०३ तृतीयोऽध्यायः

प्रलम्बबकचाणूरतृणावर्तमहाशनैः

॥ अथ तृतीयोऽध्यायः ॥

श्रीशुक उवाच–

प्रलम्बबकचाणूरतृणावर्तमहाशनैः ।

मुष्टिकारिष्टद्विविदपूतनाकेशिधेनुकैः ॥ १ ॥

पदरत्नावली

अवताररूपं हरेर्न मूलरूपात् किञ्चिदपि भिन्नमपि तु साक्षात् स्वरूप-मेवेत्येतज्ज्ञानस्य मुक्तिहेतुत्वात् तन्निरूपणमस्मिन्नध्याये । तत्र दुष्टेन्द्रियैः सदिन्द्रियनिग्रह इव कंसः प्रलम्बादिभिः सहितो यदुनिग्रहमकृतेत्यादिकं निरूपयति प्रलम्बेत्यादिना ॥ १ ॥

सत्यधर्मीया

कृष्णस्य न रेतोविकृतत्वं साक्षाद्धर्यात्मकता चेति ब्रह्मादिस्तुत्या सिषाधयिषुर्विनाऽनुनयं न हननं युक्तमिति कंसकंसानुचरदौरात्म्यमादौ वदति ॥ प्रलम्बेति ॥ बकोऽयं वृकोदरकबलितादन्यः । महाशनोऽपि नाम्ना दानवः । आद्यासुर इत्येके परन्तु न समाधारमुपन्यस्तम् ॥ १ ॥

सुमनोरञ्जिनी

अत्र दैत्यानां स्वद्वेषफलतया तमः प्रदातुमवतितीर्षोः श्रीहरेरंशावताररूपस्य श्रीकृष्णस्य प्राच्यां काष्टायामिन्दोरिव शुक्लशोणितसंबन्धमन्तरैव स्वेच्छया देवकीगर्भवास उच्यतेऽस्मिन्नध्याये ॥ तत्र सगणस्य कंसस्य तमःप्राप्तौ चरमसाधनविष्णुवैष्णवद्वेषप्रकारं प्रदर्शयति ॥ प्रलम्बेति ॥ १ ॥

विरोधोद्धारः

॥ प्रलम्बेति ॥ अत्र महाशब्दोऽप्रसिद्धार्थोऽत उच्यते ॥ महान् स्वजातिश्रेष्ठोऽश्वत्थः । अश्वत्थः सर्ववृक्षाणामिति विभूक्तेः । स अशनं भक्षणं यस्य स कुवलयापीडः कुञ्जरः । कुञ्जरः पिप्पलाशन इत्युक्तेः । यद्वा । काम एष क्रोध एष रजोगुणसमुद्भवः । महाशनो महापाप्मा विद्ध्येनमिह वैरिणमिति गीतोक्तेः कामक्रोधाभिमानी कश्चन दैत्यः । प्रलम्बादय एव कामाद्यभिमानिनो वा । अथवा । महाशनः क्रोधरूपः कालयवनः । गर्गक्रोधेत्यादित्वात् । किंवा महो मीनोत्सवाचार्याः स्युरिति कोशान्तरात् । महस्य तिमिङ्गलस्य अशनं भक्ष्यरूपः हंसः डिभिकाग्रजः । तस्य तिमिङ्गिलग्रस्तत्वस्य हरिवंशोक्तेः । केचिदघासुरं ब्रुवन्ति । तदसमंजसम् । तदाख्यानस्य सर्वशिष्टासंमतेः संवादाभावाच्च । तदेतदग्रे प्रदर्शयिष्यते । उत वा । महस्य क्रीडोत्सवस्य आशा येषां ते महाशा गोपास्तान्नयति बिलमिति । महाशनो व्योमासुरः । मेषायितानपोवाहेत्याद्युक्तेः ॥ १ ॥

अन्यैश्चासुरभूपालैर्बाणभौमादिभिर्युतः ।

यदूनां कदनं चक्रे बली मागधसंश्रयः ॥ २ ॥

पदरत्नावली

बाणो बलिसुतः । भौमो नरकासुरः । कदनं कलहम् । मागधो जरासन्धः संश्रय आश्रय यस्य स तथा । स्वयं बली च ॥ २ ॥

सत्यधर्मीया

बाणो बलिसुतः । भौमो नरकः । यदूनां तैः कदनं कलहम् । मागधो जरासन्धः संश्रय आश्रय यस्य सः । स्वयं बली च ॥ २ ॥

सुमनोरञ्जिनी

अन्यैरित्यस्य विवरणं बाणेति ॥ भौमो नरकासुरः । मागधं संश्रयतीति तथोक्तः । अत एव बली । यदूनां यदुभिः । कदनं कलहम् ॥ २ ॥

ते पीडिता निविविशुः कुरुपाञ्चालकेकयान् ।

साल्वान् विदर्भान् निषधान् विदेहान् मागधानपि ॥ ३ ॥

पदरत्नावली

ते यादवा निविविशुर् निवेशनं चक्रुः ॥ ३ ॥

सत्यधर्मीया

ते यादवाः । न विविशुर्न विविशिरे । कुर्वादयो देशाः ॥ ३ ॥

सुमनोरञ्जिनी

ते यादवाः कंसेन पीडिताः सन्तः मधुरां त्यक्त्वा कुरुपांचालादिदेशान् निविविशुः प्रविविशुः ॥ ३ ॥

एके तमनुरुन्धाना ज्ञातयः पर्युपासते ।

मधुरायां स्थिताश्चैव येऽक्रूराद्या विशाम्पते ।

हतेषु षट्सु बालेषु देवक्या औग्रसेनिना ॥ ४ ॥

पदरत्नावली

अनुरुन्धाना अनुवर्तमानाः ॥ ४ ॥

सत्यधर्मीया

एके केचन । तं कंसमनुरुन्धाना अनुसरन्तः । षट्सु कीर्तिमदादिषु ॥४॥

सुमनोरञ्जिनी

एके अन्ये ज्ञातयस् तं कसम् अनुरुंधाना अनुवर्तमानाः सन्तस् तमेव पर्युपासते सेवन्ते स्म । ये अक्रूराद्यास् तेऽपि । चशब्दात्तमनुरुन्धाना इत्याकृष्यते । तादृशाः सन्तो मधुरायामेव स्थिता इति सम्बन्धः । विशाम्पत इति राज्ञः सम्बोधनम् । औग्रसेनिना उग्रसेनपुत्रेण । देवक्याः षट्सु बालेषु पुत्रेषु हतेषु सत्सु देवक्या सप्तमो गर्भो बभूवेति सम्बन्धः ॥ ४ ॥

सप्तमो वैष्णवं धाम यमनन्तं प्रचक्षते ।

गर्भो बभूव देवक्या हर्षशोकविवर्धनः ॥ ५ ॥

पदरत्नावली

वैष्णवं धाम सन्निहितविष्णुतेजस्कम् । अनन्तं शेषम् । हर्षशोकविवर्धनः सतां सुराणां च हर्षविवर्धनः, असुराणां शोकविवर्धनः ॥ ५ ॥

दुर्घटभावदीपिका

हर्षशोकविवर्धन इत्यस्य देवानां हर्षविवर्धनोऽसुराणां शोकविवर्धन इत्यर्थः ॥ एतेन हर्षशोकविवर्धन इत्येतद्विरुद्धमिति दूषणं परास्तम् ॥ ५ ॥

सत्यधर्मीया

शरीरान्तरं विनैकलस्य बलस्य योनिद्वयसम्बन्धः कथमिति परीक्षित्प्रश्नमुत्तरयितुं तदुपोद्धातमाह ॥ सप्तम इत्यादिना । वैष्णवं धामाविष्टभगवत्तेजस्कम् । यथोक्तं प्रथमतात्पर्ये । आवेशो बलभद्रे ।

शङ्खचक्रभृदीशेशः श्वेतवर्णो महाभुजः ।

आविष्टः श्वेतकेशात्मा शेषांशं रोहिणीसुतम् ॥ इति महावाराह इति ।

यमनन्तं शेषं प्रचक्षते सप्तमो गर्भः । तद्गतो बभूव । हर्षशोकविवर्धनो हर्षोऽङ्कुरित इति शोकस्तु स्रुत इति तौ वर्धयतीति स तथा ॥ ५ ॥

सुमनोरञ्जिनी

वैष्णवं धाम यत्र सन्निहितमिति शेषः । यं गर्भम् अनन्तं शेषं प्रचक्षते प्रवदन्ति । गर्भं विशिनष्टि ॥ हर्षेति ॥ मातापित्रोः स्वोत्पत्या हर्षं, कंसभिया शोकं च विवर्धयतीति तथोक्तः ॥ ५ ॥

विरोधोद्धारः

सप्तम इति ॥ अत्र देवकीसप्तमगर्भरूपरामस्य विष्णुशेषांशत्वं दृश्यते । न ह्येकस्य भिन्नयोर्द्वयोरंशत्वं युज्यतेऽतो विरोध इत्यत उच्यते ॥ वैष्णवम् ॥ विष्णोरिदम् । धाम शय्यासनभूतम् । शेषश्च शय्यासन इत्युक्तेः । यम् अनन्तं प्रचक्षते बुधाः स शेषो देवक्याः सप्तमो गर्भो बभूवेत्यर्थः । यद्वा । विष्णोः शुक्लकेशरूपावेशस्थानम् । गयश्च लक्ष्मणाद्याश्च त्रयो रोहिणिनन्दनाः । नरः फल्गुन इत्याद्या विशेषावेशिनो हरेरिति वचनात् । असाधारण्येन व्यपदेशा भवन्तीति न्यायोपेतत्वाच्च ॥ ५ ॥

भगवानपि विश्वात्मा विदित्वा कंसजं भयम् ।

यदूनां निजनाथानां योगमायां समादिशत् ॥ ६ ॥

पदरत्नावली

निजः स्वयमेव नाथो येषां ते तथा तेषाम् । योगमायां दुर्गाम् ॥ ६ ॥

सत्यधर्मीया

निजः स्वयमेव नाथो येषां ते तथा तेषां, निजस्य नाथो प्रार्थना येषां तेषामिति वा । योगमायां दुर्गां समादिशदाज्ञापयामास । यदूनामिति द्वितीयान्तं च सद् योगमाया-मित्यनेनाप्यन्वेति । येनावतारेणोना हीना तामित्यर्थः । अधुनाऽनवतारेति तां प्रत्याज्ञोचिता तदर्थमिति तात्पर्यम् ॥ ६ ॥

सुमनोरञ्जिनी

विश्वात्मा सर्वान्तर्यामी भगवानपि, निजः स्वयमेव नाथो येषां तेषां यदूनाम् । भयं विदित्वा ज्ञात्वेत्यन्वयः । योगमायां दुर्गाम् ॥ ६ ॥

गच्छ देवि व्रजं भद्रे गोपगोभिरलङ्कृतम् ।

रोहिणी वसुदेवस्य भार्याऽऽस्ते नन्दगोकुले ॥ ७ ॥

सत्यधर्मीया

तदाज्ञाप्रकारं प्रज्ञापयति ॥ गच्छेति ॥ वसुदेवस्य रोहिणी नाम्ना भार्या नन्दकुले आस्ते । साङ्कुरिते गर्भे बहिर्यापिता तत्रास्ते । तस्याः प्राक्तनं गर्भं बहिष्कृत्यैतन्निवेशयेत्यस्य भावोऽवसेयः ।

सम्पूर्णलक्षणचणं नवराजमान-

द्वारान्तरं परमसुन्दरमन्दिरं तत् ।

राजेव सत्पुरवरं भुवनाधिराजो

निष्कासयन्परमसौ भगवान्विवेश ॥

इतिवद्

विनिश्चयार्थं देवकीगर्भजानामन्या भार्या धृतगर्भाः स कंसः ।

स्थानान्तरे प्रसवो यावदासां संस्थापयामास सुपापबुद्धिः ।

हेतोस्तस्माद्रोहिणी नन्दगेहे प्रसूत्यर्थं स्थापिता तेन देवी ॥

इत्याचार्योक्तेः ॥ ७ ॥

सुमनोरञ्जिनी

व्रजं गोकुलम् । वसुदेवस्य भार्या रोहिणी आस्त इत्यन्वयः ॥ ७ ॥

अन्याश्च कंससंविग्ना विवरेषु वसन्ति हि ।

देवक्या जठरे गर्भं शेषाख्यं धाम मामकम् ॥ ८ ॥

पदरत्नावली

पर्वतविवरेषु ॥ ८ ॥

सत्यधर्मीया

एकत्र भर्तैकत्र कलत्रं कुत इत्यत आह ॥ अन्याश्चेति ॥ कंससंविग्नाः ‘खलः शृङ्खलाबन्धं तनुयादि’ति भीताः । विवरेष्वज्ञातप्रदेशेषु । मामकं मत्सम्बन्धि ॥ ८ ॥

