बहिरन्तः पुरद्वारः सर्वाः पूर्ववदावृताः
॥ अथ पञ्चमोऽध्यायः ॥
श्रीशुक उवाच–
बहिरन्तः पुरद्वारः सर्वाः पूर्ववदावृताः ।
ततो बालध्वनिं श्रुत्वा गृहपालाः समुत्थिताः ॥ १ ॥
पदरत्नावली
देवानां देवस्वभावोऽसुराणामसुरस्वभावो मध्यमानां मिश्रस्वभावो दुस्त्यज इत्येतदर्थः प्रतिपाद्यतेऽस्मिन्नध्याये ।
तत्र कंसादिषु सन्तोऽसन्त इति द्विविधजीवाः सन्ति । तदुक्तम्– ‘पूतनाकंसनरकशिशुपालादिषु द्विधा । जीवाः सन्तस्त्वसन्तश्च तत्र बन्ध्वादिरूपिणः । विष्णोः सन्त इति ज्ञेया असन्तः शत्रुरूपिणः । शुभजीवप्रकाशेन कदाचिच्छुभबुद्धयः । विपर्ययेऽन्यथा च स्युः शुभास्तत्र हरिं ययुः । अशुभाश्च तमो घोरं यदि तत्रैव मध्यमाः । मध्यमां गतिमेवाऽऽपुरेकदेहगता अपि ॥’ इति । तत्रासतां स्वभावं दर्शयितुमुपक्रमते बहिरन्त इति । बालध्वनिं शिशुरोदनम् ॥ १ ॥
सत्यधर्मीया
वसुदेवस्यैवं निवासवासानन्तरं का कथा प्रवृत्तेत्यतस्तद्वृत्तान्तमाह ॥ बहिरन्तरिति । बहिर्द्वारोऽन्तःपुरद्वारश्चेत्यन्वयः । सर्वाः पूर्ववद् आवृता आच्छादिताः । ततो बालध्वनिं श्रुत्वा गृहपालाः कंसस्थापिता उत्थिताः । ध्वनितः सारांशस्तु न किञ्चिदप्ये-तत्कृत्य-मत्ययहेतुमिति सारमेयोपमा एत्विति गृहपालेत्यालपतेति ज्ञेयम् ॥ १ ॥
सुमनोरञ्जिनी
बहिर्द्वारो ऽन्तःपुरद्वारश्चेति सर्वा द्वारः । पूर्ववद् यथापूर्वम् । आवृताः पिहिताः । ततस् तदनन्तरं बालध्वनिं बालस्य रोदनलक्षणं श्रुत्वा गृहपाला गृहरक्षणार्थं कंसेन नियुक्ताः समुत्थिता इति सम्बन्धः ॥ १ ॥
ते तु तूर्णमुपव्रज्य देवक्या गर्भजन्म तत् ।
आचख्युर्भोजराजाय यदुद्विग्नः प्रतीक्षते ॥ २ ॥
पदरत्नावली
यस्माद् गर्भाद् उद्विग्नो भीतः ॥ २ ॥
सत्यधर्मीया
गर्भजन्म तज्जननं यदुद्विग्नः यद्गर्भाद्भीतः प्रतीक्षते कदोत्पत्तिर्भवेदिति तदाचख्युः
॥ २ ॥
सुमनोरञ्जिनी
ते द्वारपाला उपव्रज्य समीपं गत्वा । कंसस्येति शेषः । स कंसः । यदुद्विग्नः यस्माद् देवक्या अष्टमगर्भाद् उद्विग्नः भीतः । प्रतीक्षते ‘कदा अष्टमगर्भं प्रसूते देवकी’ इत्येवं चिन्तयन्नास्ते । तद् देवक्या गर्भस्य जन्म उत्पत्तिम् । भोजानां राज्ञे कंसाय । आचख्युरिति सम्बन्धः ॥ २ ॥
स तल्पात् तूर्णमुत्थाय कालोऽयमिति विह्वलः ।
सूतीगृहमगाच्छीघ्रं प्रस्खलन् मुक्तमूर्धजः ॥ ३ ॥
पदरत्नावली
सूतीगृहमिति दीर्घश्छान्दसः, वैलक्षण्यद्योतको वा ॥ ३ ॥
सत्यधर्मीया
तल्पाच्छय्यातः । तल्पाद् ल्यब्लोपनिमित्तेयं पञ्चमी । तल्पं कलत्रं परित्यज्य शय्येति पदशय्यां विहायैवं वचनवृत्त्याऽमुमर्थं सूचयामासेति ज्ञेयम् । तल्पमट्टकलत्रयोरिति विश्वः । कालोऽयमयमेव समयो मम संहारकोऽयमिति वा सूतीगृहं सूतिकागारम् । सूतिः संवीतसन्तत्योरिति विश्वः । सूतेव सूतकेति भानुः । ततश्च सूतागृहमिति सुपठम् । प्रस्खलन् निद्रया भीत्या वा । मुक्तमूर्धजो मुक्ता मूर्धजा यस्य येन स वा । केशवोत्पत्तिरिति मिमतो नावकाशोऽभूत्केशबन्धन इति तावती त्वरा ज्ञेया । पद्मनाभमुक्तो मूर्धजः कृष्णः केशकाल इति विव्हल इति कवयितुर्हृदयं मन्तव्यमित्येके ॥ ३ ॥
सुमनोरञ्जिनी
स कंसः । तल्पात् शयनाद् ल्यब्लोपनिमित्तेयं पञ्चमी तल्पं परित्यज्य । अयम् उत्पन्नो गर्भः मम कालः मृत्युरेव । अष्टमत्वादिति भावः । विह्वलः भीतः । मुक्ता अग्रथिता मूर्धजाः शिखा यस्य सः । प्रस्खलन्नेव शीघ्रं सूतीगृहं सूतिकागृहं प्रति । अत्र दीर्घश्छान्दसः
॥ ३ ॥
तमाह भ्रातरं देवी करुणं कृपणा सती ।
स्नुषेयं तव कल्याण स्त्रियं मा हन्तुमर्हसि ॥ ४ ॥
पदरत्नावली
करुणं दयाजनकम्, वचनमिति शेषः । स्नुषा भगिनीसुता ॥ ४ ॥
सत्यधर्मीया
देवी कृपणा सती करुणं यथा भवेत्तथा तं स्वभ्रातरमाह प्राह । हे कल्याण मङ्गलपुरुष । आन्तरङ्गिको भावस्तु कालनेमिविवक्षया कलिना आ सम्यक् अणते प्रेर्यत इति कल्याणेति सम्बोधितवतीति ज्ञेयम् । स्नुषा भगिनीपुत्रीति स्त्रियं हन्तुं माऽर्हसि । मायं, तव स्पष्टमप्रतिभानमत इत्याह ॥ तमेति ॥ तमा तत्स्वपि गीयत इति रात्रेर्नाम । ह शोके ॥४॥
सुमनोरञ्जिनी
तमागतम् । कृपणेषु न विद्यते करुणा यस्य तम् । दुष्टस्वभावत्वात् । यद्वा कृपणा सती । अन्यस्माद्दयामपेक्षन्ती सती निर्दुष्टा देवकी । अकरुणं करुणाशून्यं भ्रातरम् आह । करुणा यथा स्यात्तथा आहेति वा । किमित्याहेति तदाह ॥ स्नुषेति ॥ हे कल्याण । स्त्रियं हन्तुं माऽर्हसि । न केवलं स्त्रीत्वमात्रमसंहारे निमित्तं किञ्च इयं कन्या तव स्नुषा स्नुषात्वयोग्या अत इति शेषः । यदि स्त्रियमपि हन्तुमिच्छसि तर्हि मा मां हन्तुमर्हसीति च । माशब्दोऽयं न माङ् ॥ ४ ॥
बहवो हिंसिता भ्रातः शिशवः पावकोपमाः ।
त्वया दैवनिसृष्टेन पुत्रिकैका प्रदीयताम् ॥ ५ ॥
पदरत्नावली
दैवेन निसृष्टेन प्रेरितेन ॥ ५ ॥
सत्यधर्मीया
हे भ्रातः पावकोपमाः शिशवो बहवो हिंसिताः । त्वयेत्युक्त्वा पुनः क्षमापयन्त्याह ॥ दैवनिसृष्टेनेति ॥ अनेन न त्वदुपरि शब्द इत्युक्तवतीति ध्यन्यते । एकेयं पुत्रिका प्रदीयताम् ॥ ५ ॥
सुमनोरञ्जिनी
दैवनिसृष्टेन दैवप्रेरितेन त्वया पावकोपमा अग्नितुल्याः । अतीवतेजस्विन इति यावत् । मे शिशवः बहवो हिंसिताः । तथापि गतं न शोचामि । अधुना एका पुत्रिका मे मह्यं प्रदीयताम् । एनां मा हिंसीरिति भावः ॥ ५ ॥
नन्वहं ते ह्यवरजा दीना हतसुता प्रभो ।
दातुमर्हसि मन्दाया ओमां चरमां प्रजाम् ॥ ६ ॥
पदरत्नावली
चरमां प्रजाम् अन्तिमसन्ततिम् ॥ ६ ॥
सत्यधर्मीया
अङ्ग भ्रातो ऽहं तेऽवरजा भगिनी । ननु हतसुतेति, मन्दायै मह्यमिमां चरमाम् । उभयोर्वृद्धतया भविष्यत्तोकाशा केति तात्कालिकतत्कोपोपशमनाय चरमामित्युक्तिः । प्रजां दातुमर्हसि । दीनेति च मन्दाया इति चान्वये रमां प्रजामिति कटाक्षित आन्तरङ्गिको भावोऽवसेयः । चर गृहं प्रतीति शेषः । मां रमारूपिणीप्रजामिति वा चरमामवरसन्ततिमिति व्याकुर्वते
॥ ६ ॥
सुमनोरञ्जिनी
नन्वस्या हननेऽपि तव पुत्रान्तरोत्पत्त्या त्वच्छोकोऽपगच्छतीत्यत उक्तम् ॥ इमां चरमां प्रजामिति ॥ नातः परं मम प्रजोत्पत्तिः संभावितेति भावः ॥ ६ ॥
श्रीशुक उवाच–
उपगूह्यात्मजामेवं रुदन्त्या दीनदीनवत् ।
याचितस्तां विनिर्भर्त्स्य हस्तादाचिच्छिदे खलः ॥ ७ ॥
पदरत्नावली
आचिच्छिदे आकृष्टवान् ॥ ७ ॥
सत्यधर्मीया
किं कंसोऽसौ भगिन्या गिरं श्रुत्वा निववृत उत स्वजीवनाशतोपकृपः प्रववृते तद्विनाश इत्यत आह ॥ उपगूह्येति ॥ दीनदीनवत् । तत्र तस्येवेति षष्ठ्यन्ताद्वतिः । तस्या इव । आत्मजामुपगूह्यालिङ्ग्यैवं याचितोऽपि रुदन्त्या देवक्या हस्तात्तां देवकीं निर्भर्त्सयि-त्वाऽऽचिच्छिदे आचकर्ष । सर्वसम्भावकमाह ॥ खल इति ॥ ७ ॥
सुमनोरञ्जिनी
आत्मजां जातामेव न तु पीतस्तन्याम् । उपगुह्य उदरे गोपयित्वा । आलिङ्ग्येति यावत् । दीनदीनवद् दीनादपि दीनवत् । न तु स्वभावतो दीना । स्वपुत्रस्य गोकुले नीतत्वात् । अस्याश्च दुर्गारूपत्वेन संहर्तुमशक्यतया निश्चितत्वाच्च । एवं पूर्वोक्तरीत्या रुदन्त्या याचितोऽपि प्रार्थितोऽपि खलः । तां विनिर्भत्स्य तिरस्कृत्य । हस्ताद् देवकीहस्तात् । तां दुर्गाम् । आचिच्छिदे आचकर्ष ॥ ७ ॥
तां गृहीत्वा चरणयोर्जातमात्रां स्वसुः सुताम् ।
अपोथयच्छिलापृष्ठे स्वार्थोन्मूलितसौहृदः ॥ ८ ॥
पदरत्नावली
अपोथयद् अताडयत् । स्वजीवनार्थमेवोन्मूलितम् उत्पाटितं सौहृदं स्नेहलक्षणं यस्य स तथा ॥ ८ ॥
सत्यधर्मीया
तां स्वसुः सुतां जातमात्रां सद्यो जाताम् । चरणयोः पादयोः । अनेन तदन्तर्गतभृगोश्चरणस्पर्शयोग्यतावत्त्वात्तदनुयानं ध्वन्यते । मुख्यकर्मत्वं तच्छब्दार्थस्य ग्रहणाधि-करणताबोधकतयोपपद्यते चरणयोरिति । महाभाष्येऽगोज्ञायशां सक्थिनि कर्णे वा गृहीत्वाऽऽन्त-र्दयतीवत् तत्त्वनिर्णयटीकायां च शृृङ्गे कर्णे वा गृहीत्वा गामिव नागमो नारायणं गमयतीत्युक्तेः । गृहीत्वा शिलापृष्ठेऽपोथयत्तताड । स्वजीवनार्थमेवोन्मूलितं सौहृदं स्नेहो यस्य । स्वार्थात्स्वनाशा-देष्यतः, उन्मूलितं सौहृदं येनेति वा । अर्थोऽभिधेयरैवस्तुप्रयोजननिवृत्तिष्वित्यमरः ॥ ८ ॥
सुमनोरञ्जिनी
जातमात्रां स्वसुः सुतां शिशुरूपां दुर्गाम् । चरणयोर्गृहीत्वा । शिलापृष्ठे अपोथयद् बलाच्चिक्षेप । ननु कथं स्वसुः सुतायां स्नेहो नासीदित्यत उक्तम् ॥ स्वार्थेति ॥ स्वस्य योऽर्थः प्रयोजनं तदर्थम् उन्मूलितम् उत्पाटितं त्यक्तमिति यावत् । सौहृदं स्नेहो येन स तथा । स्वप्रयोजनार्थं स्नेहत्यागो दुर्जनस्वभाव इति भावः ॥ ८ ॥
सा तद्धस्तात् समुत्प्लुत्य सद्यो देव्यम्बरेरं गता ।
अदृश्यतानुजा विष्णोः सायुधाष्टमहाभुजा ॥ ९ ॥
पदरत्नावली
अदृश्यत, जनैरिति शेषः ॥ ९ ॥
सत्यधर्मीया
सा विष्णोरनुजा देवी । तद्धस्तात्कंसहस्तात्समुत्प्लुत्याम्बरे आकाशे गता सती सायुधाष्टभुजाऽदृश्यत ॥ ९ ॥
सुमनोरञ्जिनी
सा कन्यका सद्य एव क्षेपणकाल एव तस्य कंसस्य हस्तात् सुमुत्प्लुत्य ऊर्ध्वङ्गता अम्बरङ्गता आकाशं प्राप्ता सती देवी देवतारूपधारिणी भूत्वा । विष्णोरनुजा दुर्गा अदृश्यत । जनैरिति शेषः । देवीत्वमेव विवृणोति ॥ सायुधेति ॥ सायुधा आयुधैः सहिता अष्टौ महाभुजा यस्या सा ॥ ९ ॥
दिव्यस्रगम्बरालेपरत्नाभरणभूषिता ।
धनुःशूलेषुचर्मासिशङ्खचक्रगदाधरा ॥ १० ॥
सत्यधर्मीया
दिवि भवानि दिव्यानि मनोहराणि । अष्टौ तदायुधाभिधानान्यभिधत्ते ॥ धनुरित्यादिना ॥ ननु काली पीताम्बरधरा गजकुम्भोपमस्तनी । चक्रविस्तीर्णजघना चन्द्रवक्त्रा चतुर्भुजेति हरिवंशे शंसनाद्भुजाष्टकोक्तिरेतद्विरुद्धेति चेन्न । भागवतस्य तदुत्तरत्वेन भुजाष्टकतद्गता-युधाष्टकप्रतिपादकतया निरवकाशत्वेन चतुर्भुजेति तदुक्तेरेकभागवतभुजमात्रकथकतया सावकाशता-प्रकाशनसम्भवात् । आवृत्त्याऽन्वयनेनाष्टकलाभो वा ज्ञेयः । पञ्चमतात्पर्ये ।
‘‘यथा भागवते तूक्तं भौवनं कोशलक्षणम् ।
तस्याविरोधतो योज्यं सर्वग्रन्थान्तरे स्थितम् ।
मण्डोदे पूरणं चैव व्यत्यासं क्षीरसागरे ।
राहुसोमरवीणां च मण्डलाद्द्विगुणोक्तिताम् ।
विनैतत्सर्वमुन्नेयम्’’
इत्याद्युक्तेराचार्याभ्यनुज्ञानमेतदादौ ज्ञायते । प्रथमे च स्वप्नोऽयमतो नैषीकविरोध इत्याद्युक्तेरेवं व्याकरणं सम्भवि । चित्रैकौर्लिख्यते भित्तौ मन्त्रशास्त्रेषु वर्ण्यत इति निरवकाशं भागवतम् ॥१०॥
सुमनोरञ्जिनी
दिव्या दिवि भवाः । मन्दारादिकुसुममयाः स्रजो मालाः । अम्बराणि । आलेपश्चन्दनादिः । रत्नमयाभरणानि तैर् भूषिता । अष्टभुजेषु धृतान्यायुधान्याह ॥ धनुरिति ॥ शूलं त्रिशूलम् । इषवो बाणाः । चर्म च । असिः खड्गः । शङ्खचक्रगदाश्च तासां धरा
॥ १० ॥
सिद्धचारणगन्धर्वैरप्सरःकिन्नरोरगैः ।
उपाहृतोरुबलिभिः स्तूयमानेदमब्रवीत् ॥ ११ ॥
पदरत्नावली
उपाहृता उरवो बलयः पूजा यैस्ते, तैः ॥ ११ ॥
सत्यधर्मीया
उपाहृता उरवो बलयो यैस्ते । तैः स्तूयमाना ॥ ११ ॥
सुमनोरञ्जिनी
उपाहृताः समर्पिता उरव उत्कृष्टा बलयः पूजासाधनानि यैस्ते तथाविधास् तैः स्तूयमाना । इदं वक्ष्यमाणवचनम् ॥ ११ ॥
किं मया हतया मन्द जातः खलु तवान्तकः ।
यत्र क्वचित् पूर्वशत्रुर्मा हिंसीः १कृपणान् वृथा ॥ १२ ॥
तात्पर्यम्
