०७ सप्तमोऽध्यायः

नन्दः पथि वचः शौरेर्न मृषेति विचिन्तयन्

॥ अथ सप्तमोऽध्यायः ॥

श्रीशुक उवाच–

नन्दः पथि वचः शौरेर्न मृषेति विचिन्तयन् ।

हरिं जगाम शरणमुत्पातागमशङ्कितः ॥ १ ॥

पदरत्नावली

गुणार्णवस्य विष्णोः पराक्रमकीर्तनादिकमनिष्टनिवर्तकमिष्टप्रापकं चेति शिष्टशिक्षणाय, धरणिभारहरणार्थमवतीर्णस्य करुणापूर्णस्यार्भकरूपिणो हरेः पूतनासंहरणोर्वशी-मोक्षणाख्यचित्रचरित्रनिरूपणं क्रियतेऽस्मिन्नध्याये ॥ तत्रोत्पातपरिहारो न नारायणशरणप्रापणमन्तरेण भवतीत्याशयेनाह नन्द इति ॥ १ ॥

सत्यधर्मीया

यदर्थमत्यर्थमर्थितः प्रादुरभूद्भगवान्भुवि तं पराक्रममङ्कुरयामास कुमारः पूतनामारणेनेतीरयंस्तत्रोत्पातपातो न नारायणशरणयानं विना भविष्यति वसुदेवश्च न वितथकथन इति तं मनसा स्मरन् परमपुरुषं, जगाम व्रजमित्यादौ वदति ॥ नन्द इति ॥ उत्पातानामागम एष्यंस्तेन शङ्कितो हरिं सर्वारिष्टहरं शरणं जगाम । शरणं यातः सञ्छरणं स्वगोकुलगृहं च जगामेत्यावृत्त्याऽन्वयः ॥ १ ॥

सुमनोरञ्जिनी

भगवद्भक्त्यङ्गमाहात्म्यज्ञानाय श्रीकृष्णस्य पूतनावधेन तन्निष्ठजीवद्वयस्य स्वस्वयोग्यगतिप्रदत्वलक्षणमाहात्म्यं निरूप्यतेऽस्मिन्नध्याये ॥ नन्द इति ॥ शौरेर् वसुदेवस्य वचो न मृषा न मिथ्येति विचिन्तयन् । उत्पातागमस्य शङ्का अस्मिन्संजातेति तादृशः । हरिमेव शरणं रक्षितारं जगाम । मनसेति शेषः । श्रीहरिरेव रक्षको भूयादहं तदीय इति चिन्तितवानिति भावः

॥ १ ॥

कंसेन प्रहिता घोरा पूतना बालघातिनी ।

शिशूंश्चचार निघ्नन्ती पुरग्रामव्रजादिषु ॥ २ ॥

पदरत्नावली

प्रहिता प्रेषिता । पुरं राजमन्दिरम् । नानाजनाधिवासो ग्रामः । व्रजो गोकुलम्

॥ २ ॥

सत्यधर्मीया

प्रहिता प्रेषिता । पुराणि राजावासस्थानानि ग्रामो बहुजनाकीर्णो व्रजो गोकुलमेतदादिषु । बालघातिनीति नोपलक्षणमित्याचष्टे ॥ शिशून्निघ्नन्ती चचारेति ॥ २ ॥

सुमनोरञ्जिनी

प्रहिता प्रेषिता । शिशून्निघ्नन्ती । पुराणि नगराणि । ग्रामाः खेटाः । व्रजो गोकुलम् । पुरं राजमन्दिरमिति पदरत्नावल्याम् । आगारे नगरे पुरमित्यमरः ॥ २ ॥

न यत्र श्रवणादीनि रक्षोघ्नानि स्वकर्मसु ।

कुर्वन्ति सात्वतां भर्तुर्यातुधान्यश्च तत्र हि ॥ ३ ॥

पदरत्नावली

सात्वतां भक्तानां भर्तुः श्रीकृष्णस्य रक्षोघ्नानि यानि श्रवणादीनि गुणगणश्रवणमननादीनि तानि यत्र स्वकर्मसु स्वस्वव्यापारेषु न कुर्वन्ति तत्र हि यातुधान्यः राक्षस्यः कुर्वन्ति, स्वकार्यमिति शेषः । यत्र हि स्वकर्मसु हरिगुणगणश्रवणादीनि कुर्वन्ति तत्र तानि रक्षोघ्नानि भवन्ति । साक्षात् कृष्णो यत्र वसति तत्र का शङ्केति भावः ॥ ३ ॥

सत्यधर्मीया

शङ्का तत्रासम्भाविता किमुतेति भावेनाह ॥ नेति ॥ सात्त्वतां भागवतानां यादवानां वा भर्तुः स्वामिनः कृष्णस्य तत्कथाया रक्षोघ्नानि रक्षांसि घ्नन्तीति तानि स्वकर्मसु श्रवणादीनि न कुर्वन्ति । तत्र यातुधान्यः स्वकर्मस्वित्यावर्तते प्रवर्तन्त इति शेषः । कुर्वन्ति स्वकार्यमिति वा शेषः । यच्चरितचरितश्रवणास्तत्र तत्पीडा यदा तदा साक्षाच्छ्रीवासावासे प्रादुर्भूतानि कथं भवेयुरायातानि । तन्मारकतया स्वख्यात्यै तेनैवानीतानीति कर्तुं किं शक्तानि नक्तंचर्यादीनीति तात्पर्यम् ॥ ३ ॥

सुमनोरञ्जिनी

ननु पूतना किं पुरग्रामव्रजस्थान् सर्वानपि बालकान् जघान । नेत्याह ॥ नेति ॥ स्वकर्मसु स्वविहितकर्मसु क्रियमाणेषु यत्र जनाः । रक्षोघ्नानि, सात्वतां भर्तुः श्रीहरेः श्रवणादीनि माहात्म्यश्रवणतदर्चनादीनि न कुर्वन्ति तत्र यातुधान्यः शिशून्निघ्नन्त्यश् चरन्तीति सम्बन्धः । तथा च भगवत्कथाश्रवणादिरहितदेशेष्वेव पूतना शिशून्निघ्नन्ती चचारेति भावः ॥३॥

सा खेचर्येकदोपेत्य पूतना नन्दगोकुलम् ।

गोपित्वा माययाऽऽत्मानं प्राविशत् कामचारिणी ॥ ४ ॥

पदरत्नावली

गोपित्वा आच्छाद्य ॥ ४ ॥

सत्यधर्मीया

खेचरी राक्षस्यात्मानं मायया गोपित्वाऽऽच्छाद्य । कामचारिणी कामं चरतीति सा तथा । नन्दगोकुलं प्राविशत् । आनन्द गोकुलमिति पदद्वयम् । मायया करणेन गवां तत्रत्यजन-नेत्राणां कुलं समूहं याऽऽनन्दं बबन्ध सा प्राविशदित्यप्यन्वयः । अत एव सेति सुलग्नम् ॥४॥

सुमनोरञ्जिनी

खेचरी राक्षसी सा पूतना । नंदस्य गोकुलं गवां कुलं यस्मिन् तादृशे । बृहद्वनप्रान्ते रचितवस्त्रगृहात्मके शिबिर इति यावत् । तदुक्तं निर्णये–

विवेश नन्दस्य गृहं बृहद्वनप्रान्ते हि मार्गे रचिते प्रयाणे ।

तीरे भगिन्यास्तु यमस्य वस्त्रगृहे शयानं पुरुषोत्तमं तम् ॥

इति । तमुपेत्य माययाऽविद्यया आत्मानं स्वस्वरूपं करालदंष्ट्रत्त्वादिकं गोपित्वा आच्छाद्य । कामचारिणी स्वेच्छानुसारिरूपग्रहणेन चरन्ती गोकुलं प्राविशदिति सम्बन्धः ॥ ४ ॥

विरोधोद्धारः

अत्रोपगमप्रवेशार्थकयोर्ल्यबन्तक्रिययोर्गोकुलैककर्मत्वाङ्गीकारे उपगमं विना प्रवेशानुपपत्त्याऽर्थतस्तत्सिद्धौ पुनस्तद्ग्रहणस्य व्यर्थत्वमतोऽर्थान्तरमुच्यते । कंसेन प्रहिता घोरा पूतनेत्यादिना पूतनायाः प्रकृतत्वेन ग्राह्यत्वेऽपि परोक्षतया तच्छब्देन वचनात् । या पूर्वं तुम्बुरोः सङ्गता कुबेराच्छापं प्राप्ता सोर्वशीत्यर्थः । खेचरी स्वर्वेश्या ऊर्वशीमुखा इत्युक्तान्तरिक्षचारिणी । यद्वा । आत्मन आकाशः सम्भूत इति श्रुत्या आत्माख्यनरजातत्वान्नारशब्दः खवाची । स आकाशोऽयनं मार्गो यस्य स नारायणः खेचरशब्दवाच्यः । तत्सम्बन्धित्वात्खेचरी ऊर्वशी तत्पुत्रीत्वेन प्रसिद्धेः । एकदा कुबेरशापावाप्त्यनन्तरकाले । पूतनानन्दगोकुलमित्येकं पदम् । पूतनायाः पूर्वताटकायाः । अनन्दाः । अनन्दा नाम ते लोका इति श्रुतेः । दुःखकारकाः । या गाव इन्द्रियाणि । तासां कुम् आश्रयं लाति स्वीकरोतीति । तं पूतनादेहम् । गौः स्वर्गे इत्यारभ्य भूगवादिषु योषितीति विश्वः । गोत्रा कुः पृथिवीत्यमरः । ला आदाने इति धातुश्च ॥ उपेत्य आविश्य ॥ आत्मानम् आदत्तं पूतनादेहम् ॥ मायया मोहकशक्त्या ॥ गोपित्वा आच्छाद्य ॥ कामचारिणी । कामं गोपानां मन्मथं चारयति प्रवर्तयत्यात्मनीति तथाभूता सती प्राविशत् । प्रायेण यमुनातटे वस्त्रनिर्मितं गृहमिति शेषः । तदुक्तम् - ‘‘सा ताटका चोर्वशीं संप्रविष्टा कृष्णावज्ञानान्निरयं सञ्जगाम । सा तूर्वशी कृष्णभुक्तस्तनेन पूता स्वर्गं प्रययौ तत्क्षणेन । सा तुम्बुरोः सङ्गत आविवेश रक्षस्तनुं शापतो वित्तपस्य । कृष्णस्पर्शाच्छुद्धरूपा पुनर्दिवं ययौ तुष्टे किमलभ्यं रमेशे ।’’ इति तात्पर्यनिर्णये । ‘‘विवेश नन्दस्य गृहं बृहद्वनप्रान्ते हि मार्गे रचितं प्रयाणे । तीरे भगिन्यास्तु यमस्य वस्त्रगृहे शयानं पुरुषोत्तमं तम् ।’’ इति च ॥ ४ ॥

तां केशपाशव्यतिषक्तमल्लिकां बृहन्नितम्बस्तनकृच्छ्रमध्यमाम् ।

सुवाससं कम्पितकर्णभूषणत्विषोल्लसत्कुन्तलमण्डिताननाम् ॥ ५ ॥

पदरत्नावली

केशपाशे केशभारे व्यतिषक्ता सम्बद्धा मल्लिका यस्याः सा ताम् । बृहन्नितम्बेन कलशस्तनाभ्यां च कृच्छ्रो भग्नो मध्यमो यस्याः सा ताम् ॥ ५ ॥

