नन्दस्त्वात्मज उत्पन्ने जाताह्लादो महामनाः
॥ अथ षष्ठोऽध्यायः ॥
श्रीशुक उवाच–
नन्दस्त्वात्मज उत्पन्ने जाताह्लादो महामनाः ।
आहूय विप्रान् वेदज्ञान् स्नातः शुचिरलङ्कृतः ॥ १ ॥
पदरत्नावली
बालकं भगवन्तं यशोदाशयने विन्यस्य, कन्यामादाय यथापूर्वं कंसस्य कारागारमागत्य वसुदेवे वसति सति, गोपव्रजे का कथा प्रवृत्तेत्यतस्तां कथयत्यस्मिन्नध्याये । तत्रादौ भगवदवतारेण परमानन्दतुन्दिलनन्दगोपस्य जातकर्मादिप्रवर्तनमाह श्रीशुकः नन्दस्त्विति ॥ जाताह्लादः प्रादुर्भूतानन्दः ॥ १ ॥
सत्यधर्मीया
कन्यामादाय विन्यस्य दायादं यथापूर्वमागत्य वसुदेव उदवसिते वसति सति व्रजे गोपव्रजे कथा का प्रवृत्तेत्यतस्तां कथयत्यस्मिन्नध्याये । तत्रादौ नन्दस्यानन्दतुन्दिलतया जातपोतजातकर्मादिप्रवर्तनं कथयति श्रीशुकः । तुशब्द आन्तरङ्गिकसर्वविशेषसूचकः । जात आल्हादो यस्य सः । महामना महन्मनो यस्य स मनस्वी । वेदज्ञान् वेदज्ञानिनो न प्रथामात्रेण तदाकरणं किन्तु यान्स्वयं ज्ञान् जानातीति ज्ञास्तान्वेद तान्विप्रानाहूयेति वा । अलङ्कृतस्तथा च याज्ञिकाः स्वयमलङ्कृत्येति वदन्ति ॥ १ ॥
सुमनोरञ्जिनी
नन्दो नन्दगोपः । आत्मजे आत्मनि स्वस्मिन् जायते प्रादुर्भवति इति आत्मजे श्रीहरौ । उत्पन्ने उत्पन्न इति ज्ञाते सति । जाताह्लादो जातसन्तोषः । स्वस्त्ययनं माङ्गल्यवचनं वाचयित्वा विप्रैरिति विभक्तिव्यत्ययेनानुवर्तते । तथा पितृदेवार्चनं वृद्धिश्राद्धादिना कारयामास । पुरोधसेति शेषः ॥ १ ॥
वाचयित्वा स्वस्त्ययनं जातकर्मात्मजस्य वै ।
कारयामास विधिना पितृदेवार्चनं तथा ॥ २ ॥
पदरत्नावली
स्वस्त्ययनं माङ्गल्यवचनम् । पितृदेवगन्धर्वाद्यर्चनं कारयामास ॥ २ ॥
सत्यधर्मीया
स्वस्त्ययनं पुण्याहवाचनं ॐ पुण्याहं ॐ पुण्याहमिति वदन्ति तद्वाचयित्वा । तथा पितृदेवार्चनं पित्रोर्मातृदेवो भव पितृदेवो भवेत्यादिनाऽर्यमादिवृद्धपितृपितामहादीनां देवाद्यर्चनं विधिना कारयामास जातकर्म च कारयामास । वैशब्दोऽनन्तनामाऽप्यनन्तोऽनुनयेन स्वीचकार कारुणिक इति द्योतकः । वै अनुनयेऽपि चेति विश्वः ॥ २ ॥
धेनूनां नियुते प्रादाद् विप्रेभ्यः समलङ्कृते ।
तिलाद्रीन् सप्त रत्नौघान् शातकुम्भान्तरावृतान् ॥ ३ ॥
पदरत्नावली
शातकुम्भान्तरावृतान् गर्भीकृतशातकुम्भान् ॥ ३ ॥
सत्यधर्मीया
नियुते द्वे लक्षे । समलङ्कृते सुन्दरपादसुवर्णशृृङ्गरूप्यखुरेत्याद्युक्तालङ्कारसहिते । समलङ्कृत इति पाठस्तु न सरलः । अनुपदं शुचिरलङ्कृत इत्युक्तेः । तथाऽपि वित्तवितरणे तस्य शक्ततां सम्यगलं पूर्णत्वेन कृत इति वा सम्यगलं फलपर्यवसायि कृतं कर्म यस्य स इति वा बोधयति तदिति ज्ञेयम् । अन्तरा मध्ये शातकुम्भानां सुवर्णराशीनां स्थापितानामावृतमावरणं स्वैर्येषां तान्सप्त तिलाद्रींस्तिलपर्वतान् पर्वताकारेण स्थापितांस्तिलानित्यर्थः । रत्नौघांस्तत्सङ्घान्विप्रेभ्यः प्रादात्
॥ ३ ॥
सुमनोरञ्जिनी
धेनूनां गवां नियुते द्वे लक्षे । पङ्क्तेः शतसहस्रादिक्रमाद्दशगुणोत्तरमित्यमरः । नियुतशब्दो विंशत्सहस्रपर इत्यपि वदन्ति । सप्त तिलाद्रीन् । कथंभूतान् । रत्नौघान् रत्नानाम् ओघः समूहो येषु तान् । शातकुंम्भान्तरावृतान् अन्तर्गर्भितसुवर्णान् । शातकुम्भं सुवर्णे स्यादिति विश्वः ॥ ३ ॥
कालेन स्नानशौचाभ्यां संस्कारैस्तपसेज्यया ।
शुद्ध्यन्ति दानैः सन्तुष्ट्या द्रव्याण्यात्माऽऽत्मविद्यया ॥ ४ ॥
पदरत्नावली
संतुष्ट्या दानेन द्रव्याणि शुद्ध्यन्तीति दृष्टान्तेनाह ॥ कालेनेति ॥ कालेन भूम्यादिकं, स्नानशौचाभ्यां देहादिकं, संस्कारैर्गर्भादिकं, तपसा इन्द्रियादिकम्, इज्यया ब्राह्मणादिकं यथा शुद्ध्यन्ति, तथा प्रतिग्रहीतृविप्रादेर् दातुश्च संतुष्ट्या दानैर्गवादिद्रव्याणि शुद्ध्यन्ति ॥ ४ ॥
दुर्घटभावदीपिका
कालेन द्रव्याणि भूम्यादिद्रव्याणि शुद्ध्यन्ति । स्नानशौचाभ्यां द्रव्याणि देहादिद्रव्याणि शुद्ध्यन्ति । संस्कारैर्द्रव्याणि गर्भादिद्रव्याणि शुद्ध्यन्ति । तपसा द्रव्याणीन्द्रियाणि शुद्ध्यन्ति । भगवत्ज्ञानानुकूल्यानि भवन्ति । इज्यया द्रव्याणि ब्राह्मणादिद्रव्याणि शुद्ध्यन्ति । ब्राह्मणादिनिष्ठब्राह्मण्यादिकं स्थिरं भवतीति यावत् । सन्तुष्ट्या दानेन द्रव्याणि गवादिद्रव्याणि शुद्ध्यन्ति । अभिवृद्धानि भवन्ति । आत्मविद्यया परमात्मविद्ययाऽऽत्मा जीवः शुद्ध्यति मुक्तो भवतीति विचार्य नियुतगवादिकं प्रादादिति । एतेन कालेनेति पद्यं पूर्वोत्तरपद्याभ्यामनन्वितमिति दूषणं निरस्तम् । आत्मविद्ययेत्यतःपरमिति विचार्येति विशेषणमङ्गीकृत्य गवादिकं प्रादादिति पूर्वेणान्वय इत्यभ्युपगमात् । अत्र कालेनेत्यादि दृष्टान्तार्थम् । एतेन नियुतगवादिकं कथं प्रादादित्या-शङ्कापरिहारोपयोगित्वात्सन्तुष्ट्या दानैर्द्रव्याणि शुद्ध्यन्तीत्येव वक्तव्यं न तु कालेन द्रव्याणि शुद्ध्यन्तीत्यादि इति चोद्यं परिहृतम् । कालादिना यथा द्रव्याणि शुद्ध्यन्ति तथा सन्तुष्ट्या दानैर्द्रव्याणि शुद्ध्यन्तीति दृष्टान्तं वक्तुं कालेनेत्यादिकं प्रवृत्तमित्यूरीकरणात् ॥ ४ ॥
