एवं स ववृधे विष्णुर्नन्दगेहे जनार्दनः
॥ अथ अष्टमोऽध्यायः ॥
श्रीशुक उवाच–
एवं स ववृधे विष्णुर्नन्दगेहे जनार्दनः ।
कुर्वन्ननिशमानन्दं गोपालानां सयोषिताम् ॥ १ ॥
पदरत्नावली
भगवति भक्तानां भक्त्युद्रेकजननायानन्यसाध्यमाहात्म्यं वर्ण्यतेऽस्मिन्नध्याये । परीक्षितः प्रश्नबीजमुत्थापयन् श्रीशुकः वृत्तानुवादसूचनपूर्वकं कृष्णकथामाह एवमिति ॥ एवमुक्तप्रकारेण जनार्दनः दुष्टजनानर्दयति हिनस्तीति । अर्द हिंसायामिति धातुः ॥ १ ॥
सत्यधर्मीया
अधुना मधुनाथकथाकथनमानसः शुको, नापृष्टः कस्यचिद्ब्रूयादित्यादेः परीक्षिच्चेतसि शङ्कामङ्कुरयन्निव किञ्चित्सञ्चुकोचेवात्मानमेतद्विषय इति दर्शयन्नुपसंहरन्निवेदतीति समीरयति ॥ श्रीशुक इति ॥ सयोषितां गोपालानामानन्दं तोषमानन्दनमारभ्येति च । अनिशं निरन्तरम् । अनिशं निशं शमभावस्तन्न भवतीत्यनिशं सुसुखमिति द्वितीयपक्षेऽर्थः । कुर्वन्नन्दगेहे जनार्दनो विष्णुः सः साररूपी गुणाभावः साक्षाद्वृद्धिमन्तृगुणाभावसूचकः । अविभक्तिको वा निर्देशो यः कुर्वन्स इति वाऽन्वयः । ववृधेऽवर्धत तां वृद्धिं जनार्दन इतीरयन्नुपजहास । ततश्चापेक्ष्य लोकस्य हि मन्ददृष्टिमिति सिद्ध्यतीति मन्तव्यम् ॥ १ ॥
सुमनोरञ्जिनी
भूभारपरिहारार्थमवतीर्णस्य हरेरवतारप्रयोजनशकटासुरतृणावर्तयोर्भङ्गभङ्गीं प्रदर्शयत्यनेनाध्यायेन । तत्रादौ शुकः परीक्षिन्महाराजस्य प्रश्नबीजमुत्थापयन्नाह ॥ एवमिति ॥ यथा पूतनां संहृत्य स्वीयानामानन्दमातेने । एवं दिने दिनेऽद्भुतलीलां कुर्वन्स्वीयानामानन्दं वितन्वन्नेव ववृधे । एतदेव विवृणोति ॥ जनार्दन इति ॥ जनान् दुष्टजनानर्दयतीति तथोक्तः ॥ १ ॥
राजोवाच–
येन येनावतारेण भगवान् हरिरीश्वरः ।
करोति कर्णरम्याणि मनोज्ञानि च नः प्रभो ॥ २ ॥
पदरत्नावली
कर्णरम्याणि श्रोत्रसुखजनकानि । मनोज्ञानि मनःप्रीतिजनकानि ॥ २ ॥
सत्यधर्मीया
येनयेनेति पदमेकम् । येनेत्येकपदस्य स्थाने समुदितादेशः । विस्तृतं चैतत् ‘सर्वस्य द्वेसूत्रशेखरतत्त्वसुबोधिन्योर्बोध्यम् । कर्णरम्याणि श्रोतृश्रोत्रसुखकराणि । नीतिगाथादीनि तथा भवन्तीत्यत आह ॥ मनोज्ञानीति ॥ मनःप्रीतिसम्पादकान्यपि न सर्वाधिकारिसाधारण्येन तत्रादर इति कर्णरम्याणीति । यानि यानि भगवान्हरिरीश्वरः कर्माणि सत्यव्रतादिरक्षणादीनि तानि तान्यपि नः श्रोतॄणामुक्तरूपाणि भवन्ति ॥ २ ॥
सुमनोरञ्जिनी
एवमित्यनेन सूचितमाहात्म्यान्तरे जातजिज्ञासू राजा पृच्छति ॥ येन येनेति ॥ कर्णरम्याणि श्रोत्रसुखकराणि, शब्दतः । अर्थतस्तु मनोज्ञानि मनःप्रीतिकराणि चरितानि । भगवान् येन येनावतारेण करोति तानि नो ऽस्मानुद्दिश्यैव अस्मत्प्रयोजनार्थमेव करोति नान्यथा । नः कर्णरम्याणीति वा ॥ २ ॥
यच्छृण्वतोऽपैत्यरतिर्वितृष्णा सत्वं विशुद्ध्यत्यचिरेण पुंसः ।
भक्तिर्हरौ तत्पुरुषे च सख्यं तदेव सारं वद मन्यसे चेत् ॥ ३ ॥
पदरत्नावली
अरतिर् हरिपराङ्मुखत्वम् । वितृष्णा विषयेषु विविधा स्पृहा । सत्वमन्तः-करणम् । सारं श्रेष्ठसम्पत् । मन्यसे चेद् यदि भगवन्माहात्म्यश्रवणविशेषं प्रति अनुग्राह्यत्वेन मन्यसे, मामिति शेषः ॥ ३ ॥
सत्यधर्मीया
यद्भगवत्कर्म शृृण्वतः पुंसोऽरतिः खेदोऽपैति (न) गच्छति वितृष्णाऽन्य-विषयस्पृहाभाववति अरतिः । वितृष्णा विविधा तृष्णाऽऽकाङ्क्षा यस्याः सा मानसग्लानिरपैतीति वा । सत्त्वं मनः, हरौ च भक्तिर्भवति । तत्पुरुषे च सख्यं तद्दासेषु मैत्री । एकैकं निमित्तीकृत्य तं, लोके ख्यातिं विधातुं प्रायोऽवतरति हरिरिति तत्पुरुष इत्युक्तिरिति वा । अलमेक एव स्वसहवासेनोद्धर्तुं किं बहुना बहव इति सूचयितुमिति वा ज्ञेयम् । तत्राप्यान्तरङ्गिको राज्ञो भावस्तु तत्पुरुषे शिवात्मके त्वयीतीत्यानुपूर्व्योदाहर्तुरिति । तत्पुरुषाय विद्महे महादेवाय धीमहि । महेश महितोऽसि तत्पुरुषपूरुषाग्य्रो भवानित्यादेः । तदेव कर्म सारं घनं श्रेष्ठम् । घने सारं वरेण्यव-त्सारमुदाहरन्तीति विश्वः । वद, मन्यसे चेन्मां दयनीयमिति शेषः । तत्पुरुषे त्वयि सख्यं मम मन्यसे चेदित्यन्वयने नाध्यहारायास इति मन्तव्यम् । यत्सत्त्वं साधुत्वं वचनप्रयोजकं तत्पुरुषे मयि मन्यसे चेदिति वा । एतेन मन्यसे चेदिति वचनत आविर्भविष्यच्छुकदुश्चित्तता च्यावितेति सन्तोष्टव्यम् ॥ ३ ॥
सुमनोरञ्जिनी
तदेवाह ॥ यदिति ॥ यद् भगवच्चरितं शृृण्वतो ऽरतिः क्षुधादिनिमित्तं दुःखं सांसारिकं वा । वितृष्णा विविधतृष्णा च अपैति नश्यति । सत्वम् अन्तःकरणम् । तत्पुरुषेषु तस्य हरेः पुरुषेषु भक्तेष्वित्यर्थः । सख्यं च जायत इति शेषः । चोऽवधारणे । तदेव वद । वक्तुं मन्यसे चेत् ॥ ३ ॥
अथान्यदपि कृष्णस्य तोकाचरितमद्भुतम् ।
मानुषं देहमासाद्य तज्जातिमनुरुन्धतः ॥ ४ ॥
पदरत्नावली
तोकाचरितं बालचरितम् । अनुरुन्धतो ऽनुसृत्य चेष्टतः ॥ ४ ॥
सत्यधर्मीया
