अथ सर्वगुणोपेतः कालः परमशोभनः
॥ अथ चतुर्थोऽध्यायः ॥
श्रीशुक उवाच–
अथ सर्वगुणोपेतः कालः परमशोभनः ।
यर्ह्येवाजनजन्मर्क्षः शान्तर्क्षग्रहतारकः ॥ १ ॥
पदरत्नावली
ब्रह्मरुद्राद्यमरवरसङ्कीर्तितस्य हरेर्भूभारहरणादिप्रयोजनकोऽवतारः निरतिशयमहिमा च निरूप्यतेऽस्मिन्नध्याये । भगवत्प्रादुर्भावपूर्वकालादेः सर्वगुणोपेतत्वादिविलासमाह श्रीशुक अथेति ॥ सर्वेषां ग्रहाणामुच्चस्थानगतत्वादिगुणविशिष्टः सर्वगुणोपेतः । परमं शोभनं यस्मात् स तथा । अजनस्य प्राकृतशरीरसंसर्गरूपजननरहितस्य हरेर् जन्म प्रादुर्भावः, तस्य ऋक्षं रोहिणीनामकं यत्र स तथा । ‘प्रदर्शयति लोकस्य जनिरित्युच्यते हरेः’ इत्यादेः । शान्तानि प्रसन्नानि ऋक्षाणि अश्विन्यादीनि ग्रहाश्च तारकाश्च यस्मिन् स तथा । यर्हि यदा एवंविधः कालः ॥ १ ॥
सत्यधर्मीया
अथेति ब्रह्मादिगमनानन्तरमित्यानन्तर्यार्थकं सच्छ्रुत्या मङ्गलप्रयोजनकम् । सर्वगुणैरुच्चस्थानस्थत्वादिसर्वग्रहगुणैरुपेतः । जनानां विद्यतेऽथमन्नं यस्मिन्सो ऽथः । स चासौ सर्वगुणोपेतश्चेति वा । यो भुङ्क्ते तद्दिने मोहात्पूयशोणितमत्ति स इत्यादेः । परमं शोभनं यस्मात्स तथा । परमरिजनं प्रत्यशोभनः । एकस्यैव कालस्य सदसद्विवक्षया शोभनत्वाशोभनत्वे । वियुक्तनारी परितापकरी किमिन्दुरानन्दकरो लोक इत्यादिवज्ज्ञेये । अजनस्य प्राकृतकायसंसर्गरूपजननहीनस्य जन्मनटनस्य ऋक्षं नक्षत्रं रोहिणीनामकं यस्मिन्सः । अजनेति वदन् जन्मेति जल्पन्प्रसिद्धज-न्मोपजहास शुक इति ज्ञेयम् । शान्तिप्रदानि ऋक्षाण्यस्थूलनक्षत्राणि, ग्रहा राह्वादयो, ये ऋक्षाः कृतनिवेशना हि ते, विहितस्थाननिवेशाश्च ते ग्रहाश्चेति वा । ऋक्षः कृतनिवेशने ऋक्षमुक्तं च नक्षत्र इति विश्वः । तारकाः स्थूलानि नक्षत्राणि वा यस्मिन्सः । तारका ज्योतिषीति निपातनान्नेत्वम् । तारकाणि यस्मिन्स इति वा । नक्षत्रे तारकं तारका अपि चेति विश्वः । यर्ह्यखण्डे खण्डःकाल इति यदेत्युक्तिः । अजनान्नारायणाज्जन्म यस्य स ब्रह्मा देवता यस्य तदृक्षं रोहिणीनक्षत्रं यस्मिन्स इति केचित् । प्रजापतिदेवतेति । तथा चोक्तम् । तुवदे चतुर्ब्रह्मः कं देवताप्रस्तावे । रोहिणीनक्षत्रं तथा च कालामृते । ऋक्षेशा अथ दस्रकालहुतभुग्ब्रह्मेन्द्विति ॥१॥
सुमनोरञ्जिनी
देवकीवसुदेवयोर् अनेकजन्मस्वाराधितभगवत्प्रसादेन लब्धभक्तीनामधिकारिणां भगवान् स्वस्वरूपमाविर्भावयतीति दर्शयितुं देवक्यां भगवदवतारो निरूप्यतेऽस्मिन्नध्याये ॥ अथेति ॥ अथ सर्वदेवगमनानन्तरम् । सर्वगुणोपेतो ऽत एव परमशोभनः नन्दाभद्रादिकुयोगराहित्येन मङ्गलकरः । अजनजन्मर्क्षः । अजनो विष्णुस् तज्जन्मा प्रजापतिस् तद्देवताको ऋक्षः रोहिणी यस्मिन्स तथा । शान्तानि सुखकराणि उच्चस्थानभूतानीति यावत् । ऋक्षशब्दो भशब्दवल्लग्नपरः । ऋक्षाणि लग्नानीति । येषां ते तथाभूता ग्रहरूपास्तारका यस्मिन् । अथवा शान्ताः प्रसन्ना अनुकूला इति यावत् । ऋक्षग्रहतारका ऋक्षाणि नक्षत्राणि अश्विन्यादीनि, ग्रहाश् चन्द्रादयस् तारका यस्मिन् । एवंविधः कालः यर्हि यदा प्राप्तः (नभसि कृष्णाष्टम्यां यदा रोहिणीयोगस् तदेति यावत्) । अथ श्रीभगवदवतारसूचकं परममंगलमभूदित्यन्वयः ॥ १ ॥
विरोधोद्धारः
अथेति । अत्र कालस्य सामान्येन परमशोभनत्वमुक्तम् । तदयुक्तम् । कंसादिभ्योऽशोभनत्वात् । अतो विरोधः । तस्मादर्थान्तरम् । अथसर्वगुणोपेत इत्येकं पदम् । नास्ति थम् अन्नं यस्य सोऽथः । यस्मादन्नं थमुच्यते इति कौर्मे । निरशनो भगवानित्यर्थः । अनश्नन्नन्योऽभिचाकशीतीति श्रुतेः । अन्यो निरन्नोऽपि बलेन भूयानिति स्मृतेश्च । तं सरन्ति जानन्ति ते सर्वाः । सृ गतौ ततो वः । गत्यर्थानां च ज्ञानार्थत्वात् । अनुसरन्तो वा । तेषां गुणोपेतः सुखकारक इत्यर्थः । यद्वा । अथ भगवदवतारारम्भ एव । सर्वान्प्रति गुणोपेतोऽपि कालः ॥ परं शत्रुं प्रति ॥ अशोभनः । आसीदिति शेषः । परम् अत्यर्थम् । अशोभनः कालः । अपेतः परावृत्तः । किन्तु । सर्वगुणः सर्वगुणा एव यस्मिन्स तथा । अभूदिति शेष इति वा ॥ अजनस्य विष्णोर् जन्म यस्य तस्य ब्रह्मण ऋक्षः रोहिणीनक्षत्रम् ॥ यर्हि यस्मिन्समये ॥ स कालः सर्वगुणोपेत इति योजना । यद्वा । अजनजन्म जनविलक्षणस्य जन्मरहितस्य वा भगवतो जन्मऋक्षम् । ऋकारो देवमाता स्यादित्येकाक्षरात् । ऋशब्दवाच्यादितिरूपदेवकी क्षं क्षेत्रं यस्य तत् । क्षः क्षेत्रे राक्षसे क्षये इति वररुचिकोशात् । क्षा भूमिर्यस्य वा । क्षाशब्दस्य पृथिवीनामसु पाठात् । देवक्यां भगवज्जन्म यदासीदित्यर्थः ॥ यर्ह्येव यदैव ॥ आसीत्तदा कालः ॥ शान्तर्क्ष-ग्रहतारकोऽभूत् ॥ शान्ताः प्रसन्नाः । ऋक्षाणि अश्विन्यादीनि । ग्रहाः सोमादयः । तारका अन्यभानि । यस्मिन्काले सः । यर्हि यदा । एवं कालः । तदा दिशः प्रसेदुरित्यादिरन्वयः । यद्वा । अथशब्दावृत्तिः कार्या । तथा च । यर्हि यदा । अथ सर्वम् । अथ मङ्गलम् । मङ्गलानन्तरारम्भप्रश्नकार्त्स्नेष्वथोऽथेत्यमरः । तदा कालः सर्वगुण इति योजना । केचित् । शान्तर्क्षग्रहतारकमिति पाठं कल्पयित्वा ऋक्षविशेषणत्वेनोत्तरचरणं च शान्ता ऋक्षादयो यस्मिंस्तदिति बहुव्रीहिणा योजयन्ति । तच्चिन्त्यम् । ऋक्षादेस्तच्छान्तत्वस्य वा रोहिण्याश्रयत्वानुपपत्तेः ॥ १ ॥
दिशः प्रसेदुर्गगनं निर्मलोडुगणोदयम् ।
मही १मङ्गलभूयिष्ठपुरग्रामव्रजाकरा ॥ २ ॥
पदरत्नावली
तदा दिशः प्रसेदुः प्रसन्ना अभूवन् । निर्मलानामुडूनां गणस्य उदयो यस्मिन् तथाभूतं गगनम् । मङ्गलपूर्णाः पुराणि ग्रामा व्रजाकराश्च यस्यां सा तथा ॥ २ ॥
सत्यधर्मीया
तदा दिशः प्रसेदुः प्रसन्ना अभूवन् । गगनं, भागभेदत इयमुक्तिः । निर्मलानामुडूनां गणस्योदयो यत्रेति तत् । मही । मङ्गलभूयिष्ठाः पुराणि ग्रामा बहुजनाकीर्णा व्रजनिकराश्च यस्यां सा ॥ २ ॥
सुमनोरञ्जिनी
तदेव दर्शयति ॥ दिश इत्यादिना ॥ प्रसेदुः प्रसन्ना मनोहरा इति यावत्, अभवन् । गगनं, निर्मलानामुडुगणानाम् उदयो यस्मिन् तत् । मही भूमिः । मङ्गलभूयिष्ठा मङ्गलपूर्णा । पुराणि, ग्रामाश्च, व्रजा आभीरपल्यः, तासाम् आकरा आश्रया । पुरग्रामाणां व्रजस्य समुदायस्य आश्रया वा ॥ २ ॥
विरोधोद्धारः
दिश इति ॥ अग्रे मन्दमन्दं जलधरा जगर्जुरिति सद्भावादत्र निर्मलोडु-गणोदयमिति विरुद्धम् । अतोऽर्थान्तरम् ॥ निर्मलः ॥ निर्दोष उडुगणोदयं लग्नं यस्मिन्गगने तत् । उडूनां गणो ऽनेकत्वं यस्मिंस्तद्राशेर् उदयो लग्नमिति विग्रहः । राशीनामुदयो लग्नमित्यमरः । यद्वा । निर्मलस् तिमिररहित उडुगणोदयः रोहिण्यादिनक्षत्रोदयः यस्मिन्निति । चन्द्रोदयाभावेन तत्तिथौ कृत्तिकान्तानामुडूनां तमस्युदयेऽपि रोहिण्यादीनां चन्द्रोदयसद्भावान्न तमस्युदय इति भावः ॥ अथवा । निर्मलः पुण्यरूपः य उडुगणः कृत्तिकादिविशाखान्ताश्चतुर्दशनक्षत्रगणः । तन्मध्येऽग्नि-दैवतत्वेनाद्यान्तयोर्यज्ञाद्युपयोगित्वाभावस्य क्वचिदुक्तत्वेन रोहिण्यादेरेव प्राशस्त्यात् । यत्पुण्यं नक्षत्रमित्यादिश्रुत्या तदादेर्देवनक्षत्रोक्तेः । तस्योदयो यस्मिंस्तत् । अभ्रपिधानेऽप्युदयाचलोर्ध्वागमन-रूपोदयस्याप्रतिबद्धत्वान्न विरोधापत्तिरिति भावः । किंवा । निर्मलोडु मलैः पापग्रहैः सहितान्युडूनि मलोडूनि निर्गतानि मलोडूनि यस्मात्तत् । तत्काले रोहिण्युदयात्तत्पूर्वाणि दृश्यमानानि चतुर्दशनक्षत्राणि पापग्रहानधिष्ठितान्याकाशेऽभवन्नित्यर्थः । गणोदयम् । नामैकदेशग्रहणेन नामग्रहणमिति न्यायात् । गणो गणेशः । तस्याकाशाभिमान्युदय आविर्भावो यस्मिंस्तद्गगनमासीत् । इदमप्युपलक्षणम् । कालादीनां सर्वेषामप्यभिमानिदेवताव्यक्तिः स्वस्वाभिमन्यमानस्थानेऽभूदिति ग्राह्यम् ॥ २ ॥
नद्यः प्रसन्नसलिला हृदा जलरुहश्रियः ।
द्विजालिकुलसन्नादस्तबका वनराजयः ॥ ३ ॥
पदरत्नावली
जलरुहाणां पद्मानां श्रियो येषु तथा । वनराजयो वनपङ्क्तयः ॥ ३ ॥
सत्यधर्मीया
जलरुहाणां कमलानां श्रियः शोभा येषां ते । वनराजयो वनपङ्क्तयः । द्विजानां पक्षिणामलीनां भ्रमराणां च कुलं तस्य सन्नादो येषु ते च स्तबका गुच्छा यासां ताः ॥ ३ ॥
सुमनोरञ्जिनी
नद्यः । प्रसन्नसलिलाः प्रसन्नानि निर्मलानि सलिलानि यासु ताः । जलरुहाणां कुमुदादीनां श्रियः शोभा येषु तादृशा हृदाः । वनराजयः वनपंक्तयः । द्विजालिकुल-सन्नादस्तबकाः । द्विजाः पक्षिणः, अलयो भ्रमरास् तेषां कुलस्य समुदायस्य सन्नादो येषु तथाविधाः स्तबका गुच्छा यासु तास् तथाविधा अभवन्निति शेषः ॥ ३ ॥
विरोधोद्धारः
द्विजालीति ॥ अत्र रात्रौ पक्षिशब्दासंभवाद्विरोधोऽतोऽर्थान्तरम् । द्विजानां ब्राह्मणानाम् । आलिः पंक्तिः । तस्याः । कुर् आश्रयभूमिः । तत्र यः । लसन् शोभमानः । नादः शब्दः । यस्य सः । स्तवः स्तुतिः । यासु तादृश्यो वनराजयस्तदा आसन् । स्वार्थे कः । बवयोरभेदश्च ॥ ३ ॥
ववौ वायुः सुखस्पर्शः पुण्यगन्धवहः शुचिः ।
अग्नयश्च द्विजातीनां शान्तास्तत्र समिन्धत ॥ ४ ॥
पदरत्नावली
सुखं तत्साधनं स्पर्शो यस्य सः । समिन्धत सम्यग् ज्वलिताः ॥ ४ ॥
सत्यधर्मीया
सुखं तत्साधनं स्पर्शो यस्य सः । सुखमासनमिति यथा । वहतीति वहः पुण्यगन्धस्य । शुचिः शुद्धः वायुः । शान्ताः प्राक् । तत्र तत्समये । समिन्धत दीप्ता बभूवुः
॥ ४ ॥
सुमनोरञ्जिनी
वायुः सुखस्पर्शः सुखकरस्पर्शवान् । पुण्यगन्धवहः सुगन्धिवाही । शुचिः शुभदेशादागतः सन् ववौ । द्विजातीनां त्रिवर्णानाम् अग्निहोत्रिणाम् अग्नयः गार्हपत्यादयः शान्ता अपि पूर्वम् अप्रज्वलिता अपि । समिन्धत प्रज्वलिता आसन्निति योजना ॥ ४ ॥
विरोधोद्धारः
अग्नय इति ॥ अत्र निशीथे ब्राह्मणाग्नीनां प्रदीपनासम्भवाद्विरोधोऽत उच्यते । कंसादिभयाद्ये पूर्वं शान्ता विनष्टाः । ते तत्र भगवज्जननकाले । सं स्वत एव इंधत प्रदीप्ता इति वैलक्षण्यज्ञापनायैव अडागमस्यापेक्षितत्वेऽपि समिन्धतेति विलक्षणः प्रयोगः । अन्यथा समैन्धतेति स्यात् । अथवा । ये च पूर्वं द्वीजातीनामग्नयः कोपाग्नयः संतापाग्नयो वा । समिन्धत प्रदीप्ता आसन् । ते । तत्र जन्मकाले । शान्ताः शमं प्राप्ताः ॥ ४ ॥
मनांस्यासन् प्रसन्नानि साधूनामसुरद्रुहाम् ।
जायमानेऽजने तस्मिन् नेदुर्दुन्दुभयो दिवि ॥ ५ ॥
सत्यधर्मीया
असुरेभ्यो द्रुह्यन्तीत्यसुरद्रुहस्तेषां साधूनाम् । मनांसि प्रसन्नान्यासन् । तस्मिन् अजने हरौ जायमाने समीपभविष्यज्जनने सति । दिवि दुन्दुभयो नेदुः स्वयम् ॥ ५ ॥
सुमनोरञ्जिनी
असुरद्रुहां साधूनां मनांसि प्रसन्नानि सन्तुष्टानि आसन् । तस्मिन् एतादृशे काले । अजने जायमाने जनिष्यमाणे । वर्तमानसामीप्याद्वर्तमानवद्व्यपदेशः। दिवि दुन्दुभयो नेदुः॥५॥
विरोधोद्धारः
मनांसीति । अत्र द्रोग्धुर्वै परतो भयमित्युक्त्या परद्रोहिणां भयसद्भावेन मनःप्रसादः साधुत्वं च कथम् । जडस्य स्वतः प्रवृतिः कथम् । अतो विरोधोऽत उच्यते ॥ असुरद्रुहाम् ॥ सुरद्रोहो न भवन्तीति तेऽसुरद्रुहस्तेषामिति विग्रहेण द्रोहाभावे तात्पर्यसिद्धेर्न विरोधद्वयमपि । यद्वा । आसन्नित्यत्र अ आसन्निति पृथक् पदद्वयम् । नैषा तर्केण मतिरापने-येत्यत्रत्यापेतिवत् । तथा च साधूनां मनांसि प्रसन्नानि नावसन्नानि आसन् । असुरद्रुहाम् अः विष्णुः सुरा देवास्तान् द्रुह्यन्ति ये तेषां तु । प्रसन्नानि प्रकर्षेण खिन्नानि आसन् ॥ अजने । जन्मरहिते जनविलक्षणे वा । भगवति जायमाने सति ॥ तस्मिन्निति ॥ विषयसप्तम्यास्तृतीयार्थकत्वात् । भगवज्जन्मनिमित्तेनेत्यर्थः । दिवि दुन्दुभयो नेदुः स्वयमेव शब्दमकुर्वन् । यद्वा । देववादिता इति विशेषेणान्वयः । अतो न विरोधोऽपि तृतीयः ॥ ५ ॥
जगुः किन्नरगन्धर्वास्तुष्टुवुः सिद्धचारणाः ।
विद्याधराश्च ननृतुरप्सरोभिः समं मुदा ॥ ६ ॥
सत्यधर्मीया
अप्सरोभिः समं साकम् ॥ ६ ॥
सुमनोरञ्जिनी
किन्नरगन्धर्वा जगुर् गायनं कृतवन्तः । सिद्धचारणास्तुष्टुवुः । अप्सरोभिः समं विद्याधरा मुदा ननृतुः ॥ ६ ॥
मुमुचुर्मुनयो देवाः सुमनांसि मुदान्विताः ।
मन्दं मन्दं जलधरा जगर्जुरनुसागरम् ॥ ७ ॥
पदरत्नावली
सुमनांसि पुष्पाणि । अनुसागरं समुद्रोपान्ते ॥ ७ ॥
सत्यधर्मीया
सुमनांसि सुमनसः । स्त्रियः सुमनसः पुष्पमित्यर्थः । भूमि्न स्त्रियां सुमनस इति रत्नकोशः । सुमनाः पुष्पमालयोः, स्त्रियां ना धीरदेवयोरिति मेदिनी । यद्वा सुमनसश्च सुमनांसि च सुमनांसि । द्वन्द्वे नपुंसकं भविष्यति । एकवचनं चेति प्रासङ्गिक्युक्तिः । कृष्ण एव मनांसि स्थापितवन्त इति द्योतनार्थं सुमनांसीत्युक्तिः । अनुसागरं समुद्रसमीपे मन्दं मन्दं जलधरा जगर्जुः
॥ ७ ॥
सुमनोरञ्जिनी
जनार्दने । जनान् कामिजनान् अर्दयति पीडयतीति तथाविधे । अतमे, तमो ध्वान्ते गुणे शोके क्लीबं वा ना विधुंतुदे इत्यभिधानात् तमोविरोधिनि चन्द्रे । उद्भूते निशीथे महानिशीथ इत्यर्थः । जायमाने उदिते सति देवरूपिण्यां देवक्याम् । सर्वेषां हृदयगुहासु शेत इति तथाविधो विष्णुर् यथा यथावत् । चतुर्भुजशंखचक्राद्यायुधधरः सन्नेव प्रादुरासीदिति योजना । इदं स्वदेहस्य शुक्लशोणितसम्बन्धाभावप्रदर्शनार्थम् ॥ यथोक्तं निर्णये ‘‘न तावता शुक्लतो रक्ततश्च जातोऽस्य देहस्थितिदर्शनाय । सशङ्खचक्राब्जगदः स दृष्टः’’ इति । तत्र दृष्टान्तः । प्राच्यां दिशि पुष्कलः पूर्ण इन्दुश् चन्द्र इवेति । महांतस्तु इवपुष्कल इः कामस् तस्य वपुषः कलेव कला यस्य सः विष्णुः । यथा प्राच्याम् इन्दुराविरासीत् तथा देवक्याम् आविरासीदित्यन्वय इत्युपदिशन्ति । तदा तमउद्भूते उद्भूततमसि निशीथे जनार्दने जायमाने सति । देवा मुदान्विताः सन्तः सुमनांसि पुष्पाणि मुमुचुः । मुनयोऽपि मुदान्विता बभूवुः । अनुसागरं सागरमनुसृत्य सागरोपान्त इति यावत् । मन्दं मन्दं जगर्जुरित्यन्वयः ॥ ७-९ ॥
निशीथे तमउद्भूते जायमाने जनार्दने ।
देवक्यां देवरूपिण्यां विष्णुः सर्वगुहाश्रयः ॥ ८ ॥
प्रादुरासीद् यथा प्राच्यां दिशीन्दुरिव पुष्कलः ॥ ९ ॥
पदरत्नावली
निशीथे अर्धरात्रे । तमो दुर्गा उद्भूतं यस्मिन् तस्मिन्, यशोदायां दुर्गोत्पत्ताविति यावत् । देवस्य हरेः रूपमस्यामस्तीति देवरूपिणी तस्याम् । पुष्कलः पूर्णकलः
॥ ८,९ ॥
सत्यधर्मीया
तमउद्भूते प्रचुरतमस्के । तमो दुर्गोद्भूतं यस्मिंस्तस्मिन् । यशोदायां दुर्गोत्पत्तौ तदानीं भाव्यायामिति यावदिति वा । तमो हि दुर्गेत्यादेः । आहिताग्न्यादिः । निशीथे निशीथः स्यादर्धरात्रे निशीथो रात्रिमात्रक इति विश्वः । गोपीथेत्यादिनिपातितः शब्दः । अजनार्दने जनो लोके महर्लोकात्परलोके च पामर इति विश्वादजना अपामरास्सज्जनास्तेषामर्दने कंसादिभिर्जायमाने सति । जनार्दने जनानां मुख्यादीनामर्दन आगमे जायमाने सतीति वा । जनार्दने पामरजनार्दने जायमाने । वर्तमानसामीप्ये वर्तमानव्यपदेश इति भविष्यति वा । आजायमानेजनार्दन इति पदमेकं वा । अजश्चासावुत्पत्तिरहितश्चासावयमोऽसदृशश्चासावनेजनो न विद्यते एजनं भयं यस्य सोऽजनश्चासावर्दनो याचितश्च तस्मिन् जायमान इति पूर्वेण नेदुर्दुन्दुभय इत्यनेनान्वयो वा । अनेनोज्ज्वलपातेनास्माकं नैल्यवर्णः कश्चन समुद्रशाय्युत्पत्स्यत इति स्वामिनोऽभिमतभङ्गभियेति ध्वन्यते । सजलजलदनीलमित्यादेः । अनेजन्निर्भयत्वादितीशावास्योपनिषद्भाष्योक्तेः । अन्यत्राजनो लोकविलक्षण इत्यर्थः । जायमाने जने तस्मिन्नेदुरिति श्लोके जायमाने जनेऽतस्मिन्निति छेदः । अतस्मिन्न सस् तस्मिन्नतस्मिन् श्रीहरिभिन्ने कीर्तिमदादिपूर्वजे जायमाने यानि मनांसि प्रसन्नानि शीर्णानि । अधुना मधुनाथोऽत्र प्रादुर्भूत इति जनार्दने जायमाने प्रसन्नान्यासन्नित्येकान्वयो वा । देवरूपिण्यां देवस्य रूपं तदस्त्यस्यामिति देवरूपिणी तस्याम् । सर्वगुहाशयः । सर्वेषां गुहा हृदयगुहास्तासु शेत इति स तथा । अधिकरणे शेतेरित्यच् । एवमेव देवो देवक्यां वर्तत इति दर्शयितुमदो विशेषणम् ॥
यथा यथावत्पूर्ण एव प्राच्याम् । यथाप्राच्यामित्येकं पदं वा । योग्या या प्राची तस्याम् । तत्तद्देशवासिविवक्षया प्राचीत्वादेरव्यवस्थितत्वादिति केचित् । दिशि पुष्कलः पूर्णकल इन्दुश्चन्द्रमा इव यथा प्रादुरासीत्तथा सम्यक् देवरूपिण्यां देवक्यामिति योजना वा । इन्दुर् इवपुष्कल इति वा छेदः । अस्यापत्यम् इर्मन्मथस्तस्य यद्वपुस्तद्यस्य कलांशस्तस्मिन्कला यस्य सः । साक्षान्मन्मथ-मन्मथ इत्यादेस्ततोऽपि सुन्दर इति भावः ॥ ८,९ ॥
विरोधोद्धारः
निशीथ इति । पूर्वं जायमाने जने तस्मिन्निति वाक्यसद्भावादत्र जायमाने जनार्दने इति पुनरुक्तिः । अतोऽर्थान्तरम् । द्विर्वचनस्य जन्मवैलक्षण्यप्रदर्शनार्थत्वात् । सत्प्रयोजनत्वेन सत्यामपि पुनरुक्तावदोषः । वैलक्षण्यं हि प्राकृतदेहविधुरत्वाच्चतुर्भुजादियुक्तत्वाच्च । जन्मनो लोकातिशयितत्वाद्वा । व्यत्ययोऽतिशयकुत्सनाभेदेष्विति हि सूत्रम् । यद्वा ॥ जनार्दने । अर्द गतौ याचने चेति धातोः । जनैरर्द्यते प्रार्थ्यते यस्तस्मिन् । तथा ॥ अतमसस् तमोविरोधिनः प्रकाशस्य ॥ उद्भूतम् । उद्भवम् । यस्मात्तथाविधे ॥ निशीथे नितरां शीते चन्द्रे इत्यर्थः । उद्गीथवत्तस्य थः ॥ जायमाने उदयं प्राप्तवति सति । विष्णुर्देवक्यां प्रादुरासीदिति सम्बन्धः । अथवा इथे विचित्रभयलक्षणे । निशि रात्र्याम् । उद्भूते सति । जनार्दने विष्णौ च जायमाने सति । तमोऽन्धकारः । यदा बभूवेति शेषः । तदा प्रादुरासीदिति सम्बन्धः । इ विचित्रे स्मरे पुमानिति हि यादवः । थकारो भयलक्षे इत्येकाक्षरे । षट्पादत्वात्सार्धोऽयं श्लोकः । तम उद्भूते तमसा उद्भूते उत्कृष्टे । निशीथे मध्यरात्रे । अधिकरणे सप्तमी वा । जनार्दने जनान् असत्प्राणिनो ऽर्दयति पीडयतीति स तथा । अनेकार्था हि धातव इत्युक्तेः । धातूनामनेकार्थत्वाद् रूढत्वाच्च । अर्द हिंसायामिति धातोः । असत्प्राणिहिंसको वा । शृृण्वे वीर उग्रमुग्रं दमायन्निति श्रुतेः । जनेषु जन्मवत्सु अर्दनं गमनं यस्येति तथा । प्रवेश इति यावत् । जनैरर्द्यते प्रार्थ्यतेऽसौ तथा वा । अर्द गतौ याचने चेति धातुः । अथवा । न जायते अर्दयति च संसारमिति जनार्दनः । सभूतः स जनार्दन इति स ह्यासीत्स नासीत्सोऽर्दयदिति श्रुतेः । उत वा । अजनार्दन इति विच्छिद्य जन्मरहिते संसारनाशके चेत्यर्थः । अपि वा । अजनैर्मुक्तैरर्द्यते गम्यते प्रार्थ्यत इति वा । किंवा । न जायतेऽनेनेति अजनम् । अर्दनं गतिर् ज्ञानं वा यस्येति । गत्यर्थानां ज्ञानार्थत्वात् । उक्तगुणविशिष्टविष्णौ । जायमाने आविर्भवति सति । जलधरा मन्दं मन्दं जगर्जुरिति पूर्वेण सम्बन्धः।