सत्यधर्मीया
स्नातः शुचिरित्यादिप्रसङ्गसङ्गत्येयतां वस्तूनामियता साधनेन शुद्धिरित्याह ॥ कालेनेति ॥ कालेन भूम्यादिकं, देहादि स्नानेनास्पृश्याङ्गस्पर्शादिशौचेन । गर्भादिकं संस्कारैस्तपसेन्द्रियादि, इज्यया यागेन ब्राह्मणादि, दानैर्द्रव्याणि । बहुवचनेन शुद्ध्यर्था अत्रोक्ता द्रव्यपदेनापि ग्राह्या इति सूचयति । सन्तुष्ट्या प्रतिग्रहीतृविप्रादिसन्तोषेणापि द्रव्यस्य शुद्धिर्ज्ञेयेति ज्ञेयम् । दातुरपि सन्तुष्ट्यर्थः । विना तोषं वितरणे न फलमिति भावः । आत्मा मन आत्मविद्यया भगवदवगमेनेति द्रव्याणि शुद्ध्यन्तीत्यकृत विवरणं नन्द इति भावः । आत्मविद्ययेत्युपसंहारेण तन्मुख्यतायां सत्यां तस्यां मुक्ता साधने सत्यसति च शुद्धिकाऽभिपै्रतीति च ज्ञेयम् ॥ ४ ॥
सुमनोरञ्जिनी
कानिचिद् द्रव्याणि कालेन शुद्ध्यन्ति । यथा तुलस्यादीनि । कानिचित् स्नानशौचाभ्याम् । यथा शरीरादिकम् । कानिचित्संस्कारैः । यथा कांस्यादि । अथवा जातकर्मादि-संस्कारैर् गर्भः । कानिचित् तपसा । इज्यया पूजया । यथा अर्च्यादि । दानैर्वित्तम् । सन्तुष्ट्या मनः । आत्मा जीवः । आत्मविद्यया । अतो दानादिकं युक्तमेवेति भावः । अयं श्लोकः क्वचित् पुस्तकेषु न दृश्यते ॥ ४ ॥
विरोधोद्धारः
कालेनेति । अत्र द्रव्याणीत्यनेनैवात्मलाभे पुनः पार्थक्येनात्मग्रहणमयुक्तमित्यत उच्यते । चेतनोऽचेतनश्चेति भावोऽपि द्विविधो मत इति द्रव्यवैविध्यविवक्षया पृथगात्मग्रहणेऽपि नायुक्तता । तथा च क्षित्यप्तेजोमरुद्व्योमकालदिग्देहिनो मन इति कारिकोक्तनवद्रव्याणामित्थं शुद्धिः । शूद्रान्नं त्रिदिनैः शुद्ध्येदित्यादिना कालेन पार्थिवभागस्य शुद्ध्या क्षितिः, सतां स्नानेनापो ‘हरन्त्यघं तेऽङ्गसङ्गात्तेष्वास्ते ह्यघभिद्धरि’रिति गङ्गां प्रति भगीरथोक्तेः । शौचेन तापादिना संपादितशुद्ध्या तेजोंऽशभूतं सुवर्णादि । तापादिना हेम मलं जहातीत्युक्तेः । संस्कारैः रेचनपूरणकुम्भकाद्यैर्मरुत् प्राणरूपो वायुः । प्राणान्संशोध्य यत्नेन पूरककुम्भकरेचकैरित्युक्तेः । तपसा, तप आलोचन इति धातोः । ध्यानरूपालोचनेन व्योम हृदयाकाशः । हृदि स्वे ध्याननिष्ठयेत्युक्तेः । इज्यया, यजपूजादाविति धातोः । पूजादिनाऽशौचसंपादकोपरागादिकालः । दानैः, दो अवखण्डन इति धातोः । सामन्तिकाहितखण्डनैरित्यर्थः । दिशः प्राच्यादयः । सन्तुष्ट्या, कामादिभिरनाविद्धं प्रशान्ताखिलवृत्ति यत् । चित्तं ब्रह्मसुखस्पृष्टं नैवोत्तिष्ठेत कर्हिचिदिति वचनेन कामाद्यनुप-हतप्रशान्ताखिलवृत्तित्वेन ब्रह्मदर्शनसुखेनेत्यर्थः । मनो मानसम् । ननु पूर्वमात्मशुद्धिसाधनमुक्त्वा व्यवहितमनःशुद्धिसाधनमुक्तम् । अतो व्यत्ययः कथम् । अत्रोच्यते । अचेतनजातिमद्द्रव्याणां मध्ये एकस्यैव चेतनत्वेन द्विजातीयस्यात्मनो ग्रहणेऽस्वारस्यं मत्वा मनोनन्तरमेवात्मग्रहणं युक्तमिति प्रदर्शनार्थमादौ मनःशुद्धिसाधनोक्तिरिति ज्ञेयम् । अध्यात्मविद्यानामिति विभूतिकथनेन सर्वोत्तमात्म-ज्ञानार्थकात्मविद्याया आत्मा जीव एतानि द्रव्याण्येते शुध्यन्तीत्यन्वयः । एतैः, कैरित्याशङ्कायां कालेनेत्यादि विविच्य दर्शितम् ॥ ४ ॥
सौमङ्गल्यगिरो विप्राः सूतमागधबन्दिनः ।
गायकाश्च जगुर्नेदुर्भेर्यो दुन्दुभयो मुहुः ॥ ५ ॥
पदरत्नावली
स्वकृतस्तुतिपाठकाः सूताः । परकृतस्तुतिजीविनो मागधाः । प्रबन्धस्तुति-पाठका बन्दिनः ॥ ५ ॥
सत्यधर्मीया
सौमङ्गल्याः सुमङ्गलताविषयिण्यो गिरो येषां ते तथा । शुभमस्त्वि-त्यादिवादिनः । सूताः स्वयं प्रबन्धं बद्ध्वा वक्तारः । मागधा अन्यकृतपाठकाः । बन्दिनः कृतकर्म-निरूपकाः । गायका गतम् । भेर्यो वादयितृसङ्केततो मन्द्रं ध्वनत्स्त्रीदुन्दुभयः पुंभेर्यः पृथुध्वनिमन्तोऽत एव नेदुरित्येकक्रियान्वयः । दुन्दुभिर्दितिजे भेर्यामक्षबिन्दुत्रिकद्वय इति विश्वः । दुन्दुभिः पुमानित्यमरः । दुन्दुभिरक्षेष्विति लिङ्गानुशासनम् । अक्षेषु किम् । अयं दुन्दुभिर्वाद्यविशेष इति तट्टीकोक्तेश्च । भेर्यो मानुष्यो दुन्दुभयो नाभसा इति वा । मुहुः पुनः पुनः ॥ ५ ॥
सुमनोरञ्जिनी
चन्द्रोदयेन समुद्र इव भगवदवतारेण जातसंभ्रमाणां सज्जनानां प्रवृत्तिमाह ॥ सौमाङ्गल्येति ॥ सूताः स्वकृतस्तुतिपाठकाः । परकृतस्तुतिजीविनो मागधाः । प्रबन्धस्तुति-पाठका बन्दिनः । एते सौमाङ्गल्याः सुमङ्गलकरा गिरो येषां ते तथाविधा अभवन् ॥ ५ ॥
प्रजाः सम्मृष्टसंसिक्तद्वाराजिरगृहान्तराः ।