सत्यधर्मीया

गोपादिविस्मापकं गोपनमङ्गस्यैवमित्याह ॥ तामिति ॥ केशबन्धे केशपाशे व्यतिषक्ता सम्बद्धा मल्लिकास्तृणशून्यानि यस्यां सा ताम् । बृहन्तौ नितम्बौ कटितटौ बृहन्तौ स्तनौ च तैः कृच्छ्रमाभीलं कष्टं यस्य स मध्यमो मध्यदेशो यस्याः सा ताम् । सु वासो वस्त्रं यस्याः सा ताम् । उल्लसन्तः कुन्तलास्तैर्मण्डितमलङ्कृतमाननं यस्याः सा ताम् । तत्र तन्त्रं कर्णभूषणयोः कर्णधृतकुण्डलयोस्त्विषा कान्त्या । त्विषेत्याकारान्ततापक्षे त्विषयोल्लसत्कुन्तल-मण्डिताननामिति पदमेकं वा ॥ ५ ॥

सुमनोरञ्जिनी

किं तत्स्वेच्छानुसारिरूपं जग्राहेति तत्राह ॥ तामिति ॥ केशबन्धे केशपाशे व्यतिषक्ताः संबद्धा मल्लिका यस्याः सा तथा ताम् । बृहन्तो नितम्बस्तनाः कृच्छ्रं सूक्ष्मं मध्यमं यस्याः सा तथा ताम् । कंपितानि चलितानि यानि कर्णभूषणानि ताटङ्कादीनि तेषां त्विषा कांत्या उल्लसत् कुन्तलैर्मण्डितम् आननं यस्याः सा ताम् ॥ ५ ॥

वल्गुस्मितापाङ्गविसर्गवीक्षितैर्मनो हरन्तीं वनितां १व्रजौकसाम् ।

अमंसताम्भोजकरेण रूपिणीं गोप्यः श्रियं द्रष्टुमिहागतां पतिम् ॥ ६ ॥

पदरत्नावली

वल्गु सुन्दरं स्मितं च, अपाङ्गविसर्गैः कटाक्षप्रसारैः सहितानि च, तैः । वनितां सम्भजनीयाम् । वन सम्भक्तौ इति धातोर् बाहुलकादितच् । व्रजौकसो गोपाः । व्रजौकसामिति पाठे मनो हरन्तीमिति सम्बन्धः । अम्भोजयुक्तेन करेण । पतिं कृष्णं द्रष्टुमागतां श्रियमिव अमंसत मेनिरे ॥ ६ ॥

सत्यधर्मीया

अपाङ्गविसर्गः कटाक्षमोक्षः । वल्गुस्मितं चापाङ्गविसर्गसहितानि वीक्षितानि च तैः । अपाङ्गस्यानङ्गस्योद्रेको यैस्तानि च तानि तैरिति वा । व्रजौकसां मनो हरन्तीं वनितां वन सम्भक्तौ बाहुलकादितच् । सम्भजनीयाम् । रूपिणीमेतदाकारवतीमम्भोजकरेण तद्युक्तहस्तेन तन्मुखचिह्नत्वात् पतिं द्रष्टुमिहागतां श्रियं गोपाश्च बहिरन्तश्च गोप्योऽमंसत व्यजानन् । व्रजौकस इति पाठे गोपा इत्यर्थो गतम् ॥ ६ ॥

सुमनोरञ्जिनी

वल्गु मनोहरं स्मितम् । अपांगो नेत्रांतस् तस्य विसर्गो मोक्षः । कटाक्षमोक्ष इति यावत् । तद्युतैर् वीक्षणैर् अवलोकनैः । अपांगस्य अनंगस्य विशेषेण सर्गः सृष्टिर्यैस्तैर् वीक्षणैरिति वा । मन्मथोद्रेककरैरित्यर्थः । व्रजौकसां गोपानां मनो हरन्तीम् । व्रजौकस इति पाठे व्रजौकसो गोपा वनितां सम्भजनीयाम् अमंसत मेनिरे इत्यर्थः । वन षण संभक्ताविति धातोः । गोप्यस्तु पतिं श्रीकृष्णं द्रष्टुमागतां रूपिणीं मूर्तिमतीं श्रियं मेनिरे । केन लिङ्गेन । अम्भोजकरेण अम्भोजयुक्तकरेणेत्यर्थः ॥ ६ ॥

बालग्रही तत्र विचिन्वती शिशून् यदृच्छया नन्दगृहेऽसदन्तकम् ।

बालं प्रतिच्छन्ननिजोरुतेजसं ददर्श तल्पेऽग्निमिवाहितं भसि ॥ ७ ॥

पदरत्नावली

बालग्रही बालकमारिका । विचिन्वती मृगयन्ती । असदन्तकम् असतामन्तकः, असन् अविद्यमानोऽन्तको यस्य स तथा इति च । बालभावेन प्रतिच्छन्नं निजं स्वाभाविकमुरु उत्कृष्टं तेजः सामर्थ्यं यस्य स तथा । भसि भस्मनि, आहितमाच्छादितम्

॥ ७ ॥

सत्यधर्मीया

बालग्रही कुमारमारिका । शिशूंस्तत्र विचिन्वती । यदृच्छया स्वमारक-हरीच्छया । नन्दगृहेऽसदन्तकं दुर्जनभर्जनकरम् । स सहिंसकश्चेन्न तस्यास्माद्भीतिस्तदरणगमने मरणगमनं स्यादित्यतो वाऽऽह ॥ असदन्तकमिति ॥ असन्न विद्यमानोऽन्तको यस्य स इति । स तनुतनुमानिति वाऽऽह ॥ असदन्तकमिति ॥ दन्तैः सहितः पोतो हि सदन्तकः । न सदन्तकोऽसदन्तक इति । भसि भस्मनि । आहितं गूहितमग्निमिव । प्रतिच्छन्नं निजं स्वाभाविकमुरूत्कृष्टं तेजः सामर्थ्यं विलक्षणप्रकाशश्च यस्य तम् । तल्पे शय्यायाम् । बालं ददर्श

॥ ७ ॥

सुमनोरञ्जिनी

बालग्रहा बालमारिका । पूतना शिशून् विचिन्वती मृगयन्ती । यदृच्छया दैवेच्छया । असदन्तकम् असताम् अन्तकम् । असन् अन्तको यस्येति वा तम् । भसि भस्मनि आहितं निहितम् अग्निमिव प्रतिच्छन्नं निजं स्वकीयम् उरु उत्कृष्टं तेजो यस्य स तथा तं बालम् । तल्पे आहितं स्वापितं ददर्शेत्यन्वयः ॥ ७ ॥

विबुध्य तां बालकमारिकाग्रहं चराचरात्मा स निमीलितेक्षणः ।

मही सुरत्वेऽपि च बालभावं विभावयन् किञ्चिदुवाच न प्रभुः ॥ ८ ॥

पदरत्नावली

बालकमारिकाग्रहं बालानां मृत्युभूतदुष्टग्रहम् । स्वं हन्तुमायान्ती तां कुतो हरिरुपैक्षतेत्यत आह चराचरात्मेति ॥ निखिलचराचरविश्वभक्षकस्य का कीटतुल्यनिशाचरीभीतिरिति यावत् । ‘स्रष्टा पाता तथैवात्ता निखिलस्यैक एव तु’ इत्यादेः । सुरत्वे पूर्णैश्चर्ये । सुर ऐश्वर्ये इति धातुः । देवदेवत्वे वा । मही अतिप्रशस्तोत्सववान् । ईश्वरत्वाप्रकटने वचनाभावे च बालभावप्रकाशनं हेतुः ॥ ८ ॥

सत्यधर्मीया

त्रैलोक्येशो विलोक्य किं चकारेत्यत इमां धाटीमाटीकतेत्याह ॥ विबुध्येति ॥ चराचरात्मा जगत्स्वामी सर्वव्यापी वा स कृष्णस्तां बालकमारिकाग्रहं विबुध्य ज्ञात्वाऽपि मही उत्सवं दर्शयितुकाम इत्युत्सववान् सुरत्वेऽपि देवत्वेऽपि बालभावं बालत्वं विभावयन्निमीलितेक्षणः सन् प्रभुर्न किञ्चिदुवाच । सुरत्वे सुरवर्गे प्रभुः । उतामृतत्वस्येशान इत्यादिवत् । स्वसूदनार्थमायातां मधुसूदनः कुत उपेक्षितवानित्यतो वाऽऽह ॥ चराचरात्मेति ॥ यच्चात्ति विषयानिहेत्यादेः । गृहान्भक्षयतः पुंसः कवाटं पर्पटायत इतिवत् । सर्वभक्षकस्य का क्षपाचरीभीरिति भावः । मही किञ्चित्स्वभारावतारणादिरूपमुवाचेति न प्रभुरसमर्थ इव निमीलितेक्षण आसेत्यपि योजना । मह्या रमया सह सु सम्यग्रमत इति महीसुरो रमारमणस्तत्त्वेऽपीति वा । अन्तर उपपत्तेः । अन्तःस्थित्वा रमणकृदित्यादेः । रमेर्ञमन्ताड्डु इति डः । चुटू इतीत्संज्ञायां तस्य लोपे डित्वसामर्थ्यादभस्यापि टेर्लोपे र इति रूपम् । विस्तरस्त्वन्तराधिकरणसुधावाक्यार्थचन्द्रिकादितोऽवसेयः । यथोक्तम् । मह्या अदितय इत्यृग्भाष्यटीकयोः– ‘‘स चादितिर्महती तन्मही च । मह्या अदितय इत्यादित्वरा-विषयमुक्तं तत्केन निर्वचनेनेत्यत आह ॥ श्रीर्वेति । वाशब्दश्चशब्दार्थे । श्रीश्चानेनैव निर्वचनेन महीत्युक्ते’’त्यादि । मही चासौ सुरश्च तस्य भावस्तत्त्वं तस्मिन्नपीति वा ॥ ८ ॥

सुमनोरञ्जिनी

चराचरयोरात्मा अन्तर्यामी श्रीकृष्णः । तां बालकानां मारिकां मृत्युरूपं गृहं विबुध्य ज्ञात्वाऽपि निमीलिते ईक्षणे यस्यासौ तथोक्तः । मह्यां सुरत्वेऽपि । यद्वा मही भूर् ईर्लक्ष्मीस्तयोः सुष्ठु रमतीति तथोक्तः । अथवा मही ‘पूतना किं किं करोति तत्परीक्षणीयम्’ इत्युत्सववान्सुरत्वेऽपि बालभावं विभावयन् ज्ञापयन् किंचिन्नोवाचेति योजना ॥ ८ ॥

अजानमानाऽथ निशाचरी हरिं निसर्गविज्ञातजगद्विचेष्टितम् ।

अनन्तमारोपयदङ्कमन्तकं यथोरगं सुप्तमबुद्धिरज्जुधीः ॥ ९ ॥

पदरत्नावली

अथ सात्त्विकस्त्रियः स्वभावप्रकटनानन्तरम् । यद्वा राक्षस्याः स्वभावः प्रारभ्यते । यद्वा यतो निशाचरी अत तस्माद् हरिमजानमाना । ‘मङ्गलानन्तरारम्भप्रश्नकार्त्स्न्येष्वथो अथ’, ‘अथातोऽनन्तराप्यर्थविकल्पारम्भमङ्गले’ इत्यमरयादवौ । हरेर्ज्ञानाविर्भावतिरोभावौ न स्त इत्याशयेनाह निसर्गेति । निसर्गतः स्वभावतो विज्ञातं जगतो विचेष्टितं येन तम् । ‘यः सर्वज्ञः सर्ववित्’ इत्यादेः । अनन्तमपरिच्छिन्नं मरणरहितं च । हरिम् असुरादीनामसून्, सुरादीनां दुरितानि च हरतीति तादृशं विष्ण्ववतारम् अन्तकमात्ममारकं चाजानमाना निशाचरी पूतना अङ्कमुत्सङ्गमारोपयत्, हन्तुमिति शेषः । कथमित्यत्र दृष्टान्तमाह यथेति । अबुद्ध्या अज्ञानेन उरगे रज्जुरिति धीर्यस्य सः सुप्तमुरगमङ्कमारोपयति यथा तद्वदिति ॥ ९ ॥