ननु जायमाने जने तस्मिन्निति वाक्यस्य पूर्वं विद्यमानत्वेनेयं पुनरुक्तिः प्रसज्येत चेति चेन्न । अस्य श्लोकान्तरस्थत्वेनादोषात् । अथवा । अजाय ब्रह्मणे । जनार्दने विष्णुविषये । माने ज्ञाने । अतमः मोहरहितम् । यथा भवति तथा । उद्भूते उत्पन्ने सति । निशीथे मध्यरात्रे । प्रादुरासीदिति वा । उत वा । जनार्दनविषये । तमसो ऽज्ञानस्य । उद्भूते उद्भवे । जायमाने सति । निशीथे प्रादुरासीदिति । किं वा । उद्भूतानि भूतानि यस्मात्तादृशे जनार्दने जायमाने सति । निशीथेऽपि अतमः प्रकाशो बभूवेति । स्वरोचिषा भारत सूतिकागृहं विरोचयन्तमिति वक्ष्यमाणत्वात् । अथवा । जनार्दने । जन हिंसायाम् । जायमाने जायमानायां सत्यां तमसोत्कृष्टे निशीथे आविरासीदिति । यद्वा । अजा कालशक्तिः । यमो ऽन्तकः । ताभ्यां सकाशात् । एजनं कम्पः । एजृ कम्पने । भयमिति यावत् । येषां तेभ्यो असुरेभ्यः सकाशात् । अर्दने पीडने । भूते जाते सति । यदा तु सताम् । उद् उत्कृष्टम् । तमः ग्लानिः । बभूव । तमु ग्लानौ । तदा निशीथे आविरासीदिति । अपि वा । अजायमाने जनानामसुराणामर्दने हिंसाविषये तम उद्भूते निशीथे आविरासीदिति । जनार्दने जनपीडके तमसोत्कृष्टे निशीथे जायमाने सतीति वा । उत वा । उद्भूते उत्कृष्टभूते जीवजात इत्यर्थः । जडस्यापि भूतशब्दवाच्यत्वात्तद्व्यावृत्तये विशेषणम् । जडस्य जीवापकृतत्वात् स्वापायोगाच्च । निशीथेन निमित्तेन इता गता । इण् गताविति धातोः । मा ज्ञानं यस्य तादृशे सति निशीथे । सर्वजीवेषु सुप्तेष्वित्यर्थः । आद् वासुदेवाज्जन्यत इति अजनो ब्रह्मा । अकारो वासुदेवः स्यादित्येकाक्षरः । यो ब्रह्माणं विदधाति पूर्वमिति श्रुतेश्च । तस्य । अर्दने याचने जायमाने सति च । आविरासीदित्यन्वयः । आहोस्वित् । जन्यन्ते ते जनाः । प्रकरणाद्देवकीपुत्राः । तेषाम् । अर्दने हिंसने । भूते जाते सति । निशि प्रलये । इ विचित्रं विश्वं थम् अन्नं यस्य तादृशे भगवति । प्रलये विश्वोपसंहारक इत्यर्थः । यस्मादन्नं थमुच्यत इति कौर्म्ये । उद् ऊर्ध्वम् । षट्गर्भहिंसानन्तरमित्यर्थः । जायमाने सति दुर्गादेवी यदा बभूव तदा आविरासीदिति । सर्वाधिकत्वेन तमो हि दुर्गा इत्यौद्दालिकायनश्रुतिः । दुर्गेति भद्रकालीतीति च । या योगमायाऽजनि नन्दजाययेति वक्ष्यमाणत्वात् । ग्रन्थबाहुल्यभिया विस्तरेणालमिति सद्भिः सन्तोष्टव्यम् ॥
अथोत्तरत्र पादचतुष्टयार्थोऽपि लिख्यते । यथेवेत्युपमाद्वयं वैयर्थ्यनिरासार्थम् । यथा प्राच्यां दिशि पुष्कल इन्दुः प्रादुरासीत्तथा देवक्यां विष्णुः प्रादुरासीत्तथा प्राच्यामिन्दुः प्रादुरासीदिति परस्पर प्रमेयत्वप्रदर्शनार्थमुपमाद्वयम् । यद्वा । यथाशब्द उपमार्थः । इवशब्द उत्प्रेक्षार्थः । तथा हि । इन्दोः कृष्णाष्टम्यामुदितत्वेन पूर्णकलात्वाभावात्पुष्कल इत्युत्प्रेक्षितेन्दुर्यथा प्राच्यां तथा देवक्यां विष्णुरित्यनेनोत्प्रेक्षणेन तद्दिने चन्द्रस्यापूर्णकलात्वेन पूर्णावतारत्वेन च भगवतश्चन्द्रोपमानयोग्यत्वं नास्तीति ध्वनितम् । अथवा । यथा विष्णुश्चतुर्भुजत्वादिगुणोपेतस्तथैव सन् प्राच्यामिन्दुरिव देवक्यां प्रादुरासीत् । चतुर्भुजं शङ्खगदाद्युदायुधमिति वक्ष्यमाणत्वात् । न प्राकृतशिशुवदिति भावः । उत वा । स्ववंशे भगवदवतारेण तद्दिनेऽपूर्णकलोऽपि चन्द्रो यथा यथावत्पुष्कलः पूर्णकल इन्दुरिव विष्णुर्देवक्यां प्रादुरासीदिति । किंवा । यथा सर्वगुहाशयस्तथैव भूत्वेन्दुरिव देवक्यां प्रादुरासीत् । हरेर्देवक्युदराद्बहिः प्रादुर्भावेऽपि तदुदरं विष्णुव्याप्तिहीनं नासीदिति भावः । आहोस्वित् । इवपुष्कल इत्येकं पदम् । इ विचित्रे स्मरे पुमानिति यादवकोशात् । इशब्दवाच्यो मदनस्तत्सदृशं वपुः शरीरं कलयतीति स तथा । दग्धशरीरमदनं वपुषा कलयति बन्धयतीति स तथेति वा । कल बन्धन इति धातुः । अपि वा । इन्दुरिव किञ्चिच् चन्द्रोऽल्पकलावानित्यर्थः । प्रादुर्बभूव । विष्णुस्तु यथावत्पुष्कलः प्रादुरासीत् । एककाले उभयोः सत्यपि जन्मनि न साम्यमिति भावः । किञ्चित्वे चोभयत्वे च संशये सदृशे तथा । इवशब्दः प्रयुज्येत न्यक्कारेऽपि च पण्डितैरिति शब्दनिर्णये । यद्वा । यदा विष्णुर्देवक्यां प्रादुरासीत्तदा पुष्कलोऽपि चन्द्र इव न्यक्कृतस्तिरस्कृत इति यावत् । अथवा इवपुः कल इति पदद्वयं भगवद्विशेषणम् । इवपुर् विचित्रशरीरः । शुक्लशोणित-सम्बन्धविधुरशरीर इत्यर्थः । तमद्भुतमिति वक्ष्यमाणत्वात् । अत एव प्रागुदितचन्द्रदृष्टान्तः । चन्द्रस्य प्रागुदयेऽपि शुक्लशोणितादिराहित्यम् । एवं देवक्यामुत्पन्नत्वेऽपि शुक्लशोणितादिराहित्यं भगवत इति भावः । कलः कं सुखमेव लाति आदत्ते स तथा । ला आदान इति धातुः । आनन्दस्वरूप इत्यर्थः । इदमेवालौकिकशरीरत्वे हेतुरपीति । तस्मान्नात्र पुनरुक्तादिदोषगन्धोऽपीति भावः ॥ ८,९ ॥
तमद्भुतं बालकमम्बुजेक्षणं चतुर्भुजं शङ्खगदाद्युदायुधम् ।
श्रीवत्सलक्ष्मं गलशोभिकौस्तुभं पीताम्बरं सान्द्रपयोदसौभगम् ॥ १० ॥
पदरत्नावली
शङ्खगदे आदी येषां तानि शङ्खगदादीनि, तानि च उदानि उत्कृष्टानि चायुधानि यस्य स तथा तम् । श्रीवत्सलक्ष्मं श्रीवत्सलाञ्छनम् । सान्द्रपयोदस्य जलपूर्णमेघस्येव सौभगं कान्तिविशेषो यस्य स तथा तम् ॥ १० ॥
सत्यधर्मीया
बालकं तद्वद्विद्यमानम् । बालः को ब्रह्मा यस्य तमित्यान्तरङ्गिको भावः । बाल एव कृष्णकेश एव बालक इति भावोऽपि विभावनीयः । चिकुरः कुन्तलो बालः । बालः कचे शिशौ । कचः केशः शिरोरुह इति सोपयुक्तयुक्तामरविश्वामराः । अम्बुजेक्षणं कमललोचनं रमासमायुक्तनेत्रं वा । अम्बुजे चन्द्रमसीक्षणम्, अम्बुजश्चन्द्रमा ईक्षणे यस्येति वा । शिशिरत्व-कुलगुरुत्वाभ्याम् इति शीतांशुग्रहः । चत्वारो भुजास्तत्काले प्रदर्शिता येन स तम् । अहं वैश्वानरो भूत्वा प्राणिनां देहमाश्रितः । प्राणापानसमायुक्तः पचाम्यन्नं चतुर्विधमित्यादेश्चतुर्भिः प्रकारैर्भुङ्क्ते भक्तमित्यप्यर्थः । शङ्खगदाद्युदायुधं शङ्खश्च गदा च शङ्खगदे ते उद्धृते आयुधे नन्दकचक्रके यस्य स तम् । श्रीवत्सलक्ष्मंगलशोभिकौस्तुभमिति पदमेकम् । श्रीवत्सो लक्ष्म चिन्हं यस्य तदसाधारण्य-द्योतको बिन्दुः । शोभाऽस्यास्तीति शोभि शिखादिभिः शोभत इति शोभी वा । गलेन शोभी कौस्तुभो मणिर्यस्य तम् । चिह्नं लक्ष्म च लक्षणमित्यमरः । पीतमम्बरं वस्त्रं यस्य तम् । सान्द्रशब्देन जलपूर्णता द्योत्यते । सान्द्रा जलपूर्णाः पयोदा मेघास्तेषां सौभगं कान्तिविशेषो यस्य तम्
॥ १० ॥
सुमनोरञ्जिनी
यथेत्युक्तं स्पष्टयति ॥ तमित्यादिना ॥ तम् अद्भुतं प्राकृतशिशुविलक्षणतया आश्चर्यकरं बालकम् । वसुदेव ऐक्षतेत्यन्वयः । कीदृशम् । अम्बुजेक्षणम् अम्बुजे इव ईक्षणे यस्य स तथा । अथ वा अम्बुजश् चन्द्रस् तद्वद् ईक्षणे यस्येति शान्तदृष्टिरित्यर्थः । यद्वा अम्बुजशब्देन चन्द्रसूर्यौ ग्राह्यौ । अम्बुनि जायत इति चन्द्रः । अम्बूनि जायन्तेऽस्मादिति सूर्यः । आदित्याज्जायते वृष्टिरिति श्रुतेः । तौ ईक्षणे यस्य स तथा । शङ्खगदाद्युदायुधम् । शङ्खगदे आदी येषां तानि । शङ्खगदादीनि तान्येव उत्कृष्टान्यायुधानि यस्य स तथा । श्रीवत्साख्यं लक्ष्म चिह्नं यस्य । गले कंठे, शोभत इति शोभि, शोभमानं कौस्तुभं यस्यासौ तथोक्तम् । सांद्रस्य जलपूर्णस्य पयोदस्य मेघस्य सौभगमिव सौभगं कान्तिर्यस्य सः ॥ १० ॥
महार्हवैढूर्यकिरीटकुण्डलत्विषा परिष्वक्तसहस्रकुन्तलम् ।
उद्दामकाञ्च्यङ्गदकङ्कणादिभिर्विरोचमानं वसुदेव ऐक्षत ॥ ११ ॥
पदरत्नावली
महार्हाणि अनर्घ्याणि च तानि वैदूर्यानि च महार्हवैदूर्यानि, किरीटं च कुण्डले च किरीटकुण्डलानि, महार्हवैदूर्यमयानि किरीटकुण्डलानि, तेषां त्विट् शोभा तया । परिष्वक्ताः परितः सम्बद्धाः सहस्रकुन्तला यस्य स तथा ॥ ११ ॥
सत्यधर्मीया
महानर्हो मूल्यं येषां तानि वैढूर्याणि गतम् । तेषां किरीटः कुण्डले च कर्णवेष्टने च तेषां त्विट् कान्तिस्तया । परिष्वक्ताः परितः सम्बद्धाः सहस्रं कुन्तला यस्य तम् । त्विषेति टाबन्ततापक्षे पदमेकम् । त्विषाभिरिति विग्रहभूमिकं च भवतीति कश्चन लाभस्तत्रेति ज्ञेयम् । उद्दामानि काञ्च्यङ्गदकङ्कणान्यादयो येषां तैराभरणैर्विरोचमानं तं वसुदेव ऐक्षतेति श्लोकद्विकान्वयः । पुंस्यादिः पूर्वपौरस्त्येत्यमरः ॥ ११ ॥
सुमनोरञ्जिनी
महार्हाणि अनर्घ्याणि वैडूर्यमयानि, किरीटं कुण्डले च किरीटकुण्डलानि । तेषां त्विषा कान्त्या । परिष्वक्ता मिलिता सहस्रसङ्ख्याः कुन्तला अलका यस्य तम् । उद्दामैर् उत्कृष्टैः काञ्च्यङ्गदकङ्कणादिभिः । काञ्ची मेखला अङ्गदे बाहुभूषणे, कङ्कणानि करभूषणानि आदीनि येषां तैः । विराजमानं भ्राजमानमित्यर्थः ॥ ११ ॥
स विस्मयोत्फुल्लविलोचनो हरिं सुतं विलोक्यानकदुन्दुभिस्तदा ।
कृष्णावतारोत्सवसम्भ्रमोऽस्पृशन्मुदा द्विजेभ्योऽयुतमाप्लुतो गवाम् ॥ १२ ॥
पदरत्नावली
अस्पृशद् दास्यामीति मनसा संक्लृप्तवान् । मुदा आप्लुतः ॥ १२ ॥
सत्यधर्मीया
विस्मयोत्फुल्ले लोचने यस्य सः । हरिं सुतं विलोक्य । कृष्णावतारोत्सव-सम्भ्रमः कृष्णस्यावतारजनितो योऽयमुत्सवस्तत्र सम्भ्रम आदरो यस्य सः । स आनकदुन्दुभिस्तदा आप्लुतः । स्नात इत्यनुक्त्वोक्त्वाऽऽप्लुत इति जलोत्प्लवनं सम्प्रदायायातमिति ध्वनयति । मुदा गवामयुतं द्विजेभ्योऽस्पृशन्मनसा ददौ । स्पर्शनो मारुते स्पर्शदानयोः स्पर्शनं मतमिति विश्वः । मुदा आप्लुत इति वा । कृष्णायां भूमौ योऽवतारस्तन्निमित्तो य उत्सवस्तत्र सम्भ्रमो यस्य स इत्यपि व्याकुर्वते । एतेनाधुना जातकर्माऽपि न जातं, कथं जातस्य कृष्णेति नामेति पराकृतेति वदन्तो यत्कृष्णं तदन्नस्य रक्तोऽग्निरुदकं शुक्लं कृष्णैव पृथिवी स्वत इत्यादेर्हरिमितीरणात्तदव-तारेत्येतावता पूर्तेः कृष्णेत्यवक्तव्यमिति युक्तिमुपन्यस्यातुतुषन्निति ज्ञेयम् । सुरभीणामसुरभीतितस्तदानीं दानासम्भवाद्गवामयुतमुद्दिश्य गवां सङ्कल्पवचसां प्रातिस्विकेनायुतमस्पृशद्ददावित्यन्वयनेन मनसेत्यध्याहार इति वदन्ति ॥ १२ ॥
सुमनोरञ्जिनी
तदा विस्मयेन आश्चर्येण उत्फुल्ले विकसिते लोचने यस्यासौ तथोक्तः । स आनकदुन्दुभिर् वसुदेवः । सुतं हरिं विलोक्य विज्ञाय । मुदा सन्तोषेणाप्लुतो व्याप्त आप्लुतः स्नातश्च । द्विजेभ्य गवामयुतम् अस्पृशद् दास्य इति मनसा सङ्कल्पितवान् ॥ १२ ॥
अथैनमस्तौदवधार्य पूरुषं परं नताङ्गः कृतधीः कृताञ्जलिः ।
स्वरोचिषा भारत सूतिकागृहं विरोचयन्तं गतभीः प्रभाववित् ॥ १३ ॥
पदरत्नावली
कृतधीः शिक्षितबुद्धिः, पण्डित इत्यर्थः । गतभीत्वे निमित्तं प्रभावविदिति
॥ १३ ॥
सत्यधर्मीया
अथ पूर् दानवभाररूपं पूरणं पुरा रुड् वा यस्य तम् । पूः पूजने समाख्याता पूरण इति विश्वः । तदवताराय कृतावतार इति भूभारभूतभूपकोपो विहित इति भावः । नताङ्गो नतान्यङ्गान्यष्टौ येन, यस्य स वा नताङ्गः । कृतधीः शिक्षितप्रेक्षः । कृताञ्जलिः । स्वरोचिषा सूतिकागृहं विरोचयन्तं परं श्रीहरिमवधार्य परं पूरुषं परमपूरुषमवधार्य वा निश्चित्यैवं भगवन्त-मवधारणकर्मीभूततयोपात्तं पुनः स्तुतिकर्मत्वेनाप्युपादानात् । इदमोऽन्वादेशे द्वितीया टौस्स्वेन इति एनादेशः । गता भीर्भीतिर्यस्य स सन्नस्तौत्तुष्टाव । ननु हिंसककंसकंसकिङ्कराणामसतां सतां कथं स्तवनावसरो गतभीतिश्चायमित्यत आह ॥ प्रभावविदिति ॥ आगताश्चेदवगत्य हन्यादेव देवो न समयोऽयं चेत्तान्मोहयेदिति तत्सामर्थ्यं वेत्तीति स तथा । तर्हि साकल्येनास्तौत्किमित्यतोऽप्याह ॥ प्रभाविति ॥ प्रभौ भगवद्विषयेऽविदज्ञ एव । अथाथाप्यस्तौदिति व्याचक्षते । गतभीःप्रभावविदिति पदमेकं वा । गता प्राप्ता वातादीनां भीर्यस्मात्स गतभीः । भीषाऽस्माद्वात इत्यादेः । गतभीरिति प्रभावो माहात्म्यं तं वेत्तीति स तथेति च विवृण्वन्ति । तन्निकाशे का शङ्केति भावः ॥ १३ ॥
सुमनोरञ्जिनी
अथ कृतधीः शिक्षितबुद्धिर् वसुदेव एनं शिशुं परं पूरुषम् अवधार्य निश्चित्य । नतं नम्रम् अङ्गं यस्य । साष्टाङ्गं प्रणम्येति यावत् । कृताञ्जलिः सन् यतः प्रभावं माहात्म्यं वेत्तीति तथा । अतो गतभीरस्तौदिति योजना ॥ १३ ॥
वसुदेव उवाच–
विदितोऽसि भवान् साक्षात् पुरुषः प्रकृतेः परः ।
केवलानुभवानन्दस्वरूपः सर्वबुद्धिदृक् ॥ १४ ॥
पदरत्नावली
प्रकृतेः परत्वेन केवलानुभवानन्दस्वरूपत्वेन सर्वबुद्धिसाक्षित्वेन च पुरुषः षङ्गुण इति भवान् पूज्यस्त्वं विदितोऽसि । साक्षान् नोपचारमात्रम् ॥ १४ ॥
सत्यधर्मीया
प्रभावविदित्युक्तज्ञत्वं सर्वज्ञं प्रति सम्बोध्य किञ्चिद्दर्शयति ॥ विदित इति ॥ प्रकृतेः परो विलक्षणः पुरुषः । नाविष्टरूपादिरित्याह ॥ साक्षादिति ॥ मुख्यतया । केवलौ जडामिश्रौ, अनुभवो ज्ञानं चानन्दस्तावेव स्वरूपं यस्य स । बुद्ध्यत इति बुद्धिः । सर्वा चासौ बुद्धिः पदार्थस्तं पश्यतीति स तथा । यद्वा बुद्धं बुद्धिर्भावे क्तस्तदस्ति यस्य तत् सर्वं च तद्बुद्धिं च ज्ञानविषयो जगत्तत्पश्यतीति । सर्वबुद्धिदृगिति सर्वजीवद्रष्टा । बुद्धिर्जीव इति प्रोक्त इति तात्पर्यान्तरादिति वा । भवान्विदितोऽसि । त्वमग्रे प्रथमो मातरिश्वन इति ऋग्भाष्ये त्वं विष्णो प्रथमो मातरिश्वन आविर्बभूवास्य सुबोधवत्त्वादिति कथमुक्तमित्यर्थादाशङ्क्य टीकायां युष्मद्युपपदेऽपि त्वं देव शक्त्यामित्यादौ प्रथमपुरुषो दृष्ट इत्युक्तेरत्र भवच्छब्दयोगेऽप्यत एव भागवतान्मध्यमपुरुषो ज्ञेयः । व्यत्ययस्तद्विवरणकृद्भिः स्वातन्त्र्यार्थ इत्युक्तोऽत्रापि मद्वेदनदानत्वमेव स्वतन्त्र इति स्वातन्त्र्यद्योतक इति भवान्विदितोऽसीत्युपपद्यते । तन्नियमप्रच्यावनं न कार्यं चेत् । (१) भा दीप्तौ (२) भा ज्ञाने (३) भा आधारभावे (४) भ औदार्ये (५) भ सन्धाने (६) भ उपादाने (७) भ निकटभावे (८) भ सेव्यत्वे (९) भ ऊरीकरणे (१०) भ सन्तभावे (११) भा नानाभावे (१२) भ वैलक्षण्ये (१३) भ आधिक्ये (१४) भ स्वातन्त्र्ये (१५) भ आनन्दे (१६) भ सन्ततवचने (१७) भ पूज्यभावे (१८) भ विस्तारे (१९) भ विनाशने (२०) भ स्वामिभावे (२१) भ विनिश्चललाभे भावे (२२) भ उग्रभावे (२३) भ उद्गाने (२४) भ सम्मोहने (२५) भ सञ्चारे (२६) भ विदारणे (२७) भ आलोचने (२८) भ सुन्दरभावे । श्रीमदुडुपी श्रीकृष्णपादपद्माराधकहृषीकेशश्रीमच्चरणैः श्रीमध्वराजमुखकमलाच्छ्रुत्वा लिखितमेतद्धातुव्याख्यानमिति तत्सम्प्रदायाभिज्ञोक्तमुखाच्छ्रुत्वा कृतेयं लेखेति एतदन्यतमो योग्यो भोऽस्यास्तीति भवानिति वा त्वं विदितोऽसीत्यन्वयः ॥ १४ ॥
सुमनोरञ्जिनी
भवान् त्वम् । साक्षात् प्रत्यक्षतः विदितोऽसि । मयेति शेषः । किमिति । पुरुषः पूर्णषड्गुण इति । तदपि कथम् । प्रकृतेर् जडप्रकृतेः परः विलक्षणः । प्रकृतेश्चेतनप्रकृते-र्महालक्ष्म्याः पर उत्तमो लक्ष्मीपतिरेवेति विदितोऽसीति वा । केवलो जडामिश्रः स चासौ अनुभवानन्दस्वरूपश् चिदानन्ददेहवान् । सर्वेषां बुद्धिदृशौ परोक्षापरोक्षज्ञाने ज्ञानविज्ञाने वा यस्मात्सः
॥ १४ ॥
स एव स्वप्रकृत्येदं सृष्ट्वाऽग्रे त्रिगुणात्मकम् ।
तदनु त्वं ह्यप्रविष्टः प्रविष्ट इव भाव्यसे ॥ १५ ॥
तात्पर्यम्
‘बहिश्च विद्यमानत्वादप्रविष्टो जगद्धरिः । प्रविष्टवच्च तत्रैव पूर्णरूपत्वतो विभुः । अप्रवेशः प्रवेशश्च प्रविष्टोपमता तथा । बहिरन्तर्गतस्य स्यादित्याहुः शब्दवेदिन’ इति च ॥ १५ ॥
पदरत्नावली
ननु साक्षित्वेनोदासीनश्चेज् जगत्स्रष्टा क इति तत्राह स एवेति ॥ तदनु सृष्टेरनन्तरम् । बहिरपि विद्यमानत्वादप्रविष्टः । पूर्णस्वरूपत्वात् प्रविष्टः । सर्वगतस्य प्रवेशाप्रवेशौ उपचारतो न तु देवदत्तवन्मुख्यावित्यत इवशब्दः। ‘बहिश्च विद्यमानत्वादप्रविष्टो जगद्धरिः । प्रविष्टवच्च तत्रैव पूर्णरूपत्वतो विभुः । अप्रवेशः प्रवेशश्च प्रविष्टोपमता तथा । बहिरन्तर्गतस्य स्यादित्याहुः शब्दवेदिनः ॥’ इति ब्रह्मतर्कोक्तेः । सर्वगतरूपेणाप्रवेशः पुरुषरूपेण प्रवेशः । जले प्रतीयमानाकाशादिवदिति वा । हिशब्दोऽसङ्गत्वमाह ॥ १५ ॥
दुर्घटभावदीपिका
स भगवान् त्वमेव । प्रकृत्या स्वाधीनया प्रकृत्या । अग्रे त्रिगुणात्मकमिदं जगत्सृष्ट्वा जगदनु जगत्सर्जानन्तरमेवाप्रविष्टो बहिर्विद्यमानत्वात् । प्रविष्टोऽन्तर्विद्यमानत्वात्प्रविष्ट इव जगत्समपरिमाणतया जगति विद्यमानत्वाद्भाव्यसे ज्ञायस इत्येतद्धि बहिश्च विद्यमानत्वादिति प्रमाणप्रसिद्धमिति । अयं भावः । गृहे प्रविष्टं घटादिकं गृहाद्बहिस्तिष्ठति गृहेऽपि गृहान्यूनपरिमाणतया तिष्ठति । भगवांस्तु जगतो बहिस्तिष्ठतीति कारणादप्रविष्ट इत्युच्यते । जगतोऽऽन्तस्तिष्ठतीति कारणात्प्रविष्ट इत्युच्यते । जगत्यपि जगत्समपरिमाणतया तिष्ठतीति कारणादप्रविष्ट इत्युच्यते इति । एतेन सृष्ट्वेत्यनेनैव जगत्सर्जनानन्तरमित्यर्थ इत्यस्य प्राप्तत्वात् तदन्वित्येतत्पुनरुक्तमिति चोद्यस्या-नवकाशः । सृष्ट्वेत्यनेन जगत्सर्जनानन्तर्यमुच्यते । तदन्वित्यनेन जगत्सर्जनानन्तरमेव न तु कालाव्यवधानेनेत्युच्यत इत्यभ्युपगमात् । एतेनैव प्रविष्ट इवेति प्रविष्टसादृश्योक्त्या बहिर्विद्यमानस्य प्राप्तत्वाद्बहिर्विद्यमानत्वादप्रविष्ट इत्युच्यमाने पुनरुक्तिः स्यादिति दूषणमपास्तम् । प्रविष्ट इवेत्यनेन बहिर्विद्यमानत्वं नोच्यते किन्तु समपरिमाणत्वमुच्यत इत्यभ्युपगमात् ॥ ता. अर्थः ॥ विभुर्हरिर्जगतो बहिश्च बहिरन्तश्च विद्यमानत्वाज्जगदप्रविष्टो जगत्प्रविष्ट इति चोच्यते । जगत्येव पूर्णरूपत्वतो जगत्पूर्णरूपत्वाज् जगत्समपरिमाणरूपत्वादिति यावत् । प्रविष्ट इव प्रविष्टसदृश इत्युच्यते । उक्तार्थे शब्दवेदिनां संमतिमाह ॥ अप्रवेश इति ॥ बहिरन्तर्गतस्येति हेतुगर्भविशेषणम् । बहिरन्तर्गतस्येति जगत्समपरिमाणस्याप्युपलक्षणम् । भगवतो बहिर्गतत्वादप्रवेशोऽप्रवेशोक्तिर्युक्ता स्यात् । जगदन्त-र्गतत्वात्प्रवेशः प्रवेशोक्तिर्युक्ता स्यात् । जगत्समपरिमाणत्वात्तथा प्रविष्टोपमता प्रविष्टोपमतोक्तिर्युक्ता स्यादिति शब्दवेदिनः शब्दार्थवेदिन आहुरिति । एतेन बहिश्च विद्यमानत्वादिति श्लोकेनैवाप्रविष्टत्वस्य प्रविष्टोपमत्वस्य चोपपादितत्वादप्रवेश इति श्लोकः पुनरुक्त इति चोद्यं परिहृतम् । प्रमाणकारेणाप्रवेश इत्यनेन स्वोक्तार्थे शब्दवेदिनां संमतिरुच्यत इत्यङ्गीकारात् ॥ १५ ॥
सत्यधर्मीया