सुमनोरञ्जिनी

अन्या भार्या विवरेषु पर्वतगुहासु परैरज्ञातस्थलेष्विति वा । वसन्ति । अन्यत्र वासे निमित्तमाह ॥ कंससंविग्ना इति ॥ देवक्या जठरे विद्यमानं गर्भं मामकं मदीयं धाम गृहं मदंशाविष्टमिति यावत् ॥ ८ ॥

तत् सन्निकृष्य रोहिण्या उदरे सन्निवेशय ।

अथाहं स्वांशभागेन देवक्याः पुत्रतां शुभे ॥ ९ ॥

पदरत्नावली

स्वांशभागेन स्वांशांशेन । स्वरूपभूतांशस्य भागो भजनं स्वीकारस् तेनेति वा । शुभे दुर्गे ॥ ९ ॥

सत्यधर्मीया

तद्धाम सन्निकृष्य रोहिण्या उदरे सन्निवेशय । अथानन्तरमहं स्वांशांशभागेन साक्षात्स्वांशकृष्णकेशत्वेन विभजनेन । अने अकयेत्वोदरो विष्णुस्तेनैव स्वांशं स्वरूपभूतमंशं भजतीति स तथा सन् स्वांशभागो हि स्वांशकला तेनेति वा । एते स्वांशकला इत्येतस्य किञ्चिच्छब्दतः किञ्चिदर्थतोऽनुवादोऽयमिति वा । एते प्रोक्तावतारा मूलरूपी कृष्णः स्वयमेवेति विवरणात्प्रथमे । स्वस्यांशस्य योग्यो भागो देवकीभागोऽयं तेन । पुत्रतामिति वाऽन्वयः । भागो भागधेयैकदेशयोरिति विश्वः । शुभे दुर्गे ॥ ९ ॥

सुमनोरञ्जिनी

तत् तस्माद् देवक्या जठरात् तन् मामकं धाम तेजः सन्निकृष्य रोहिण्या उदरे सन्निवेशयेति योजना । स्वांशभागेन स्वस्य मूलरूपिणो मम अंशः शिर आख्य अवयवस् तस्य यो भागः कृष्णकेशलक्षणस् तेनेत्यर्थः । देवक्याः पुत्रतां प्राप्स्यामि । कदेत्याशङ्कायामाह ॥ अथेति ॥ सप्तमगर्भस्य रोहिण्युदरे सन्निवेशानन्तरमित्यर्थः ॥ ९ ॥

विरोधोद्धारः

अथेति ॥ हे ॥ शुभे योगमाये । अथवा । जगत्कल्याणविषये । अथवा उत्तमकुले मुहूर्ते वा । स्वांशभागेन । स्वांशस्य भागो भजनं स्वीकार इति यावत् । तेन । अनेन बलरामस्य भिन्नांशत्वं सूचितम् । अत्रैव स्वशब्दप्रयोगात् । यद्वा । स्वः स्वरूपभूतो योंऽशस् तस्य भां द्युतिं गच्छति प्राप्नोतीति तेन रूपेण । अनेन कृष्णस्य पूर्णरूपत्वाभावशङ्का निरस्तेति बोध्यम् ॥ ९ ॥

प्राप्स्यामि त्वं यशोदायां नन्दपत्न्यां भविष्यसि ।

अर्चिष्यन्ति मनुष्यास्त्वां सर्वकामवरेश्वरीम् ॥ १० ॥

सत्यधर्मीया

सर्वकामवराणामपेक्षणीयोत्तमानामीश्वरीं स्वामिनीम् ॥ १० ॥

सुमनोरञ्जिनी

त्वं नन्दपत्न्यां यशोदायां भविष्यसीति योजना । कामवराः, काम्यन्त इति कामाः काम्या इत्यर्थः । ते च ते वराश्च तेषामीश्वरीं दातुं समर्थाम् ॥ १० ॥

नानोपहारबलिभिः सर्वकामवरप्रदाम् ।

नामधेयानि कुर्वन्ति स्थानानि च नरा भुवि ॥ ११ ॥

सत्यधर्मीया

नानोपहारबलिभिरुपग्राह्यमुपहारः । करो बलिरित्युभयतश्चामरः । उपहारः पुष्पस्तबकादिः । बलति प्राणिति भक्तेन येन स बलिरित्यर्थः । सर्वकामवरप्रदां त्वामर्चिष्यन्ती-त्यन्वयः । स्थानान्यालयान् नामानि च कुर्वन्ति । तत्तत्क्रियानुगुण्येन युक्तानि जानन्त इत्यर्थः

॥ ११ ॥

सुमनोरञ्जिनी

न केवलं सामर्थ्यमात्रमपि तु सर्वकामवरप्रदां च त्वां नानाविधैर् उपहारैर् भक्ष्यविशेषैर् बलिभिर् उपायनैश्च अर्चिष्यन्तीत्यन्वयः । स्थानानि देवालयान् कुर्वन्ति ॥ ११ ॥

विरोधोद्धारः

नामधेयानीति ॥ अत्र भविष्यत्क्रियापेक्षितत्वे कुर्वन्तीति लटा विरोधोऽत उच्यते । नामस्थानानां निश्चयेन भावित्वाद्वर्तमानव्यपदेशः । यद्वा । नरानराणां सप्तसु प्रथमेति सूत्रेण षष्ठ्यर्थकत्वात् ॥ भुवि । आश्रयोपलक्षितोपासनाविषये ॥ नामधेयानि दुर्गेत्यादीनि । स्थानानि विंध्यादीनि । कुर्वन्ति कुर्वाणे इति योगमायासम्बोधनं न तु लट्रूपक्रियाऽतो न विरोधः

॥ ११ ॥

दुर्गेति भद्रकालीति विजया वैष्णवीति च ।

कुमुदा चण्डिका कृष्णा माधवी कन्यकेति च ॥ १२ ॥

माया नारायणीशाना शारदेत्यम्बिकेति च ॥ १३ ॥

पदरत्नावली

दुर्जनैर्दुरथिगमत्वाद् दुर्गा । तदुक्तम् ‘‘दुर्ज्ञेयत्वाद् दुःखदत्वाद् दुष्प्राप्यत्वाच्च दुर्जनैः । सतामभयदत्वाच्च दुर्गा त्वं हृद्गुहाश्रयात् ॥’’ इति । भद्रा मङ्गला नीला चेति भद्रकाली । सर्वा दिशो विजयत इति विजया । विष्णोरियं वैष्णवी । कौ भूमौ मोदत इति कुमुदा । ‘चडि कोपे’ इति धातोः शत्रवे कुपितत्वाच्चण्डिका । सदानन्दत्वात्, साधूनां सुखप्रदत्वाच्च कृष्णा । मधुकुलोत्पन्नत्वान्माधवी, माधवदयितत्वाद् वा । कं सुखं नयतीति कन्या, नित्यकुमारी वा ॥ मीयते ज्ञायते इति माया, मां यातीति वा । नारस्य नरसमुदायस्य अयनत्वान्नारायणी । ईशाना सर्वेशनशीला । शीर्यत इति शारः संसारस् तं द्यति खण्डयतीति शारदा । शत्रुविषयं शारं हिंसां ददातीति वा । विश्वस्य मातृत्वाद् अम्बिका ॥ १२,१३ ॥

सत्यधर्मीया

दुर्गेति ॥

दुर्ज्ञेयत्वाद्दुःखदत्वाद्दुष्प्राप्यत्वाच्च दुर्जनैः ।

सतामभयदत्वाच्च दुर्गा त्वं हृद्गुहाश्रयात् ॥

इति दुर्गा । दुःखेन गम्या, गम्लृ गतौ, गत्यर्थानां ज्ञानार्थत्वाद्दुर्ज्ञेयेति दुर्गा । दुर्दुःखमिति सम्प्रोक्तमित्युक्तेर्दुरित्यावृत्तं दुर्जनवाचि । तथा च दुर्जनान्प्रति दुःखं गमयतीति सा तथेति । दुर्गा दुर्जनैर्दुष्प्राप्यत्वादिति स्फुटम् । वैकुण्ठादिरूपतया सतामभयरूपत्वाद्दुर्गा । दुर्गमस्या अस्तीति दुर्गा । अर्श आद्यचि हृद्गुहामततीत्यर्थः । भद्रकाली मङ्गलरूपिणी श्यामवर्णा चेति । विजयत इति विजया विशिष्टो विविधो जयो यस्याः सेति वा । विष्णोरियं वैष्णवी । कौ भूमौ मुदा हलन्तत्वादाबन्तः प्राचीनरीत्या । यया सा । चण्डिका कोपना । कृष्णा नाम्ना । माधवी प्रस्तुतमधुकुलजेति । कन्यका दीप्तिमत्त्वात् क्षिपकादित्वान्नेत्वम् । मायाः सम्पदः प्रतिपदो वा यो लाभो यस्या । नारायणी मद्भार्येति । ईशाना सर्वेशनशीला । शारदा शारं हिंसां ददाति लय इति शारदा । उपसर्गाणां द्योतकतापक्षे शारदा विशारदा कुशलेत्यर्थो वा । अम्बिका जगज्जननीति ॥ १२,१३ ॥

सुमनोरञ्जिनी

दुर्गेत्यादिद्वादशनामार्थः पदरत्नावलीरीत्या बोध्यः ॥ १२,१३ ॥

गर्भसङ्कर्षणात् तं वै प्राहुः सङ्कर्षणं भुवि ।

रामेति लोकरमणाद् बलभद्रं बलोच्छ्रयात् ॥ १४ ॥

पदरत्नावली

बलोच्छ्रयाद् बलोन्नतेः ॥ १४ ॥

सत्यधर्मीया

रामनामाऽप्यनन्तनामा भगवान्भगिनीं सोपपत्तिकमाह ॥ गर्भेति ॥ गर्भा-त्सङ्कर्षणात्ततस्त्वत्कर्तृकं तं भविष्यन्तं सङ्कर्षणं प्राहुः । लोकरमणाद् रमयतीति राम इति । बलोच्छ्रयाद्बलेन सहित उच्छ्रय उन्नाहस्तस्माद्बलभद्रमाहुरित्यन्वयः । बलवत्त्वाद्बल इति श्रैष्ठ्याद्भद्र इतीति बलपदस्य पृथक् तद्वाचकत्वे विवेको ज्ञेयः । भद्रो वाच्यवच्छ्रेष्ठसाधुनोरिति विश्वाद्भद्रतद्वि-वरणशब्दयोरानुरूप्यं ज्ञेयम् । अन्यथा भद्रपदमनर्थं स्यादिति । शब्दश्रेष्ठवाचीति श्रेष्ठोच्छ्रययोर-नतिभिन्नार्थत्वाद्बलेन भद्रशब्देन सन्तोष्टव्यम् । बलवदुच्छ्रयादिति पाठस्तु समस्ततत्पदनिरुक्ति-प्रकारज्ञानदारिद्य्रमूलकः कल्पित इति ज्ञेयम् । अनेककोशेष्वदर्शनात् ॥ १४ ॥

सुमनोरञ्जिनी

गर्भात् सं सम्यक् कर्षणान्निमित्तात् संकर्षणं प्राहुः । अनेन सं सम्यक् कर्षणं यस्येति विग्रहः सूचितो भवति । बलोच्छ्रयाद् बलोन्नतेः ॥ १४ ॥

श्रीशुक उवाच–

सन्दिष्टैवं भगवता तथेत्योमिति तद्वचः ।

प्रतिगृह्य परिक्रम्य गां गता तत् तथाऽकरोत् ॥ १५ ॥

पदरत्नावली

ओमिति ब्रह्मन्निति सम्बोध्य तथेति तद्वचः प्रतिगृह्य तं भगवन्तं परिक्रम्य गां भुवं गता सती तद् भगवद्वचस् तथा यथा आदिष्टं तथैवाकारोत् ॥ १५ ॥

सत्यधर्मीया

भगवतैवं सन्दिष्टा माया ओमिति हे ब्रह्मन्निति सम्बोध्य ओमिति ब्रह्मेति वाक्यमन्वकृत ग्रन्थकार इति मन्तव्यम् । तथैवेति वचः प्रतिगृह्य तं भगवन्तं परिक्रम्य गां भूमिं गता सती गां गता कृतनमना च । अत एव न नमनानुक्तिः । तत्तथाऽकिञ्चिव्द्यत्यासम् । अकरोत् । व्याख्यानव्याख्येयभावस्त्वगतिका गतिरिति सुधाभिधानादगतिका गतिः ॥ १५ ॥