चित्रध्वजपताकास्रक्चैलपल्लवतोरणाः ॥ ६ ॥
पदरत्नावली
द्वारं च अजिरमङ्गणं च गृहान्तरं च द्वाराजिरगृहान्तराणि, सम्मृष्टानि संशोधितानि संसिक्तानि चन्दनजलादिना प्रोक्षितानि द्वाराजिरगृहान्तराणि याभिस्तास्तथा । चित्रध्वजपताकया स्रक्चैलपल्लवैश्च युतानि तोरणानि याभिस्तास्तथा ॥ ६ ॥
सत्यधर्मीया
सम्मृष्टानि शोधितानि, प्राक् संसिक्तानि मलयजजलादिना प्रोक्षितानि द्वाराण्यजिराण्यङ्गणानि गृहान्तराणि याभिस्ताः प्रजाः । चित्रा ध्वजा एकजिह्वाः पताका द्विजिह्वा विपर्ययो वा, ताः स्रजस्तत्र तत्र याभिस्ताश्च ताश्चैलपल्लवैर्युतानि तोरणानि बहिर्द्वाराणि याभिस्ताश्च, ताश्च वासःखण्डकिसलयमण्डिततोरणा इत्यर्थः । व्रजः सम्मृष्टसंसिक्तद्वाराजिरगृहान्तरः, चैलपल्लवतोरण इति पठन्ति । अजिरशिशिरेति निपातितः शब्दः ॥ ६ ॥
सुमनोरञ्जिनी
प्रजाश्च संमृष्टानि शोधितानि संसिक्तानि चन्दनोदकादिना प्रोक्षितानि द्वाराणि, अजिराणि अङ्गणानि गृहान्तराणि गृहमध्यानि यासां ताः । चित्रा नानावर्णा ध्वजपताका यासां ताः स्रजः, चैलपल्लवा येषु ते तादृशास् तोरणा बहिर्द्वारो यासां ताः ॥ ६ ॥
गावो वृषाश्च वत्साश्च हरिद्रातैलरूषिताः ।
विचित्रधातुबर्हस्रग्वस्त्रकाञ्चनमालिनः ॥ ७ ॥
पदरत्नावली
विचित्रधातवो गैरिकाद्याः, बर्हस्रजः पिच्छमालाः, वस्त्राणि, काञ्चनमालाश्च एषां सन्तीति ॥ ७ ॥
सत्यधर्मीया
हरिद्रामिश्रतैलरूषिताः । विचित्रधातवो गैरिकाद्यास्तैश्चर्चिता बर्हाणां पिच्छानां स्रजो येषां ते च वस्त्राणि च काञ्चनमाला येषां सन्तीति पुंशेषः ॥ ७ ॥
सुमनोरञ्जिनी
हरिद्रातैलाभ्यां रूषिता लिप्ताः । विचित्रधातवो गैरिकाद्या बर्हस्रजश्च मयूरपिच्छमालाः, वस्त्राणि, काञ्चनमालाश्च येषां सन्तीति तथाविधा आसन्नित्यर्थः ॥ ७ ॥
महार्हवस्त्राभरणकञ्चुकोष्णीषभूषणाः ।
गोपाः समाययू राजन् नानोपायनपाणयः ॥ ८ ॥
पदरत्नावली
महदर्हं मूलं येषां तानि वस्त्राणि आभरणानि कञ्चुकानि कवचानि उष्णीषाणि शिरोवेष्टनवस्त्राणि भूषणानि येषां ते तथा ॥ ८ ॥
सत्यधर्मीया
महदर्हं मूल्यं येषां तानि च तानि वस्त्राण्याभरणानि कञ्चुकाः कवचानि च । कञ्चुको वारबाणे स्यान्निर्मोके कवचेऽपि चेति विश्वः । उष्णीषाणि शिरोवेष्टनानि किरीटानि वा । उष्णीषं तु शिरोवेष्टे किरीटे लक्षणान्तर इति विश्वः । तैर्भूषिता गोपाः । नानोपायनानि मङ्गलसमये राजपुरतः स्थापनीयानि पाणिषु येषां ते सन्तः समाययुः । राजन् हे परीक्षिद् राजन्ति प्रकाशमानानि नानोपायनानि पाणिषु येषामिति वा ॥ ८ ॥
सुमनोरञ्जिनी
महतां र्औः योग्यैर् वस्त्राभरणकंचुकैर् उष्णीषैः शिरोवेष्टनवस्त्रैश्च भूषिताः । नानोपायनानि राज्ञे निवेदनद्रव्याणि पाणिषु येषां ते तथाविधाः सन्तः गोपाः समाययुः ॥ ८ ॥
गोप्यश्चाकर्ण्य मुदिता यशोदायाः सुतोद्भवम् ।
आत्मानं भूषयाञ्चक्रुर्वस्त्राकल्पाञ्जनादिभिः ॥ ९ ॥
पदरत्नावली
आकल्पम् आभरणम् ॥ ९ ॥
सत्यधर्मीया
यशोदायाः सुतोद्भवं पुत्रोत्पत्तिमाकर्ण्य श्रुत्वा मुदिता गोप्य आत्मानं वस्त्राण्याकल्पा भूषणान्यञ्जनानि कज्जलानि चादयो येषां तैर्हारादिभिश्च भूषयाञ्चक्रुरिति द्वे पदे । अभूषयन् । आकल्पो भूषण इति विश्वः ॥ ९ ॥
सुमनोरञ्जिनी
आत्मानं स्वदेहम् । आकल्पानि आभरणानि, अञ्जनानि नेत्रांजनानि तैः
॥ ९ ॥
नवकुङ्कुमकिञ्जल्कमुखपङ्कजभूतयः ।
बलिभिस्त्वरितं जग्मुः पृथुश्रोण्यश्चलत्कुचाः ॥ १० ॥
पदरत्नावली
नवकुङ्कुमकिञ्जल्कानि अभिनवकुङ्कुमकुसुमकेसराणि च तानि मुखपङ्कजानि च, तेषां भूतयः श्रियो यासां तास्तथा । बलिभिर्युताः । पृथुश्रोण्यः विशालकटितटाः ॥ १० ॥
सत्यधर्मीया
नवानि कुङ्कुमान्येव । कुक आदानेऽस्मात्कुक्यते कामिनीभिरिति कुम आच्छीनद्योरिति योगविभागान्नुमि रूपम् । अथ कुङ्कुममित्यमरः । काश्मीरजन्मेत्यादिः । स एव किञ्जल्काः केसराणि येषु तानि च तानि मुखपङ्कजानि तेषां भूतयः शोभा यासां ताः । पृथवः श्रोण्यो नितम्बबिम्बा यासां ताश्च । चलन्तः कुचा यासां ताः ॥ १० ॥
सुमनोरञ्जिनी
नवानि नूतनानि यानि कुङ्कुमकिञ्जल्कानीव कुङ्कुमकुसुमकेसराणीव मुखपंकजेषु भूतिः श्रीर्यासां ताः । बलिभिः सूतिकागृहं प्रति नीयमानवायनैर् युताः । पृथुश्रोण्यः विशाल-कटिपश्चाद्भागवत्यः । चलत्कुचाः सत्यस् त्वरितं जग्मुः ॥ १० ॥
**गोप्यः सुमृष्टमणिकुण्डलनिष्ककण्ठ्यः **
चित्राम्बराः पथि शिखाच्युतमाल्यवर्षाः ।
नन्दालयं सवलया व्रजतीर्विरेजुः
व्यालोलकुण्डलपयोधरहारशोभाः ॥ ११ ॥
पदरत्नावली
पथि मार्गे शिखाभ्यश्च्युतानि माल्यानि तेषां वर्षं वृष्टिर्यासां ताः । व्रजतीर्व्रजन्त्यः । लोलत्वं कुण्डलादीनां गमनविशेषेण । सवलयाः कङ्कणहस्ताः ॥ ११ ॥
सत्यधर्मीया