‘पूतनाकंसनरकशिशुपालादिषु द्विधा । जीवाः सन्तस्त्वसन्तश्च तत्र बन्ध्वादिरूपिणः । विष्णोः सन्त इति ज्ञेया असन्तः शत्रुरूपिणः । शुभजीवप्रकाशेन कदाचिच्छुभबुद्धयः । विपर्ययेऽन्यथा च स्युः शुभास्तत्र हरिं ययुः । असुराश्च तमो घोरं यदि तत्रैव मध्यमाः । मध्यमां गतिमेवापुरेकदेहगता अपी’ति गारुडे ॥ १२ ॥
पदरत्नावली
मया हतया तव किं, किं प्रयोजनम् ? कुत इत्यत्राह जात इति । खलु विचारशून्यस्त्वम् ॥ १२ ॥
दुर्घटभावदीपिका
मा हिंसीः कृपणां वृथेत्यस्य कृपणामिव वृथा मा मामहिंसीरित्यर्थः । ममावध्यत्वात्त्वदीयहननव्यापारो व्यर्थ इति भावः । एतेन कंसेन शिलापृष्ठे पोथने कृतेऽपि तद्धस्तात्समुत्प्लुत्याम्बरगतत्वेनावध्यत्वस्य कार्पण्याभावस्य च नित्यत्वात् कृपणां मां वृथा मा हिंसीरिति प्रार्थनं व्यर्थमिति चोद्यं पराकृतम् । कृपणामित्यतः परमिवेत्यस्य शेषमङ्गीकृत्वा मेत्यस्मच्छब्दद्वितीयैकवचनान्तत्वं चाभ्युपगम्याहिंसीरिति पदच्छेदं च स्वीकृत्य कृपणामिव वृथा मा मामहिंसीरित्यर्थस्योक्तत्वात् ॥ १२ ॥
सत्यधर्मीया
किं मया हतया मन्देत्यारभ्य भुवि भौमानीति पर्यन्तश्लोकैः कथ्यमानानि बन्धुत्वं तथा शत्रुत्वं दैवाधीनाः सहासत इति सर्वस्य भगवदधीनत्ववेदनं च कंसस्यासुरस्य कथमित्यतः प्रमाणेन तत्तात्पर्यमाह ॥ पूतनेति ॥ यद्यपि पुराणे पूतनादिमूलं कंस इति स एवादौ ग्राह्यस्तथाऽपि सर्वापेक्षया पूर्वं पूतनाव्रजव्रजनादीति कंससंसारपीठिकारूपिणीति तन्निरूपणमादाविति ज्ञेयम् । द्विधा प्रकारप्रकारिणोरभेदादेवमुक्तिरिति वा । द्विधा व्यया तृतीयाया लोपे प्रकारद्वयेन जीवा ज्ञेयाः । एकस्मिंस्तदुभयघटनप्रकारमाह ॥ शुभेति ॥ शुभजीवानामूर्वश्यादीनां प्रकाशेन तदावेशविशेषेण कदाचिदेव शुभबुद्धयः । असुरप्रवेशे विपर्यये अन्यथा चाशुभबुद्धयस्तत्र शुभा इतो गता हरिं ययुरसुराश्च घोरं तमो ययुः । यदि तत्र शरीरे मध्यमा अभिमानिनः स्युस्ते मध्यमां गतिमेवापुः । एकदेहगता अपीत्यधिकारिसामान्यान्वयीति ज्ञेयः ॥ ततश्चायं श्लोकसप्तकार्थः ॥ हे मन्द अज्ञ मया हतया तव किं किं प्रयोजनम् । अष्टमो गर्भो योषित्पुरुषो वेत्यनिर्धार्याभि-धानात्त्वमेव मम मृत्युरिति त्वदजीवनं मज्जीवनकारणमिति तव नाशो भवत्वित्याह । तवान्तको मृत्युर्यत्र क्वचिज्जात इति खलु । देवादिनिवेदितासृगाद्यास्वादनं कुर्वन्ती ।
नृत्यन्ती च हसन्ती च विपरीतेन भास्वती ।
विहायसा गता रौद्रा पिबन्ती पानमुत्तमम् ।
जहास च महाहासं कंसं च रुषिताऽब्रवीत् ।
इति हरिवंशशंसनात् । खलु स्याद्वाक्यभूषायां जिह्वास्वादे च सान्त्वन इति विश्वः । कृपणानुत्तरत्र भविष्यतस्तोकान्मा हिंसीर्न हिंसय । कृपणामिति पाठे मा मां कृपणां वृथा त्वमहिंसीर्हतवान् । मत्सामर्थ्येनाहं विहायैनं देहं विहायसा गता । तव तु स्त्रीहत्यादोष आयात एवेत्यायताक्ष्यास्तात्पर्यम् । कृपणां मन्मातरं देवकीं वृथा मा हिंसीर्नोपद्रुतां कुर्वित्यपि व्याकुर्वते । कृपणान् पूर्वजान् मां च वृथा हिंसीरिति वाऽन्वयो ज्ञेयः । स जातः पोतः प्राक् त्वद्घातक इत्याह ॥ पूर्वशत्रुरिति ॥ पूर्वं त्वामशातयदिति शत्रुः ॥ १२ ॥
सुमनोरञ्जिनी
हे मन्द । मया हतया । मद्धननेनेति यावत् । तव किं किं प्रयोजनम् । न किमपि । कुतः । यतस्तव पूर्वशत्रुर् विष्णुर् इदानीमपि तवान्तकः । यत्र क्वचन कुत्रापि स्थलविशेषे जातोऽस्ति । अतः कृपणां मां वृथा मा हिंसीर् मा संहर । यद्वा कृपणां मा मां किं हिंसीः किमर्थं हनिष्यसीति ॥ १२ ॥
इति प्रभाष्य तं देवी माया भगवती भुवि ।
बहुनामनिकेतेषु बहुनामा बभूव ह ॥ १३ ॥
पदरत्नावली
माया भगवती दुर्गा । इतिशब्द आदिवचनः, इत्यादीत्यर्थः । ‘इति हेतुप्रकरणप्रकारादिसमाप्तिषु’ इति यादवः । बहुनामवत्सु निकेतेषु काश्यादिमन्दिरेषु, बहुनामा ‘दुर्गेति भद्रकालीति’ इत्यादिभगवदुक्तप्रकारेण बभूवेत्यर्थः ॥ १३ ॥
सत्यधर्मीया
बहुनामवत्सु निकेतेषु काश्यादिसदनेषु । बहुनामा बहूनि नामानि यस्याः सा । डाबुभाभ्यामिति डाबन्तो नान्तो वाऽयं शब्दः । स्थानानि च नरा भुवि, दुर्गेति भद्रकालीत्या-रभ्याम्बिके चेत्यन्तसार्धश्लोकेन भगवदुक्तप्रकारबहुनामा बभूव । हेति प्रसिद्धिसूचकम् । वसुदेवदेवकीदृश्या त्वन्येषां तल्पे बालरूपिण्यवात्सीदित्यर्थसूचको वा हशब्दः । यथोक्तमाचार्यैः । पुनर्न देवकीतल्पे शयद्बालरूपैव दुर्गा नाज्ञासिषुस्तामथ केचन । ऋते हि मातापितरौ गुणाढ्यामिति
॥ १३ ॥
सुमनोरञ्जिनी
भगवती पूज्या । माया दुर्गा । इति एवं प्रकारेण । प्रभाष्य । बहुनामानि वाराणसीत्यादिबहुनामानि निकेतनानि तेषु । बहुनामवती ‘दुर्गा, काली, कराली, शाकम्भरी’-त्यादिनामवती बभूव हेति योजना ॥ १३ ॥
विरोधोद्धारः
॥ इतीति । अत्र बहुनामेति पाठः साधु । तस्य स्त्रियां ङीषोऽपेक्षितत्वात् । अतो विरोधस्तस्मादुच्यते । बहून् अनेकान्नामयति प्रह्वीकरोतीति बहुनामा तस्याभिधानार्थकत्वे ङीषोऽपेक्षितत्वेऽपि प्रह्वीभावार्थकत्वे टापोऽपि युक्तत्वान् न बहुनाम्नीति पाठस्यावश्यकत्वमित्यर्थः । यद्वा । बहुनामेति क्रियाविशेषणम् । बहुनाम यथा स्यात्तथा आबभूवेत्यर्थः । अथवा । बहुना दुर्गाभद्राकालीत्याद्यनेकनामविशेषेण । अमा सह । बभूव । अमा सह समीपे चेत्यमरः । बहुमाने सहवा । अपि वा । मः शिवो मा रमायां चेति विश्वात् । मा रमा बहुनामनिकेतेषु बहूनि त्रीणि नन्दभीष्मसत्राजिदिति नामानि येषां तेषां निकेतेषु गृहेषु दारेषु वा बहुना योगनिद्रा रुक्मिणी सत्यभामेत्यादिरूपत्रयेण । अपर्यवसितबहुत्वस्य त्रित्वे पर्यवसानमिति न्यायात् । पूर्णरूपेण वा । बहुः पूर्णतायामित्युक्तेः । भुवि बभूव । श्रीभूदुर्गेति त्रिरूपिणी रमा त्रिरूपैर्भगवत्सेवार्थमवतीर्णा बभूवेति भावः । कृष्णजन्मकाले रुक्मिणीसत्यभामयोरवताराभावेन लिटोऽनुपपत्तिरिति चेन्न । वक्तुः शुकस्य कथनसमयात्पूर्वमेव तिसॄणामप्यवतीर्णत्वात् । तस्मान्न प्रयोगासाधुत्वम् ॥ १३ ॥
तयाऽभिहितमाकर्ण्य कंसः परमविस्मितः ।
देवकीं वसुदेवं च विमुच्य प्रश्रितोऽब्रवीत् ॥ १४ ॥
पदरत्नावली
सतां स्वभावं दर्शयति तयाऽभिहितमिति ॥ १४ ॥
सत्यधर्मीया
आकर्ण्य श्रुत्वा । प्रश्रितः प्रह्वः ॥ १४ ॥
सुमनोरञ्जनी— तत्र कंसाविष्टभृगोः पश्चात्तापप्रकारमाह ॥ तयेति ॥ विमुच्य निगडात् । प्रश्रितो विनीतः सन् ॥ १४ ॥
अहो भगिन्यहो भाम मया वां बत पाप्मना ।
पुरुषादैरिवाभ्येत्य १सुहृदोर्हिंसिताः सुताः ॥ १५ ॥
पदरत्नावली
भाम भगिनीभर्तः । वां युवयोः । बत खेदे । बहवो राक्षसाः सम्मिल्य यत् क्रूरकर्म कुर्वन्ति, सम्भूय तन्मयैकेन कृतमित्यतः पुरुषादैरिति बहुवचनम् ॥ १५ ॥
सत्यधर्मीया
भाम भगिनीभर्तः वां युवयोः । पाप्मना तद्वता मया । पुरुषादैरिव बहु-राक्षसकार्यं कृतमेकलेन किल मयेति बहुवचनम् । स्वापत्यमित्यनवेक्षणं च तद्धर्म इति तन्निदर्शनमिति मन्तव्ये । सुता हिंसिताः । शात्रवं चेत्पुत्रादिहिंसा कंसविहितेत्यत आह ॥ सुहृदोरिति ॥१५॥
सुमनोरञ्जिनी
किमब्रवीदिति तदाह ॥ अहो इति ॥ हे भगिनि । हे भाम भगिनीभर्तः । बतेति खेदे । पुरुषादैरिव राक्षसैरिव । अभ्येत्य । पाप्मना पापस्वभावेन मया बहवः सुताः । युवयोरिति शेषः । हताः । राक्षसाः सम्भूय यत्क्रूरकर्म कुर्वन्ति तन्मयैकेनैव कृतमिति सूचनाय पुरुषादैरिति बहुवचनमिति पदरत्नावली ॥ १५ ॥
विरोधोद्धारः
अत्र केचित् पुरुषाद इवापत्यमिति पाठं कल्पयन्ति । तदयुक्तम् । कर्त्रोर्वैयधिकरण्यापातात् । न चात्रापि वचनासाम्यम् । तस्यान्वयानुपपत्त्यभावेनादोषत्वात् ॥१५॥
**स त्वहं त्यक्तकारुण्यस्त्यक्तज्ञातिसुहृत् खलः । **
हा कान् लोकान् गमिष्यामि ब्रह्महेव मृतः श्वसन् ॥ १६ ॥
पदरत्नावली
ब्रह्महा ब्राह्मणघातकः । मृतः श्वसन् जीवन्मृतः ॥ १६ ॥
सत्यधर्मीया
स्वभावाङ्कुरणमित्यूह्यम् । स्वं निन्दति ॥ श्वसन्मृत इति । सोऽहं तु ब्रह्महेव । कान् लोकान् गमिष्यामीत्यन्वयः । त्यक्तकारुण्य इत्यादिकं सुलोकदौर्लभ्यहेतुः ॥ १६ ॥
सुमनोरञ्जिनी
त्यक्तं कारुण्यं येन । बालघ्नत्वात् । त्यक्ता ज्ञातयः सुहृदश्च येन सः । अत एव खलः दुर्जनः । एतादृशोऽहं मृतः सन् । कान् लोकान् गमिष्यामि । क इव । ब्रह्महेव ब्रह्महत्याकारीव । हा अतीव कष्टं प्राप्तं मम । इदानीं तु श्वसन्नपि जीवन्नपि मृत एव मृततुल्य एवेति । यद्वा ब्रह्महेव अहमपि मृतः श्वसन् दीर्घश्वासमुत्सृजन् कान् कुत्सितानेव लोकान् गमिष्यामि । हा कष्टमेतदिति सम्बन्धः ॥ १६ ॥
दैवमप्यनृतं वक्ति न मर्त्या एव केवलम् ।
यद्विस्रम्भादहं पापः स्वसुर्निहतवान् सुतान् ॥ १७ ॥
सत्यधर्मीया
देव्या मोहनायोक्तं विश्वस्य, अस्यास्त्वामष्टमो गर्भो हन्ता यां नयसेऽबुधेति दैवी वागप्यन्यथा जातेति मत्वा स्वं कुत्सयति ॥ दैवमिति । अहं स्वसुः शोभना असवो यस्याः सा भगिनीति मत्वेति च ॥ १७ ॥
सुमनोरञ्जिनी
केवलं मर्त्या एव अनृतं वदन्तीति न किन्तु दैवमपि विधिरप्यनृतं वक्ति । यद्विस्रंभाद् यस्मिन् दैववचने विस्रंभाद् विश्वासात् । पापो ऽहं स्वसुः सुतान् निहतवानिति योजना
॥ १७ ॥
मा शोचेथां महाभागावात्मजान् स्वकृतम्भुजः ।
जन्तवो न सदैकत्र दैवाधीनाः सहासते ॥ १८ ॥
पदरत्नावली
स्वकृतम्भुजः स्वकृतादृष्टभुज इति यत् तन्मा शोचेथाम् । इतोऽपि शोको न कर्तव्य इत्याह जन्तव इति । जन्तवः प्राणिनः ॥ १८ ॥
सत्यधर्मीया
स्वकृतं स्वकर्मफलं भुञ्जत इति भुजस्तान् जन्तवः प्राणिनः सदैकत्र सह नासते । तत्र तन्त्रं दैवाधीना इति ॥ १८ ॥
सुमनोरञ्जिनी
हे महाभागौ युवाम् । स्वकृतं स्वैः स्वैः कृतकर्मफलं भुज आत्मजान् उद्दिश्य मा शोचेथाम् । भवदात्मजमरणं मन्निमित्तशोकं मा कुरुतम् । कुतः । यतो जन्तवः जन्य-शरीरिणः सदा सह मिलित्वा नैवासते । तदपि कुतः । यतो दैवाधीना अदृष्टनियामकभगवदधीनाः । नन्वसुरस्वभावस्य कंसस्य कथमीदृशी शुभबुद्धिः । यदि च बन्धुत्वस्मरणात् तर्हि कुतो वा पूर्वं बालहननादौ प्रवृत्त इत्यधिकारिमनोगतामाशङ्कामाचार्यचरणाः परिहरन्ति ॥ पूतनेत्यादिना ॥
पूतनाकंसनरकशिशुपालादिषु द्विधा ।
जीवाः सन्तस्त्वसन्तश्च तत्र बन्ध्वादिरूपिणः ।
विष्णोः सन्त इति ज्ञेया असन्तः शत्रुरूपिणः ।
शुभजीवप्रकाशेन कदाचिच्छुभबुद्धयः ।
विपर्ययेऽन्यथा च स्युः शुभास्तत्र हरिं ययुः ।
असुराश्च तमो घोरं यदि तत्रैव मध्यमाः ।
मध्यमां गतिमेवापुरेकदेहंगता अपि ॥ इति गारुडे ।
अयमर्थः । पूतनादिशरीरेषु सन्तो मोक्षयोग्या असन्तस्तदयोग्याश्चेति द्विविधा जीवाः सन्ति । तेन मध्यमानामपि सङ्ग्रहः । एतत्कथं ज्ञायत इत्यतः स्नेहविशेषादेवावगन्तव्यमित्याह ॥ तत्रेति ॥ तत्र तेषां मध्ये विष्णोर्ये बन्ध्वादिरूपिणः विष्णौ अतिशयस्नेहयुक्तास् ते सन्त इति ज्ञेयाः । ये तु शत्रुरूपिणः द्वेषयुतास्तेऽसन्त इति ज्ञेया इत्यर्थः । एवंस्थिते, शुभजीवस्य प्रकाश उन्मेषणं तेन । कदाचित् शुभबुद्धयः स्युः । विपर्यये अशुभजीवस्य प्रकाशेन । अन्यथा च अशुभबुद्धयश्च स्युः । शुभजीवप्रकाशेन तन्मनोनियामका देवा असुरान्प्रतिबध्य स्वनियम्यतत्त्वे शुभामेव बुद्धिं जनयन्ति । अशुभजीवप्रकाशे च तन्मनोनियामकदैत्या एव अशुभबुद्धिमुत्पादयन्ति । तदा तु देवा असुराणां साधनपूर्तये स्वव्यापारं न कुर्वन्तीति भावः । ननु शुभाशुभजीवयोरेकदेहगतत्वात्किमेकविधैव गतिः । नेत्याह ॥ तत्रेति ॥ तत्र तेषु द्विविधजीवेषु मध्ये शुभाः कंसादिषु स्थिता अन्ते श्रीहरिमेव ययुः । यदि तत्रैव द्विविधजीवेष्वेव मध्यमा नित्यसंसारिणः सन्ति तर्हि ते मध्यमाः सुखदुःखमिश्रामेव गतिम् आपुरिति । अतः कंसाविष्टस्य भृगोः शुभजीवत्वात्तस्यैवेयं बुद्धिः । पूर्वा तु कालनेमिसंज्ञकासुरस्येति भावः ॥ १८ ॥