फलितमभिलपति । मानुषं तद्वदविद्वद्विदितमासाद्य प्राप्य तज्जातिं गोपाल-जातिमनुरुन्धतोऽनुकुर्वतः । कारुण्याद्भक्तकृपापारवश्येन । कृष्णस्य तोकाचरितं गतम् । अन्यदपि यत्सर्वपापप्रणाशनं विस्तरेण वक्तुमर्हसि योग्यो भवसि । तत्र तत्र प्रभो त्वं दयालुरसीति । स्याद्दयालुः कारुणिक इत्यमरः । स्पृहिगृहिपतिदयीत्यालुच् ॥ ४, ५ ॥
सुमनोरञ्जिनी
प्रकृतमनुसरति ॥ अथेति ॥ अथ तोकाचरितं बाललीलाम् । मानुषं मानुषवत्प्रतीतम् । तज्जातिं मानुषजातिम् । अनुरुन्धतो ऽनुकुर्वतः ॥ ४ ॥
विस्तरेणेह कारुण्यात् सर्वपापप्रणाशनम् ।
वक्तुमर्हसि धर्मज्ञ दयालुस्त्वमिति प्रभो ॥ ५ ॥
सुमनोरञ्जिनी
उक्तस्य पुनर्वचनं किमर्थमित्यत उक्तम् ॥ विस्तरेणेति ॥ विस्तरेण कथने किं प्रयोजनमित्यत उक्तम् ॥ कारुण्यात्करुणयैवेति ॥ करुणापि निर्निमित्तं कथं स्यादित्यत उक्तम् ॥ दयालुस्त्वमिति ॥ स्वत एव कृपालुत्वान्न निमित्तापेक्षेति भावः ॥ ५ ॥
श्रीशुक उवाच–
कदाचिदौत्थानिककौतुकाप्लवे जन्मर्क्षयोगे समवेतयोषिताम् ।
वादित्रगीतद्विजमन्त्रवाचकैश्चकार सूनोरभिषेचनं सती ॥ ६ ॥
पदरत्नावली
गृहाद् बहिः शिशोर्निष्क्रमणारव्यसंस्कारस् तत्सम्बन्धि औत्थानिकं तस्मिन् कौतुके उत्सवे य आप्लवो मङ्गलस्नपनं यस्मिन् सस् तस्मिन् दिवसे । जन्मर्क्षं रोहिण्याख्यकृष्ण-जन्मनक्षत्रं तद्योगेऽपि जाते सति समवेतयोषितां सम्मिलितललनानां मध्ये सती प्रशस्तकर्मा यशोदा वादित्रादिभिः सह सूनोरभिषेचनं चकार ॥ ६ ॥
सत्यधर्मीया
औत्थानिककौतुकाप्लवे उत्थानं शिशोरङ्गपरिवर्तनं तत्कालिकं कौतुकं कुलपरम्परागतमङ्गलं तन्निमित्तको य आप्लवः स्नपनं तस्मिन्कर्तव्ये । ‘‘कौतुकं चाभिलाषे स्यादुत्सवे नर्महर्षयोः । परम्परासमायातमङ्गले च कुतूहले । विवाहसूत्रगीतादिभोगकामेषु च स्मृतम्’’ । इति विश्वाद्योग्यार्थोऽपि ज्ञेयः । तत्रापि जन्मर्क्ष्यं रोहिणीनक्षत्रं तद्योगेऽपि जाते सति । समवेतयोषितां मिलितललनानां मध्ये सती स्वयं विद्यमाना नन्दस्य पत्नी । वादित्रगीतैः सहिताश्च ते द्विजेषु ये मन्त्रवाचकास्तैर्द्विजाश्च ते मन्त्रवाचकाश्चेति वा तैः सह सूनोरभिषेचनं चकार तैः कारयामासेति वा । समवेतयोषितामुत्थापनकौतुकाप्लव इति च पाठः । कदाचिद्दिन आप्लव इतस्ततः प्लुतिस्तस्मिन्निति वा । क्रमनिम्नमहीभागकविप्लुतिखगाः प्लव इति यादवः । इति व्याकर्तारः
॥ ६ ॥
सुमनोरञ्जिनी
जन्मर्क्षस्य योगो यस्मिन् तस्मिन् । कदाचित् कालविशेषे । समवेतानां योषिताम् । उत्थापनकौतुकाप्लवे । उत्थापनकौतुकस्य बहिर्निष्क्रामणोत्सवस्य आप्लवे व्याप्तौ सत्याम् । यद्वा उत्थापनम् उत्थितिः शिशोर् अङ्गपरिवर्तनम् । तस्य यत्कौतुकम् उत्सवस् तत्र करणीये आप्लवे अभिषेके अभ्यङ्ग इति यावत् तदर्थं समवेतयोषितां मध्ये । सती यशोदा । वादित्राणि वाद्यानि । गीतानि स्त्रीभिः कृतानि तैर् मन्त्रवाचकैर्द्विजैश्च सह सूनोः कृष्णस्य अभिषेचनं चकारेति सम्बन्धः
॥ ६ ॥
नन्दस्य पत्नी कृतमज्जनादिकं विप्रैः कृतस्वस्त्ययनं सुपूजितैः ।
अन्नाद्यवासःस्रगभीष्टधेनुभिः सञ्जातनिद्राक्षमशीशयच्छनैः ॥ ७ ॥
पदरत्नावली
अन्नाद्यैरन्यैर्वासःस्रगभीष्टधेनुभिश्च सुपूजितैर्विप्रैः कृतं स्वस्त्ययनं माङ्गल्यवचनं यस्य स तथा । कृतं मज्जनचन्दनलेपनादिकं यस्य स तथा । सञ्जाता प्रादुर्भूता निद्रा ययोस्ते अक्षिणी यस्य तम् । शनैर्निद्राभङ्गधिया मन्दम् अशीशयत् शय्यायां निवेशयामास ॥ ७ ॥
सत्यधर्मीया
कृतमज्जनादिकमन्नाद्यवासःस्रगभीष्टधेनुभिः । अभीष्टेति काकाक्षिन्यायेन स्रग्धेनुपदाभ्याम्, अभीष्टाः स्रजश्चाभीष्टा धेनवश्चेत्यन्वेति । अन्नमाद्यं येषां तैश्च वासो वस्त्रं च तेन स्रगभीष्टधेनुभिश्च सुपूजितैर्विप्रैः । आद्यं भक्षयितुं योग्यं समीचीनमिति यावत् तच्च तदन्नम् । विशेषणस्य परनिपातः । ॠहलोर्ण्यदिति ण्यत् । तच्च स्रगभीष्टधेनवश्च ताभिरिति वा । कृतस्वस्त्ययनं, सञ्जातनिद्राक्षं सञ्जाता प्रादुर्भूता निद्रा ययोस्ते अक्षिणी लोचने यस्य तम् । शनैर्निद्राभङ्गभीत्या मन्दमशीशयत् शाययामास । शनैः स्वैरं स्वेच्छमिति यावत् । शनैः शनैश्चरे स्वैर इति विश्वः । अनोऽधस्तनभाग इति शेषः ॥ ७ ॥
सुमनोरञ्जिनी
कृतं मज्जनम् । आदिना गात्रसुरभीकरणादिकं यस्य स तथोक्तस्तम् । अन्नाद्यैर्भोज्यैर् वासोभिः स्रग्भिर् अभीष्टाभिर्धेनुभिश्च । अभीष्टैर् अन्नादिभिन्नैर् अभिलषितपदार्थैरिति वा । सुष्ठु पूजितैर् विप्रैः कृतस्वस्त्ययनम् । संजाता निद्रा ययोस्ते तथाविधेऽक्षिणी यस्यासौ तथोक्तस्तं कृष्णम् । शनैर् निद्राभङ्गभीत्या शब्दमकुर्वन्ती । अशीशयत् स्वापयामास ॥ ७ ॥
औत्थानिकौत्सुक्यमना मनस्विनी समागतान् पूजयती व्रजौकसः ।
नैवाशृणोद् वै रुदितं सुतस्य सा रुदन् स्तनार्थी चरणावुदक्षिपत् ॥ ८ ॥
पदरत्नावली
औत्थानिके उत्सवे औत्सुक्ययुक्तं मनो यस्याः सा । मनस्विनी प्रशस्तमनाः । उदक्षिपद् उद्धृत्य क्षिप्तवान् ॥ ८ ॥
सत्यधर्मीया