सुमृष्टत्वं कुण्डलेषु निष्केष्वपि ज्ञेयमिव मण्यात्मकता च द्वयोर्ज्ञेया । सुमृष्टानि मणिमयानि कुण्डलानि मणिमयानि निष्काणि कण्ठाभरणानि च कण्ठेषु यासां ताः । कुण्डलं वलये पाशे कुण्डलं कर्णभूषणे । निष्कं दीनारकर्षयोर्वक्षोऽलङ्करण इति विश्वौ । चित्राण्यम्बराणि यासां ताः । पथि तीव्रव्रजनसमये मार्गे । शिखाभ्यश्च्युतानि माल्यानि माल्या वा । माल्यं मालाप्रसूनयोरिति विश्वः । तेषां वर्षं यासां ताः । यूषकरीषविषमिश्रवर्षाणि नपुंसके चेति लिङ्गानुशासनात् । वृष्टिर्वर्षमित्यमरः । सवलयाः कङ्कणहस्ताः । व्रजतीर्व्रजन्त्यः । कुण्डलवत्कनकगिरिवद्विद्यमानौ च तौ पयोधरौ स्तनौ च तयोर्हारास्तदुपरि परिपतन्मुक्तामालाः । व्यालोलाश्च ते कुण्डलपयोधरहाराश्च तैः शोभा यासां ताः । कुण्डलं कर्णभूषणे गुडूच्यां काञ्चनाद्रौ चेति विश्वः । पूर्वं मणिः कुण्डलेति तद्ग्रहणेऽपि लोलतया पृथगुक्तिरिति केचित् । वर्तुलतया कुण्डलौपम्यमिति चापरे ॥ ११ ॥
सुमनोरञ्जिनी
सु सम्यक् मृष्टानि उज्ज्वलानि मणिकुण्डलानि यासां ताः । निष्कं सुवर्णं कण्ठे यासां ताश्च । निष्कं हेमि्न च तत्पल इति विश्वः । चित्राण्यंबराणि यासां ताः । पथि मार्गे । शिखाभ्यश् च्युतानां माल्यानां मालागतपुष्पाणां मालानां वा वर्षाणि यासां तादृश्यो गोप्यः । नन्दालयं व्रजतीर् व्रजन्त्य विरेजुः । व्यालोलकुण्डलपयोधरहारैः शोभा यासां ताः ॥ ११ ॥
ता आशिषः प्रयुञ्जानाश्चिरं पाहीति बालके ।
हरिद्राचूर्णतैलाद्भिः सिञ्चन्त्योऽजनमुज्जगुः ॥ १२ ॥
पदरत्नावली
ता गोप्य आशिषः प्रयुञ्जानाः स्वाभिलाषान् निवेदयन्त्य इत्यर्थः । हरिद्राचूर्णतैलसहितसलिलैरजनं कृष्णं सिञ्चन्त्यः ॥ १२ ॥
सत्यधर्मीया
ता वनिता बालके आशिषः प्रयुञ्जानाः स्वाभिलाषान्विज्ञापयन्त्य इत्यर्थः । चिरं पाहीत्याशिषः प्रयुञ्जाना इति पातनिकम् । तद्वृद्ध्यै युयुजुरित्यर्थं स्वयमेव चिरं पाहीत्यनेन ग्रन्थकृत्पराचकारेति ज्ञेयम् । हरिद्राचूर्णतैलसहितोदकैः । ऋक्पूरबिति समासान्तविधेरनित्यत्वान्न- प्रत्ययः । जनं सिञ्चन्त्य उज्जगुर्गानं चक्रुः । अजनं लोकजनिरहितं बालमुज्जगुरिति वा । अजनमुदिति स्वरूपसुखमदेति जगुरिति ॥ १२ ॥
सुमनोरञ्जिनी
ताः स्त्रियः । हरे चिरम् एनं पाहीति । हे बालक चिरम् अस्मान्पाहीति वा । दीर्घायुर्भवेति यावत् । एवमाशिष आशीर्वचनानि प्रयुंजानाः । जनं हरिद्राचूर्णतैलाद्भिः सिञ्चन्त्य उज्जगुः । अजनं श्रीकृष्णम् उज्जगुरिति वा ॥ १२ ॥
विरोधोद्धारः
ता इति । अत्र चिरं पाहीत्यसङ्गतम् । कं प्रति को वक्तेत्यस्याज्ञानात् । किं च गोप्यः किमज्ञा वा सुज्ञाः । नाद्यः । भगवददर्शनप्रसङ्गात् । द्वितीये भगवद्रक्षण-विषयेऽन्यप्रार्थनायोगात् । अतोऽपि विरोधः । अत उच्यते । हे बालके इति जीवन्तिकाख्य-प्रसूतिदेवतां प्रति गोप्युक्तिः । बालाः शिशवः का ब्रह्माणः यस्यास्तादृशभगवन्नामिके देवतेत्यर्थः । अत एव जीवन्तिकेत्याख्या जीवन्ति सप्राणा भवन्ति का ब्रह्माणो ययेति विग्रहेण समानार्थकत्वात् । यद्वा । वशब्दस्य सुखार्थकत्वात् । वाः सुखरूपा अलकाः केशा यस्या इति हृषीकेशाख्यत्वाद् वस्य सुखात्मकमूलरूपस्य केशरूपे कृष्णे इति सप्तमी वा । तथा च त्वम् । इममिति शेषः । चिरं पाहीति बहुकालं रक्षेति आशिषः प्रयुञ्जानाः सत्य इत्यन्वयः । अथवा । हे बालकाख्य-भगवद्देवते । न इति शेषः । चिरं पातुश् चिरंजीवनान्यथाऽनुपपत्त्या सिद्धास्ताश्चिरंजीवनामका आशिषः प्रयुंजानाः । अपि वा । ता गोप्यः । बालके कृष्णे । चिरं पाहि चिरंजीवेति । आशिषः प्रयुंजानाः । अनेकार्था हि धातव इति भागुर्युक्तेः ॥ १२ ॥
अवाद्यन्त विचित्राणि वादित्राणि महोत्सवे ।
कृष्णे विश्वेश्वरेऽनन्ते नन्दव्रजमुपेयुषि ॥ १३ ॥
पदरत्नावली
उपेयुषि प्राप्तवति ॥ १३ ॥
सत्यधर्मीया
विश्वेश्वरे जगदधिपे । नन्दव्रजमुपेयुषि प्राप्तवति ॥ १३ ॥
सुमनोरञ्जिनी
विश्वेश्वरे । अनन्ते देशकालगुणैर् अपरिच्छिन्ने । नन्दव्रजम् उपेयुषि प्राप्तवति सति । वाद्यानि अवाद्यन्त ॥ १३ ॥
गोपाः परस्परं हृष्टा दधिक्षीरघृताम्बुभिः ।
आसिञ्चन्तो विलिम्पन्तो नवनीतैश्च चिक्षिपुः ॥ १४ ॥
पदरत्नावली
नवनीतैर्विलिम्पन्तश्च तानि परस्परं चिक्षिपुः ॥ १४ ॥
दुर्घटभावदीपिका
गोपा हृष्टाः सन्तो दधिक्षीरघृताम्बुभिः परस्परमासिञ्चन्तो दधिक्षीरघृताम्बुभि- र्नवनीतैश्च परस्परं विलिम्पन्तो नवनीतानि परस्परं विचिक्षिपुरिति । एतेन नवनीतानि चिक्षिपुरिति वक्तव्यं नवनीतैश्चिक्षिपुरिति वचनमयुक्तमिति चोद्यं निरस्तम् । नवनीतैरिति तृतीयाबहुवचनस्य नवनीतानीति द्वितीयाबहुवचनान्ततयाऽर्थवशाद्विपरिणाममङ्गीकृत्य नवनीतानि चिक्षिपुरित्यर्थस्योक्तत्वात्
॥ १४ ॥
सत्यधर्मीया
नवनीतैर्विलिम्पन्तश्च तानि परस्परं चिक्षिपुः ॥ १४ ॥
सुमनोरञ्जिनी