भुवि भौमानि भूतानि यथाऽऽयान्त्यपयान्ति च ।
नायमात्मा तथैतेषु विपर्येति यथैव भूः ॥ १९ ॥
तात्पर्यम्
अयमात्मा परमात्मा । यतः परमात्मनो नैकविधमैक्यं विपरीतज्ञानेन यतश्च संसृतिर्न निवर्तते । स एव न विपर्येति । पुत्रादिकं तु विपर्येति ॥ १९,२० ॥
पदरत्नावली
देहस्यागमापगमयोः सतोरपि देहस्थस्य परमात्मनो न तौ स्त इति दृष्टान्तेनोपपादयति भुवीति । यथा भुवि भौमानि पार्थिवद्रव्याणि भूतानि चतुर्विधानि उत्पत्तिकाले आयान्ति नाशकाले अपयान्ति च तथा जन्तवोऽपि आयान्त्यपयान्ति चेति न सदैकत्र सहाऽऽसत इति पूर्वेण योजना । इत्थं पार्थिवपदार्थेषु विपर्ययवत्सु सत्स्वपि तदाश्रयभूता पृथिवी यथा नागमापाय-वती, तथैतेष्वनन्तजन्तुषु सदा विपर्ययवत्सु सत्स्वपि सर्वभूताश्रयभूतोऽयमात्मा परमात्मा न विपर्येति आगमापायौ नाप्नोतीति यावत् । यद्वा यथा भूतानि उद्भूतानि भौमानि रजांसि आयान्त्यपयान्ति च, वायुनेति शेषः । अयमात्मा परमात्मा तथा न, अनन्याधीनत्वात् ॥ १९ ॥
सत्यधर्मीया
भुवि भौमानीत्यादिश्लोकद्विके भूतान्यायान्त्यपयान्ति तथैव तच्छरीरस्थो ना पुमानात्मा जीवो विपर्येति चैतन्यात्मा दुःखादिमान् भवति । केनेत्यत आह ॥ यतोऽनेकविधो भेद इति । भेदस्तद्भ्रमस्तद्विपर्ययेण च देहयोगवियोगाद्यात्मा संसारो न निवर्तत इति भेदज्ञानं संसारसाधनमुच्यत इत्यन्यथाप्रतीतिप्रतीकारं तत्तात्पर्यवर्णनेन करोति ॥ अयमात्मेति ॥ नात्मशब्दो जीवपरः किन्तु परमात्मपरः । भुवि यथा भौमानि भूतानि यान्त्यपयान्ति यथाऽयमात्मेषु भूतेष्वागतेषु न विपर्येति । भूरि वाव तिष्ठत इत्यात्मा च जीव इत्यन्यथाप्रतीतिनिरासायात्मपदार्थमाहेत्यवतार-यन्ति । यतो द्वयवाच्यः परमात्मेव । यतः परमात्मनः सकाशादेवानेकविधम्, ‘अहं भोगी, सिद्धोऽहं बलवान्सुखी । आढ्योऽभिजनवानस्मि कोऽन्योऽस्ति सदृशो मये’त्याद्यनेकविधमैक्यं यतश्च तस्मादेवं विपर्ययो विपरि विपरीतोऽयोऽयतेर्गत्यर्थत्वेन ज्ञानमर्थः । ततश्च विपर्ययो विपरीतज्ञानमिति लभ्यते । तृतीयान्तविवरणेन विपर्यये इत्यस्य तृतीयान्ततया विपरिणामो यत इत्यस्यावृत्त्या विपर्ययो भवति यतश्चेति सार्वविभक्तिकस्तसिरिति तृतीयान्तत्वेनेति विपरिणतस्य विपरीतज्ञानेन करणेन यतश्च परमात्मानं संसृतिर्देहयोगवियोगरूपिणी न विपर्येति । स एव भगवान्न निवर्तते । तर्हि को निवर्तत इत्यत आह ॥ पुत्रादिकं त्विति ॥ आत्मशब्दः पुत्रादिपरोऽपीति दर्शयति । विपर्येती-त्यावृत्त्याऽन्वेतव्यमित्याह ॥ विपर्येतीति ॥
अथ मूलार्थः ॥ देहस्यागमापगमयोः सतोरन्तःस्थस्य भगवतोऽपि तौ स्यातामित्यत-स्तात्कालिकापायविधुरां धरां स्थूलदृष्टिविवक्षया दृष्टान्तीकृत्य भगवतस्तावित्याह ॥ भुवीति ॥ यथा भौमानि भूतानि पार्थिवान्युत्पत्तिकाले आयान्ति लयकालेऽपयान्ति च । न च भूरागमापायवती यथा तथाऽयमात्मा परमात्मा भूतेषु विपर्ययवत्सु सत्स्वपि न विपर्येति । यतः परमात्मनः सकाशादनेकविधोऽभेदो मानेन वक्ष्यति । तदनेकविधा ताम् । अभेदो यतः परात्मन एव । आत्मविपर्ययो मिथ्याज्ञानेन । प्रथमा तृतीयार्थे । यतो येन विपरीतज्ञानेन प्राप्तो देहयोगवियोगश्चेति संसृतिर्न निवर्तते । आत्मविपर्यय आत्मनः पुत्रादेर्विपर्ययोऽपि यतो भवतीत्यावृत्त्याऽन्वयः । आत्मविपर्यय आत्मनः स्वदेहस्य विपर्ययः पुत्रीभवनं तदात्मविपर्ययः पितृत्वादिकं च भवतीत्यन्वेतव्यम् ॥ १९,२० ॥
सुमनोरञ्जिनी
देवशब्दोदितपरमात्मनोऽपि यदा जनिमृती तदा कथं तस्य प्रेरकतेत्यत आह ॥ भुवीति ॥ भौमानि पार्थिवानि वृक्षादीनि यथा आयान्ति उत्पद्यन्ते अपयान्ति नश्यन्ति तथा भूतानि प्राणिनोऽपि आयान्त्यपयान्ति च । एतेषु भौमेषु विपर्यत्सु अपि भूर् भूमिर् यथा न विपर्येति नागमापायौ प्राप्नोति तथाऽयमात्मा दैवशब्देन प्रकृतः परमात्मा नैव विपर्येति । नैवागमापायौ प्राप्नोतीति योजना । तात्पर्ये अयमात्मेति मूलस्थं पदमनूद्य परमात्मेति व्याख्यानादेषोऽर्थोऽवगम्यते
॥ १९ ॥
यतोऽनेकविधोऽभेदो यत आत्मविपर्ययः ।
देहयोगवियोगश्च संसृतिर्न निवर्तते ॥ २० ॥
तस्माद्भद्रे स्वतनयान् मया व्यापादितानपि ।
माऽनुशोच यतः सर्वः स्वकृतं विन्दतेऽवशः ॥ २१ ॥
यावद् हतोऽस्मि हन्ताऽस्मीत्यात्मानं मन्यतेऽस्वदृक् ।
तावत् तदभिमान्यज्ञो बाध्यबाधकतामियात् ॥ २२ ॥
तात्पर्यम्
**तस्मात्तस्मिन्नेव स्थितिं कृत्वा माऽनुशोच ॥ ‘अहं ब्रह्मास्मि देवोऽस्मि नास्मि केवलमानुषः । जातोऽस्मि वर्धे धनवान्म्रिय १इत्यादिका सदा । देहादिषु च देवेषु परे ब्रह्मणि २चाभिदा । मोहाद्यन्मायया नित्यं ३दृश्यतेऽधमध्यमे । स ईशो न विपर्येति सर्वेशत्वात्कदाचन । पुत्रादिकं विपर्येति ४पुत्रादिश्च यतो भवेदि’ति ब्राह्मे ॥ ‘तल्लक्षणैर्विहीनः सन्ब्रह्मदेवोऽस्मि चेति तु । असुराः प्रतिपद्यन्ते ५जन्मादीन्मानुषा जना’ इति च ॥ ‘परब्रह्मण एकस्य ब्रह्मास्मीति विचिन्तनम् । परं ब्रह्मेति ६रामादिं लक्षणैरवधारयेत् । देवोऽस्मीति च देवानां तच्च ज्ञेयं स्वलक्षणैः । मर्त्यानां मानुषोऽ-स्मीति प्रतिपत्तिर्विधीयते । अन्यथाप्रतिपत्त्या तु तमो यान्ति विनिश्चयात् । अन्यथा प्रतिपद्यन्ते आसुरा नियतं जनाः । घोरं तमश्च ते यान्ति ७तथा ज्ञानात्परं सुरा’ इति च **
॥ २१,२२ ॥
पदरत्नावली
भौमभूतागमापगमवत् पुत्रादिकं विपर्येति, भुव आगमापायाभाववत् परमात्मा न विपर्येतीति यदि तर्हीदं ज्ञानमस्माकं कस्मान्नोदेतीति चेद् भगवन्मायया मुग्धचेतस्त्वेन परमात्मादिविषयाभेदज्ञानबाहुल्यान् नोदेतीति मन्तव्यम् । अनेनानेकविधाभेदज्ञानेन संसारानिवृत्तिस्तमःप्राप्तिश्च स्यातामित्याह यत इति । यतः परमात्मनः सकाशात् स्वपरविवेकबुद्ध्युत्पत्तिं प्रति प्रतिबन्धकत्वेन परमात्मादिविषयकोऽभेदोऽनेकविधोऽहं ब्रह्मास्मि देवोऽस्मीत्यादिको जीवस्य प्रतीयते, तेन विपरीतज्ञानेन देहयोगवियोगलक्षणा वास्तवी संसृतिर्न निवर्तते, स एव परमात्मा न विपर्येति । पुत्रादिकं तु पितृत्वादिना विपर्येति । आत्मविपर्ययः स्वस्य तम आद्यनर्थप्राप्तिश्च यतस्तस्मात् तस्मिन् अविपर्यस्ते परमात्मन्येव स्थितिं कृत्वा हरिरेव तत्तत्कर्मानुसारेण हननादिकर्तेति निष्ठां कृत्वा मानुशोचेत्यन्वयः ।
‘अहं ब्रह्मास्मि देवोऽस्मि नास्मि केवलमानुषः ।
जातोऽस्मि वर्द्धे धनवान् म्रिय इत्यादिकः सदा ।
देहादिषु च देवेषु परब्रह्मणि चाभिदा ।
मोहाद्यन्मायया नित्यं दृश्यतेऽधममध्यमे ।
स ईशो न विपर्येति सर्वेशत्वात्कदाचन ।
पुत्रादिकं विपर्येति पित्रादिश्च यतो भवेत् ॥’
इति ब्राह्मवचनैः सिद्धोऽयमर्थः । अभेदप्रतीतिरसुरजातेरेव ।
‘तल्लक्षणैर्विहीनः सन् ब्रह्म देवोऽस्मि वापि तु ।
असुराः प्रतिपद्यन्ते जन्मादिं मानुषा जनाः ॥’
इत्यादेः । सर्वः स्वकृतं सुकृतं भुङ्क्ते इति यस्मात् तस्मात् । ‘अहं ब्रह्मास्मि’ इत्यादिचिन्तनं तर्हि कस्येति चेत् ‘एकमेवाद्वितीयं ब्रह्म’ ‘तद् ब्रह्म वेदाहं ब्रह्मास्मि’ इत्यादेरेकस्य परब्रह्मणो ब्रह्मास्मीति विचिन्तनं, तथा ब्रह्मरुद्रेन्द्रादिपदयोग्यलक्षणोपेतदेवानां ब्रह्मादिरस्मि देवोऽस्मीति चिन्तनं, मर्त्यानां च मानुषोऽस्मीति चिन्तनं युक्तमित्येतमर्थं गारुडोक्त्या स्पष्टयन्त्याचार्याः परब्रह्मण इति ।
‘परब्रह्मण एकस्य ब्रह्मास्मीति विचिन्तनम् ।
परं ब्रह्मेति रामादीन् लक्षणैरवधारयेत् ।
देवोऽस्मीति च देवानां तच्च ज्ञेयं स्वलक्षणैः ।
मर्त्यानां मानुषोऽस्मीति प्रतिपत्तिर्विधीयते ।
अन्यथाप्रतिपत्या तु तमो यान्ति विनिश्चयात् ।
अन्यथा प्रतिपद्यन्त आसुरा नियतं जनाः ।
घोरं तमश्च ते यान्ति तथा ज्ञानात् परं सुराः ॥’ इति ।
सर्वः देवादिश्च स्वकृतं देवोऽस्मीत्यादियथार्थज्ञानफलं भुङ्क्ते अवशो विष्ण्वधीनः ॥
तर्ह्यस्य कियन्तं कालं संसारानुवृत्तिरिति तत्राह यावदिति । अस्वदृक् अनात्मानं देहमात्मत्वेन पश्यतीति तदभिमानी देहाभिमानी यावदहं हन्तास्मि अहं हतोऽस्मीत्यात्मानं मन्यते तावदज्ञोऽयं बाध्यबाधकतां बाध्यत्वं बाधकत्वं चेयादाप्नुयात् ॥ २०-२२ ॥
सत्यधर्मीया
तस्माद्भद्रे स्वतनयानिति श्लोकेऽवशः स्वकृतं विन्दते सर्वो जन इति कर्मस्वातन्त्र्यं प्रतीयते । तनयानां कर्माधीनमृतिज्ञानेन देवक्या शोकोऽकर्तव्यश्च कथमित्यतस्तस्यापि यः प्रेरकस्तस्मिन् स्थिरमतिश्चेत्सर्वं सुघटमित्याह ॥ तस्मादिति । तस्मात्परमात्मनो विपर्यासात्तस्मिन्नविपर्यस्ते भगवति स्थितिं, स एव तत्तत्कर्मानुसारेण हननादिकर्तेति निष्ठां कृत्वा माऽनुशोच न शोकं कुरु ॥ ततश्चायं श्लोकार्थः ॥ हे भद्रे सप्तमी तादर्थ्ये वा । मङ्गलार्थम् । मया स्थूलदृष्ट्या व्यापादितान्संहृतान्स्वतनयानपि ततो माऽनुशोच नानुशोच । अवशो विष्णुवशः सर्वो जनो यतः स्वकृतं विन्दते । भद्रे नित्यमङ्गलमूर्तौ । अपिना स्थितिं कृत्वा माऽनुशोचेति वा । भद्रे भगवत्यनेकविधो लोकदृष्ट्या रामोऽहं सुख्यहं स्वतन्त्रोऽहमित्यादिभेदोऽने प्राणे तदुपलक्षितऋजुगणे कविधोऽभेदो ब्रह्माहं स्यामित्यादिरूपः । एवं सर्वः शर्वः । एवं सर्वस्तत्त-त्पदयोग्यस्तत्तत्पदमाकाङ्क्षन्स्वकृतं सु अकृतं क्लृप्तमित्यकृतं तत्परं विन्दत इत्यतस्तात्पर्यानु-सारेणार्थोऽवधेयः । तस्मादपरिहार्यार्थे न त्वं शोचितुमर्हसीति तात्पर्यं ज्ञेयम् । मया व्यापादिताः स्वतनया मत्पुत्रा एवेति माऽनुशोच इत्ययं ग्रन्थकृदान्तरङ्गिक उत्तरार्धे वक्ष्यमाणरीत्या भावोऽवसेयः
॥ २१ ॥
स्वयं श्लोकत्रिकं व्याकृत्यानेकविधतामभेदस्य दर्शयन्मानेन तेनैव स्वोक्तार्थं द्रढयति ॥ अहं ब्रह्मास्मीत्यादिना । अहं ब्रह्मास्मीत्येकविधमैक्यं केवलमानुषो यादृशतादृशमानुषो नास्म्यपि तु मनुष्योत्तम इत्येकविधं, जातो वर्धे धनवान्म्रिये इत्येकविधम् । आदिपदादहङ्कारादेर्ग्रहणम् । यद्यप्यहं ब्रह्मास्मीत्याद्यनुरोधेन परब्रह्मणि देवेषु देहादिष्विति वक्तव्यम् । तथा देहे जातोऽस्मीत्या-द्यभेदाकारबाहुविध्योपपादनात्तदनुपदमेव देहादिष्विति निरूपणं युक्तमिति व्युत्क्रमोक्तिर्यथायोग्यमन्वयः । अहं ब्रह्मास्मि देवोऽस्मीति परब्रह्मणि । देवेषु तद्विषयेऽभिदाऽभेदधीर्देहादिषु च साऽनुमानागमा-भासजन्या । देहे तद्धर्मेषु न प्रात्यक्षिकी सा । यथोक्तं भक्तिपादीयानुव्याख्यानसुधयोः ।
क्वचित्प्रत्यक्षतः प्राप्तमनुमागमबाधितम् ।
देहात्मत्वं यदि न तत्प्राप्तं प्रत्यक्षतः क्वचित् ।
मम देह इति ह्येव न देहोऽहमिति प्रमा ।
उपचारतश्च कृष्णोऽहमिति कर्दमलेपने ।
वस्त्रस्य यद्वदेवं स्यात् …..