औत्थानिकौत्सुक्यमना औत्थानिके प्रारब्धाङ्गपरिवर्तनव्यापारे औत्सुक्य-मुत्सुकता यस्य तत्तन्मनो यस्याः सा शान्ता । मनस्विनी प्रशस्तचित्ता । समागतान्व्रजौकसः स्त्रीपुंसान्पूजयती पूजयन्ती सभाजयन्ती सा सुतस्य रुदितं रोदनं नैवाृणोन्नैव शुश्राव यदा तदा स्तनार्थी रुदंश्चरणावुदक्षिपदुद्धृत्याक्षिपत् । अनुनये कर्तव्ये सतीत्यपि सूचयति वैकारः । यस्य सुतस्य वैरुदितम् । विगतं रुदितं रोदनं यस्य स विरुदितस्तस्य भावो वैरुदितं कदाऽप्यरोदमानो तातस्य रुदितं न वै अशृणोदित्यपि योजयन्ति ॥ ८ ॥
सुमनोरञ्जिनी
औत्थानकर्मणि औत्सुक्यं यस्य तादृशं मनो यस्याः सा । मनस्विनी प्रशंसनीयमनाः । भूमनिन्दाप्रशंसासु भवन्ति मतुबादय इति वचनात् । समागतान् व्रजौकसः गोपान् गोपयोषितश्च पूजयंती सा यशोदा । सुतस्य रुदितं रोदनशब्दं नैवाृणोत् । उदक्षिपद् ऊर्ध्वमक्षिपत्
॥ ८ ॥
अनः शयानस्य शिशोरथाल्पकप्रवालमृद्वङ्घ्रिहतं व्यवर्तत ।
विध्वस्तनानारसकुप्यभाजनं व्यत्यस्तचक्राक्षविभिन्नकूबरम् ॥ ९ ॥
पदरत्नावली
अथ उत्क्षेपानन्तरम् अनः शकटं व्यवर्तत विपर्यस्तमपतत् । प्रवालवन् नूतनकिसलय इव मृदू कोमलौ च तावङ्घ्री च प्रवालमृद्वङ्घ्री, अल्पकौ अणुतरौ च तौ प्रवालमृद्वङ्घ्री च, ताभ्यां हतं प्रहतम् । विध्वस्तानि नानारसवन्ति कुप्यभाजनानि हेमरूप्यभिन्नताम्रादिभाजनानि यस्मिंस्तत् तथा । ‘अकुप्यं रूप्यहेमाख्यं कुप्यमन्यद् धनं भवेत्’ इत्यभिधानम् । व्यत्यस्तौ चक्रं चाक्षश्च चक्रप्रोतदारुविशेषश्च यस्य तत् । विभिन्नो विशीर्णः कूबरो युगन्धरो यस्य तत् । व्यत्यस्तचक्राक्षं च तद् विभिन्नकूबरं च तथाभूतं व्यवर्तत ॥ ९ ॥
सत्यधर्मीया
शयानस्य स्वाधस्ताच्छिशोः । अल्पकावत्यणू । प्रवालो वल्लकी दण्डे विद्रुमे वनपल्लव इति विश्वान्नवपल्लववन्मृदू वा । प्रवालवद्विद्रुमवद्रक्तौ च तौ मृदू चेति वा । तौ च तावङ्घ्री ताभ्यां हतं ताडितम् । अनो विध्वस्तानि नाना नानाविधरसा येषु कुप्येषु तदितरभाजनेष्विति । विध्वस्तानि नानारसकुप्यभाजनानि यस्मिंस्तत् । व्यत्यस्तौ चक्रं चाक्षश्च शकटसम्बन्धी दारुविशेषः स यस्य तत् । विभिन्नः कूबरो युगन्धरो यस्य तत् । व्यत्यस्तचक्राक्षं च तद्विभिन्नकूबरं च तत्सत् । व्यवर्तत विपर्यस्तमभूत् । राजसूयादिनिपातितः कुप्यशब्दः । ताभ्यां यदन्यत्कुप्यम् । कूबरस्तु इत्युभयतश्चामरः । अनः समाविश्य दितेः सुतोऽसौ स्थितः प्रतीपाय हरेः सुपापः । क्षित्यो नसिस्थः शकटाक्षनामा विष्णुं स नीत्वा सहितः पपात । ममार चाश्वित्यादि श्रीमदुक्तेर्विशेषोऽवसेयः
॥ ९ ॥
सुमनोरञ्जिनी
अथ पादोत्क्षेपणानन्तरम् । शयानस्य शिशोः । अल्पकौ प्रवालवन् नवकिसलयवन् मृदू यौ अङ्घ्री चरणौ ताभ्यां हतं ताडितम् । अनः शकटम् । व्यवर्तत वि विपरीतं यथा तथा अवर्तत । अधोमुखमभूदित्यर्थः । कीदृशं सत् । विध्वस्तानि इतस्ततो विक्षेपेण नष्टानि नानारसपूर्णानि कुप्यानि कांश्यादिनिर्मितानि भाजनानि यस्य तत् । व्यत्यस्ताश् चक्राक्षाश् चक्रे अक्षश्च चक्रयोः प्रोतो दारुविशेषः । ते यस्य । तच्च तद् विभिन्नो भग्नः कूबरो युगन्धरो यस्य तादृशं सदित्यर्थः ॥ ९ ॥
दृष्ट्वा यशोदाप्रमुखा व्रजस्त्रिय औत्थानिके कर्मणि याः समागताः ।
नन्दादयश्चाद्भुतदर्शनाकुलाः कथं स्वयं वै शकटं विपर्यगात् ।
इति ब्रुवन्तोऽतिविषादमोहिता जनाः समन्तात् परिवव्रुरार्तवत् ॥ १० ॥
पदरत्नावली
विपर्यगाद् विपरीतमपतत् ॥ १० ॥
सत्यधर्मीया
यशोदा प्रमुखं मुख्या यासां ता अस्वाङ्गत्वान्न ङीष् । व्रजस्त्रिय औत्थानिके कर्मणि याः समागता एतदन्या एता वा । नन्दादयः पुमांसश्च दृष्ट्वा शकटमनः कथं स्वयं पातयित्रभावेऽपि विपर्यगाद्विपरीतं पपातेति । अद्भुतदर्शनेनाश्चर्यावलोकनेनाकुलाश्चञ्चलचित्ताः सन्तोऽब्रुवन् । इति ब्रुवन्त आर्तवदार्ता विषादमोहिता जनाः परिवव्रुः ॥ १० ॥
सुमनोरञ्जिनी
यशोदा प्रमुखा यासां ता व्रजस्त्रियो नन्दादयश्च अद्भुतदर्शनेन आकुला व्याकुलमनसः । विपर्यगाद् व्यत्यासमगमत् । इति एवं प्रकारेण विषादेन मनःखेदेन मोहेन च युक्ताः । आर्तवद् आर्ता इव समंताद् अभितः परिवव्रुरित्यन्वयः ॥ १० ॥
ऊचुस्तदव्यक्तमतीन् गोपान् गोपीश्च बालकाः ।
रुदताऽनेन पादेन क्षिप्तमेतन्न संशयः ॥ ११ ॥
पदरत्नावली
अव्यक्तमतीन् अव्यक्ता बृहच्छकटभञ्जने निश्चयमनाप्नुवाना मतिर्बुद्धिर्येषां ते, तान्, कुलवृद्धान् ॥ ११ ॥
सत्यधर्मीया
तदव्यक्तमतींस्तस्मिन्ननो व्यत्यस्तीभवनकर्मण्यव्यक्ता निश्चयमनाप्नुवाना मतिर्यासामेषां च तान् गोपीर्गोपांश्च । बालकास्तत्रत्याः । रुदताऽनेन बालेन कर्त्रा, पादेन करणेनैतदनः क्षिप्तं संशयो न नास्तीत्यूचुः । अनेन पादेनेत्यनेन प्राक् चरणावुदक्षेपादिर्बालभावे स्वभावोऽयमित्यावेदयितुम् । वस्तुतस्तु तद्विपर्यास एकेनैवासेति द्योतयन्तीति मन्तव्यम् । हस्तोऽपि क्षिप्तः किमिति कश्चिदविपश्चिच्छङ्केत । तदवकाशपदान्तरं यत्र नास्ति तत्र करावकारः कथमित्यपि कथयन्तीति कथयति ॥ नेति ॥ संशयः कोमलशयः पाणिर्न विनिक्षिप्त इत्यूचुः । पञ्चशाखः शयः पाणिरित्यमरः । सन्देहादिपदमसन्दानिता संशयपदं निबन्धान इदं योजनमसूचयत् ॥११॥
