध्यायः ॥ १०-९ ॥

सत्यधर्मीया

तामेव वितत्य वक्ति ॥ किमिति । एतद्भातं वस्तु स्वप्ने तदवस्थायां किं किं स्वप्नो न । कुत इत्यत उतैतत्स्वाप्नावस्थां विना जाग्रद्दशायामपि सत्त्वादित्यप्यन्वयमुशन्ति । उताथवा देवस्य श्रीहरेर्माया सैवेशेच्छा सृष्टवती । नायमपि कल्पोऽनल्पः । तथा सति पार्श्वस्थोपालम्भप्रसङ्गः । मदीय एव बुद्धिभेदो बुद्धिभ्रंशः । मोह इति पाठोऽपि पाङ्क्तः । न च स च मदकृत् । कुमारस्यापि ममान्तरुदरं दर्शनात् । देवमायेति प्राक् कल्पितं स्वयमेवेत्थमिति मत्वाऽऽह ॥ अथो इति ॥ अत एवामुष्येत्युक्तिः । ममामुष्यार्भकस्य । यः कश्चन यः कोऽप्यात्मयोग आत्मनि सन् योगोऽणिमाद्यैश्वर्यम् । कोऽपि न क्षिक्षयददक्षश्च कोमलो बालः कथमयं तव विकल्पः कल्प्यत इत्यत आह ॥ औत्पत्तिक आजनीनः स्वाभाविक इति यावदिति । अमुष्येत्यत्र ओदिति प्रगृह्यसंज्ञायां प्लुतेति प्रकृतिभावः । बत सन्तोषे । अर्भोऽर्भकः कश्चतुर्मुखो यस्येत्यन्तरर्थः ॥ ४० ॥

सुमनोरञ्जिनी

संशयप्रकारं प्रदर्शयति ॥ किमिति ॥ किं स्वप्न उत देवस्य हरेर्माया । माया चेदन्येषां किं न प्रतीयत इत्यत उक्तम् ॥ देवेति ॥ श्रीहरेर्मायात्वादिदं लोकविलक्षणमेवेति भावः । किं वा मदीयो बुद्धिभेदः बुद्धिविपर्यासः । अथवा ममामुष्यार्भकस्यापि औत्पत्तिकः स्वाभाविक आत्मयोगः स्वीयैश्वर्यातिशयः ॥ ४० ॥