स एव स्वप्रकृत्येदमिति श्लोके प्रविष्ट इवेत्यनेन प्रवेशोऽवास्तविक इति प्रतीयते । सा च तत्सृष्ट्वा तदेवानुप्राविशत् । अन्तर्बहिश्च तत्सर्वं व्याप्य नारायणः स्थित इत्यादि-मानावमानितेत्यतः प्रमाणेनैव तत्तात्पर्यमाह ॥ बहिरिति ॥ हरिर्बहिश्च बहिरपि विद्यमानत्वा-ज्जगतोऽप्रविष्ट इत्युच्यते । विभुः पूर्णरूपत्वतस्तत्र जगति प्रविष्टवत्प्रविष्ट इव तत्कृतलेपा-भावादिवेत्युक्तिः । अणुत्वस्यैव घनत्वस्यैवासत्त्वपरं वाऽणोरणीयान्महतो महीयानित्यादेः । इममेव विशदयति ॥ अप्रवेश इति ॥ अप्रवेशः प्रवेशश्च प्रविष्टोपमता तथा । बहिरन्तर्गतस्यास्य हरेः स्यादिति शब्दवेदिन आहुरिति च ब्रह्मतर्क इति शेषः । एष म आत्माऽन्तर्हृदये ज्यायान् व्रीहेर्वेत्यादिना हृदयान्तर्गतस्य रूपस्य पूर्णत्वमुक्त्वा तस्यैवैष म आत्माऽन्तर्हृदये ज्यायान्पृथिव्या ज्यायानन्तरिक्षाज्ज्यायानिति छान्दोग्योपनिषदाद्युक्तेः ॥ ततश्चायं श्लोकार्थः ॥ यो मया विदितः स एव सः सारत्वात्स इति प्रोक्त इत्यादेः साररूप इति वा । सः साधकतापन्न इति वा । स कोपे वारणे सस्ये तथा शूलिनि साधक सति विश्वः । स्वप्रकृत्या स्वाधीनप्रकृतिमुपादानीकृत्याग्रे जगत्सृष्ट्वा । अवान्तरकारणमाह ॥ त्रिगुणात्मकमिति ॥ अनु सर्जनमनुसृत्य तज्जगदेवाप्रविष्टो बहिष्ठरूपेणाप्रविष्टोऽन्तर्गतरूपेण प्रविष्टः । इवेन तत्कृतदुर्दशाशून्यतामाह । भाव्यसे विभाव्यसे । हीति ब्रह्मतर्कप्रसिद्धिद्योतकः ॥ १५ ॥
सुमनोरञ्जिनी
तत्सृष्ट्वा तदेवानुप्राविशदिति श्रुतिं मनसि निधायाह ॥ स एवेति ॥ स्वप्रकृत्या स्वेच्छया स्वाधीनया प्रकृत्या उपादानीभूतया । त्रिगुणात्मकं गुणत्रयपरिणामम् । इदं प्रत्यक्षसिद्धं जगद् अग्रे प्रथमं सृष्ट्वा । तदनु तदनन्तरम् । प्रविष्ट इव भाव्यसे ज्ञायसे । वस्तुतोऽप्रविष्टत्वात् प्रविष्ट इवेति । कुतः । यतो अप्रविष्टः बहिरपि विद्यमानः व्याप्तत्वेनान्तरपि पूर्णत्वात् प्रविष्ट इव प्रदृश्यस इति भावः । तदुक्तं–
बहिश्च विद्यमानत्वादप्रविष्टो जगद्धरिः ।
प्रविष्टवच्च तत्रैव पूर्णरूपत्वतो विभुः ।
अप्रवेशः प्रवेशश्च प्रविष्टोपमता तथा ।
बहिरंतर्गतस्य स्यादित्याहुः शब्दवेदिनः ॥ इति चेति ।
हरिः । जगत् प्रथमा सप्तम्यर्थे जगति अप्रविष्ट इत्युच्यते । कुतः । बहिश्च बहिरपि विद्यमानत्वात् । अप्रविष्टो हि बहिर्विद्यते । तत्रैव जगत्येव प्रविष्टं वस्तु यथा पूर्णरूपं तत्रैव पर्याप्तरूपं तथा पूर्णरूपत्वत एव निमित्तात् । न तु देवदत्तादिवद् बहिस्त्यागेन प्रवेशात्प्रविष्ट इत्युच्यत इति शेषः । अप्रवेशः प्रवेशश्च तथा प्रविष्टोपमता चेत्येतत्सर्वं बहिरन्तर्गतस्यान्तर्बहिर्व्याप्तस्य युज्यत एवेति शब्दवेदिनः शब्दार्थतत्वज्ञानिन आहुरिति तात्पर्यार्थो द्रष्टव्यः ॥ १५ ॥
य एतेऽविकृता भावाः सप्त ते विकृतैः सह ।
नानावीर्याः पृथग्भूता विराजं शयनं तव ॥ १६ ॥
सन्निपत्य समुत्पाद्य दृश्यन्तेऽनुगता इव ।
प्रागेव विद्यमानत्वान्न तेषामिह सम्भवः ॥ १७ ॥
तात्पर्यम्
**‘महदादिस्त्वविकृत ईषद्विकृतरूपत’ इति च ॥ अनुगता इव प्रविष्टा इव । पूर्वोक्तवद्बहिरपि विद्यमानत्वात् । अन्तश्च देवतानां १विभक्तशक्तित्वात्पूर्वोत्पन्नत्वा-त्तत्त्वानामण्डप्रवेशमात्रम्२ । व्यक्तिविशेषादुत्पत्तिरित्युपचर्यते । अण्डजो ब्रह्मेत्यादि । ‘महद्रूपादिना ब्रह्मा देवाश्चैव प्रजज्ञिरे । अण्डे त्वेषामभिव्यक्तिर्जनिरित्यभिधीयत’ इति च **
॥ १६,१७ ॥
पदरत्नावली
सृष्टिप्रकारं दर्शयति य इति ॥ य एते सप्ताविकृता महदहङ्कारपञ्चतन्मात्राणि भावाः पदार्थास्ते विकृतैः स्वस्वकार्यैः पृथिव्यादिभिर्जन्यप्राणिकामकर्मादिभिर्वा सह सन्निपत्य अन्योन्यं मिलित्वा विराजं ब्रह्माण्डं समुत्पाद्य अनुगताः प्रविष्टा इव दृश्यन्ते । कथम्भूता भावाः ? पृथग्भूता विश्लिष्टाः । नानावीर्या अवकाशदानादिशक्तीनां नानाविधत्वाद्, विभक्तशक्तित्वात् तदभिमानि-देवानाम् । ननु तर्हि मेलनकर्ता क इति तत्राह शयनमिति ॥ तव शयनस्थानीयत्वात् त्वमेव मेलनकर्तेत्यर्थः ॥
व्यक्तिविशेषाद् अण्डे प्रवेशमात्रमेवोत्पत्तिर्न तु साक्षादित्याह प्रागेवेति ॥ इह ब्रह्माण्डे सम्भवः साक्षादुत्पत्तिर्नास्ति, किन्तु व्यक्तिविशेषेण प्रवेशमात्रमेव । कुतः ? प्रागेव विद्यमानत्वाद् लब्धसत्तात्वात्, पूर्वमेवोत्पन्नत्वादित्यर्थः । प्रकृतिविकृतत्वातिरिक्तविकृतत्वाभावादविकृतता महदादीनामित्यतो महदादयोऽविकृता इत्युच्यन्ते । एतत् ‘महदादिस्त्वविकृत ईषद् विकृतरूपतः’ इत्यारभ्य ‘‘अण्डे त्वेषामभिव्यक्तिर्जनिरित्यभिधीयते ॥’ इत्यन्तेन सम्यग् व्याख्यातमाचार्यैरिति भाव्यम् ॥ १६,१७ ॥
सत्यधर्मीया
य एतेऽविकृता भावा इति श्लोकेऽविकृता अपरिणताः सप्त भावा द्रव्याद्यभावावसानाः पदार्था विकृतैः स्वस्वकार्यैः समेता ब्रह्माण्डं विराजमनुगता इव दृश्यन्त इति वैशेषिककल्पनास्पदसप्तपदार्थानां ब्रह्माण्डप्रविष्टोपमताऽत्रोच्यत इत्यपरथाप्रतिपत्त्यापत्त्यै भावाः सप्तेत्यस्य यथावदर्थं प्रदर्शयन्मानमुपन्यस्य तेनैव तेषामविकृतत्वं चैवमित्यावेदयति ॥ महदादिरिति ॥ अहङ्कारतत्त्वं शब्दादयः पञ्चतन्मात्राश्चादिपदार्थः । अविकृतो महदादीनां साक्षादुपादानस्य प्रकृतेर्नित्यत्वादेषां सूक्ष्मरूपं च नित्यकमित्यादेरीषद्विकृतरूपतोऽसंसृष्टत्वाद्रूपभेदेनाविकृतत्व-तदुपमत्वानि ज्ञेयानि । सन्निपत्य समुत्पाद्येत्युत्तरश्लोकेऽनुगता इवेति विराजं ब्रह्माण्डमनुसृत्य गच्छन्तीति भाति । तन्निरासाय तदनूद्य व्याचष्टे ॥ अनुगता इवेति ॥ तस्यार्थः प्रविष्टा इवेति ॥ महदादिष्वपि प्रविष्टत्वाप्रविष्टत्वं भागवते पक्ष इवोपपादनीयमित्याशयवान् सङ्कुच्योक्तां स्मारयति ॥ पूर्वोक्त-वदिति ॥ ब्रह्माण्डान्तस्तद्बहिश्च विद्यमानत्वात्तत्त्रिकं ज्ञेयम् । प्रागेव विद्यमानत्वादित्यादिनाऽत्रत्येन वाक्येन महदादीनामुत्पत्तिराहित्यमुच्यते । तच्च–
अनित्यं द्विविधं मतम् ।
असंसृष्टं च संसृष्टमसंसृष्टं महानहम् ।
बुद्धिर्मनः खानि दश मात्रा भूतानि पञ्च च ।
संसृष्टमण्डं तद्गं च समस्तं सम्प्रकीर्तितम् ।
पूर्वं पूर्वं कारणं स्यात्प्रकृत्यंशैश्च संयुतम् ।
महदादिषु तत्त्वेषु त्वण्डाद्यं तात्त्विकं स्मृतम् ।
सूक्ष्माणि महदादीनि स्थूलान्यण्डादिकानि च ।
स इदं सर्वमसृजत ॥
ॐ प्रतिज्ञाहानिरव्यतिरेकाच्छब्देभ्यः ।
ॐ यावद्विकारं तु विभागो लोकवत् ।
इत्यादिवियदधिकरणसुधा
ससर्ज भगवानादौ त्रीन् गुणान्प्रकृतेः परः ।
महत्तत्त्वं ततो विष्णुः सृष्टावान्ब्रह्मणस्तनुम् ।
महत्तत्त्वादहङ्कारं ससर्ज शिवविग्रहम् ।
दैवान्देहान् मनः खानि खं च स त्रिविधात्ततः ।
इत्यादिविरुद्धत्वान्नोपपद्यत इत्यतो मानमनुमतार्थतया समीकरोति ॥ देवतानामिति ॥ इत्यादीत्यस्येत्यादावित्यर्थः । महदादीनां तत्त्वानां प्रवेशमात्रं देवतानामभिमानः । अण्डजो ब्रह्मेत्यादौ जनिधात्वर्थीभूतोत्पत्तिरुपचर्यते । प्रवेशादिरूपगौणार्थपरेत्यर्थः । कुतो न सा मुख्योत्पत्तिरिति तिरस्करोति ॥ पूर्वोत्पन्नत्वादिति ॥ अण्डात्पूर्वमुत्पन्नत्वात् । तदसिद्धिं परिहरति ॥ विभक्त-शक्तित्वादिति ॥ तारतम्येन विभागो ह्यल्पशक्तिः स्यादित्यादेः शक्तिमत्त्वादित्यर्थः । तथा हि बृहदारण्यकभाष्योदाहृतहरिवंशे–
विष्णुवायुगिरीशेन्द्रदेवविप्राः क्रमात्सदा ।
सामर्थ्यतो विहीनास्तु गुणैः सर्वैस्तथैव च ।
हीनो विष्णुर्न कस्यापि सर्वतश्चोत्तमोत्तमः ॥ इति ।
नन्वस्तु वरो विभक्तिशक्तित्वे पूर्वमुत्पन्नत्वं तु कुत इति चेन्न । ॐ विपर्ययेण तु क्रमोऽत उपपद्यत इति सूत्रभाष्ये ।
पूर्वे पूर्वे यतो विष्णोः सन्निधानं क्रमाधिकम् ।
सामर्थ्याधिक्यमेतेषां पश्चादेव लयस्तथा ॥ इत्यादेः ।
बाह्यसृष्टिर्मुख्या त्वमुख्याऽण्डान्तःसृष्टिः । यथोक्तम् । चराचरव्यपाश्रयस्तु स्यादिति सूत्रभाष्ये
परादव्यक्तमुत्पन्नमव्यक्तात्तु महांस्तथा ।
एवं बाह्या परा सृष्टिरन्तस्तव्द्यक्त्यपेक्षया ॥ इति ।
को वा गुणः सम औपराक्यां वृतावित्यत आह ॥ व्यक्तिविशेषादिति ॥ घटादीना-मिवोत्पत्त्यनन्तरं व्यक्तिविशेषस्तथा तद्गुणव्यक्तिकृत्सदृशव्यक्तिकृद्युक्तत्वाद्गौणी ज्ञेया । मानमप्युक्तार्थ आह ॥ महद्रूपेति ॥ महद्रूपं महत्तत्त्वरूपं तदेवादिर्यस्याहंरूपादेस्तन्महद्रूपादि तेन ब्रह्म देवा ब्रह्मादयो देवाः । अण्डे त्वित्युक्त्येयं जनिस्तद्बहिरिति द्योत्यते । तथा च तस्यामुख्यत्वमपि ज्ञापितं ज्ञेयम् । अण्डे तदन्तर्जनिर्या श्रुता साऽभिव्यक्तिरभिधीयते गौणीवृत्या ॥ ततश्चायं श्लोकद्विकार्थः ॥ सृष्ट्वाऽग्र इत्यग्रे कथितसृष्टिप्रकारमीरयति ॥ य इति ॥ य एते सप्त अविकृता भावा महदहङ्कार-पञ्चतन्मात्राः पदार्थास्ते विकृतैर्विकारमाप्तैः पृथिव्यादिभिः सन्निपत्यान्योन्यं मिलित्वा विराजं ब्रह्माण्डं समुत्पाद्यानुगताः प्रविष्टा दृश्यन्ते बहिरपि सत्त्वात् । तद्भावस्वरूपं निरूपयति ॥ पृथग्भूता इति ॥ विश्लिष्टाः । नानावीर्यास्तत्तत्पदार्थशक्तीनां बाहुविध्यान्नानावीर्या इत्युक्तिः । तत्तदन्तर्गतानां विभक्तशक्तित्वादिति शेषः । तव शयनीयस्थानं तस्मात्त्वमेव मेलक इति भावः । उत्पत्तिस्तूपचारत इत्याह । इह ब्रह्माण्डान्तः प्रागण्डसृष्टेः पूर्वं विद्यमानत्वात्तेषां सम्भव उत्पत्तिर्मुख्या न हि । किन्तु व्यक्तिविशेषेण प्रवेशमात्रम् । प्रकृतिविकृतत्वातिरिक्तविकृतत्वाभावादविकृततैषां ज्ञेयेति ॥१६,१७॥
सुमनोरञ्जिनी
सृष्ट्वेत्युक्तसृष्टिप्रकारमुपपादयति ॥ य एत इति ॥ य एते सप्त अविकृता ईषद्विकृताः । महदादिस्त्वविकृत इति तात्पर्योक्तेः । भावाः पदार्थास् ते पृथग्भूता एतन्नियमनं त्वया कार्यमिति विभक्तशक्ति…..भिमन्यमानाः (?) । (अल्पस्वे निस्व…. इति व्यवहारवदिति भावः ।) अत एव नानावीर्या नानाकार्यप्रवर्तकाः । विकृतैर् एकादशेन्द्रियपञ्च….लीभूतैः (?) पृथिव्यादिभिर्वा सह सन्निपत्य संयोगं प्राप्य तव शयनं शयनमिव शयनम् आश्रयमिति यावत् । विराजं ब्रह्माण्डम् उत्पाद्य तत्र अनुगता इव प्रविष्टा इव दृश्यन्ते । बहिरपि आवरणतया विद्यमान-त्वात् । तदुक्तम् । अनुगता इव प्रविष्टा इव । पूर्वोक्तवद्बहिरपि विद्यमानत्वादिति । इह ब्रह्माण्डान्तस् तेषां महदाद्यभिमानिनां ब्रह्मादीनां संभव उत्पत्तिर्न । कुतः, तदभिमन्यमानतत्वानां प्रागेव विद्यमानत्वाद् लब्धजन्मत्वात् । विदृ लाभे तदैवोत्पत्तिस्तेषाम् । न ह्यभिमानिनमन्तराऽभि-मन्यमानावस्थानं संभवतीति भावः । तदुक्तम् । अन्तश्च देवतानां विभक्तशक्तित्वात्पूर्वोत्पन्न-त्वात्तत्त्वानामण्डे प्रवेशमात्रं व्यक्तिविशेषादुत्पत्तिरित्युपचर्यते । अण्डजो ब्रह्मेत्यादि । महद्रूपादिना ब्रह्मा देवाश्चापि प्रज्ञज्ञिरे । अण्डे त्वेषामभिव्यक्तिर्जनिरित्यभिधीयत इति चेति । व्यक्तिविशेषेण अण्डे अन्तः प्रवेशमात्रमेव महदादिदेवानां न तूत्पत्तिः । कुतः । तदभिमन्यमानतत्वानां पूर्वं ब्रह्माण्डोत्पत्तेः पूर्वमेवोत्पन्नत्वात् । नन्वथाप्यभिमानविशेषोत्पत्तिरेवैषामुत्पत्तिरस्तु इत्यत उक्तम् ॥ विभक्तशक्तित्वादिति ॥ पूर्वमेव हरिणा विभक्ता ‘इदं तत्वं त्वया नियम्यमिति व्यवस्थापिता शक्तिर् नियमनशक्तिर्येषान्ते तथोक्ताः ॥ श्रीहरिणा यदा व्यवस्था कृता तदैव तेषामभिमान-स्योत्पन्नत्वान्नेदानीमेव स इति भावः । अविभक्तेति पाठे अन्तश्च अन्तरेव विभक्तशक्तित्वा-भावादित्यर्थः । पूर्वमेव विभक्तशक्तित्वादिति तात्पर्यम् । तर्हि अण्डजो ब्रह्मेत्यादौ उत्पत्तिवचनं कथं युज्यत इत्यत उक्तम् ॥ अण्डजो ब्रह्मेत्यादि ॥ यदुत्पत्तिर् उत्पत्तिवचनं तद् इति पूर्वोक्तव्यक्तिविशेषमात्रमभिप्रेत्योपचर्यते । तत्र प्रमाणमाह ॥ महद्रूपादिनेति ॥ महद्रूपेण ब्रह्मा, आदिपदोपात्ताहंकारादिरूपेण रुद्रादिदेवाः प्रजज्ञिरे अण्डाद्बहिः । अण्डे तु एषामभिव्यक्तिरेव जनिरित्यभिधीयत इत्याचार्यवचनयोजना ॥ १६,१७ ॥
एवं भवान् बुद्ध्यनुमेयलक्षणो ग्राह्यैर्गुणैः सन्नपि तद्गुणाग्रहः ।
अनावृतत्वाद् बहिरन्तरं न ते सर्वस्य सर्वात्मन आत्मवस्तुनः ॥ १८ ॥
तात्पर्यम्
**ग्राह्यगुणविषयबुद्ध्यनुमेयलक्षणः । ग्राह्यगुणेष्वस्वातन्त्र्यात्तज्ज्ञापकोऽ- न्योऽस्तीति ज्ञायते । ‘ज्ञाताऽपि सर्वभावानां ज्ञायते ज्ञानलिङ्गतः । जिघृक्षोर्ग्रहणाभावाद-स्वातन्त्र्यप्रतीतितः । सर्वत्राव्यवधानेन द्रष्टृत्वात्सर्ववस्तुनः । आन्तरं बाह्यमित्येवं विशेषो नास्ति कश्चने’ति तन्त्रभागवते । जीवस्य ग्रहणशक्तिरपि तस्येत्यपिशब्दः । एवं शरीरमुत्पाद्य २ज्ञायसे । सर्वस्य सम्पूर्णस्य । ‘सर्वः सम्पूर्णसामर्थ्यात्सर्वात्मा सर्व-भक्षणात् । अनन्याश्रयतश्चात्मवस्तुत्वमभिधीयत’ इति च । आत्मन्येव वासादात्मवस्तु **
॥ १८ ॥
पदरत्नावली
स इत्यनुवर्तते । यथा तत्वानामचेतनत्वेन तदभिमानिनां विभक्तशक्तित्वेन च तेषामन्यस्त्वं मेलयितृत्वेन भाव्यः स एवं शरीरमुत्पाद्य समुत्पत्तेः प्राक् पश्चादपि निर्दोषत्वेन वर्तमानो भवान् ग्राह्यैरनुमेयैर्गुणैरिन्द्रियविषयैर् उत्पन्नया बुद्ध्या ज्ञानाख्यलिङ्गेनानुमेयानि लक्षणानि स्वातन्त्र्यादीनि यस्य स तथा । तेषामिन्द्रियाणां गुणाग्रहः विषयज्ञापकोऽन्योऽस्तीति ज्ञायते ‘क्षेत्रज्ञः पुरुषो ह्यात्मा’ इत्यत्र क्षेत्रज्ञानस्य जीवनिष्ठत्वेन दर्शनात् कथं नारायणनिष्ठत्वेनोच्यत इति तत्राह अपीति ॥ ग्राह्यगुणेष्वस्वातन्त्र्यप्रतीतेरिदं जानामीति जीवनिष्ठग्रहणशक्तिरपि तन्नियतेति । तदुक्तमाचार्यैः ‘ग्राह्यगुणविषयबुद्ध्यनुमेयलक्षणः । ग्राह्यगुणेष्वस्वातन्त्र्यात् तज्ज्ञापकोऽन्योऽस्तीति ज्ञायते ।’ इति । सन् सर्वस्य ज्ञातृत्वेन वर्तमान इति वा । तदुक्तम् - ‘ज्ञाताऽपि सर्वभावानां ज्ञायते ज्ञानलिङ्गतः । जिघृक्षोर्ग्रहणाभावादस्वातन्त्र्यप्रतीतितः’ इति । ननु सर्वजीवानामन्तःकरण-निष्ठसुखदुःखादिसर्वभावाः कथं भगवता विज्ञायन्ते इत्यत आह अनावृतत्वादिति ॥ अव्यवधानेन द्रष्टृत्वात् सर्वगतत्वाच्च । तदुक्तम् ‘सर्वत्राव्यवधानेन द्रष्टृत्वात् सर्ववस्तुनः । आन्तरं बाह्यमित्येवं विशेषो नास्ति कश्चन ॥’ इति । जीवस्थग्रहणशक्तिरपि तस्येत्यपिशब्दः । एवं शरीरमुत्पाद्य ज्ञायसे । बहिरन्तर्विभागः कुतो नास्तीति तत्राह सर्वस्येति ॥ सर्वस्य पूर्णस्य हेतोरनुग्राहकमाह सर्वात्मन इति ॥ न ह्यव्याप्तस्य सर्वस्यात्तृत्वं देवदत्तस्येव युज्यते तस्मात् सर्वभक्षकत्वा-न्यथानुपपत्याऽपरिच्छिन्नत्वमेष्टव्यम् । नन्वपरिच्छिन्नस्य ‘एको देवः सर्वभूतेषु गूढः’ इत्य-न्याश्रयत्वेनावस्थानं कथमिति तत्राह आत्मवस्तुन इति ॥ आत्मन्येव वसति न परस्मिन्नशक्ततया वसतीत्यात्मवस्तु तस्य । तदुक्तम्– ‘सर्वः सम्पूर्णसामर्थ्यात् सर्वात्मा सर्वभक्षणात् । अनन्याश्रय-तश्चात्मवस्तुत्वमभिधीयते ॥’’ इति च ॥ १८ ॥
सत्यधर्मीया
एवं भवान् बुद्ध्यनुमेयलक्षण इति श्लोके गुणराहित्यं तथाऽनुमानमात्रामान- कलक्षणकत्वमेकस्य पारमार्थिकताऽपारमार्थिकता चेतरस्येत्यसदर्थप्रतीतेश्च सतोऽर्थस्य ग्राह्यैर्गुणै-रित्यस्यान्वयनप्रकारं प्रदर्श्य बुद्ध्यनुमेयेत्यादेस्तात्पर्यमाह ॥ ग्राह्यगुणैरिति ॥ सुपां सुपो भवन्तीति सप्तम्या भिसादेशः । ग्राह्यगुणेष्विति । तृतीया सप्तम्यर्थ इति प्रदर्श्यार्थापयति ॥ बुद्ध्यनुमेय-लक्षणग्राह्यगुणेष्विति । तद्गुणज्ञान इति यावत् । बुद्ध्यनुमेयं लक्षणं स्वातन्त्र्यरूपं यस्य स तथा । अस्वातन्त्र्याज्जीवस्येति शेषः । तज्ज्ञापको गुणज्ञानजनकोऽन्यो जीवविलक्षणोऽस्तीति ज्ञायते । बुद्ध्यनुमेयलक्षणग्राह्यगुणेष्विति लपनमात्रेण नार्थ उक्तप्राय इति तदभिप्रायकं प्रमाणमुपन्यस्य भागवतमप्यवगततां नयति ॥ ज्ञातेति ॥ सर्वस्य स्वेतरस्य ज्ञाताऽपि भगवान् ज्ञानलिङ्गतो जीवजातजातज्ञानलिङ्गेन मेयते तज्ज्ञानप्रेरकतया ज्ञायत इत्युच्यते । चेतनमात्रस्य सम्भवति ज्ञानम् । तत्रास्वातन्त्र्यं कुतो जीवस्येत्यत आह ॥ जिघृक्षोरिति ॥ ग्रहीतुमिच्छावतः । स्वभावजिज्ञासोरिति यावत् । स्वत एव ज्ञानाभावादन्योऽभ्युपेयः । कुतस्तन्नेत्यत आह ॥ अस्वातन्त्र्यप्रतीतित इति ॥ अस्वातन्त्र्येणैव प्रतीतिमत्त्वाज्ज्ञास्यामीतीच्छति । न जायते तदित्यस्वातन्त्र्यप्रतीतेरित्यपि योजयन्ति । अनेन सन्नपि तद्गुणाग्रह इति विवृतम् । अनावृतत्वादिति विवृणोति ॥ सर्वत्रेति ॥ सर्वत्राव्यवधानेन लिङ्गाद्यनपेक्षतया द्रष्टृत्वात् । सर्ववस्तु भगवांस्तस्य सर्वस्मिन्वसतीति वसतेस्तुन्प्रत्ययः । सर्वाच्छादकत्वात्सर्वशक्तत्वाद्वा सर्ववस्तु शक्तं वस्त्विति तात्पर्यान्तरात् । सर्ववस्तुनः सर्वपदार्थस्येति वा । तस्याव्यवधानद्रष्टृताहेतुमाह ॥ आन्तरमिति ॥ यद्विशेषकृतं व्यवधानं स नास्तीत्यर्थः । अपेरर्थमाह ॥ जीवस्येति ॥ इत्यपिशब्द इत्यर्थद्योतकोऽपिशब्द इत्यर्थः । प्राक् कस्याप्यर्थ-स्यानुक्तत्वादेवमित्यतिदेशः कथमिति तत्राह ॥ एवमिति ॥ ब्रह्माण्डोत्पत्तिप्रकारस्योक्तत्वादेवं शरीरमुत्पाद्य ज्ञायत इत्यध्याहार्यं मूल इति सूचितम् । सर्वस्य सर्वात्मन इत्यनयोरर्थविशेषं स्वयमेकं व्याख्यायोभयार्थसङ्ग्राहकं मानमाह । सर्वस्य पूर्णस्य । सर्वात्मा सर्वभक्षणात् । आङ्पूर्वाददेः कर्तरि मन्प्रत्यये तस्य चर्त्वे आत्मेति ज्ञेयम् । आत्मवस्तुन इत्यस्यार्थमाह ॥ अनन्याश्रयतश्चेति ॥ कथमिदमात्मवस्तुपदाल्लब्धमित्यतः स्वयमाह ॥ आत्मन्येवेति ॥
ततश्चायं श्लोकार्थः । यथा तत्त्वानां तदभिमतानां चाचेतनत्वेन विभक्तशक्तित्वेन च तदन्यो मेलयितृत्वेन सम्प्रतिपन्नस्तथा भवाञ्छरीरमुत्पाद्य सन्सर्वदा ग्राह्यैर्गुणैस्तेषु विषयेषु बुद्ध्यनुमेयं लक्षणं स्वातन्त्र्यादिकं यस्य स तच्छरीरादिभेदेन ज्ञायते । तद्गुणानामग्रहो ज्ञानाभावो जीवस्येति शेषः । अस्वातान्त्र्यात्तद्गुणानामाग्रहः सम्यग्ग्रहणं ते सकाशादेव । ममापि कुत इदमित्यत इव इत्याह ॥ अनावृतत्वादप्रकृत्यावृतत्वादिति ॥ अबहिरन्तरमिति नास्ति । सर्वस्य सम्पूर्णसामर्थ्यात्पूर्णस्य व्याप्ततया पूर्णस्येति वा । सर्वं समाप्नोषि ततोऽसि सर्व इत्यादेः । सर्वात्मनः सर्वभक्षकात्सर्वस्वामिनो वा । आत्मवस्तुन आत्मन्येव वसतीति स तथा । स्वे महिम्नीत्यादेः ॥ १८ ॥
सुमनोरञ्जिनी