सत्यधर्मीया

अथ बालभावविभावनानन्तरम् । निसर्गविज्ञातजगद्विचेष्टितं निसर्गेण स्वभावतोऽनन्याधीनालोचनत इति यावत् । विज्ञातं जगद्विचेष्टितं येन तम् । निसर्ग उत्पत्तिरहितश्चासौ जगद्विचेष्टितश्चेति वा । निसर्ग इति विज्ञातश्चासौ जगतो विचेष्टितं चेष्टा तदभावो वा येन स चासौ स च तम् । अनन्तं न विद्यतेऽन्तो नाशो यस्य तम् । अन्तकं स्वनाशकं च हरिं चाजानमाना निशाचरी । अङ्कमुत्सङ्गमारोपयदारोपयामास । तत्र निदर्शनमाह ॥ यथेति ॥ सुप्तमुरगमबुद्धिरज्जुधीर्न विद्यते बुद्धिस्तज्ज्ञानं यस्य स चासौ रज्जुरिति धीर्यस्य स च । यश्चानन्तमारः सौन्दर्ये तदुपम इति भावः । अपयदङ्कोऽपयन्नपगतोऽङ्कः कलङ्को यस्य तं वा । अनन्ता बद्धा च सा मा च तस्या आरोपमारोहम्, एतीति यन्सोऽङ्क उत्सङ्गो यस्य तम् । उपयदङ्कमुपयंश्चाङ्कः स्वोत्सङ्गो यस्य तम् । अनन्तम् आरेति वा । अबुद्धि सर्वथा मतिरहितं बालापत्यं यथा च रज्जुधीर्भ्रान्तः पुमानिति वा । अनन्ता मा मायाऽऽरोप उरसि यस्य तच्च तद्यच्च तत् । अन्तर्बहि-र्व्याप्तब्रह्मरूपमिति वा । यदित्यङ्कं चिह्नमसाधारणं यस्य तमिति वा । यथोक्तं बृहद्भाष्ये । यथा बाह्यो तथैवान्तस्ततो यदिति चोच्यत इति । नायं मृत्युः परिहार्य इत्यप्याह ॥ अजानमानेति ॥ अजेन ब्रह्मणाऽनानां प्राणानां मानं परिमाणमवसानमिति यावत् तद्यस्या इति । मानं ज्ञानं लयश्चैव मर्यादा चेत्यादेः ॥ ९ ॥

सुमनोरञ्जिनी

यतो निशाचरी ताटकाविष्टत्वान्निशाचरीत्युक्तम् । अथ तस्मात् । निसर्गतः स्वभावतः विज्ञातं जगद्विचेष्टितं येन तम् । हरिम् अजानमाना पूतना । अनन्तं, न विद्यते अन्तो नाशो यस्य तम् । प्रत्युत स्वस्यैव अन्तकं कृष्णम् अङ्कमारोपयत् । कमिव । अबुद्धिरज्जुधीः । अबुद्ध्या अज्ञानेन रज्जुधीः रज्जुरियमिति भ्रमवान् सुप्तमुरगमिवेति पदरत्नावलीरीत्याऽर्थो द्रष्टव्यः

॥ ९ ॥

तां तीक्ष्णचित्तामतिवामचेष्टितां वीक्ष्यान्तराकोशपरिच्छदासिवत् ।

वरस्त्रियं तत्प्रभया च धर्षिते निरीक्षमाणे जननी १अतिष्ठताम् ॥ १० ॥

पदरत्नावली

अतिवामचेष्टितां बहिरधिकमनोहरव्यापाराम् । ‘अति स्यादधिकार्थोक्तौ प्रशंसायामतिक्रमे’ इति यादवः । ‘वामः क्रूरे मनोहरे’ इति च । अन्तरा मन्दिरमध्ये, चारुचर्म-निर्मितकोशः परिच्छद आवरणं यस्य सः, स चासावसिश्च तमिव । पश्चात्तु अन्तराकोशपरिच्छदः वर्जितकोशलक्षणालङ्कारोऽसिर्यथा तथा अतिवामचेष्टिताम् अधिकक्रूरव्यापारामिति च । तस्याः पूतनायाः प्रभया वरोद्भूतलक्षणया धर्षिता विह्वलिता । तस्य कृष्णस्य प्रकर्षकान्त्या च । तदानीमेव पूतनाप्राणवियोगसूचनाय ‘जननी अतिष्ठत्’ इत्यसन्धिनिर्देशः ॥ १० ॥

सत्यधर्मीया

ननु यशोदारोहिण्यौ किं चक्रतुर्न चक्रपाणिपाणिग्रहनिग्रहमित्यत आह ॥ तामिति ॥ तीक्ष्णं चित्तं यस्याः सा ताम् । बहिः, वामं चेष्टितं यस्याः सा ताम् । अन्त-रागारमध्ये । कोशपरिच्छदासिवत्तमिव चित्रमृदुचर्मनिर्मितकोशः परिच्छद आवरणं यस्य स चासावसिः खड्गश्च तमिव बहिर्वामचेष्टितामन्तस्तीक्ष्णचित्तां वरस्त्रियं वीक्ष्य दृष्ट्वाऽपि । तस्याः प्रभया मायिक्या धर्षिते वशीकृते निरीक्षमाणे केवलमवलोकयन्त्यौ जननी जनन्यौ । सुपां सुलुगिति पूर्वसवर्ण ईदूदेदिति प्रगृह्यसंज्ञायां रूपम् । अतिष्ठताम् । प्रथमैकवचनपाठे जननी यशोदा तत्प्रभया च धर्षिता निरीक्षमाणाऽतिष्ठत् । मातुरसन्धिः पोतस्येति सूचयितुमसन्धिनिर्देश इति ज्ञेयम् ॥ १० ॥

सुमनोरञ्जिनी

ननु यशोदा स्वापत्यमङ्कमारोपयन्तीं स्वस्यापरिचितां स्त्रियं वीक्ष्य का त्वं? कुतोऽस्मद्बालकमङ्कमारोपयसीति कस्मान्न निराचक्र इति तत्राह ॥ तामिति ॥ अन्त आ पूर्णः कोशे परिच्छदे कोशाख्ये आच्छादके यः सः । स चासावसिश्च तद्वत् कोशाच्छादितखड्गवदित्यर्थः । तीक्ष्णचित्तां क्रूरचित्ताम् । बहिश्चातिवामचेष्टितामत्यन्तहृद्यचेष्टितामित्यर्थः । एतादृशीं वरस्त्रियम् । अन्तरेति भिन्नं वा पदम् । अन्तरा मध्ये । गृहस्येति शेषः । गृहमध्ये वीक्ष्यापि जननी यशोदा । तत्प्रभया तस्याः पूतनायाः प्रभया धर्षिता परीभूता कर्तव्ये मूढेति यावत् । तां निरीक्ष्यमाणैवातिष्ठत् । न तु निराचक्र इति भावः ॥ १० ॥

तस्मिन् स्तनं दुर्जरवीर्यमुल्बणं

घोराऽङ्कमादाय शिशोर्ददावथ ।

गाढं कराभ्यां भगवान् प्रपीड्य तत्

प्राणैः समं रोषसमन्वितोऽपिबत् ॥ ११ ॥

पदरत्नावली

तस्मिन् काले । दुर्जरं जरयितुमशक्यं वीर्यं विषसामर्थ्यं यस्य स तथा । अत एवोल्बणं दुःसहक्रौर्योपेतम् । तस्याः प्राणाः पञ्च, तैः ॥ ११ ॥

सत्यधर्मीया

तस्मिन्काले । दुर्जरस्य जरयितुमशक्यस्य विषस्य वीर्यं सामर्थ्यं यस्मिंस्तत् । उल्बणमितरेषां घोरा राक्षस्यङ्कं प्रत्यादाय स्तनं शिशोर् ददौ । अथ तद्दानानन्तरम् । भगवान्कराभ्यां गाढं प्रपीड्य मर्दयित्वा तत्प्राणैस्तस्याः प्राणाः पञ्च तैः समं साकम् । रोषसमन्वित एकस्या राक्षस्या रोषः स्वमारणकारणं तेन समन्वितः सफलीकर्तव्यत्वेन तत्समन्वितः । एकस्या ऊर्वश्या उपरि दुःसहवासविघटकक्षमापर्यायस्तेन रोषेण समन्वित इत्यर्थः । यथोक्तं बृहद्भाष्ये । क्रोधः क्षमात्मको यस्य चिदानन्दात्मकः सदेति । यत्र यत्र कोपः श्रूयते तत्र तत्रेयं गतिर्ज्ञेया । अपिबत्पपौ

॥ ११ ॥

सुमनोरञ्जिनी

घोरा पूतना तस्मिन्समये । दुर्जरं जीर्णयितुमशक्यम् । अन्यैरिति शेषः । वीर्यं यस्य तत् । अत एवोल्बणं क्रूरं स्तनं शिशोर्ददौ । अथ अनन्तरं भगवान् तत् स्तनं गाढं कराभ्यां प्रपीड्य । तस्याः पूतनायाः प्राणैः समं तत् स्तनम् अपिबदिति ॥ ११ ॥

सा मुञ्च मुञ्चेति गिरा प्रभाषिणी निष्पीड्यमानाऽखिलजीवमर्मणि ।

विवृत्य नेत्रे चरणौ भुजौ मुहुर्विक्लिन्नगात्रा क्षिपती रुराव ह ॥ १२ ॥

पदरत्नावली

प्रभाषिणी उच्चैर्जल्पन्ती । अखिलजीवमर्षिणी समस्तप्राणापहारिणीव । विक्लिन्नं स्वेदोदकक्लिन्नं गात्रं यस्याः सा । रुराव रोदनमकरोत् ॥ १२ ॥

दुर्घटभावदीपिका

गिरेत्यस्य गिरमित्यर्थः । एतेन भाषणक्रियां प्रति गिरः कर्मत्वाद् गिरं प्रभाषिणीति वक्तव्यं गिरा प्रभाषिणीत्ययुक्तमिति चोद्यं परिहृतम् । गिरेति तृतीया द्वितीयादेश इति स्वीकृत्य गिरेत्यस्य गिरमित्यर्थ इत्युक्तत्वात् ॥ १२ ॥