इत्यादीकृत्य क्षमा इत्यन्तेन ग्रन्थेन । देहात्मत्वं प्रत्यक्षप्राप्तमेव न भवति । अतः प्रत्यक्षतः प्राप्तस्यानुमानाबाध इत्यत्र नेदमुदाहरणम् ।
अयमभिसन्धिः । नास्त्येव देहात्मत्वप्रतीतिर्याऽनुमानादिना बाध्येत । येषां चास्ति नास्तिकादीनां तेषामपि नेन्द्रियजा किन्त्वनुमानागमाभासजन्यैवेति । मा भूत्पण्डितरूपाणां देहात्मत्वप्रतीतिः पामराणामस्त्येव । सैवास्माकमुदाहरणं भविष्यतीत्यतः क्वचिदित्युक्तम् । तदुपपादयति ॥ ममेति ॥ सर्वस्यापि जन्तोर्मम देह इत्येव हि प्रमाप्रतीतिर्न तु कस्यापि देहोऽहमिति । यद्वा यस्मात्सर्वेषां मम देह इत्येव प्रमा सम्यक्प्रतीतिः सदाऽनुवर्तते तस्माद्देहोऽहमिति प्रतीतिर्नावकाशमासादयतीति । देहात्मप्रतीत्यभावेऽपि देहधर्माणां कार्ष्ण्यादीनामात्मनिष्ठत्वप्रतीतिस्तावदस्त्येव । कृष्णोऽहमित्यादि-व्यवहारदर्शनात् । सा च लिङ्गाद्यनपेक्षयैव जायमाना प्रत्यक्षजन्यैव । बाध्यते चानुमानादिनेति सैवोदाहरणं भविष्यतीत्यत आह ॥ उपचारतश्चेति ॥ कृष्णोऽहमिति प्रतीतिर्नास्तीत्यनुवर्तते । कथं तर्हि व्यवहारः कृष्णोऽहमिति । व्यवहारस्तूपचार एवेति योजनेत्यादिना तदेवं स्वभावतः प्रबलेन प्रत्यक्षेण विरुद्धावनुमानागमाभासावेवेत्यन्तेन ग्रन्थेन । अधमश्च मध्यमश्च । सर्वो द्वन्द्व इत्येकवद्भावः । अधमेन सहितो मध्यमस्तस्मिन्निति वा । यन्मायया यस्य भगवत इच्छया तत्कृतो यो मोहस्तस्मादधममध्यमे दृश्येते । अनुमानागमाभासैः सः स्वेच्छानिमित्तकमोहादभिदामतिदाता कदाचन स्वयं न विपर्येति । ईश इत्यतिप्रसक्तम् । जीवादेरपि प्रभुर्हि जीवो जडमपेक्ष्य सोऽपि स्वतनुभवनादेरीष्ट इत्यादेरित्यतो मानं स्वगतमीशपदं वक्त्येतादृशेशस्त्वमिति स्वयमेव व्याकरोति ॥ सर्वेशत्वादिति ॥ यद्यपि मध्यमाधम इति वक्तव्यं तथाऽपि ते च बहवः, असुरा बहुला यस्मादित्यादेर्मध्यमा न्यूना इति च द्योतयितुमेवमुक्तिरिति मन्तव्यम् । आत्मविपर्ययपदस्यार्थान्तरमाह ॥ पुत्रादिकं विपर्येतीति ॥
तद्विवृणोति ॥ पुत्रादिश्च यतो भवेदिति । पुत्रस्य पुत्रे जाते पिता भवति तस्य च पुनरपत्योत्पत्तौ पितामह इत्यादिप्रकारेण पुत्रादिकं विपर्येति व्यवस्थां न भजत इति । अहं ब्रह्माऽहं देव इत्यादिनाऽभेदधियो यन्मोहजत्वमुक्तं तदयुक्तम् । ब्रह्मणो ब्रह्माऽहं देवस्य देवोऽहमिति मतिरपि मोहजा जायेत । इदं च मानावमानितम् । किञ्चाधमेन सह द्वन्द्वनिर्दिष्टमध्यमस्याधमसमता स्यात्सा चानुपपन्नेत्यतः प्रमाणेन तदर्थमाह ॥ तल्लक्षणैरिति ॥ तुरधमासुरादेर्मध्यमस्याहं ब्रह्मास्मीत्या-द्यभिदामतिफलतमोयोग्यत्वाभावविशेषद्योतकः । तल्लक्षणैर्ब्रह्मदेवादिलक्षणैर्विहीनः सन्नपि ब्रह्मा देवो वाऽस्मीत्यसुराः प्रतिपद्यन्ते । प्रातिस्विकं पृथक् प्रतिपत्तिरित्येकवचनं विहीनः सन्निति । ते सर्वेऽप्येकफलका इति द्योतयितुमसुरा इति बहुवचनमिति ज्ञेयम् । एवमुत्तरत्रापि । मानुषा जना जन्मादिं जातोऽस्मि वर्धे धनवानित्यादिं प्रतिपद्यन्ते । अनेनातल्लक्षणः स्वयं सन् तत्त्वेन प्रतिपत्ता मोहवांस्तल्लक्षणयुतास्तत्त्वेनात्मानं प्रतिपत्तारस्तु तत्त्वज्ञा इति तच्छङ्कापरास आसेति ज्ञेयम् ।
एतमर्थं स्पष्टं दर्शयन्मानमाह ॥ परब्रह्मण इति ॥ एकमेवाद्वितीयमित्यादेरेकस्य परब्रह्मणो ब्रह्माऽस्मीति विचिन्तनं न मोहजम् । लक्षणलक्षितत्वात् । तानि चैवं ज्ञेयानीत्याह ॥ परं ब्रह्मेति ॥ रामादिं भगवदवतारम् । लक्षणैस्तदसाधारणैश्चिह्नैस्तृणास्त्रीकरणविश्वरूपप्रदर्शनादिभिः । परब्रह्मेति आगमिकजन्मादिलक्षणैर्वा । अवधारयेत् । आदिपदेन वासुदेवादयो ग्राह्याः । स्वलक्षणैः शास्त्रशंसित-तल्लक्षणैर्युतानां देवानां देवोऽस्मीति विचिन्तनं न दोषावहम् । स्वलक्षणैर्ब्रह्मादिपदयोग्यलक्षणै-र्युतानामृज्वादीनां ब्रह्मादिरस्मीति विचिन्तनमिति वा । एवं मर्त्यानां मानुषोऽस्मीति प्रतिपत्तिर्विधीयते ।
आद्यकक्ष्यायाः फलमाह ॥ अन्यथेति ॥ अब्रह्मलक्षणकेषु स्वेषु तत्त्वप्रतिपत्त्या विनिश्चयात्तमो यान्ति । तानपि निर्धारयितुं पुनराह ॥ अन्यथेति ॥ असुरजना इत्यन्वयः । ज्ञानात्सम्यग्ज्ञानात्परं परमात्मानं सुरा यथा तथा नियतं प्रतिपद्यन्ते नियतं तमश्च घोरं यान्ति । अत्र केचित्प्रमाणान्तरेण स्पष्टयन्नैक्यबुद्धीनां च फलं दर्शयति । परब्रह्मण एकस्येत्यवतारयन्नुपसंहरत्यन्यथेतीति केचित् । पृथगभिधानानभिधानाद्ब्रह्मपुराणभागविशेषगतमिति चेत्यन्तवाक्यद्वन्द्वमित्यद्वन्द्वोऽध्वा ॥
अथ मूलार्थः ॥ कंसः संसारानुवृत्तिः कियत्पर्यन्तमित्यतः शंसति ॥ यावदिति ॥ अस्वदृक्, अस्वं वस्तुतो देहादिकं स्वं पश्यतीति । तदभिमानी निन्दिताभिमानवान् । यावदहं हन्ताऽस्मि अहं हतोऽस्मीत्यात्मानं मन्यते तावदज्ञोऽयं बाध्यबाधकतां बाध्यत्वं बाधकत्वं चेयात्प्राप्नुयात् । परमार्थस्तु नाहं हन्ता ते तनयाश्च न मया व्यापादिताः । अतस्त्वया न शोकः कार्य इति कंसवचसो ज्ञेयः । सु अत्यन्ताज्ञ इति वा ॥ २२ ॥
सुमनोरञ्जिनी
कुतो न विपर्येतीत्यत आह ॥ यतोऽनेकविध इति । अयोग्यानामिति शेषः । आत्मविपर्यय आत्माधिष्ठानकभ्रमविषयः । भ्रमश्च अहं ब्रह्माऽस्मि, अहं देवोऽस्मि, अहं जातः । अहं वर्धे । धनवान् । अहं म्रिये इत्यादिरूपः । एतादृशभ्रमविषयोऽनेकविधोऽभेदः । आत्मनः स्वस्य विपर्ययो नरकादिर्यस्मात्तादृगनेकविधोऽभेद ऐक्यज्ञानमिति वा । नरकाद्यनर्थ-साधनमैक्यज्ञानमिति यावत् । यद्वाऽनेकविधोऽभेदः । ब्रह्मैक्यम् । देवैक्यम् । देहैक्यमित्यादिरूपेण नानाप्रकारः । तथा साधनानेकविधाभेदप्रकारमिथ्याज्ञानमिति यावत् । यतः यस्मात्परमात्मन एव भवति । अत्रापि मध्यमानामिति शेषः । मध्यमानां च यतो यस्मात्परमात्मन एव । देहयोग-वियोगरूपा वास्तवी संसृतिर्न विपर्येति न निवर्तत इति पूर्वेणान्वयः । नित्यसंसार एव तेषामिति भावः । न निवर्तत इत्यपि क्वचित्पाठः । इदमुपलक्षणम् । सुरा अपि ज्ञानात्परं पदं यस्मात्प्राप्नु-वन्तीत्यपि ग्राह्यम् । एवमुत्तमाधममध्यमभेदेन निखिलजीवानां स्वस्वयोग्यगतिदायकस्य हरेः कथमागमापायौ स्यातामिति भावः । यतः सर्वोऽपि जनो ऽवशो विष्णुवशः सन् स्वकृतं स्वीयकर्मफलमेव विन्दते अनुभवति । तस्मान् मया व्यापादितान् निहतानपि पुत्रान्प्रति मा शोच । किं तु यद्वशादिदं भवति तस्मिन्परमात्मनि निष्ठां कुर्विति । तदेतदभिप्रेत्य व्याख्यातमाचार्यचरणैः–
यतः परमात्मनोऽनेकविधमैक्यं विपरीतज्ञानेन । यतश्च संसृतिर्न निवर्तते । तस्मात्तस्मिन्नेव स्थितिं कृत्वा माऽनुशोच ।
अहं ब्रह्मास्मि देवोऽस्मि नास्मि केवलमानुषः ।
जातोऽस्मि वर्धे धनवान् म्रिय इत्यादिकाः सदा ॥
देहादिषु च देवेषु परे ब्रह्मणि चाभिधाः ।
मोहाद्यन्मायया नित्यं दृश्यन्तेऽधममध्यमे ॥
स ईशो न विपर्येति सर्वेशत्वात्कदाचन ।
पुत्रादिकं विपर्येति पुत्रादिश्च यतो भवेत् ॥ इति ब्राह्मे ।
तल्लक्षणैर्विहीनः सन् ब्रह्मदेवोऽस्मि चेति तु ।
असुराः प्रतिपद्यन्ते जन्यादिं मानुषा जनाः ॥ इति च ।
परब्रह्मण एकस्य ब्रह्मास्मीति विचिन्तनम् ।
परं ब्रह्मेति रामादिं लक्षणैरवधारयेत् ।
देवोऽस्मीति च देवानां तच्च ज्ञेयं स्वलक्षणैः ॥
मर्त्यानां मानुषोऽस्मीति प्रतिपत्तिर्विधीयते ।
अन्यथाप्रतिपत्या तु तमो यान्ति विनिश्चयात् ॥
अन्यथा प्रतिपद्यन्ते असुरा नियतं जनाः ।
घोरं तमश्च ते यांति यथा ज्ञानात् परं सुराः ॥ इति च ।
अयमर्थः । विपरीतज्ञानेन विषयीकृतमनेकविधमैक्यम् । यतो यस्मात्परमात्मन इत्यनेनात्म-विपर्ययोऽनेकविधोऽभेद इति सामानाधिकरण्यम् । आत्माधिष्ठानकः विपर्ययो यस्य यद्विषयक इति विग्रहश्च सूचितो भवति । यतश्च परमात्मनः सकाशात् संसृतिर्न निवर्तते किन्तु पुनः पुनः संसार एवावर्तत इति भावः । अनेनोत्तरार्धं विवृतम् । यस्मात् कर्मफलदाता हरिरेव तस्मात् तस्मिन्नेव निष्ठां तद्विषयिणीं बुद्धिं कृत्वा माऽनुशोच । जीवकृतं स्वाधीनं कर्म निमित्तीकृत्य श्रीहरिरेव तत्फलं सुखदुःखादिकं प्रापयतीति बुद्ध्या शोकं जहीति भाव इति भावः । अनेकविधोऽभेद इति यदस्यानेकविधत्वमुक्तं तद्विवृण्वन् पूर्वेणान्वयं च प्रमाणेन प्रदर्शयति ॥ अहं ब्रह्मेति ॥ अहं ब्रह्मेति भ्रमविषयत्वमेका विधा । देवोऽस्मीत्यपरा । नास्मीत्यन्या । जातोऽस्मीत्यादिना पुनश्चतुर्थीति विधा ज्ञेयाः । इत्यादिका इत्यादिविपर्ययविषयाः । यद्वा इत्यादिका इत्यादिरूपा ॥ देहादिष्विति ॥ अत्र देहादिष्विति सप्तमी पञ्चम्यर्थे । द्वितीयार्थे तृतीयार्थे पञ्चम्यर्थे च सप्तमी । चतुर्थ्यर्थे चेत्यत्रैवाचार्यैरुदाहरिष्यमाणवचनात् । पूर्वोक्तविपर्ययगोचरा । देहादिषु देहादिभ्यः । आदिना ऋष्यादिभ्यः । देवेषु देवेभ्यः । ब्रह्मणि ब्रह्मणश्च याः पञ्चभिदा ऐक्यानि । अत्र देहैक्यभ्रमो नाम देहात्स्पुटतरविवेकाभावो बोध्यः न तु देहात्मभ्रमः । मम देह इति ह्येव न देहोऽहमिति प्रमा । इत्यादिनाऽऽचार्यैरेवान्यत्र देहात्मभ्रमस्य निरस्तत्वात् । अधममध्यमे अधमसहितमध्यमे । अत्र सप्तमी तृतीयार्थे । तत्राधमेन ब्रह्माद्यैक्यं मध्यमेन देहैक्यं दृश्यत इति विवेकः ।
स ईश इत्यनेनास्य श्लोकस्य नायमात्मा विपर्येतीति पूर्वेणान्वयः प्रदर्शितः । मया व्यापादितान्स्वतनयान्मा शोचेति गूढाभिसन्ध्या वदतः कंसस्याभिप्रायं व्यञ्जयितुमाह ॥ कदाचनेति ॥ कदाचन, अद्य वा कालान्तरे वा पुत्रादिकं पित्रादिश्च विपर्येति नश्यति । कुतः । यतो भवेद् उत्पद्यते । उत्पत्तिमतो नाशनियमात् । पुत्रादिकं यतो भवेत् स पित्रादिरिति वा । इत्थं च त्वत्पुत्राणां पित्रादिस्थानापन्नानामस्मदादीनां च कालविशेषे विपर्यासस्य नियतत्वान् मृतपुत्रान् प्रति शोको न कार्य इति अभिसन्धिरिति भावः । अनेन स एव न विपर्येतीति स्वोक्तावधारणव्यावर्त्यं प्रदर्शितं भवति । ननु अहं ब्रह्मास्मीत्यादिप्रतीतीनां भ्रमत्वमेव कुतः प्रमात्वं किं न स्यादित्यतो भ्रमत्वमुपपादयति ॥ तल्लक्षणैरिति ॥ तल्लक्षणैस् तेषां ब्रह्मादीनां लक्षणैः स्वातन्त्र्यादिभिर् विहीनः सन् । एकवचनं बहुवचनार्थे । तुरवधारणे । विहीनाः सन्त एव । ब्रह्मास्मि देवोऽस्मीति वा असुराः प्रतिपद्यन्ते । मानुषा मध्यमजीवा देहलक्षणैर्विहीनाः सन्तो देहगतं जन्यादिस्वात्मसु प्रतिपद्यन्ते । अतो भ्रान्ता इति भावः ।