एवं ब्रह्माण्डोत्पत्तिक्रमेण शरीरमुत्पाद्य भवान् । स्वतन्त्रत्वेन ज्ञायत इति शेषः । कथमिति तत्राह ॥ बुद्धीत्यादिना । भवान् सन् ज्ञाता सर्वज्ञोऽपि । गत्यर्थस्य सदे रूपमेतत् । ग्राह्यैर् इन्द्रियग्राह्यैर् गुणैः रूपादिभिर्जन्या या बुद्धिः रूपादिविषयिणी बुद्धिरित्यर्थः । विषयस्य प्रत्यक्षं प्रति हेतुत्वात् । तयाऽनुमेयं लक्षणं स्वरूपं स्वातन्त्र्यादिलक्षणं वा यस्य स तादृशोऽस्ति । चक्षुरादिभिः रूपादिज्ञानं तावज्जायते । तच्चक्षुरादिनियामकेन स्वतन्त्रपुरुषेण विना अनुपपद्यमानं तं गमयति । तादृशश्च स्वातन्त्र्येण नियन्ता त्वमेवेत्येवंप्रकारेणान्यथानुपपत्त्या ज्ञेय इति भावः । ननु जीव एव किं न स्यात्तज्ज्ञाननियामक इति तत्राह ॥ तद्गुणेति ॥ जिघृक्षुरिति शेषः । जिघृक्षुर् ज्ञानेच्छावान् जीवस् तद्गुणाग्रहः । तद्गुणानां रूपादीनां न विद्यते ग्रहो यस्य सः । ज्ञातुमिच्छोरपि जीवस्यास्वातन्त्र्याद्रूपादिज्ञानं तदिच्छया न जायत इत्यनुभवसिद्धमिति भावः । न केवलमेतावत् । जीवस्था या ग्रहणशक्तिः सापि त्वदीयेति समुच्चायकोऽपिशब्दः । तदुक्तमाचार्यैः- ग्राह्यगुणविषयबुद्ध्यनुमेयलक्षणः ग्राह्यगुणेऽस्वातन्त्र्यात् तज्ज्ञापकोऽन्योऽस्तीति ज्ञायते । ‘ज्ञाताऽपि सर्वभावानां ज्ञायते ज्ञानलिङ्गतः । जिघृक्षोर्ग्रहणाभावादस्वातन्त्र्यप्रतीतितः’ इति । ग्राह्यगुण-विषयबुद्धीत्यनेन ग्राह्यैर्गुणैर्जन्या या बुद्धिस्तदनुमेयलक्षण इति योजना प्रदर्शिता । ग्राह्यगुणेति अनुमानप्रकारप्रदर्शनम् । ग्राह्यगुणेषु रूपादिषु तद्ग्रहणादिति यावत् । जीवस्यास्वातन्त्र्याद् अन्यः जीवातिरिक्तः ज्ञानकरणचक्षुरादिः स्वातन्त्र्येण नियामकोऽस्ति स एवेश्वर इति । सन्नित्यस्यार्थो ज्ञाताऽपीति । जिघृक्षोर् ज्ञातुमिच्छावतः । जीवस्येति शेषः । ग्रहणाभावान्निमित्ता-दस्वातन्त्र्यप्रतीतेरित्यर्थः । सत्यामपि ज्ञानेच्छायां ज्ञानाभावदर्शनान्न ज्ञाने स्वातन्त्र्यं जीवस्येति भाव इति तात्पर्यार्थोऽवसेयः । त इदं बहिरिदमन्तरमिति विशेषो नास्ति । कुतः । अनावृतत्वात् । आवरणं व्यवधानं तद्रहितत्वात् । अव्यवधानेन सर्वस्य द्रष्टृत्वादिति यावत् । तत्र हेतुः सर्वस्येति ॥ पूर्णस्येत्यर्थः । सर्वमत्तीति सर्वात्मा तस्य । आत्मन्येव वसतीत्यात्मवस्तु । अनन्याश्रय इत्यर्थः । तदुक्तम्– ‘‘सर्वत्राव्यवधानेन द्रष्टृत्वात्सर्ववस्तुनः । आन्तरं बाह्यमित्येवं विशेषो नास्ति कश्चन ॥ इति तन्त्रभागवते । जीवस्य ग्रहणशक्तिरपि तस्येत्यपिशब्दः । एवं शरीरमुत्पाद्य ज्ञायते । सर्वस्य पूर्णस्य । ‘सर्वः संपूर्णसामर्थ्यात्सर्वात्मा सर्वभक्षणात् । अनन्याश्रयतश्चात्मवस्तुत्वमभिधीयते ॥’ इति चेति ।’’ अपिशब्दैवंशब्दयोः स्फुटमर्थाप्रतीतेर्व्याख्याति ॥ जीवस्येति ॥ तस्य हरेः । एवं ब्रह्माण्डमिव । मूले शरीरमुत्पाद्य ज्ञायत इति शेषोक्तिरिति ज्ञेयम् ॥ १८ ॥
यदात्मनो दृश्यगुणेषु सन्निधेर्व्यवस्यसेऽस्वव्यतिरेकतोऽबुधैः ।
विनाऽनुवादं न च तन्मनीषितं सम्यग् वचो व्यक्तमुपाददत्पुमान् ॥ १९ ॥
तात्पर्यम्
परमात्मनोऽपि शरीरे सन्निधानादेवाबुधैरस्वव्यतिरेकतो ज्ञायसे । १यथानुकूलवादं वेदवचनं विना प्रवर्तमानं न तन्मनीषितम् । सम्यक् । ‘अभी३-दमेकमेको अस्मि निष्षाभीद्वा किमु त्रयः करन्ति । खले न पर्षान्प्रतिहन्मि भूरि किं मा निन्दन्ति शत्रवोऽनिन्द्रा’ इति जीवेशयोर्भेदे व्यक्तं वचः परः पुमानुपाददे । ‘प्रविष्ट-त्वाच्छरीरेषु जीव एवेति दुर्धियः । मन्यन्ते परमात्मानं न तन्मतमनुव्रजेत् । वेदवाद-विरोधित्वादनुयाता तमो विशेत् । यतः पर्यङ्कशयन आह विष्णुः सनातनः । इदं जगत्सर्वमथेदृशानि भूरीणि वा मामभियान्ति सङ्ख्ये । धान्यानि यद्वत्खलगानि मर्त्यः सञ्चूर्णयिष्याम्यहमेक एवे’ति ब्रह्माण्डे । २चेति फलतोऽपि तमो यान्तीति । ‘ऐकात्म्य-ज्ञानतो यान्ति तमो भेदात्परं पदम् । स्वातन्त्र्यपारतन्त्र्यादिज्ञानं भेददृशिर्भवेदि’ति ब्रह्मवैवर्ते ॥ १९ ॥
पदरत्नावली
ज्ञानलिङ्गेन शरीरेन्द्रियादिभ्यो भेदेन ज्ञायसे इति यत् प्रत्यपादि, तत्राज्ञानिन एवं मन्यन्त इत्याह यदात्मन इति ॥ आत्मनः परमात्मनः प्रत्यगात्मनः दृश्यगुणेषु शरीरेन्द्रियादिषु सन्निधेः प्रवेशलक्षणसन्निधानादबुधैरस्वव्यतिरेकतः, स्वाभेदेन व्यवस्यसे निश्चित्य ज्ञायसे इति यत् तदनुवादम् अनुकूलं वेदवचनं विना प्रवर्तनान् न मनीषितं नैवाङ्गीकारयोग्यम् । कुत इति तत्राह सम्यगिति ॥ पुमान् पुरुषः, पर्यङ्कशयनो विष्णुर् व्यक्तं संशयनिरासकरणं सम्यग्वचो ऽपौरुषेयत्वेन निर्दोषवेदवाक्यम् उपाददत् स्वीकृतवानित्यन्वयः । तदुक्तम्– ‘परमात्मनोऽपि शरीरे सन्निधानाद-बुधैरस्वव्यतिरेकतो ज्ञायसे । यथानुकूलवादं वेदवचनं विना प्रवर्तनान्न तन्मनीषितं सम्यक् ।’ इति । जीवेश्वरभेदविषये व्यक्तं वेदवचनं स्वयं विष्णुरेवमुपाददे इत्याह । ‘अभीदमेकमेको अस्मि निष्षाभी द्वा किमु त्रयः करन्ति । खले न पर्षान् प्रतिहन्मि भूरि किं मा निन्दन्ति शत्रवोऽनिन्द्राः’ इति । यदीदं जगदेकम् एकीभूतं मामभियाति तर्ह्यहमेक एव निष्षाट् नितरां सहमानोऽभियोद्धाऽस्मि । द्वा द्वे जगती अभ्यायातश्चेदपि प्रतियोद्धाऽस्मि । त्रयस् त्रीणि ततोऽधिकानि वा जगन्ति किं करन्ति किं कुर्वन्ति ? प्रत्युताहमेव प्रतिहन्मीत्याह खले नेति ॥ पर्षान् धान्यानि कुलित्थादीनि । खले न उलूखले इव । भूरीणि शत्रुभूतानि जगन्ति प्रतिहन्मि हनिष्यामि । त्वद्धननशक्त्यभावेऽपि तव दुर्भगजीवाभेदवचनेन त्वां निन्दन्तीति तत्राह किमिति ॥ शत्रवो मा मां किमिति निन्दन्ति सर्वगुणाकरत्वेन दोषलेशस्पर्शाभावात् । स्वतो दोषाभावेऽपि बलादापयन्ति हीति तत्राह अनिन्द्रा इति ॥ असमर्था इत्यर्थः। तदुक्तम् - प्रविष्टत्वाच्छरीरेषु जीव एवेति दुर्धियः । मन्यन्ते परमात्मानं न तन्मतमनुव्रजेत् । वेदवादविरोधित्वादनुयाता तमो विशेत् । ततः पर्यङ्कशयन आह विष्णुः सनातनः । इदं जगत् सर्वमथेदृशानि भूरीणि वा मामभियान्ति सङ्ख्ये । धान्यानि यद्वत् खलगानि मर्त्यः सञ्चूर्णयिष्याम्यहमेक एव ॥’ इत्यादि ब्रह्माण्डे । तर्हि निन्दाफलं किमित्यस्याप्येतदेवोत्तरमाह अव्यक्तमिति ॥ अव्यक्तम् अप्रकाशलक्षणं व्यक्तिशून्यमन्धन्तमः यान्तीति च वेदवचनमुपादत्ते । ब्रह्मवैवर्ते च ‘ऐकात्म्यज्ञानतो यान्ति तमः’ इति । तर्हि भेदज्ञानस्य किं फलमित्यस्यापीद-मेवोत्तरमित्याह व्यक्तमिति ॥ विगताञ्जनं निर्दोषभेदज्ञानं मुक्तिसाधनमुपाददत् । ‘भेदात् परं पदम् । स्वातन्त्र्यपारतन्त्र्यादिज्ञानं भेददृशिर्भवेत् ॥’ इति ॥ १९ ॥
सत्यधर्मीया
यदात्मनो दृश्यगुणेष्विति श्लोके स्वव्यतिरेकतोऽबुधैर्व्यवस्यसे । द्वा सुपर्णेत्यादिकमनुवादमात्रं न भेदविधायकमतो भेदमतं मनीषिमनीषितं नेत्यन्यथापत्तिमन्यथयति ॥ परमात्मनोऽपीति ॥ परमात्मन इति व्यस्तं समस्तं च । आत्मनो जीवस्य परमात्मनो हरेरपि । आत्मनः सर्वस्वामिनः शरीरे सन्निधानात् । जीवपक्षे कर्मणा । इतरत्रेच्छया । अबुधैरन्यथा-ज्ञानिभिरव्यतिरेकतोऽभेदेन ज्ञायसे । ज्ञायस इति स्वारस्यादात्मनोऽपि स्वस्यापि सन्निधानात् । त्वमव्यतिरेकतोऽबुधैः परं यथा स्यात्तथा ज्ञायस इत्यन्वयो वा । अव्यतिरेकतो मननमेतद्रूपमिति निरूपयति ॥ यथेति ॥ यथानुकूलमनुकूलार्थमुपक्रमाद्यानुकूल्येनार्थं व्यवस्थापयद् यद्वेदवचनं तद्विना प्रवर्तनात्तदभेदमतं न सम्यङ्मनीषितम् । वैपरीत्यशङ्कामपाकुर्वन्मूले सम्यग्वचःशब्दसङ्ग्राह्यं वाक्यमुदाहृत्य भागवतं समीकरोति ॥ अभी इदमिति ॥ इति जीवभेदे व्यक्तं स्पष्टार्थं परः पुमान्पर्यङ्कशायी विष्णुर्वच उपाददे भेदसाधकतयोपाददे । प्रमाणं स्वोक्तार्थदार्ढ्यायाह ॥ प्रविष्टत्वादिति ॥ मननहेतुः प्रविष्टत्वं तन्मतं नानुव्रजेच्छुभेच्छुः । तत्कुत इत्यत आह ॥ दुर्धिय इति ॥ बहुवचनेन च तथाकथका एवासुरा बहुला यस्मादित्यादेर्बहव इति सूचयति ।
अत्र वेदवादः परमार्थवादो धर्तव्यस्तद्विरुद्धत्वात् । यद्वा वेदवाद इति तत्पातनिकार्थवान् वेद इति विरुद्धस्तत्त्वात् । तामेवं मन्त्रॄननुयाताननुगच्छन्यः स तमो विशेत् । अत एतद्धेतोः पर्यङ्कशयनो सनातनो विष्णुराह । किमित्यत आह ॥ इदं जगदिति ॥ इदं सर्वं जगत्सङ्ख्ये युद्धार्थमेकमायाति चेत् । मा मां प्रति भूरीणि द्वे त्रीणि वाऽथेदृशानि वाऽभियान्ति तानि मर्त्यः खलगानि धान्यानि यद्वत्सञ्चूर्णयत्यहमेक एव चूर्णयिष्यामि । वाशब्दस्तमो विशेदित्युक्ततमोरूपफलाप्तिसमुच्चायक इति व्याचष्टे ॥ वेतीति ॥ फलतः फलं तमो यान्तीति । एतदर्थकमित्यर्थः ॥ ततश्चायमभी इदमित्यृगर्थः । यदीदं जगदेकं मा मां प्रति सङ्ख्ये युद्धार्थमायाति तर्ह्यहमेक एव निःषाट् नितरां सहमानः सन्नभियोद्धाऽस्मि द्वां द्वे जगती अभ्यायातश्चेदपि प्रतियोद्धाऽस्मि । त्रयः पञ्च किं करन्ति किं कुर्वन्ति प्रत्युताहमेव मर्त्यः खले न इव धान्यानि प्रतिहन्ति तथा पुरुषान्निष्ठुरान्प्रतिहन्ति भूरीणि जगन्ति प्रतिहन्मि संहरामि तमसि पातयामि चेत्यर्थः । अथ च दैत्यहतिस्तमसि चिरेत्यादेः । ते तर्हि त्वद्धतावशिष्टा निन्दयेयुरित्यत आह ॥ किमिति ॥ मा किं निन्दन्ति शत्रवः । निन्दनं च विद्यमानदोषाविष्कारस्त एव न सन्ति मयीति किं निन्दन्तीत्युक्तिः । मन्निन्दने न समर्थास्त इत्याह ॥ शत्रवोऽनिन्द्रा इति ॥ अनिन्द्रा दरिद्रा इत्यप्यर्थः । करन्तीति व्यत्ययेन करवद्ध-स्तवदाचरन्ति । हस्तौ यथा स्वाधीनौ तद्वद्वर्तन्त इत्यर्थविशेषद्योतनिको भवतीति भावमाविष्कुर्वन्ति । बुभूषुणा जीवेशभेदबोध एव सम्पाद्यो नाभेदबोध इति तत्फललपनानि दर्शयन्मानमुदाहरति ॥ ऐकात्म्यज्ञानत इति ॥
ऐकात्म्यं नाम यदिदं केचिद्ब्रूयुरनैपुणाः ।
याथातथ्यमविज्ञाय शास्त्राणां शास्त्रदस्यवः ॥
इत्यादेः । भेदात्तज्ज्ञानतः परं पदम् । नान्यः पन्था अयनाय विद्यत इत्यादेः । किमाकारं भेदज्ञानमित्यत आह ॥ स्वातन्त्र्येति ॥ स्वतन्त्रो हरिरितरदस्वतन्त्रमित्यादिज्ञानं भेददृशिर्भवेत् ॥
ततश्चायं श्लोकार्थः ॥ ज्ञानलिङ्गतः स्वतन्त्रो ज्ञायस इत्युक्तम् । तत्राज्ञानिज्ञानिनां मननमेवंरूपमित्याह ॥ यदात्मन इति ॥ आत्मनो जीवस्यात्मनस्तव च । दृश्या गुणा विषया यैस्तेषु देहेन्द्रियादिषु । सन्निधेः प्रवेशात् । अबुधैरन्यथामतिभिरस्वव्यतिरेकतः स्वेभ्यो व्यतिरेकः स्वभेदः स नेत्यस्वव्यतिरेकोऽभेदस्तेन व्यवस्यसे तथा ज्ञायस इति तत्तस्य व्यवसायस्यानुवादं वेदवचनं यथानुकूलं विनाऽतिहाय प्रवर्तनात्तन्मनीषितम् । सम्यगित्युभयान्वयि । सम्यक् न । न तत्त्वमसीत्यादेर्वेदस्य सत्त्वात्कथमिदं न सम्यङ्मनीषितमित्यत आह ॥ सम्यग्वच इति ॥ पुमान्पुरुषः पर्यङ्कशयनो व्यक्तं स्पष्टार्थं सम्यग्वचः । स आत्मा तत्त्वमसीत्याद्यर्थकतां घटयन्निरव-काशमिति यावत् । तादृग्वाक्यमभी इदमित्यादिकमुपादददुपादत्ताहेति यावत् । न च द्वा सुपर्णा सयुजेत्यजजीवभेदसाधके सति माने ते कथमतथा कथयन्तीत्यतो वाऽऽह ॥ विनाऽनुवादमिति ॥ अनुवादं पातनिकार्थं वेदमुखवादं विना तच्च मनीषितं समवन्न भवतीत्यव्यतिरेकतो व्यवस्यसे । अतः सम्यग्वचः पुमान्व्यक्तमुपाददत्स्वीकृतवानित्यन्वयः । बुधैर्दृश्यगुणेषु सन्निधेर्जडाजडेषु कृत्रिमाकृत्रिमसन्निधानाद्धेतोः स्वव्यतिरेकतः स्वभेदेन व्यवस्यसे । तदभेदनिश्चयनमनुवादमुक्तरूपं विना मनीषितं न च । तर्हि किंरूपं तन्मनीषितं वच इत्यत आह ॥ पुमान् व्यक्तं सम्यग्वच उपादददित्यपि भेदात्परं पदमिति तात्पर्यानुयाय्यन्वयो ज्ञेयः । अन्यथामतियथावन्मतीनां फलमप्याह । अबुधैरव्यक्तं सप्रकाशं नेत्यव्यक्तं तमो मनीषितमुपाददद्यद्वच ऐकात्म्यज्ञानतो यान्ति तम इत्यादिकं पुमानुपाददत्प्राप्यं तदित्यर्थः । व्यक्तं पक्ष्युपलक्षितदुर्जनं तु स बद्धुमिति विभरक्तं तम इति । पक्षिभिर्विक्षताङ्गानित्यादेरिति वा । स्वव्यतिरेकतः स्वश्च हरिश्च स्वश्चाहं च स्वौ व्यतिरत्यधिकश्च करोद्यमश्च तौ च तौ च स्वव्यतिरेकौ । व्यतीङ्रवीविपदिति विवृतौ विशेषत्वात्तदेव ताः स्मृता इत्युक्तेर्व्यतिर्विशेषतोऽधिकः । रेको विवेके शङ्कायां रेकः स्यादधमेऽपि च । रेको नीचे चेति विश्वः । भावप्रधानं चेदम् । स्वव्यतित्वं स्वरेकत्वं बुधैर्जानद्भिर्व्यक्तम् । निरञ्जनः परमं साम्यमुपैतीत्यादेः । व्यक्तम् । भावे क्तः । विगतमक्तमञ्जनं यत्र तन्मोक्षस्थानं भेदज्ञानफलत्वेन वदद्वेदवचनं पुमा-नुपादददिति । स्वातन्त्र्यपारतन्त्र्यादिज्ञानं भेददृशिर्भवेदिति तात्पर्यमक्षरानुगुणं विवृतं ज्ञेयम् । पर्यङ्कशयन इत्युक्त्या रमया सह शयनसमये तां प्रति भगवतेदमीरितमिति न सा प्रातार्या-समयैश्चैकान्तिक इति विश्वसनीयतां ध्वनयति । तथा चोक्तं पर्यङ्कोपासनायाम् । पर्यङ्कफलपुष्पादि-विविधानन्तरूपकैः । पूजयन्ती जगन्नाथमित्यादि । आह देवो रमोत्सङ्गविलसत्पादपल्लव इति विवरणे प्रसन्नता द्योत्यत इत्युक्तेरत्रापि सा ज्ञेया । श्रीर्यत्र रूपिण्युरुगाय पादयोः करोति मानं बहुधा विभूतिभिरित्यादेः पर्यङ्कपदेन रमाग्रहणं युक्तमिति ज्ञेयम् । पर्यङ्कः पल्यङ्कः शेषस्तत्र शयनं यस्य सः । तस्य च विकर्णत्वादाकर्णयितुरितरस्य प्रतार्यस्याभावात्स्वयमेव मननकृदिति तदानीन्तनं वचनं नाविश्वसनीयमिति ध्वनिमुत्प्रेक्षयन्ति ॥ १९ ॥
सुमनोरञ्जिनी
ननु जीवव्यतिरिक्तेश्वराभावात्कथं जीवस्यास्वातन्त्र्यम् ईशस्य स्वातन्त्र्यं चोच्यत इत्यत आह ॥ यदेति । परमात्मनः परमात्मनोऽपि तवादृश्यगुणेषु शरीरेन्द्रियादिषु सन्निधेः प्रवेशा-न्निमित्तात् । अबुधैर् अज्ञानिभिः । अस्वव्यतिरेकतः । स्वस्माद्व्यतिरेको भेदस् तदभावोऽस्वव्यतिरेकः स्वाभेद इत्यर्थः । ततः । तृतीयार्थे तसिः । विशेषणे तृतीया । तद्विशिष्टतयेति यावत् । ज्ञायस इति यद् यन्मतं तत् । अनु अनुकूलं वादं वेदवचनं विना प्रवृत्तम् अप्रामाणिकवद् यस्मात्तस्मान्न मनीषितं नाङ्गीकारयोग्यम् । विद्वद्भिरिति शेषः । कुतः । यतः पुमान् परमपुरुषो विष्णुः । व्यक्तं स्पष्टम् असांशयिकमिति यावत् । सम्यक् निर्दुष्टं वेदवचः । अभी३दमेक इत्यादिरूपम् । जीवेशभेदविषये उपाददत् स्वीचक्रे । आहेत्यर्थः । तदुक्तम्–
‘‘परमात्मनोऽपि शरीरे सन्निधानादबुधैरस्वव्यतिरेकतो ज्ञायसे । यथानुवादं वेदवचनं विना प्रवृत्तत्वान्न तन्मनीषितं सम्यक् । ‘अभी३दमेकमेको अस्मि निष्पाभी द्वा किमु त्रयः करन्ति । खले न पर्षान्प्रतिहन्मि भूरि किं मा निन्दन्ति शत्रवोऽनिन्द्राः’ इति जीवेशभेदे व्यक्तं हि वचः परः पुमानुपादत्ते ।
प्रविष्टत्वाच्छरीरेषु जीव एवेति दुर्धियः ।
मन्यन्ते परमात्मानं न तन्मतमनुव्रजेत् ॥
वेदवादविरोधित्वादनुयाता तमो विशेत् ।
यतः पर्यंकशयन आह विष्णुः सनातनः ॥
इदं जगत्सर्वमथेदृशानि भूरीणि वा मामभियान्तु सङ्ख्ये ।
धान्यानि यद्वत् खलृगानि मर्त्यः सञ्चूर्णयिष्याम्यहमेक एव ॥
इति ब्रह्माण्डे ।
चेति फलतोऽपि तमो यान्तीति ।
ऐकात्म्यज्ञानतो यान्ति तमो भेदात्परं पदम् ।
स्वातन्त्र्यपारतन्त्र्यादिज्ञानं भेददृशिर्भवेत् ॥ इति ब्रह्मतर्के’’ इति ।
परमात्मनोऽपीत्यादिना योजना प्रदर्शिता । किं तत्सम्यग्वच इत्यतस्तामुदाहरति ॥ अभी३इति ॥ अस्यार्थः । यदि एकम् इदं जगत् । मा माम् । अभि अभिमुखम् । याति योद्धुम् इत्यर्थः । तर्हि अहमेक एव निःषाट् अस्मि । नितरां सहत इति निःषाट् योद्धेत्यर्थः । यदि च द्वा द्वौ अभियातस्तदापि अहमेको निःषालृस्मि । यदि च त्रयः प्रपञ्चा अभियातास् तदा किमु करन्ति करिष्यन्ति । न किमपि । त्वां निघ्नन्तीति चेदत्राह । मर्त्यः पर्षान् धान्यानि । खले न खले इव । भूरि भूरीणि । जगन्ति । प्रतिहन्मि चूर्णयिष्यामि । एतादृङ्महिमानं मा माम् । अनिन्द्रा असमर्थाः शत्रवः । किं निन्दन्ति । निर्दोषे मयि निन्दाकारणदोषाभावादिति । अत्र अप्रतिहतापरिमितशक्त्युक्त्या अल्पशक्तेर्जीवाद्भेद एव प्रतिपादितः । सम्यगिति वच इत्यनेनान्वेति । एवं स्ववचनेन व्याख्याय स्वोक्तार्थे संवादमाह ॥ प्रविष्टत्वादिति ॥ न चेत्यत्र मूले चशब्दतात्पर्यमाह ॥ अनुयातेति ॥ अनेन चोऽप्यर्थे । न केवलं तन्मतमनङ्गीकार्यम् । अनुयाता तमोऽपि यातीत्यर्थः सूचितः । पर्यङ्के शेषपर्यङ्के शयनं यस्य सः । इदं जगत्सर्वमिति स्वोदाहृतश्रुतेरर्थानुवादकम् । यद्वदित्यनेन खले नेत्यत्र नञः सादृश्यार्थतोक्ता भवति । खले न खले इवेति । चेतिशब्दः फलतः फलरूपं तमो यान्तीत्यर्थद्योतक इत्यर्थः । तत्र प्रमाणमाह । भेदाद् भेदज्ञानात् । परं पदं मोक्षम् । न हि वैशेषिकानामपि मोक्षः स्यादित्यतो विवक्षितार्थमाह ॥ स्वातन्त्र्येति ॥ ईशजीवयोरिति शेषः ॥ १९ ॥
त्वत्तोऽस्य जन्मस्थितिसंयमान् विभो वदन्त्यनीहादगुणादविक्रियात् ।
त्वयीश्वरे ब्रह्मणि नो विरुद्ध्यते तदाश्रयत्वादुपचर्यसे गुणैः ॥ २० ॥
तात्पर्यम्
**‘अनीहोऽक्लिष्टकारित्वात्तथाऽविकृत एव सन् । सर्वं १करोति तद्युक्त-मैश्वर्यात्पूर्णशक्तित’ इति ब्राह्मे । अगुणश्चेत्कथं गुणैः सृष्ट्यादिकृदिति तदाश्रयत्वात् । ‘अगुणोऽगुणदेहत्वात्सगुणो गुणधारणात् । २ऐश्वर्यादिगुणत्वाद्वा वासुदेव इतीर्यत’ इत्याग्नेये **
॥ २० ॥
पदरत्नावली
कुलालघटयोरिव कार्यकारणयोर्जगद्ब्रह्मणोर्भेदः पारमार्थिक इति ज्ञापनाय सृष्टिप्रकारं स्पष्टयति त्वत्त इति । अस्य प्रपञ्चस्य नायं कुलालवत् क्लेशपूर्वकचेष्टतया कर्ता, किन्तु केवललीलारूपपूर्णानन्दत्वेनेत्याशयेनाह अनीहादिति । ईहा क्लेशपूर्वकचेष्टा, सा न यस्मिन् स तस्मादक्लिष्टकारित्वादिति यावत् । कारणं चेन्मृद्वद् विकारित्वं हरेरिति चेत् तत्राह अविक्रियादिति ॥ तथाऽविकृत एव सन् सर्वं करोतीति । कुलालादिकर्तृवदयमपि सत्त्वादिगुणबद्धः सन् विश्वं सृजति किमिति चेत् तत्राह अगुणादिति । ननु कर्तुरक्लेशत्वादिकं लोके केनापि नालोकीत्य-सम्भावितमिदमित्यत आह त्वयीति । ईश्वरे ब्रह्मणीति पदद्वयं हेतुगर्भम् । उक्तं च ब्राह्मे– ‘अनीहोऽक्लिष्टकारित्वात् तथाऽविकृत एव सन् । सर्वं कृणोषि तद् युक्तमैश्वर्यात् पूर्णशक्तितः’ इति । नन्वयमीश्वरः सृष्ट्यादौ प्रवर्तमानो गुणमपेक्षते नवा? प्रथमे गुणित्वं, द्वितीये सृष्ट्याद्यनु-पपत्तिरिति तत्राह तदाश्रयत्वादिति । गुणैः सत्त्वादिभिः सृजसि । न तत्र सन्देहः । तर्हि निर्गुणस्य गुणित्वापात इति शङ्का मा भूदिति तत्राह तदाश्रयत्वादिति । गुणानां जडत्वेन स्वतः प्रवृत्त्यनु-पपत्तेस्तत्प्रवृत्त्यर्थं तत्प्रेरणाद् गुणीत्युपचर्यसे । न तु मुख्यतो गुणी । ‘केवलो निर्गुणश्च’ इति श्रुतेः । ननु सगुणागुणवचनस्य का क्लृप्तिस्तर्हीत्यस्यापीदमुत्तरं तदाश्रयत्वादिति । ज्ञानादिगुणैः क्लृप्तदेहत्वात् सत्त्वादिगुणविधुरत्वादगुण इत्युपचर्यसे उपसङ्गम्यसे ज्ञायसे इत्यर्थः । तेषां सत्त्वादिगुणानामाश्रयत्वाद् ऐश्वर्यादिगुणपूर्णत्वाद् वा सगुण इत्युपचर्यसे सम्भाव्यस इत्यर्थः । ‘अगुणोऽगुणदेहत्वात् सगुणो गुणधारणात् । ऐश्वर्यादिगुणत्वाद् वा वासुदेव उदीर्यते ॥’ इत्याग्नेवचनादयमर्थो विज्ञायते ॥ २० ॥
सत्यधर्मीया