अदो यथा तन्न वितर्कगोचरं चेतोमनःकर्मवचोभिरञ्जसा ।

यदाश्रयं येन यतः प्रतीयते सुदुर्विभाव्यं प्रणताऽस्मि तत्पदम् ॥ ४१ ॥

पदरत्नावली

स्वसुतं किं न व्यज्ञासीरिति चेत् ‘ब्रह्मविदाप्नोति परम्’ इत्याद्यनन्तवेदवेद्यं ब्रह्मैव मम पुत्रतां प्राप्तमिति यस्मात् तस्मान्मया बोद्धुमशक्यमिति न दूषणं किन्तु ब्रह्मभवादिभिरपि दुर्विभाव्यमित्याशयेनाह अद इति । अदः परब्रह्म यथा यादृशं तत् तादृशमिति चेतोमनःकर्मवचोभिश् चेतो बुद्ध्यभिमानिब्रह्मवायू, मनो गरुडशेषरुद्राः, कर्म देवेन्द्रः पुष्करश्च, वचो वाणीगौरीवह्निबृहस्पतय एतैर् वितर्कगोचरं वितर्कैः श्रुतिस्मृत्यनुसारिविविधतर्कैर् गोचरं विषयम् अञ्जसा साकल्येन न भवति । किमुत चेतोमनःकर्मवचोभिरञ्जसा निश्चयेन वितर्कगोचरं विरुद्धतर्कगोचरं न भवतीति । न शून्यारोपितं विश्वमित्याह यदाश्रयमिति ॥ यद् ब्रह्म आश्रयो यस्य तद् यदाश्रयम्, जगदिति शेषः । प्रलये ब्रह्माश्रयत्वेन तिष्ठतीत्यनेन जगद्ब्रह्मणोर्भेदः सिद्धः । स्थितिकाले च येन जीवति । सृष्टिकाले च यतः प्रतीयते उत्पत्तिमत्त्वेन ज्ञायते । ‘यतो वा इमानि भूतानि जायन्ते, येन जातानि जीवन्ति, यत् प्रयन्त्यभिसंविशन्ति’ इति श्रुतिः । अनेन जगज्जन्मादिकारणत्वं स्वलक्षणमित्युक्तं भवति । एतादृशं ब्रह्म कथं ज्ञायत इति तत्राह सुदुर्विभाव्यमिति । सुखेन दुःखेन च विभाव्यं विशिष्टत्वेन विरुद्धत्वेन च ज्ञेयम् । ‘सुदुः शोभनदुःखयोः’ इति यादवः । ‘नैषा तर्केण मतिरापनेया प्रोक्ताऽन्येनैव सुज्ञानाय प्रेष्ठ’ इति श्रुतेः । द्वैतवादिभिः सम्यग्, औतवादिभिर् असम्यग् ब्रह्म ज्ञेयम् । तत्र द्वैतवादिनः सम्यग्ज्ञानेन स्वयोग्या मुक्तिः, औतवादिनः प्रमाणविरुद्धज्ञानेन तम इति विवेकः । ‘अन्यमीशमस्य महिमानमिति वीतशोकः’, ‘तांस्ते प्रेत्याभिगच्छन्ति ये के चात्महनो जनाः’ इत्यदिश्रुतेः । तद् देशकालगुणैर्व्याप्तं पद्यत इति पदं मुख्यप्राप्यं ब्रह्म प्रणताऽस्मि ॥ ४१ ॥

सत्यधर्मीया

स्वपुत्रं हे नन्दभार्ये कथं न त्वं व्यज्ञासीरित्यतो न त्रिनेत्रादय एनं सम्यग्विदुरहं कियन्मात्रमिति मर्म न प्रकाश्यमित्यपदेशेन तान्यप्यज्ञान्कथयित्वाऽन्ततः किं त्वं करोषीत्यत इयत्येव सीमा सेवाया इति तदावेदयति ॥ अद इति ॥ कञ्जजस्त्वर्भकपदेनैव निरस्त इति न तदुक्तिरत्र । अदो रूपं यथा तथा । चेतो रुद्रः पुष्करश्च । वाचो वाणीवह्निबृहस्पतयः । वितर्कगोचरं लिङ्गमशिष्यमित्युक्तेर्गोचरसञ्चरेत्यादिना नित्यपुल्लिङ्गतयोक्तोऽपि गोचरशब्दो नपुंसकः । तर्कस्यानुमितेर्गोचरो विषयो, विरुद्धं पृथग्भूतं तर्कगोचरादिति तत्तथेति । गोर्ज्ञानस्य चरश्चरणं यस्य तत्तर्कस्य गोचरं तन्नेति वितर्कगोचरम् । एवं चेन्न गोचरतद्धितेति टच् । सप्तघटिकाभोजनत्रिलोकनाथ इत्यादिवद्योग्यतया तर्कपदार्थस्य गोपदार्थेनान्वयः । विस्तरस्तु निर्गतं मनसो वाचो यदि तत्स्यादिति गोचरमित्यनुव्याख्याव्याख्यासुधातोऽनुसन्धेयः । पार्थसारथिरपि शास्त्रदीपिकायामवादीत् । अवगतसाधनमपि कर्मागोचरं सदिति । विशिष्टा अशुष्कास्तर्कास्तेषां गोचरं न साकल्येन वितर्कास्तद्भिन्ना वेदाद्यास्तेषां गोचरं साकल्येनेति च ज्ञेयम् । नेन्द्रियाणि नानुमानमित्यादेः । न शून्यसङ्कल्पं तदित्याह ॥ यदाश्रयमिति ॥ अद इत्यत्राप्यन्वेति । अदो जगत्, यदाश्रयं यदाश्रयो यस्य तत् । येन जीवति यतः प्रतीयते उत्पत्तिमत्त्वेन ज्ञायते । यतो वा इमानि भूतानि जायन्ते येन जातानि जीवन्ति यत्प्रयन्त्यभिसंविशन्तीत्यादेः । यतो येनेति वदन्निमां प्रतीकतया जग्राहेति ज्ञेयम् । एतादृशं सुविभाव्यं दयायां दुर्विभाव्यं साकल्येन वा करुणायां वा । तत्पद्यत इति पदं मुख्यप्राप्यं ब्रह्म प्रणताऽस्मि । तत् तत्त्वाद्वा चेतो वा धाता वृत्तिभेदाच्चेतोमनःकर्मवचोभिः । अञ्जसा वितर्कगोचरं नेत्यपि बाह्यार्थो ज्ञेयः । अदो यथा प्राक् न तथा चेतोमनःकर्मवचोभिरञ्जसा दुर्विभाव्यमित्यन्वयः । वितर्कगोचरं वेदैकसमधिगम्यपदं प्रणताऽस्मीत्यन्वयने द्वितीयैकवचनं गोचरमितीति न क्लेश इत्यपि वदन्ति ॥ ४१ ॥