सुमनोरञ्जिनी
तत् तदा । अव्यक्ता, स्पष्टं कमपि कारणविशेषमनवहमाना मतिर्येषां तान् । अनेन कृष्णेन कर्त्रा । पादेन करणेन । एतत् शकटम् ॥ ११ ॥
न ते श्रद्दधिरे गोपा बालभाषितमित्युत ।
अनन्तस्याप्रमेयस्य बलं तस्य न वै विदुः ॥ १२ ॥
पदरत्नावली
‘उताप्यर्थविकल्पयोः’ इत्यमरः ॥ १२ ॥
दुर्घटभावदीपिका
ते गोपाः, इति रुदितानेन पादेन क्षिप्तमिति यद्बालभाषितं बालानां वाक्यं तन्नोत नैव श्रद्दधिर इति । एतेन बालभाषितमित्यस्य हेतुगर्भत्वात् । बालभाषितं न श्रद्दधिर इत्यनेनैव बालभाषितत्वान्न श्रद्दधिर इत्यर्थस्य लाभादितिशब्दो व्यर्थ इति दूषणं पराकृतम् । इतिशब्दस्य हेत्वर्थकमनङ्गीकृत्य पूर्वोक्तवचनपरामर्शार्थकत्वाङ्गीकारात् । एतेनैवोत शब्दो व्यर्थ इति दूषणं परास्तम् । उत शब्दस्यैवार्थकत्वाङ्गीकारात् ॥ १२ ॥
सत्यधर्मीया
अनन्तस्य नाशरहितस्याप्रमेयस्य साकल्येन प्रमातुमशक्यस्य ते बलं न विदुर्वै यतस्तत इदं बालभाषितमित्युत तदन्तरं ते न श्रद्दधिरे न विश्वासं चक्रुः । उत भवेदथवा नेति विकल्पं कृत्वेति वा । उताप्यर्थविकल्पयोरित्यमरविश्वौ ॥ १२ ॥
सुमनोरञ्जिनी
ते गोपाः । बालभाषितम् । न श्रद्दधिरे । बालभाषितमिति हेतोः । उत किं च । अनन्तस्य अपरिच्छिन्नस्य । अप्रमेयस्य साकल्येन तदनुग्रहमन्तरा प्रमातुमशक्यस्य कृष्णस्य बलं न विदुः ॥ १२ ॥
रुदन्तं सुतमादाय यशोदा ग्रहशङ्किता ।
कृतस्वस्त्ययनं विप्रैः सूक्तैः स्तनमपाययत् ॥ १३ ॥
पदरत्नावली
ग्रहशङ्किता बालग्रहान् शङ्कमाना ॥ १३ ॥
सत्यधर्मीया
ग्रहो मारिकाग्रहः । विप्रैः सूक्तैः कृतस्वस्त्ययनं स्तनमपाययत् ॥१३॥
सुमनोरञ्जिनी
ग्रहशङ्किता ग्रहबाधां शङ्कमाना सती । विप्रैः । सूक्तैर् ग्रहबाधापरिहारकैः । स्तनम् अपाययत् पाययामास ॥ १३ ॥
पूर्ववत् स्थापितं गोपैर्बलिभिः सपरिच्छदम् ।
विप्रा हुत्वाऽर्चयाञ्चक्रुर्दध्यक्षतकुशाम्बुभिः ॥ १४ ॥
पदरत्नावली
स्थापितम्, अन इति शेषः । बलिभिर् महाशक्तिमद्भिः । सपरिच्छदं सपरिकरम् ॥ १४ ॥
सत्यधर्मीया
पूर्ववत्स्थापितमनः । बलिभिर्गृहशान्त्यर्थं प्रक्षिप्तान्नादिभिः सपरिच्छदं सपरिकरं विप्रा हुत्वा दध्यक्षतकुशाम्बुभिरर्चयाञ्चक्रुः ॥ १४ ॥
सुमनोरञ्जिनी
स्थापितं शकटमिति शेषः । सपरिच्छदं सपरिकरम् । विप्रा अग्नौ हुत्वा । दध्यक्षतादिभिर् अर्चयाञ्चक्रुः ॥ १४ ॥
येऽसूयानृतदम्भेर्ष्याहिंसामानविवर्जिताः ।
न तेषां सत्यशीलानामाशिषो विफलाः क्वचित् ॥ १५ ॥
पदरत्नावली
विप्रलक्षणमाह य इति ॥ स्तेयं चौर्यम्, अनृतं मृषाभाषणं, दम्भोऽविद्यमान-गुणप्रदर्शनम्, ईर्ष्या असूया, हिंसा भूतद्रोहः, मानो गर्वः, एतदादिदोषैर्विशेषेण वर्जिता ये तेषां सत्यशीलानां परब्रह्मनिष्ठानाम् ॥ १५ ॥
सत्यधर्मीया
असूया सत्सु गुणेषु दोषाविष्कृतिर्न मद्वशोऽसाविति चित्ततोदमात्सर्यमार्य इत्याद्युक्तमात्सर्यं वा ईर्ष्याऽक्षमा वा । दम्भोऽविद्यमानगुणप्रदर्शनम् । हिंसा परद्रोहादिः । मानो गर्व एतदादिविकला ये तेषां सत्यशीलानाम् । सत्यशब्दोऽनसूयादिसर्वोपलक्षकः । सत्यं ब्रह्म तन्निष्ठानामिति वा । आशिषः क्वचिदपि विफला न भविष्यन्ति ॥ १५ ॥
सुमनोरञ्जिनी
ये, स्तेयं चौर्यं भगवद्गुणानामात्मन्यारोपो वा । अनृतम् असत्यवचनम् । दम्भः स्वयोग्यतातिक्रमेण स्वमाहात्म्यज्ञापनम् । ज्ञात्वापि स्वात्मनोऽल्पत्वं दम्भो माहात्म्यभावनमिति गीताभाष्ये । ईर्ष्या परोत्कर्षासहनम् । हिंसा अवैदिकी, वृथा प्राणिहिंसा । मानः कुलीनत्वाद्यभि-मानः । एतैर्विवर्जिताः । तेषां, सत्ये साधुगुणस्वरूपे भगवति शीलं स्वभावः, समाधिर्मनोनिवेशनं वा येषां तेषाम् । आशिष आशीर्वचनानि ॥ १५ ॥
इति बालकमानीय सामर्ग्यजुरुपाकृतैः ।
जलैः पवित्रौषधिभिरभिषिच्य द्विजोत्तमैः ॥ १६ ॥
पदरत्नावली
उपाकृतैः संस्कृतैः ॥ १६ ॥
सत्यधर्मीया
इति हेतोः साम च ऋचश्च यजुश्च तैरुपाकृतैः संस्कृतैर्जलैः पवित्रौषधिभिः पृथग्वा जलमिलितैः सितसर्षपादिभिर्वा । द्विजोत्तमैरभिषिच्य ॥ १६ ॥
सुमनोरञ्जिनी
इति अस्मादेव हेतोः । इति हेतुप्रकरणप्रकारादिसमाप्तिष्वित्यमरः । सामर्ग्यजुर्भिर् उपाकृतैर् अभिमन्त्रितैर् जलैः पवित्रा ये औषधयश् चूताश्वत्थादयः येषु जलेषु तैश्च । द्विजोत्तमैर् ब्राह्मणश्रेष्ठैर् अभिषिच्य अभिषेचयित्वा ॥ १६ ॥
वाचयित्वा स्वस्त्ययनं नन्दगोपः समाहितः ।
हुत्वा चाग्निं द्विजातिभ्यः प्रादादन्नं महागुणम् ॥ १७ ॥
पदरत्नावली
महागुणं षड्रसभरितम् ॥ १७ ॥
सत्यधर्मीया
स्वस्त्ययनं च वाचयित्वाऽग्निं हुत्वा हावयित्वा महागुणं षड्रसोपेतमन्नं प्रादात्
॥ १७ ॥
सुमनोरञ्जिनी
समाहित एकाग्रचित्तः सन् ॥ १७ ॥
गावः सर्वगुणोपेता वासःस्रग्रुग्ममालिनीः ।
पुत्रस्याभ्युदयार्थाय प्राग्जातेश्चान्वयुञ्जत ॥ १८ ॥
पदरत्नावली