सुमनोरञ्जिनी

भगवता । एवं पूर्वोक्तरीत्त्या । संदिष्टा दुर्गा भवता यथोक्तं, तथेति तथैवास्त्विति । ओमिति अङ्गीकरोमीति । तद्वचः भगवद्वचनं प्रतिगृह्य । परिक्रम्य श्रीहरिं प्रदक्षणीकृत्य गां भूमिं गता सती तत् हरिणोक्तं यथोक्तं तथैवाकरोत् ॥ देवकीगर्भात् तेज आकृष्य रोहिण्यामावेशयदिति भावः ॥ १५ ॥

गर्भे प्रणीते देवक्या रोहिणीं योगनिद्रया ।

अहो विस्रंसितो गर्भ इति पौरा विचुक्रुशुः ॥ १६ ॥

पदरत्नावली

योगनिद्रया देवक्या गर्भे रोहिणी प्रणीते सति विस्रंसितः निर्गलित इति विचुक्रुशुः ॥ १६ ॥

सत्यधर्मीया

योगनिद्रयेत्यनेन गर्भगार्भसङ्कर्षणकाले न देवक्या अङ्गस्मरणं स्यात्तथा निद्रां दत्वा तत्कर्षणसमर्थतां दर्शयति । देवक्या गर्भे रोहिणीं प्रति प्रणीते नीते सति पौरा ग्रामीणा गर्भो विस्रंसितः स्रुतः । अहो आश्चर्यमिति विचुक्रुशुः ॥ १६ ॥

सुमनोरञ्जिनी

योगनिद्रया दुर्गया । रोहिणीं प्रति । देवक्या गर्भे प्रणीते सति पौरा गर्भो विस्रंसितः गर्भस्रावोऽभूत् । अहो इति विचुक्रुशुर्व्यवहृतवन्त इति योजना ॥ १६ ॥

भगवानपि विश्वात्मा भक्तानामभयङ्करः ।

आविवेशांशभागेन मन आनकदुन्दुभेः ॥ १७ ॥

तात्पर्यम्

‘आविश्य पितरं विष्णुः स्वरूपेणैव मातरम् । विडम्बनार्थं लोकस्य निर्जनिश्चाप्यथाविशत् । आनन्दमात्रदेहेन जातवत्सम्प्रदृश्यत’ इति च ॥ १७ ॥

सत्यधर्मीया

भगवानपि विश्वात्मा, स बिभ्रत्पौरुषं धाम, ततो जगन्मङ्गलमच्युतांशमिति श्लोकत्रिके कर्मवशाज्जनिमतो जनस्य, ‘रेतःसिचमेवानुप्रविशत्यथ मातरम्’ ‘रेतःसिग्योगोऽथे’ति श्रुतिसूत्रादिभिर्यदा प्रथमतो जनकतनुप्रवेशोऽनन्तरं मातृगात्रप्रवेशः प्रमापितस्तथा वसुदेवप्रवेश ईशस्योच्यतेऽत्रेति भ्रमभ्रंशं प्रमाणेनैव कुर्वंस्तत्तात्पर्यार्थमाह ॥ आविश्येति ॥ पितरमित्ये-वोक्त्वाऽनुक्त्वा च वसुदेवमिति, यत्र यत्र जगत्त्रातोत्पद्यते तत्र तत्र गतिरियमित्यवगमया-मासेत्यवसेयम् । स्वरूपेणारेतोविकृतेन पितरं यं कञ्चन तातत्वेन व्यवह्रियमाणमाविश्याथानन्तरं मातरं च लोकस्य विडम्बनार्थमनुकरणार्थं निर्जनिर्लोकजनिरहितस्सन्नप्याविशत् । स्वरूपेणेत्येवोक्तम् । तत्किंरूपमित्यतो निरूपयति ॥ आनन्दमात्रदेहेनेति ॥ जातेन तुल्यं वर्तत इति जातवत्सम्प्रदृश्यत इति च वामन इति शेषः । नन्वाविश्य, मातरमाविशदित्युक्तावेव तदावेशस्य प्राक्कालिकता मातृगात्रप्रवेशस्य तदनन्तरिकता स्वतोऽल्पबलादेव भवति । विदितेत्यथेति वृथा मानम् इति चेन्न । तस्य क्वचित्कैश्चिन्मुखं व्यादाय स्वपितीत्यादावुत्तरकालप्रत्यायकताऽप्यस्तीत्यङ्गीकृते निर्णायकत्वा-दथेति सार्थक्योपपत्तेः । पक्षान्तरे तु निर्जनिः कुत एवं तनोतीति प्रश्नार्थं क इत्यथशब्दः सार्थकः । तत्रोत्तरमाह ॥ विडम्बनार्थमिति ॥ ततश्चायं श्लोकार्थः ॥ विश्वात्मा जगदादानादिकर्ता जगद्व्यापी वा । भक्तानामभयङ्करः । मेघर्तिभयेषु कृञः । भयशब्देन तदन्तविधिरित्युक्तेरभयशब्दोपपदात्कृञः खश् । आनकदुन्दुभेर्वसुदेवस्य मनोंऽशांशभागेन गतम् । आविवेश ॥ १७ ॥

सुमनोरञ्जिनी—भगवानपि । आनकदुन्दुभेर् वसुदेवस्य । मनश् चित्तम् मनःप्रधानकं शरीरं वा । अंशभागेन अंशस्य शिर आख्यावयवस्य भागेन कृष्णकेशलक्षणेन । आविवेशेति सम्बन्धः

॥ १७ ॥

विरोधोद्धारः

आविवेशेति ॥ अत्रांशभागेनेत्यनेन पूर्णत्वस्य विरोधोऽतोऽर्थान्तरम् ॥ अंशभागेन । अंशः किञ्चित्वं तस्य भां प्रकाशनं न गच्छति न प्राप्नोतीति तेन रूपेण पूर्णरूपेणेत्यर्थः । अतो न विरोधः ॥ १७ ॥

स बिभ्रत् पौरुषं धाम राजमानो यथा रविः ।

दुरासदोऽतिदुर्धर्षो भूतानां सम्बभूव ह ॥ १८ ॥

पदरत्नावली

स वसुदेवः । पौरुषं परमपुरुषसम्बन्धि । धाम अंशं तेजः ॥ १८ ॥

सत्यधर्मीया

स वसुदेवः पौरुषं परमपुरुषसम्बन्धि धामांशं तेजो बिभ्रद् यथा दुरासदो रविस्तथा राजमानो भूतानामतिदुर्धर्षः सम्बभूव ॥ १८ ॥

सुमनोरञ्जिनी

स वसुदेवः पौरुषं परमपुरुषसंबन्धि धाम तेजः । तेजःस्वरूपं च गृहं प्राज्ञैर्धामेति कथ्यत इति वचनात् । पुरुषाकारमिति वा । अनेन पुरुषाकारेण पितृशरीरप्रवेशोक्त्या शुक्लशोणितविकारदेहिता निरस्ता भवति । बिभ्रत्सन् । भ्राजमानो रविर्यथा तथा भूतानां दुरासद आसादयितुमशक्यो ऽत एव दुर्धर्षः पराभवयितुमशक्यो बभूवेति ॥ १८ ॥

ततो जगन्मङ्गलमच्युतांशं समाहितं शूरसुतेन देवी ।

दधार सर्वात्मकमात्मभूतं काष्टा यथाऽऽनन्दकरं नभस्तः ॥ १९ ॥

पदरत्नावली

ततो वसुदेवप्रवेशानन्तरं देवी द्योतमाना देवकी शूरसुतेन वसुदेवेन समाहितम् अच्युतस्य हरेरंशं कृष्णकेशलक्षणं दधार । जगन् मङ्गलयतीति तम् । सर्वात्मनः सर्वव्यापिनो हरेर् या सर्वव्यापित्वशक्तिः साऽस्यास्तीति सर्वात्मकस् तम्, सर्वे च ते आत्मानश्च, तेषां कं सुखं यस्मात् तम् इति वा । आत्मभूतं सर्वान्तर्यामिणं, देवक्या अपि प्रत्यगात्मस्वरूपम्, वसुदेवदेवकीकृततपआदियत्नेन आत्मनो मनसो भूतमभिव्यक्तं वा । आत्मभुवश्चतुर्मुखस्य भूतमिष्टसाधकत्वाद् इष्टं दैवं वा । आनन्दकरं मुक्तप्रपञ्चस्यापि सुखकरम् । कथमिव? काष्ठा पूर्वा दिक् आनन्दकरकिरणं चन्द्रं नभस्त आकाशे यथा दधाति तथा हृदयाकाशे दधार । न तु योन्याकाशे । कीदृशी ? काष्ठा पूर्णमनोरथा । देवी द्योतमाना । रात्र्यामन्धकारनिरासेन जगन्मङ्गल-भूतम् । अच्युता च्युतिरहिता अंशाः करा यस्य स तथा तं पूर्णकलमित्यर्थः । शूरश्चण्डकरः सूर्यस् तत्सुतः सुषुम्नाख्यो रश्मिस्तेन समाहितं निष्पादितम् । अमावास्यायां सूर्ये लीनस् तस्य सुषुम्नाख्यरश्मिना अभिव्यज्यत इति शास्त्रप्रसिद्धिः । सर्वासामोषधीनामङ्कुरजनकत्वेन प्रेष्ठत्वात् सर्वात्मकम् । आत्मनो मनसोऽभिमानित्वाद् आत्मभूतम् । लोकविडम्बनार्थं पितृमातृप्रवेशक्रमः, न तु शरीरस्वीकारार्थम् । तदुक्तम् ‘आविश्य पितरं विष्णुः स्वरूपेणैव मातरम् । विडम्बनार्थं लोकस्य निर्जनिश्चाप्यथाविशत् । आनन्दमात्रदेहेन जातवत् सम्प्रदृश्यते’ इति ॥ १९ ॥

सत्यधर्मीया

ततस्तत्प्रवेशान्तरं जगन्मङ्गलं भूर्भूभारावरोहणेन येन तमच्युतस्यांशं नीलबालात्मकं सोऽपि च्युतिरहितोऽच्युतश्चासावंशश्च तमिति वा । सर्वात्मकं सर्वे च ते आत्मानश्च तेषां कं सुखं यस्मात्तमात्मभूतम् । आत्मना वसुदेवदेवकीकृततप आदियत्नेन देवताप्रार्थनरूपेण वा भूतमाविर्भूतम् । आत्मना स्वेनैव स्वेच्छयेति यावत् । आत्मनैव भुवा ऊतस्सम्बद्धस्तं वा । शूरसुतेन समाहितं तमिव विद्यमानं देवी द्योतमाना दधार । तत्र दृष्टान्तमाचष्टे । काष्टा प्राची । आनन्दकरमिति चन्द्रपदं ग्राह्यम् । लक्षणया चन्द्रमित्यर्थः । चदि आह्लादन इति स्मरणात् । नभस्त आकाशाद्यथा धरति तथा ॥ १९ ॥

सुमनोरञ्जिनी

ततः वसुदेवप्रवेशानन्तरम् । देवी देवकी । शूरसुतेन वसुदेवेन समाहितं सम्यक् स्थापितम् । अच्युतस्य च्युतिरहितस्य हरेरंशम् । दधारेति क्रियाकारकसम्बन्धः । अच्युतांशं विशिनष्टि ॥ जगदिति ॥ जगन्मङ्गलम् । जगतः योग्यजनस्य मङ्गलप्रदम् । सर्वात्मकं सर्वम् आत्मकमिव शरीरं यस्यासौ तथोक्तम् । शरीररूपकेतिवत् कः प्रत्ययः कुत्सने । सर्वस्वामिनमिति वा । आत्मभूतं बिम्बभूतम् । सर्वस्येति शेषः । कमिव । काष्टा प्राची दिक् । नभस्तः नभसो मार्गात् । आनन्दयन्तीत्यानन्दाः करा यस्येत्यानन्दकरश् चन्द्रः । लोकानामानन्दं करोतीति वा । स्वोदयेनेति शेषः । तमिति । यथा शुक्लादिसम्बन्धं विनैव चन्द्रः नभोमार्गात् काष्टां प्रविशति तथैव श्रीहरिरपि देवकीजठरं प्रविवेशेति भावः । तदुक्तमाचार्यैः–

आविश्य पितरं विष्णुः स्वरूपेणैव मातरम् ।

विडम्बनार्थं लोकस्य निर्जनिश्चाप्यथाऽविशत् ।

आनन्दमात्रदेहेन जातवत्संप्रदृश्यते ॥ इति ।

स्वरूपेणैव पितरमाविश्येत्येनेन स बिभ्रत्पौरुषमित्येतत्तात्पर्यं विवृतम् । लोकस्य विडम्बनार्थं मोहनार्थम् । ‘जनस्य मोहाय शरीरतोऽस्या यदाविरासीदमलस्वरूप’ इति श्रीभारततात्पर्यनिर्णयोक्तेः । काष्टा यथेत्यस्य तात्पर्यम् आनन्दमात्रदेहेन मातरमाविशदिति । निर्जनिर् निर्गतो जनेरिति निर्जनिरपि लोकविडम्बनार्थं जातवत्संप्रदृश्यत इत्याचार्यवचनार्थो ज्ञेयः । इदमुत्तरार्धम् ॥ १९ ॥