गोपाश्च हृष्टाः सन्तो दधिक्षीरघृतांबुभिः परस्परम् आसिञ्चन्तो नवनीतैः करणैश् चिक्षिपुः ॥ १४ ॥
नन्दो महामनास्तेभ्यो वासोलङ्कारगोधनैः ।
सूतमागधबन्दिभ्यो येऽन्ये विद्योपजीविनः ॥ १५ ॥
तैस्तैः कामैरदीनात्मा यथोचितमपूजयत् ।
विष्णोराराधनार्थाय स्वपुत्रस्योदयाय च ॥ १६ ॥
पदरत्नावली
महामना नन्दस् तेभ्यो गोपेभ्यः, सूतमागधबन्दिभ्यो येऽन्ये विद्योपजीविन-स्तेभ्यश्च वासोलङ्कारगोधनैस् तैस्तैः कामैस् तत्तदपेक्षितविषयैश्च अदीनात्मा उदारहृदयः सन् यथोचितं भवति तथा तानपूजयत् । किं फलमुद्दिश्येति तत्राह ॥ विष्णोरिति ॥ १५-१६ ॥
दुर्घटभावदीपिका
महामना नन्दस्तेभ्यो गोपेभ्यो भूतमागधबन्दिभ्यश्च वासोलङ्कारगोधनान्पदान् । अदीनात्मोत्कृष्टान्तःकरणो नन्दो येऽन्ये विद्योपजीविनस्तान्वासोऽलङ्कारगोधनैस्तैस्तैः कामैस्तत्तदपेक्षितपदार्थैश्च यथोचितं भवति तथाऽपूजयत् । एतेन तानपूजयदिति वक्तव्यम् । तेभ्योऽ-पूजयदिति कथनमनुपपन्नमिति दूषणं निरस्तम् । तेभ्य इत्यस्यापूजयदित्यनेनान्वयमनङ्गीकृत्यादादित्य-ध्याहृतेनान्वयस्योक्तत्वात् । एतेनैव वासोऽलङ्कारगोधनानीति वक्तव्यम् । वासोलङ्कारगोधनैरिति कथनमयुक्तमिति चोद्यं निरस्तम् । वासोऽलङ्कारगोधनैरिति तृतीयाबहुवचनान्तस्य वासोऽलङ्कार-गोधनानीति द्वितीयाबहुवचनान्ततयाऽर्थवशाद्विपरिणाम इत्यङ्गीकारात् ॥ १५ ॥
सत्यधर्मीया
महामनाः स्तवनीयमनस्क उदारचेताः । तेभ्यो गोपेभ्यो यथोचितं दत्वा सूतमागधबन्दिभ्यश्च दत्वा वासोलङ्कारगोधनैर्येऽन्ये विद्योपजीविनो विद्यावन्तस्तान्सर्वांस्तैस्तैः कामैः काम्यैर्विषयैरपूजयत् । तेभ्यः सूतमागधबन्दिभ्य इति पञ्चम्यौ । गोपेभ्यः सकाशाद् वासोऽलङ्कारगोधनैरुपायनत्वेनोपनीतैः । सूतमागधबन्दिभ्यो या विद्या तया च महामनाः सन् येऽन्ये च स्वोपजीविन इत्यादिजनमुचितं तत्तत्सत्कारयोग्यं तैस्तैः कामैर्यथा सम्यगपूजयत् । यथाऽदीनात्मा भवेत्तथापूजयदित्यपि योजयन्ति । शसस्तृतीयादेशः । तानि दत्वेत्यपि वर्णयन्ति । कुतोऽयमेवमपूजयज्जनं नन्द इत्यत आह ॥ विष्णोरिति ॥ आराधनरूपप्रयोजनमुद्दिश्य स्वपुत्रस्य मङ्गलाय चापूजयदित्यन्वयः । ग्रन्थकृद्धृदयं तु षष्ठ्योः सामानाधिकरण्यमाराधनाभ्युदयसमुच्चये च इति । हृदयेऽपि हृदयं सु अपुत्रस्येति मन्तव्यम् ॥ १६ ॥
सुमनोरञ्जिनी
महामना औदार्यशाली नन्दः । तेभ्यो गोपेभ्यः यथोचितं दत्वा वासोलङ्कारादिभिरपूजयत् । येऽन्ये विद्योपजीविनस् तेभ्यश्च यथोचितं दत्वा तैस्तैः कामैर् अपेक्षितवस्तुभिस् तांश्चापूजयदित्यन्वयः ॥ १५,१६ ॥
रोहिणी च महाभागा नन्दगोपाभिनन्दिता ।
व्यचरद् दिव्यवासःस्रक्कण्ठाभरणभूषिता ॥ १७ ॥
सत्यधर्मीया
रोहिणी च नन्दगोपाभिनन्दिता भ्रातृवसुदेवपत्नीत्वाव्द्यचरत्सुवासिनीसत्कारादौ
॥ १७ ॥
सुमनोरञ्जिनी
महाभागा महासौभाग्या रोहिणी । नन्दगोपेन अभिनन्दिता तोषिता ॥१७॥
तत आरभ्य नन्दस्य व्रजः सर्वसमृद्धिमान् ।
हरेर्निवासानुगुणै १रमाक्रीडमभून्नृप ॥ १८ ॥
पदरत्नावली
हरेर्निवासमनुसृत्याप्ता ये गुणास्तै रमाक्रीडं लक्ष्मीविहारस्थानम् । रमाक्रीडं यथा भवति तथेति क्रियाविशेषणं वा ॥ १८ ॥
सत्यधर्मीया
निवासमनुसृत्याप्ता ये गुणास्तैः । रमाक्रीडं लक्ष्मीविहारं यथा भवति तथा । तत आरभ्य नन्दस्य व्रजः सर्वसमृद्धिमानभूदित्यन्वयः । रमाक्रीडं स्थानमित्यप्याहुः । क्वचिद्रमाक्रीड अभून्नृपेति पाठस्तत्र शक्य अहमेवंविध इत्यादिवद्विवक्षाभावादभावः सन्धेरिति भावोऽवसेयः ॥१८॥
सुमनोरञ्जिनी
ततः श्रीकृष्णागमनमारभ्य व्रजः सर्वसमृद्धिमानभूत् । हरेर्निवासस्य अनुगुणैर् अनुकूलैर्गुणैर् निमित्तैः । रमाया आक्रीडं क्रीडास्थानं चाभूत् ॥ १८ ॥
गोपान् गोकुलरक्षायां निरूप्य मधुरां गतः ।
नन्दः कंसस्य वार्षिक्यं करं दातुं कुरूद्वह ॥ १९ ॥
पदरत्नावली
वार्षिक्यं प्रतिवत्सरं देयम् ॥ १९ ॥
सत्यधर्मीया
वार्षिक्यं ष्यञ् स्वार्थे । प्रतिवर्षं देयं वार्षिक्यम् ॥ १९ ॥
सुमनोरञ्जिनी
निरूप्य आज्ञाप्य । कंसस्य कंसाय । वार्षिक्यं प्रतिवर्षे देयं करम् ॥१९॥
वसुदेव उपश्रुत्य भ्रातरं नन्दमागतम् ।
ज्ञात्वा दत्तकरं राज्ञे ययौ १तदवलोकनः ॥ २० ॥
पदरत्नावली
तदवलोकनस् तस्य नन्दस्य अवलोके दर्शने नः बुद्धिर्यस्य सः, नन्ददर्शनेच्छु-रित्यर्थः । ‘नकारः सौगते बुद्धौ स्तुतौ वृक्षे प्रकीर्तितः’ इत्यभिधानम् ॥ २० ॥
सत्यधर्मीया
तदवलोकनस्तस्यावलोकनेच्छुः । नयतीति नः । नो नेतेति विश्वः । तस्याव-लोकं नयत्यात्मानमिति स वा । तदवमोचनमिति पठित्वाऽवमोचनमावासस्थानमिति वदन्ति । दत्तकरं च ज्ञात्वेत्यनेन वा स्थानकृत्यं गच्छेत्स इति त्वरा द्योत्यते ॥ २० ॥
सुमनोरञ्जिनी
भ्रातरं स्वपितृजन्यत्वात् । तदवलोकनस् तस्य नन्दस्यावलोकनेच्छुः ॥२०॥
विरोधोद्धारः