सुमनोरञ्जिनी

अन्तिमं पक्षमवलंब्यैव स्वपुत्रस्य ब्रह्मत्वं निश्चित्य ब्रह्मादिभिरपि दुर्विभाव्यमिदं किमु मादृशैरिति चिन्तयामासेत्याह ॥ अद इति ॥ अदः मत्पुत्राख्यं वस्तु । यथा यादृशं तत् तादृशस्वरूपेण । चेतोमनःकर्मवचोभिः । चेतश् चेतनो जीवस् तदभिमानी ब्रह्मा । मनो रुद्रः स्कन्देन्द्रादयः । कर्म पुष्करः । वच उमादयः । तैर् देवैः कृतवितर्कगोचरं न भवति यदा तदाऽस्मदादिभिः सुदुर्विभाव्यमिति किमु । तर्हि किं निःस्वरूपमेव । नेत्याह ॥ यदिति ॥ अद इत्यनुवर्तते । अदो जगत् । यतो जायते । येन जीवति । प्रलये मुक्तौ च यदाश्रयमिति प्रतीयते वेदादिभिस् तत्पदं तादृशब्रह्मस्वरूपं प्रणताऽस्मीत्यन्वयः । चेत आदिभिर्देवैर् यथा यथावन् न वितर्कगोचरं ‘इदं मया स्रष्टुं योग्यम्’ इत्यादिवितर्कागोचरम् । अदो जगत् । यदाश्रयम् । येन यतः प्रतीयते तद्दुर्विभाव्यं पदं प्रणताऽस्मीति वा, चेत इत्यादेः पदरत्नावल्यामाविष्कृतोऽयमेवार्थः श्लिष्टः न यथाश्रुतः श्रीधराविष्कृतः । चेतोमनःपदयोः पौनरुक्त्यापत्तेः । कर्मपदार्थस्य वितर्के करणानुपपत्तेश्च ॥ ४१ ॥

**अहं ममासौ पतिरेष मे सुतो **

व्रजेश्वरस्याखिलवित्तपा सती ।

**गोप्यश्च गोपाः सहगोधनाश्च ये **

यन्माययेत्थं कुमतिः स मे गतिः ॥ ४२ ॥

पदरत्नावली

नित्यपरतन्त्रे आत्मनि स्वातन्त्र्यबुद्धिरभेदबुद्धिरित्याशयेनाह अहमिति । व्रजेश्वरस्य नन्दस्याखिलानि वित्तानि पाति रक्षतीति अखिलवित्तपा, सती साध्वी भार्या । यस्य हरेर्मायया इच्छया इत्थं कुमतिर् अस्मत्कर्मानुसारेणाऽहङ्कर्तृत्वाभिमानरूपस्वातन्त्र्यबुद्धिरुद्बुद्धा । अतः स हरिरेव मे गतिः, मत्स्वातन्त्र्यबुद्धिमपनुद्य स्वस्वातन्त्र्यज्ञापकत्वेनाश्रयोऽस्त्विति यावत्