त्वत्तोऽस्येति श्लोकेऽनीहादचेष्टादिति शिलातुलता प्रतीयते । विवक्षितोऽर्थो न च प्रतीयते इत्यतः प्रमाणेनैव तत्तात्पर्यार्थमाह ॥ अनीह इति ॥ अक्लिष्टमक्लेशकारित्वात्तथाऽ-विकृत एव सन्सर्वं करोषि । तदक्लेशेन करणमविकृततया करणं चेत्येतद्युक्तम् । लोके केनापि नालोकीत्यसम्भावितमिदमिति तत्राह ॥ ऐश्वर्यात्पूर्णशक्तित इति । वैभवादगुणात् । गुणैरुपचर्यस इति प्रतीयते तदाह अगुणश्चेत्कथं गुणैः सृष्ट्यादिकृदितीति । तदनन्तरमत आहेति शेषः ॥ तदाश्रयत्वादिति ॥ सत्त्वादिविकृतताशून्यस्तदाधारत्वात्सत्त्वादिगुणवानित्युपचारेणोच्यते । स्वोक्तार्थे मानमाह ॥ अगुणदेहत्वादिति ॥ अगुणो गुणदेहहीनत्वादिहोपचर्यत इति स्मरणाद-तदुचितत्वाद्वाऽगुणा इत्युच्यते । गुणधारणात्सगुणश्चर्यते ऐश्वर्यादिगुणत्वाद्वा वासुदेवः सगुण इतीर्यते । आग्नेये अग्निकलिभ्यां ठग्वक्तव्ये ठकि ईयन्नादेशः ॥ ततश्चायं श्लोकार्थः ॥ अगुणात्सत्त्वादि-गुणरहितात्तथाऽविक्रियान्न विद्यते विक्रिया यस्मिन्स तस्मादनीहादीहा क्लेशपूर्विका चेष्टा सा न यस्मिंस्तस्मात्त्वत्तोऽस्य प्रपञ्चस्य जन्मस्थितिसंयमान्वदन्ति । कर्ता विगुण इति विप्रतिषिद्धमित्यत आह ॥ विभो इति ॥ त्वयीश्वरे ईश्वरत्वाद्ब्रह्मणि पूर्णत्वादिति हेतू । ऐश्वर्यात्पूर्णशक्तित इति मानानुयानात्ततो नो विरुद्ध्यते । गुणाधारत्वात्सृष्टिरुपपन्नेत्याह ॥ तदाश्रयत्वाद् गुणाधारत्वादिति । तैर्गुणैर्निमित्तैरुपचर्यसे गुणीति गीयसे । केवलो निर्गुणश्चेति श्रुतेः । मुख्यं सागुण्यं नास्ति किमीश्वर इत्यप्युत्तरयति ॥ तदाश्रयत्वादिति ॥ विशेषमहिम्ना तदाश्रयत्वम् । हे उप शर्वप वा । चर्यसे ज्ञायसे गुणात्पूर्णत्वेन वा । अभेदे तृतीया । गुणैस्तदभेदेन च चर्यस इति वा ॥ २० ॥
सुमनोरञ्जिनी
पूर्वोक्तं जगत्कारणत्वं नोपादानत्वरूपं किंतु कर्तृत्वरूपं तदपि लोकविलक्षण-मेवेत्याह ॥ त्वत्त इति । हे विभो अस्य पूर्वोक्तप्रपञ्चस्य त्वत्तस् त्वत्सकाशात् । जन्म स्थितिः संयमः संहारस् तान् वदन्ति विद्वांसः । किं कुलालो घटस्येव कर्ता भवानिति नेत्याह ॥ अनीहा-दिति ॥ श्रमजनकचेष्टारहितादित्यर्थः । तर्हि मृत्पिण्डवद्विकारित्वं स्यादित्यत उक्तम् ॥ अविक्रियाद् इति ॥ न विद्यते विक्रिया विकारो यस्य तस्मात् । तत्र हेतुर् अगुणादिति ॥ गुणत्रयकृतो हि विकारः । गुणाभावादविकृत इति भावः । नन्विदं विरुद्धम् । कर्तृत्वं श्रमाद्यभाव अगुणत्वं चेत्यादिकम् । लोके कुलालादेस्तथा दर्शनादित्यत आह ॥ त्वयीति ॥ हेतुगर्भं विशेषणद्वयम् । ईश्वरे अघटितघटनाशक्तियुक्ते ब्रह्मणि पूर्णशक्त्यादिमति त्वयि कर्तृत्वानीहत्वादिकं लोकवन्नो विरुद्ध्यते । लोके हि अल्पशक्तेः कुलालादेरशक्यकार्यकरणे श्रमादिकम् । अनीश्वर-त्वादस्वातन्त्र्यात्सत्वादिगुणबद्धत्वम् । तव तु पूर्णशक्तित्वात्स्वातन्त्र्याच्च स्रष्टुरपि न श्रमादिकमिति भावः । नन्वगुणश्चेत्कथं गुणैः सृष्ट्यादिकृदिति व्यपदेश इति चेत्तत्राह ॥ तदाश्रयत्वादिति ॥ तेषां गुणानामाश्रयत्वाद् बुद्धिपूर्वमुपादानतया स्वीकारात् । गुणैः सृष्ट्यादिकृदिति उपचर्यसे व्यवह्रीयसे जनैर् न तु गुणबद्धत्वादिति योजना । एतदेवोक्तम्–
अनीहोऽक्लिष्टकारित्वात्तथाऽविकृत एव सन् ।
सर्वं करोति तद्युक्तमैश्वर्यात्पूर्णशक्तितः ॥ इति ब्राह्मे ।
अगुणश्चेत्कथं गुणैः सृष्ट्यादिकृदिति । तदाश्रयत्वादिति ।
अगुणोऽगुणदेहत्वात्सगुणो गुणधारणात् ।
ऐश्वर्यादिगुणित्वाद्वा वासुदेव इतीर्यते ॥ इत्याग्नेय इति ।
अक्लिष्टकारित्वात् । अक्लिष्टः क्लेशरहितः सन्नेव कारी कर्ता तत्त्वात् । अविकृत एव सर्वं करोतीति अविक्रियादित्यस्य तात्पर्यकथनम् । यद्वा अविकृतः श्रमादिविकारशून्यः सन्निति वा । कथमेतद्युज्यते लोके तथाऽदर्शनादित्यतस् त्वयीश्वर इत्यादिकं योजयति ॥ तद्युक्तमिति ॥ तत् सर्वकर्तृत्वमनीहत्वादिकं च युक्तं न विरुद्धं भगवति । तत्र हेतुरैश्वर्यात्पूर्णशक्तित इति । अनेनेश्वरे ब्रह्मणीत्यनयोर्हेतुगर्भता सूचिता । तदाश्रयत्वादिति मूलमवतारयति ॥ अगुणश्चेदिति ॥ इतीत्यनन्तरम् अत आहेति शेषः । अगुणदेहत्वात् सत्वादिगुणात्मकदेहरहितत्वान्निमित्ताद् अगुण उच्यते । गुणधारणात् । गुणानां सत्वादिगुणानां धारणाद् उपादानतया स्वेच्छयैव स्वीकारात् ॥ गुणैः सृष्ट्यादिकृदिति ॥ व्यपदेश इति शेषः । प्रकारान्तरेण व्यपदेशस्य गतिमाह ॥ ऐश्वर्यादीति ॥ गुणैर् ऐश्वर्यादिभिर्युक्तः सृष्ट्यादिकृत् । न तु सत्त्वादिबद्ध इति गतिरुक्ता भवति । वासुदेव इति–एवं प्रकारेण ईर्यत इति आचार्यवचसो योजना द्रष्टव्या ॥ २० ॥
सत्त्वं त्रिलोकस्थितये स्वमायया बिभर्षि शुक्लं खलु वर्णमात्मनः ।
सर्गाय रक्तं रजसोपबृहितं कृष्णं च वर्णं तमसा जनात्यये ॥ २१ ॥
तात्पर्यम्
‘जगतां वर्धयन्सत्वं यदा रक्षति केशवः । हयग्रीवादिरूपेण शुक्लवर्णस्तदा विभुः । वर्धयंस्तु रजो येन जगदुत्पादयेद्धरिः । तद्रक्तं जामदग््य्रादिरूपं येन विनाशयेत् । वर्धयंस्तु तमो लोके तत्कृष्णं यादवादिकम् । सर्वत्र सर्वं कुरुते विशेषस्तत्र कीर्तितः । ज्ञानदानादिना रक्षा महतां सम्प्रकीर्तिता । रागदानेन महतां सृष्टिः सृष्टिरुदीर्यते । असतां तु तमोवृद्धिं कुर्वन्पातयते यदा । सतां विवर्धनार्थाय कृष्णरूपी तदा हरिः । ज्ञाना-द्युत्पत्तिकृच्चापि रूपं रक्तं विभोः स्मृतम् । तमोविनाशकमपि कृष्णं विष्णोरुदाहृतम् । आचार्यादिषु रागार्थे शुद्धसत्वात्मकं रजः । यतो व्यपेक्षितं नाशे तमसोऽपि तमः परम् । तमो द्वेषात्मकं शुद्धं सत्वात्मकमुदीर्यते । एवं सृतिगतानां तु रागाद्या न गुणोद्भवाः । शुद्धज्ञानात्मकाः सर्वे मुक्तानां नात्र संशयः । सर्वत्र सर्वकृच्चापि हयग्रीवादिरूपकः । ज्ञानादिरक्षको विष्णुर्जामदग्न््यादिरूपवान् । ज्ञानाद्युत्पादको नित्यं कृष्णादिर्दोषनाशकः । एकरूपोऽपि भगवान्बहुरूप इवेयते । अचिन्त्यैश्वर्यरूपत्वात्पूर्णानन्दैकरूपक’ इति ब्रह्मतर्के । ‘स्वेच्छया तु गुणान्विष्णुर्नानारूपान्करोत्यजः । गुणानामाश्रयत्वात्तु भवेत्स गुणबृंहित’ इति तन्त्रभागवते ॥ २१ ॥
पदरत्नावली
तदाश्रयत्वं प्रपञ्चयति सत्त्वमिति । अयमर्थः । यदा त्रिलोकस्थितये त्रैलोक्यरक्षणाय सत्त्वगुणं वर्धयन्नास्ते तदा हयग्रीवादिरूपं शुक्लवर्णं निर्मुक्तकलङ्कानूनचन्द्रवद् धवलवर्णं बिभर्षि । उक्तं च ‘जगतां वर्धयन् सत्त्वं यदा रक्षति केशवः । हयग्रीवादिरूपेण शुक्लवर्णस्तदा विभुः ॥’ इति । खलु अलङ्कृतोऽयमर्थः । यदा सर्गाय तत्तत्स्वभावाभिव्यक्तये रजो वर्धयंस्तदा रजसोपबृंहितं रजोगुणशक्तिव्यञ्जकं रक्तं जामदग्न्यादिरूपं बिभर्षि खलु । ‘वर्धयंस्तु रजो येन जगदुत्पादयेद् हरिः । तद् रक्तं जामदग्न्यादिरूपम्’ इत्युक्तेः । जनस्य अत्यये प्रलये । अत्तय इति पाठे अत्तिः संहृतिस् तस्यै । यदा लोके तमो वर्धयन् तदा तमसोपबृंहितं तमोगुणप्रवर्तकं कृष्णं यादवादिरूपं बिभर्षि खलु । ‘येन विनाशयेत् । वर्धयंस्तु तमो लोके तत् कृष्णं यादवादिकम् ।’ इति वचनात् । ननु सर्वत्र सर्वशक्त्यभावादपूर्णता हरेरित्यस्यापीदमुत्तरं खल्विति । वीप्सयाऽन्वयः । ‘निषेधे वागलङ्कारे वीप्सनेऽनुनये खलु’ इति यादवः । तथाहि यच्छुक्लरूपं सत्त्वं वर्धयन् बिभर्षि तद् रूपं त्रिलोकस्थितय एव खलु न भवति । किन्तु सर्गसंहाराभ्यां बिभर्षि । यद् रजो वर्धयन् रक्तरूपं बिभर्षि तत् सर्गाय खलु न भवति । किन्तु तत्स्थितिसंहाराभ्यां च बिभर्षि । यत् तमो वर्धयन् कृष्णं रूपं बिभर्षि तज्जनात्यय एव खलु न भवति । किन्तु तत् त्रिलोकस्थितिसर्गाभ्यां च बिभर्षि इति । ‘सर्वत्र सर्वं कुरुते विशेषस्तत्र कीर्तितः । ज्ञानदानादिना रक्षा महतां सम्प्रकीर्तिता । रागदानेन महतां सृष्टिः सृष्टिरुदीर्यते । असतां तु तमोवृद्धिं कुर्वन् पातयते यदा । सतां विवर्धनार्थाय कृष्णरूपी तदा हरिः । ज्ञानाद्युत्पत्तिकृच्चापि रूपं रक्तं विभोः स्मृतम् । तमोविनाशकमपि कृष्णं विष्णोरुदाहृतम् । आचार्यादिषु रागार्थे शुद्धसत्त्वात्मकं रजः । यतो व्यपेक्षितं नाशे तमसोऽपि तमःपरम् । तमोद्वेषात्मकं शुद्धं सत्त्वात्मकमुदीर्यते । एवं सृतिगतानां तु रागाद्या न गुणोद्भवाः । शुद्धज्ञानात्मकाः सर्वे मुक्तानां नात्र संशयः । सर्वत्र सर्वकृच्चापि हयग्रीवादिरूपकः । ज्ञानादिरक्षको विष्णुर्जामदग्न्यादिरूपवान् । ज्ञानाद्युत्पादको नित्यं कृष्णादिर्दोषनाशकः । एकरूपोऽपि भगवान् बहुरूप इवेयते । अचिन्त्यैश्वर्यरूपत्वात् पूर्णानन्दैकरूपकः’ ॥ इति ब्रह्मतर्कोक्तरीत्या श्लोकार्थो बोध्यः । ‘षद्लृ विशरणगत्यवसादनेषु’ इति धातोः सृष्टिसंहारौ सत्त्वशब्देन ज्ञातव्यौ । ‘रञ्ज रागे’ इति धातोः रजःशब्दस्यानेकार्थत्वेन स्थितिसंहारार्थोऽपि ज्ञातव्यः । ‘तमु ग्लाने’ इति धातोस् तमः शब्दस्य सृष्टिस्थितिविरोधिज्ञापकत्वेन तत्परत्वेनार्थो बोद्धव्यः । निर्गुणस्य गुणोपरक्तत्वं कथमित्यत उक्तं स्वमाययेति । तदुक्तम् ‘स्वेच्छया तु गुणान् विष्णुर्नानारूपान् करोत्यजः । गुणानामाश्रयत्वात्तु भवेत् स गुणबृंहितः’ इति ॥ २१ ॥
सत्यधर्मीया
सत्त्वं त्रिलोकेति श्लोके स्वमायया लोकस्थितये सत्त्वं प्राकृतगुण-माश्रित्यात्मनस्तत्कार्यं शुक्लवर्णं बिभर्षीति । एवमुत्तरत्रापि प्राकृतगुणजन्यं रक्तिमानं कृष्णं च बिभर्षीति प्रतीयते । तच्च पूर्वपद्योक्तगुणाविक्रियत्वादिबाधितमित्यतः प्रमाणेन तदर्थमाह ॥ जगतामिति ॥ विभुः सत्त्वं विवर्धयन् जगतां जगन्ति रक्षति यदा हयग्रीवादिरूपेण साक्षाद्धयग्रीवविष्ण्वादिरूपेण । विष्णुं शशिवर्णं चतुर्भुजं प्रसन्नवदनं ध्यायेत्सर्वविघ्नोपशान्तय इत्यादेः । शुक्लवर्णो भवति । तथा येन रूपेण रजो वर्धयन् हरिर्जगदुत्पादयेत्तज्जामदग्न्यादि रक्तम् । आदिपदेन सर्वजनकचतुर्मुखान्तर्गतं च ग्राह्यम् । एवं यादवादिकमित्यत्रादिपदेन रुद्रान्तर्गतं च रूपं ग्राह्यम् । येन रूपेण तमो वर्धयन् जगद्विनाशयेत्तद्यादवादिकं प्रस्तुतं कृष्णं तद्वर्णम् । तर्हि भगवद्रूपेषु निरूपितो विशेष इति भेद आपन्न इत्यत आह ॥ सर्वत्रेति ॥ सर्वत्र देशे काले । तथा सर्वरूपेषु सर्वं कार्यं रक्षणक्षपण-सर्जनादिकं कुरुते । तथाऽपि विशेषस्तत्र कीर्तितो लोकमवलोक्य । ननु विष्ण्वादिः पालकतया सम्प्रतिपन्नो न सम्प्रति सम्प्रतिपन्न उक्तहयग्रीवादिरित्यत एवंरूपं पालकत्वादिकं तत्रास्तीत्याह ॥ ज्ञानदानादिनेति ॥ महतामधिकारिणां ज्ञानदानादिना रक्षा तद्रूपिणी रक्षेत्यर्थः । रागदानेन सृष्टिर्या सा सृष्टिरित्युदीर्यते । कृष्णादिरूपी सद्विवर्धनायासतां तमोवृद्धिं कुर्वन् असतां तान् यदा पातयेदन्धन्तमः प्रापयेत्तदाऽवृद्धिं नाशं कुर्वन् वृद्धिं छेदनं कुर्वन्नाशक उच्यते ।
सर्वत्र सर्वमित्युक्तं तत्सङ्क्रामणप्रकारं निरूपयति ॥ ज्ञानाद्युत्पत्तिकृदिति ॥ ज्ञानाद्युत्पत्ति-कृद्धयग्रीवादिरूपं यच्छुक्लं तद्रक्तमपि स्मृतम् । तथा कृष्णं कृष्णादिकं शुक्लं रक्तं चोदाहृतम् । हयग्रीवादिकं ग्लानिदं चोदाहृतम् । रज आदिशब्दानां प्रसिद्धरजआद्यर्थकत्वभ्रमं वारयति ॥ आचार्यादिष्विति ॥ तमसोऽपीत्यत्रत्योऽपिः सृतिगानामपीत्यप्यन्वेति । तेन कैमुत्यं द्योत्यते । आदिपदेन सच्छिष्यो ग्राह्यः । आचार्ये रागो व्याख्यास्यामीत्यादिः । शास्त्रश्रवणं करिष्यामीति शिष्ये राग इच्छा स एवार्थस्तन्निमित्तं यद्रजः शुद्धसत्त्वात्मकमेव व्यपेक्षितम् । एवं यतस्तमसो विष्णुद्वेषादितमसो नाशे तन्निमित्तं नाशे परमन्यतमो व्यपेक्षितं तद्द्वेषात्मकं तच्छुद्धसत्त्वात्मकमुदीर्यते । प्रतिद्वेषादिकं विना द्वेषादिनाशासम्भवात्तमोनाशे परं तमोऽपेक्षितं तच्च शुद्धसत्त्वात्मकमिति भावः । तम आदिशब्दप्रयोगेण तद्भक्तादिद्वेषस्य तमोगुणकार्यत्वेन तमःसाधनत्वमपि स्फोरयतीति ज्ञेयम् । यः सृतिगतानां महतामाचार्यादीनां सच्छास्त्रविषये रागो वैष्णवद्वेषश्च शुद्धसत्त्वात्मक इत्येते रागाद्या गुणोद्भवा नो मुक्तानां किन्तु ज्ञानानन्दात्मकाः । अत्र संशयो नास्ति । तुरिति किं वक्तव्यमिति विशेषार्थः । सर्वत्र सर्वकरणमुपपाद्यैकस्मिन्ननेकवर्णादिघटकं वर्णयित्वा तद्दौर्घट्यं पराकरोति ग्रन्थकारः ॥ सर्वत्रेति ॥ जामदग्न्यादिरूपवांश्च ज्ञानादिरक्षको हयग्रीवादिकार्यकारी । एवं सोऽपि दोषनाशक-कृष्णादिर्ज्ञानाद्युत्पादकः स दोषनाशकश्चैकरूपोऽप्येवं बहुरूप ईयते । अचिन्त्यैश्वर्यपूर्णत्वात्पूर्णानन्दैक-रूपक इति । अचिन्त्यैश्वर्येणैकरूप्यं बाहुरूप्यं च घटत इति भावः । मायारजआदिपदार्थान् मानेनाह ॥ स्वेच्छयेति ॥ अजो विष्णुः स्वेच्छया गुणान्नानारूपान्नाना विलक्षणानि रूपाणि येषां ते तान्गुणान्करोति । गुणानां सत्त्वादीनामाश्रयत्वादा- धारत्वादेवागुणबृंहित आनन्दादिगुण-स्तच्छुक्लादिकमप्यप्राकृतमिति गुणबृंहित इत्यनेनाहेति व्याकुर्वते । भक्तैर्भगवदभक्तेषु क्रियामाणः कोपादिः शुद्धसत्त्वाद्यात्मादि भगवतस्तु तदा विशुद्धज्ञानाद्यात्मा । तथा च मुक्तानां च कोपोऽपि देवस्य वरेण तुल्यः । न साधुवादो मुनिकोपभर्जिता नृपेन्द्रपुत्रा इति, सत्त्वधामनि कथं तमो रोषमयं विभाव्यत इत्यादेर्विवेको ज्ञेयः ॥ ततश्चायं श्लोकार्थः ॥ स त्वं यदा मायया स्वेच्छया त्रिलोकस्थितये तद्रक्षायै सत्त्वं वर्धयन् शुक्लवर्णं तद्वृद्धये हयग्रीवादिरूपं चात्मनो बिभर्षि । एवं सर्गाय सृष्टये रजसोपबृंहितं रक्तं जामदग्न्यब्रह्मान्तर्गतं च रक्तवर्णं बिभर्षि । जनात्यये तन्नाश आसन्ने कृष्णं वर्णं कृष्णं रुद्रान्तर्गतं च रूपं बिभर्षि खलु । सर्वमलङ्कारभूतं न तु दोषात्मकमित्यर्थः । त्रिलोक-स्थितये सत्त्वं बिभर्षि तथा शुक्लमित्येव खलु नापि तु रक्तम् । सर्गाय रक्तमेव खलु न किन्तु सत्त्वं, तदेव खलु न किन्तु कृष्णं तमश्चेति सर्वत्र शक्तिसर्वस्वं ज्ञेयम् । भक्तैरभक्तेषु यत्तमः कोपादिकं तत्सत्त्वं शुद्धसत्त्वात्मकम् । भगवति तु व्युत्पादितप्रकारेण ज्ञानानन्दाद्यात्मकं मुक्तेष्वपि तथेति यथामानं ज्ञेयम् ॥ २१ ॥
सुमनोरञ्जिनी
तदाश्रयत्वादित्युक्तं प्रपञ्चयति ॥ सत्वमिति ॥ सत्वमित्यावर्तते । एकत्र स त्वमिति विभागः । सः पूर्वोक्तो ब्रह्माण्डादिस्रष्टा त्वं, त्रिलोकस्थितये त्रैलोक्यस्य ज्ञानादिदानेन रक्षणाय । स्वमायया स्वेच्छया सत्वं विवर्धयन् आत्मनः शुक्लं वर्णं रूपं बिभर्षि । हयग्रीवादिरूपेण चन्द्रबिम्बवद्धवलवर्णोपेतेन सत्त्वगुणमुपबृंहयन् ज्ञानादिप्रदो भविष्यसीति भावः । सर्गाय सज्जनानां ज्ञानादौ रागादिजननाय आचार्यादौ भक्तिजननाय वा । रजसा रागजनकत्त्वसाम्येन रजःशब्दोऽपि सत्वगुणवाचकः । तेन उपबृंहितं तत्प्रवर्तकमिति यावत् । रक्तं रक्तवर्णोपेतं जामदग्न्यादिरूपं बिभर्षीति सम्बन्धः । जनाप्यये । जनानामसज्जनानाम् अप्यये नाशाय । तमसा नाशजनकत्त्वसाम्यात् तमःशब्दवाच्येन उपबृंहितं युक्तं तत्प्रवर्तकमिति यावत् । कृष्णवर्णम् इन्द्रनीलवर्णं यादवादिरूपं बिभर्षीत्यर्थः ॥ तदेतदभिप्रेत्य व्याख्यातं तात्पर्यम् ।
जगतां वर्धयन् सत्वं यदा रक्षति केशवः ।
हयग्रीवादिरूपेण शुक्लवर्णस्तदा विभुः ॥
वर्धयंस्तु रजो येन जगदुत्पादयेद्धरिः ।
तद्रक्तं जामदग्न्यादिरूपं येन विनाशयेत् ॥
वर्धयंस्तु तमो लोके तत्कृष्णं यादवादिकम् ।
सर्वत्र सर्वं कुरुते विशेषस्तत्र कीर्तितः ॥
ज्ञानदानादिना रक्षा महतां संप्रकीर्तिता ।
रागदानेन महतां सृष्टिः सृष्टिरुदीर्यते ॥
असतां तु तमोवृद्धिं कुर्वन् पातयते यदा ।
सतां विवर्धनार्थाय कृष्णरूपी तदा हरिः ॥
ज्ञानाद्युत्पत्तिकृच्चापि रूपं रक्तं विभोः स्मृतम् ।
तमोविनाशकमपि कृष्णं विष्णोरुदाहृतम् ॥
आचार्यादिषु रागार्थे शुद्धसत्वात्मकं रजः ।
यतो व्यपेक्षितं नाशे तमसोऽपि तमः परम् ॥
तमो द्वेषात्मकं शुद्धसत्वात्मकमुदीर्यते ।
एवं सृतिगतानां तु रागाद्या न गुणोद्भवाः ॥
शुद्धज्ञानात्मकाः सर्वे मुक्तानां नात्र संशयः ।
सर्वत्र सर्वकृच्चापि हयग्रीवादिरूपकः ॥
ज्ञानादिरक्षको विष्णुर्जामदग्न्यादिरूपवान् ।
ज्ञानाद्युत्पादको नित्यं कृष्णादिर्दोषनाशकः ॥
एकरूपोऽपि भगवान्बहुरूप इवेयते ।
अचिन्त्यैश्वर्यरूपत्वात् पूर्णानन्दैकरूपकः ॥ इति ब्रह्मतर्के ॥
स्वेच्छया तु गुणान् विष्णुर् नानारूपान् करोत्यजः ।
गुणानामाश्रयत्वात्तु भवेत्स गुणबृंहितः ॥ इति तन्त्रभागवते ॥
तस्यार्थः । सत्वं सत्वगुणं वर्धयन् । जगतां, षष्ठी द्वितीयार्थे जगन्ति । केशवो यदा रक्षति तदा विभुर् हयग्रीवादिरूपेण शुक्लवर्णो भवति । अनेन वर्धयन् हयग्रीवादिरूपेणेति पदद्वयाध्याहारपूर्वकं पूर्वार्धयोजना सूचिता । रजो वर्धयन् येन रूपेण हरिर्जगदुत्पादयेत् तज्जामदग्न्यादिरूपं रक्तं रक्तवर्णोपेतम् । अत्र वर्धयन्नित्यनेन मूलोक्तोपबृंहितपदतात्पर्यार्थो वर्णितो भवति । उपबृंहितं प्रवर्तकमिति । तमोगुणं वर्धयन् येन रूपेण, जगदित्यनुवर्तते, विनाशयेत् तत्कृष्णं कृष्णवर्णोपेतं यादवादिकं विज्ञेयमिति सम्बन्धः । अत्र वर्धयन्नित्यनेन मूले चतुर्थपादे उपबृंहितपदस्यानुवृत्तिः सूचिता । यादवादिकमिति शेषोक्तिः । ननु सत्वं वर्धयन्नित्यादिना स्थित्यादिकर्तृत्वरूपकार्यस्य रूपविशेषेष्वेवोक्त्या रूपांतरे तदभावे अपूर्णता स्यादित्यत आह ॥ सर्वत्रेति ॥ सर्वत्र सर्वै रूपैरपि सर्वं स्थित्यादिरूपं कार्यं कुरुते भगवान् अतो नापूर्णता स्यादिति भावः । तर्हि विशिष्योक्तौ किं निमित्तमित्यत उक्तम् । विशेषस्तत्रेति । यद्यपि सर्वं सर्वत्र करोति भगवान् तथापि तत्र कार्यविशेषं रूपविशेषेणैव करोतीत्याद्युक्तौ निमित्तत्वेन विशेषः शक्तिव्यक्त्यादिरूपो विशेषः कीर्तितः ।
अभेदमपि तद्ब्रह्म बहुरूपं विशेषतः ।
करोति न करोतीति व्यवहार्यं स्वशक्तितः ॥ इत्यादि शास्त्रे ।