सत्यधर्मीया

सा पूतना मुञ्च मुञ्च त्यज त्यजेति गिरा प्रभाषिणीति गिरा यस्याः सा । इति गिरा टाबन्तता च । मेरुर्गिरायां गुरुरित्यादेः । मुञ्चालमिति पाठेऽलमितोऽलं पर्याप्तं मुञ्चे-त्यन्वयः । अखिलजीवमर्मणीति पाठः समर्मकः । जीवस्य मर्मापायस्थानम् । अखिलं च तज्जीवमर्म च तस्मिन् । निष्पीड्यमाना । अखिलजीवमर्षिणीति पाठेऽपि सुमर्षणीयः । अखिलाञ्जीवान्मर्षयति हिनस्तीति धात्वनैकार्थ्यात् । सा नेत्रे विवृत्य चरणौ भुजौ च मुहुर्विक्षिपती विक्लिन्नगात्रा स्वेदोदकक्लिन्नं गात्रं यस्याः सा सती रुराव रोदनमकरोत् । ह खेदे । नेत्रे नियन्त्रे मुञ्च मुञ्चेति प्रभाषमाणेति वा । अमुं च श्रीकृष्णं प्रति मुहुर्मुञ्चेति प्रभाषिणीति वा योजना ॥ १२ ॥

सुमनोरञ्जिनी

सा पूतना । मुंच मुंचेति गिरा वाचा । अभेदे तृतीया । प्रभाषिणी उच्चैर् भाषमाणा । अखिलानां जीवमर्षिणी प्राणापहारिणी । नेत्रे विवृत्य विस्तार्य भुजौ चरणौ क्षिपती । स्वेदेन विक्लिन्नगात्रा सती रुरावेति सम्बन्धः ॥ १२ ॥

तस्याः स्वनेनातिगभीररंहसा साद्रिर्मही द्यौश्च चचाल सग्रहा ।

रसा दिशः खं प्रतिनेदिरे जनाः पेतुः क्षितौ वज्रनिपातशङ्कया ॥ १३ ॥

पदरत्नावली

रसा उपलक्षणया रसातलादिसप्तकम् । प्रतिनेदिरे प्रतिध्वनिं चकु्रः ॥ १३ ॥

सत्यधर्मीया

अतिगभीरं रंहो यस्य स तेन । रंहो वेगः । स्वनेन । साद्रिः सर्वतः पर्वतावृता मही भूर्द्यौरन्तरिक्षम् । सा च सग्रहा नवग्रहसहिता रसा रसातलादिसप्तकं चचाल । दिशः खं चेत्येतानि प्रतिनेदिरे प्रतिध्वनिं चक्रुः । वज्रनिपातशङ्कयाऽऽकस्मिक्या क्षितौ जनाः पेतुः ॥ १३ ॥

सुमनोरञ्जिनी

अति अत्यन्तं गभीररंहसा गम्भीरवेगेन । साद्रिर्मही । सग्रहा आदित्यादि-ग्रहैः सहिता द्यौश्च चचाल । रसा पातालमिति पदरत्नावली । स्वः स्वर्गः दिशश्च प्रतिनेदिरे प्रतिशब्दमकुर्वन् । वज्रनिपातशङ्कया अशनिपातशङ्कया ॥ १३ ॥

निशाचरीत्थं व्यथिता व्यसुः क्षितौ विकीर्य केशांश्चरणौ भुजावपि ।

प्रसार्य गोष्ठे निजरूपमास्थिता वज्राहतो वृत्र इवापतन्नृप ॥ १४ ॥

पदरत्नावली

व्यसुर् विगतप्राणा । निजरूपम् आसुरीरूपम् ॥ १४ ॥

सत्यधर्मीया

इत्थं प्राग्व्यथिता निशाचरी क्षितौ चरणौ भुजावपि प्रसार्य केशान्विकीर्य । व्यसुर्विगता असवो यस्याः सा । निजरूपं पुरातनपूतनाकारमास्थिता सती वज्राहतो वृत्रासुर इवापतत्

॥ १४ ॥

सुमनोरञ्जिनी

सा निशाचरी । इत्थं व्यथिता । व्यसुर् विगतप्राणा । निजरूपं राक्षसीरूप-मास्थिता आश्रिता । वज्रेणाहतस् ताडितो वृत्र इव अपतत् पतिताऽभवत् ॥ १४ ॥

पतमानोऽपि तद्देहस्त्रिगव्यूत्यन्तरे द्रुमान् ।

चूर्णयामास राजेन्द्र महदासीत् तदद्भुतम् ॥ १५ ॥

पदरत्नावली

त्रिगव्यूत्यन्तरे षट्क्रोशमध्ये विद्यमाना ये द्रुमा वृक्षास्तान् । ‘गव्यूतिः स्त्री क्रोशयुगम्’ इत्यमरः ॥ १५ ॥

सत्यधर्मीया

तद्देहस्तस्याः पूतनाया देहः पतमानः पतंस्त्रिगव्यूत्यन्तरे द्रुमान् । गव्यूतिः स्त्रीः क्रोशयुगमित्यमरः । त्रिगव्यूत्यन्तरे मध्ये विद्यमानाश्च ते द्रुमाश्च तांश्चूर्णायामासेति यत्तन्महदद्भुतमासीत् ॥ १५ ॥

सुमनोरञ्जिनी

त्रिगव्यूत्यन्तरे तिस्रो गव्यूतयः क्रोशयुगानि तदन्तरे तन्मध्ये ये द्रुमास्तानपि । पतमानस्तद्देहः पूतनादेहश् चूर्णयामास । तच् चूर्णनं महदद्भुतमत्याश्चर्यमासीदित्यन्वयः ॥१५॥

विरोधोद्धारः

पतमान इति । अत्र षट्क्रोशपर्यन्तं द्रुमादिचूर्णीभाव उक्तः । तदा व्रजस्य कथं सत्त्वेन स्थितिरित्यतो विरोधोऽत उच्यते । दुर्गाजन्मनः प्राक् कंसाय करं दातुं व्रजान्निर्गतस्य नन्दस्यानुवृत्त्या गताया यशोदाया मार्गमध्ये यमुनातीरे परवेश्मनि प्रसवे जाते तत्र चतुर्मासं वसतौ कृतायां पूतनावधस्य तत्रैव सम्भवाद्बृहद्वनस्थितव्रजस्य न चूर्णीभावः । तदुक्तम् । ‘पूर्वं हि नन्दः स करं हि दातुम्’ इत्यारभ्य ‘‘पपात सा व्याप्य वनं समस्तम्’’ इत्यन्तं तात्पर्यनिर्णये । अत एवाद्भुतमिवेत्युक्तम् । अस्याल्पद्रष्टृणामद्भुतत्वेऽपि बहुद्रष्टृणामद्भुतमिवाभवत् । न त्वद्भुतमिति भावः । नन्वेवं चेत् ‘‘प्रजाः संमृष्टसंसिक्ते’’त्यादिना गोपीमोदवर्णनेन च विरोध इति चेन्न । गोपाः समाययू राजन्निति बलिभिस्त्वरितं जग्मुः । पृथुश्रोण्य इति च कथनेन बृहद्वनस्थव्रजमलंकृत्य जन्मोत्सवदर्शनार्थं गमनलाभात् । रोहिण्या अपि तथैवागमनाङ्गीकारात् । कासांचिद्गोपीनां व्रजं त्यक्त्वा सूतिकासन्निधौ स्थित्यभ्युपगमेन च न कश्चिद्विरोधः ॥ १५ ॥

ईषामात्रोग्रदंष्ट्रास्यं गिरिकन्दरनासिकम् ।

गण्डशैलस्तनं रौद्रं प्रकीर्णारुणमूर्धजम् ॥ १६ ॥

पदरत्नावली

ईषा लाङ्गलदण्डः । ‘ईषा लाङ्गलदण्डः स्यात्’ इत्यमरः । गण्डशैलः भूकम्पादिना गिरेर्गलितो महानुपलः ॥ १६ ॥

सत्यधर्मीया

ईषामात्रे लाङ्गलदण्डप्रमाणे । ईषा लाङ्गलदण्डः स्यादित्यमरः । उग्रे दंष्ट्रे यस्य तच्च तदास्यं वक्त्रं यस्य तत् । गिरिकन्दरवन्नासिका यस्य तत् । गण्डशैलाविव स्तनौ यस्य तत् । शैलो भूभृतीत्यमरः । रौद्रं भीषणम् । प्रकीर्णा अरुणमूर्धजा यस्य तत् ॥ १६ ॥

सुमनोरञ्जिनी

ईषा लाङ्गलदण्डः । ईषा लांगलदण्डः स्यादित्यमरोक्तेः । तन्मात्रास् तत्प्रमाणा अत एवोग्रा दंष्ट्रास् तद्युक्तम् आस्यं यस्य तत् । गिरेः कन्दरे इव नासिके नासाच्छिद्रे यस्य तत् । दरी तु कन्दरो वाऽस्त्रीत्यमरः । गण्डशैलाः स्थूलपाषाणाः । गण्डशैलास्तु च्युताः स्थूलोपला गिरेरित्यभिधानात् । प्रकीर्णाः प्रसारिता अरुणा रक्ता मूर्धजा यस्य तत् ॥ १६ ॥

अन्धकूपगभीराक्षं पुलिनारोहभीषणम् ।

बद्धसेतुभुजोर्वङ्घ्रि शून्यतोयह्रदोदरम् ॥ १७ ॥

पदरत्नावली

अन्धकूपाविव गभीरे अक्षिणी यस्य तत् । पुलिने द्वीपे इव आरोहौ नितम्बौ, ताभ्यां भीषणम् । भुजौ चोरू चाङ्घी च भुजोर्वङ्घ्र्यः, बद्धाः सेतव इव भुजोर्वङ्घ्र्यो यस्य तत् । शून्यं तोयं यस्मिन् स शून्यतोयः, स चासौ ह्रदश्च तद्वद् विद्यमानमुदरं यस्य तत् ॥ १७ ॥

सत्यधर्मीया

अन्धकूपवद्गभीरे अक्षिणी यस्य तत् । पुलिने इव विद्यमानौ च तावारोहौ नितम्बौ च ताभ्यां भीषणम् । रोहो दैर्घ्यमानयोः । आरोहणे नितम्बे चेति विश्वः । बद्धा ये सेतवस्तद्वद्विद्यमाना भुजौ चोरू चाङ्घ्री यस्य तत् । शून्यं तोयं यस्मिन्स चासौ ह्रदश्च तद्वद्विद्यमानमुदरं यस्य तत् ॥ १७ ॥

सुमनोरञ्जिनी

अन्धकूपे इव अनीरकूपे इव गभीरे अक्षिणी यस्य तत् । पुलिनमिव आरोहः कटिपुरोभागस् तेन भयंकरम् । बद्धसेतुवद्भुजौ ऊरू अङ्घ्री यस्य । शून्यतोयह्रदवद् उदरं यस्य

॥ १७ ॥

सन्तत्रसुः स्म तद्वीक्ष्य गोपा गोप्यः कलेवरम् ।

पूर्वं तु तन्निःस्वनितभिन्नहृत्कर्णमस्तकाः ॥ १८ ॥

पदरत्नावली

तस्या निःस्वनितेन अशनिवद् घोरशब्देन भिन्नं हृत्कर्णमस्तकं येषां ते यासां ताश्च ॥ १८ ॥

सत्यधर्मीया

गोपा गोप्यश्च तत्कलेवरं वीक्ष्य सन्तत्रसुः । स्म अनिन्दंश्च मनसा । स्म पादपूरणेऽतीते सामिनिन्दार्थयोर्मतमिति विश्वः । स्मातीतं गतप्राणमिति वा । पूर्वं तु पूर्वमेव तस्या निःश्वसितेन शब्देन भिन्नं हृत्कर्णमस्तकं याश्च ये चेति येषां ते तथा ॥ १८ ॥