पुत्रस्याभ्युदयार्थाय अभ्युदयप्रयोजनाय जातेः प्रागुत्पत्तेः पूर्वं, सङ्कल्पिता इति शेषः । प्राग्जातेर् अग्रजस्य बलभद्रस्य च अभ्युदयार्थाय गाः प्रादादित्यन्वयः । अन्वयुञ्जत आशिष इति शेषः ॥ १८ ॥
दुर्घटभावदीपिका
प्राग्जातेश्चान्वयुञ्जतेत्यस्य प्राग्जातेः प्राग्जातयः प्राक् क्षत्रियादिभ्यः पूर्वं जातिरुत्पत्तिर्येषां ते प्राग्जातयो ब्राह्मणाश्चाशिषोऽन्वयुञ्जत सम्यग्यजुरित्यर्थः । एतेन प्राग्जात-यश्चाशिषोऽन्वयुञ्जतेति वक्तव्यं प्राग्जातेश्चान्वयुञ्जतेति कथनमनुपपन्नमिति शङ्का परिहृता । प्राग्जातेरिति षष्ठ्यैकवचनं प्रथमाबहुवचनादेशः । आशिष इत्यस्य शेष इति च स्वीकृत्य प्राग्जातयश्चाशिषोऽ-न्वयुञ्जतेत्यर्थस्योक्तत्वात् ॥ १८ ॥
सत्यधर्मीया
गावः सर्वगुणोपेता इत्येव पाङ्क्तः पाठः । गावो गा इति केचिव्द्याकुर्वन् । वस्तुतस्तु गा व इति पदद्वन्द्वम् । इयं वो न ममेति सङ्कल्पपूर्वकं प्रादादित्यर्थः । एवमेव तदभिप्रायः प्राय इति । जित्वा वयं नेष्यति चाद्य गाव इति विराटपर्वोक्तेर्ज्ञायत इत्युत्तरत्रेत्थमनुसन्धेयम् । पुत्रस्याभ्युदयार्थाय जातेः प्रागुत्पत्तेः पूर्वं सङ्कल्पिताः । प्राग्जातेः प्रथमवर्णेभ्य इति वा ब्राह्मणसङ्घस्येति वा । सर्वगुणोपेता अनसूयादिसर्वगुणसहितास्ते विप्रा आशिषोऽन्वयुञ्जत युयुजुरित्यन्वयः ॥ १८ ॥
सुमनोरञ्जिनी
वासांसि, स्रजः पुष्पमालाः, रुक्ममालाः सौवर्णमालाः । ता आसां सन्तीति तथोक्ताः । पुत्रस्य श्रीकृष्णस्य । प्राग्जातेर् अग्रजस्य बलदेवस्य । अभ्युदयलक्षणप्रयोजनाय । द्विजातिभ्यो गा अन्वयुंजतेत्यन्वयः ॥ १८ ॥
विप्रा मन्त्रविदो युक्तास्तैर्याः प्रोक्तास्तथाऽऽशिषः ।
ता निष्फला भविष्यन्ति न कदाचिदपि स्फुटम् ॥ १९ ॥
पदरत्नावली
स्तेयानृतादिवर्जितेन एकैकेनापि विप्रेणोक्ता निष्फला न भविष्यन्ति किमुत मिलितैर्मन्त्रज्ञैश्च प्रोक्ता न निष्फला इत्याशयेनाह– विप्रा इत्यादिना ॥ १९ ॥
सत्यधर्मीया
ननु तैर्दत्ता नान्यथा भवन्तीति कुत इत्यत आह ॥ विप्रा इति ॥ युक्ता एकैकेनोक्ता न निष्फलाः किमुत मिलितैरिति युक्ता इत्यनेन ध्वनयति । तैर्याः सुताशिष इति क्वचित्पाठः प्रस्तुतमात्रसङ्गतः । तथाऽऽशिष इति सर्वसरलः । ताः कदाचिदपि निष्फला न भविष्यन्ति । स्फुटं कदाचिदपीति शपथपूर्वकं तदवैपरीत्यं द्योतयति । श्लोकद्विकस्याखण्डान्वयो वा । प्राग्जातेः पुत्रस्येत्यन्वयः । प्राग्जो ह्याद्यो ब्रह्मा तस्यातिः सम्यगानन्दो यस्मात्स तस्य पुत्रस्य येभ्योऽसर्वगुणोपेता वासःस्रग्रुक्ममालिनीर्गाश्च व इति प्रादात् ते च विप्रा युक्ता आशिषोऽन्वयुञ्जत यास्ता विफलाः कदाचिदपि न भविष्यन्तीति ये मन्त्रविदो वेदज्ञास्तैः प्रोक्तास्तेऽपि नोपर्येवोक्तवन्त इत्याह ॥ स्फुटमिति ॥ अतो नाविश्वसनीयतेति भावः । प्रागेव जो जेता चातिः पूर्णानन्दश्च तस्य पुत्रस्येति वा । जो जेता चेति विश्वः । प्राग्जातेर्बलभद्रस्यापीत्यर्थः ॥ १९ ॥
सुमनोरञ्जिनी
ये विप्रा मन्त्रविदस्तथा युक्ता हरौ मनोयोगयुक्तास् तैरित्यन्वयः ॥ १९ ॥
एकदाऽऽरोहमारूढं लालयन्ती सुतं सती ।
गरिमाणं शिशोर्वोढुं न सेहे गिरिकूटवत् ॥ २० ॥
पदरत्नावली
आरोहम् अङ्कम् ॥ २० ॥
सत्यधर्मीया
आरोहमङ्कम् । गिरिकूटस्येव तत्समूहस्येव । कूटं राशाविति विश्वः । गुरोर्भावो गरिमा तम् । इमनिजन्तः ॥ २० ॥
सुमनोरञ्जिनी
श्रीकृष्णस्य विक्रमान्तरं वक्तुमुपक्रमते ॥ एकदेति ॥ आरोहं कटिपुरो-भागम् । गिरिकूटवद् गिरिशृृङ्गस्येव शिशोर्भारं न सेहे सोढुमशक्ताऽभूत् ॥ २० ॥
भूमौ निधाय तं गोपी विस्मिता भारपीडिता ।
महापुरुषमादध्यौ जगामाशु च कर्मसु ॥ २१ ॥
पदरत्नावली
महापुरुषं पुरुषोत्तमं तं सुतम् आदध्यौ ध्यातवती । कर्मसु गृहकार्येषु, तानि कर्तुमित्यर्थः ॥ २१ ॥
दुर्घटभावदीपिका
यशोदा एनं कृष्णं महापुरुषं नारायणमादध्यौ व्यजानात् । कर्मस्विति सप्तमी तादर्थ्ये । गृहकर्मार्थमाशु जगाम चेति । अयं भावः । यशोदाऽयं कृष्णः साक्षान्नारायण एवेति निश्चित्य शङ्कां परित्यज्य गृहकार्यार्थं जगामेति । एतेन ग्रहादिशङ्कया भगवद्ध्यानं कृतं चेद्ग्रहादिशङ्कापरिहारार्थं पूर्ववद्बहुप्रयत्नः कर्तव्यः । पुत्रं परित्यज्य गृहकार्यार्थं शीघ्रगमनमनुपपन्नमिति चोद्यं निरस्तम् । ग्रहादिशङ्कापरिहारार्थं भगवद्ध्यानं कृतमित्युच्यत इत्यङ्गीकारात् ॥ २१ ॥
सत्यधर्मीया
भारपीडिता दुर्भरदितिसुतादिभिस्तस्यां भूमौ तं निधाय गोपी विस्मिताऽऽपी-नोऽप्येवं कुत इत्याश्चर्ययुता महापुरुषमादध्यौ । एतन्न जाने श्रीजाने पालय बालमिममिति माधवं दध्यौ ध्यातवती । इममेव बालं महापुरुषं तदात्मकमादध्याविति वा । कर्मसु स्वगृहकृत्येषु तानि कर्तुमिति यावत् । जगाम ॥ २१ ॥
सुमनोरञ्जिनी
गोपी विस्मिता । तं श्रीकृष्णं महापुरुषम् । आदध्यौ ध्यातवती । मृत्पुत्रोऽयं परमपुरुष एवेति मनसा चिन्तितवतीति भावः । कर्मसु गृहकर्मसु ॥ २१ ॥