सा देवकी सर्वजगन्निवासनिवासभूता नितरां १विरेजे ।

भोजेन्द्रगेहेऽग्निशिखेव रुद्धा सरस्वती द्यूतखले यथा सती ॥ २० ॥

पदरत्नावली

यथा दाहकाग्निशिखा आर्द्रतृणपटलादिना नितरां रुद्धा तिरोहितप्ररोहशक्तिर् न राजते । यथा वा सती सरस्वती सत्यरूपा वाणी द्यूतखले द्यूतं खलश्च तस्मिन् द्यूतरङ्गस्थले नीचे च अनृतेन नितरां रुद्धा न राजते । तथा सा देवकी पूर्वं भोजेन्द्रगेहे कंसकल्पितकारागारे नितरां रुद्धा न रेजे । पश्चात्तु सर्वजगन्त्यस्मिन् निवसन्तीति सर्वजगन्निवासो विष्णुः, तस्य निवासभूता सती नितरां रुद्धाऽपि न रेजे इति न, इति नञावृत्त्या योजनीयम् । सर्वजगन्निवास-निवासभूतेति हेतुगर्भविशेषणम् । सर्वजगन्निवासस्याऽप्रतिहतदिव्यप्रकाशस्वरूपस्य हरेर्निवास-निमित्तभूतत्वाद् देवकी नितरां रुद्धापि अतिशयेन प्रकाशयामासेति यावत् । विरेजे इति पाठे नञमध्याहृत्य व्याख्येयम् । सा देवकी पूर्वं भोजेन्द्रगेहे रुद्धा नितरां न विरेजे । पश्चात् सर्वजगन्निवासभगवन्निवासहेतुभूता सती रुद्धा सत्यपि नितरां विरेजे इत्यन्वयः ॥ २० ॥

सत्यधर्मीया

या देवकी भोजेन्द्रगेहे कंसकल्पितकारागारेऽवरुह्यार्द्रतृणादिभिस्तिरोहित- प्ररोहशक्तिरग्नेः शिखा भविष्यन्ती ज्वाला यथा सत्यन्तस्सती तत्प्राया । यथा वा द्यूतखले द्यूतस्थले सरस्वती यथा सम्यगृतरूपरागमसती तस्यानृतभूयिष्ठत्वात्तत्प्राया । तथा असत्यमङ्गलाङ्गयुता । सैवेदानीं सर्वजगन्निवासनिवासभूता सर्वजगतां निवास आश्रयस्तस्य श्रीशस्य निवासभूताऽऽश्रयी-भूता नितरामत्यन्तं विरेजे रराजेत्यन्वयः । अवरुद्धा तत्रापि शुद्धान्ते निरुद्धा । अवरोधस्तिरोधाने शुद्धान्ते राजवेश्मनीति, खलं भूस्थानकल्केष्विति, शिखा शिफायां चूडायां ज्वालायामग्रमात्रक इति विश्वस्मिन्विश्वः । द्यूतं च खलश्च । सर्वो द्वन्द्वो विभाषयैकवदित्येकवद्भावः । द्यूते खले नीचे सत्यपि सरस्वत्यसतीति वा । क्रूरे नीचेऽधमे खल इति सः । न रेजे इति पाठान्तरकल्पनं न स्वरसम् । प्रभयाऽजितम्भरां विरोचयन्तीं न पुरेयमीदृशीत्युत्तरोक्त्यनानुगुण्यात् ॥ २० ॥

सुमनोरञ्जिनी

सेति तच्छब्दबलाद् येति लभ्यते । द्यूतखले द्यूतरंगस्थले सती सरस्वती सत्यवचनरूपा वाणी यथाऽनृतादिना रुद्धा, यथा वाऽग्निशिखा तृणादिना रुद्धा निरुद्धप्रकाशा तथा पूर्वं भोजेन्द्रगेहे रुद्धा विगतप्रभा या देवकी सा सैव सर्वजगन्निवासस्य हरेर्निवासभूता सती नितरां विरेजे इति योजना द्रष्टव्या । अग्निशिखेव नितरां विरेजे इति वा ॥ न रेज इति पाठे पदरत्नावलीरीत्या योजना ज्ञेया ॥ २० ॥

**तां वीक्ष्य कंसः प्रभयाऽजितम्भरां **

विरोचयन्तीं भवनं शुचिस्मिताम् ।

**आहैष मे प्राणहरो हरिर्गुहां **

ध्रुवं श्रितो यन्न पुरेयमीदृशी ॥ २१ ॥

पदरत्नावली

अजितम्भरां विष्णुं दधानां, केनापि जेतुमशक्यं गर्भं बिभ्रतीति वा । अन्तःस्थितविष्णुप्रभावर्धितस्वदेहप्रभया । यद् यस्मात् पुरा एतद्गर्भधारणात् पूर्वमियं देवकी ईदृशी तेजस्स्विनी नाभूत् तस्माद् उदरगुहां श्रितः प्रविष्ट एषः शिशुर् मे प्राणहरो हरिर्ध्रुवं निश्चयः ॥२१॥

सत्यधर्मीया

कंसोऽजितम्भरामसंज्ञात्वेऽपि पूर्ववज्ज्ञेयम् । केनाप्यपराजितं हरिं बिभ्रतीति सा तथा ताम् । भवनं, स्वप्रभया विरोचयन्तीं शुचिस्मितां तां वीक्ष्यैष गुहामुदरकुहरीं श्रितो गर्भान्तर्विद्यमानोऽर्भको मे प्राणहरो हरिर्ध्रुवं निश्चयः । तत्र कारणमीरयति । यद्यतः पुरा एतदङ्कुरणात्पूर्वमियं देवकी ईदृशी नाभूत् ॥ २१ ॥

सुमनोरञ्जिनी

अजितं विष्णुं जठरे बिभर्तीति अजितम्भरां देवकीमित्यर्थः । प्रभया भवनं विरोचयन्तीं वीक्ष्याहेति सम्बन्धः । किमाहेति तत्राह ॥ एष इति ॥ यद् यस्मादियं देवकी पुरा पूर्वं नेदृशी नैतादृशप्रभोपेता आसीदतो मे प्राणहरो हरिरस्या गुहां कुक्षिगुहां श्रितः प्रविष्ट एष इति ध्रुवम् ॥ २१ ॥

**किमद्य तस्मिन् घटनीयमाशु मे **

यथाऽर्थतन्त्रो न विहन्ति विक्रमम् ।

**स्त्रियः स्वसुर्गुरुमत्या वधोऽयं **

यशः श्रियं हन्त्यनुकूलमायुः ॥ २२ ॥

पदरत्नावली

अस्तु तव प्राणहरो हरिस्ततः किम् ? अत्राह किमद्येति ॥ अद्य मे मया तस्मिन् गर्भस्थिते हरौ घटनीयम् उपद्रवत्वेन कर्तव्यं तत् केन प्रकारेणेति चिन्त्यते । तदप्याशु कर्तव्यम्, न कालः क्षेपणीयः । कुतः? अत्राह अर्थेति ॥ अधुना अहमर्थतन्त्रः प्रयोजनाधीन इति यत् तस्मात् कालो न क्षेपणीयः । यथा अयमर्थतन्त्रः देवकार्यलक्षणप्रयोजनैकपरायणो गर्भस्थितो हरिर् मम विक्रमं जीवनलक्षणं न विहन्ति तथा झटिति करणीयमित्यर्त्यः । यथा अर्थतन्त्रः पुरुषः स्वविक्रमं न विहन्ति तथेति वा । ननु तर्हि तद्वध एव श्रेयानिति तत्राह गुरुमत्या इति ॥ गर्भिण्या वधो ऽनुकूलं क्लृप्तमायुर्हरति, अतो वधो न घटनीय इति भावः ॥ २२ ॥

सत्यधर्मीया

तर्हि तस्या वधोपायः कर्तव्य इत्यत आह ॥ किमिति ॥ अद्य मया तस्मिन्घटनीयं किं न किमपि । कुत इत्यत आह ॥ यथार्थतन्त्र इति ॥ यथार्थं तन्त्रं सिद्धान्तो यस्य सोऽनन्यथाभवत्स्वाभिप्रेतो, विक्रमं स्वपराक्रमं न विहन्ति न त्यजति मां हन्यादेव । कुमाराविर्भावात्पूर्वमिमामेव मारयेत्यत आह ॥ स्त्रिय इति ॥ आत्मनाशे समुत्पन्ने सर्वं त्यजति पण्डित इति वचनान्न गरीयसी प्राणेभ्य इत्यत आह ॥ अयमिति ॥ स्वसुस्तत्रापि गुरुमत्या गर्भिण्या वधो यशः श्रियम्, अनुकूलं ब्रह्मणा क्लृप्तं यदायुस्तत्राशु हन्ति । एतद्धननेऽपि मद्धननं न हननेऽपि तदेवेति दुर्घटेऽस्मिन्कार्ये किं घटनीयमित्यन्वयः ॥ २२ ॥

सुमनोरञ्जिनी

किमिति ॥ अर्थतन्त्रो ऽर्थः देवकार्यलक्षणप्रयोजनं तत्तंत्रस् तत्परायणो हरिर् मे विक्रमं पराक्रमं यथा न विहंति न नाशयति तस्मिन्विषये मे मया आशु घटनीयं कर्तव्यं किमिति । तर्हि देवकीवध एव श्रेयानिति तत्राह ॥ स्त्रिय इति ॥ स्त्रियो वधः यशो हंति । तत्रापि स्वसुर्वधः श्रियं, गुरुमत्या गर्भिण्या वधश्च अनुकूलम् अपेक्षितम् आयुर्हन्ति । अतो नास्या वधो युक्त इति भावः ॥ २२ ॥

स एष जीवन् खलु सम्परेतो वर्तेत योऽत्यन्तनृशंसितेन ।

देहे मृते तमनु ह्यर्थकामौ यशोऽमलं गौरभिमानिनो ध्रुवम् ॥ २३ ॥

पदरत्नावली

ननु ‘पापी चिरायुः’ इत्याद्युक्तेर् लोके केषाञ्चित् क्रूरकर्मिणां दीर्घायुष्यदर्शनात् कंसस्यापि तत् किं न स्यादित्यत आह स एष इति ॥ जीवन् सम्परेतो जीवन्मृतः । न केवलं क्रूरकर्मकर्तुरत्र जीवन्मृतत्वमात्रमपि तु मृते पुरुषार्थसर्वस्वहानिः स्यादित्याह देह इति ॥ अभिमानिनो देहे मृते पञ्चत्वं प्राप्ते तं देहमनु अर्थकामौ पुरुषार्थौ नश्यतः साधकाभावात् । हिशब्दोऽर्थकामावनु धर्मो नश्यतीति दर्शयति । तमनु स्वर्गादिशब्दवाच्यो लोको नश्यति साधकाभावात् । देहमनु मानिनोऽमलं यशो नश्यति । ध्रुवं तत्र न संशय इत्यर्थः । अर्थकामयशआदिनाशे गौर्दृष्टिर्ज्ञानं नश्यति । तां दृष्टिमनु मानिनः पुंसो ध्रुवं नित्यसुखानुभवलक्षणो गौर्मोक्षो नश्यतीति वा । स्वतोऽनृतस्यापि कंसस्य एवंविधं ज्ञानं सच्चेतनावेशादुपपद्यते इति क्षुद्रबाधानवकाशः । ‘गौर्दृष्टिर्दीधीतिः स्वर्गो वज्रो मोक्षो रविर्मुनिः’ इत्यभिधानम् ॥ २३ ॥