सुमनोरञ्जिनी

पूर्वं पूर्वमेव । तस्याः पूतनाया निःस्वनितेन शब्देन भिन्नानि विशीर्णानि हृत्कर्णमस्तकानि येषां यासां वा तथाविधाः । तत्कलेवरं वीक्ष्य सन्तत्रसुर् अत्यन्तं भीता अभवन्

॥ १८ ॥

बालं च तस्या उरसि क्रीडन्तमकुतोभयम् ।

गोप्यस्तूर्णं समभ्येत्य जगृहुर्जातसम्भ्रमाः ॥ १९ ॥

पदरत्नावली

न विद्यते कुतोऽपि भयं यस्य स अकुतोभयस्तम् ॥ १९ ॥

सत्यधर्मीया

बलवतामियं दशा चेत्का बालकाशेत्यत आह ॥ बालं चेति ॥ तस्या उरसि क्रीडन्तमकुतोभयं न विद्यते कुतोऽपि भयं यस्य सोऽकुतोभयः । मयूरव्यंसकादिः समासः । जातसम्भ्रमा मुहुर् उः उत्कृष्टोऽसीति जातसम्भ्रमा जगृहुर्जातादरास्तूर्णं समभ्येत्य बालं जगृहुः ॥१९॥

सुमनोरञ्जिनी

उरसि वक्षसि । अकुतोभयं निर्भयम् । जातः संभ्रमः सन्तोषो यासां ताः

॥ १९ ॥

यशोदारोहिणीभ्यां ताः समं बालस्य सर्वशः ।

रक्षां विदधिरे सम्यग् गोपुच्छभ्रमणादिभिः ॥ २० ॥

सत्यधर्मीया

गोपुच्छभ्रमणं भ्रामणमादिर्येषां तैः क्रियाविशेषैः ॥ २० ॥

सुमनोरञ्जिनी

ता गोप्यः सर्वशः सर्वस्मात् । रक्षां रक्षासाधनं कर्म ॥ २० ॥

गोमूत्रेण स्नापयित्वा पुनर्गोरजसाऽर्भकम् ।

रक्षां चक्रुर्गोशकृता द्वादशाङ्गेषु नामभिः ॥ २१ ॥

पदरत्नावली

गोरजसा गोपादरेणुना गोशकृता गोमयसहितेन केशवादिनामभिर् ललाटादिद्वादशावयवेषु ॥ २१ ॥

सत्यधर्मीया

॥ गोमूत्रेण स्नापयित्वा ॥ मित्वस्य ग्लास्नेति वैकल्पिकत्वाद्दीर्घः । गोरजसा तत्पदधूल्या पुनः स्नापयित्वा । गोशकृता द्वादशाङ्गेषु ललाटादिषु नामभिः केशवाद्यभिधानै रक्षां दिग्बन्धादिपूर्वं चक्रुः । मत्सङ्गो रमाया एवेतीश्वरः किञ्चित्तं योषितामेवं प्रेरणया तत्सङ्गमङ्गलमेव सम्पादयामासेति तात्पर्यं ज्ञेयम् । यथोक्तं शान्तिपर्वणि गोलक्ष्मीसंवादे । चञ्चलेत्यादिप्रकारेण ताभिर्निषिद्धा रमा वक्ति ।

माननामहमिच्छामि भवत्यः सततं शिवाः ।

अप्येकाङ्ग अथो वस्तुमिच्छामि च सुकुत्सिते ।

अवश्यं मानना कार्या यद्यस्माभिर्यशस्विनि ।

शकृन्मूत्रे वस त्वं च पुण्यमेतद्धि नः शुभे ।

श्रीः–

दृष्ट्या प्रसादो युष्माभिः कृतो मेऽनुग्रहात्मकः ।

एवं भवतु भद्रं वः पूजितोऽस्मि सुखप्रदाः ।

एवं कृत्वा तु समयं श्रीर्गोभिः सह भारत ।

पश्यन्तीनां ततस्तासां तत्रैवान्तरधीयत ।

एवं गोशकृतः पुत्र माहात्म्यं तेऽनुवर्णितम् ॥

इति ॥ २१ ॥

सुमनोरञ्जिनी

गोरजसा गोशकृता गोमयेन च । बालस्य द्वादशाङ्गेषु ललाटादिद्वादशा-वयवेषु । नामभिः केशवादिद्वादशभगवन्नामभिः ॥ २१ ॥

गोप्यः संस्पृष्टसलिला ओषु करयोः पृथक् ।

न्यस्यात्मन्यथ बालस्य बीजन्यासमकुर्वत ॥ २२ ॥

पदरत्नावली

संस्पृष्टसलिला आचान्ताः । ओषु न्यस्य पृथक् करयोश्च न्यस्य आत्मनि मध्ये देहे च न्यस्य अथानन्तरं मङ्गलकरं वा बालस्य बीजन्यासम् अष्टाक्षरन्यासम् अकुर्वत ॥२२॥

सत्यधर्मीया

गोप्यः संस्पृष्टसलिलाः पादधावनाचमनाद्युपयुक्तोदकाः सत्यः । आत्मनि स्वस्मिन्नादावङ्गेषु विशिष्टावयवेषु करयोरिति पृथक् पृथक् न्यस्य बीजाक्षराणि । अथानन्तरं बालस्याङ्गेषु करयोरिति पृथक् पृथक् च बीजन्यासमष्टाक्षरादिन्यासमकुर्वत ॥ २२ ॥

सुमनोरञ्जिनी

गोप्यः संस्पृष्टसलिलाः । ओषु हृदयादिपञ्चाङ्गेषु, करयोः, आत्मनि मध्यदेहे । एवम् अष्टस्ववयवेषु । न्यस्य अष्टाक्षरबीजानि न्यस्य । अथ बालस्य । द्वादशाङ्गेष्वित्यनुवर्तते । बीजन्यासं द्वादशाक्षरविद्याया बीजाक्षराणां न्यासमकुर्वतेति सम्बन्धः ॥ २२ ॥

विरोधोद्धारः

गोप्य इति । अत्र बीजन्यासमित्यत्र व्याख्यातृभिरष्टाक्षरन्यासमिति व्याख्यातम् । अष्टाक्षरस्य वैदिकत्वेन स्त्र्यनधिकारिकत्वाद्गोपीनां च कर्तृत्वाद्विरोधोऽत उच्यते । प्राहुरप्युत्तमस्त्रीणामधिकारं तु वैदिके इत्युक्तेः, देवस्त्रीणां गोपीरूपत्वेनावतीर्णत्वादुत्तम-त्वेनाधिकारसद्भावात् । वस्तुतस्तु गोप्यः संस्पृष्टसलिला उपस्पृष्टोदकाः सत्यः । करयोः कराङ्गुलीष्वित्यर्थः । ओषु हृच्छिरःशिखादिपञ्चाङ्गेषु । पृथक् कर्णबीजपार्थक्येन । न्यस्य । भूरग्न्यात्मनेऽनिरुद्धायेत्यादि सत्यं सत्यात्मने नारायणायेत्यन्तानां न्यासं कृत्वा । अथ उभय-न्यासानन्तरम् । बालस्य । आत्मनि शिरआदिजीवबिम्बरूपान्तस्थानेष्वित्यर्थः । बीजन्यासम् । अम् अजाय नम इत्यादि क्षं नृसिंहाय नम इत्यन्तम् मातृकान्यासम् । अकुर्वत चक्रुः । यद्वा आत्मनि शिरोहृत्पादरूपाङ्गेष्वित्यर्थः । बालस्य बालकृष्णस्य । बीजन्यासं क्लीमिति बीजन्यासम् । अकुर्वत । केचिदाबालयोरुभयोर्न्यासकरणं व्याचक्षते । तच्चिन्त्यम् । तथात्वे न्यस्यात्मनोऽथ बालस्येति न्यस्यात्मन्यथ वा बालस्येति पाठः स्यात् । षष्ठीसप्तम्योस्तु पृथग्विभक्तिप्रदर्शने कारणाभावात् । अयमप्यर्थो व्याख्यातृहृदं वरवर्ती । अविरुद्धत्वात्प्रदर्शयिष्यमाणत्वाच्च ॥ २२ ॥

अव्यादजोऽङ्घ्रिमणिमांस्तव जान्वथोरू

यज्ञोऽच्युतः कटितटं जठरं हयास्यः ।

हृत् केशवस्त्वदुर ईश इनस्तु कण्ठं

विष्णुर्भुजं मुखमुरुक्रम ईश्वरः कम् ॥ २३ ॥

पदरत्नावली

अत्राजादयो भगवन्मूर्तिविशेषाः । अङ्घ्रिम् अङ्घ्री, जानु जानुनी, अव्यादित्यन्वयः । अणिमान् अणोरणीयान् हरिरणुजीवस्वरूपेष्वपि अन्तरात्मरूपी सन् सर्वनियामक इत्यर्थः ॥ २३ ॥

सत्यधर्मीया

अजादयश्च भगवन्मूर्तिविशेषाः क्वचिदेवार्थानुगमः । अजो न जायत इति । अज गतिक्षेपणयोरिति स्मरणाद् एरजित्यच् प्रत्यये बहुलं तणीति वीभावाभावः । अजा विष्णु-हरच्छागा इत्यमराद्विष्णुः । अङ्घ्रिम्, अवयवादीनां परस्परमभेदादेकवचननिर्देशो निर्देशः । क्वचिदूरू इति च विशेषतो व्यवहारविशेष इति सूचक इति ज्ञेयम् । अधिरपि गत्यर्थो गतिमानिति गतिसाधनं पादमव्यादित्यर्थः । अणिमानणिरस्यास्तीति स स चास्थिविशेषो दृढतत्कः । अणिराणिवदक्षाग्रकीले स्यादस्थिसीमयोरिति विश्वः । जान्वथोरू यज्ञोऽच्युतः कटितटं, हयास्यो जठरं, केशवो हृत्त्वदुर ईश इनः कण्ठं विष्णुर्भुजमुरुक्रमस्त्रिविक्रमो मुखमीश्वरः कं शिरोऽव्यादित्यन्वयः । अणिर्गतिर-स्यास्तीत्यणिमान्वा । गतेश्चाङ्घ्रिजानुसाध्यत्वाद्द्विवारमुक्तिरिति केऽपि ॥ २३ ॥

सुमनोरञ्जिनी

अजादयो मूर्तिविशेषाः । अजोऽङ्घ्रिं, अङ्घ्री । अणिमान् जानु जानुनी । अव्यादिति सर्वत्रान्वेति । हृत् हृदयम् । भुजं भुजौ । कं शिरः ॥ २३ ॥

विरोधोद्धारः

अव्यादिति । अत्र पादादिशिरोऽन्तन्यासोक्त्या लयन्याससिद्धेः । तन्न्यासस्य च यत्याधिकारिकत्वात्कृष्णे च तदाश्रमाभावात्कथमयं न्यासो युज्यतेऽत उच्यते । नायं न्यासः किन्तु इयमङ्गरक्षाऽतो न विरोधः । तथाऽङ्गीकारपक्षे व्याख्यातृभिः पूर्वं द्वादशाङ्गेषु नामभिरित्यत्र द्वादशाङ्गेषु ललाटादिद्वादशावयवेष्विति व्याख्यानात् । आत्मानं भगवान्पर इत्यत्रात्मानं मध्यमिति व्याख्यास्यमानत्वात् । पूर्वश्लोके न्यस्यात्मन्यथेत्यत्रात्मशब्दस्य मध्यार्थकत्वात् । तेन च सृष्टिलययोर्मध्यस्थत्वेन स्थितिन्याससिद्धेश्च । अत्र च लयन्यासोक्त्या त्रयाणामप्याश्रमाणां स्वावयवेभ्यो जनकस्य कृष्णस्योपनयनाभावेन पृथगेकैककरणायोगात् त्रयाणामपि न्यासानां युक्तत्वं बोद्धव्यम्