दैत्यो नाम्ना तृणावर्तः कंसभृत्यः प्रचोदितः ।
चक्रवातस्वरूपेण जहारासीनमर्भकम् ॥ २२ ॥
पदरत्नावली
चक्रवातस्वरूपेण मण्डलाकारवायुस्वरूपेण । पर्वतादिकमपि तृणवदावर्तयतीति तृणावर्तः ॥ २२ ॥
सत्यधर्मीया
कंसभृत्यो नाम्ना तृणावर्तो दैत्यः । प्रचोदितो मृत्युना प्रेरितश्चक्रवातो मण्डवायुस्तत्स्वरूपेणासीनमुपविष्टमर्भकं जहार ॥ २२ ॥
सुमनोरञ्जिनी
प्रचोदितः कंसेनेति शेषः । चक्रवातश् चक्राकारवद् भ्रममाणो वातस् तत्स्वरूपेण । आसीनम् उपविष्टम् ॥ २२ ॥
गोकुलं सर्वमावृण्वन् मुष्णंश्चक्षूंषि रेणुभिः ।
ईरयन् सुमहाघोरशब्देन प्रदिशो दिशः ॥ २३ ॥
पदरत्नावली
मुष्णन् अपहरन् । दिशः प्रदिशश्च सुमहाघोरशब्देन ईरयन् शब्दयुक्ताः कुर्वन् जहारेत्यन्वयः ॥ २३ ॥
सत्यधर्मीया
रेणुभिः शर्कराभिरावृण्वन्नाच्छादयन्मुष्णन्नपहरन्दिशः प्रदिशश्च महाघोरशब्दे-नेरयन् शब्दापयञ्जहारेत्यन्वयः ॥ २३ ॥
सुमनोरञ्जिनी
रेणुभिः पांसुभिः । चक्षूंषि चाक्षुषवृत्तीः । मुष्णन् अपहरन् । दिशः प्रदिशश्च । शब्देन ईरयन् शब्दयुक्ताः कुर्वन् ॥ २३ ॥
मुहूर्तमभवद् गोष्ठं रजसा तमसाऽऽवृतम् ।
सुतं यशोदा नापश्यत् तस्मिन् न्यस्तवती यतः ॥ २४ ॥
पदरत्नावली
यतो यत्र न्यस्तवती तस्मिन् स्थले ॥ २४ ॥
सत्यधर्मीया
गोष्ठम् । गोष्ठं गोस्थानके मतमिति विश्वः । रजसा तन्निमित्तकतमसा चावृतं मुहूर्तमभवत् । यशोदा यतो यत्र स्थले सुतं न्यस्तवती तस्मिन्नापश्यत् ॥ २४ ॥
सुमनोरञ्जिनी
मुहूर्तं मुहूर्तपर्यन्तम् । यतो यत्र न्यस्तवती तस्मिन् स्थले ॥ २४ ॥
नापश्यत् कश्चनात्मनं परं चापि विमोहितः ।
तृणावर्तनिसृष्टाभिः शर्कराभिरुपद्रुतः ॥ २५ ॥
पदरत्नावली
शर्कराभिर् अणुतरशिलाभिः ॥ २५ ॥
सत्यधर्मीया
शर्कराभिः क्षुद्रपाषाणैः ॥ २५ ॥
सुमनोरञ्जिनी
न केवलं यशोदा किन्तु कश्चन कोऽपि पुरुषः नापश्यत् । निसृष्टाभिः क्षिप्ताभिः सूक्ष्मवालुकाभिः ॥ २५ ॥
इति खरपवनचक्रपांसुवर्षे सुतपदवीमबलाऽविचक्षमाणा ।
अतिकरुणमनुस्मरन्त्यशोचद् भुवि पतिता मृतवत्सका यथा गौः ॥ २६ ॥
पदरत्नावली
इतिशब्दः प्रकारवचनः, आदिवचनो वा । ‘इति हेतुप्रकारणप्रकारादिसमाप्तिषु’ इत्यमरः । खरश्चण्डः पवनो वायुस् तेन चक्रपांसवः मण्डलीकृतरजांसि तेषां वर्षे सति सुतस्य पदवी पन्थानम् अविचक्षाणा अपश्यन्ती, पुत्रमनुस्मरन्ती निरन्तरसञ्चिन्तनोपेता अत एव भुवि पतिता अबला अतिकरुणं यथा स्यात् तथाऽशोचदित्यन्वयः ॥ २६ ॥
सत्यधर्मीया
इत्येवं प्रकारेण खरश्चण्डः पवनोऽनिलस्तत्सम्बन्धिनः पांसवो धूल्यस्तेषां वर्षे । क्वचित्तालव्यपाठः । तत्र तालव्याश्चैव दन्त्याश्च शम्बसूकरपांसव इत्यादिमूलम् । सुतपदवीं तस्य सृतिम् । मार्गः पन्थानः पदवी सृतिरित्यमरः । अविचक्षमाणापश्यन्ती अबला मृतवत्सका । सुपः परत्वान्न प्रत्ययत्वं स्यादिति । गौर्यथा तथाऽनुस्मरन्ती भुवि पतिता सत्यतिकरुणं यथा स्यात्तथाऽशोचच्छुशोच । भुवि पतितेत्यनेन त्वदधीनः सूनुः कृतः । तं हे धरे श्रीधरं क्व यापितवतीति तदुपरि पात उचितो रचितोऽनयेति ध्वन्यत इति, त्वद्भारापहाराय प्रादुर्भूतं दुर्भूतमुखे स्थापितवत्यसीति अहं तं मम पातेनापि करोमीति पपातेति ध्वन्यत इति वोत्प्रेक्षयन्ति । मृतवत्सकेति निदर्शनदर्शनेन न पुनस्तनयदर्शनं भविष्यतीत्याशा लोकदृशा यशोदाया इति सूचयति
॥ २६ ॥
सुमनोरञ्जिनी
इति एवं प्रकारेण । खरेण चण्डेन पवनचक्रेण चक्राकारपवनेन कृते पांसुवर्षे । सुतस्य पदवीं स्थितिम् । अविचक्षमाणा । यद्वा सुतस्य पदवीं माहात्म्यम् । अजानमाना सती । तमेवानुस्मरन्ती अतिकरुणम् अशोचदित्यन्वयः । अतिकरुणं परम् आत्मानं स्मरन्तीति वा ॥२६॥
रुदितमनुनिशम्य तत्र गोप्यो भृशमनुतप्तधियोऽश्रुपूर्णमुख्यः ।
रुरुदुरनुपलभ्य नन्दसूनुं पवन उपारतपांसुवर्षवेगे ॥ २७ ॥
पदरत्नावली
रुदितम्, यशोदाया इति शेषः । उपारत उपरतः शान्तः पांसुवर्षस्य वेगो यस्मिंस्तस्मिन् पवने सत्यपि । अनुपलभ्य अदृष्ट्वा । कृष्णस्य अन्तरिक्षगमनाद् भुव्यदर्शनम् ॥२७॥
सत्यधर्मीया
तत्र तदानीं गोप्यो रुदितं यशोदाया इति शेषः । निशम्य श्रुत्वा अनुतप्तानां धीरिव धीर्यासां ताः । तथाऽश्रुभिः स्रवदुदकैः पूर्णं व्याप्तं मुखं यासां ताः स्वाङ्गङीष् । उपारतपांसुवर्षवेगे उपारतः पांसुवर्षस्य वेगो यस्मिंस्तस्मिन्पवने सत्यपि नन्दसूनुमनुपलभ्यादृष्ट्वा स्वयमपि रुरुदुः ॥ २७ ॥
सुमनोरञ्जिनी
पवने, उपारतः शान्तः पांसुवर्षवेगो यस्य तस्मिन् सति । रुदितं यशोदायाः । भृशम् अनुतप्तधियः । अनु तामनुसृत्य तप्ताः सन्तप्ता धियो मनांसि यासां ताः । अश्रुपूर्णं मुखं यासां ताः ॥ २७ ॥
तृणावर्तः शान्तरयो वात्यारूपधरो हरन् ।
कृष्णं नभोगतो गन्तुं नाशक्नोद् भूरिभारभृत् ॥ २८ ॥
पदरत्नावली
मर्त्यमूर्तेर्हरेरदर्शनं मारकग्रहग्रहणेन मृत्या वा केनचिदसुरेण कुत्रचिन्नीत्या वेत्युभयथा सम्भाव्यते । अत्र कथमिति गोपस्त्रीणां शङ्कामपनेतुमुपक्रमते तृणावर्त इति ॥ वात्या वातसमूहस् तद्रूपधरः । ‘वात्या वातस्य मण्डली’ इत्यभिधानम् । कृष्णं हरन् नभोगतः सन् पश्चाद् भूरिभारभृत् शान्तरयो निवृत्तवेगः सः गन्तुं नाशक्नोदित्यन्वयः ॥ २८ ॥