नन्वहं ब्रह्मास्मि देवोऽस्मीत्यादिप्रतीतेर्भ्रान्तित्वे रामकृष्णादीनामहं ब्रह्मास्मीत्याद्यनुचिन्तनं शास्त्रे प्रतिपाद्यते तन्न स्यात् । न हि रामकृष्णादयो भ्रान्ता भवन्तीत्यत आह ॥ परब्रह्मण इति ॥ रामकृष्णादेर्ब्रह्मास्मीति विचिन्तनं विधीयते प्रतिपाद्यते शास्त्रे कुत इत्यत उक्तं परब्रह्मण इति ॥ हेतुगर्भमिदम् । परब्रह्मरूपत्वाद्रामादेरिति । कथं ज्ञेयं रामादेः परब्रह्मत्वमित्यत आह ॥ परब्रह्मेति ॥ रामादि रामकृष्णादिकं रूपम् । लक्षणैर् अप्रतिहतशक्तिमत्वादिरूपलक्षणैः परं ब्रह्मेत्यवधारयेन् निश्चिनुयात् । देवानां ब्रह्मादीनां देवोऽस्मीति चिन्तनं विधीयते । तदपि युक्तमेव । तेषां देवत्वेन प्रतीतेर्भ्रमत्वासंभवात् । तच्च तेषां देवत्वम् । स्वलक्षणैः स्वाभाविकलक्षणैर्ज्ञेयम् । एवं मर्त्यानां मानुषाणां स्वरूपतो मानुषोऽस्मीति चिन्तनमपि न भ्रान्तिरिति आत्मविपर्यय इति मूलस्य प्रकारान्तरेणाभिप्रायं व्यनक्ति ॥ अन्यथेति ॥ असुरा जना नियतं नियमेन अन्यथा प्रतिपद्यन्ते । अतस्ते घोरं तमो यान्तीत्यनेन यतोऽसुराणामनेकविधोऽभेदो ऽभेदभ्रमस् तत्फलतया । आत्मविपर्यय आत्मनो ऽसुरजीवस्य विपर्ययस् तम आद्यनर्थप्राप्तिरूपः यस्मादेव भवतीत्यर्थ उक्तो भवति । इममेवाभिप्रायं मनसि निधाय पदरत्नावली प्रवृत्ता । मूलमुपलक्षणमिति भावेनाह ॥ यथाज्ञानात्परं सुरा इति ॥ यथाज्ञानाद् यथार्थज्ञानात् । सुराः परं परब्रह्मैव यान्तीति ॥
तस्मिन्नेव स्थितिं कृत्वा माऽनुशोचेत्युक्तम् । कीदृशी स्थितिरित्यतः स्वकर्तृत्वानुसन्धानत्यागेन श्रीहरिकर्तृत्वानुसंधानमेवेत्याह ॥ यावदिति ॥ यावद् यावत्कालं हतोऽस्मीति मन्यते । देहधर्मं हतत्वं स्वात्मन्यारोपयति । स्फुटभेदाग्रहात् । यद्वा तेन हतोऽस्मीति अन्यस्मिन् जीवे स्वातन्त्र्यं मन्यत इति । यावच्च हन्ताऽस्मीति स्वस्मिन् स्वातन्त्र्यं मन्यते । कुतः । अस्वदृक् । स्वः परमात्मा तद्विषयिणी या दृष्टिस् तद्रहित इत्यर्थः । सर्वत्र स्थित्वा श्रीहरिरेव स्वातन्त्र्येण कर्तेति ज्ञानशून्य इति यावत् । तदभिमानी हरेरन्यत्र स्वातन्त्र्याभिमानी । अत एवाज्ञो जीवः । तावत् तावत्कालपर्यन्तम् । बाध्यताम् अन्यकृतबाधाजन्यदुःखकृता सूचिताम् । बाधकतां तत्कृतप्रत्यवायं च इयात् प्राप्नुयात् । स्वस्मिन् कर्तृत्वाभिमानपरित्यागेन श्रीहरिकर्तृत्वानुसन्धाने मम त्वत्सुतहनन-प्रत्यवायस् तव मय्यसूयिता च नास्तीति भावः ॥ २०-२२ ॥
क्षमध्वं मम दौरात्म्यं साधवो बन्धुवत्सलाः ।
इत्युक्त्वाऽश्रुमुखः पादौ श्यालस्वस्रोरथाग्रहीत् ॥ २३ ॥
पदरत्नावली
श्यालस्वस्रोर् भगिनीभर्तृभगिन्योः । ‘श्यालस्तु भगिनीभर्ता भार्याभ्राताऽपि कीर्तितः’ इत्युत्पलमाला ॥ २३ ॥
सत्यधर्मीया
साधवो बन्धुवत्सला इति निकटनिविष्टजनानभिलक्ष्य मम दौरात्म्यमियता समयेनानुष्ठितं क्षमध्वमित्युक्तिर्वा । तयोरेव संमाननार्थं बहुत्वारोपेणोक्तिर्वा । शालस्वस्रोरिति पाङ्क्तः पाठोऽनेकेषु कोशेषु दर्शनात् । श्यालश्च स्वसा चेति तयोः । ननु श्यालाः स्युर्भ्रातरः पत्न्या इत्यमरात्कथमयं शालो वसुदेव इति चेत्तर्हि भिन्नपदतायां भिन्नोदरजः कंसोऽपि कथं भगिनीभ्रातेति त्वयाऽपि वाच्यम् । न च वाच्यं पितृव्यतनयाऽपि नयतो भगिनीति । भगिनीभ्राता कंसो भवतीति शङ्कितं नातङ्कितमिति तु भाक्तम् । कंसस्य भगिनीभ्रातृत्वं स्वीकुर्वतां युष्माभिः कंसभार्याऽपि वसुदेवभगिनी जातेति तद्भ्रातृत्वं वसुदेवस्योररीकृतप्रायमिति भारोऽवतारितोऽस्मच्छिरस इत्यवेहि । भिन्नं पदमेकत्र दृष्ट्वा स्वस्रोरिति घटयितुं बहुगहननिविष्टा नाद्यापि पारङ्गताः । पादाविति श्यालस्य स्वसुश्चेति पृथगन्वयनाद्युज्यते । ग्रन्थकृत्कंसोऽङ्गस्मरणविकल इति चरणौ जग्राह ॥ देवकीतो ज्यैष्ठ्यात्तद्ग्रहणं न मया कण्ठतो वाच्यमिति पदानीत्यनुदाजहारेति ध्वनिः ॥ २३ ॥
सुमनोरञ्जिनी
दौरात्म्यं दुष्ट आत्मा मनो यस्य स दुरात्मा । तस्य भावो दौरात्म्यम् । दुर्मनस्कतामित्यर्थः । क्षमध्वम् । कुतो दौरात्म्यं त्वयीति चेत् । ये बन्धुवत्सलास् ते साधवः । अहं च न बन्धुवत्सलः । बन्धुहंतृत्वादतो दुरात्मेति भावः । यद्वा । कुतः । यतो यूयं साधवः । बन्धून् वत्सानिव लान्ति ये तथोक्ताः । वत्सकृतं दौरात्म्यं माता यथा क्षमते तथा यूयमपि क्षमध्वमित्याशयः । शालः शालको वसुदेवः, स्वसा देवकी तयोः ॥ २३ ॥
विरोधोद्धारः
क्षमध्वमिति । अत्रैतत्पद्यपूर्वार्धे देवकीवसुदेवयोः क्षमापनाङ्गीकारे तयोर्द्वित्त्वेन क्षमध्वमित्यादिबहुवचनानुपपत्तिः । न च तयोर्बहुमानार्थं तदिति वाच्यम् । मा शोचतं महाभागावित्यत्र तदभावेनात्रैव तदङ्गीकारस्य नियामकाभावात् । किञ्च स्त्रीपुंसयोरुच्चारणे स्त्रीपूर्वकस्यैव दृष्टत्वात् । श्यालशब्दस्य चानल्पमात्रकत्वात् श्यालस्वस्रोरिति कथम् । अपि च । श्यालशब्दस्य भार्याभ्रातृ-वाचकत्वेन भगिनीभतुर्भामशब्दवाच्यत्वेन च वसुदेवस्य च भार्याभ्रातृत्वाभावेऽपि कथं श्याल-शब्दवाच्यत्वम् । अतोऽनेकविधविरोधोऽत उच्यते । ननु आवयोस्त्वद्दुरात्मतासहनेन शोकाभावेऽपि बाधकस्य दुःखमजानतस्तव बाध्यानामस्मत्पुत्राणां षण्णां मृतिजन्यदुःखप्रापकत्वात्कथं ते तव दुरात्मतां सहेयुरिति चेत् । तानेव क्षमापयामीत्याशयेन तान्स्वमनस्यभिमुखीकृत्याह ॥ क्षमध्व-मिति ॥ हे साधवः । परदुःखमसहमानाः । अत एव दीनवत्सलाः । हे देवकीपुत्रा मम दौरात्म्यं क्षमध्वम् । यतोऽहमिति शेषेणाश्रुमुख इति योज्यम् । पूर्वजन्मकालिकः पितेत्यर्थः । पिता पितामहश्चैव तथैव प्रपितामहः । त्रयो ह्यश्रुमुखा ह्येते पितरः परिकीर्तिता इति ब्राह्मोक्तेः । अतोऽनेन तेषां क्षमापनेन स्वपितृत्वमेव हेतुरुक्तो भवति । तदुक्तम् - ‘‘मरीचिजाः षण्मुनयो बभूवुस्ते देवलं प्राहसन्कार्श्यहेतोः । तच्छापतः कालनेमिप्रसूता अवध्यतार्थं तप एव चक्रुः । धाता प्रादाद्वरमेषां तथैव शशाप तान्क्ष्मातले सम्भवध्वम् । तत्र स्वतातो भवतां निहन्तेत्यात्मान्यतो वरलिप्सून् हिरण्यः ।’’ इति तात्पर्यनिर्णये । श्यालः वसुदेवभार्या । भ्राता कंसः । इत्युक्तप्रकरेण पुत्रप्रकारेण क्षमापनमुक्त्वा वसुदेवं समाधत्ते ॥ स्वस्रोरिति । अत्र श्यालस्वस्रोरित्युक्तम् । तदसाधु । पुंस्त्रीद्वन्द्वे स्त्रीवाचकशब्दस्य पूर्वनिपातनियमात् । स्वसृशब्दापेक्षया श्यालशब्दस्य मात्राधिक्याच्च । न च स्वसुः सकाशात् श्यालस्य पुरुषत्वेनाभ्यर्हितत्वात्पूर्वनिपातः । सर्वत्र पुरुषस्याभ्यर्हितत्वेन कुत्रापि स्त्रियाः पूर्वनिपातायोगात् । तस्माद्विरुद्धमत उच्यते । प्रथमान्तश्यालशब्देन कंसः कर्तोच्यते । स्वस्रोः स्वां भगिनीं सरणशीलत्वेन स्वस्रुर्वसुदेवः स्वा आत्मसम्बन्धित्वाद्भगिनी । सृ गतौ ताच्छील्यार्था-दुनस्तथेत्यनुव्याख्याने । यद्वा । स्वात्मानं स्रावयति अधः पातयति स तथा । अत्रान्तर्णिच् । तस्य वसुदेवस्य । पादावग्रहीदित्यन्वयः । भगिन्यर्थकस्वसृशब्दाङ्गीकारे एषा तवानुजा बालेति वसुदेवोक्त्या देवक्याः कंसानुजत्वसिद्ध्या तत्पादग्रहणे महान्विरोधः प्रसज्येत । किञ्च श्यालस्वस्रोरिति द्विवचनाङ्गीकारे पादाविति द्विवचनमयुक्तम् । उभयोश्चतुष्पादसिद्धेः । यद्वा । पिता पितामहश्चैव तथैव प्रपितामहः । त्रयो ह्यश्रुमुखा ह्येते पितरः परिकीर्तिता इति ब्राह्मोक्त्या स्वपित्रादीनामश्रुमुखसंज्ञयाऽत्राश्रुमुख इत्येकवचनेन पितुरेव ग्रहणसिद्धेः । अश्रुमुख इति प्रथमायाः सप्तसु प्रथमेति सूत्रेण षष्ठ्यर्थकत्वात्पितुः स्वसृत्वेन स्वस्य च स्वसृत्वेन पितृष्वसा च स्वस्वसा च स्वसारौ तयोरित्युभयस्वसृविवक्षया एकस्यैव द्विवचनोपपत्त्या देवक्या इत्येवार्थः । तदुक्तम् - ‘‘बभूव गन्धर्वमुनिस्तु देवकस्स आस सेवार्थमथाहुकाद्धरेः । स उग्रसेनावरजस्तथैव नामास्य तस्मादजनि स्म देवकी । अन्याश्च याः कश्यपस्यैव भार्या ज्येष्ठां तु तामाहुक आत्मपुत्रीम् । चकार तस्माद्धि पितृष्वसा सा स्वसा च कंसस्य बभूव देवकी’’ति तात्पर्यनिर्णये । किञ्च अहो भुगिन्य भामेत्युक्त्या भगिनीभर्तुर्भामशब्दप्रयोगेणैव स्त्रीभ्रातुः श्यालशब्दप्रयोगसिद्धेः । अत्र श्यालः कंस इत्यर्थः । तथा च । श्यालः कंसः । अश्रुमुखः स्वपितुः स्वसृत्वाद् द्विवचनविषया एव स्वस्रोर्देवक्याः पादावग्रहीत् । पितृष्वसृत्वसम्बन्धेन पादग्रहणे दोषाभाव एव । अतो न किञ्चन शब्दप्रयोगासाधुत्वम् ॥ २३ ॥
मोक्षयामास निगडाद् विस्रब्धः कन्यकागिरा ।
देवकीं वसुदेवं च दर्शयन्नात्मसौहृदम् ॥ २४ ॥
पदरत्नावली
आत्मसौहृदं स्वसुहृद्भावम् ॥ २४ ॥
सत्यधर्मीया
कन्यकागिरा मायावाण्या विस्रब्धो विश्वासमाप्तो देवकीं वसुदेवं च निगडान्मोक्षयामास । सुब्धातुर्मोचयामासेत्यपि पठन्ति । आत्मसौहृदं स्वसुहृद्भावं दर्शयन्मोच-यामासेत्यन्वयः ॥ २४ ॥
सुमनोरञ्जिनी
कन्यकाया दुर्गाया गिरा वचनेन । विस्रब्धो विश्वासवान् ॥ २४ ॥
भ्रातुर्वचनमाश्रित्य१ क्षान्त्वा रोषं च देवकी ।
व्यसृजद् वसुदेवश्च प्रहस्य तमुवाच ह ॥ २५ ॥
सत्यधर्मीया
भ्रातुः कंसस्य वचनं, भुवि भौमानीत्यादिवचनमाश्रित्य क्षान्त्वा समाधानं प्राप्य देवकी वसुदेवश्च तद्वचनमाश्रित्य रोषं व्यसृजत् । अनन्तरं प्रहस्य तं प्रत्युवाच । अविश्व-सनीयोऽयमिति ह शोके ॥ २५ ॥