एवं योजनां प्रदर्श्य तत्र स्थित्यादिपदतात्पर्यविषयान् तथा सत्वरजस्तमःपदतात्पर्यविषयी-भूतानर्थांश्च प्रदर्शयति ॥ ज्ञानेत्यादिना ॥ महतां योग्यानां ज्ञानदानम् । आदिना तत्साधन-भक्त्यादिदानं च गृह्यते । तेन या रक्षा रक्षणं सा स्थितिपदेन कीर्तिता । आचार्यादिषु ज्ञानादौ रागदानेन सृष्टिः रागादिसृष्टिः । सृष्टिः सर्गपदोक्ता । सतां विवर्धनार्थाय यदा यत्, असतां तमो तमःकार्यं मिथ्याज्ञानं वर्धयन् पातयते अन्धन्तमसीति शेषः । तदा तत् । अप्ययपदेनोच्यत इति वाक्यशेषः । इदमपि सर्वरूपेषु समानमिति प्रागुक्तमेव प्रपञ्चयति । ज्ञानाद्युत्पत्तीति । न केवलं हयग्रीवादिरूपं किन्तु रक्तं रक्तवर्णोपेतं जामदग्न्यादिरूपं च । न केवलं रागादिजनकं ज्ञानाद्युत्पत्तिकृदपि बु च विष्णोः कृष्णरूपमपि । अत्रापिशब्द आवर्तते । न केवलमसतां वर्धकमपि तु तमोविनाशकमपीति । एतावता स्थित्यादिपदार्थानभिधाय सत्वादिपदार्थानाह ॥ आचार्यादि-ष्विति ॥ अत्र शुद्धसत्तात्मकमेव रजः रजःपदतात्पर्यषियः । कुतः । यत आचार्यादिषु रागार्थे भक्त्यर्थं व्यपेक्षितम् । अतः भक्ते रजःकार्यत्वाभावेन रजोगुणस्यानपेक्षितत्वादिति भावः । अनेन सत्वशब्देनापि शुद्धसत्त्वं विवक्षितमिति सूचितम् । एवं तमसो नाशेऽपि अपरं नाश्यतमसो भिन्नं, तमसि यो द्वेषस् तदात्मकं तमस् तमःपदप्रतिपाद्यं यत् तदपि शुद्धसत्त्वात्मकमेव ॥ तमोविनाशस्य तमःकार्यत्वाभावादिति भावः । तथा च रजस्तमःपदाभ्यामपि शुद्धसत्त्वमेव ग्राह्यमिति भावः । एवं ज्ञानरागादीनां गुणोद्भवत्वं सृष्टिगतानां तु संसारिणामेव । मुक्तानां तु रागाद्या न गुणोद्भवाः किन्तु शुद्धज्ञानात्मकाश् चित्स्वरूपज्ञानात्मकाः । पूर्वोक्तमर्थं बुद्ध्यारोहाय निगमयति ॥ सर्वत्रेति ॥ सर्वत्र सर्वरूपेषु सर्वकृत् सर्वकार्यकृदपि हरिः । अपिः पदार्थे । स्वेच्छयैव हयग्रीवादिरूपकः सन् ज्ञानादिना रक्षको न तु तत्र निमित्तान्तरमस्ति । कार्ये भेदः? न भगवद्रूपेषु भेदः शङ्कनीयः । कुतः । यत एकरूपोऽपि बहुरूप इव ईयते ज्ञायते । नन्वेकस्य कथं बहुरूपत्वं, अचिन्त्यैश्वर्य-योगात् । बहुरूपग्रहणे किमस्य प्रयोजनम् । पूर्णानन्दैकरूपकः सुखोद्रेकमन्तरा न प्रयोजनान्तरमस्तीति भावः । ननु स्थित्यादिकर्ता हयग्रीवादिः कुतो नानारूप इत्यतस्तत्राह ॥ स्वेच्छयेति ॥ गुणान् अंशान् हयग्रीवादीन् नानारूपान् । शुक्लरक्तादिनानारूपवतः स्वेच्छयैव करोति न सत्त्वाद्यपेक्षयेति भावः । रजसोपबृंहितमित्येतत्प्रकारान्तरेण व्याख्याति ॥ गुणानामिति ॥ २१ ॥
त्वमस्य लोकस्य विभो रिरक्षिषुर्गृहेऽवतीर्णोऽसि ममाखिलेश्वर ।
राजन्यसंज्ञासुरकोटियूथपैर्निर्व्यूह्यमानां निहनिष्यसे चमूम् ॥ २२ ॥
तात्पर्यम्
‘सतां सुखविवृद्ध्यर्थमसतां पीडनं हरेः । यावच्चासुरदुःखं स्यात्तावद्देव-सुखं१ भवेत् । तत्रापि तारतम्येन ब्रह्मणोऽभ्यधिकं सुखम् । यावत्क्षीणं तमस्ताव-त्प्रकाशस्य तु वर्धनम् । सर्वस्माच्च कलेः पीडा ब्रह्मणोऽभ्यधिकं सुखम् । तस्मात्सतां रक्षणाय सर्वकर्म हरेः स्मृतमि’ति ब्रह्मतर्के ॥ २२ ॥
पदरत्नावली
सर्वरूपेषु सर्वशक्तिरस्तीति अत्र स्तूयते त्वमस्येति । त्वदवतारेण संहारकारणेन रक्षा कथङ्कारं स्यादित्याशङ्क्य असतां हनने सतां तारतम्येन सुखसमृद्धिः स्यादित्याशयेनाह राजन्येति । राजन्यसञ्ज्ञा ये असुरकोटियूथपास्तैर् निर्व्यूह्यमानां प्रतिव्यूह्यमानं निहनिष्यसे निहनिष्यसि । गमयिष्यसि सतां सुखानुभवमिति शेषः । ‘चमु भक्षणे’ इति धातोः, चमति भक्षयति शत्रून् नाशयतीति चमूः । ‘सर्वत्र सर्वकृच्चापि’ इति प्रगुक्तमत्र प्रपञ्च्यते - ‘सतां सुखविवृद्ध्यर्थमसतां पीडनं हरेः । यावच्चासुरदुःखं स्यात् तावद् देवसुखं भवेत् । तत्रापि तारतम्येन ब्रह्मणोऽभ्यधिकं सुखम् । यावत् क्षीणं तमस्तावत् प्रकाशस्य तु वर्धनम् । सर्वस्माच्च कलेः पीडा ब्रह्मणोऽभ्यधिकं सुखम् । तस्मात् सतां रक्षणाय सर्वकर्म हरेः स्मृतम् ॥’ इति ॥ २२ ॥
सत्यधर्मीया
त्वमस्य लोकस्येति श्लोके लोकस्य रिरक्षिषुस्त्वं राजन्यसंज्ञासुरकोटि-यूथपैर्निर्व्यूह्यमानां चमूं हनिष्यस इति परस्परमसङ्गतमवनहननयोर्वैय्यधिकरण्यादित्यवतारयन्ति- अस्य लोकस्य सकाशात् । विभुर्विविधभवनवानिति विभो मम मन्मात्ररक्षणार्थं चमूं हनिष्यस इत्यन्यथाप्रतीतिं वारयितुं प्रमाणेन तं श्लोकं व्याकरोति ॥ सत्तामात्रमिति केचित् । लोकस्य सदसत्सङ्घस्य रिरक्षिषुरित्युक्त्वा पुना राजन्यसंज्ञेत्यादिवचनं च व्याहतमित्यतः प्रमाणेन तद्विवेकं लोकपदार्थसङ्कोचनमुखेन दर्शयति ॥ सतामिति ॥ असतां हरेर्यत्पीडनं तत्सतां सुखविवृद्ध्यर्थम् । तत्सम्बन्धि यत्पीडनमिति हरेः सकाशात्पीडनमिति वाऽन्वयः । यावदसुरदुःखं च स्यात्तावदेव सुखं ज्ञानिनां भवेत् । तत्रापि तत्समुदायेऽपि । तावदेव सुखमिति पाठोऽसुरप्रतियोगिसमर्पक इति सुललितः । तारतम्येन ब्रह्मणः सुखमधिकं भवेत् । असदवधिकलिपीडामभिधाय सदधिकार्य-वधिविधिसुखमभिधत्ते । सर्वस्मात्पीडायोग्यात्कलेः पीडाऽभ्यधिकमिति विपरिणतमन्वेति अभ्यधिकेति । ब्रह्मणः सुखयोग्यात्सर्वस्मात्सुखमधिकम् । उपसंहरति ॥ तस्मादिति ॥ लोकस्य सतां रक्षणाय सर्वं हरेः कर्म स्मृतम् ॥ ततश्चायं श्लोकार्थः ॥ हे विभो अखिलेश्वर । अस्य लोकस्य सज्जनस्य लुक् प्रकाशन इति धातोर्ज्ञानवतामिति वा । रिरक्षिषुः रक्षितुमिच्छुर्मम गृहे भार्यायामवतीर्णोऽसि । किञ्च तरतमभावेन सदसत्सुखाप्त्यै राजन्येति संज्ञा येषां ते च तेऽसुरकोटियूथपाः सेनानायकास्तैर्निर्व्यूह्यमानां समूहीकृत्यानीतां चमूं सेनां हनिष्यसे संहरिष्यसि । निर्व्यूह्य ऊहोऽगोचरो मानोऽहङ्कारो यस्याः सा तां वा । चमू भक्षणे चम्यत्यरिनिकरमिति चमूस्ताम् ॥ २२ ॥
सुमनोरञ्जिनी
तमसा जनाप्यय इत्युक्तं विवृणोति ॥ त्वमिति ॥ हे अखिलेश्वर विभो विविधं यथा स्यात्तथा भवतीति विभुः । अस्य लोकस्य, कर्मणि षष्टी, इमं लोकं सज्जनसमुदायं रिरक्षिषुः रक्षितुमिच्छुः । मम गृहे गेहे भार्यायां वा । अवतीर्णोऽसि । अवतीर्णश्च । राजन्यसंज्ञा एव न तु वस्तुतो राजानः । तल्लक्षणाभावात् । ते च ते असुराश्च तेषां कोटियूथपैः । निर्व्यूह्यमानां नितरां व्यूह्यमानां चक्रादिव्यूहेन व्यूह्यमानामिति यावत् । नितरां रक्ष्यमाणां वा । पाण्डित्यं निर्विद्येत्यादिवदत्रापि निरो नितरामित्यर्थकत्वं संभवति । चमूं सेनां हनिष्यसि । ननु सज्जनान् रिरक्षुणा कुतोऽसुरचमूहननं कृतम् । न ह्यन्यहननेनान्यस्य रक्षा लब्धेति चेदत्राहुराचार्याः–
सतां सुखविवृद्ध्यर्थमसतां पीडनं हरेः ।
यावच्चासुरदुःखं स्यात्तावद्देवसुखं भवेत् ॥
तत्रापि तारतम्येन ब्रह्मणोऽभ्यधिकं सुखम् ।
यावत्क्षीणं तमस्तावत्प्रकाशस्य तु वर्धनम् ॥
सर्वस्माच्च कलेः पीडा ब्रह्मणोऽभ्यधिकं सुखम् ।
तस्मात्सतां रक्षणाय सर्वं कर्म हरेः स्मृतम् ॥ इति ।
देवेष्वपि सुखं तारतम्येनेत्याह ॥ तत्रापीति ॥ तारतम्यस्यावधिमाह ॥ ब्रह्मण इति ॥ नातः परमसुरहननजन्यं सुखमस्तीति भावः । असुरहनने देवानां सुखमित्यत्र दृष्टान्तमाह ॥ यावदिति ॥ विरुद्धस्वभावयोस्तमःप्रकाशयोर्मध्ये तमसः क्षये प्रकाशवृद्धिवद् देवासुरयोरपि विरुद्धस्वभावयोरसुरहननेन तदीयानां दुःखे देवानां सुखाधिक्यमिति भावः । यद्वाऽसुरहननेन देवानां सुखवृद्धिवज् ज्ञानस्यापि वृद्धिरित्याह ॥ यावत्क्षीणमिति ॥ असुराणां तमःप्रचुरत्वेन तन्नाशे तमसोऽपि क्षीणता । तमोगुणस्य क्षये सत्वगुणकार्यज्ञानस्य वृद्धिरिति भावः । अधिकं सुखम् अधिकसुखसम्पादिका । तस्मादुक्तनिमित्तात् । सर्वमसुरहननादिकं कर्म सतां रक्षणाय । अतः सज्जनरक्षणायासुरहननं युक्तमिति भावः ॥ २२ ॥
अयं तमस्यस्तव जन्म मे गृहे श्रुत्वाऽग्रजांस्ते न्यहनत् सुरेश्वर ।
स तेऽवतारं पुरुषैः समर्पितं श्रुत्वाऽधुनैवाभिसरत्युदायुधः ॥ २३ ॥
पदरत्नावली
स्वात्मनि स्वभक्तेषु च द्वेषवृद्धिकरत्वेन द्वेषात्मकं तमो दुष्टानां भवतीत्यतस्तदुपादाय त्वत्प्रवर्तनमित्याशयेनाह अयं तमस्य इति ॥ तमस्यस् तमोगुणकार्यत्वद्भक्तद्वेषमूर्तिः । उक्तं च ‘तमो द्वेषात्मकं शुद्धसत्त्वात्मकमुदीर्यते’ इति । तेऽवतारं पुरुषैस्तद्भटैः समर्पितं निवेदितम् । अभिसरति अभ्यागच्छति । उदायुधः धृतायुधः ॥ २३ ॥
सत्यधर्मीया
यः प्राक् मम गृहे भार्यायां तेषां जन्मोत्पत्तिं श्रुत्वा तेऽग्रजान्कीर्तिमदादीन् न्यहनदहन्स तमस्यस्तमोगुणकार्यत्वद्भक्तद्वेषवान् । तेऽवतारं पुरुषैस्तद्भटैः समर्पितं निवेदितं श्रुत्वा । उदायुध उद्धृतायुधवानधुनैव रात्रावेवाभिसरत्यभि भयरहितं यथा भवति तथा सरतीति वा । अयं त्वसभ्य इति पाठे खल इत्यर्थः । नावित्यपि पठन्ति । आवयोर्गृहे गेह इत्यर्थः ॥ २३ ॥
सुमनोरञ्जिनी
एवं स्तुत्वा कंसकृतापकृतिविज्ञापनेन तस्यापि हिंस्यतां व्यंजयन्नाह ॥ अयमिति ॥ हे सुरेश्वर तमस्यस् तमोगुणप्रचुरो ऽयं यो ऽस्माकं बन्धको ऽसौ, तव जन्म मे गृहे भार्यायां श्रुत्वा नारदमुखेन श्रुत्वा तेऽग्रजान् त्वच्छंकया अहनत् हिंसितवान् । स इदानीं पुरुषैस् तद्भृत्यैर् अस्मन्निग्रहाय निहितैः समर्पितं विज्ञापितं तेऽवतारम् आविर्भावं श्रुत्वाऽधुनैवोदायुध उद्यतायुधः सन् अभिसरतीति योजना ॥ २३ ॥
श्रीशुक उवाच–
अथैनमात्मजं वीक्ष्य महापुरुषलक्षणम् ।
देवकी तमुपाधावत् कंसाद् भीता शुचिस्मिता ॥ २४ ॥
पदरत्नावली
महापुरुषस्य हरेर् लक्षणानि यस्य तम् । उपाधावद् गुणस्मरणपूर्वकं तुष्टाव
॥ २४ ॥
सत्यधर्मीया
महापुरुषस्य भगवतो लक्षणानि यस्य तम् । देवकी मातैनमात्मजं वीक्ष्य कंसाद्भीता शुचिस्मिता प्राक् शुचि अन्तः सत्यामपि बहिः स्मिता स्मयमाना तमुपधावदस्तौत्
॥ २४ ॥
सुमनोरञ्जिनी
कंसाद्भीताऽपि देवकी, महापुरुषस्य हरेर्लक्षणानि यस्यासौ तथोक्तम् । तम् आत्मजं वीक्ष्य शुचिस्मिता सती तं कृष्णमुपाधावत् तद्गुणस्मरणपूर्वकमस्तौदिति सम्बन्धः ॥२४॥
देवक्युवाच–
रूपं यत् तत् प्राहुरव्यक्तमाद्यं ब्रह्म ज्योतिर्निर्गुणं निर्विकारम् ।
सत्तामात्रं निर्विशेषं निरीहं स त्वं साक्षाद् विष्णुरध्यात्मदीपम् ॥ २५ ॥
तात्पर्यम्
‘सर्वाशुभविनिर्मुक्तगुणमात्रो यतो हरिः । १सत्तामात्रमतः प्राहु-र्निर्विशेषोऽखिलोत्तमः । अनादरान्निरीहश्च सेहः २सर्वकृती यत’ इति तन्त्रभागवते ॥ यस्य तद्रूपं स त्वम् । ‘सप्तसु प्रथमे’ति सूत्रात् ॥ २५ ॥
पदरत्नावली
भगवदनुग्रहपात्रत्वाद् वेदान्तनिर्णीतगुणविशिष्टमभिष्टौति रूपमिति । यद् यस्य तद्रूपमेवंविधं प्राहुः, वेदान्ता इति शेषः । परोक्षत्वात् तदित्युच्यते । कथम्भूतम् ? अव्यक्तम् आराधनेऽपि स्वप्रसादमन्तरेणाप्रत्यक्षम् । ‘तदव्यक्तमाह हि’ ‘अव्यक्तमचलं ध्रुवम्’ इत्यादेः । तर्हि शून्यम्? नेत्याह आद्यमिति । आदौ विद्यमानम् । ‘आत्मा वा इदमेक एवाग्र आसीत्’ इत्यादेः । किमस्य सञ्ज्ञेत्यत्राह ब्रह्मेति । ‘सत्यं ज्ञानमनन्तं ब्रह्म’, ‘अथ कस्मादुच्यते ब्रह्मेति बृहन्तो ह्यस्मिन् गुणाः’ इत्यादेः । सञ्ज्ञान्तरमाह ज्योतिरिति । ‘परं ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यते’ इत्यादेः । यद्वा गुणित्वेऽपि चेतनत्वं मा भूद् घटवदित्यत्राह ज्योतिरिति ॥ ज्योतिर्ज्ञानलक्षणप्रकाशरूपम् । ‘सुवर्णज्योतिः’ इत्यादेः । ब्रह्मपदोक्ता गुणाः सत्त्वादयः किम् ? नेत्याह निर्गुणमिति । ‘केवलो निर्गुणश्च’ इत्यादेः । उत्पन्नक्षणे सर्वकार्याणां निर्गुणत्वमुत्तरक्षणे नास्तीत्यादिविकारः किं न स्यादित्यत्राह निर्विकारमिति ॥ ‘निर्विकारोऽक्षरः शुद्धः’ इत्यादेः । अज्ञानादिमिश्रज्ञानगुणः किं न स्याज्जीवगुणवदिति तत्राह सत्तामात्रमिति ॥ सर्वाशुभविनिर्मुक्त-गुणैकरूपम् । ‘सर्वाशुभविनिर्मुक्तगुणमात्रो यतो हरिः । सत्तामात्रमतः प्राहुः’ इति वचनात् । निर्विशेषं निर्गतो विशेषो विशिष्यतेऽतिशायी यस्मात् तदखिलोत्तमम् । ‘निर्विशेषोऽखिलोत्तमः’, ‘एकमेवाद्वितीयम्’, ‘न त्वत्समश्चाभ्यधिकः’, इत्यादेः । निरीहम् आत्मकर्तृत्वाभिमानादिरहितं न तु क्रियाशून्यम् । ‘स इमान् लोकानसृजत’ इत्यादिश्रुतेः । तथा ‘अनादरान्निरीहश्च सेहः सर्वकृतिर्यतः’ इति तन्त्रभागवते । स साक्षात् त्वम् अन्यो न । विद्वज्जन उक्तलक्षणसञ्ज्ञाभ्यामयं नारायण इति प्रत्येति, अतः प्राकृतजनप्रत्ययोत्पत्तये तत्सिद्धसञ्ज्ञामाह विष्णुरिति ॥ ‘णकारो बलं षकारः प्राण आत्मा स यो हैतौ णकारषकारावनुसंहितमृचो वेद’ इत्यादेः । योगिभिर्ध्येयं वस्त्विदमेव नान्यदित्याशयेनाह अध्यात्मदीपमिति ॥ आत्मानमधिकृत्य वर्तमानं देहेन्द्रियादिकं दीपयति प्रकाशयतीति तत् तथा । अत्राचार्यैः ‘यस्य तद् रूपं स त्वम्’ इति व्याख्यातम् । यत् तदिति सामानाधिकरण्येन यदित्यत्र षष्ठीत्यङ्गीकारे किं नियामकमिति चेद् एवमुच्यते । यद् अव्यक्तत्वादिगुणकं ब्रह्म तत् त्वं साक्षादनुपचारतो विष्णुरिति सामानाधिकरण्यस्वीकारेणैव पूर्तेः, स इत्यस्य पौनरुक्त्यमापतितम् । अतो यस्येति षष्ठ्यन्ततया विपरिणमय्य व्याख्यातम् । तथा च यस्य ब्रह्मणस् तत् सकलवेदादिसदागमसमधिगम्यमव्यक्तत्वादिगुणकं रूपं स्वरूपं स त्वं साक्षादनुपचारतो विष्णुरित्यन्वयः । प्रथमायाः षष्ठ्यर्थत्वे महाव्याकरणसूत्रमाह ‘सप्तसु प्रथमा’ इति ॥ २५ ॥
सत्यधर्मीया
रूपं यत्तत्प्राहुरव्यक्तमाद्यमिति श्लोकेऽखण्डब्रह्मस्वरूपपरं सत्तामात्रमित्यादीति प्रतीतिनिरासाय निरीहादिशब्दार्थान्मानेनाह ॥ सर्वाशुभेति ॥ यतो हरिः सर्वाणि च तान्यशुभानि च तेभ्यो विनिर्मुक्तश्चासौ गुणानां मात्रं कार्त्स्न्यं यत्र स तथा मात्रको वा तदात्मकमिति यावत् । अतः सत्तामात्रं ज्ञानिनः प्राहुः । सद्भावे साधुभावे च सदित्येतत्प्रयुज्यते । प्रशस्ते कर्मणि तथा सच्छब्दः पार्थ युज्यत इत्यादेस्तस्य तद्गुणानां च साधुत्वात्सच्छब्दवाच्यतेति ज्ञेयम् । अखिलोत्तमत्वान्निर्विशेष इत्युच्यते । विशिष्यत इति विशेषोऽतिशायी स नास्ति यस्मात्तम् इति व्युत्पत्तिः सूचिताऽनेनेति ज्ञेयम् । अनादरात्फलस्नेहराहित्यान्निरीह इति निरुक्त्यन्तरमिदमिति मन्तव्यम् । सर्वं कृतं कर्म चेष्टा सृष्ट्यादावस्तीति स इति सेहश् चेष्टावान् । ननु यदव्यक्तं ज्योतिर्ब्रह्म स त्वमिति यच्छब्दस्य तच्छब्देनान्वयनेन न तच्छब्दो व्यर्थः । व्यर्थश्चान्वयाभावाद्रूपशब्दश्चेति द्वयोरन्वयमाह ॥ यस्य तद्रूपं सत्त्वमिति ॥ यद्यस्येति व्याख्याने बीजमानमाह ॥ सप्तसु विभक्त्यर्थेषु । ततश्चात्र यदिति षष्ठ्यर्थ इत्युक्तं भवति ॥
अयं श्लोकार्थः ॥ साक्षाददिति रित्युत्तमत्वादुपनिषदुक्तगुणत्वेन देवं देवकी स्तौति ॥ रूपमिति ॥ यद्यस्य तद्रूपमव्यक्तमित्यादिप्रकारेण प्राहुर्वेदान्ताः । प्रेण च न च पातनिकोऽर्थ एतदुक्त इति द्योतयति । बहुवचनेन च बहुसम्पत्तिरिति नाविश्वसनीयमिदमिति ध्वनयति । अव्यक्तं प्रसादमन्तरा । अव्यक्तमचलम् । तदव्यक्तमाह हीत्यादेः । आद्यमादौ भवम् । अनेनेदानीं दानवहान्यै मय्ययमवतार इति ध्वनयति । ब्रह्म बृहन्तोऽस्मिन्गुणा इत्यादेर्गुणपूर्णं ज्योतिः परं ज्योतिः । वीदं ज्योतिर्हृदय आहितं यत् । ज्योतिश्चरणाभिधानादित्यादेः । जातमोतमित्याद्यपि ज्ञेयम् । ज्योतिर्ज्ञानस्वरूपम् । गुणाः किं ब्रह्मपदोक्ताः सत्त्वादय इति नेत्याह ॥ निर्गुणमिति ॥ केवलो निर्गुणश्चेत्यादेः । सत्त्वाद्यैर्वा स्वाभिन्नैर्वा रहितम् । निर्विकारं निर्विकारोऽक्षरः शुद्ध इत्यादेः । सत्तामात्रम् । सत्ता सद्भावः । ग्रामजनेति योगविभागात्समूहार्थे तल् । मात्रं च सर्वाशुभव्युदासकः । ततश्च सर्वाशुभविनिर्मुक्तगुणगणात्मकं गुणात्मकमिति वा सत्तामात्रम् । निर्विशेषं निर्गतो विशेषो विशिष्यतेऽतिशायी यस्मात्तदखिलोत्तमम् । न त्वत्समश्चाभ्यधिकः । एकमेवाद्वितीयमित्यादेः । निरीहमफलादरान्निरीहं नितरामीहा चेष्टा यस्य तदिति वृत्त्यन्तरं च । सेहः सर्वकृती यत इत्यादेरनुसन्धेयम् । स इमांल्लोकानसृजत इत्यादेः । स्वयमेव ज्योतिरूपमिति नेत्याह ॥ अध्यात्म-दीपमिति ॥ आत्मानमधिकृत्य विद्यमानस्वस्वेन्द्रियादिकं दीपयति प्रकाशयतीति तत्तथा । सत्त्वं विष्णुर्णकारो बलं षकारः प्राण आत्मा स यो हवै तौ णकारषकारावनुसंहितमृचो वेदेत्याध्यायाव-सित्यैतरेयगीताभाष्याद्युक्तप्रकारेणार्थोऽवसेयः । साक्षादित्याविष्टत्वादिव्युदासः । अत्र नानाश्रुत्यादि-वाक्यसङ्ग्राहकाणि विशेषणान्यव्यक्तमित्यादीनि निमित्तीकृत्य वितत्य विचारो व्योमरोमन्थायित इति बहुविस्तारहेतुरिति वा तत्र न मनः श्रमणीयमित्युपरतमिति मन्तव्यम् । (न च बृहदारण्यकभाष्य इदमिति द्वितीया षष्ठ्यर्थ इति प्रतिपत्तिलघुतामादाय दृष्टिं व्याकरणान्महाव्याकरणसूत्रं चेदं षट्सु द्वितीयेति चेति किं, न च तथोचुरिति वाच्यम् । तत्रेदमग्र इत्येव श्रुतेर्द्वितीयाकर्तुं रूपाव्यक्तादिपदानां सामानाधिकरण्य आवश्यके किल पुनः स इति तच्छब्दनैरर्थ्यप्रतीतिस्तस्यां च षष्ठ्यन्ततया विवरणं तत्र सूत्रमानीकरणं चेतीदमर्थविशेषेणैवमेव वक्तव्यत्वादिति दिक्) ॥ २५ ॥
सुमनोरञ्जिनी
स्तुतिप्रकारमाह ॥ रूपमिति ॥ यद् यस्य । सप्तसु प्रथमेति सूत्रात् । तद्रूपं प्राहुर् वेदान्ताः स त्वमित्यन्वयः । किं तद्रूपमिति तत्राहुरव्यक्तमित्यादि । अव्यक्तं स्वप्रसाद-मन्तरेणाव्यक्तस्वभावम् । यदाह सूत्रकृत् ‘तदव्यक्तमाह हीति’ । आद्यम् आदिकालीनम् आदिकारण-मित्यर्थः । एतादृक् किमित्यतो नाम निर्दिशति ॥ ब्रह्मेति ॥ देशकालाभ्याम् अपरिच्छिन्नम् । ज्योतिर् ज्ञानरूपम् । जीवः किं नेत्याह ॥ निर्गुणं सत्वादिगुणाबद्धम् । किं कारणत्वं परिणामितया? न । निर्विकारम् । कुतः । सत्तामात्रम् । सर्वाशुभविनिर्मुक्तगुणस्वरूपमत एव निर्विशेषम् । विशिष्यत इति विशेषः विशिष्ट इत्यर्थः । उत्तम इति यावत् । निर्गतो विशेष उत्तमो यस्मात्तम् । तदुक्तम्–
सर्वाशुभविनिर्मुक्तगुणमात्रो यतो हरिः ।
सत्तामात्रमिति प्राहुर्निर्विशेषोऽखिलोत्तमः ॥ इति ।
निरीहं सर्वत्रोदासीनम् । स्वप्रयोजनाभावात् । तदुक्तम् । अनादरान्निरीहश्च सेहः सर्वकृती यत इति । सेह ईहया चेष्टया सहित इत्यर्थः । एतादृशं ब्रह्म किं चतुर्मुखः प्रकृतिर्वेति तत्राह ॥ विष्णुरिति ॥ इदमेव सर्वेषां बिम्बरूपमित्याह ॥ अध्यात्मदीपम् ॥ आत्मानं जीवमधिकृत्य वर्तमानं स्वरूपानन्दादिकं दीपयति प्रकाशयतीति अध्यात्मदीपम् । मुक्तिप्रदमिति यावत् ॥ २५ ॥
नष्टे लोके द्विपरार्धावसाने महाभूतेष्वादिभूतं गतेषु ।
व्यक्तेऽव्यक्तं कालवेगेन याते भवानेकः शिष्यतेऽशेषसंज्ञः ॥ २६ ॥
तात्पर्यम्
अशेषसंज्ञः सर्वनामा ॥ २६ ॥
पदरत्नावली
निर्गुणत्वादिकं तल्लक्षणमेवेत्याह नष्ट इति । द्विपरार्धावसाने ब्रह्मणः शतायुर्लक्षणः कालः द्विपरार्धस्तस्यावसाने । लोके नष्ट इति सामान्येनोक्तं विशिनष्टि महाभूतेष्विति । पञ्चमहाभूतेषु पृथिव्यादिषु अहङ्कारद्वारा आदिभूतं महत्तत्त्वं गतेषु, व्यक्ते महत्तत्त्वे अव्यक्तं प्रधानं गते सति । अशेषसञ्ज्ञो ऽशेषाः सञ्ज्ञा यस्य स तथा । ‘नामानि सर्वाणि यमाविशन्ति’ इति श्रुतेः ॥ २६ ॥
सत्यधर्मीया
नष्टे लोक इति श्लोके शेषसंज्ञ इति शेषतादात्म्यमुच्यत इति प्रतीयत इति स्वयमकारप्रश्लेषं कृत्वा विवृणोति ॥ अशेषसंज्ञः सर्वनामेति ॥ केचिदेवमपि प्रदर्शितान्यथाप्रतीते-र्विना विवरणमनिवारणात् । वस्तुतस्तु शिष्यत इति शेषपदनिर्वचननैर्भर्यभ्रमेण शेषनामैकलमेव भगवत इति प्रतीयते । सा च न माहात्म्यापादिकेत्यत अकारप्रश्लेषेण व्याख्याति ॥ अशेषेति ॥ अशेषाः संज्ञा नामानि । नामानि सर्वाणि यमाविशन्तीत्यादेर्यस्य सः ॥ ततश्चायं श्लोकार्थः ॥ द्विपरार्धावसाने शतानन्दशतायुर्लक्षणो द्विपरार्धः कालस्तस्यावसाने लोके नष्टे । प्रतिज्ञातां नष्टिमेव विशिनष्टि ॥ भूतेष्विति ॥ कालवेगेन कालजवेन महाभूतेषु पृथिव्यादिष्वादिभूतं महत्तत्त्वं गतेषु । व्यक्ते प्रकृतितो व्यक्ते महत्तत्त्वेऽव्यक्तं प्रकृतिं याते सति । सर्वेषां नाशेन वाच्यार्थहीनता वेदादेरित्यत आह ॥ अशेषसंज्ञोऽशेषनामा सन् भवान् शिष्यत इति ॥ अत्यन्तसमीपवर्तिनीरमेये क इति वा ईशकोटिनिवेशाद्वोक्तिरिति व्याकुर्वते ॥ २६ ॥