॥ ४२ ॥

सत्यधर्मीया

यन्मायया यस्य हरेरिच्छयैवास्मत्कर्मानुसृत्योद्बुद्धयाऽहङ्कर्तृत्वाभिमान आत्मन्यसौ मम पतिर्भर्तैष मे सुतः । व्रजेश्वरस्य नन्दस्याखिलानि वित्तानि पाति रक्षयतीति सा सती पतिव्रता साध्वी भार्या वा । गोप्यः सहगोधना गोपाश्च ये समे सर्वे मदीया इत्थं कुमतिर्ममाभवत् । श्रीहरिरेव मम गतिः । एतन्मतिमतिगमय्य सद्गतिदातेति तात्पर्यम् ॥ ४२ ॥

सुमनोरञ्जिनी

एवं परब्रह्मैवावतीर्णं मद्गृहे सर्वमपि सत्ताप्रतीत्यादौ तदधीनमेवेति निष्टंकितेऽपि श्रीकृष्णादिषु यत्सुतत्वाद्यभिमतिर्मम सा कुमतिरेवेत्यचिन्दयदित्याह ॥ अहमिति ॥ असौ नन्दगोपः मत्पतिः । एषः श्रीकृष्णः मे सुतः । अहं व्रजेश्वरस्य नन्दस्याखिलवित्ताधिष्ठात्री । सती निर्दुष्टा । सहगोधना गोप्यो गोपाश्च मे मदधीना इत्थं या मतिः सा कुमतिरेव । एतादृश्या अपि मे सः श्रीहरिरेव गतिर् गतिप्रदो भूयात् ॥ ४२ ॥

इत्थं विदिततत्त्वायां गोपिकायां स ईश्वरः ।

वैष्णवीं व्यतनोन्मायां प्रजास्नेहमयीं विभुः ॥ ४३ ॥

पदरत्नावली

प्रजास्नेहमयी पुत्रस्नेहरूपिणीम् ॥ ४३ ॥

सत्यधर्मीया

इत्थं विदिततत्त्वायां गोपिकायां मातरीश्वरः स प्रजास्नेहमयीं पुत्रस्नेहरूपिणीं वैष्णवीं मायां व्यतनोत् । स्वकीयामित्युक्तौ भागवतीति स्फुटं नावगता भवतीति वैष्णवीमित्युक्तिः । अनेन च विष्णुत्वं स्पष्टयामासेति ध्वनिः ॥ ४३ ॥

सुमनोरञ्जिनी

प्रजास्नेहरूपां मायाम् । व्यतनोद् विस्तारयामास ॥ ४३ ॥

सद्यो नष्टस्मृतिर्गोपी स्वारोप्यारोहमात्मजम् ।

प्रवृद्धस्नेहकलिलहृदया सा यथा पुरा ॥ ४४ ॥

पदरत्नावली

नष्टा स्मृतिः सुते विष्णुगुणगणस्मरणं यस्याः सा । प्रवृद्धो यः स्नेहस्तेन कलिलं व्याप्तं हृदयं यस्याः सा । सा यथा पुरा तथा, अभूदिति शेषः ॥ ४४ ॥

सत्यधर्मीया

सद्यो नष्टा स्मृतिः कुमतिः स मे गतिरित्याद्या दर्शनोपयोगस्मृतिर् यस्याः सा । तत्कथमित्यतः कथयति ॥ स्वारोप्येति ॥ प्रवृद्धो यः स्नेहस्तेन कलिलं व्याप्तं हृदयं यस्याः सा । सा पुरा यथा तथाऽभूदिति शेषः ॥ ४४ ॥