वसुदेव इति । अत्र नन्दवसुदेवयोर् वैश्यक्षत्रियत्वेन भ्रातृत्वमयुक्तमित्यत उच्यते । ‘तस्मै वरस्स मया सन्निसृष्टः स चास नन्दाख्य उतास्य भार्या । नाम्ना यशोदा स च शूरजातः सुतश्च वैश्याप्रभवोऽथ गोपः’ इति तात्पर्यनिर्णयोक्तेर्भ्रातृत्वं युक्तमेवातो न विरोधः ॥२०॥
॥ इति श्रीमद्भागवतदशमस्कन्धपूर्वार्धव्याख्याने पाङ्घरी श्रीनिवासाचार्यकृते
विरोधोद्धारे षष्ठोऽध्यायः ॥ १०-६ ॥
तं दृष्ट्वा सहसोत्थाय देहः प्राणमिवागतम् ।
प्रीतः प्रियतमं दोर्भ्यां सस्वजे प्रेमविह्वलः ॥ २१ ॥
पदरत्नावली
आगतं तं वसुदेवं दृष्ट्वा प्रीतः प्रेमविह्वलः प्रेम्णा चञ्चलश्च नन्दः, प्राणं प्राप्य देह इव सहसोत्थाय दोर्भ्यां सस्वजे ॥ २१ ॥
दुर्घटभावदीपिका
नन्दः प्रियतममागतं वसुदेवं दृष्ट्वा प्रेमविह्वलः सन् प्राणं प्राप्य देह इव सहसोत्थाय प्रीतः सन् दोर्भ्यां सस्वज इति । एतेन देहस्य प्राणदर्शनाभावात् । प्राणं दृष्ट्वा देह इवेति कथनमनुपपन्नमिति दूषणं परास्तम् । प्राणमित्यस्य दृष्ट्वेत्यनेनान्वयमनङ्गीकृत्याध्याहृतेन प्राप्येत्यनेनान्वयमङ्गीकृत्य प्राणं प्राप्य देहो यथोत्थितो भवति तथा सहसोऽत्थायेत्यर्थस्योक्तत्वात्
॥ २१ ॥
सत्यधर्मीया
तं वसुदेवं दृष्ट्वा प्रीतः प्रेम्णा चञ्चलश्च नन्दः सहसोत्थाय । देहः, आगतं स्वं प्राप्तप्राणं यथा स्वजते तथा सस्वजे आलिलिङ्गे । देहस्य प्राणं स्वं जनं च सर्वेन्द्रियचेष्टात्मकं ज्ञेयम् । देहस्य प्राणदर्शनासम्भवाद्दृष्ट्वेत्यन्वयनमनुपपन्नमिति निरस्तमनेनेति ज्ञेयम् ॥ २१ ॥
सुमनोरञ्जिनी
तम् आगतं वसुदेवम् । देह आगतं प्राणम् अनु यथोत्तिष्ठति तथा तम् आगतं वसुदेवं दृष्ट्वा नन्दः सहसोत्थाय प्रीतः । प्रेम्णा विह्वलो विवशीकृतः । सस्वजे आलिलिङ्गे ॥२१॥
पूजितः सुखमासीनः पृष्ट्वाऽनामयमादितः ।
प्रसक्तधीः स्वात्मजयोरिदमाह विशाम्पते ॥ २२ ॥
सत्यधर्मीया
अनामयं नीरोगं क्षेममिति यावत् । स्वात्मजयो रामकृष्णयोर्विषये प्रसक्तधीस्तत्कुशलप्रश्नविषयिणीति प्रसक्ता धीर्यस्य स तथा ॥ २२ ॥
सुमनोरञ्जिनी
वसुदेवः । अनामयं क्षेमम् । स्वस्य आत्मजयोः श्रीकृष्णरामयोः । प्रसक्ता संलग्ना धीर्यस्यासौ तथोक्तः । तथाभूतः सन् श्रीकृष्णरामौ स्मृत्वेति यावत् ॥ २२ ॥
दिष्ट्या भ्रातः प्रवयस इदानीमप्रजस्य ते ।
प्रजाशाया निवृत्तस्य प्रजा यत् समजायत ॥ २३ ॥
पदरत्नावली
हे भ्रातर्नन्द प्रागप्रजस्य इदानी प्रजाशाया निवृत्तस्य प्रवयसः वृद्धस्य ते प्रजा समजायतेति यत् तद् दिष्ट्या ॥ २३ ॥
सत्यधर्मीया
हे भ्रातर्नन्द प्रवयसः प्रगतं वयो यौवनं यस्य तस्य । प्रजाशाया निवृत्तस्य प्राक् चाप्रजस्य प्रजावर्जितस्य गतम् । यत्प्रजा समजायत तद्दिष्ट्या सुखम् । प्रजेति वदता स्त्र्यपत्यमिति हृदयं विभावनीयम् ॥ २३ ॥
सुमनोरञ्जिनी
हे भ्रातः । अप्रजस्य प्रजारहितस्य । कुतः । प्रवयसः वृद्धस्य । अत एव प्रजाशाया निवृत्तस्य । इदानीं प्रजा समजायतेति यत् तद् दिष्ट्या परमानन्दकरमभूत्
॥ २३ ॥
दिष्ट्या संसारचक्रेऽस्मिन् वर्तमानः पुनर्भवे ।
उपलब्धो भवानद्य दुर्लभं प्रियदर्शनम् ॥ २४ ॥
पदरत्नावली
पुनर्भव उत्पत्तिर् यस्मिन् तस्मिन् संसारचक्रे वर्तमानानां प्रियाणां दर्शनं दुर्लभम्, अतोऽस्मिन् संसारचक्रे वर्तमानो भवानद्य उपलब्ध इति दिष्ट्या दैवेनेत्यन्वयः ॥ २४ ॥
दुर्घटभावदीपिका
पुनर्भवे पुनर्भवतीति पुनर्भवं तस्मिन्संसारचक्रे वर्तमानानां प्रियदर्शनं प्रियाणां दर्शनं दुर्लभमतः संसारचक्रे वर्तमानो भवानद्य मयोपलब्धः संसारचक्रे वर्तमानोऽहं त्वयोपलब्ध इति च यद्दिष्ट्याऽदृष्टप्रेरकेश्वरानुग्रहेणेति ॥ २३ ॥
॥ इति श्रीभागवतटिप्पण्यां सत्याभिनवयतिकृतायां
दुर्घटभावदीपिकायां दशमस्कन्धपूर्वार्धे षष्ठोऽध्यायः ॥ १०-६ ॥
सत्यधर्मीया
पुनर्भवे पुनः पुनर्भव उपत्तिर्यस्मिंस्तत्तस्मिन्संसारचक्रे तत्समूहे तदाख्ये चक्रे भ्रमद्रथाङ्गे वा । चक्रो गणे चक्रवाके चक्रं सैन्यरथाङ्गयोरिति विश्वः । चक्रवज्रान्धकारसारवार-क्षीरतोमरशृृङ्गारभृङ्गारमन्दारोशीरतिमिरशिशिराणि नपुंसके चेति लिङ्गानुशासनोक्तेश्चक्रश्चक्रं वा । वर्तमानो भवानद्योपलब्ध इति दिष्ट्या सुखम् । किं कारणमिदमद्भुतमित्यत आह ॥ दुर्लभं प्रियदर्शनमिति ॥ दिष्ट्या शमित्यादिरव्ययमिति विश्वः । दिष्ट्यं दिष्टिस्तया दैवेनेति वा ॥२४॥
सुमनोरञ्जिनी
पुनः वारं वारं भव उत्पत्तिर्यस्मिन् । अनेन नश्वरदेहवत्वं व्यज्यते । अस्मिन्संसाराख्ये चक्रे वर्तमानः भवान् उपलब्धः दृष्ट इति यत् तदपि दिष्ट्या परममङ्गलमेव । कुतः । यतः प्रियदर्शनं दुर्लभम् अत इति ॥ २४ ॥
नैकत्र प्रियसंवासः सुहृदां चित्रकर्मणाम् ।
ओघेन व्यूह्यमानानां प्लवानां स्रोतसो यथा ॥ २५ ॥
पदरत्नावली