दुर्घटभावदीपिका

स्त्रियः स्वसुर्गुरुमत्या वधोऽयं यशःश्रियं हन्त्यनुकूलमायुरित्यनेनोक्तमत्र सामान्यव्याप्त्योपपाद्यते । योऽत्यन्तनृशंसितेनात्यन्तनृशंसनेन वर्तेत स एषो जीवन्नपि सम्परेतो मृत इत्येतत्खलु निश्चितम् । योऽत्यन्तहिंसकस्तद्यशोभाग्ययोर्हानिर्भवतीति यावत् । अभिमानिनः सम्यग्देहाभिमानवतः । जीवनापेक्षावत इति यावत् । तस्य हिंसकस्य देहो मृतः प्राणवियुक्तो भवति । अनेन नानुकूलमायुर्हन्तीत्येतदपेक्षितमायुर्हन्तीत्येवं व्याख्यातं भवति । देहे मृते तमनु देहमनु । अर्थकामौ जन्मान्तरीयार्थकामसम्पादकपुण्ये गच्छन्तोऽमलं यशो जन्मान्तरीयामलं यशः सम्पादकपुण्यं च गच्छति । गौर्विद्यावगच्छतीत्येतद्ध्रुवमिति । अनेनायुर्हन्तीत्यत्रायुरित्येतज्जन्मान्तरीयार्थकामसम्पादक-पुण्यादेरुपलक्षणमित्युक्तं भवतीत्येतद्धि प्रमाणप्रसिद्धमिति । एतेन देहवियोगस्य परमात्मनिष्ठत्वाद्देहो मृतो भवतीति चोद्यस्यानवकाशः ॥ २३ ॥

सत्यधर्मीया

पापी चिरायुरित्याद्युक्तेः किमायुर्यातीति यासि चिन्तां, शंस कंसेत्यत आह ॥ स इति ॥ यश्चात्यन्तनृशंसितेनैवमादिहननादिना वर्तेत स एव जीवन्सम्परेतो मृतः खलु निश्चयः । देहे मृते गतप्राणे सति तं देहमनु अभिमानिनोऽभिमानवतस्तत्तज्जीवस्यामलं यशः, इहार्थश्च कामश्चेत्येतौ ध्रुवं निश्चयेन नश्यतः गौर्नाको नश्यति । गौर्ज्ञानं वा ध्रुवं माधवधामापि नश्यतीति वा । अतो देवकीवधः सर्वथाऽधोगतिहेतुरिति नाचरणीय इत्याशयः । गौः पशुसम इति वा । अमलं निर्दोषस्थानं मोक्ष इति वा । द्वयोस्तु रश्मिदृग्बाणस्वर्गवज्राम्बुलोमसु गौरिति नानाध्वनिपदमञ्जरी । दृक् चात्र ज्ञानम् ॥ २३ ॥

सुमनोरञ्जिनी

ननु यश आद्यभावेऽपि केषाञ्चित् क्रूरकर्मिणां दीर्घायुष्यदर्शनाद् भवतोऽपि तथैवावस्थानं किं न स्यादिति तत्राह ॥ स एष इति ॥ यो ऽत्यन्तं नृशंसितेन क्रूरेण कर्मणा वर्तेत स एष पुरुषः जीवन्नपि संपरेतो मृतः खलु । ननु इह लोके सम्पादिता कीर्तिः परत्र स्वर्गादिकं स्यादिति तत्राह ॥ देह इति ॥ अर्थकामग्रहणं स्पष्टतार्थम् । देहे अभिमानिनो जीवस्य मृते सति यथा अर्थकामरूपौ पुरुषार्थौ तम् अनुगच्छतः नश्यत इत्यर्थः । तथा अमलं धर्मेण संपादितयशोऽपि नश्यति । गौः स्वर्गादिकमपि ध्रुवं नश्यतीति हि यस्मात्तस्मान्न परत्रापि सौख्यमिति भावः ॥ २३ ॥

इति घोरतमाद् भावात् सन्निवृत्तः स्वयं प्रभुः ।

आस्ते प्रतीक्षंस्तज्जन्म हरेर्वैरानुबन्धवित् ॥ २४ ॥

पदरत्नावली

भावात् कर्मणः ‘भावो लीला क्रिया चेष्टा’ इति यादवः । स्वयं प्रभुर् ज्ञानित्वाभिमानी, स्वमनसैव समर्थ इति वा । वैरानुबन्धविद् वैरम् अनुबन्धं स्नेहं च वेत्तीति, वैरमनु, स्नेहं वेत्ति करोतीति वा । विद कृताविति धातुः । निरन्तरवैरकृदित्यर्थः । स च कालनेमि-रेव । कदाचित् सात्त्विकस्नेहभावप्रदर्शनं तु कंसशरीरस्थभृगोरेवेति बोध्यम् ॥ २४ ॥

सत्यधर्मीया

घोरतमादतिघोरान्मनसः सन्निवृत्तः । न परवरणेनेतीरयति ॥ स्वयमिति ॥ दौर्बल्याद्दरिद्रमनोरथवन्नैतस्येत्याह ॥ प्रभुरिति ॥ हरेस्तज्जन्म प्रतीक्षन्प्रतीक्षमाण आस्ते । अनुबन्धस्तु भक्तिः स्यादित्यादेः । वैरपूर्वकभक्तिप्रकारज्ञः ॥ २४ ॥

सुमनोरञ्जिनी

प्रभुः समर्थोऽपि स कंसः घोरतमाद् भावान् मनसः स्वयम् अन्योपदेशमन्तरा निवृत्तः परावृत्तः सन् हरेर्वैरानुबन्धं वैरस्य द्वेषस्य सम्बन्धं वेत्तीति तथोक्तः । वैरम्, अनुबन्धं स्नेहं च वेत्तीति वा । कंसस्य द्विजीवित्वात् । तज्जन्म तस्य हरेर्जन्म प्रतीक्षन्नास्ते आसीदित्यन्वयः

॥ २४ ॥

विरोधोद्धारः

इतीति । स्वतो दुष्टस्य प्रभुशक्तिमतश्च कंसस्य दुष्टभावनिवृत्तिकथने विरोधोऽतोऽर्थ उच्यते ॥ सन् सच्चेतनः ॥ इति विचारसमाप्तौ । घोरतमाद् अतिभयङ्करात् । भावाच् चेतनात् कंसात् । चेतनोऽचेतनश्चेति भावश्च द्विविधः स्मृत इति तत्त्वविवेकोक्तेः । निवृत्तः कंसं विसृज्य गतः । अयं सद्विचारस्तु सच्चेतनावेशेनैव जात इति भावः । ततः स्वयमावेशरहितत्वाद् आत्मैवेत्यर्थः । अकथप्रविसम्भूमसखहाविष्णुवाचका इत्यभिधानात् । प्रशब्दवाच्याद्विष्णोर्भवतीति प्रभुः कामः । यद्वा । प्रकर्षेण भवते व्याप्नोतीति प्रभुः । भू व्याप्ताविति धातोः । तथा तेनेदमावृतमिति गीतोक्तेश्च काम इत्यर्थः । तदभिमानित्वात्कालनेमिः । काममानी कालनेमिरित्युक्तेः । तस्य भगवतो जन्म प्रतीक्षन्सन् हरेर्वैरानुबन्धविद् वैरस्यैवानुबन्धनकर्ता । विद कृताविति धातोः । स्वभावतो द्वेष्टेति भावः ॥ आस्ते अस्ति । अन्धे तमस्यपि भगवद्द्वेषयुक्तत्वाद्वर्तमाने लट् । स्वयंशब्देन स्वाभाविकद्वेषं द्योतयितुमात्मनेपदम् । यद्वा । स्वयं प्रभुः कालनेमिरूपोऽपि । इति विचारेण घोरतमाद्भावाद्वधरूपकर्मणः सकाशात् । भावो लीलाक्रिया चेष्टा इति हि यादवः । सदा विद्यमानत्वान्निर्दोषत्वात्सच्छब्दवाच्येन भगवता निवृत्तः । अत्रान्तर्णिच् । निवर्तित इत्यर्थः

॥ २४ ॥

आसीनः संविशंस्तिष्ठन् भुञ्जानः पर्यटन् पिबन् ।

चिन्तयानो हृषीकेशमपश्यत् तन्मयं जगत् ॥ २५ ॥

पदरत्नावली

तच्चिन्ताप्रकारं दर्शयति आसीन इति । संविशन् शयानः, हृषिरानन्दः स एव केशो यस्य स तथा तम् । यद्वा हृषीकाणामिन्द्रियाणामीश इति तत्तत्पदार्थस्य कृष्णात्मकत्व-माशङ्क्य तन्मयत्वम् ॥ २५ ॥

सत्यधर्मीया

तत्प्रकारमाह ॥ आसीन इति ॥ आसीनः संविशञ्च्छय्यां, हृषीकेशं चिन्तयानो जगत्सर्वं तन्मयमपश्यद् भीतिशङ्कापदमभूदिति भावः ॥ २५ ॥

सुमनोरञ्जिनी

आसीन उपविशन् । संविशन् शयानः । हृषीकेशं हृषीकाणाम् इन्द्रियाणाम् ईशं नियामकं चिन्तयन् सन् । जगत्तन्मयं तदात्मकमेव कृष्णात्मकमेवेत्यर्थः । यं यं पदार्थं दृष्टवान् तं तं कृष्णतयैव ददर्शेति भावः ॥ २५ ॥

विरोधोद्धारः

चिन्तयान इति ॥ अत्र सत्यत्वमिथ्यात्वयोर्व्यावहारिकभेदाङ्गीकारे तस्यानित्यत्वेनान्ते तयोरैक्यापत्या मिथ्यात्वस्यापि ब्रह्मण्यापत्तिरिति भयेनाद्वैतिभिरपि जगदीशयोरपि पारमार्थिकभेदस्य स्वीकारार्हत्वात्किं पुनर्भेदवादिभिरत उभयेषामपि तन्मयशब्दस्य स्वरूपार्थोक्तौ विरोधप्रसङ्गोऽतोऽर्थान्तरम् ॥ तन्मयम् ॥ मद्धन्ता विष्णुरत्रैव स्यात्किमिति भयेन तत्तत्पदार्थस्थतया तत्प्रतिमं जगदपश्यत् । यद्वा । जगत् । अहृषीकेशं विष्णुरहितं कर्तव्यमिति विशेषेण या चिन्ता तया तन्मयं तस्य विष्णोर्हिंसोपायम् । मिनु हिंसायामिति धातोः । लक्षणोपगमाच्च । नोऽपश्यन् न दृष्टवान् । अतो नोक्तविरोधः ॥ २५ ॥

ब्रह्मा भवश्च तत्रैत्य मुनिभिर्नारदादिभिः ।

देवैः सानुचरैः साकं गीर्भिर्विष्णुमथास्तुवत् ॥ २६ ॥

सत्यधर्मीया

हिरण्यगर्भो गर्भगमर्भकमेतैः समेत आगत्य तुष्टाव विष्णुमित्याह ॥ ब्रह्मेति ॥ यो भृगुर्मम तव च रीतिं परीक्ष्य यं पदोरसि ताडयित्वाऽपि येन बहुमतिं लेभेऽस्यासुरस्य तत्सहवासेन कदाचित्सद्धीरभिव्यज्यत इति भवानुभवसिद्धं विशेषं द्योतयितुमेव देवेभ्यः पृथक् कृत्य भववचनमिति ज्ञेयम् । देवैरिन्द्राद्यैः सानुचरैर्गन्धर्वाद्यनुचरसहितैर्नारदादिभिः । सानुचरैर्गिरिशृृङ्गचरै ऋषिभिरित्य-प्यन्वयः । अनेन स्तुत्यगुणानां बाहुविध्यं गिरां भूयिष्ठत्वेन द्योत्यते । यथेतरसुरा अवतारेण हरि-परिचरणयोग्या न तथा कमलभव इत्यप्याह ॥ अभव इत्युत्पत्तिरहित इति ॥ अतस्तत्रे-त्युपपन्नम् । ब्रह्मणो नावतारोऽस्ति । ब्रह्माणमप्यनवतारम् इत्यादेः ॥ २६ ॥

सुमनोरञ्जिनी

भूभारहरणार्थं मत्कृतप्रार्थनां सार्थकयितुं भगवानवतीर्ण इति जातसंभ्रमो ब्रह्मा गर्भस्थं हरिमस्तौदित्याह ॥ ब्रह्मेति ॥ ब्रह्मा चतुर्मुखः । भवो रुद्रः । गीर्भिर् वेदवचनैर् विष्णुं सर्वव्यापकं सर्वत्र प्रविष्टं वा विषलृ व्याप्तौ । विश् प्रवेशन इति धातोः ॥ २६ ॥

विरोधोद्धारः

ब्रह्मेति ॥ अत्र स्तोत्रक्रियाकर्तुर्मुन्यादिसाहित्योक्तौ बहुत्वापत्त्याऽस्तुव-दित्येकवचनं विरुद्धमिति मन्दाशङ्कापरिहारार्थ उच्यते । तथात्वे पुच्छं जग्राह सामर इति प्रतिबन्दी दुर्वारा स्यात् । अतः कर्तुर्वचनानुरूपेण कर्तरि क्रियावचनेन भवितव्यमिति नियमादत्र ब्रह्मणः कर्तुरेकवचनात् क्रियैकवचनं युज्यते । न च भवश्चेत्यनेन बाधः । तस्याप्येकवचनेन समुच्चये न नियमभङ्गः । तत्रागतो नारदस्तुंबरुश्चेति भारतादिष्वेतादृशप्रयोगस्य बहुशो दृष्टत्वात् ।