सुमनोरञ्जिनी
क्षान्त्वा क्षमावती भूत्वा देवकी रोषं कोपं व्यसृजत् तत्त्याज । वसुदेवस्तु प्रहस्य । रोषपरित्यागसूचकमिदम् ॥ २५ ॥
विरोधोद्धारः
भ्रातुरिति । अत्र देवकी वसुदेवश्चेति कर्तृसमुच्चयपक्षे ल्यबन्तक्रिययोरेक-कर्तृकत्वनियमाद् भ्रातुर्वचनमाश्रित्येत्यनेन वसुदेवस्यापि कंसभ्रातृत्वापातोऽत उच्यते । देवकी । भ्रातुः कंसस्य । वचनमाश्रित्य । क्षांत्वा क्षमां कृत्वा । रोषं व्यसृजदित्येकोऽन्वयः । अन्यस्तु । वसुदेवश्च प्रहस्य तमुवाच हेति । यद्वा । देवकीति षष्ठ्यर्थे । वसुदेवः क्षांत्वा देवक्या भ्रातुर्वचन-माश्रित्य रोषं व्यसृजत् प्रहस्य तमुवाचेत्येक एवान्वयः ॥ २५ ॥
एवमेतन्महाराज यथा वदसि देहिनाम् ।
अज्ञानप्रभवा हन्ति स्वपरेति भिदा यतः ॥ २६ ॥
तात्पर्यम्
देहिनामज्ञानप्रभवा यातनाः स्वपरेति भिदा हन्ति । ‘देवोऽहं मानुषो वेति विशेषं तत्र चापि तु । तथैव परमात्मानं विशेषं ब्रह्मजीवयोः । सम्यग्भेदेन यः पश्येत्स हन्त्यज्ञानसम्भवाः । यातनाः परमात्मानं तत्प्रसादाच्च गच्छती’ति ब्रह्माण्डे ॥ २६ ॥
पदरत्नावली
परमात्मा न विपर्येति पुत्रादिकं विपर्येतीति जीवपरमात्मभेदज्ञानं मुक्तिसाधनमन्यत् तमःसाधनमिति यथा वदसि एतद् एवं सत्यम् । एतदेव द्रढयति देहिनामिति ॥ ‘देवोऽहं मानुषो वेति विशेषं तत्र चापि तु । तथैव परमात्मानं विशेषं ब्रह्मजीवयोः । सम्यग् भेदेन यः पश्येत् स हन्त्यज्ञानसम्भवाः । यातनाः परमात्मानं तत्प्रसादाच्च गच्छति ॥’ इत्याचार्योदाहृतब्रह्माण्डवचनानुसारेण यातनाशब्दमध्याहृत्य व्याख्येयम् । अहं देवाद्यन्यतमः, परमात्मा मदादिजीवराशेः सत्तादिप्रदत्वेन प्रेष्ठ इति या, स्व इति पर इति च जीवपरमात्मनोः परस्परं भिदा तज्ज्ञानं देहिनामज्ञानप्रभवा यातना हन्तीति यत इत्यन्वयः ।
ननूत्तरश्लोके पृथग्दृश इति भेदज्ञानिनिन्दनवचनादत्र तदभिनन्दनं न युनक्तीत्यतो मानेनैव पृथक्पदमेवं व्याख्यातमाचार्यैः । ‘भगवद्दर्शनाद्यस्य विरोधाद्दर्शनं पृथक् । पृथग्दृष्टिः स विज्ञेयो न तु सद्भेददर्शनः ॥’ इति । भगवत्कर्तृकजीवपरमात्मभेदादिदर्शनाद् विरोधाद् वैपरीत्याद् यद् दर्शनं जीवपरमात्माभेदादिदर्शनं तत् पृथग् दर्शनं यस्य पुरुषस्य स पृथग्दृष्टिः पृथग्दर्शनवानिति विज्ञेयः । सद्भेददर्शनो ऽबाधितजीपरमात्मभेदादिदर्शनवान् नैव पृथग्दृष्टिः । ततश्चायं श्लोकार्थः- शोकादिभिरन्विता जीवा मिथो घ्नन्तो भावैः शोकादिधर्मैर्निमित्तैर् भावान् जीवपरमात्मभेदादिधर्मान् न पश्यन्ति, किन्तु पृथग्दृशो भगवद्दर्शनविषयजीवपरमात्मभेदादिविरुद्धजीवपरमात्माभेदादिविषयज्ञान-वन्तो भवन्तीति ।
प्रसङ्गप्राप्तस्य भेदस्य विभागं, तद्दर्शनादर्शनप्रयुक्तवैषम्येण फलवैषम्यं च प्रमाणेन प्रपञ्चयन्त्या-चार्याः– ‘स्वरूपभेदो हि परजीवयोर्जीवगो मिथः । परस्परेण वस्तूनां विशेषः शास्त्रदर्शितः । सद्भेदोऽयं समुद्दिष्टस्त्वसद्भेदं च मे शृणु । स्वरूपाणां गुणानां च विष्णोर्भेदः परस्परात् । सर्वस्य विष्ण्वतन्त्रत्वं शत्रुमित्रादिभेदिता । यच्चान्यच्छास्त्रविद्विष्टमसद्भेदः स ईरितः । सद्भेद-दर्शनान्मोक्षस्त्वसद्भेदात् तमो व्रजेत् । सद्भेदादर्शनाच्चैव तमो मोक्षस्तथेतरात् ॥’ इति
॥ २६-२७ ॥
सत्यधर्मीया
एवमेतन्महाराजेति श्लोके यतोऽज्ञानप्रभवाऽज्ञानजाता पर इति स्व इति च भिदा भेदज्ञानं देहिनां हन्ति देहिनोऽनर्थं दत्वा नाशयतीति यद्वदसि तत्तथैवेति कंसशंसितमनुमेने वसुदेव इत्यपार्थं ब्रह्माण्डवचनोक्तप्रकारेण किञ्चिदध्याहृत्य ते तदज्ञानप्रभवा इति द्वितीयाबहुवचनं सदन्वेतीति वदंस्तं पराकरोति ॥ देहिनामिति ॥ स्वपरेति भिदा कर्त्री तज्ज्ञानमिति यावत् । देहाभिमानवतामज्ञानप्रभवा यातनाः प्राप्य तीव्रवेदना हन्ति । देवो देवोऽहं मानुषोऽयं मानुष इति विशेषं वैपरीत्येन वा । तत्रापि विशेषं तरतमभावरूपम् । तथैवात्मानं सर्वस्वामिनम् । परं सर्वोत्तमम् । ब्रह्मजीवयोश्चतुर्मुखतदितरजीवयोः । परमात्मानं पश्येत् । ब्रह्मजीवयोः परमात्मजीवयोरिति वा । सम्यग्भेदेन । विशेषमित्येवोक्तौ भेदाभावेऽपि विशेषस्तत्प्रतिनिधिरङ्गीकृतो भगवद्रूपगुणादाविति तमादाय पुनरुक्तशङ्कोत्तेजनं स्यादिति सम्यग्भेदेनेत्युक्तिः । यः पश्येत्सोऽज्ञानसम्भवा यातना हन्ति तत्प्रसादादेवं ज्ञातभगवत्प्रसादात् । न केवलं यातनाघातोऽपि तु परमात्मानं गच्छति प्राप्नोति ॥ ततश्चायं श्लोकार्थः ॥ परमात्मा न विपर्येति पुत्रादिकं विपर्येति मा शुच इत्यादि देहिनामज्ञानप्रभवा यातनाः स्वपरेति भिदा भेदमतिर्यतो हन्ति ततो, यथा वदसि त्वमेवमेतदिति योजना ॥ २६ ॥
सुमनोरञ्जिनी
हे महाराज त्वं, ‘जीवोऽस्वतन्त्र ईश एव स्वतन्त्रः । स एव सर्वकर्ते’त्यादि यथा वदसि एतद् एवमेव सत्यमेव । कुतः । यतः स्वपरेति भिदा स्वपरेतिशब्दबोध्ययोर्जीवब्रह्मणोर्भिदा । अत्र भिदाशब्दः भिद्यते वस्त्वेभिरिति व्युत्पत्त्या भेदकधर्मपरः । भेदनं भिदेति व्युत्पत्या अन्योन्याभावपरश्च । अथवा स्वशब्दबोध्ये या भिदा देवत्वमानुषत्वादिप्रभेदः ब्राह्मणत्वाद्यवान्तरप्रभेदश्च । तथा स्वपरयोर्भिदा व्यावर्तकः स्वातन्त्र्यपारतन्त्र्यादिभेदश्च । तथा च स्वपरेति भिदा ज्ञाता सती कर्तरि । अज्ञानप्रभवा अज्ञानेन जीवेश्वरभिदाऽज्ञानेन प्रभवन्ति उत्पद्यन्त यास्ता यातना इति शेषः । यातना नित्यनरकप्राप्तिरूपाः कर्म । हन्ति परिहरतीति योजना । तदेतदभिप्रेत्योक्तमाचार्यचरणैः–
देहिनामज्ञानप्रभवा यातनाः स्वपरेति भिदा हन्ति ।
देवोऽहं मानुषो वेति विशेषं तत्र चापि तु ।
तथैव परमात्मानं विशेषं ब्रह्मजीवयोः ।
सम्यग्भेदेन यः पश्येत्स हन्त्यज्ञानसम्भवाः ।
यातनाः परमात्मानं तत्प्रसादाच्च गच्छति ॥ इति ब्रह्माण्ड इति ।
यातना इत्यध्याहृत्य मूलं योजयति ॥ देहिनामिति ॥ अनेन स्वपरेति भिदा अज्ञानप्रभवा यातना हन्तीति योजना सूचिता । स्वपरेति भिदेतिशब्दो जीवेश्वरगतभेदकधर्मान् भेदं च वक्तीति भावेन तदर्थप्रतिपादकं प्रमाणमुदाहरति ॥ देवोऽहमिति ॥ देवोऽहं मानुषोऽहमिति प्रतीतिगोचरं विशेषं जीवानां मिथो व्यावर्तकं मानुषत्वादिधर्मं देवादिजातिविशेषं वा । तत्रापि देवमानुषेष्वपि विशेषं व्यावर्तकं ब्राह्मणादिजातिविशेषं वा यः पश्येदित्युत्तरेणान्वयः । तथैव आत्मानं परमात्मानम् । परं सर्वोत्तमं यः पश्येत् । तथा ब्रह्मजीवयोर् विशेषम् - विशिष्यते वस्त्वनेनेति विशेषस् तं, मिथो व्यावर्तकं स्वातन्त्र्यपारतन्त्र्यादिकम् । न केवलमेतावत् किं तु सम्यक् भेदेन जीवेशयोर्जीवानां परस्परं च पारमार्थिकभेदेन सहैव यः पश्येज् जानाति स पुरुषो ऽज्ञानसंभवा यातना हन्तीति सम्बन्धः । न केवलं यातना हन्ति अपि तु तत्प्रसाद् भगवत्प्रसादात् परमात्मानं च गच्छतीति तात्पर्ययोजना द्रष्टव्या ॥ २६ ॥
शोकहर्षभयद्वेषलोभमोहमदान्विताः ।
मिथो घ्नन्तो न पश्यन्ति भावैर्भावान् पृथग्दृशः ॥ २७ ॥
तात्पर्यम्
‘भगवद्दर्शनाद्यस्य विरोधाद्दर्शनं पृथक् । पृथग्दृष्टिः स विज्ञेयो न तु सद्भेददर्शन’ इति च भविष्यत्पुराणे ॥ ‘स्वरूपभेदो हि परजीवयोर्जीवगो मिथः । परस्परेण वस्तूनां विशेषः शास्त्रदर्शितः । सद्भेदोऽयं समुद्दिष्टस्त्वसद्भेदं च मे शृणु । स्वरूपाणां गुणानां च विष्णोर्भेदः परस्परात् । सर्वस्याविष्णुतन्त्रत्वं शत्रुमित्रादिभेदिता । यच्चान्यच्छास्त्रविद्विष्टमसद्भेदः स ईरितः । सद्भेददर्शनान्मोक्षस्त्वसद्भेदात्तमो व्रजेत् । सद्भेदादर्शनाच्चैव तमो मोक्षस्तथेतरादि’ति च ॥ २७ ॥
दुर्घटभावदीपिका
शोकादियुक्ता मिथो घ्नन्तो भावैः शोकादिधर्मैर्निमित्तैर्भावान् जीवेश्वर-भेदादिधर्मान्न पश्यन्ति किन्तु पृथग्दृशो भगवद्दर्शनविषयजीवेश्वरभेदादिविरुद्धजीवेश्वराभेदादि-विषयज्ञानवन्तो भवन्तीति । एतेन भावैरित्येतद्व्यर्थमिति चोद्यं निराकृतम् । शोकादीनां मिथो हनन एव निमित्तत्वमिति भ्रमं परिहर्तुं मिथो हनने जीवेश्वरभेदादिज्ञानाभावे च निमित्तत्वमिति वक्तुं भावैरित्युक्तमिति स्वीकारात् । पृथग्दृश इत्यस्योक्तार्थे भगवद्दर्शनाद्यस्य विरोधाद्दर्शनमित्यादि ता. अर्थः ॥ भगवद्दर्शनाद्भगवत्कर्तृकजीवेश्वरभेदादिदर्शनात् । विरोधाद्विरोधेन विशिष्टं यद्दर्शनम् । जीवेश्वराभेदादि दर्शनमिति यावत् । तत्पृथग्दर्शनम् । यस्य पुरुषस्य स पुरुषः पृथग्दृष्टिरिति विज्ञेयः । सद्भेददर्शनोऽबाधितजीवेश्वरभेदादिदर्शनः पृथग्दृष्टिर्न तु नैवेति ॥ २७ ॥
॥ इति श्रीभागवतटिप्पण्यां सत्याभिनवयतिकृतायां
दुर्घटभावदीपिकायां दशमस्कन्धपूर्वार्धे पञ्चमोऽध्यायः ॥ १०-५ ॥
सत्यधर्मीया