॥ २३ ॥

चक्य्रग्रतः सहगदो हरिरस्तु पश्चात्

त्वत्पार्श्वयोर्धनुरसी मधुहाऽजनश्च ।

काणेषु शङ्ख उरुगाय उपर्युपेन्द्र-

स्तार्क्ष्यः क्षितौ हलधरः पुरुषः समन्तात् ॥ २४ ॥

पदरत्नावली

धनुरसी तद्धरौ रूपविशेषौ । मधुहा मधुसूदनोऽजनो जनार्दनः शङ्ख उरुगायश्चेति चत्वारश्चतुर्षु कोणेषु । तार्क्ष्यो गरुडवाहनः । हलधरः शुक्लकेशः सङ्कर्षणः । पुरुषः परमपुरुषः ॥ २४ ॥

सत्यधर्मीया

अग्रतोऽग्रे चक्री चक्रधरो हरिरेवं सहगदो गदया सहितो सगदः । वोप-सर्जनस्येत्युक्तेः सहगद इति सम्भवति । हरिः पश्चात्पृष्ठभागेऽस्त्विति विपरिणतं यथायथमन्वेति । त्वत्पार्श्वयोर्धनुरसी तद्धरौ रूपविशेषौ धरणीयौ । एवमुत्तरत्रापि । मधुहा मधुसूदनोऽजनो जनार्दनः शङ्ख उरुगायश्चेत्येते चत्वारश्चतुर्षु कोणेषु एकदेशेषु । याम्यादिः कोणेऽप्येकदेश इति विश्वः । उपर्युपेन्द्रस्तार्क्ष्यो गरुडध्वजः सोऽप्युपरि । क्षितौ तदधो हलधरः शेषान्तर्गतसङ्कर्षणः । तस्य पातालतलालयत्वात् । गरुडशेषौ वा । तार्क्ष्यहलधरपदयोरसाक्षादधोक्षजप्रतीतिजनकत्वेन संविधान-सापेक्षार्थकत्वेऽपि प्रस्तुतस्तनपीतविषविषमताभ्रान्त्युपशान्त्यै तदुक्तिरिति मन्तव्यम् । एकस्य तु तत्परिहारकतयैकस्य विषस्वामित्वेन विघ्नेशवत्तत्स्मरणेन तन्नाश इति द्वयोर्ग्रहो युक्तियुक्त इति सन्तोष्टव्यम् । पुरुषः परमपुरुषः समन्तात्सर्वत्र ॥ २४ ॥

सुमनोरञ्जिनी

चक्री चक्रधरो ऽग्रतः पातु । सहगदः गदाधरः पश्चात् पालयन्नस्तु । धनुरसी धनुर्धारी खड्गधारी च । चक््य्रादिपदसाहचर्यात्, पार्श्वयोः रक्षकोऽस्तु । मधुहा मधुसूदनः । अजितः । शङ्खः शङ्खधरः । उरुगाय इति चत्वारः कोणेषु रक्षकाः सन्तु । तार्क्ष्यः गरुडारूढः । हलधरः बलदेवव्यावृत्तये पुरुष इति । पूर्णषड्गुण इत्यर्थः ॥ २४ ॥

इन्द्रियाणि हृषीकेशः प्राणान् नारायणोऽवतु ।

श्वेतद्वीपपतिश्चित्तं मनो योगेश्वरोऽवतु ॥ २५ ॥

सत्यधर्मीया

बही रक्षामेवं विधायान्तर्लक्ष्मीकान्तकायरक्षां तन्वङ्ग्यस्तन्वत इत्याह– इन्द्रियाणीति ॥ हृषीकाणीन्द्रियाण्याहुरित्यादेरिन्द्रियस्वामी हृषीकेश इन्द्रियाण्यवतु । नारायणः प्राणान् । श्वेतद्वीपपतिस्तत्पतिः । एकैकदिगवस्थितरूपविवक्षयैकवचनम् । वासुदेवादिः । यथोक्तं वराहपुराणे

श्वेतद्वीपे चतुर्दिक्षु चतस्रो मम मूर्तयः ।

पूज्यन्ते दैवतैः सर्वैर्वासुदेवादिकाः सदा ॥

इति । चित्तम् । योगेश्वरः कपिलादिः । वृत्तिभेदाच्चित्तं मन इत्याद्युक्तिः ॥ २५ ॥

सुमनोरञ्जिनी

श्वेतद्वीपपतिर् वासुदेवः । चित्तं तदुपलक्षितमनोवृत्तिसमूहम् ॥ २५ ॥

पृश्निगर्भस्तु ते बुद्धिमात्मानं भगवान् परः ।

क्रीडन्तं पातु गोविन्दः शयानं पातु माधवः ॥ २६ ॥

पदरत्नावली

आत्मानं मध्यदेहम् ॥ २६ ॥

सत्यधर्मीया

पृश्निगर्भस्त्वत्पूर्वरूपी । आत्मानमेवं स्वाभिन्नं भगवान्परः । ॐ पञ्चवृत्तिर्मनोवद्व्यपदिश्यते ॐ । यया ह वै मनः पञ्चधो व्यपदिश्यते । मनो बुद्धिरहङ्कारश्चित्तं चेतनेत्यादेरात्मानमहङ्कारं वा पातु । क्रीडन्तं गोविन्दः ॥ २६ ॥

सुमनोरञ्जिनी

पृश्निगर्भस् तन्नामकः । आत्मानं चेतनम् ॥ २६ ॥

व्रजन्तमव्याद् वैकुण्ठ आसीनं त्वां श्रियः पतिः ।

भुञ्जानं यज्ञभुक् पातु सर्वग्रहभयङ्करः ॥ २७ ॥

सत्यधर्मीया

सर्वग्रहभयङ्कर इति वैकुण्ठाद्यन्वयि ॥ २७ ॥

सुमनोरञ्जिनी

अव्याद् रक्षतु । आसीनमुपविष्टम् । अत्र क्रीडादौ रक्षणं नाम तत्कालोत्पन्न-ग्रहकृतभयपरिहार एव । अत एवोक्तं सर्वग्रहभयंकर इति ॥ २७ ॥

डाकिन्यो यातुधान्यश्च कूष्माण्डा येऽर्भकग्रहाः ।

भूतप्रेतपिशाचाश्च यक्षरक्षोविनायकाः ॥ २८ ॥

पदरत्नावली

अर्भकग्रहा बालग्रहाः । विनायका विघ्नकर्तारः ॥ २८ ॥

सत्यधर्मीया

डाकिन्याद्या गणा अर्भकग्रहा विनायकास्तेऽपि विघ्नप्रदा गणाः ॥ २८ ॥

सुमनोरञ्जनी— डाकिन्यादयो गणविशेषाः ॥ २८ ॥

कोटरारेवतीज्येष्ठापूतनामातृकादयः ।

उन्मादा ये ह्यपस्मारा देहप्राणेन्द्रियद्रुहः ॥ २९ ॥

सत्यधर्मीया

मातृकादय इति पृथग्वा कोटरादिमातृकादय इति समस्तं वा । उन्मादा उन्मादका अपस्मारास्तत्कराः । देहप्राणेन्द्रियद्रुहो देहश्च प्राणाश्चेन्द्रियाणि च तेभ्यो द्रुह्यन्तीति ते ॥ २९ ॥

सुमनोरञ्जिनी

कोटरेत्यादयश्च उन्मादापस्मारादिरोगदाः । अत एव देहप्राणेन्द्रियादीनां द्रुह्यन्ति अपकुर्वन्तीति तथोक्ताः ॥ २९ ॥

स्वप्नदृष्टा महोत्पाता बृहद्बालग्रहाश्च ये ।

सर्वे नश्यन्तु ते विष्णोर्नामग्रहणभीरवः ॥ ३० ॥

सत्यधर्मीया

ये स्वप्नदृष्टा दुष्फलसूचकमहोत्पातास्ते सर्वे, विष्णोर्नामग्रहणं तदुच्चारस्त-स्माद्भीरवो नश्यन्तु । ते विष्णोरिति सामानाधिकरण्येनाप्यन्वयः ॥ ३० ॥

सुमनोरञ्जिनी

स्वप्ने दृष्टा महोत्पाता अनर्थसूचकाः । विष्णोर् व्यापकस्य ते नामग्रहणाद् भीरवो भययुक्ताः ॥ ३० ॥

इति प्रणयबद्धाभिर्गोपीभिः कृतरक्षणम् ।

पाययित्वा स्तनं माता सन्न्यवीविशदात्मजम् ॥ ३१ ॥

पदरत्नावली

प्रणयबद्धाभिर् बद्धस्नेहाभिः । सन्न्यवीविशत् संवेशं निद्रामकारयत् ॥ ३१ ॥

सत्यधर्मीया

प्रणयेन स्वतनयप्रेमविशेषेण बद्धा गृहादिगमनमनिच्छन्त्य इति बद्धवद्विद्य-मानास्ताभिर्गोपीभिर्वृद्धसुवासिनीभिः कृतरक्षणमात्मजं माता स्तनं पाययित्वा । उभयोरेकदा पेयत्वादेक-वचनम् । सन्न्यवीविशदुपवेशयामास शाययामास वा ॥ ३१ ॥

सुमनोरञ्जिनी

प्रणयबद्धाभिः स्नेहपाशयन्त्रिताभिः । कृतं रक्षणं यस्य स तथा । माता यशोदा । आत्मजं कृष्णम् । सन्न्यवीविशत् स्वापयामास ॥ ३१ ॥

तावन्नन्दादयो गोपा मधुराया व्रजं गताः ।

विलोक्य पूतनादेहं बभूवुरतिविस्मिताः ॥ ३२ ॥

सत्यधर्मीया

तावत् । यावत्तावत्परिच्छेदे कात्स्नर्््ये मानेऽवधारण इति विश्वः । तावति समये नन्दादयो गोपा मधुरायाः सकाशात्पतितं पूतनादेहं विलोक्यातिविस्मिता बह्वाश्चर्ययुक्ता बभूवुः

॥ ३२ ॥

सुमनोरञ्जिनी

मधुरायाः सकाशाद् व्रजं गताः प्राप्ताः ॥ ३२ ॥

नूनं बतर्षिः सञ्जातो योगेशो वा समासतः ।

स एव दृष्टो ह्युत्पातो यथाऽऽहानकदुन्दुभिः ॥ ३३ ॥

पदरत्नावली

वसुदेव ऋषिः कश्चित् त्रिकालदर्शीत्यर्थः । कश्चिद् योगेशो वा समासतः सङ्कोचतः स्वस्वरूपमप्रकाशयन्निति यावत् । बत हर्षे । नूनं निश्चयः । आनकदुन्दुभिर्यथा आह स एव तादृशमहोत्पातो दृष्टो हीत्यन्वयः ॥ ३३ ॥

सत्यधर्मीया

ऋषिस्त्रिकालदर्शी कश्चित्सञ्जातः कश्चिद्योगेशो वा समासतः स्वस्वरूप-मप्रकटयन्निति सङ्कोचतः सञ्जातः । बत हर्षे नूनं निश्चयः । तद्विनिगमकमाह ॥ यथेति ॥ आनकदुन्दुभिर्यथाऽऽह स एव तादृशोत्पातो दृष्टो हीति ॥ ३३ ॥