सुमनोरञ्जिनी

सद्यस् तत्काले । नष्टा स्मृतिः श्रीकृष्णे परब्रह्मत्वानुस्मरणं यस्याः सा । आत्मजं कृष्णम् । आरोहं कटिम् । सु सम्यक् आरोप्य । प्रवृद्धस्नेहेन कलिलं व्याप्तं हृदयं यस्याः सा । बभूवेति शेषः ॥ ४४ ॥

त्रय्या चोपनिषद्भिश्च साङ्ख्ययोगैश्च सात्त्वतैः ।

उपगीयमानमाहात्म्यं हरिं साऽमन्यतात्मजम् ॥ ४५ ॥

पदरत्नावली

तन्मायां शृङ्गग्राहकतयैव दर्शयति त्रय्येति । त्रय्या ‘अग्निमीे’ इत्यादिकया । उपनिषद्भिः ‘एष पन्थाः’ इत्यादिकाभिः । सत्त्ववान् हरिस् तद्विषयैः सात्त्वतैः साङ्ख्ययोगैः पञ्चरात्रादिशास्त्रैः ॥ ४५ ॥

सत्यधर्मीया

तन्मायावैभवं शृृङ्गिग्राहकतया दर्शयति ॥ त्रय्येति ॥ वेदेन । उपनिषद्भि-रग्निमीेत्यादिना । उपनिषदां वेदत्वेऽपि वेदान्तत्वेन पृथगुक्तिः । एष पन्था इत्यादिकाभिः । साङ्ख्यं कापिलं योगैर्योगशास्त्रैः सात्वतैः पञ्चरात्रादिभिः । सात्वान्भगवांस्तद्विषयैः सात्वतैः साङ्ख्ययोगैः पञ्चरात्रादिशास्त्रैरित्यपि व्यातन्वते । वृद्धाच्छाभावश्छान्दसः । उपगीयमानं माहात्म्यं यस्य तं हरिं साऽऽत्मजं स्वसुतममन्यतेति ॥ ४५ ॥

सुमनोरञ्जिनी

अहो भगवन्मायामाहात्म्यं किं वर्णनीयम् । या क्षणार्धे आत्मजं हरिम् अमन्यत सा सैव क्षणार्धे, त्रय्या अग्निमी इत्यादिकया । उपनिषद्भिर् एष पन्थेत्यादिभिः । सांख्यं ज्ञानम् । तस्य योगैर् उपायभूतैः पञ्चरात्रादिभिश्च करणैः, सात्वतैः सत्ववान् हरिस् तत्सम्बन्धिनः सात्वतास् तैः कर्तृभिः । उपगीयमानं माहात्म्यं यस्यासौ तथोक्तस् तं हरिम् आत्मजं स्वपुत्रम् । अमन्यतेति

॥ ४५ ॥

राजोवाच–

नन्दः किमकरोद् ब्रह्मन् श्रेय एवं महोदयम् ।

यशोदा च महाभागा पपौ यस्याः स्तनं हरिः ॥ ४६ ॥

पदरत्नावली

श्रेयः पुण्यम्, पूर्वजन्मनीति शेषः । ‘स्याद्धर्ममस्त्रियां पुण्यश्रेयसी सुकृतं वृषः’ इत्यमरः । महानुदयः फलं यस्मात् तत् तथा । महान् भागो भाग्यं यस्याः सा महाभागा । ‘भागो भाग्यैकदेशयोः’ इति यादवः ॥ ४६ ॥