केचिदत्र गीर्भिर्वृषणमैडयन्निति पाठं कल्पयन्ति । तदयुक्तम् । कर्तुर्बहुवचनान्तत्वाभावेनैक-वचनान्तस्य तृतीयस्याप्यभावेन बहुवचनान्तक्रियाऽसङ्गतत्वात् । न च सेति पदेन भूम्या ग्रहणं युक्तम् । तस्याः स्वरूपतो जडत्वेन स्तवनायोगात् । गोरूपिण्याश्च पशुत्वेन वचनायोगात् । नापि व्यसनं समवोचतेत्यत्र वचनलाभः । तत्रापि ससंकेतेनावोचल्लक्षणयाऽसूसुचदित्यस्यैवौचित्यात् । अत्रापि लक्षणाऽस्त्विति चेन्न । अर्धजरतीयानुपपत्तेः । ब्रह्मभवयोर्वचनवृत्त्या गोरूपिण्याः सूचनवृत्त्येत्येकक्रियाया अर्थद्व्याङ्गीकारानर्हत्वात् । श्रीधरेणाप्यैड्यदिति पाठे क्लृप्तेऽपि तद्व्याख्यानुसारिणो लेखकहस्तदोषादैड्यन्निति लाभेन तथैव पठन्तीति । एतच्चिन्त्यम् । न हि व्याख्यातैवमसम्बद्धं लिखेत् ॥ २६ ॥

ब्रह्मभवावूचतुः–

सत्यव्रतं सत्यपरं त्रिसत्यं सत्यस्य योनिं निहितं च सत्ये ।

सत्यस्य सत्यमुत सत्यनेत्रं सत्यात्मकं त्वां शरणं प्रपन्नाः ॥ २७ ॥

तात्पर्यम्

‘सच्छब्द उत्तमं ब्रूयादानन्दं तीति वै वदेत् । येति ज्ञानं समुद्दिष्टं पूर्णानन्ददृशिस्ततः । सत्यशब्दोदितं तादृग्रूपं नित्यं यतो हरेः । सत्यव्रतस्ततो विष्णुः सद्भूतत्रयमुच्यते । त्यं तदन्यत्समुद्दिष्टं तत्परत्वात्तु तत्परः । वेदमुख्यार्थरूपत्वात्त्रिसत्यो भगवान् हरिः । सत्यस्य चोत्तमानन्दज्ञानदातृत्वतः सदा । सत्यस्य सत्यो भगवा-न्सत्यस्थो जगति स्थितेः । जगन्नेतृत्वतः सत्यनेता विष्णुः प्रकीर्तितः । अत्तृत्वाच्च तदादानात्सत्यात्मा चोच्यते विभुरि’ति तन्त्रभागवते ॥ २७ ॥

पदरत्नावली

तत्र शङ्करप्रभृतिभिः समेतो ब्रह्मा ज्ञानिसुगमगुणविशिष्टं विष्टरश्रवसमभिष्टौति सत्यव्रतमिति ॥ वयं त्वां शरणं प्रपन्ना इत्यन्वयः । पूर्णानन्दज्ञानलक्षणं सत्यं तदेव व्रतं व्यावृत्तं रूपं यस्य स तथा तम् । सद्भ्यः पृथिव्यप्तेजोभ्यस् त्ययोर्वाय्वाकाशयोः परत्वाद् विलक्षणत्वात् सत्त्यपरस् तम् । त्रयाणां वेदानां सत्यत्वान् मुख्यार्थत्वात् त्रिसत्यस् तम् । सत्यस्याबाधितप्रपञ्चस्य योनिं मूलकारणम् । सत्ये जगत्यन्तर्नियामकत्वेन निहितम् । सत्यस्य विश्वस्योत्तमानन्दज्ञानदं सत्यम् । सत्यस्य प्रपञ्चस्य नेत्रं नेतारम् । सत्यात्मकं सत्यस्य प्रपञ्चस्य अत्तृत्वादादानाच्च सत्यात्मकस् तम् । कप्रत्ययः प्रशंसायाम्, उतशब्दः समुच्चयार्थः । एवं तन्त्रभागवतमानानुसारमक्षरार्थो ज्ञातव्यः । तदुक्तम् ‘सच्छब्द उत्तमं ब्रूयादानन्दं तीति वै वदेत् । येति ज्ञानं समुद्दिष्टं पूर्णानन्ददृशिस्ततः । सत्यशब्दोदितं तादृग् रूपं नित्यं यतो हरेः । सत्यव्रतस्ततो विष्णुः सद् भूतत्रयमुच्यते । त्यं तदन्यत् समुद्दिष्टं तत्परत्वात्तु तत्परः । वेदमुख्यार्थरूपत्वात् त्रिसत्यो भगवान् हरिः । सत्यस्य चोत्तमानन्दज्ञानदातृत्वतः सदा । सत्यस्य सत्यो भगवान् सत्यस्थो जगति स्थितेः । जगन्नेतृत्वतः सत्यनेता विष्णुः प्रकीर्तितः । अत्तृत्वाच्च तदादानात् सत्यात्मा चोच्यते विभुः ॥’’ इति । यद्वा अनृताप्रियवर्जनं यथार्थकथनं सत्यं तदेव व्रतं नियमो यस्य स तथा तम् । ‘अजस्यावक्रचेतसः’ इति हि श्रुतिः । ‘सत्यसंहिता वै देवाः’ इति च । सत्यपरं धर्मपालकम् । ‘सत्यं धर्म उदाहृतः’ इत्यभिधानम् । सत्यपरं सतिरवसादनं तस्मादपरं दूरं, तद्रहितमित्यर्थः । ‘अविनाशी वा ओऽयमात्मा’ इति श्रुतेः । त्रिषु लोकेषु सत्यं तेषु नष्टेष्वप्यनष्टमित्यर्थः । सत्यस्य मुख्यप्राणस्य योनिमुत्पादकम् । ‘आत्मत एष प्राणो जायते’ इति श्रुतिः । सत्ये मुख्यप्राणे निहितं सन्निहितम् । ‘स प्राणमसृजत’ इत्यादिश्रुतेः । सत्या देवास्ते नेत्रं शिष्यादिषु नेतारो यस्य स तथा तम् । ‘तं देवाः प्राणयन्त’ इति श्रुतेः । सत्यमबाधितमात्मनः कं सुखं यस्य स तथा तम्, अबाधितस्वरूपसुखम् । ‘एष ह्येव परम आनन्दः’ इति श्रुतेः ॥ २७ ॥

सत्यधर्मीया

सत्यव्रतं सत्यपरमिति श्लोके सत्यपदाष्टकं तस्याबाधितत्वमात्रार्थकत्वं पुनरुक्त्यादिबाधितमतोऽर्थाप्रतीतेर्मानेन तदर्थमाह ॥ सच्छब्द इति ॥ सदितिशब्द उत्तमं तत्त्वं ब्रूयाद्रूढ्यैवेति सर्वत्र ज्ञेयम् । आनन्दं तीतीकार उच्चारणार्थः । केचिद् ह्रस्वमेव तिं पठन्ति । तृप प्राणन इत्यस्मात्क्विप् ङिश्चेति वर्णयन्ति । वस्तुतस्तु तीति सप्तम्यन्तम् । ति, द् इति हल्तकारे आनन्दं वदेद् वाच्यं वदेदित्यर्थः । इति हेतुसमर्पकः सन्नुत्तरत्रान्वेति । तद्विवरे दर्शयिष्यामः । येति प्रातिपदिकनिर्देशः । गत्यर्थानां नयेन यो ज्ञानं समुद्दिष्टमिति यतस्ततः पूर्णानन्ददृशिरर्थः । संश्चासौ उत्तमः पूर्णस् द् आनन्दं यो ज्ञानं च तत् । व्रतयति प्रवर्तयतीति व्रतम् । सत्यं पूर्णानन्दज्ञानं व्रतं यस्य स तम् । यतो नित्यं हरेस्ततो विष्णुः सत्यव्रतस्तच्छब्दवाच्य इत्यर्थः । ततश्चान्तर्णीतण्यर्थाद्वृतु वर्तन इत्यस्मात्कर्तर्यप्रत्यये धातोश्चागमे यणादेशे व्रतम् । वृणोतेर्वा । सत्यमुक्तं रूपं वृणोति स तथा तं वा । सत्यपरमिति विवृणोति ॥ सद्भूतेति ॥ भूतत्रयं सदित्युच्यते । सन्नामकं यदन्यद्वायोश्चान्तरिक्षाच्चैतत्सदिति श्रुतेः पृथिव्यप्तेजोरूपं, त्यं तदन्यद्वाय्वन्तरिक्षाख्यमिति पञ्चभूतात्मा पदार्थः सत्यपदाभ्यां लभ्यते । यस्मात्परं विलक्षणमिति । त्यं तदन्यत्समुद्दिष्टं ताभ्यां परस्तत्परः सत्यपर इत्युच्यत इत्यर्थः ।

त्रिसत्यशब्दार्थमाह ॥ वेदेति ॥ त्रिभिर्वेदैर्ऋगादिभिः सद्यते गम्यते ज्ञेयत इति त्रिसत्यः । भत्वाज्जश्त्वाभावः । अथर्ववेदविभागोऽल्पीयानिति तदनुक्तिरित्येके । त्रयश्च वेदा ऋग्यजुरथर्वणास्तैः । साम्नो ऋच्यध्यारूढताम्नानात्तदुक्तौ तदुक्तिरिति केचित् । त्रिभिर्ऋग्यजुरथर्वभिः सत्ता तत्त्रिकोत्तमेन साम्ना चेत्याहत्य चतुर्भिर्याज्यते ज्ञायत इति सत्य इत्यपरे । वेदानां सामवेदोऽस्मीत्यादेः । असाधारण्येन सर्वत्रापि मुख्यप्रतिपाद्यत्वं ज्ञेयमिति मुख्यार्थरूपत्वादित्युक्तिः । गुह्यदर्शनभाषे च भाषा चैव समाधिका । तिस्रस्तु मूलभाषाः स्युरित्येकादशतात्पर्योक्तेस्तिस्र भाषा सत्यो यत्र स वेदश्चतुरात्मा तेन याप्यत इति त्रिसत्य इति वा । सत्यस्य सत्यमित्यर्थापयति ॥ सत्यस्य चेति ॥ सन्तौ उत्तमौ त्यौ यस्मात्सत्य इति विग्रहे नार्श आद्यजायास इति ज्ञेयम् । सत्ये निहितम् इति पदार्थमाह ॥ सत्यस्य इति ॥ सत्यं चोक्तरूपः प्रपञ्च इति प्रपञ्चयति ॥ जगति स्थितेरिति ॥ सत्ये निहित इत्यभिहित इत्यर्थः । व्युत्क्रमेण व्याकरणं तद्गुणाभेदज्ञापनार्थमिति ज्ञेयम् । विष्णुः सत्यं, नेतेति नेत्रः । सत्यं चोक्तं जगत् । नीङ् प्रापणे दाम्नीति ष्ट्रन् । नेत्रो नेतरि भेद्यवदिति विश्वः । सत्यस्यात्तृत्वात्तस्यैवादानादिकर्तृत्वाच्च सत्यस्यात्मैव सत्यात्मकस्तमित्याह ॥ अत्तृत्वाच्चेति ॥ आङ्पूर्वादद भक्षणे तथा तत्पूर्वादेव डुदाञ् दान इत्यस्माच्च कर्तरि ड्वुन्प्रत्यये टिलोपे चर्त्वे चात्मनि ज्ञेयम् ॥ ततश्चायं श्लोकार्थः ॥ धराज्वरज्वरणाय धरोपरि चरितुमवतारमनधरास्यन्दमीरितां गिरं तामृतीचकार कारुणिकशिरोमणिरिति तच्छब्दापुरस्करणेन तथा सत्यं ज्ञानमनन्तमिति श्रुतौ प्राथमिकतया तत्कीर्तनात्तामनुसरंश्च सरसिजः स्वस्य तत्सनामलोकप्रदत्वोपाधिनाऽपि स्तौति ॥ सत्यव्रतमिति ॥ पूर्णज्ञानानन्दरूपं पञ्चमहाभूतभिन्नं वेदमुख्यवेदनीयम् । सत्यस्य प्रपञ्चस्य, सत्यं जगति स्थितम्, सत्यस्य योनिमबाधितप्रपञ्चस्य कारणम् । तात्पर्ये सत्यशब्दार्थो व्याख्यातो, बहुत्र योनिशब्दश्च सुमिलार्थ इति मन्तव्यम् । उत्तमानन्दज्ञानप्रदमुतापि च जगन्नियामकं लवलये जगदादकं तथा तदादानादिकर्तारं यः क्रमात्सत्यत्वादिशब्दबोध्यस्तं त्वां वयं शरणं प्रपन्नाः स्म इति । इह बहुधा विवरीतुं शक्यं श्लोके विचित्यमत्येति । विस्तरदरतो विरतं किञ्चाचार्यैरचारि नोत्कोचः ॥ २७ ॥