शोकेति श्लोके पृथग्दृश इति भेददृशो निन्दनात्कथं तदभिनन्दनमित्यतः प्रमाणेनैव पृथक् पदं व्याचष्टे ॥ भगवद्दर्शनादिति ॥ यस्य भगवद्दर्शनाद्विरोधाद्वैपरीत्याद्दर्शनं तदेव पृथग्दर्शनं तद्वान्पृथग्दृष्टिरिति विज्ञेयः । संश्चासौ भेदश्च तं पश्यतीति स वा । सद्भेददर्शनं यस्य स वा । न पृथग्दृष्टिर्विज्ञेय इत्यर्थः । स च सन्भेदः किमन्तर्भेदोऽसंश्च भेदः कतिविधः । तयोः फलं च किमित्यतः प्रसङ्गप्राप्तमिदं सर्वं मानेनाह ॥ स्वरूपभेद इति ॥ परजीवयोः परमात्मनो जीवसर्गस्य च तथा मिथो जीवगः परस्परेण वस्तूनां विशेषः । मानमपि स्वं जीवेश्वरभिदा चैवेत्यादिमूलसहितमाह । शास्त्रदर्शितो विशेष इति । अयं सद्भेदः समुद्दिष्टो मे मत्तः श्रुणु स्वरूपाणां मत्स्यादीनां गुणानां ज्ञानादीनां विष्णोश्च भेदस्तथा परस्पराद्रूपस्यावताररूपस्यावतारान्तरेति परस्पराद्भेदो सन्विष्णुतन्त्रत्वम् अ विष्ण्वधीनत्वं विष्णोः शत्रुमित्रादिभेदता शत्रुरयमिदं मित्रमिति भेदवता । भेदितेति प्रचुरपाठ उभयत्राप्यर्थः समः । शास्त्रविद्विष्टं शास्त्रं भेदादिकं तेन वि उपक्रमाद्यानुकूल्यविशेषाद्द्विष्टं द्वेषवन्निषिद्धं यच्चान्यत्सोऽसद्भेद ईरित इत्यन्वयः । सद्भेददर्शनान्मोक्षो भविष्यति । न केवलमसद्भेदाज्ज्ञाता तमो व्रजेत् किन्तु सद्भेदादर्शनाच्च तमो व्रजेत् । इतरात्स्वरूपाणामित्यादिना निरूपितासद्भेददर्शनं तेन गम्यत इति कर्मणि क्विपि वा । तेन अतनं यस्येति भावे सम्पदादिक्विपि वा रूपं मोक्षविशेषणम् । इतरस्मादिति वक्तव्यमिति शङ्काऽनेन निरस्तेति ज्ञेयम् । कर्मव्यतिहारे सर्वनाम्नो द्विर्भावः समासवच्च बहुलमिति द्वित्वे परेण परेणेत्यादित्वेन स्थितौ पूर्वपदस्थटादेः सुप्त्वेऽस्य विसर्जनीये कुप्वोः कः पौ चेति अपवादेन कप्त्कादिसत्वे परस्परेणेत्यादिसिद्धिर्ज्ञेया । दलद्वये टाबभावः क्लीबादङ्विरहः स्वमोः समासे सोरलुक् चेति सिद्धं बाहुलकात्त्रयम् । अदृष्टपरस्परैरित्यादौ सोर्लुक् च प्राप्तः, सर्वं बाहुलकबलेन समाधेयम् । स्त्रियामिति सूत्रेऽन्योन्यसंश्रयत्वे तदिति भाष्यं च तत्र प्रमाणमिति कौमुद्युक्तेः । परस्परादर्पितहस्ततालं तात्कालमालीभिरहस्य तालम् । परस्परेण छुरितामलच्छवीति तृतीयसर्गनैषध-प्रथमसर्गमाघाद्युक्तेः परस्परात्परस्परेणेत्युपपन्नेति ज्ञेयम् । शोकदिभिर्युता मिथः परस्परं घ्नतः संहरन्तः पृथग्दृशो भगवद्दर्शनविरोधिदर्शनवन्तो भावैर्ब्रह्मत्वदेवत्वप्रकारैर्भावांस्तद्युक्तान्धर्मिणस्तथा न पश्यन्ति न जानते । ये न पश्यन्ति तेऽपृथग्दृश इत्यन्वयो वा ॥ २७ ॥
सुमनोरञ्जिनी
एतादृशं भेददर्शनं योग्यानामेव भवेन् नायोग्यानामित्याह ॥ शोकेति ॥ ये शोकादियुता मिथः परस्परं घ्नन्तस् ते पृथग्दृशः पृथक् भगवद्दर्शनाद्विरुद्धा दृक् येषां ते तथोक्ताः । विपरीतज्ञानिन इति यावत् ते, भावैः पूर्वोक्तधर्मविशेषैर् भावान् पदार्थान् न पश्यन्ति न जानन्तीति । पृथग्दृश इत्यस्य भेदज्ञानिन इत्यन्यथाप्रतीतिनिवारणायाहुराचार्यचरणाः–
भगवद्दर्शनाद्यस्य विरोधाद्दर्शनं पृथक् ।
पृथग्दृष्टिः स विज्ञेयो न तु सद्भेददर्शनः ॥ इति भविष्यत्पुराणे ।
स्वरूपभेदो हि परजीवयोर्जीवगो मिथः ।
परस्परेण वस्तूनां विशेषः शास्त्रदर्शितः ॥
सद्भेदोऽयं समुद्दिष्टस्त्वसद्भेदं च मे शृृणु ।
स्वरूपाणां गुणानां च विष्णोर्भेदः परस्परम् ॥
सर्वस्याविष्णुतन्त्रत्वं शत्रुमित्रादिभेदिता ।
यच्चान्यच्छास्त्रविद्विष्टमसद्भेदः स ईरितः ॥
सद्भेददर्शनान्मोक्षस्त्वसद्भेदात्तमो व्रजेत् ।
सद्भेदादर्शनाच्चैव तमो मोक्षस्तथेतरात् ॥ इति च ॥
इति । यस्य पुंसः दर्शनं ज्ञानं भगवद्दर्शनात्पृथक् । कुतः । विरोधान्निमित्तात् । स पुमान् पृथग्दृष्टिरिति विज्ञेयः । सद्भेदस्य दर्शनं यस्यासौ तथोक्तः । न पृथग्दृष्टिरित्युच्यते । सद्भेदशब्दार्थमाह ॥ स्वरूपेति ॥ परजीवयोः स्वरूपभेदः स्वाभाविकभेदः । अनेन जीवेश्वरभेदः सङ्गृहीतः । मिथो ऽन्योन्यम् । जीवेषु गच्छतीति जीवगः । अनेन जीवानां परस्परं भेदः सङ्गृहीतः । परजीवयोः सकाशाद् भेदः । अनेन जडेश्वरभेदो जडजीवभेदश्च लभ्येते । वस्तूनां परस्परं भेद इत्यनेन जडजडभेदो गृहीतः । अयं पञ्चविधो भेदः । असद्भेदं मे मत्सकाशात् शृृणु । विष्णोः स्वरूपाणाम् अवताररूपाणां विष्णोर्भेदः परस्परं च भेद एव । गुणानां विष्णोः परस्परं च भेदः । सर्वस्य जगतो ऽविष्णुतन्त्रत्वं विष्ण्वधीनत्वाभावः । विष्णोः शत्रुमित्रादिभेदिता । अयं शत्रुरयं मित्रम् इत्यादिज्ञानमित्यर्थः । इदमुपलक्षणम् । पूर्वोक्तादन्यद् यत् शास्त्रे निषिद्धं स असद्भेद ईरितः । विधेयापेक्षया पुल्लिङ्गोपपत्तिः । न केवलमसद्भेददर्शनात् किन्तु सद्भेदादर्शनाच्च तमो व्रजेत् । इतराद् असद्भेदादर्शनात् ॥ २७ ॥
कंस एवं प्रसन्नाभ्यां विस्रब्धः प्रतिभाषितः ।
देवकीवसुदेवाभ्यामनुज्ञातोऽविशद् गृहम् ॥ २८ ॥
सत्यधर्मीया
प्रतिभाषित एवमेतन्महाराजेत्यारभ्य पृथग्दृशेत्यन्तेनोत्तरितार्थः । कंस एवं प्रसन्नाभ्यां वसुदेवदेवकीभ्यामनुज्ञात आज्ञप्तो विस्रब्धो गृहमविशत् ॥ २८ ॥
सुमनोरञ्जिनी
एवं प्रतिभाषितः । वसुदेवेनेति शेषः । देवकीप्रतिभाषणानुक्तेः । तेन विस्रब्धः विश्वासं प्रापितः । प्रसन्नाभ्यां देवकीवसुदेवाभ्याम् अनुज्ञात इति योजना ॥ २८ ॥
विरोधोद्धारः
कंस इति । अत्र कंसो देवकीवसुदेवाभ्यां विशुद्धं प्रतिभाषितः सन्निति योजनायां भ्रातुर्वचनमाश्रित्येति श्लोके एकवसुदेवभाषणाङ्गीकारेण विरोधोऽत उच्यते । एवं विशुद्धं प्रतिभाषितः कंसः प्रसन्नाभ्यां देवकीवसुदेवाभ्यामनुज्ञातः सन् गृहमाविशदित्यन्वयः । देवक्यादि-तृतीयान्वयस्तु अनुज्ञातपदेन प्रतिभाषितपदे तत्र वसुदेवेति शेषः । अतो न विरोधः ॥२८॥
तस्यां रात्र्यां व्यतीतायां कंस आहूय मन्त्रिणः ।
तेभ्य आचष्ट तत् सर्वं यदुक्तं योगनिद्रया ॥ २९ ॥
सत्यधर्मीया
इतो गत उत्तरत्र चकार किं कंस इत्यतः शंसति ॥ तस्यामित्यादिना ॥ योगनिद्रया भगवद्भगिन्या यदुक्तं तत्सर्वं मन्त्रिभ्योऽमात्येभ्य आचष्ट ॥ २९ ॥
सुमनोरञ्जिनी
मन्त्रिण आलोचनकुशलंमन्यान् अमात्यान् । योगनिद्रया दुर्गया यदुक्तं तत्सर्वम् आचष्ट कथयामास ॥ २९ ॥
आकर्ण्य भर्तुर्गदितं तमूचुर्देवशत्रवः ।
देवान् प्रति कृतामर्षा दैतेया नातिकोविदाः ॥ ३० ॥
सत्यधर्मीया
भर्तुर्गदितं वचनं देवशत्रवः प्रागारभ्य देवान्प्रति कृतामर्षाः । नातिकोविदा इति नसमासोऽत्यकोविदा इति तदर्थः । तं कंसं प्रत्यूचुः ॥ ३० ॥
सुमनोरञ्जिनी
भर्तुः स्वप्रभोः कंसस्य गदितं, भावे क्तः, व्यक्तं वचनम् आकर्ण्य । देवशत्रवः। देवाः शत्रवो येषां ते तथोक्ताः । अत एव देवान् प्रति, कृतो ऽमर्षः क्रोधो यैस्ते । अत एव न अतिकोविदाः प्रत्युत्पन्नमतयः ॥ ३० ॥
एवं चेत् तर्हि भोजेन्द्र पुरग्रामव्रजादिषु ।
अनिर्दशान् निर्दशांश्च हनिष्यामोऽद्य बालकान् ॥ ३१ ॥
पदरत्नावली
अनिर्दशान् अनिर्गतानि दशाहानि यैस्ते तथा तान्, अनतिक्रान्तदशाहा-नित्यर्थः । निर्दशानतिक्रान्तदशाहान् ॥ ३१ ॥
सत्यधर्मीया
अनिर्दशान्निर्गता दशभ्योऽहोभ्य इति निर्दशास्ते नेत्यनिर्दशाः । सङ्ख्यायास्त-त्पुरुषस्य वाच्यत इति वार्तिकाड्डच् । तानेवं निर्दशाननतिक्रान्तदशाहानतिक्रान्तदशाहांश्चेत्यर्थः । मृत्युरन्यत्र जात इति मायोक्तेः स्त्र्यादिसन्देहावस्कन्दनाद्बालकानित्युक्तिरिति ज्ञेयम् ॥ ३१ ॥
सुमनोरञ्जिनी
अनिर्दशान् न निर्गतानि दश दशसङ्ख्याकानि दिनानि येषां तान् । निर्दशान् निर्गतदशदिनान् ॥ ३१ ॥
किमुद्यमैः करिष्यन्ति देवाः समरभीरवः ।
नित्यमुद्विग्नमनसो ज्याघोषैर्धनुषस्तव ॥ ३२ ॥
सत्यधर्मीया
सर्वान्सुपर्वाण आशङ्क्य तदसामर्थ्यं स्फोरयित्वा सर्वं सहाधिपं स्वस्वामिनं प्रोत्साहयन्ति ॥ किमिति ॥ समरभीरवोऽमरा उद्यमैः स्वकृतैः किं करिष्यन्ति । धनुषो ज्याघोषैर्मौर्वीरवैरुद्विग्नं मनो येषां ते तथा । येषां समरे भीरवो भयध्वनिस्ते किं करिष्यन्तीति वा ॥ ३२ ॥
सुमनोरञ्जिनी
उद्यमैः रणोद्यमैः । तव धनुषः ज्याघोषैर् ज्या मौर्वी रज्जुस् तद्घोषैः । उद्विग्नमनस उद्विग्नं भयभ्रान्तं मनो येषां ते ॥ ३२ ॥
अस्यतस्ते शरव्रातैर्हन्यमानाः समन्ततः ।
जिजीविषव उत्सृज्य पलायनपरा ययुः ॥ ३३ ॥
पदरत्नावली
अस्यतः क्षिपतः ॥ ३३ ॥
सत्यधर्मीया
अस्यतः क्षिपतः ॥ ३३ ॥
सुमनोरञ्जिनी
अस्यतः शरान् क्षिपतः । जिजीविषवः जीवितुमिच्छवः । उत्सृज्य रणमिति शेषः ॥ ३३ ॥
केचित् प्राञ्जलयो भीता न्यस्तशस्त्रा दिवौकसः ।
मुक्तकक्ष्यशिखाः केचिद् भीताः स्म इति वादिनः ॥ ३४ ॥
पदरत्नावली
मुक्ताः कक्ष्याः काञ्च्यः शिखाश्च यैस्ते । ‘कक्ष्या करिवरत्रायां काञ्च्यां गेहे प्रकोष्ठके’ इति यादवः ॥ ३४ ॥
सत्यधर्मीया
मुक्ताः कक्ष्याः काञ्च्यः शिखाश्च यैस्ते । कक्ष्या करिवरत्रायां काञ्च्यां गेहे प्रकोष्टक इति यादवः । भीताः स्म इति वादिनः ॥ ३४ ॥
सुमनोरञ्जिनी
पलायनेऽप्यशक्ताः केचिद्दिवौकसो देवा भीताः । न्यस्तानि भुवि विसृष्टानि शस्त्राणि यैस्ते । प्राञ्जलयोऽभवन् । मुक्ताः कक्ष्याः काञ्च्यः शिखाश्च येषान्ते ॥ ३४ ॥
न त्वं विस्मृतशस्त्रास्त्रान् विरथान् भयसन्नतान् ।
हंस्यन्यासक्तमनसो भग्नचापानयुध्यतः ॥ ३५ ॥
सत्यधर्मीया
स्वस्वामिधर्मानाहुः ॥ नेति ॥ ३५ ॥
सुमनोरञ्जिनी
त्वं तु, विस्मृतानि शस्त्राणि अस्त्राणि च यैस्तान् । विरथान् । भयेन सन्नतान् नम्रान् । अन्यस्मिन्विषये आसक्तमनसः । भग्नचापान् न हंसि न संहरसि ॥ ३५ ॥
किं क्षेमशूरैर्विबुधैरसंयुगविकत्थनैः ।
रहोजुषा किं हरिणा शम्भुना वा वनौकसा ॥ ३६ ॥
पदरत्नावली
क्षेमशूरैर् निर्भयस्थानं प्राप्य शूरैः । असंयुगविकत्थनैः रणादन्यत्र तरुण्यादिपुरतो विविधजल्पनवद्भिः । रहोजुषा एकान्तसेविना । वनौकसा कैलासशिखर-कान्तारमन्दिरेण हरेण । ‘ओकसी मन्दिराश्रयौ’ इति यादवः ॥ ३६ ॥
सत्यधर्मीया
क्षेमशूरैर्निर्भयस्थानगमने शूरैः । क्षेमाणां स्वपरिचारकाणां पुरस्तेषु वा शूरैः । क्षेमं स्यान्मङ्गले प्राप्तरक्षणे चारकेऽपि चेति विश्वः । असंयुगविकत्थनैः संयुगादन्यत्र तरुण्यादिपुरो विकत्थनानि वृथा भाषणानि येषां ते तथा तैः । रहोजुषा रह एकान्तं जुषत इति रहोजुट् तेन । हरिणा विष्णुना किम् ? अन्तःसमुद्रं शेते भीत इति तेन रुष्टेन तुष्टेन न किञ्चन भविष्यतीति भावः । वनौकसा कैलासवासिना शम्भुना रुद्रेण । इलावर्ते पुंमात्रगमनशून्यवनौकसा ॥ ३६ ॥
सुमनोरञ्जिनी
क्षेमशूरैः क्षेमे सत्येव शूरैर् न तु भये प्राप्ते । असंयुगविकत्थनैः । असंयुगे रणादन्यत्र विकत्थनं प्रौढिवादो येषां तैः । ननु देवानामीदृशत्वेऽपि तत्सहाया हरिहरहिरण्यगर्भादयः सन्ति । तेभ्यो बिभेमीति चेत्तत्राहुः ॥ रहोजुषेति ॥ एकान्तसेविना सर्वहृदयगुहाविष्टेनाप्रत्यक्षेणेति यावत् । वनौकसा वनं कैलासस्थितकान्तारमेव ओको निवासस्थानं यस्य तेन शम्भुना रुद्रेण किम् ॥ ३६ ॥
विरोधोद्धारः