सुमनोरञ्जिनी
लोके नष्टे । द्विपरार्धावसाने । चतुर्मुखस्य शतवत्सराणि द्विपरार्धमुच्यते । तस्यावसाने समाप्तौ सत्याम् । कालवेगेन कालस्य संहर्तुर्भगवतो वेगेन प्रेरणाख्येन । लोके कार्यप्रपञ्चे नष्टे सति महाभूतेषु आकाशादिषु अहंकारद्वारा आदिभूतं महत्तत्वं गतेषु तत्र लीनेष्वित्यर्थः । व्यक्ते महत्तत्वे । अव्यक्तं प्रकृतिं गते सति । अशेषाः संज्ञा यस्यासौ सर्वनामेत्यर्थः । अशेषसंज्ञः सर्वनामेत्याचार्योक्तेः । भवानेक एव शिष्यते वटपत्रशायी सन्नेक एव भवान् स्थास्यतीत्यर्थः ॥२६॥
योऽयं कालस्तस्य तेऽव्यक्तबन्धो चेष्टामाहुश्चेष्टते येन विश्वम् ।
निमेषादिर्वत्सरान्तो महीयांस्तं त्वेशानं क्षेमधाम प्रपद्ये ॥ २७ ॥
तात्पर्यम्
चेष्टते अनेनेति चेष्टा ॥ २७ ॥
पदरत्नावली
कालवेगेन यात इत्यत्र प्रतीतं कालस्वातन्त्र्यं निवारयति योऽयमिति ॥ निमेषादिर्वत्सरान्तो योऽयं कालस्तं कालम् । यश्चाशेषसञ्ज्ञस्तस्य, ते तव चेष्टामाहुरित्यन्वयः । अव्यक्तबन्धो रमापते१ । येन त्वया । येन कालेन वा । क्षेमधाम नित्यक्षेममोक्षस्थानम् । ‘अभयं प्रतिष्ठां विन्दते’ इति श्रुतिः ॥ २७ ॥
दुर्घटभावदीपिका
हे अव्यक्तबन्धो लक्ष्मीपते । येन कालेन विश्वं चेष्टतेऽयं निमेषादिर्वत्सरान्तो महीयान्कालस्तस्य ते त्वां चेष्टाम् । चेष्टतेऽनेनेति चेष्टाम् । आहुः । तं कालचेष्टकमीशं ब्रह्मादीनां स्वामिनं क्षेमधाम आत्यन्तिकक्षेमप्रदवैकुण्ठादिस्थानस्वामिनं त्वां प्रपद्य इति । एतेन कालस्य भगवच्चेष्टैक्याभावात् तं कालं चेष्टामाहुरित्यनुपपन्नमिति दूषणस्यानवकाशः । चेष्टामाहुरित्यनेन कालस्य भगवच्चेष्टैक्यं नोच्यते किंतु चेष्टाशब्दस्य चेष्टतेऽनेनेति व्युत्पत्तिमङ्गीकृत्य ते इति षष्ठ्यास्त्वामिति द्वितीयादेशत्वं च स्वीकृत्य तस्य कालस्य त्वां चेष्टकमाहुरित्यर्थ उच्यत इत्यभ्युपगमात् ॥ ता. ॥ कालश्चेष्टतेऽनेन भगवतेति हेतोर्भगवांश्चेष्टेत्युच्यत इति ॥ २७ ॥
सत्यधर्मीया
योऽयं काल इति श्लोके कालस्य भगवच्चेष्टारूपत्वमद्रव्यत्वात्कालस्य कथं चेष्टारूपत्वमित्यत आह ॥ चेष्टत इति । एतच्चार्थकथनपरमिति नानेन लिङ्गविपर्यासदोषः ॥ ततश्चायं श्लोकार्थः ॥ तर्हि कालस्य सकलकलनसमर्थता किमित्यत उक्तापवादमाह ॥ योऽयमिति ॥ येन त्वया विश्वं चेष्टते तस्य ते सम्बन्धी कालो योऽयं निमेषादिर्वत्सरान्तो महीयानुक्तद्विपरार्धरूपस्तं कालं चेष्टामाहुः । हे अव्यक्तबन्धो रमापते । अव्यक्तं श्रीरुदाहृता । अव्यक्तात्पुरुषः पर इत्यादेः । तं क्षेमधाम क्षेमस्थानं नित्यक्षेममोक्षाश्रयं वा ईशानमीशनादेव चेशान इति स्मृतेः सर्वप्रेरकं प्रपद्ये
॥ २७ ॥
सुमनोरञ्जिनी
अव्यक्तं प्रधानम् । तदभिमानितया रमाया अव्यक्तसंज्ञा तस्य बन्धो । हे लक्ष्मीपते अव्यक्तस्य मुख्यप्राणस्य बन्धो इति पदरत्नावल्याम् । योऽयं निमेषादिर् वत्सरान्तः ब्रह्मसंवत्सरपर्यन्तः महीयान् प्रवाहतोऽपरिमितः कालः सः । तस्य पूर्वोक्तमहिमोपेतस्य ते चेष्टामाहुर्ज्ञानिनः । कुतः । येन कालेन विश्वं चेष्टते प्रवर्तते । तदुक्तम्– चेष्टते अनेनेति चेष्टेति । अतः । तं कालचेष्टकम् । न केवलं कालचेष्टकं किन्तु ईशा ब्रह्मादिका अपि अनन्ति चेष्टंते येनासौ तथोक्तम् । एतादृशं क्षेमधाम क्षेमकरं स्थानं प्रपद्य इत्यन्वयः ॥ २७ ॥
**मर्त्यो मृत्युव्यालभीतः पलायन् **
लोकान् सर्वान् निर्भयं नाध्यगच्छत् ।
**त्वत्पादाब्जं प्राप्य यदृच्छयाऽऽद्य **
स्वस्थः शेते मृत्युरस्मादपैति ॥ २८ ॥
पदरत्नावली
क्षेमधामत्वं दर्शयति मर्त्य इति । मृत्युरेव व्यालस् तस्माद् भीतः । पलायन् पलायमानः । अस्मान् मर्त्यात् ॥ २८ ॥
सत्यधर्मीया
तत् क्षेमधामत्वं दर्शयति ॥ मर्त्य इति । हे आद्य यो मर्त्यो मृत्युरेव व्यालः सर्पो वा दुर्दन्ती वा तस्माद्भीतः । व्यालो भुजङ्गमे क्रूरे श्वापदे दुष्टदन्तिनीति विश्वः । सर्वान् लोकान्पलायन्निर्भयस्थानं नाध्यगच्छन्नालब्धः सो यदृच्छया यदृच्छा तु तदिच्छा स्यादिति त्वदिच्छया त्वत्पादाब्जं प्राप्य शेते । सति मृत्यौ कथं स्वास्थ्येनावस्थानमित्यत आह ॥ मृत्युरिति ॥ अस्मात्त्वत्प्राप्तिमतो मृत्युरपैति । स्वस्मिन् अस्मज्जातिनाथो तिष्ठतीति स्वस्थः स सन् शेते । य इति मृत्युसर्पोपासर्पदहं पद्मोऽस्मीदं च पादाब्जमिति मृत्युं दुर्दन्त्यपागादस्मादिति प्रेक्षावन्त उत्प्रेक्षयन्ति । एकनाम्नोः सदा प्रीतिरित्याम्नानात् ॥ २८ ॥
सुमनोरञ्जिनी
क्षेमधामत्वं दर्शयति ॥ मर्त्य इति । मर्त्यः, मृत्युरेव संसार एव व्यालः सर्पस् तस्माद्भीतः । सर्वान् लोकान् प्रति पलायन् कर्मणा प्राप्तस्वर्गादिलोकोऽपि तत्स्वर्गादिकं निर्भयं भयरहितं स्थानं नाध्यगच्छन् न प्राप । न मेने । यदृच्छया अदृष्टनियामकेन त्वया प्रेरितस् त्वत्पादाब्जं प्राप्य स्वस्थः निर्भयो भवति । कुतः । मृत्युर् अस्माद् भीतमर्त्याद् अपैति यतोऽत इति ॥ २८ ॥
स त्वं घोरादुग्रसेनात्मजान्नस्त्राहि त्रस्तान् भृत्यवित्रासहाऽसि ।
रूपं चेदं पौरुषं ध्यानधिष्ण्यमप्रत्यक्षं मादृशां त्वं कृषीष्ठाः ॥ २९ ॥
पदरत्नावली
भृत्यवित्रासहा भृत्यानां विविधभयनाशकोऽसि । ध्यानधिष्ण्यं ध्यानविषयम् । मादृशां जनानामप्रत्यक्षं कृषीष्ठाः कुरु ॥ २९ ॥
सत्यधर्मीया
यस्त्वमुक्तरीत्या भृत्यवित्रासहा भृत्यानां वित्रासं हन्तीति स तथाऽसि । अतो घोरादुग्रसेनात्मजात्त्रस्तान्नस्त्राहि । ऋग्भाष्याद्युदाहरणपूर्वकं प्रकृत्यन्तररूपत्वेनातीतस्कन्धोक्तः समाधिरवधेयस् त्रायस्व । भृत्यानां वित्रासं यथा भवति तथा हासयति सन्तोषातिशयेन तद्वित्रासह यद्रूपमित्यप्यन्वयो ज्ञेयः । ध्यानधिष्ण्यं ध्यानस्थानं तद्विषयमिति यावत् । पौरुषं रूपं चतुर्भुजत्वादिमत् । मादृशां जनानामप्रत्यक्षं कृषीष्ठाः कुरु । त्वमन्यद्रूपं लोकपालवद्दृशां पिशि-तलोचनानामप्रत्यक्षं मा कृषीष्ठाः साधारणाकारधारणेनास्माकं दृग्विषयो भव भगवन्नित्यावृत्त्याऽन्वयो वा । त्वत्वावन्यपर्यायावित्युक्तेः ॥ २९ ॥
सुमनोरञ्जिनी
सः संसारभयपरिहारकस् त्वं, उग्रसेनात्मजः कंसस् तस्माद्भीतान्नो ऽस्मान् त्राहि पालय । त्वं भृत्यानां विविधं त्रासं भयं हंतीति तथोक्तः यतोऽसि अत इत्यर्थः । इदं परिदृश्यमानम् । पौरुषं परमपुरुषसंबन्धि । चतुर्भुजत्वाद्युपेतमिति यावत् । मादृशां मत्सदृशानाम् । मा नास्ति दृक् ज्ञानं येषामज्ञानिनामिति वा ॥ अप्रत्यक्षं कृषीष्टाः कुर्वित्यर्थः । कुतः । यतो ध्यानधिष्ण्यं ध्यानविषयम् अत इति योजना ॥ २९ ॥
जन्म ते मय्यसौ पापो मा विद्यान्मधुसूदन ।
समुद्विजे भवद्धेतोः कंसादहमधीरधीः ॥ ३० ॥
पदरत्नावली
अप्रत्यक्षकरणे कारणमाह जन्मेति । मा विद्यान्न जानातु । समुद्विजे बिभेमि । अधीरधीश् चञ्चलबुद्धिः ॥ ३० ॥
सत्यधर्मीया
तदेव देवकी देवं प्रति विविच्य वक्ति ॥ जन्मेति ॥ हे मधुसूदन मयि ते जन्मासौ पापो मा विद्यान्न जानातु । अधीरधीरहं भवद्धेतोस्त्वत्कारणं कंसात्समुद्विजे बिभेमि । अहं रोहिणी चेति द्वाभ्यां जायत इति द्विजो बलस्तद्विषये समुद्वर्तते स्थानान्तरमिति ससन्तोषे-त्यावृत्त्याऽर्थः । अनेन स्थानान्तरगमनागमनौ भवत इति ध्वन्यते ॥ ३० ॥
सुमनोरञ्जिनी
अप्रत्यक्षकरणे निमित्तमाह । हे मधुसूदन । असौ पापः कंसः मयि मदधि-करणकं ते जन्म प्रादुर्भावं मा विद्यान् न जानातु । भवन्निमित्तात् समुद्विजे बिभेमि । नन्वेतादृशं भगवदवतारं मां ज्ञात्वापि कुतो बिभेषीत्यत आह ॥ अहमधीरधीरिति ॥ यतोऽहमधीर् अधीर् द्विर्वचनं स्वात्मगर्हणार्थम् । अधीरा चंचला धीस् त्वयीश्वरत्वज्ञानं यस्याः सेति वा ॥ ३० ॥
उपसंहर विश्वात्मन्नदो रूपमलौकिकम् ।
शङ्खचक्रगदापद्मश्रिया जुष्टं चतुर्भुजम् ॥ ३१ ॥
सत्यधर्मीया
मां प्रति किं वदसि मातरितः परमित्यत ईरयति ॥ उपसंहरेति ॥ हे विश्वात्मन् विश्वे नानाप्रकारा आत्मानो देहा यस्य स तथेति । अनेनानेनैव रूपेण यथा मनीषितं तथा भवनसामर्थ्यं द्योत्यते । अलौकिकम् । तदलौकिकत्वमुपपादयति । शङ्खचक्रैर् गदापद्मैः सहिता या श्रीस्तया वा तेषां श्रिया शोभया वा जुष्टं चतुर्भुजं भुजचतुष्टयसहितमिति । हे रूपम रूपाणां मा सम्पद्यस्य । इदानीं ग्राह्यरूपज्ञानम् । रूपेषु प्रतिरूपं मा रमाऽस्येति तत्सम्बुद्धिः । लौकिकमदः कृषीष्ठाः कुर्विति ॥ ३१ ॥
सुमनोरञ्जिनी
हे विश्वात्मन् विश्वस्यादानादिकर्तो ऽदो ऽस्मन्मात्रप्रत्यक्षविषयं रूपम् उपसंहर । क्व । विश्वात्मन् पूर्णे स्वस्मिन्नेव । श्रिया शोभया ॥ ३१ ॥
विश्वं यदेतत् स्वतनौ निशान्ते यथावकाशं पुरुषः परो भवान् ।
बिभर्ति सोऽयं मम गर्भगोऽभूदहो नृलोकस्य विडम्बनं महत् ॥ ३२ ॥
पदरत्नावली
हरेर्गर्भवासादिदुःखानुभवो नास्त्येवेत्याशयेनाह विश्वमिति । निशान्ते कल्पावसाने । यथावकाशम् अवकाशमनतिक्रम्य । ‘यथाऽसादृश्ये’ इति समासः ॥ ३२ ॥
दुर्घटभावदीपिका
निशान्त इत्येतन्निशायां दिवसस्यान्ते निशाया आदिभाग इति व्याख्येयम् । एतेन निशाया आदाविति वक्तव्यम् । निशाया अन्त इति कथनमनुपपन्नम् इति दूषणं निरस्तम्
॥ ३२ ॥
सत्यधर्मीया
एतादृशोऽपि त्वमीश मे गर्भकोशजात इति जातमद्भुतमिदमित्याह ॥ विश्वमिति ॥ यदेतद्विश्वं जगत्परः पुरुषो भवान्यथावकाशं पदमेकम् । अवकाशमनतिक्रम्य । यथाऽसादृश्य इति समासः । निशान्ते प्रलयावसाने स्वतनौ बिभर्ति सोऽयं मम गर्भगोऽभूदिति यन्नृलोकस्य महद्विडम्बनमाश्चर्यम् ॥ ३२ ॥
सुमनोरञ्जिनी
निशान्ते प्रलये । यथावकाशमवकाशमनतिक्रम्य । अनन्तानन्त- विश्वावस्थानावकाशं रक्षित्वेति यावत् । यदेतद्विश्वं स्वतनौ बिभर्ति सोऽयं परमपुरुषो भवान् मद्गर्भगोऽभूत् । अहो आश्चर्यम् । नृलोकस्य विडम्बनं वञ्चनमेव नान्यत् ॥ ३२ ॥
श्रीभगवानुवाच–
त्वमेव पूर्वसर्गेऽभूः पृश्निः स्वायम्भुवे सति ।
तदाऽयं सुतपा नाम प्रजापतिरकल्मषः ॥ ३३ ॥
पदरत्नावली
अहं युवयोस्तपःप्रभावादाविर्भावमकरवं न तु कर्माधीनत्वेनेति पूर्वजन्मसञ्चीर्ण-तपोमाहात्म्यं कथयति त्वमेवेति । त्वं पृश्निस् तन्नाम््नयभूः । अयं वसुदेवस्तदा अकल्मषः सुतपा नाम प्रजापतिरभूत् ॥ ३३ ॥
सत्यधर्मीया
न मम कर्मनिर्मितमेतद्वर्ष्म किन्तु भवत्प्रार्थनयेति तौ स्मारयंस्तत्पूर्वरङ्गमाह ॥ त्वमेवेति ॥ पूर्वसर्गेऽतीतजन्मनि । हे सति स्वायम्भुवमन्वन्तरे सतीति वा । त्वं पृश्नि-स्तन्नाम््नयभूरयं वसुदेवस्तदाऽकल्मषः सुतपा नाम प्रजापतिरभूत् ॥ ३३ ॥
सुमनोरञ्जिनी
भवत्कृततपःप्रभावप्रसन्नेन युवयोरलौकिकरूपप्रदर्शनं, पुत्रभावेन ब्रह्मभावेन च स्नेहमाहात्म्याभ्यां सन्ततमनुचिन्तयतोः परगतिप्रदानार्थमेव नान्यार्थमिति दर्शयन् पूर्ववृत्तं कथयति श्रीकृष्ण इत्याह ॥ श्रीभगवानिति ॥ स्वायम्भुवे स्वायंभुवमन्वन्तरे सति प्राप्ते सति त्वमेव । पूर्वसर्गे पूर्वजन्मनि । पृश्निर् नामतः । अभूर् आसीरिति सम्बन्धः । तदा अयं वासुदेवः सुतपा नामतः, प्रजापतिरासीत् । न विद्यते कल्मषं मनोदोषः कामादिरूपं यस्यासौ तथोक्तः ॥ ३३ ॥
**युवां वै ब्रह्मणाऽऽदिष्टौ प्रजासर्गे यदा ततः । **
सन्नियम्येन्द्रियग्रामं १तेपाथे परमं तपः ॥ ३४ ॥
पदरत्नावली
प्रजासर्गे तादर्थ्ये सप्तमी । ततस्तदा ॥ ३४ ॥
सत्यधर्मीया
ब्रह्मणा विधिना प्रजासर्गे तदर्थमिन्द्रियग्राममिन्द्रियसमूहं सन्नियम्य । परममुत्कटं तपस्तेपाते । तेपाथे इति पाङ्क्तः पाठः । प्राथमिके पाठे गतिर्वक्तव्या ॥ ३४ ॥
सुमनोरञ्जिनी
युवां प्रजासर्गे । तादर्थ्ये सप्तमीयम् । चर्मणि द्वीपिनं हंतीतिवत् । प्रजासर्गार्थं यदा ब्रह्मणा आदिष्टौ आज्ञप्तौ । ततस् तदनन्तरम् । इन्द्रियाणां ग्रामं स्तोमं सन्नियम्य निगृह्य । परमं तपः भगवद्ध्यानरूपं तपस् तेपाथे अकुरुतामिति योजना ॥ ३४ ॥
वर्षवातातपहिमघर्मकालगुणाननु ।
सहमानौ श्वासरोधविनिर्धूतमनोमलौ ॥ ३५ ॥
पदरत्नावली
अनु क्रमेण वर्षादिगुणान् सहमानौ । श्वासरोधः प्राणायामस्तेन विनिर्धूतं मनोमलं याभ्यां तौ ॥ ३५ ॥
सत्यधर्मीया
वर्षवातातपहिमघर्मादयः कालगुणास्ताननु क्रमतः सहमानौ । श्वासस्य निरोधेन विनिर्धूतं मनोमलं याभ्यां तौ ॥ ३५ ॥
सुमनोरञ्जिनी
तत्रेतिकर्तव्यतामाह । वर्षेति । वर्षं वृष्टिः । वातो वायुः । आतपः सूर्यतेजः । हिमम् । घर्म ऊष्मा । तद्रूपा ये कालगुणास् ताननुसृत्य सहमानौ । श्वासरोधः प्राणायामसमाध्यादिस् तेन विनिर्धूतं परिहृतं मनोमलं याभ्याम् ॥ ३५ ॥
शीर्णपर्णानिलाहारावुपशान्तेन चेतसा ।
मत्तः कामानभीप्सन्तौ मदाराधनमीहतुः ॥ ३६ ॥
पदरत्नावली
शीर्णं पर्णं वायुना पतितपत्रम् । कामान् पुत्रादिलक्षणान् ॥ ३६ ॥
सत्यधर्मीया
शीर्णपर्णानि चानिलो वायुश्चाहारो ययोस्तौ । उपाशान्तेनैव समाहितेन चेतसा । मत्तः कामान्विषयानभीप्सन्तौ । मदाराधनं कृतवन्तौ गतम् ॥ ३६ ॥
सुमनोरञ्जिनी
शीर्णानि भूमौ पतितानि पर्णानि, अनिलो वायुरेवाहारो ययोस्तौ । मत्तः कामान् वरान् अभीप्सन्तौ । उपशान्तेन भगवन्निष्ठेन चेतसा । मदाराधनमीहतुश् चक्राते । भवन्ताविति शेषः ॥ ३६ ॥
एवं वां तप्यतोर्भद्रे तपः परमदुष्करम् ।
दिव्यवर्षसहस्राणि द्वादशेयुर्मदात्मनोः ॥ ३७ ॥
पदरत्नावली
वां युवयोः । ईयुर्गतानि ॥ ३७ ॥
सत्यधर्मीया
तप्यतोस्तपः कुर्वतोः । मदात्मनोर्मय्यात्मा मनो ययोरहमात्मा स्वामी ययोरिति वा । दिव्यानि देहसम्बन्धीनि द्वादशवर्षसहस्राणीयुर्गतानि ॥ ३७ ॥
सुमनोरञ्जिनी
हे भद्रे । मदात्मनोर् मय्येव आत्मा मनो ययोः । परमदुष्करं तपः कायक्लेशात्मकं भगवद्ध्यानात्मकं च । वां युवां द्वादशसंख्याकानि दिव्यवर्षाणि देवतावर्षाणां सहस्राणि ईयुर् अतीतानीत्यर्थः ॥ ३७ ॥
विरोधोद्धारः
एवमिति । अत्र भद्रे इत्येकवचनम् । सम्बुद्धौ सत्यां वां तप्यतोरिति द्विवचनेन विरोधोऽत उच्यते । मातापित्रोर्मध्ये मातुरपत्यकृतपरमश्रमप्राप्त्या मातृदेवो भवेति श्रुतावपि मातुरेव पूर्वग्रहणाच्चात्रापि देवक्या एवाव्यवहितस्तुत्या वसुदेवस्य निर्व्यूहमानां निहनिष्यसे चमूमित्युक्त्या भावाभावेन स्वयमेव सन्मुखत्वाद्देवक्यास्तु समुद्विजे भवेद्धेतोः कंसादहमधीरधीरित्युक्त्या स्त्रीजात्या च सभयत्वदर्शनात् । अतिकृपया देवक्या एव सम्बुद्ध्या तामेव संमुखीकृत्योभौ प्रति भाषणम् । अतो न विरोधः । यद्वा । भद्रे स्वकल्याणविषये परमं दुष्करं तपस्तप्यतोर्वां युवयोरिति योजना । अग्रेऽनघे इत्यत्रापि पापाभावे इत्यर्थो ज्ञेयः । अथवा । मातापित्रापरपर्यायतीर्थे शब्दविवक्षया भद्रे अनघे इति नपुंसकसम्बुद्धिद्विवचनप्रयोगः । अतो न विरोधः ॥ ३७ ॥
**तदा वां परितुष्टोऽहममुना वपुषाऽनघे । **
तपसा श्रद्धया नित्यं भक्त्या च हृदि भावितः ॥ ३८ ॥
प्रादुरासं वरदराड् युवयोः कामदित्सया ।
व्रियतां वर इत्युक्ते मादृशो वां वृतः सुतः ॥ ३९ ॥
पदरत्नावली
वरदराट् वरदराजः । कामदित्सया अभीष्टदानेच्छया ॥ ३९ ॥
सत्यधर्मीया
तदा वां परिश्रद्धया तपसा तत्पूर्वकतपसा भक्त्याऽमुना वपुषा हृदि भावितोऽनघे सम्बुद्ध्यन्तं चेद्भवती च भवांश्चेति विग्रहदशापन्नैकदेशोत्कीर्तनेनान्वयो ज्ञेयः । वरदरोऽट्यतेऽनेनेति वा दरेण स अटतीति वा । उपलक्षणया चक्रादिग्रहः । शङ्खचक्रगदापद्मश्रिया जुष्टमित्युक्तेः । अनेन भद्र इत्यपि व्याख्यातम् । अनघे हृदीति तु हृद्योऽन्वयः । वरदराट् वरद-श्रेष्ठः । युवयोरिति पाठेऽप्येवमेवान्वयो ज्ञेयः । कामदित्सयाऽमुना वपुषेत्यत्राप्यन्वेति । प्रादुरासम् । प्रादुर्भूतेन मया वरं व्रीयतामित्युक्ते मादृशः सुतो वां युवाभ्यां वृतः ॥ ३८,३९ ॥
सुमनोरञ्जिनी
तपसा पूर्वोक्तया श्रद्धया आस्तिक्यबुद्ध्या । भक्त्या माहात्म्यज्ञानपूर्वकस्नेहेन हृदि भावितो ध्यातो ऽहं वां युवाभ्यां परितुष्टः । वरदराट् वरदानां राजा । युवयोः कामस्य अभीष्टस्य दित्सया दानेच्छया अहं, अमुना, इदानीं यादृशं चतुर्भुजत्वादिरूपं वपुर्दृष्टमेतादृशेनैव वपुषा प्रादुरासमिति सम्बन्धः । इत्युक्ते मयेति शेषः । वां युवाभ्यां मादृशः मत्सदृशः सुतो वृतः ॥ ३८,३९ ॥
अजुष्टग्राम्यविषयावनपत्यौ च दम्पती ।
न वव्राथेऽपवर्गं मे मोहितौ मम मायया ॥ ४० ॥
पदरत्नावली
अजुष्टग्राम्यविषयौ अननुभूतमैथुनादिविषयौ । मे मत्तोऽपवर्गं मोक्षं न वव्राथे
॥ ४० ॥
सत्यधर्मीया
अजुष्टग्राम्यविषयौ असेवितव्यवायादिविषयौ । मम मायया मोहिताविति मे मत्तोऽपवर्गं मोक्षं न वव्राथे ॥ ४० ॥
सुमनोरञ्जिनी
भगवति प्रसन्ने मोक्षं विहाय किमित्यैहिक एव वरो वृत इति तत्राह ॥ अजुष्टेति ॥ अजुष्टोऽसेवितः ग्राम्य इन्द्रियग्रामसम्बन्धी विषयः मैथुनादिर्याभ्यां तौ । अनपत्यौ यतोऽतो ऽपवर्गं न वव्राथे न वृतवन्तौ । अपत्यापेक्षया अपवर्गस्याधिक्यविषये मम मायया मोहितौ मोहविशिष्टावित्यर्थः ॥ ४० ॥
गते मयि युवां लब्ध्वा वरं मत्सदृशं सुतम् ।
ग्राम्यान् भोगानभुञ्जाथां युवां प्राप्तमनोरथौ ॥ ४१ ॥
सत्यधर्मीया
मत्सदृशं मामेव । प्राप्तमनोरथाविति ग्राम्यान्भोगानभुञ्जाथाम् । युवां युवामिति पृथक् पृथगन्वयान्नातिरेकः । स्मरणार्थं, भवान्भवान्गच्छतु अहमहमायात इतिवदुक्तिर्वा ॥ ४१ ॥
सुमनोरञ्जिनी
युवां मत्सदृशं सुतं तद्रूपं वरं लब्ध्वा । अन्तर्णीतणिजन्तमिदम् । लाभयित्वा प्रापयित्वेति यावत् । मयि गते सति युवां प्राप्तमनोरथौ ग्राम्यान् भोगान् अभुञ्जाथामित्यन्वयः
॥ ४१ ॥
अदृष्ट्वाऽन्यतमं लोके शीलौदार्यगुणैः समम् ।
अहं सुतो वामभवं पृश्निगर्भ इति स्मृतः ॥ ४२ ॥
पदरत्नावली
शीलं सुवृत्तम् । औदार्यं माहात्म्यम् ॥ ४२ ॥
सत्यधर्मीया
सदृशशब्दार्थं स्वयमेवाह ॥ अदृष्ट्वेति । शीलं सौन्दर्यमौदार्यं च गुणा इतर आनन्दादयस्तैः समम् । अन्यतमं स्वार्थेयं तमप् । अन्यम् । यथोक्तम् । पुरुतमं पुरूणां छान्दसस्तमप् स्वार्थ इति ऋग्भाष्यटीकाटिप्पणेषु । तथा श्रेष्ठतमाय कर्मणे । अन्यतमो मुकुन्दादित्यत्र टीकायां तम् अभिकाङ्क्षायामित्यस्य कर्मणि रूपम् । पुरुभिस्तम्यत इत्युक्तेः । अन्यस्तमोऽभिकाङ्क्षयश्च तमिति वा । अदृष्ट्वा । पृश्निगर्भ इति स्मृतोऽहं पृश्निसुतपसोः सुतोऽभवम् ॥ ४२ ॥
तयोर्वां पुनरेवाहमदित्यामास कश्यपात् ।
उपेन्द्र इति विख्यातो वामनत्वाच्च वामनः ॥ ४३ ॥
पदरत्नावली
तयोरेव वां युवयोः । पृश्निरेवादितिः सुतपाश्च कश्यप इति तयोरास आसमित्यन्वयः । वामनत्वात् सुन्दरत्वाद् ह्रस्वत्वाच्च ॥ ४३ ॥