सुमनोरञ्जिनी

सः वसुदेवः । ऋषिस् त्रिकालज्ञानी । ऋष् ज्ञान इति धातोः । योगेशः कपिलाद्यन्यतमो वा । ज्ञातः । बत हर्ष इति रत्नावली । समासतः संक्षेपतः । सामान्येनेति यावत् । यम् उत्पातं प्राह स एवोत्पातो दृष्टः । हि यस्मादित्यर्थः ॥ ३३ ॥

कलेवरं परशुभिश्छित्त्वा तत् ते व्रजौकसः ।

दूरे क्षिप्त्वाऽवयवशो ददहुः काष्ठवेष्टितम् ॥ ३४ ॥

सत्यधर्मीया

व्रजौकसो दूरे तत्कलेवरं क्षिप्त्वा तत्रैवावयवशः परशुभिश्छित्वा काष्ठवेष्टितं देहुः ॥ ३४ ॥

सुमनोरञ्जिनी

परं शृृणन्तीति परशवस् तैः कुठारैरित्यर्थः ॥ ३४ ॥

दह्यमानस्य देहस्य धूमश्चागरुसौरभः ।

उत्थितः कृष्णनिर्भुक्तसपद्याहतपाप्मनः ॥ ३५ ॥

पदरत्नावली

अगरोः सौरभमिव सौरभं यस्य सः । कृष्णस्य निर्भुक्तं स्तन्यपानरूपभोजनं, तेन सपदि आहतः पाप्मा यस्य तस्य ॥ ३५ ॥

सत्यधर्मीया

अगरोः शिंशुपायाः । पिच्छिलागरुशिंशुपेत्यमरः । सौरभमिव सौरभं यस्य । कृष्णस्य निर्भुक्तं स्तनपानरूपं भोजनम् । भावे क्तः । तेन सपदि झडित्याहतः पाप्मा पापं यस्य तस्य देहस्य धूम उत्थितस्तदङ्गसङ्गमाहात्म्येनेयान् गन्ध उद्गत इति भावः । पुमान्पाप्मा पापमित्यमरः

॥ ३५ ॥

सुमनोरञ्जिनी

अगरुवृक्षस्य सौरभमिव सौरभं यस्य सः । कृष्णस्य निर्भुक्तं भुक्तिः । तया या संपत् सुकृतलक्षणा तया अपहृतं पाप्म यस्य तत् तस्येत्यर्थः ॥ ३५ ॥

पूतना लोकबालघ्नी राक्षसी रुधिराशना ।

जिघांसयाऽपि हरये स्तनं दत्वाऽऽप सद्गतिम् ॥ ३६ ॥

पदरत्नावली

पूतनाविष्टोर्वशी असत्सहवासेऽपि हरये स्तनं दत्वा सद्गतिं स्वर्गमाप । पूतना तु सद्गतिम् अवसादनकरनित्यनरकगतिम् । ‘षद्लृ विशरणगत्यवसादनेषु’ इति धातोः ॥ ३६ ॥

सत्यधर्मीया

पूतना राक्षसी लोकबालघ्नी । जिघासंया हरये स्तनं दत्वाऽपि सद्गतिमापेति बाह्यार्थविवक्षया । कैमुत्यमुत्तरत्रत्यम् । तथा याऽलोकबालघ्नी पूतना तदन्तर्गतोर्वशी हरये स्तनं दत्वा । अपिना सत्सहवासेऽपि सद्गतिमाप किमुतेति कैमुत्यं च ज्ञेयम् । सद्गतिमवसादनसाधननरक-गतिम् । इतरत्र समीचीनां गतिमित्यर्थः ॥ ३६ ॥

सुमनोरञ्जिनी

जिघांसया हन्तुमिच्छयाऽपि स्तनं दत्वा सद्गतिमाप । इदं च पूतना-विष्टोर्वशीविषयम् ॥ ३६ ॥

विरोधोद्धारः

पूतनेति ॥ अत्र पूतनाया जिघांसया स्तनदानेन सद्गतिरुक्ता । तदयुक्तम् । तं यथा यथोपासते तदेव भवति । ये यथा मां प्रपद्यन्ते तांस्तथैव भजाम्यहमिति श्रुतिविरोधापातात् । अत उच्यते । राक्षसी पूतना । पूतिं दुर्गन्धं नयति प्रवर्तयतीति सा तथा । जिघांसया वधेच्छया निमित्तेन । रुधिराशना । रुध्या निरोधे नरो ऽग्निबीजतया दाहो यस्मिंस्तत्तमो ऽश्नाति प्राप्नोतीति सा तथा । अभूदिति शेषः । अशु प्राप्ताविति धातोः । या आलोकबालघ्नी । आलोकेन अवलोकनेन बालान् विषयाभिमुखत्वेन बालिशान् हन्ति अनर्थं प्रापयति सा तथा ॥ पूतना । पूतस् तपसा पवित्रः विश्वामित्रादिर् ना पुरुषो यस्याः सा । पूतान्नयति स्ववशमिति वा । नृशब्दात् स्त्रियां ङीषोऽपेक्षितत्वेऽपि टाप् समानेति सूत्रोक्तदिशा ध्येयः । तादृगुर्वश्यपीत्यर्थः । हरये स्तनं दत्वा । सद्गतिम् अप्सरस्त्वरूपां गतिम् । आपेति न कोऽपि विरोधः ॥ ३६ ॥

किं पुनः श्रद्धया भक्त्या कृष्णाय परमात्मने ।

यच्छन् प्रियतमं किञ्चिद् रक्तास्तन्मातरो यथा ॥ ३७ ॥

पदरत्नावली

रक्ता अनुरक्ताः ॥ ३७ ॥

सत्यधर्मीया

श्रद्धा अस्तीश्वर इति मतिः । भक्तिः प्रेमप्रवाहः । श्रद्धा सा कीदृशीत्यत आह ॥ आभक्त्येति ॥ आ स्वस्वरूपानुरूप्येण भक्तिर्यस्याः सा तया । किञ्चित्प्रियतमं कृष्णाय परमात्मने यच्छन् रक्ता अनुरक्तास्तन्मातरो यथा सद्गतिं गच्छन्ति तथा सद्गतिं गच्छेदिति किं वक्तव्यम् । पूर्वं पूतनेति स्त्रीप्रसक्तौ चोत्तरस्मिन्नपि तस्या अन्तरा यच्छन्निति पुंनिर्देशो न तत्रापि पयोधरपानादिति नाशयः किन्तु लोकानुकरणमित्युभयत्राप्यविशेष इति ज्ञापयितुमिति ज्ञेयम् ॥३७॥

सुमनोरञ्जिनी

श्रद्धया आस्तिक्यबुद्ध्या । यत्किंचित् पत्रपुष्पादिकम् । भक्त्युपहृतत्वा-त्प्रियतमं यच्छन् पुरुषः सद्गतिमवाप्स्यतीति किमु वक्तव्यमित्यर्थः । रक्ता अनुरक्ताः । तन्मातरः यशोदाप्रभृतयः ॥ ३७ ॥

विरोधोद्धारः

किं पुनरिति । पूर्वश्लोके उर्वश्याः स्तनदानेन सद्गतिप्राप्त्युक्तौ किं पुनः शब्दासङ्गतिः । जिघांसयाऽपि स्तनदानेन सद्गतिप्राप्तौ श्रद्धया दातुरेव कैमुत्यकथनस्यौचित्यात् । अत उच्यते । जिघांसया युक्ता पूतना देहस्थितायास्तद्वारा स्तनदानेन सद्गतिप्राप्तौ तत्संघविहीनाः पृश्न््यदितिदेवकीयशोदाख्या रक्ता भक्ता मातरो यथा सद्गतिमाप्नुयुस्तथा ॥ श्रद्धया विश्वासयुक्तया ॥ भक्त्या माहात्म्यज्ञानपूर्वकातिस्नेहेन । कृष्णाय ॥ किञ्चित् किमपि प्रियतमम् ॥ यच्छन् ददन् । सद्गतिं प्राप्नुयादिति किं पुनर्वक्तव्यमित्यङ्गीकारे नासङ्गतिदोषः । अयमर्थोऽग्रिमश्लोके व्यक्तो भविष्यतीति

॥ ३७ ॥

पद्भ्यां भक्तहृदिस्थाभ्यां वन्द्याभ्यां लोकवन्दितः ।

अङ्गं यस्याः समाक्रम्य भगवानपिबत् स्तनम् ॥ ३८ ॥

सत्यधर्मीया

भक्तानां हृदि तिष्ठत इति ताभ्याम् । सप्तम्या हृद्युभ्यामित्यलुक् । भक्तानां हृत्तस्मिन् । इना कामेन तिष्ठत इति भक्तहृदिस्थाभ्यां वा । इष्टदानात्तथेन्दव इत्यृग्भाष्य-टीकोदाहरणपूर्वकं प्राक् स्कन्धान्तरविवरणे विस्तृत्योक्तमनुसन्धेयम् । इतरत्प्रागुक्तद्विजीवपरतया योजनीयम् ॥ ३८ ॥

सुमनोरञ्जिनी

ननु जिघांसन्त्याः पूतनायाः सद्गतिः कथमभूत् । तथा सति तदितरायोग्यनां भगवद्द्वेषिणामपि सल्लोकप्राप्तिः स्यादित्यतो न पूतना द्वेषफलतया सद्गतिं प्राप अपि तु तदाविष्टोर्वश्याः प्राक्तनभक्त्या प्रसन्न एव भगवान्सद्गतिं ददावित्याह ॥ पद्भ्यामिति ॥ भक्तानां हृदि मनसि विद्यमानाभ्यां तद्ध्यानविषयाभ्यामित्यर्थः । वन्द्याभ्यां स्तुत्याभ्याम् । रमादिभिरिति शेषः । यस्याः पूतनाया अङ्गं समाक्रम्य सम्यक् प्रसादपूर्वम् आक्रम्य आश्लिष्य । यस्याः स्तनं स्तन्यम् अपिबत् । अतः शापवशाद्यातुधान्यपि । अत्र यातुधानीत्वं यातुधानीशरीरप्रवेशमात्रं न तु तत्स्वरूपत्वम् । ‘सा तुम्बुरोः सङ्गत आविवेश रक्षस्तनुं शापतो वित्तपस्य’ इति निर्णयोक्तेः । जनन्या गम्यत इति जननीगतिस्ताम् अवापेति सम्बन्धः । जिघांसयेत्युक्तिस्तु भगवते भक्तप्रियत्वस्तुत्यर्थमेवेति ज्ञेयम् । तथा चोक्तं गीताभाष्ये । ‘द्वेषाच्चैद्यादयो नृपाः’ इत्यादिकं तु भगवतो भक्तप्रियत्वज्ञापनार्थं नित्यध्यानस्तुत्यर्थं चेति ॥ ३८ ॥

विरोधोद्धारः

पद्भ्यामिति । उर्वश्याः पूतनासंसृष्टत्वं कैमुत्यसिद्ध्यर्थमुक्तं स्पष्टयति ॥ पद्भ्यामिति द्वाभ्याम् ॥ अङ्गं पूतनाशरीरं समाक्रम्य । स्थिताया इति शेषः ॥ यस्या उर्वश्याः । स्तनं भगवानपिबत् ॥ ३८ ॥