दुर्लभत्वमुपपादयति नैकत्रेति । प्रियश्चासौ संवासश्च । चित्रकर्मणां नानाविधपुण्यपापवताम् । स्रोतसो नद्या ओघेन प्रवाहेण व्यूह्यमानानां विविधं नीयमानानां प्लवानां काष्ठानां, नौकानां वा संवासो यथा तथेति । ‘काष्ठे नावि प्लवः’ इति यादवः ॥ २५ ॥
सत्यधर्मीया
तद्दुर्लभता चैतन्निमित्तेति तदाह ॥ नैकत्रेति । सुहृदां सन्मनसां सतां सम्बन्धिनां च । प्रियश्चासौ संवासश्च स एकत्र न न भवति । तत्र तन्त्रं चित्रकर्मणामिति ॥ तत्र दृष्टान्तमाचष्टे । स्रोतसो ओघेन वेगेन वेति व्यूह्यमानानाम् । वहतेः सम्प्रसारणे रूपम् । दीर्घपाठस्तु लेखककरकृतः । ऊहतेरुपसर्गात् ह्रस्व ऊहतेरिति ह्रस्वतायामपि तस्य वितर्कणार्थत्वात् । प्रकृते च तदसङ्गतेः । प्लवानां दारूणां नौकानां वा संवासो यथा तथेति । प्लवः कारण्डवे भेके कुलके फलके कपौ । प्लवङ्गमे कैवर्ते मुस्तकेऽपि च । काष्ठे नावि प्लव इति विश्वमेदिन्यौ ॥ २५ ॥
सुमनोरञ्जिनी
दुर्लभत्वमुपपादयति ॥ नैकत्रेति । हे प्रिय सुहृदाम् एकत्र संवासो न न सम्भवति । कुतः । चित्रकर्मणां चित्रं विलक्षणं कर्म येषां तेषाम् । यथा स्रोतसो नद्या ओघेन प्रवाहेण व्यूह्यमानानां नीयमानानां प्लवानां काष्टादीनां पोतानां वेति पदरत्नावल्याम् ॥ २५ ॥
कच्चित् पशव्यं निरुजं भूर्यम्बुतृणवीरुधम् ।
बृहद्वनं तदधुना यत्रास्से१ त्वं सुहृद्वृतः ॥ २६ ॥
पदरत्नावली
कच्चिदिति सानुनयप्रश्नः । पशव्यं पशुहितम् । निरुजं नीरोगकरम् ॥२६॥
सत्यधर्मीया
पशव्यं पशुभ्यो हितम् । नि न रुजो रोगो यस्मिंस्तत् । निखिलसाक्षिको निरयमतो न दीर्घः । नीरोगमिति यावत् । बृहद्वनं, भूर्यम्बुतृणवीरुधं भूरीति त्रिकान्वयि । अयमपि वीरुधाशब्दः । भूरीण्यम्बूनि तृणानि भूरिण्यो वीरुधाश्च यस्मिंस्तत् । कच्चिदिति कुशलप्रश्ने । आत्मदावासो न तत्रेत्येतदादेः सत्त्वेऽसत्त्वे वा किं तवेत्यत आह ॥ त्वम् । सुहृद्वृतो यत्रास्स इति उपविशसि वससीति यावत् । आस्त इति पाठे पुरुषव्यत्ययेन वा, रेतस्त्वजायां कविरादधेऽज इत्यादिवन्न तन्नियम इति ऋग्भाष्यटीकाद्युक्तेस्तन्मध्यमतानियमाभावेन वा समाधिरवधेयः । विस्तृतं प्रागनुसन्धेयम् ॥ २६ ॥
सुमनोरञ्जिनी
कच्चिदितीष्टप्रश्ने । कच्चित्कामप्रवेदन इत्यमरः । बृहद्वनं पशव्यं कच्चित् पशुहितं किम् । निरुजं रोगरहितम् । भूर्यम्बुतृणवीरुधं भूरीणि अम्बुतृणानि वीरुधश्च यस्मिन् तत् । तस्माद् अधुना त्वं भवान् सुहृद्वृतः सन् यत्रास्से वर्तस इत्यर्थः ॥ २६ ॥
भ्रातर्मम सुतः कच्चिन्मात्रा१ सह भवद्व्रजे ।
तातं भवन्तं मन्वानो भवद्भ्यामुपलालितः ॥ २७ ॥
पदरत्नावली
मात्रा रोहिण्या सह भवतः व्रजे गोष्ठे भवद्भ्यामुपलालितो भवन्तं तातं मन्वानो मम सुतो बलरामः कच्चित् कथमास्ते ? ॥ २७ ॥
सत्यधर्मीया
कंसस्य देवक्यर्भकभ्रमभ्रंशाय गर्भप्ररोहिणीति रोहिणी पुरा मधुरापुरात्पे्रषिता किल । तया सह नन्दनो मम सुख्यास्ते किमिति वसुदेव पृच्छति ॥ भ्रातरिति । मात्रा रोहिण्या सह भवद्व्रजे त्वद्गोष्ठे भवन्तं तातं मन्वानो मत्त्वेन, तत्रैवोत्पत्तेस्त्वामेव जानन् भवद्भ्यामुपलालितो मम सुतो बल आस्ते कच्चित् सुखेन वर्तते किमित्यर्थः । न कृष्णप्रश्नविषयोऽयं श्लोकः । तथा व्याकरणे नन्दगोपमनोरसा भासतेव मात्रा सहेत्युक्तेरयुक्तत्वेनेव अहो ते देवकी पुत्राः कंसेन बहवो हताः । एकावशिष्टाऽवरजा कन्या साऽपि दिवं गतेत्युत्तरत्रत्यनन्दगोपानुयोग इव न शक्यं च परिहर्तुं हरिवंशविरोधापत्तिरिति च न विद्म तदभिप्रायम् । तथा हि सः ।
तत्रेमौ दारकौ गत्वा जातकर्मादिभिर्गुणैः ।
योजयित्वा व्रजे तात संवर्धय यथासुखम् ।
रोहिणेयं च मे पुत्रं परिरक्ष शिशुं व्रजे ।
अहं वाच्यो भविष्यामि पितृपक्षेषु पुत्रिणाम् ।
योऽहमेकस्य पुत्रस्य न पश्यामि शिशोर्मुखम् ।
ह्रियते हि बला प्राज्ञस्यापि यतो मम ।
अस्माद्धि मे भयात्कंसान्निर्घृणाच्च शिशोर्वधे ।
तद्यथा रोहिणेयं त्वं नन्दगोप ममात्मजम् ।
गोपायसि तथा …. तथा कुरु ।
विघ्ना हि बहवो लोके बालानुत्त्रासयन्ति हि ।
स च पुत्रो मम ज्येष्ठः कनीयांस्तव चात्मजः ।
उभावपि समं साम्ना निरीक्षस्व यथातथम् ॥
इति ॥ २७ ॥
सुमनोरञ्जिनी
हे भ्रातः मम सुतो बलरामः मात्रा रोहिण्या सह भवन्तं तातं पितरं मन्वानः भवद्भ्याम् उपलालितः सन् आस्ते कच्चिदित्यन्वयः । पदरत्नावली तु भ्रात्रा सहेति पाठाभि-प्रायेण प्रवृत्ता । यद्वा कृष्णपक्षे तातं स्वतातं मात्रा सह स्वमात्रा सह भवद्व्रजे भवन्तं स्थितं मन्वानः, मातापितरौ व्रज एव स्त इति मन्वान इति यावत् । मम सुतः कृष्ण इति पदरत्नावली-कृदभिप्रायः ॥ २७ ॥
पुंसस्त्रिवर्गो विहितः सुहृदां ह्यनुभावतः ।
न तेषु क्लिश्यमानेषु त्रिवर्गोऽर्थाय कल्पते ॥ २८ ॥
पदरत्नावली