सत्यधर्मीया

श्रुतनन्दतत्सुन्दरीसौभगो राजा चित्ते चित्रं मन्वानो मुनिं तन्निदानं पृच्छतीति वदति ॥ राजेति । ज्ञानपूर्ण एवं महानुदयः फलं येन तच्छ्रेयः सुकृतम् । स्याद्धर्ममस्त्रियां पुण्यश्रेयसी सुकृतं वृष इत्यमरः । एवंमहोदयमिति समस्तं वा । एवमुक्तरीत्या महानुदयो येन तदिति विग्रहः । महाभागा महान्भागो भाग्यं यस्याः सा । भागो भाग्यंशतुर्यांश इति यादवः । महाभागधेयवतीति वा । भागो रूपार्धकः प्रोक्तो भागधेयैकदेशयोरिति विश्वः । किं तत्कार्यं त्वया श्रुतं क्षितिपत इत्यत आह ॥ हरिर्यस्याः स्तनं पपौ पीतवानिति । एवं महोदयं श्रेयो यशोदा नन्दश्च किमकरोदिति पृथक् पृथगन्वयः ॥ ४६ ॥

सुमनोरञ्जिनी

राजा सानन्दं पृच्छतीत्याह ॥ राजेति ॥ एवं प्रकारेण महान् उदयो ऽभ्युदयो यस्मात् । तत् श्रेयः सुकृतम् । किं किं जातीयमकरोत् । प्राग्जन्मनीति शेषः । यशोदा च किं श्रेय अकरोदिति सम्बन्धः । कुतः । यतः महान् भागो भाग्यं यस्याः सा । अतः । किं तद्भाग्यम् । यस्याः स्तनं हरिः पपौ तदेव भाग्यम् । किं ततोऽन्यद्भाग्यमस्तीति भावः

॥ ४६ ॥

पितरौ नान्वविन्देतां कृष्णरामार्भकेहितम् ।

गायन्त्यद्यापि कवयो यल्लोकशमलापहम् ॥ ४७ ॥

पदरत्नावली

पितरौ देवकीवसुदेवौ । कृष्णरामार्भकेहितं कृष्णस्य रामाभिः साकं क्रियमाणम् अङ्गरक्षादिरूपमर्भकचेष्टितम् । कृष्णबलरामनाम्नोरर्भकयोर् बालकयोर् ईहितं चेष्टितमिति च । नान्वविन्देतां नावाप्नुताम् । ‘वेत्ति रूपं विद ज्ञाने विन्ते विद विचारणे । विद्यते विद सत्तायां लाभे विन्दति विन्दते ॥’ इति कारिकाया लाभार्थो विदधातुरत्र ज्ञेयम् । कवयो ज्ञानिनः । लोकानां शमलं पापं तदपहन्तीति तत् तथा ॥ ४७ ॥

सत्यधर्मीया

पितरौ साक्षात्प्रसूजनयितारौ देवकीवसुदेवौ कृष्णरामार्भके हितं कृष्णस्य रामाभिः सह क्रियमाणमङ्गरक्षाद्यारभ्येतरतरुण्यङ्गसङ्गादिरूपमर्भकचेष्टाम् । रामा सुन्दरीत्वेनादौ दृष्टा पूतना तदादिविषयेऽर्भके हितमिति वा । नान्वविन्देतां न प्राप्नुवतः । एतौ च प्राप्नुवन्तौ । किं तन्माहात्म्यमित्यत आह ॥ गायन्तीति । अद्यापि कवयो ब्रह्माद्या लोकशमलापहं लोकानां शमलं पापं तदपहन्तीति तत्तथा गायन्ति । लोकानां शं येन तल्लोकशं लोकशं च तन्मलापहं चेति वाऽनेकार्थविशेषो ज्ञेयः । तत् त्रय्या चेत्यादिना हरिं सामान्येनात्मजमित्यसाधारणधर्मैरेकप्रसक्तेः । पूर्वत्रेव पपौ यस्याः स्तनं हरिरित्यत्र गायन्त्यद्यापि कवयो यल्लोकशमलापहमित्युक्तेश्च रामग्रहणं मनोरममिति शङ्कासङ्कोचोऽन्वयन एवं ज्ञेयः । यद्वा प्रान्ते सहरामो वसंश्चक्रे इत्युदीरणेन सहभूतमात्रेण योग्यक्रीडादिकर्तृत्वेन छात्रेण सह गुरुः पूजित इत्यादौ यथा तरतमभावस्तथाऽत्रेति कृष्णरामयोरर्भके हितमित्यपि सम्भवतीति ज्ञेयम् । याभ्यां तप आदिकं कृत्वा पुत्रत्वेन सम्पादितः कृष्णस्तौ नैतद्दृष्टवन्तावेतौ तु यशोदानन्दौ दृष्टवन्तावितीदं चित्रमिति भावः । अपे क्लेशतमसोरिति योगविभागाद्धन्तेर्डः । अनाशीरर्थे । आशिषि हन इत्युक्तेः । सत्तायां विद्यते ज्ञाने वेत्तिविन्तो विचारणे । विन्दते विन्दति प्राप्तावित्युक्तेर्लाभार्थो विदधातुरिति ज्ञेयम् ॥ ४७ ॥