यातुधान्यपि सा स्वर्गमवाप जननीगतिम् ।

कृष्णभुक्तस्तनक्षीराः किमु गावो नु मातरः ॥ ३९ ॥

पदरत्नावली

सा उर्वशी यातुधान्यपि निशाचरीशरीरस्थापि कृष्णाय स्तन्यदानेन जननीनां गतिं स्वर्गं सुरलोकमवाप । अपीत्यस्य तन्त्रेणान्वयः । यातुधानी यातूनि रक्षांसि दधाति पुष्णातीति तादृशी साऽपि पूतनाऽपि कृष्णाय विषदानेन जनन्या इगतिं विचित्रगतिं, स्वयोग्यतानुसारिगति-मित्यर्थः । ‘इर्विचित्रे स्मरे पुमान्’ इति यादवः । अपि स्वर्गं गर्हितं लोकं, घोरनरकमित्यर्थः । ‘अपिः पदार्थसम्भावनाऽन्ववसर्गगर्हासमुच्चयेषु’ इति पाणिनिः । ‘गर्हासमुच्चयप्रश्नशङ्कासम्भावनास्वपि’ इत्यमरः । नु सविकल्पां गतिम्, योग्यतयेति शेषः । यद्वा अनु योग्यतासदृशीम् । ‘नु पृच्छायां विकल्पे च पश्चात्सादृश्ययोरनु’ इत्यमरः । कृष्णभुक्तस्तनक्षीरा गावो मातरश्च मुक्तिमवाप्स्यन्तीति किमु ॥ ३९ ॥

सत्यधर्मीया

यातुधान्यप्यस्वर्गं नरकमवाप । हे अप पालकान्तरशून्य मामवेति या स्तनमदात्साऽपि जननीनां या गतिस्तां स्वयोग्यतानुसारिसुगतिमवाप सा स्वर्गं तद्रूपां गतिमवाप । यः कृष्णोऽपजनन्यपजनना जननरहिता मुक्तास्ते सन्ति सेवकतयाऽस्य सोऽपजननी भगवानिति पूर्वत्रान्वयः । अप(जननेन)जनिना युक्ता च सा इ अद्भुता च सा गतिस्तामिति वा । इ विचित्रे पुमानिति यादवः । नु एवमधिकारिवैकल्यानुसारे गतिवैकल्यद्योतने । अनु स्वयोग्यतामनुसृत्येति वा । नु पृच्छायां विकल्पे च पश्चात्सादृश्ययोरनु इत्यमरः । नु प्रश्ने च विकल्पार्थे । अनु हीने सहार्थे च पश्चात्सादृश्ययोरन्विति विश्वः । हीनां गतिमिति वा । कृष्णभुक्तस्तनक्षीरा इत्युभयत्रान्वयि । गावो मातरश्च वसुदेवयुवतीनां बहुत्वाद्बहुवचनम् । राजगेहे उपमातॄणां स्तनदानां सतीनां बहुत्वं सम्प्रदायसिद्धमिति बहुवचनं वा । सद्गतिमाप्स्यन्तीति किमु ॥ ३९ ॥

सुमनोरञ्जिनी

यदा इदानीमसुरशरीरप्रवेशवशाद्द्विषन्त्या अपि उर्वश्या भक्तवत्सलो भगवान् तद्द्वेषमगणय्य पूर्वतनभक्तिमेवोपाददानः सद्गतिं ददौ तदा किमु वक्तव्यं स्नेहेन पयांसि पाययन्तीनां दास्यतीत्याह ॥ कृष्णेति ॥ कृष्णेन भुक्तं स्तनक्षीरं यासां ता गावः जननीगतिमापुरिति किमु वक्तव्यम् । तथा अनुमातरोऽपि मातृसपत्न्योऽपि सद्गतिमापुरिति किं वक्तव्यम् ॥ ३९ ॥

विरोधोद्धारः

यातुधान्यपीति ॥ सा ॥ यातुधानी । यातु पूतनाख्यं रक्षस् तस्मिन्धीयत इति यातुधानी पूतनाविष्टाऽप्यूर्वशीत्यर्थः । जनन्या यशोदाया गतिर्यत्र तं स्वर्गमवाप । कृष्ण-भुक्तस्तनक्षीरा अत एव । अनुमातरो हितापेक्षया मातृसमाना गावो जननीगतिमवापुरिति किमु वक्तव्यमित्यर्थः ॥ ३९ ॥

॥ इति श्रीमद्भागवतदशमस्कन्धपूर्वार्धव्याख्याने पाङ्घरी श्रीनिवासाचार्यकृते

विरोधोद्धारे सप्तमोऽध्यायः ॥ १०-७ ॥

पयांसि यासामपिबत् पुत्रस्नेहस्रुतान्यलम् ।

भगवान् देवकीपुत्रः कैवल्याद्यखिलार्थदः ॥ ४० ॥

सत्यधर्मीया

यासां पयांसि । पुत्रस्नेहो नरकादित्रातेति प्रेम । तेन स्रुतानि । भगवान्देवकी-पुत्रः । उक्तार्थं सुततौपचारिकीति द्योतयितुम् ॥ ४० ॥

सुमनोरञ्जिनी

कुतः । कैवल्याद्यखिलार्थदो भगवान् । पुत्र इति स्नेहेन । स्नेह इव स्नेहेन वा स्रुतानि यासां ताः । अनुमातॄणां गवां च पयांसि । अलं प्रीतिपूर्वकम् । तदीयस्नेहेन प्रसन्नः सन्निति यावत् । अपिबत् । अत इत्यर्थः ॥ ४० ॥

तासामविरतं कृष्णे कुर्वन्तीनां सुते क्षणम् ।

न पुनः कल्पते राजन् संसारोऽज्ञानसम्भवः ॥ ४१ ॥

पदरत्नावली

सुतेक्षणं पुत्रदर्शनम् । अज्ञानसम्भवस् तन्निमित्तकः ॥ ४१ ॥

सत्यधर्मीया

सुते कृष्णे तद्रूपे साक्षाद्धरौ । अविरतं क्षणं तद्विषयं नित्योत्सवं कुर्वन्तीनामज्ञानसम्भवस्तद्धेतुकः संसारः पुनर्न कल्पते । स्फुट इतरोऽर्थ इतरस्मात् ॥ ४१ ॥

सुमनोरञ्जिनी

सद्गतिं, जननीगतिमित्यादिना किं स्वर्गो विवक्षित उतापवर्ग इत्याशङ्कामपाकुर्वन्नाह ॥ तासामिति ॥ सुत इतीक्षणं सुतेक्षणम् । अनेन श्रीकृष्णे स्नेहो लक्ष्यते । पुनः पुनर्जननमरणादिलक्षणः । स चाज्ञानसंभवो ऽज्ञानेऽज्ञानदशायामेव संभवो यस्य सः न कल्पते न क्लृप्तो भवति ॥ ४१ ॥

कटधूमस्य सौरभ्यमवघ्राय व्रजौकसः ।

किमिदं कुत एवेति वदन्तो व्रजमाययुः ॥ ४२ ॥

पदरत्नावली

कटधूमस्य शवधूमस्य । अन्ये व्रजौकसः ॥ ४२ ॥

सत्यधर्मीया

कटधूमस्य शवधूमस्य । व्रजौकसो मधुरां गताः ॥ ४२ ॥

सुमनोरञ्जिनी

व्रजौकसो गोपाः । कटधूमस्य शवधूमस्य । सौरभ्यं कृष्णस्पर्शनिमित्तम् ऊर्वशीसम्बन्धजं वा ॥ ४२ ॥

ते तत्र वर्णितं गोपैः पूतनागमनादिकम् ।

श्रुत्वा तन्निधनं स्वस्ति शिशोरासन् सुविस्मिताः ॥ ४३ ॥

पदरत्नावली

शिशोः स्वस्ति च श्रुत्वा ॥ ४३ ॥

सत्यधर्मीया

तन्निधनं पूतनावधं स्वस्ति च श्रुत्वा ॥ ४३ ॥

सुमनोरञ्जिनी

आदिपदेन तस्यास्तेजसा सर्वेषां मौढ्यं स्तन्यदानादिकं बोध्यम् । तस्याः पूतनाया निधनं शिशोः स्वस्ति च श्रुत्वेति सम्बन्धः ॥ ४३ ॥

नन्दः स्वपुत्रमादाय प्रोष्यागत उदारधीः ।

मूध््नर्युपाघ्राय परमां मुदं लेभे कुरूद्वह ॥ ४४ ॥

पदरत्नावली

प्रोष्य प्रवासं कृत्वा ॥ ४४ ॥

सत्यधर्मीया

प्रोष्य प्रवासं कृत्वा ॥ ४४ ॥

सुमनोरञ्जिनी

प्रोष्य प्रवासं कृत्वा । आगतो नन्दः । श्रीकृष्णे उदार उत्कृष्टः धीर्यस्यासौ तथोक्तः सन् परमां मुदं सन्तोषम् ॥ ४४ ॥

य एतत् पूतनामोक्षं कृष्णस्यार्भकचेष्टितम् ।

निशम्य श्रद्धया मर्त्यो गोविन्दे लभते रतिम् ॥ ४५ ॥

॥ इति श्रीमद्भागवते दशमस्कन्धपूर्वार्धे सप्तमोऽध्यायः ॥

पदरत्नावली

फलमाह य इति । पूतनाया एकत्र मोक्षो नाशोऽन्यत्र मोक्षः सद्गतिश्च येन तत् ॥ ४५ ॥

॥ इति श्रीमन्महेन्द्रतीर्थपूज्यपादशिष्यविजयध्वजतीर्थभिक्षुकृतायां पदरत्नावल्यभिधायां श्रीमद्भागवतटीकायां दशमस्कन्धपूर्वार्धे सप्तमोऽध्यायः ॥

दुर्घटभावदीपिका

कृष्णस्यार्भकचेष्टितमित्यस्यार्भकस्य कृष्णस्य चेष्टितमित्यर्थः । तेनार्भकस्येति वक्तव्यमिति दूषणस्यानवकाशः । अर्भकस्येति षष्ठ्याः सुपां सुलुगित्यनेन लुगित्यङ्गीकारात्

॥ ४५ ॥

॥ इति श्रीभागवतटिप्पण्यां सत्याभिनवयतिकृतायां

दुर्घटभावदीपिकायां दशमस्कन्धपूर्वार्धे सप्तमोऽध्यायः ॥ १०-७ ॥

सत्यधर्मीया

पूतनाया एकत्र मोक्षो नाशो यस्मिन्नन्यस्मिंश्च मोक्षः सुगतिश्च येन तदेतत्कृष्णस्यार्भकचेष्टितं जयाङ्कुररूपं प्राथमिकं चेष्टितमिति यावत् । गोदातरङ्गालिमरुत्कुमारा इति विद्याधीशविजयोक्तेरिवार्भकेति चेष्टितविशेषणतामेति । श्रद्धया निशम्य स्थितो मर्त्यो गोविन्दे रतिं लभते ॥ ४५ ॥

॥ इति श्रीभागवतटिप्पण्यां सत्यधर्मयतिकृतायां

दशमस्कन्धपूर्वार्धे सप्तमोऽध्यायः ॥ १०-७ ॥

सुमनोरञ्जिनी

फलमाह ॥ य इति ॥ कृष्णस्य । अर्भकचेष्टितं बालक्रीडां निशम्य श्रुत्वा आस्त इति शेषः । सः गोविन्दे रतिं भक्तिम् ॥ ४५ ॥

**॥ इति श्रीमद्भागवतदशमस्कन्धपूर्वार्धव्याख्यायां **

(गूढकर्तृकायां) सुमनोरञ्जिन्यां सप्तमोऽध्यायः ॥ १०-७ ॥