सुमनोरञ्जिनी

स्तुतिप्रकारमेव दर्शयति ॥ सत्येति ॥ सच्छब्द उत्तमपर्यायः पूर्णत्ववाची वा । तिशब्द आनन्दवाची । यकारो ज्ञानवाची । तथा च ती च यं च त्ये । इकारलोपश् छान्दसः । सती पूर्णे त्ये ज्ञानानन्दे स्वस्वरूपतया वृणोति स्वीकरोतीति सत्यव्रतः पूर्णानन्दज्ञानरूप इति यावत् । तम् । सत्यपरम् । अत्र सच्छब्दः पृथिव्यप्तेजोरूपभूतत्रयपरः । त्यशब्दस्तदन्यपरः । तथा च सत्येभ्य पञ्चमहाभूतेभ्यः परं विलक्षणम् उत्तमं वा । त्रिसत्यं त्रयाणां वेदानां सत्यो मुख्यार्थः । सत्यस्य योनिम् । अबाधितस्य प्रपंचस्य योनिं मूलकारणम् । अनेन जगत्स्रष्टृत्वं लक्षणमुक्तं भवति । सत्यस्य वायोर्योनिमिति वा । निहितं च सत्ये । सत्ये स्वसृष्टे जगति सत्तादिप्रदानाय निहितं प्रविष्टम् । तत्सृष्ट्वा तदेवानुप्राविशदिति श्रुतेः । अनेन स्थितिहेतुत्वमुक्तम् । सत्यस्य सत्यं, सत्यस्य निर्दुष्टानंदज्ञानरूपस्य जगतः मुक्तियोग्यजनस्येति यावत् । सत्ये उत्तमानन्दज्ञाने यस्मात् स तथा । उत्तमानन्दज्ञानप्रदमिति यावत् । अनेन मोक्षहेतुत्वं ज्ञानप्रदत्वं च सूचितम् । सत्यनेत्रम् । सत्यस्य जगतः नेत्रं नेतारम् । अन्तर्बहिःस्थित्वा नियामकमित्यर्थः । अनेन नियमनं लभ्यते । सत्यात्मकं सत्यं जगद् अत्ति संहरतीति, आदत्ते स्वीकरोति प्राप्तानर्थपरिहारेण अनुगृह्णातीति वा सत्यात्मा स एव सत्यात्मकस् तम् । अनेन संहर्तृत्वं सदनुग्राहकत्वं च लभ्यते । ननु एतादृशं जगत्स्रष्टृत्वादिकम् अन्यत्रानुपलब्धं कथं भगवति सम्भवतीति तत्राह ॥ सत्यपरमिति ॥ अत्र सच्छब्दः पृथिव्य-प्तेजोरूपभूतत्रयपरः । त्यशब्दस् तदन्यवाय्वाकाशपरः । तथा च सत्येभ्यः पञ्चमहाभूतेभ्यस् तदुप-लक्षितसर्वजगतः परं विलक्षणमुत्तमं वा । अनेन संभावकमुक्तं भवति । यथा इतरधेनुष्वदृश्यमानं प्रासादोद्गिरणादिकं लोकविलक्षणत्वात्कामधेनुप्रभृतीनां नासंभावितं तथा अन्यत्रानुपलब्धमपि जगत्स्रष्टृत्वादिकं जगद्विलक्षणस्य भगवतो नासंभावितमिति भावः । ननु च अशरीरस्य कथमिदं सम्भवतीत्यत उक्तम् ॥ सत्यव्रतमिति ॥ सच्छब्द उत्तमपर्यायः पूर्णत्ववाची । तिशब्द आनन्दवाची । यकारो ज्ञानवाची । ति च यं च त्ये । ईकारलोपो निरुक्तत्वात् । यद्वा तकार एव आनन्दवाचकः । विग्रहवाक्यादौ तु निर्देशार्थमीकारानुबन्धः । सती पूर्णे त्ये आनन्दज्ञाने स्वदेहतया वृणोति स्वीकरोतीति, सत्ययोर्ज्ञानानन्दयोरेव व्रतं नियमो यस्येति वा सत्यव्रतः । पूर्णानन्दात्मकदेहवानित्यर्थः । प्राकृतदेहाभावेऽपि चिदानन्दात्मकदेहवत्वाद्युज्यते जगत्सृष्टृत्वादिकं तस्येति भावः । किमत्र प्रमाणमित्याकांक्षायामुक्तम् ॥ त्रिसत्यमिति ॥ त्रिभिर्वेदैः सत्या परममुख्यया वृत्या यान्ति जानन्ति यमिति, यं ज्ञानं यस्येति वा त्रयो वेदा यापयन्ति यमिति वा त्रिसत्यः । अत्रापीकारलोपः प्राग्वत् । वेदत्रयमुख्यार्थ इत्यर्थः । त्रयो वेदा एवात्र प्रमाणमिति भावः । एतदेवाभिप्रेत्योक्तमाचार्यचरणैः–

सच्छब्द उत्तमं ब्रूयादानन्दं तीति वै वदेत् ।

येति ज्ञानं समुद्दिष्टं पूर्णानन्ददृशिस्ततः ।

सत्यशब्दोदितं तादृग्रूपं नित्यं यतो हरेः ।

सत्यव्रतस्ततो विष्णुः सद्भूतत्रयमुच्यते ।

त्यं तदन्यत्समुद्दिष्टं तत्परत्वात्तु तत्परः ।

वेदमुख्यार्थरूपत्वात्त्रिसत्यो भगवान्हरिः ।

सत्यस्य चोत्तमानन्दज्ञानदातृत्वतः सदा ।

सत्यस्य सत्यो भगवान्सत्यस्थो जगति स्थितेः ।

जगन्नेतृत्वतः सत्यनेता विष्णुः प्रकीर्तितः ।

अत्तृत्वाच्च सदादानात्सत्यात्माऽत्रोच्यते विभुः ॥

इति तन्त्रभागवत इति । तीतिशब्द आनन्दं वै वदेदिति सम्बन्धः । तकार एवानन्दवाची इकारो निर्देशार्थः । आनन्ददृशिर् आनन्दसहिता दृशिर्ज्ञानमित्यर्थः । तादृक् पूर्णानन्दात्मकं रूपं देहः नित्यं नियतं यतस्ततः सत्यव्रतो विष्णुरित्यर्थः । सत्यपरशब्दार्थमाह ॥ सद्भूतत्रयमिति ॥ तदन्यद् भूतत्रयादन्यद् वाय्वाकाशादिरूपं भूतद्वयमित्यर्थः । तत्परत्वात् तेभ्यः पञ्चभूतेभ्यः परत्वा-दुत्तमत्वाद्विलक्षणत्वाद्वा तत्परः सत्यपर इति समुद्दिष्ट इति लिङ्गव्यत्ययेनान्वयः ॥ वेदमुख्यार्थ-रूपत्वादिति ॥ अनेन त्रिभिर्वेदैः सत्येत्यादिपूर्वोक्तरीत्या त्रिसत्यशब्दस्य विग्रहः सूचितो भवति । अत्रापीकारलोप उक्तोऽवगन्तव्यः । सत्यस्य सत्यम् इति मूलस्यार्थः सत्यस्य चेति । सत्ये निहितमित्यस्यार्थतोऽनुवादः सत्यस्थ इति ॥ तस्य विवरणं जगति स्थितेरिति ॥ अत्तृत्वात्संहर्तृत्वात् । आदानाद् भयादिपरिहारेण स्वीकारान्निमित्तात् । अत्र मूले । विभुर्विष्णुः सत्यात्मेत्युच्यत इति तात्पर्ययोजना द्रष्टव्या ॥ २७ ॥

विरोधोद्धारः

सत्यव्रतमिति ॥ अन्यत्र विश्वस्य मिथ्यात्वोक्त्याऽत्र च सत्यत्वोक्तेर्विरोधः । पूर्वत्रास्तुवदित्येकवचनेनात्रोक्तस्य प्रपन्ना इत्यस्य बहुवचनस्य विरोधान्तरं चातोऽर्थ उच्यते । विश्व-मिथ्यात्वस्य विश्वान्तर्वर्तित्वेन मिथ्यात्वासिद्ध्या सिद्धां विश्वसत्यतां दृढीकर्तुं स्कान्दोक्त-विश्वस्रष्टृत्वाद्यष्टलक्षणेष्वपि विश्वसत्यतां ब्रवीति ॥ सत्येति ॥ विश्वं सत्यमिति श्रुतेरत्राष्ठौ सत्यशब्दा विश्वार्थकाः । तस्य विश्वस्य व्रतम् आवरकत्वाद्व्याप्तत्वाच्च ज्ञानं यस्मात्तम् । वृञ् वरणे । अत सातत्यगमने इति च धातोः । अनेनाज्ञानदत्वं लक्षणम् ॥ सत्यपरम् ॥ सत्यस्य परम् अज्ञानविरुद्धत्वात्संसारतः पालकत्वात्परमसाधनत्वाद्वा ज्ञानं यस्मात्तम् । अनेन ज्ञानदत्वं लक्षणम् ॥ त्रिसत्यम् ॥ अतीतानागतवर्तमानरूपेण त्रिविधं सत्यं विश्वं यस्मिन्निति संहारकत्वं लक्षणम् ॥ सत्यस्य योनिम् ॥ तस्य योनिं कारणमिति स्रष्टृत्वलक्षणम् ॥ सत्ये निहितं स्थितमित्यनेन पालकत्वलक्षणम् ॥ सत्यस्य सत्यम् ॥ सत्यं पुनरावृत्त्यादिदोषवर्जितत्वात्सन् निर्दोषं मोक्षं यापयति प्रापयति तम् । अनेन मोक्षदत्वलक्षणम् ॥ सत्यनेत्रम् ॥ तस्य नेत्रं मन्थनरज्जुरूपं बन्धनं यस्मात्तम् । इत्यनेन बन्धकत्वलक्षणम् ॥ सत्यात्मकम् ॥ तस्यात्मत्वात्स्वामित्वा-न्नियामकत्वं लक्षणमिति । तं त्वां शरणं प्रपन्ना इत्यन्वयः । न वचनमिव शरणागतिर्द्वयोः किंतु सर्वेषामिति भावेन बहुवचनम् । अस्तुवदिति कर्तृत्ववचनानुरोधादेकवचनात्मकस्यापि कर्तुर्द्वित्त्वदर्शनाद् ब्रह्मभवावूचतुरित्युभाभ्यामपि सर्वदेवाभिप्रायं स्वमनसोरानीयोक्तत्वात्प्रपन्ना इति बहुवचनम् । अतो न विरोधः । सच्छब्द उत्तमं ब्रूयादित्यादितात्पर्यानुसारेणार्थस्य तु व्याख्यातृप्रदर्शितत्वान्नेह प्रपञ्चः । अग्रिमस्यापि श्लोकस्य सङ्गतिरित्थम् । हि यस्मात् । असौ बन्धनहेतुर्देहादिरूपः प्रपञ्चः । आदिवृक्ष आदिना सर्वकारणरूपेण त्वया वृश्च््यते छेद्यते स तथा । अतस्त्वां शरणं प्रपन्ना इति योजना

॥ २७-२८ ॥

एकायनोऽसौ द्विफलस्त्रिमूलश्चतूरसः पञ्चशिफः षडात्मा ।

सप्तत्वगष्टविटपो नवाक्षो दशच्छदी द्विखगो ह्यादिवृक्षः ॥ २८ ॥

तात्पर्यम्

‘जगद्वृक्षाश्रया ह्येषा प्रकृतिस्तु गुणत्रयम् । मूलं मात्राः शिफास्तस्य उत्पित्सुत्वादिकास्तथा । षट्प्रकारास्तु विटपा देवगन्धर्वदानवाः । राक्षसाश्च पिशाचाश्च तिर्यङ्मानुषतस्थुषः । इन्द्रियाण्यस्य पत्राणि द्वारो द्वारो नव स्मृताः । प्रवृत्तं च निवृत्तं च फलद्वयमुदीरितम् । धर्मादयस्तत्र रसा मोक्ष १एकफलस्य तु । प्रवृत्ताश्च निवृत्ताश्च पक्षिणो द्विविधा मताः । कारणस्य सदा सत्वात्प्रवाहेण च सन्नसौ । न कदाचिन्न भूतोऽसौ न चैव न भविष्यति । स्वतो वा परतो वापि सन्नतोऽसौ जगत्तरुः । अस्य सर्गादिकृद्विष्णुः सदानन्दैकरूपक’ इति च ॥ २८ ॥