सत्यधर्मीया
मृत्या वाऽदर्शनं नीत्या केनचिदनीत्या वा मूर्तमूर्तेरत्र तु कथमिति शङ्कामुत्तमां वरोरूणामङ्कानामपनेतुं यतते तृणावर्त इति वात्याया वातसमूहस्य पाशादिभ्यो य इति यो, यद्रूपं तस्य धरः । कृष्णं हरन् भूरि भारं बिभर्तीति सः शान्तरयः सन्नभोगतो गन्तुं पुरतो नाशक्नोत्
॥ २८ ॥
सुमनोरञ्जिनी
वात्यारूपधरश् चक्रवातरूपधरस् तृणावर्तः । नभोगतः शान्तरयः कृष्णं हरन् गन्तुं नाशक्नोत् ॥ २८ ॥
तमश्मानं मन्यमान आत्मनो गुरुमत्तया ।
गले गृहीत उत्स्रष्टुं नाशक्नोदद्भुतार्भकम् ॥ २९ ॥
पदरत्नावली
अश्मानं शिलोच्चयतुल्यम् ॥ २९ ॥
सत्यधर्मीया
आत्मनः स्वस्य गुरुमत्तया गुरुत्वेनाश्मानं शिलातुलं मन्यमानो गले तेन गृहीतोऽद्भुतार्भकमुत्स्रष्टुं नाशक्नोन्न शशाक ॥ २९ ॥
सुमनोरञ्जिनी
आत्मनः स्वस्य । गुरुमत्तया गुरुपदार्थाश्रयतया । तं स्वापहृतं कृष्णम् । अश्मानं पाषाणं मन्यमानः । गले गृहीतत्वाद् उत्स्रृष्टुं परित्यक्तुं नाशक्नोत् ॥ २९ ॥
गलग्रहणनिश्चेष्टो दैत्यो निर्गतलोचनः ।
अव्यक्तवाक्यो न्यपतत् सहबालो व्यसुर्व्रजे ॥ ३० ॥
पदरत्नावली
निर्गतलोचनः निष्क्रान्तनेत्रमांसपिण्डः । अव्यक्तवाक्यः विलापवचनरहितः, प्रतिबद्धगलत्वात् । व्यसुर् विगता असवो यस्य सः ॥ ३० ॥
सत्यधर्मीया
गलग्रहणेन निश्चेष्टः । निर्गतलोचनो निर्गते व्यत्यस्ते लोचने यस्य सः । अव्यक्तवाक्योऽव्यक्तं मन्दं वाक्यं यस्य सः । व्यसुर्विगता असवो यस्य सः । व्रजे सहबालो न्यपतत् ॥ ३० ॥
सुमनोरञ्जिनी
गलग्रहणेन निश्चेष्टः । निर्गतलोचनः निष्क्रान्तनेत्रगोलकः । अव्यक्तवाक्य उत्सृजोत्सृजेति वक्तुमप्यशक्तः स व्यसुर् निर्गतप्राणः न्यपतत् ॥ ३० ॥
तमन्तरिक्षात् पतितं शिलायां विशीर्णसर्वावयवं करालम् ।
पुरं यथा रुद्रशरेण विद्धं स्त्रियो रुदन्त्यो ददृशुः समेताः ॥ ३१ ॥
पदरत्नावली
पुरं त्रिपुरसञ्ज्ञम् ॥ ३१ ॥
सत्यधर्मीया
शिलायामन्तरिक्षात्पतितं विशीर्णाः शिथिलाः सर्वेऽवयवा यस्य तं करालं स्वराक्षसरूपतः पातात् । यथा रुद्रशरेण भगवद्रूपेण बाणेन विद्धं पुरं त्रिपुरं तथा समेता रुदन्त्यः स्त्रियो ददृशुः ॥ ३१ ॥
सुमनोरञ्जिनी
तं तृणावर्तम् । विशीर्णाः शिलायां पतनेन इतस्ततो विक्षिप्ताः सर्वेऽवयवा यस्यासौ तथोक्तः । तम् । पुरं त्रिपुरम् ॥ ३१ ॥
आदाय मात्रे प्रतिहृत्य विस्मिताः कृष्णं च तस्योपरि लम्बमानम् ।
तं स्वस्तिमन्तं पुरुषादनीतं विहायसा मृत्युमुखात् प्रमुक्तम् ॥ ३२ ॥
पदरत्नावली
प्रतिहृत्य प्रदाय ॥ ३२ ॥
सत्यधर्मीया
तस्य मृतस्य तृणावर्तस्योपरि लम्बमानं स्वस्तिमन्तं क्षेमवन्तम् । विहायसाऽऽकाशेन । पुरुषादेन नीतं रक्षसा नीतं मृत्युमुखात्प्रमुक्तं कृष्णमादाय मात्रे प्रतिहृत्य दत्वा विस्मिता अहो क्षेमो जात इत्याश्चर्यवत्योऽभूवन् । पुरुषादात्तृणावर्तादानीतं स्वेच्छयागतमिति यावत् । पुरुषाच्चामावानीव प्राणी च तेनेतस्तमिति वा ॥ ३२ ॥
सुमनोरञ्जिनी
तस्य तृणावर्तदेहस्य । उपरि लम्बमानं कृष्णम् । आदाय मात्रे यशोदायै प्रतिहृत्य प्रदाय । विस्मिता अभवन् । विहायसा आकाशमार्गेण पुरुषादेन राक्षसेन नीतं, मृत्योर् मुखात्, मारकात् प्रमुक्तं तं कृष्णं लब्ध्वा मोदं सन्तोषं प्रापुरिति । एष बालः रक्षसा निवृत्तिं गमितोऽपि गमितवत्प्रतीतोऽपि यत्पुनरभ्यगात् तदद्भुतम् अहो ॥ ३२, ३३ ॥
**गोप्यः स गोपाः किल नन्दमुख्याः **
लब्ध्वा पुनः प्रापुरतीव मोदम् ।
**अहो बतात्यद्भुतमेष रक्षसा **
बालो निवृत्तिं गमितोऽभ्यगात् पुनः ॥ ३३ ॥
सत्यधर्मीया
गोप्यो गोपा नन्दमुख्याः पुनः कृष्णं लब्ध्वाऽतीव मोदं प्रापुः । किल वार्ता । स एष बालो रक्षसा निवृत्तिं गमितः पुनरभ्यगादहोऽद्भुतं बत ॥ ३३ ॥
हिंस्रः स्वपापेन विहिंसितः खलः
साधुः समत्वेन भयाद् विमुच्यते ।
**किं नस्तपश्चीर्णमधोक्षजार्चनं **
पूर्तेष्टदत्तं किमु भूतसौहृदम् ।
**यः सम्परेतः पुनरेव बालको **
दिष्ट्या स्वबन्धून् प्रणयन्नुपस्थितः ॥
पदरत्नावली
समत्वेन गुणेन । अधोक्षजार्चनं च चीर्णं किम् ? ‘स वै पुंसां परो धर्मो यतो भक्तिरधोक्षजे’ इत्यादेः । ‘अधो न क्षीयते जातु यस्मात् तस्मादधोक्षजः’ इति भारते अधोक्षज-शब्दो निरुक्तः । पूर्तेष्टाभ्यां सहितं दत्तम् । पूर्तादिकं चोक्तम् - वापीकूपतडागानि देवतायतनानि च । अन्नप्रदानमारामाः पूर्तमित्यभिधीयते । अग्निहोत्रं तपः सत्यं वेदानां चानुपालनम् । आतिथ्यं वैश्वदेवं च इष्टमित्यभिधीयते । शरणागतसन्त्राणं भूतानां चाप्यहिंसनम् । बहिर्वेद्यां च यद् दानं तद् दत्तमभिधीयते ॥’ इति । भूतसौहृदं सर्वभूतेषु दयाभावः । यः सम्परेतः मृत इव विद्यमानः स बालकः पुनरेव स्वबन्धून् प्रणयन् सन्तोषयन् उपस्थितः । ‘प्रश्रयप्रणयौ समौ’ इत्यमरः ॥ ३४ ॥