सुमनोरञ्जिनी

अन्यच्च । पितरौ देवकीवसुदेवावपि । कृष्णरामयोर् अर्भकेहितं बालक्रीडाम् । नानुविन्देतां नाजानीताम् । यद् लोकानां श्रवणमात्रेण शमलापहं पापहरम् । अद्यापि कवयो गायन्ति तद् इमौ यशोदानन्दौ अनुविन्देताम् । अतः । नन्दो यशोदा च श्रेयः किमकरोदिति ॥४७॥

श्रीशुक उवाच–

द्रोणो वसूनां प्रवरो धरया सह भार्यया ।

करिष्यमाण आदेशं ब्रह्मणस्तमुवाच ह ॥ ४८ ॥

पदरत्नावली

प्रत्यारभ्यते इत्यर्थको हशब्दः, कथान्तरमिति शेषः । ‘प्रत्यारम्भे प्रसिद्धे ह’ इति यादवः ॥ ४८ ॥

सत्यधर्मीया

उत्तरासुतपृष्टो ऋषिश्रेष्ठ उत्तरं वक्तुमारभत इत्यर्थको हशब्दः । प्रत्यारम्भे प्रसिद्धे हेति यादवः । वसूनां प्रवरो नाम्ना द्रोणो धरया तन्नाम््नया भार्यया सह ब्रह्मण आदेशं करिष्यमाणस्तं ब्रह्माणमुवाच ॥ ४८ ॥

सुमनोरञ्जिनी

ब्रह्मणश् चतुर्मुखस्य । आदेशम् आदिष्टं कार्यं करिष्यमाणः । तं ब्रह्माणम्

॥ ४८ ॥

जातयोर्नौ महादेवे भुवि विश्वेश्वरे हरौ ।

भक्तिः स्यात् परमा लोके ययाऽञ्जो दुस्तरं तरेत् ॥ ४९ ॥

पदरत्नावली

भुवि जातयोर्नौ महादेवे देवोत्तमे विश्वेश्वरे हरौ, यया दुस्तरं घोरभवाब्धिं तरेन्नरो लोके परमा सा भक्तिः स्यात् ॥ ४९ ॥

सत्यधर्मीया

भुवि जातयोर्नौ महादेवे विश्वेश्वरे हरौ यया दुस्तरं संसारसागरं तरेन्नरो लोके परमा सा भक्तिः स्यात् । लोक इति प्रथमान्तः पाठोऽपि दृश्यते । स दृश्यः ॥ ४९ ॥

सुमनोरञ्जिनी

महादेवे देवेषूत्तमे । नौ आवयोः । परमा भक्तिः स्यात् । लोके जनमध्ये । अलोके लोकविलक्षणे हराविति वा । यद्वा लोके तद्भक्तलोके । भक्तिः स्यात् । योग्येति शेषः । यया भगवद्भक्त्या । दुस्तरं तर्तुमशक्यं संसारम् ॥ ४९ ॥