त्रिवर्गो धर्मादिः पुंसो विहितः, वेद इति शेषः । स सुहृदामनिमित्तबन्धूनां जनानामनुभावतः प्रभावान्निश्चयाद् वा अर्थाय प्रयोजनाय कल्पते समर्थो भवति हि यस्मात् तस्मात् तेषु सुहृत्सु क्लिश्यमानेषु सत्सु त्रिवर्गोऽर्थाय प्रयोजनाय न कल्पते न प्रभवति ॥ २८ ॥
सत्यधर्मीया
कुत एतर्हीयान्कुशलानुनय इत्यत आह ॥ पुंस इति ॥ त्रिवर्गो धर्मादिः पुंसो विहितो यः स सुहृदामनिमित्तबन्धूनां त्वदादिसुमनसां वाऽनुभावतः प्रभावादर्थाय प्राप्तप्रयोजनाय तत्सम्पत्तये कल्पते समर्थो भवति । हि यतस्तेषु सुहृत्सु क्लिश्यमानेषु क्लेशिषु सत्सु स त्रिवर्गोऽर्थाय न कल्पतेऽतस्तव मम सुहृत्त्वात्तवाक्लेशे च त्रिवर्गसम्पत्तिः सैव मत्सम्पत्तिरिति ममैतावाननुयोग इति भावः ॥ २८ ॥
सुमनोरञ्जिनी
कुत एतत्पृच्छसीति तत्राह ॥ पुंस इति ॥ पुंसस् त्रिवर्गः धर्मार्थकामाख्यः । अर्थाय प्रयोजनाय विहितः शास्त्रे प्रतिपादितः । स च त्रिवर्गः सुहृदाम् अनिमित्तोपकारिणाम् । अनुभावतः प्रभावाद् भवति । तेषु सुहृत्सु क्लिश्यमानेषु क्लेशयुक्तेषु त्रिवर्गोऽर्थाय प्रयोजनाय न कल्पते न समर्थो भवति । प्रयोजनरूपं न भवतीति भावः ॥ २८ ॥
नन्द उवाच–
अहो ते देवकीपुत्राः कंसेन बहवो हताः ।
एकाऽवशिष्टाऽवरजा कन्या सापि दिवं गता ॥ २९ ॥
सत्यधर्मीया
एवं वसुदेवाभिनन्दितो नन्दः किमाहेत्यत आह ॥ नन्द इति ॥ देवकीपुत्रास्तज्जातपोताः कंसेन बहवो हताः । एका कन्याऽवरजा सापि दिवं गतेति । अवशिष्टा उर्वरिताः । देवकीपुत्रा इत्यनेनार्थादन्यासां पुत्राः सन्तीत्यायातम् । ते सुताः सुखिनः कच्चिदिति शेष इति व्यातन्वते ॥ २९ ॥
सुमनोरञ्जिनी
ते त्वदीया देवकीपुत्राः । अनेन रोहिण्यादिपुत्रव्यावृत्तिः सूचिता ॥२९॥
नूनं हि दृष्टनिष्ठोऽयं नादृष्टपरमो जनः ।
अदृष्टमात्मनस्तत्त्वं यो वेद न स मुह्यति ॥ ३० ॥
पदरत्नावली
नूनं प्रायोऽयं जनो दृष्टे प्रत्यक्षे कार्ये निष्ठा नितरां स्थितिर्यस्य स तथा । हि यतस्ततोऽदृष्टपरमो न, दृष्टमेव जानाति नादृष्टमित्यर्थः । अतो मुह्यति संसारे मोहयुक्तो भवति । य आत्मनोऽदृष्टमव्यक्तं तत्त्वं वेद स जनो नूनं निश्चयेन न मुह्यतीत्यर्थः ॥ ३० ॥
सत्यधर्मीया
वसुदेवोपदिष्टतत्त्वो नन्दः स्वस्यापि तत्त्वसंविद्वर्तत इति दर्शयति ॥ नूनमिति ॥ अयं जनो दृष्टनिष्ठो दृष्टे प्रात्यक्षिकेऽर्थे निष्ठा स्थितिर्यस्य स नूनं प्रायः । हि यतस्ततोऽदृष्टं परमो दैवं वा वासुदेवो वा, यथा कारयति तथा भविष्यतीत्यदृष्टं हर्यादिकं परमं यस्य स तथा स न । अतो मुह्यति संसारादौ मोहयुक्तो भवति । आत्मनस्तत्त्वं फलोपलम्भकं वेद स जनो न मुह्यति । त्वं चादृष्टपरमेष्वेक इति मया किं वक्तव्यमिति तात्पर्यम् । तत् त्वमिति वा पदे । तददृष्टत्वं जगदन्यद्धर्याख्यं वस्तु स भवान्वेदेति न मुह्यतीति योजना वा ॥ ३० ॥
सुमनोरञ्जिनी
अयं जनः । दृष्टफले निष्ठा आसक्तिर्यस्य स तथा । नूनम् । नादृष्टपरमो ऽदृष्टं परम् उत्कृष्टमिति मा ज्ञानं यस्यासौ तथोक्तः, न भवति । अदृष्टम् अप्रत्यक्षम् । आत्मनः परमात्मनः । तत्वम् । आत्मरूपं तत्वमित्यर्थः । घटस्य स्वरूपमितिवत् । यो वेद स न मुह्यति मोहवान्न भवतीत्यर्थः ॥ ३० ॥
वसुदेव उवाच -
करो वै वार्षिको दत्तो राज्ञे दृष्टा वयं च वः ।
नेह स्थेयं बहुदिनं सन्त्युत्पाताश्च गोकुले ॥ ३१ ॥
पदरत्नावली
वयं वो युष्माभिर्दृष्टाः । उत्पाता अनर्थसूचकाः ॥ ३१ ॥
सत्यधर्मीया
वयं वो युष्माभिर्दृष्टा वो युष्मांश्च वयं दृष्टवन्त इत्यन्वेतव्यमिति सूचयति । स्वस्यैष्यज्ज्ञतां दर्शयति ॥ नेह स्थेयमित्यादिना ॥ ३१ ॥
सुमनोरञ्जिनी
वयं युष्माभिर्दृष्टाः । एवं कृतकार्यैर्भवद्भिर् इह बहुदिनं न स्थेयम् । कुतः । वः गोकुले । यत उत्पाता अनर्थस्य सूचकाः सन्ति अत इति ॥ ३१ ॥
श्रीशुक उवाच–
इति नन्दादयो गोपाः प्रोक्तास्ते शौरिणा ययुः ।
अनोभिरनडुद्युक्तैस्तमनुज्ञाप्य गोकुलम् ॥ ३२ ॥
॥ इति श्रीमद्भागवते दशमस्कन्धपूर्वार्धे षष्ठोऽध्यायः ॥
पदरत्नावली
अनडुद्युक्तैर् वृषभयुक्तैरनोभिः शकटैः ॥ ३२ ॥
॥ इति श्रीमन्महेन्द्रतीर्थपूज्यपादशिष्यविजयध्वजतीर्थभिक्षुकृतायां पदरत्नावल्यभिधायां श्रीमद्भागवतटीकायां दशमस्कन्धपूर्वार्धे षष्ठोऽध्यायः ॥
सत्यधर्मीया
अनडुद्भिर्वृषभैर्युक्तैरनोभिः शकटैः । वृषोऽनड्वान् क्लीबे नः शकटोऽस्त्रीत्युभय-तश्चामरः । तं वसुदेवमनुज्ञाप्य गोकुलं ययुः ॥ ३२ ॥
॥ इति श्रीभागवतटिप्पण्यां सत्यधर्मयतिकृतायां
दशमस्कन्धपूर्वार्धे षष्ठोऽध्यायः ॥ १०-६ ॥
सुमनोरञ्जिनी
अनडुद्युक्तैर् अनडुहैर् वृषभैर् युक्तैः । अनोभिः शकटैः ॥ ३२ ॥
**॥ इति श्रीमद्भागवतदशमस्कन्धपूर्वार्धव्याख्यायां **
(गूढकर्तृकायां) सुमनोरञ्जिन्यां षष्ठोऽध्यायः ॥ १०-६ ॥