दुर्घटभावदीपिका
अहं तयोः पृश्निसुतयोर्वां युवयोरेकः पुनरास । तयोरित्युक्तं विवृणोति ॥ अदित्यामिति ॥ अदित्याम् अदितिनामिकायां त्वयि कश्यपात्कश्यपनामकात्सुतपस आसेति । एतेन तयोर्वामिति द्विवचनान्तशब्दयोरदित्यां कश्यपादित्येकवचनान्तयोश्चानन्वय इति दूषणं प्रत्युक्तम् । देहान्तरावच्छिन्नयोः पृश्निसुतपसोः पुनरासेति वक्तुं तयोरित्यस्यादित्यामित्येतद्विवरणमित्यूरीकरणात्
॥ ४३ ॥
॥ इति श्रीभागवतटिप्पण्यां सत्याभिनवयतिकृतायां
दुर्घटभावदीपिकायां दशमस्कन्धपूर्वार्धे चतुर्थोऽध्यायः ॥ १०-४ ॥
सत्यधर्मीया
तयोरेव वां युवयोरुपेन्द्र इति विख्यातो वामनत्वात्सुन्दरत्वाद्ध्रस्वत्वाद्वा । स वामनः स भामनः शब्दादेव प्रमित इत्यादेर् आस आसम् । तौ कौ तदानीमित्यत आह ॥ अदित्यां कश्यपादिति ॥ पृश्निरेवादितिः सुतपाश्च कश्यप इति तयोरासमित्यन्वयः
॥ ४३ ॥
सुमनोरञ्जिनी
वामनत्वात् ह्रस्वरूपत्वात् । वामानि सुन्दरवस्तूनि नयतीति वा वामनः । अतिसुन्दरत्वादित्यर्थः । वामनसंज्ञकः कश्यपाद् अदित्यामासेति यत् तदपि तयोस् तद्रूपयोर् वाम् अहमेव पुनरासमिति सम्बन्धः ॥ ४३ ॥
विरोधोद्धारः
तयोरिति । अत्र तयोर्वामित्यनयोरन्वयानुपपत्तिः । न चादिति-कश्यपयोर्विशेषणत्वेन योजना । सप्तमीपञ्चमीभ्यां सामानाधिकरण्यानुपपत्तेः । नापि वां सकाशाद् अहं पुनरेवासमिति योजना । अदितिकश्यपपदयोरसङ्गतत्वप्रसङ्गात् । तयोरेवैताभ्यां विवरणमिति चेन्न । तच्छब्देन प्रश्निसुतपसोर्गृहणेनादित्यादेर्ग्रहणायोगात् । तयोरेव तद्द्रूपताङ्गीकारेऽहं कश्यपाददित्यामास युवामेवादितिकश्यपौ जाताविति भावः । सत्तार्थकासधातोः कर्तरि लिडुत्तमपुरुषैक-वचनरूपम् । ननु ब्रह्ममानसपुत्रमरीचिपुत्रत्वात्कश्यपस्य सृष्ट्याद्यभाग एव जन्मनः श्रुतत्वात्तत्काले सुतपसोः श्रुतत्वात्कथं सुतपसः कश्यपजन्म युज्यते इति चेन्न । पूर्वकल्पे यः सुतपा नाम प्रजापतिः स एवास्मिन्कल्पे कश्यपो जात इत्यङ्गीकारात् । न च पूर्वकल्पेऽपि एवंविधः कश्यप आसीदेवेति वाच्यम् । तत्पूर्वकल्पीयसुतपसोऽभ्युपगमात् । सृष्टेर्यथा पूर्वस्य श्रुतिसिद्धत्वात् । तस्मान्न क्षुद्रशङ्कावकाशः ॥ ४३ ॥
तृतीयेऽस्मिन् भवेऽहं वै तेनैव वपुषाऽनघे ।
जातो भूयस्तयोरेवं सत्यं मे व्याहृतं सति ॥ ४४ ॥
पदरत्नावली
तृतीये भवे जन्मनि ॥ ४४ ॥
सत्यधर्मीया
अस्मिंस्तृतीये भवे जन्मनि तेनैव तदा प्रसन्नेन वपुषा तयोः पृश्नितपसोरदि-तिकश्यपयोर्देवकीवसुदेवयोर्भूयः पुनर्जातः । एतेन त्रिवारं जन्मार्थनमित्यर्थाद्ध्वनितमिति वदन्ति । मे व्याहृतं भाषणं सत्यम् ॥ ४४ ॥
सुमनोरञ्जनी— अस्मिन् तृतीये भवे जन्मनि । भूयः पुनरपि तयोरेव युवयोः सकाशाद् अद्य अहं तेनैव वरदानसमये प्राक् दृष्टेनैव वपुषा जातः । निर्दृष्टे सति मे व्याहृतं वचनं सत्यमेवेति योजना ॥ ४४ ॥
एतद् वां दर्शितं रूपं प्राग्जन्मस्मरणाय मे ।
नान्यथा मद्भवज्ञानं मर्त्यलिङ्गेन जन्यते ॥ ४५ ॥
पदरत्नावली
मद्भवज्ञानं मज्जन्मविषयज्ञानम् । मर्त्यलिङ्गेन भुजद्वयादिचिह्नेन ॥ ४५ ॥
सत्यधर्मीया
एतच्चतुर्भुजत्वादियुतं रूपं वां युवयोः स्मरणाय अस्मद्रूपान्तरे दृष्टरूपाद्रूपान्तरे तादृशमिति स्मरणार्थं मे मया दर्शितम् । मर्त्यलिङ्गेन भुजद्वयादिचिह्नेन । अन्यथामद्भवज्ञानमिति पदमेकम् । मद्भवो मदुत्पत्तिः स चान्यथा लोकभवविलक्षण इत्यन्यथामद्भवस्तस्य ज्ञानं वा स इत्यस्माकं भवस्तस्मादन्यथेत्यन्यथामद्भवः स इति ज्ञानं वा । अन्यथा एवमप्रदर्शने मर्त्यलिङ्गेन मद्भवज्ञानं न जन्यत इति, वां सन्दर्शित इति योज्यम् ॥ ४५ ॥
सुमनोरञ्जिनी
एवं वृत्तमनूद्य अलौकिकरूपप्रदर्शने निमित्तमाह ॥ एतदित्यादिना । प्राक् प्रथमतः । कुतः । मे जन्मनः स्मरणाय विष्णुरेवावतीर्ण इति ज्ञानाय । अन्यथा एतद्रूपाप्रदर्शने । मद्भवज्ञानं मज्जन्मविषयकं ज्ञानम् । मर्त्यलिङ्गेन चतुर्भुजशङ्खचक्रादिरहितमनुष्यदेहसदृशदेहेनेत्यर्थः
॥ ४५ ॥
युवां मां पुत्रभावेन ब्रह्मभावेन चासकृत् ।
चिन्तयन्तौ कृतस्नेहौ यास्येथे मद्गतिं पराम् ॥ ४६ ॥
पदरत्नावली
यास्येथे गमिष्यथः ॥ ४६ ॥
सत्यधर्मीया
पुत्रभावेन पुत्रत्वेन ब्रह्मभावेन नारायणत्वेन च । असकृच्चिन्तयन्तौ कृतस्नेहौ कृतभक्ती परां मद्भक्तिं यास्येथे ॥ ४६ ॥
सुमनोरञ्जिनी
त्वमेवावतीर्ण इति ज्ञानेनापि किं सिद्ध्यतीति तत्राह ॥ युवामिति ॥ पुत्रभावेनेति स्नेहोपपादकम् । ब्रह्मभावेनेति माहात्म्योपपादकम् । कृतः स्नेहो माहात्म्यज्ञानपूर्वः भक्तिरिति यावद् याभ्यां तौ । तथा सन्तौ पुत्रभावेन ब्रह्मभावेन च चिन्तयन्तौ यास्येथे गमिष्यथः
॥ ४६ ॥
विरोधोद्धारः
युवामिति । अत्र पुत्रभावेन चिन्तयतो भगवद्रतिप्राप्तिरुक्ता । तन्न युज्यते । ममताज्ञानयोः सद्भावेन विरुद्धत्वादर्थान्तरम् । उपमायां विकल्पे वेत्यमरोक्त्या वाशब्दस्योप-मार्थकत्वात् । सर्ववस्तुतः पुत्रस्याधिकप्रेमास्पदत्वात्पुत्रभावेनेव ब्रह्मभावेनासकृन्मां चिन्तयन्तौ युवां परां मद्गतिं यास्येथे गमिष्यतः । चिन्तनमपि द्वेषभक्तिभ्यामसकृद्भवति । तत्र द्वेषाद् दैत्यानामिव मद्रतिप्राप्तिरिति सूचयितुं कृतस्नेहावित्युक्तम् । अतो न कश्चिद्विरोधः ॥ ४६ ॥
शुक उवाच–
इत्युक्त्वाऽऽसीद् हरिस्तूष्णीं भगवानात्ममायया ।
पित्रोः सम्पश्यतोः सद्यो बभूव प्राकृतः शिशुः ॥ ४७ ॥
पदरत्नावली
प्राकृतवन् न तु प्राकृतः ॥ ४७ ॥
सत्यधर्मीया
हरिरित्युक्त्वा देवकीवसुदेवौ प्रति तूष्णीमासीद्भगवान् । तथाऽसीनश्चात्ममायया स्वेच्छया पित्रोः । पिता मातेत्येकशेषः । मातापित्रोः सम्पश्यतोः सम्पश्यती च सम्पश्यंश्च । पुमांस्त्रियेत्येकशेषः । सद्यः प्राकृतः शिशुस्तद्वद्बभूव ॥ ४७ ॥
सुमनोरञ्जिनी
संपश्यतोः सतोः । आत्ममायया स्वेच्छया । प्राकृतः प्राकृतवन् न तु प्राकृतः सद्यः शिशुर्बभूवेति सम्बन्धः ॥ ४७ ॥
विरोधोद्धारः
पित्रोरिति । अत्र प्राकृत इत्युक्तस्य पुरुषः प्रकृतेः पर इत्यनेन विरोधोऽतोऽ-र्थान्तरम् । प्राच इव पूर्वबालमुकुन्दवत् कृतं शयनकर्म यस्य तादृशः शिशुर्बालो बभूवेत्यर्थः । अथवा । अत्रोपमालोपेन प्राकृतवदित्यर्थः । अतो न विरोधः ॥ ४७ ॥
ततश्च शौरिर्भगवत्प्रचोदितः सुतं समादाय स सूतिकागृहात् ।
यदा बहिर्गन्तुमियेष तर्ह्यजा या योगमायाऽजनि नन्दजायया ॥ ४८ ॥
पदरत्नावली
इयेष ऐच्छत् । तर्हि तदा । नन्दजायया नन्दजायामिति सप्तम्यर्थे तृतीया
॥ ४८ ॥
सत्यधर्मीया
ततः सुतशिशुभवनानन्तरम् । भगवत्प्रचोदितो, यदि कंसाद्बिभेषि त्वं तर्हि मां गोकुलं नय । मन्मायामानयाशु त्वं यशोदागर्भसम्भवामिति क्वचित् श्लोको दृश्यते । तथाऽपि न सार्वत्रिकः । अन्तः प्रेरितः स शौरिः सूतिकागृहात्प्रसवनिवासात्सुतं समादाय यदा बहिर्गन्तुमि-येषैच्छत्तर्हि तदा नन्दजायया निमित्तभूतयेति वा । तृतीया सप्तम्यर्थे । नन्दजायायां या योगमायाऽजा चित्प्रकृती रमाऽजनि जाता ॥ ४८ ॥
सुमनोरञ्जिनी
स शौरिर् भगवत्प्रचोदितः भगवता ‘मां गोकुलं नय । तत्रत्यां कन्यामानय’ इत्यादिरूपेण बोधितः सन् सुतं समादाय यदा गन्तुम् इयेष ऐच्छत् तर्हि तदा अजापि या योगमाया दुर्गा, नन्दजायया नन्दजायाया अजनि जाता । तयेत्युत्तरेणान्वयः ॥ ४८ ॥
तया हृतप्रत्ययसर्ववृत्तिषु द्वाःस्थेषु पौरेषु च यापितेष्वथ ।
द्वारस्तु सर्वाः पिहिता दुरत्यया बृहत्कपाटायसकीलशृङ्खलैः ॥ ४९ ॥
पदरत्नावली
तया योगमायया, हृता अपहृताः प्रत्ययानां ज्ञानहेतूनाम् इन्द्रियाणां सर्वा वृत्तयो येषु ते तथा तेषु, निद्रया मुग्धेष्वित्यर्थः । द्वाःस्थेषु द्वारपालेषु पौरेषु च निद्रां यापितेषु प्रापितेषु सत्सु । दुरत्यया अत्येतुमशक्याः । तुशब्दो मन्त्रौषधादिभिरत्येतुमशक्यत्वविशेषसूचकः । सर्वा द्वारः बृहत्कपाटायसकीलशृङ्खलैः पिहिताः । बृहद्भिः कपाटैरररैर् अयोमयैः कीलैरर्गलैः शृङ्खलैश्च
॥ ४९ ॥
सत्यधर्मीया
ननु स्वस्य खलशृृङ्खलाबन्धोऽन्धकारश्च बहिर्न हि न तद्धटकूटघटिततेति न हि । न च कीलाः किल द्वारः किं द्वारा सत्येवं वसुदेवो देवमन्यत्र नेतुमैच्छदित्यतः सर्वानु-पपत्तिविच्छित्तकं हेतुमाह ॥ तयेत्यादिना । तयाऽपहृताः प्रत्ययो ज्ञानं च सर्वा वृत्तयश्चेष्टा येषां ते सर्वेन्द्रियवृत्तयो वा येषां तयाऽऽहृतः प्रापितः प्रत्ययो विश्वासो येषु सर्वेन्द्रियेषु तेषां वृत्तिर्व्यापारो येषु तेष्विति वा । पश्यत्स्वप्यनिवारयत्स्विति तात्पर्यम् । द्वाःस्थेषु द्वारपालेषु पौरेषु च यापितेषु । एतद्गतिमिति वा निद्रामिति वा शेषः । पौरयापनमुपनयनसमयप्रश्नार्थम् । सर्वद्वारः पिहिताः । बृहत्त्वं कपाटादित्रिके ज्ञेयम् । बृहन्ति च तानि कपाटान्यरराणि बृहन्त्यायसान्ययोविकृतानि कीलानि । शङ्कौ ज्वाले तु कीलवदिति विश्वः । शङ्कुविशेषा बृहन्ति शृृङ्खलान्यन्दुकानि च तैर्दुरत्यया अत्येतुमशक्याः । तुस्तु मन्त्रौषधादिभिरत्येतुमशक्यत्वविशेषसूचकः ॥ ४९ ॥
ताः कृष्णवाहे वसुदेव आगते स्वयं व्यशीर्यन्त यथा तमो रवेः ।
ववर्ष पर्जन्य उपांशुगर्जितः शेषोऽन्वगाद् वारि निवारयन् फणैः ॥ ५० ॥
पदरत्नावली
कृष्णवाहे कृष्णं बिभ्राणे । ताः कपाटद्वारः व्यशीर्यन्त विवृताः । यथा तमः रवेरुदये । उपांशु रहसि । अन्वगात् पृष्ठत आयासीत् । फणाशब्द उभयलिङ्गः । फणा द्वयोरित्यमरः ॥ ५० ॥
सत्यधर्मीया
कृष्णं वहतीति । कृष्णं बिभ्राणे वसुदेवे आगते ताः पतिताः कपाटघटिताः स्वयं व्यशीर्यन्त शीर्णा विवृता इति यावत् । रवेः सकाशाद्रवेरुदये वा यथा तमस्तथा उपांशु मन्दं यथा गर्जितम् । भावे क्तः । गर्जनं यस्य स पर्जन्यो मेघो ववर्ष मन्दगर्जनान्मन्दं ववर्षेति ध्वन्यते । अन्यथा रसाभासेन देवकोपास्पदता स्यादिति ज्ञेयम् । इदमपि तस्य तदङ्गच्छ-विसदृशतायातसन्तोषेणेति ज्ञेयम् । शेषः फणैः फणा द्वयोरित्यमरात्स्वशिरोभिर्वारि मन्दं पतदुदकं निवारयन्भूस्पर्शतः प्रागस्पृश्यत्वात् । मदनन्तरमयमनन्तो जातो न सेवा ममैतर्हीदमपदेशेनेयती सा घटतामित्येवमाटीकत शेष इति ध्वनिः । अन्वगाद्वसुदेवमनुसृत्यागात् ॥ ५० ॥
सुमनोरञ्जिनी
जागृत्स्वपि द्वाःस्थेषु द्वारपेषु । तया दुर्गया । हृता अपहृताः, प्रत्येति अर्थान् एभिरिति प्रत्यया इन्द्रियास् तेषां सर्ववृत्तयो येषां तथाभूतेषु सत्सु । पौरेषु, निद्रामिति शेषः यापितेषु प्रापितेषु सत्सु तदानीं पिहिता या द्वारः बृहद्भिः कपाटैः, आयसैर् अयोमयैः कीलकैर् अर्गलैः शृृङ्खलैश्च । तुरप्यर्थे । दुरत्यया अपि । कृष्णं वहतीति कृष्णवाहस् तथाभूते वसुदेवे आगते सति । ता द्वारः व्यशीर्यन्त विवृताः । यथा रवेरुदये तमो व्यशीर्यते तथेति सार्धश्लोकद्वयस्यैक एवान्वयः । नन्दगोपमन्दिरं प्रति जिगमिषोर्वसुदेवस्य देवा अपि साहाय्यमाचरन्नित्याह ॥ ववर्षेति ॥ उपांशु मन्दं गर्जितं यस्यासौ तथाभूतः सन् पर्जन्यो ववर्ष । दृढगर्जने लोकाः प्रबुद्धा भवेयुरिति बुद्ध्येति भावः । वर्षणमपि तदानीं दैवात्प्रबुद्धानां बहिरागमनिवारणायैवेति ज्ञेयम् । तर्हि श्रीकृष्णोपरि वर्षणेऽपराध एव स्यादिति तत्राह ॥ शेषः फणैर् वारि वृष्ट्युदकं निवारयन् । वसुदेवमिति शेषः । अनु अनुसृत्य अगाद् ययौ ॥ ४९, ५० ॥
मघोनि वर्षत्यसकृद् यमानुजा गम्भीरतोयौघजवोर्मिफेनिला ।
भयानकावर्तशताकुला नदी मार्गं ददौ सिन्धुरिव श्रियः पतेः ॥ ५१ ॥
पदरत्नावली
मघोनि इन्द्रे । यमानुजा यमुना । गम्भीरतोयौघजवः गम्भीरजलप्रवाह-वेगस्तद्युक्ता ऊर्मयः, तैः फेनिला फेनवती । भयानका भयङ्करा आवर्ताः पयसां भ्रमास्तेषां शतै-राकुला । श्रियः पतेर् दाशरथिरामस्य ॥ ५१ ॥
सत्यधर्मीया
मघोनीन्द्रेऽसकृद्देववसुदेवोपरि मन्दं तदितरत्रासकृद्बहुलं वर्षति सति । गम्भीरतोयौघजवोर्मिफेनिला गम्भीरतोयौघस्य प्रवाहस्य वेगस्तज्जाता ऊर्मयस्तरङ्गास्तैः फेनिला फेनवती । अनेन मम यमसंयमनीपुर्यसुरैः पूरिता भवतीति सन्तोषेणेति ध्वन्यते । भयानका भयप्रापका आवर्ता अम्भोभ्रमास्तेषां शतैराकुला व्याप्ता नदी यमुना । श्रियः पतिस्तस्य । षष्ठ्या अलुकि समासे श्रियः पतेरिति सम्भवतीत्येके । पतिरित्याख्यातः पतिः । पदमेयं पदशब्दो भिन्न इत्यन्ये । सखिना वानरेन्द्रेण पतिते पतौ, सीतायाः पतये नम इत्यादिकं निदर्शयन्तोऽवदन् श्रियः पतेः रघुपतेः सिन्धुः समुद्र इव श्रियः पतेः कृष्णस्य मार्गं ददौ जानुदध्नजलाऽभवदिति भावः । रामस्येव कृष्णस्येति विशेषनामाभाषमाणः साधारण्येन श्रीपतेरितीरयंस्तयोर्न तिलतुलविशेष इति ध्वनयामासेति ज्ञेयम् ॥ ५१ ॥
सुमनोरञ्जिनी
मघोनि इन्द्रे वर्षति । यमानुजा नदी यमुना । कीदृशी । गम्भीरतोयौघजवा । गम्भीरो यस्तोयौघस् तस्य जवो यस्याः सा । अत एवोर्मिभिस्तरंगैः फेनिला फेनव्याप्ता । अत एव भयानका भयंकरा आवर्ता भ्रमास् तेषां शतैर् आकुला व्याप्ता । भयानकैर् आवर्तशतैराकुलेति वा । मार्गं ददौ । वसुदेवस्येति शेषः । श्रियः पतेर् दाशरथिरामस्य ॥ ५१ ॥
विरोधोद्धारः
‘‘मार्गं ददौ सिन्धुरिव श्रियःपतेः’’ अत्र श्रियःपतिशब्देन दाशरथेर्ग्रहणं न सम्भवति । श्रीशब्दस्य सीतावाचकत्वेऽनुशासनाभावात् । न च श्रीसीतयोश्चैतन्याभेदेन युक्तता । कीर्त्यादीनामपि तदभेदाद्वामनादीनामपि ग्रहणापातात् । नापि समुद्रेण मार्गदानं तत्रैव युज्यत इति । विप्रगुरुपुत्रानयनवेलायां कृष्णायापि समुद्रेण मार्गदानात् । तस्माद्रामार्थकत्वे श्रियः पतिशब्दस्य न निश्चय इत्यत उच्यते । त्रिभुवनजयलक्ष्मीर्मैथिली तस्य दारा इति नाटकेऽनुशासनसद्भावात् श्रीः सीतेति युज्यते । यद्वा पतेरित्यावृत्त्या योज्यम् । समुद्रस्य सरित्पतित्वेन यमुनापतित्वे सिद्धेऽपि । पतेः । स्वपतेः । अनुसारेणेति शेषः । श्रियः स्वकन्याया लक्ष्म्याः । पतेर् भगवतः । पारिबर्हरूपं स्वयमनुस्मृत्य मार्गं ददाविति समुद्रेण स्वकन्यायां दत्तायां तदनुस्मृत्येदानीं पारिबर्ह-रूपमार्गदानं यमुनया कृतमिति भावः । अथवा । कालिन्दीति समाख्याता वसामि यमुनाजल इति कालिन्द्युक्तेः । पूरेण सिन्धुरिव वर्तमानाऽपि यमुनास्वाश्रितत्त्वाच्छ्रीनाम्न्याः स्वानुजायाः कालिन्द्याः पतेर् भविष्यभर्तुर्लज्जयेति शेषः । मार्गं ददौ । स्त्रीजातिमत्याः स्वशालागमने स्वोद्धत्यप्रदर्शनं न न्यायमिति मत्वा लज्जया संकुचितत्वेन मार्गदानमर्थसिद्धमिति भावः । शालकत्वस्य भविष्यकत्वेनार्थवैलक्षण्यद्योतनायैव पतेरिति वैलक्षण्यप्रयोगः कृतः । अन्यथा पत्युरिति युक्तं स्यात् । सा सूर्यपुत्री यमुनानुजाता तपश्चरन्ती कृष्णपत्नीत्वकामेति हि तात्पर्यनिर्णये ॥ ५१ ॥
॥ इति श्रीमद्भागवतदशमस्कन्धपूर्वार्धव्याख्याने पाङ्घरी श्रीनिवासाचार्यकृत चतुर्थोऽध्यायः ॥
नन्दव्रजं शौरिरुपेत्य तत्र तान् गोपान् सुषुप्तानुपलभ्य निद्रया ।
शिशुं यशोदाशयने निधाय तत्सुतामुपादाय पुनर्गृहानगात् ॥ ५२ ॥
पदरत्नावली
नन्दव्रजं नन्दगोकुलम् । उपलभ्य दृष्ट्वा । निद्रया दुर्गया सुषुप्तान् । पुनगृहान् स्वगृहमगात् । ‘गृहाः पुंसि च भूम््नयेव’ इत्यमरः ॥ ५२ ॥
सत्यधर्मीया
नन्दव्रजं नन्दगोकुलमुपेत्य प्राप्य निद्रया श्रीहरिमायारूपिण्या तान्गोपा-न्प्रसुप्तान्प्रस्वापितानुपलभ्य दृष्ट्वा शिशुं स्वदारकं यशोदाशयने निधाय तत्सुतामुपादाय पुनर्गृहान् । गृहाः पुंसि च भूम््नयेेवेत्यमरः । स्वगृहमगात् । यथोक्तं हरिवंशे–
स यत्र गर्भवसतिं वसत्यात्मेच्छया हरिः ।
यशोदाऽपि समाधत्त गर्भं तदहरेव तु ।
विष्णोः शरीरजां निद्रां विष्णुनिर्देशकारिणीम् ।
यामेव रजनीं कृष्णो जज्ञे विष्णुकुले प्रभुः ।
तामेव रजनीं कन्यां यशोदाऽपि व्यजायत ।
अनुज्ञाप्य पितृत्वेन नन्दगोपगृहं नय ।
वसुदेवस्तु सङ्गृह्य दारकं क्षिप्रमेव तु ।
प्रगृह्य दारिकां चैव देवकीशयने न्यसेत् ।
यशोदाया गृहं रात्रौ विवेश सुतवत्सलः ।
यशोदया त्वविज्ञातस्तत्र निक्षिप्य दारकम् ।
परिवर्ते कृते ताभ्यां गर्भाभ्यां भयविह्वलः ।
वसुदेवः कृतार्थो वै निर्जगाम निवेशनात् ।
उग्रसेनसुतस्याथ कंसस्यानकदुन्दुभिः ।
निवेदयामास तदा तां कन्यां वरवर्णिनीमिति ॥ ५२ ॥
सुमनोरञ्जिनी
शौरिर् नन्दस्य व्रजम् उपेत्य । निद्रया तदभिमानिन्या दुर्गया । तान्व्रजे स्थितान् गोपान् प्रसुप्तान् उपलभ्य विज्ञाय । तत्सुतां तस्या यशोदायाः सुताम् उपादाय गृहीत्वा गृहान् गेहम् । बहुवचनं तु शब्दस्वभावः । गृहाः पुंसि च भूम््नयेवेत्यमरोक्तेः ॥ ५२ ॥
देवक्याः शयने न्यस्य वसुदेवोऽथ दारिकाम् ।
प्रतिमुच्य पदोर्लोहमास्ते पूर्ववदावृतः ॥ ५३ ॥
पदरत्नावली
दारिकां कन्यकाम् ॥ ५३ ॥
सत्यधर्मीया
अथ तत्र पुत्रं प्रस्थाप्य गमनानन्तरं दारिकामानीतां देवक्याः स्वभार्यायाः शयने न्यस्य निधाय पदोर्लोहं तन्मयशृङ्खलां प्रतिमुच्य स्थापयित्वा पूर्ववदावृतोऽप्रकाशितार्थो गुप्तो वाऽऽस्ते । स्मे क्रियाप्रबन्धे लट् ॥ ५३ ॥
सुमनोरञ्जिनी
अथ गृहं प्रत्यागमनानन्तरम् । वसुदेवः दारिकां कन्यकां देवक्याः शयने न्यस्य । पूर्ववत् पदोर् लोहं तन्मयं निगडं प्रतिमुच्य संस्थाप्य आवृतो ऽज्ञ इव स्थितः सन् आस्ते स्म ॥ ५३ ॥
यशोदा नन्दपत्नी च जातं परमबुध्यत ।
न तल्लिङ्गं परिश्रान्ता निद्रयाऽपगतस्मृतिः ॥ ५४ ॥
॥ इति श्रीमद्भागवते दशमस्कन्धपूर्वार्धे चतुर्थोऽध्यायः ॥
पदरत्नावली
परं केवलं जातमबुध्यत । तस्य जातस्य लिङ्गं स्त्रीपुरुषविवेकलक्षणं नाज्ञासीत् । तत्र निमित्तमाह परिश्रान्तेति ॥ दुर्गामायाशक्त्येति बोध्यम् । निद्रया तदभिमानिन्या दुर्गया अपगतस्मृतिस् तिरोहितस्त्रीपुरुषविवेकहेतुस्मृतिः ॥ ५४ ॥
॥ इति श्रीमन्महेन्द्रतीर्थपूज्यपादशिष्यविजयध्वजतीर्थभिक्षुकृतायां पदरत्नावल्यभिधायां श्रीमद्भागवतटीकायां दशमस्कन्धपूर्वार्धे चतुर्थोऽध्यायः ॥
सत्यधर्मीया
नन्दपत्नी यशोदा परं केवलं जातमबुध्यताज्ञासीत् । तल्लिङ्गं स्त्रीपुरुषभेदकं चिह्नं नावबुध्द्यत । तत्र तन्त्रं परिश्रान्तेति ॥ प्रसववेदनातो निद्रया भगवदङ्गजदुर्गयाऽपगतस्मृति-स्तद्विवेकहेतुस्मृतिरहिता ॥ ५४ ॥
॥ इति श्रीभागवतटिप्पण्यां सत्यधर्मयतिकृतायां
दशमस्कन्धपूर्वार्धे चतुर्थोऽध्यायः ॥ १०-४ ॥
सुमनोरञ्जिनी
ननु प्रसवसमये दृष्टस्त्र्यपत्यायाः प्रातः पुमपत्यं पश्यन्त्याः कथं संशयो नाभूदिति परीक्षिन्मनोगताशङ्कापरिहारप्रकारं दर्शयति ॥ यशोदेति । नन्दपत्नी यशोदा नामतः । सा तु परं केवलं जातमपत्यमबुध्यत । तस्य शिशोर्लिङ्गं स्त्रीपुरुषविवेचकं नाबुध्यत । तत्र हेतुः परिभ्रान्ता । प्रसववेदनयेति शेषः । निद्रया अपगता स्मृतिर्यस्याः सा । अतो न तल्लिङ्गं वेदेति
॥ ५४ ॥
**॥ इति श्रीमद्भागवतदशमस्कन्धपूर्वार्धव्याख्यायां (गूढकर्तृकायां) **
सुमनोरञ्जिन्यां चतुर्थोऽध्यायः ॥ १०-४ ॥