अस्त्वित्युक्तः स एतेन व्रजे द्रोणो महायशाः ।

जज्ञे नन्द इति ख्यातो यशोदा सा धराऽभवत् ॥ ५० ॥

पदरत्नावली

एतेन ब्रह्मणा ॥ ५० ॥

सत्यधर्मीया

एतेन ब्रह्मणाऽस्त्वित्युक्तो महायशा द्रोणो नन्द इति ख्यातो व्रजे जज्ञे । सा धरा च यशोदाऽभवदित्यन्वयः ॥ ५० ॥

सुमनोरञ्जिनी

एतेन ब्रह्मणा । द्रोणो नन्द इति ख्यातो जज्ञे । धरा च यशोदाऽभवत्

॥ ५० ॥

ततो भक्तिर्भगवति पुत्रभूते जनार्दने ।

दम्पत्योर्नितरामासीद् गोपगोपीषु भारत ॥ ५१ ॥

पदरत्नावली

गोपगोपीषु मध्ये नितराम् ॥ ५१ ॥

सत्यधर्मीया

गोपगोपीषु तन्मध्ये । ततश्चतुराननवरतः पुत्रभूते जनार्दने भगवति नितरां भक्तिर् दम्पत्योरासीत् । दम्पत्योरिति गतम् । जाया च पतिश्च दम्पती इत्यत्र पुरत एव तरुण्याः स्फुरणादुत्तरत्र गोपीगोपेष्विति वक्तव्यमिति चेत् । साक्षादधोक्षजजनियोनित्वाज्जायापुरस्कृतिरितरत्र त्वितरासामप्राधान्यं च पुंसामिति द्योतयितुमर्थविशेषं चिव्द्यत्यस्योक्तिरिति तात्पर्यमवधेयम् ॥५१॥

सुमनोरञ्जिनी

यद्यपि तयोः स्वभावसिद्धा भक्तिः । ततो ब्रह्मवरात् । दंपत्योर् नितराम् अधिकम् । आसीत् । गोपगोपीषु मध्ये ॥ ५१ ॥

कृष्णो ब्रह्मण आदेशं सत्यं कर्तुं व्रजे विभुः ।

सहरामो वसंश्चक्रे तेषां प्रीतिं स्वलीलया ॥ ५२ ॥

॥ इति श्रीमद्भागवते दशमस्कन्धपूर्वार्धे नवमोऽध्यायः ॥

पदरत्नावली

आदेशं हरौ सुदृढभक्तिरस्त्वित्यादिरूपम् ॥ ५२ ॥

॥ इति श्रीमन्महेन्द्रतीर्थपूज्यपादशिष्यविजयध्वजतीर्थभिक्षुकृतायां पदरत्नावल्यभिधायां श्रीमद्भागवतटीकायां दशमस्कन्धपूर्वार्धे नवमोऽध्यायः ॥

सत्यधर्मीया

ब्रह्मण आदेशं भक्तिरस्त्वित्यादिरूपं सत्यं यथार्थं कर्तुं विभुः श्रीकृष्णः सहरामो व्रजे वसंस्तेषां नन्दयशोदागोपानां स्वलीलया प्रीतिं चक्रे । अनया भक्तिरुदेतीति भावः

॥ ५२ ॥

॥ इति श्रीभागवतटिप्पण्यां सत्यधर्मयतिकृतायां

दशमस्कन्धपूर्वार्धे नवमोऽध्यायः ॥ १०-९ ॥

सुमनोरञ्जिनी

भक्तानुकंपी कृष्णोऽपि ब्रह्मण आदेशं वरदानरूपम् । सत्यं कर्तुम् । प्रीतिं सन्तोषम् ॥ ५२ ॥

**॥ इति श्रीमद्भागवतदशमस्कन्धपूर्वार्धव्याख्यायां **

(गूढकर्तृकायां) सुमनोरञ्जिन्यां नवमोऽध्यायः ॥ १०-९ ॥