दुर्घटभावदीपिका
स्वबन्धून् प्रणयन्नित्यस्य स्वबन्धून् हर्षं प्रकर्षेण प्रापयन्नित्यर्थः । एतेन स्वबन्धून् हर्षयन्निति वक्तव्यम् । प्रणयन्निति कथनमनुपपन्नमिति दूषणं परिहृतम् । हर्षमित्यस्य शेषेण प्रकर्षेण प्रापयन्नित्यर्थस्योक्तत्वात् ॥ ३४ ॥
॥ इति श्रीभागवतटिप्पण्यां सत्याभिनवयतिकृतायां
दुर्घटभावदीपिकायां दशमस्कन्धपूर्वार्धे अष्टमोऽध्यायः ॥ १०-८ ॥
सत्यधर्मीया
हिंस्रो हिंसाशीलः खलः स्वपापेन विहिंसितो भवति । साधुर्यः समत्वेन भयाद्विमुच्यत इति साधुरयं माधवो मुक्तो हिंस्रस्तृणावर्तो विहिंसित इत्यर्थः । एवमेतज्जीवने नोऽस्माभिस्तपश्चीर्णं किमधोक्षजार्चनं चीर्णम् । अधो न क्षीयते जातु यस्मात्तस्मादधोक्षज इति भारते । अधःकृताक्षजज्ञान इति वा । पूर्तेष्टाभ्यां सहितं दत्तम् । पूर्तं वापीकूपतटाकादि ।
अग्निहोत्रं तपः सत्यं वेदानां चानुपालनम् ।
आतिथ्ये वैश्वदेवं च इष्टमित्यभिधीयते ।
शरणागतसन्त्राणं भूतानां चाप्यहिंसनम् ।
बहिर्वेदि च यद्दानं तद्दत्तमभिधीयते ॥
इतीष्टदत्ते । भूतसौहृदं प्राणिमात्रसुहृद्भावः । यः सम्परेत इव विद्यमानः पुनर्बालकः स्वबन्धून्प्रणयंस्तोषयन्नुपस्थितः । दिष्ट्या सुखम् ॥ ३४ ॥
सुमनोरञ्जिनी
यो हिंस्रः हिंसाशीलः । स्वपापेन विहिंसितो भवति । साधुः समत्वेन गुणेन । नो ऽस्माभिश् चीर्णं तपः किं जातीयं स्यात् । अधोक्षजार्चनम् । अधःकृता अक्षजा इन्द्रियवृत्तयो येन सस् तस्य । मनआदीन्द्रियागोचरस्येत्यर्थः । हरेरर्चनं वा । किमु । पूर्तम् अन्नदानादि । इष्टं यजनम् । भूतसौहृदं भूतेष्वनिमित्तोपकारकरणं वा । किमु किं जातीयं स्यात् । कुतः । यतो यो बालकः स्वबन्धून् प्रणयन् हर्षयन् दिष्ट्या आनन्देन उपस्थितो अत इत्यर्थः
॥ ३४ ॥
दृष्ट्वाऽद्भुतानि बहुशो नन्दगोपो बृहद्वने ।
वसुदेववचो भूयो मानयामास विस्मितः ॥ ३५ ॥
सत्यधर्मीया
बहुशो बहुवारम् । नन्दगोपोऽद्भुतानि दृष्ट्वा विस्मितः सन्वसुदेववचो भूयो मानयामास ॥ ३५ ॥
सुमनोरञ्जिनी
मानयामास श्लाघयामास ॥ ३५ ॥
एकदाऽर्भकमादाय स्वाङ्कमारोप्य भामिनी ।
प्रस्नुतं पाययामास स्तनं स्नेहपरिप्लुता ॥ ३६ ॥
पदरत्नावली
भामिनी तेजस्विनी । प्रस्नुतं प्रस्नुवन्तम् ॥ ३६ ॥
सत्यधर्मीया
भामिनी योषिदेकदाऽभर्कमादाय स्वाङ्कमारोप्य प्रस्नुतं स्तनं स्नेहपरिप्लुता सती पाययामास ॥ ३६ ॥
सुमनोरञ्जिनी
स्नेहेन परिप्लुता व्याप्ता आर्द्रा वा । भामिनी तेजस्विनी ॥ ३६ ॥
पीतप्रायस्य जननी सुतस्य रुचिरस्मितम् ।
मुखं लालयती राजन् जृम्भतो ददृशे इदम् ॥ ३७ ॥
पदरत्नावली
इदं वक्ष्यमाणं ददृशे, आस्य इति शेषः ॥ ३७ ॥
सत्यधर्मीया
पीतप्रायस्य सुतस्य जननी रुचिरस्मितं मुखं लालयन्ती जृम्भतो मुख इति शेषः । इदं ददृशे विवक्षाभावात् ॥ ३७ ॥
सुमनोरञ्जिनी
पीतः प्रायः स्तनो येन तस्य । रुचिरं स्मितं मन्दहासो यस्मिंस्तन्मुखं लालयती । जृम्भतः सुतस्य मुखे इदं वक्ष्यमाणम् । ददृशे ददर्श ॥ ३७ ॥
खं रोदसी ज्योतिरनीकमाशाः सूर्येन्दुवह्निश्वसनाम्बुधींश्च ।
द्वीपान् नगांस्तद्दुहितॄर्वनानि भूतानि यानि स्थिरजङ्गमानि ॥ ३८ ॥
पदरत्नावली
रोदसी द्यावापृथिव्यौ । ज्योतिरनीकं ज्योतिर्गणम् । तेषां पर्वतानां दुहितॄर् नदीः । स्थिरजङ्गमानि चेतनाचेतनानि ॥ ३८ ॥
सत्यधर्मीया
इदमित्युक्तं वदति ॥ खमिति ॥ खमाकाशम् । रोदसी द्यावापृथिव्यौ ज्योतिरनीकं ज्योतिर्मण्डलमाशाश्च । सूर्यश्चेन्दुश्च वह्निश्च श्वसनो वायुश्चाम्बुधयश्च तान् । द्वीपान् । व्द्यन्तरित्यप्शब्दाकारेकारः । नगांस्तद्दुहितॄः पर्वतप्रसूता नदीः । शतशः सहस्रशः शैलास्तेषां नितम्बप्रभवा नदा नद्यश्च सन्त्यसङ्ख्याता इति पञ्चमोक्तेः । वनानि स्थिरजङ्गमानि चेतनाचेतनानि भूतानि यानि तानि ॥ ३८ ॥
सुमनोरञ्जिनी
खम् आकाशम् । रोदसी द्यावापृथिव्यौ । ज्योतिरनीकं ज्योतिर्गणम् । आशा दिशः । श्वसनो वायुः । द्वीपान् समुद्रमध्यवर्तिभूप्रदेशान् । नगान् पर्वतान् । तद्दुहितॄर् नदीः । स्थिरजंगमानि स्थावरजङ्गमानि ॥ ३८ ॥
संवीक्ष्य विश्वं सहसा राजन् सञ्जातवेपथुः ।
सम्मील्य मृगशावाक्षी नेत्रे आसीत् सुविस्मिता ॥ ३९ ॥
॥ इति श्रीमद्भागवते दशमस्कन्धपूर्वार्धे अष्टमोऽध्यायः ॥
पदरत्नावली
मृगशावस्य हरिणबालस्य अक्षिणी इव अक्षिणी यस्याः सा ॥ ३९ ॥
॥ इति श्रीमद्भागवतटीकायां विजयध्वजतीर्थभिक्षुकृतायां दशमस्कन्धस्य अष्टमोऽध्यायः ॥
सत्यधर्मीया
सहसा विश्वं वीक्ष्य सञ्जातवेपथुः । गतम् । मृगशावाक्षी नेत्रे सम्मील्य सुविस्मिताऽऽसीत् ॥ ३९ ॥
॥ इति श्रीभागवतटिप्पण्यां सत्यधर्मयतिकृतायां दशमपूर्वार्धे अष्टमोऽध्यायः ॥ १०-८ ॥
सुमनोरञ्जिनी
सा यशोदा । संजातो वेपथुर् गात्रकंपो यस्याः सा । मृगशावो हरिणकुणकः । तदक्षिवददक्षिणी यस्याः सा । नेत्रे संमील्य । सु अत्यन्तं विस्मिता आसीत् ॥ ३९ ॥
॥ इति श्रीमद्भागवतदशमस्कन्धपूर्वार्धव्याख्यायां सुमनोरञ्जिन्याम् अष्टमोऽध्यायः ॥ १०-८ ॥