रहोजुषेति । अत्र शम्भुना वा वनौकसेत्यनेन मन्त्रिकृतं रुद्रहेलनं कथं श्रुतम् । कंसस्य तद्भक्तत्वात् । रुद्रपरमभक्तजरासन्धजामातृत्वात् । विशंसतु पशून्मेध्यान्भूतराजाय मीहुषे इत्याज्ञापनाच्च । अतो विरोधस्तस्मादुच्यते ॥ रहोजुषेति ॥ हरिहेलनं श्रुत्वा कंसः शङ्कते । न केवलं हरी रहोजुट् किंतु जलस्थोऽपि । महोदधिशयोऽन्तक इत्युक्तेः । लोकरूढ्याऽस्माकं जले दृश्यत इति भावः । तत्र मन्त्रिभिरनूद्योत्तरितम् ॥ वनौकसेति ॥ यद्यपि जीवनं भुवनं वनमिति कोशाज्जलाश्रयत्वं तथापि शम्भुनावेत्यनेन शम्भुर् नौस् तरणसाधनं यस्य तेनेति । अनेनास्माकं प्रीतिकृत् शम्भुस्तारयेन्नास्मदप्रियमिति सूचितम् । अतो जलस्थस्यापि हरेर्जलतरणे स्वातन्त्र्याभावात्तेन किं भयमस्माकमिति भावः ॥ ३६ ॥
किमिन्द्रेणाल्पवीर्येण ब्रह्मणा वा तपस्यता ।
तथापि देवाः सापत्न्यान्नोपेक्ष्या इति मन्महे ।
ततस्तन्मूलखनने नियुङ्क्ष्वास्माननुव्रतान् ॥ ३७ ॥
पदरत्नावली
तपस्यता तपः कुर्वता । सापत्न्यात् शत्रुत्वात् । तन्मूलखनने तेषां मूलोत्पाटने
॥ ३७ ॥
सत्यधर्मीया
किमिन्द्रेणाल्पवीर्येण । तपस्यता तपः कुर्वता ब्रह्मणा वा चतुरानेन किम् । तथाऽप्येवं सर्वदौर्बल्येऽनुभूतेऽपि सापत्न्याज्ज्ञातित्वाद्वैरित्वाद्वा ते नोपेक्ष्या इति वयं मन्महे जानीमस्तन्मूलखनने तेषां मूलोत्पाटनेऽनुव्रतानस्मान्नियुङ्क्ष्वाज्ञापय ॥ ३७ ॥
सुमनोरञ्जिनी
तपस्यता तपः कुर्वता ब्रह्मणा चतुर्मुखेन । यद्यपि देवेभ्यो न भीरस्माकं तथापि रिपवो नोपेक्ष्या इत्याह ॥ तथापीति ॥ सापत्न्यान्निमित्ताद् उपेक्ष्या उपेक्षार्हा न भवन्तीति मन्महे जानीमः । ततस्तेषां देवानां मूलखननार्थं तवानुव्रतान् अनुकूलान् अस्मान् नियुंक्ष्व नियोजय
॥ ३७ ॥
यथाऽऽमयोऽङ्गे समुपेक्षितो नृभिर्न शक्यते रूढपदश्चिकित्सितुम् ।
यथेन्द्रियग्राम उपेक्षितस्तथा रिपुर्महान् १लब्धबलो न चाल्यते ॥ ३८ ॥
पदरत्नावली
ओ शरीरे । आमयः कुष्ठादिः । रूढं सन्निरूढं पदं स्थानं येन सः । इन्द्रियग्राम इन्द्रियसमूहः । उपेक्षितः दुर्विषयेषु निमग्नश्चेत् ॥ ३८ ॥
सत्यधर्मीया
ननु सद्यो जातः पोतो भविष्यति तेन किं, बलवान्भवतु तदा पश्याम इति न वद स्वामिन्निति सनिदर्शनं वदन्ति ॥ यथेति ॥ ओ शरीरे । आमयो रोगः । रूढपदो रूढं पदं स्थानं यस्य स सन्निरूढपदो रोगश्चिकित्सितुं नृभिरुपेक्षितो नृभिर्भिषग्भिर्न शक्यते । रोगस्य पारक्यस्योपेक्षणं न विहितम् । विहितं च रक्षणं शरीरस्येतीरितं सत्यम् । परन्तु देवाः स्वीकीयाः कथं कर्तव्यमित्यतो न च स्वकोऽप्युपेक्षणीयो विहित इत्यत्र निदर्शनान्तरमाह ॥ यथेन्द्रियग्राम इति ॥ इन्द्रियसमूह उपेक्षितश्चेद्दुर्विषयेषु गच्छन्नच्छमपि तुच्छं करोति जनमित्युपेक्ष्यो यथा न तथा रिपुर्लब्धबलो महांश्चाल्यते न चलयितुमशक्य इतीदानीमेव तन्मूलविलयनं कर्तव्यमिति भावः । महालब्धबल इति पाठेऽपि नार्थभेदः ॥ ३८ ॥
सुमनोरञ्जिनी
स्वोक्तार्थं दृष्टान्तेन दृढयन्ति ॥ यथेति ॥ आमयो रोगः समुपेक्षित औषधादिना अचिकित्सितः । रूढपदश्चेद् रूढं पदं स्थानं येन सः । लब्धस्थान इति यावत् । चिकित्सितुं परिहर्तुं न शक्यते । यथा वा इन्द्रियग्राम उपेक्षितः पुनर्निगृहीतुं न शक्यते । तथा उपक्षितो रिपुर् महान् वयोधिकश्चेन् न चाल्यते चालयितुमप्यशक्यो भवति । कुतः । लब्धं प्राप्तं बलं येन सः । वय आधिक्येन प्राप्तबलत्वादिति । अतो बाल्य एव वैरिवधः कार्य इति भावः ॥ ३८ ॥
मूलं विष्णुर्हि देवानां यत्र धर्मः सनातनः ।
तस्य च ब्रह्मगोविप्रास्तपो यज्ञाः सदक्षिणाः ॥ ३९ ॥
पदरत्नावली
कोऽत्र साक्षान्मूलमित्यत आहुर् मूलमिति ॥ स क्वेत्यत आहुर् यत्रेति ॥ तस्य विष्णोर्मूलम् ॥ ३९ ॥
सत्यधर्मीया
मूलं किं, कथं तन्मथनमित्यतः कथयन्ति ॥ मूलमिति ॥ हि यतो विष्णु-र्देवानां मूलं मुख्यम् । स क्वेत्यत आहुः ॥ यत्रेति ॥ सनातनो धर्मो यत्र तत्र स आस्ते । तस्य च धर्मस्यापि । ब्रह्म च वेदो, गावश्च । विप्रास्तपः सदक्षिणा यज्ञाश्च मूलमित्यन्वयः ॥३९॥
सुमनोरञ्जिनी
तन्मूलखनने नियुंक्ष्वेत्युक्तम् । किं तेषां मूलम् । यत्खननं युष्माभिः क्रियत इति तत्राहुः ॥ मूलमिति ॥ विष्णुर्देवानां मूलम् । मूलमिव आश्रय इत्यर्थः । स च विष्णुर् यत्र सनातनो धर्मस्तत्र । तस्य धर्मस्य । तस्य विष्णोरिति पदरत्नावल्याम् । मूलम् । ब्रह्मगोविप्राः । ब्रह्म वेदः, गावो विप्राश्च, तपः, सदक्षिणा यज्ञाः ॥ ३९ ॥
विरोधोद्धारः
मूलमिति ॥ अत्र तस्य चेत्यादिना विष्णोर्ब्रह्मगवादिमूलकत्वमुक्तम् । तदयुक्तम् । सर्वकारणकारण इत्यनेन विरोधादत उच्यते । इदमसुरोक्तत्वादासुरं मतम् । यद्वा । तस्य विष्णोः । ब्रह्मगवादयः । चशब्दसंगृहीतमूलानि । वचनविपरिणामात् । मूल संवरण इति धातोराच्छादका इत्यर्थः ॥ ३९ ॥
॥ इति श्रीमद्भागवतशमस्कन्धपूर्वार्धव्याख्याने पाङ्घरी श्रीनिवासाचार्यकृते
विरोधोद्धारे पञ्चमोऽध्यायः ॥
तस्मात् सर्वात्मना राजन् ब्राह्मणान् ब्रह्मवादिनः ।
तपस्विनो यज्ञशीलान् गाश्च हन्मो हविर्दुघाः ॥ ४० ॥
पदरत्नावली
हन्मो हनिष्यामः । हविर्दुघा यज्ञयोग्यं घृतं दुहन्तीति । छन्दसि हकारस्थाने घकारः ॥ ४० ॥
सत्यधर्मीया
ब्रह्मवादिनस्तपस्विनो यज्ञशीलान्ब्राह्मणांस्तस्मात्सर्वात्मना प्रकाशवर्त्मनोपायेन हन्मो हनिष्यामः । हविः क्षीरं दुहन्तीति हविर्दुघा गाश्च हनिष्यामः । एवं चेन्मूलसङ्कालनं भविष्य-तीति भावः । दुहः प्रपूरणेऽस्माद्दुहः कप् घश्चेति कप्रत्ययो घश्चान्तादेशः । कित्त्वान्न गुणः ॥४०॥
सुमनोरञ्जिनी
तस्माद् वेदगोविप्रतपोयज्ञानां विष्णुमूलत्वात् । ब्रह्मवादिनः वेदवादिनो ब्राह्मणान् । हविर्दुघा हविर् यज्ञयोग्यं क्षीरादिद्रव्यं दुहन्तीर्गाश्च हन्म इति ॥ ४०,४१ ॥
विप्रा गावश्च वेदाश्च तपः सत्यं दमः शमः ।
श्रद्धा दया तितिक्षा च क्रतवश्च हरेस्तनूः ॥ ४१ ॥
सत्यधर्मीया
स्वोक्तकर्मकर्तव्यतां द्रढयितुमुक्तानुक्तैर्धर्मैः सह वदन्ति ॥ विप्रा इति ॥ सत्यं भूतहिताभिहतिः । हरेस्तनूस्तन्वस्तनूर्विद्धीति शेषो वा । तनूः शरीरमिति प्रथमैकवचनं वा । ऊकारान्तः । स्त्रियां मूर्तिस्तनुस्तनूरित्यमरः ॥ ४१ ॥
स हि सर्वसुराध्यक्षो ह्यसुरद्विड् गुहाचरः ।
तन्मूला देवताः सर्वाः सेश्वराः सचतुर्मुखाः ॥ ४२ ॥
पदरत्नावली
तन्मूलाः स एव मूलं येषां ते तथा ॥ ४२ ॥
सत्यधर्मीया
स विष्णुः सर्वसुपर्ववर्योऽसुरद्विट् गुहाचरः । सेश्वराः सेन्द्राः सचतुर्मुखाः सविधयः सर्वा देवतास्तन्मूलाः स मूलं येषां ते तथा ॥ ४२ ॥
सुमनोरञ्जिनी
किं धर्मविप्रादीनां भगवत्तनुत्वात्तद्धननमभीप्स्यसे तर्हि ते हन्तव्या एवेत्याहुः ॥ स हीति ॥ तर्हि साक्षादेव स हन्यतां किं तन्मूलान्वेषणेनेत्यत उक्तम् ॥ गुहाचर इति ॥ हृदयगुहाचर इत्यर्थः । तस्याप्रत्यक्षत्वान्न साक्षाद्धन्तुं शक्य इति भावः । तितिक्षा द्वन्द्वसहिष्णुता । एते विप्रादयो हरेस्तनूर्यतो ऽतोऽयमेवोपायः ॥ ४२ ॥
अयं वै तद्वधोपायो यदृषीणां विहिंसनम् ।
एवं दुर्मन्त्रिभिः कंसः सह सम्मन्त्र्य दुर्मतिः ।
ब्रह्महिंसां हितं मेने कालपाशावृतोऽसुरः ॥ ४३ ॥
सत्यधर्मीया
फलितं लपन्ति ॥ अयमिति ॥ यदृषीणां हिंसनम्, अयं तद्वधोपाय इत्यन्वयः । दुष्टाश्च ते मन्त्रा आलोचनानि च, येषां सन्तीति ते तथा । दुष्टाश्च ते मन्त्रिणश्चेति वा । दौष्ट्यं तु मन्त्रेषु यथायोग्यतयाऽऽन्वेति । ते वदन्तु स्वयं विवेकी कथमिदमृणोदित्यत आह ॥ दुर्मतिरिति ॥ सोऽपि तादृश इत्यर्थः । ब्रह्महिंसां तदादिध्वंसं कंसः स्वस्मै हितं क्षेमङ्करं मेने । तन्मननसाधनमाह ॥ कालपाशावृत इति । तदावृतता कुत इत्यत आह ॥ असुर इति
॥ ४३ ॥
सुमनोरञ्जिनी
संमन्त्र्य आलोच्य । ब्रह्महिंसां ब्राह्मणहिंसाम् । हितं हितकरं कर्म मेने । हितं यथा भवति तथेति वा । कुत इत्यतो निमित्तद्वयमाह ॥ असुरः कालपाशावृत इति ॥ कालस्य मृत्योः पाशेन आ सम्यक् वृतो युक्तः बद्ध इति यावत् ॥ ४३ ॥
सन्दिश्य साधुलोकस्य कदने कदनप्रियान् ।
कामरूपधरान् दिक्षु दानवान् गृहमाविशत् ॥ ४४ ॥
सत्यधर्मीया
साधुलोकस्य कदने, कदनमेव प्रियं येषां ते तथा तान् सन्दिश्याज्ञाप्य । कामरूपधरान्दानवान् दिक्षु, स्वयं गृहमाविशन्निविविशे ॥ ४४ ॥
सुमनोरञ्जिनी
कदने कलहार्थम् । कामेन इच्छया रूपधरान् अपेक्षितरूपधारणसमर्थान् दानवान् सभायां सन्दिश्य गृहमाविशत् ॥ ४४ ॥
ते वै रजःप्रकृतयस्तमसा मूढचेतसः ।
सतां विद्वेषमाचेरुरारादागतमृत्यवः ॥ ४५ ॥
पदरत्नावली
आरात् समीपे ॥ ४५ ॥
सत्यधर्मीया
ते कंससन्दिष्टा रजःप्रकृतयो रजोगुणसर्जनमितमिति रजःप्रकृतयोऽसुर-जातित्वात्तमसा मूढचेतसः सतां देवभूदेवादीनां विद्वेषमाचेरुरकुर्वन् । आरादागतो मृत्युर्येषां ते तथा
॥ ४५ ॥
सुमनोरञ्जिनी
रजःप्रकृतयोऽपि । तमसा तमोगुणेन । मूढं मोहयुक्तं चेतो येषां ते तथोक्ताः । आरात्समीपे ॥ ४५ ॥
आयुः श्रियं यशो धर्मं लोकानाशिष एव च ।
हन्ति श्रेयांसि सर्वाणि पुंसो महदतिक्रमः ॥ ४६ ॥
॥ इति श्रीमद्भागवते दशमस्कन्धपूर्वार्धे पञ्चमोऽध्यायः ॥
पदरत्नावली
विष्ण्वादिमहदतिक्रमफलमाह आयुरिति ॥ ४६ ॥
॥ इति श्रीमद्भागवतटीकायां विजयध्वजतीर्थभिक्षुकृतायां दशमस्कन्धपूर्वार्धे पञ्चमोऽध्यायः ॥
सत्यधर्मीया
सामान्यत एवं कुर्वतामवमान्यतैवमित्याह ॥ आयुरिति ॥ लोकान्प्राप्यान् । आशिषोऽभिलाषविशेषान् । किमुत सर्वाणि श्रेयांसि । महदतिक्रमो महदुल्लङ्घनं हन्ति नाशयति
॥ ४६ ॥
॥ इति श्रीभागवतटिप्पण्यां सत्यधर्मयतिकृतायां दशमपूर्वार्धे पञ्चमोऽध्यायः ॥ १०-५ ॥
सुमनोरञ्जिनी
विष्ण्वादिमहदतिक्रमफलमाह ॥ आयुरिति ॥ महदतिक्रमः महताम् अपराधाचरणम् । आशिष आशास्यमानान् ॥ ४६ ॥
॥ इति श्रीमद्भागवतदशमस्कन्धपूर्वार्धव्याख्यायां सुमनोरञ्जिन्यां पञ्चमोऽध्यायः ॥ १०-५ ॥