पदरत्नावली

ननु प्रपञ्चोऽयं केचिज्जीवकर्तृक इति, केचित् प्रधानकर्तृक इत्यादि सङ्गिरन्ते इत्यत आह एकायन इति ॥ अत्र यत्रशब्दोऽध्याहृत्यान्वेतव्यः । असावादिवृक्षो यत्र स्थितस्तं त्वां शरणं प्रपन्ना इति पूर्वेणान्वयः । सुजीवजातैरादीयत उपादीयत इति आदिर्हरिस् तेन देशकालादिव्याप्तेन वृक्ष्यत आव्रियत इति आदिवृक्षश् चिदचिदात्मकप्रपञ्चः । ‘वृक्ष वरणे’ इति धातुः । हरेरधीनश्चासौ वृक्षः । ‘ऋचो अक्षरे परमे व्योमन् यस्मिन् देवा अधि विश्वे निषेदुः । यस्तन्न वेद किमृचा करिष्यति य इत् तद् विदुस्त इमे समासते ॥’, ‘उतामृतत्वस्येशानः’ इत्यादिश्रुतिः । न चादिवृक्षस्य आदित एव विद्यमानत्वात्, ‘व्रश्चू च्छेदने’ इति धातोर् वृश्च्यते च्छिद्यत इति वृक्ष इति योगेन वा कादाचित्कत्वं चोद्यम् । आदिकाले सृष्टिकालेऽप्यासीदिति आदिवृक्षः । अस्य कारणात्मना मूलप्रकृत्यात्मना, कार्यात्मना च प्रवाहतः सनातनत्वस्य ‘कारणस्य सदा सत्वात् प्रवाहेण च सन्नसौ’ इत्यादिमानसिद्धत्वात् । एका चेतनाचेतनात्मिका प्रकृतिरयनमाश्रयो यस्य स एकायनः । ‘यत् किञ्च जगत्यां जगत्’ इत्यादिश्रुतेः । द्वे फले प्रवृत्तनिवृत्तलक्षणे यस्य स द्विफलः । सत्त्वादिगुणा मूलानि यस्य सस् त्रिमूलः । चत्वारो रसा धर्मादिमोक्षपर्यन्ता यस्य चतूरसः । तत्र प्रवृत्तफलस्य धर्मादयस्त्रयो रसाः, निवृत्तफलस्य मोक्ष एको रस इति विभागः । पञ्च मात्राः शब्दादयः शिफा जटा यस्य सः पञ्चशिफः । अस्ति जायते परिणमते विवर्धते अपक्षीयते विनश्यतीति षड् विकारानाप्नोतीति षडात्मा । त्वक्चर्ममांसरुधिरमेदोमज्जास्थित्वग्रूपेण वर्तते यस्य स सप्तत्वक् । देवगन्धर्वदानवराक्षसपिशाचतिर्यङ्मानुषस्थावरलक्षणा अष्टौ विटपा यस्य सोऽष्टविटपः । अक्षिद्विकं कर्णद्वयं नासापुटद्वयं मुखं पायूपस्थौ चेति नव अक्षा इन्द्रियाधिष्ठानभूता द्वार एव द्वारः कोटरा यस्य स नवाक्षः । ‘अक्षो रथाङ्ग आधारे व्यवहारे विभीतके । शकटे पाशके कर्षे द्यूतभेदेऽक्षमिन्द्रिये’ इति यादवः । दश च्छदाः पत्रस्थानीयानीन्द्रियाणि अस्य सन्तीति दशच्छदी । प्रवृत्तिनिवृत्तिमार्गस्था इति द्विप्रकाराः, खगाः प्रवृत्तनिवृत्तफलभागिनो जीवा यस्य स द्विखगः । हीति मानसिद्धतामाह । तदुक्तम्- ‘‘जगद्वृक्षाश्रया ह्येषा प्रकृतिस्तु गुणत्रयम् । मूलं मात्राः शिफास्तस्य उत्पित्सुत्वादिकास्तथा । षट् प्रकारास्तु विटपा देवगन्धर्वदानवाः । राक्षसाश्च पिशाचाश्च तिर्यङ्मानुषतस्थुषः । इन्द्रियाण्यस्य पत्राणि द्वारो द्वारो नव स्मृताः । प्रवृत्तं च निवृत्तं च फलद्वयमुदीरितम् । धर्मादयस्तत्र रसा मोक्ष एकः फलस्य तु । प्रवृत्ताश्च निवृत्ताश्च पक्षिणो द्विविधा मताः । कारणस्य सदा सत्वात् प्रवाहेण च सन्नसौ । न कदाचिन्न भूतोऽसौ न चैव न भविष्यति । स्वतो वा परतो वाऽपि सन्नतोऽसौ जगत्तरुः । अस्य सर्गादिकृद् विष्णुः सदानन्दैकरूपकः ॥’’ इति । जगद्वृक्षस्य सनातनत्वं विष्णुकारणत्वं च मन्तव्यम् । हरिरेक एवायनं यस्यासौ तथा । द्वे पुण्यपापे फले यस्य स तथा । तिस्रो जाग्रदाद्या अवस्थाः, तिस्रो व्याहृतयो वा, त्रयो वेदा वा मूलं यस्य स तथा । चत्वारो रसाः स्वर्गमोक्षनरकतमोलक्षणा यस्य स तथा प्राणापानव्यानोदानसमानाख्याः पञ्च शिफा अवान्तरमूलानि यस्य स तथा । अशनायापिपासाशोकमोहजरामृत्यवः षडात्मानः सहजा यस्य । सप्त च्छन्दांसि त्वक्स्थानीयानि यस्य । पञ्चमहाभूतानि मनोबुद्ध्यहङ्कारा इति अष्ट विटपा यस्य स तथा । पायूपस्थयोरेकत्वेन नवेन्द्रियाणि यस्य स तथा नवाक्षः । दशेन्द्रियविषयाः, शब्दस्पर्शादयः दश च्छदा अस्य सन्तीति । द्वौ खगौ जीवपरमात्मानौ यस्य । आदिरदनयोग्यः हरेरन्नभूतः प्रपञ्चः, स एव वृक्ष आदिवृक्षः । अनेन जगद्वृक्षस्य हरेरधीनत्ववर्णनेन हरेरत्युत्तमत्वमुक्तं भवतीति ॥ २८ ॥

सत्यधर्मीया

एकायनोऽसाविति श्लोकेऽनेकपदार्थाः सङ्केतेन कीर्तितास्ते क इत्यतस्त-त्समाख्यारूपं तन्त्रभागवतवचनमुदाहृत्य तान्दर्शयति ॥ जगदिति ॥ जगद्वृक्षेति यज्जगाद तेनादि-वृक्षपदं विवृतं ज्ञेयम् । एषा प्रकृतिश्चिदचिद्रूपिण्येकाऽऽयनमाश्रयो यस्य स तथा । गुणत्रयमवान्तरमूलं यस्य सः । अनेन त्रिमूल इति विवृतम् । मात्राः शब्दादिपञ्चकं शिफा जटाः । शिफा जटायामिति विश्वः । तस्य जगन्नगस्योत्पत्तुमिच्छतीत्युत्पित्सुः । सनाशंसेत्युस्तस्या भाव उत्पित्सुत्वं जननं तदेवादिर्येषां ते । जन्मसत्तापरिणामवृद्ध्यपक्षयविनाशाः षट्प्रकारा विकारास्तानाप्नोतीति षडात्मा । साम्यादुभयत्र रूपकानुपन्यसनम् । अष्टौ विटपानाह ॥ विटपा इति ॥ देवा गन्धर्वा दानवा राक्षसाः पिशाचास्तिर्यञ्चो मानुषास्तस्थुट्शब्दोऽयं तस्थुषः स्थावराः सुपां सुपो भवन्तीति जसः शसा (?) । दशेन्द्रियाण्येव पत्राणि । द्वार्शब्दोऽयम् । नवाक्षिद्विकं कर्णद्वयं नासापुटिकाद्विकं मुखं पायूपस्थे चेति । गोलकरूपद्वार एव द्वारः कोटरादयः स्मृताः । सप्त त्वक्चर्ममांसरुधिर-मेदोमज्जाऽस्थीन्येकत्रापरत्र प्रसिद्धास्त्वच इति प्रसिद्धेर्मानेऽनुक्तिः । द्विफल इत्यर्थापयति ॥ प्रवृत्तं च निवृत्तं चेति ॥ चतूरस इत्यस्यार्थमाह ॥ धर्मादय इति ॥ ते त्रयो रसाः प्रवृत्तफलरूपाः । तुर्विशेषमेकस्मिन् रसे द्योतयति । तमेवाह ॥ मोक्षेति ॥ उर्वरितैकफलस्यैकं निवृत्तं कर्म तस्य फलं मोक्षे रस इति । द्विखग इत्यत्र द्विशब्दो द्विधार्थक इत्याह । प्रवृत्ताः प्रवृत्तकर्मिण एवं निवृत्ताश्च ते खगाः पक्षिणो मताः सम्मताः । आदिवृक्ष इत्यनेनादितो विद्यमान इत्युक्तं स्यात् । तच्च यथायथं प्रत्यक्षादिलक्षितक्षयकस्य तस्यानित्यताध्यवसायाद्बाधितमित्यतस्तदादित एवंरूपिणीति निरूपयन्मानमाह ॥ कारणस्येति ॥ प्रकृत्यादेः कारणस्य सदा सत्वात्तत्कार्यस्यानित्यप्रपञ्चस्य प्रवाहेण धाता यथा पूर्वमकल्पयदित्यादेः प्रवाहरूपेणासौ जगन्नगः कदाचिन्न न भूतो नावर्तिष्ट न न भविष्यति चातः स्वतः स्वरूपेण प्रकृतिः सूक्ष्मादिः परतः प्रवाहतो वाऽयं जगत्तरुः सदा सन् । अस्योभयविधस्यापि प्रपञ्चस्य सर्गादिकृत् कस्यचिदुपचितिमपचितिं कस्यचिद्यथायथमुत्पत्तिनिवृत्ती च करोतीति स तथा । तस्य कर्ताऽपि वर्तेत चेद्विशेषोऽयं किमवसेय इत्यत आह ॥ सदानन्दैकरूपक इति ॥

ततश्चायं श्लोकार्थः ॥ एका प्रकृतिरयनं मुख्याश्रयो यस्य स तथा । अवान्तरमूलमालपति ॥ त्रिमूल इति ॥ गुणत्रयरूपमूलवान् । द्विफलः प्रवृत्तनिवृत्तरूपफलद्वयवान् । फलं चेद्रसेन भाव्यं स क इत्यतस्तानाह ॥ चतूरस इति ॥ रसाः प्रवृत्तकर्मफलरसा धर्माद्यास्त्रयो निवृत्तफलरसस्तु मोक्ष एवमाहत्य रसाश्चत्वारः । चतूरस इति ढ्रलोपदीर्घः । पञ्चशिफः पञ्चसङ्ख्याः शब्दाद्याः शिफा जटा यस्य सः । षडात्मा षड्विकार आत्मा कायः संस्थानविशेषो यस्य स तानाप्नोतीत्यात्मा वा । सप्तत्वक् सप्त त्वक्चर्ममांसादयस्त्वचो यस्य सोऽष्टविटपोऽष्टौ विटपा देवगन्धर्वादिभेदाः शाखा यस्य सः । नवाक्षाणीन्द्रियगोलकानि द्वारभूतानि । इतरत्राक्षा आधारप्रदेशा यस्य । अक्षो रथाङ्ग आधारे व्यवहारे विभीतके । शकटे पाशके कर्षे द्यूतभेदेऽक्षमिन्द्रिय इति यादवः । पुरमेकादशद्वारमिति काठकोपनिषदुक्तेः कथमत्र नवद्वारमिति कथितमिति चेन्न । नाभिशिरोरूपद्वारयोरद्रवद्वारत्वेन तद्धित्वाऽविवक्षणान्नवेत्युक्तिः । अत एवैकादशस्कन्धे क्षरन्नवद्वारमगारमेतदित्युक्तिरिति ज्ञेयम् । सप्त वै शीर्षण्याः प्राणा अर्वाग्द्वे इत्यादेर्नव द्वारे पुर इत्यादेश्च । दशेन्द्रियाण्येव छदाः पत्राण्यस्य सन्तीति दशच्छदी । द्विखगः प्रवृत्तकर्मिणो निवृत्तकर्मिणश्चेति द्विविधाः खगाः । खं सुखं सुलोपे खं दुःखमित्यर्थः । गतिस्तु पूर्वभुक्तेति वा । उपलक्षणया दुःखं च गच्छन्तीति ते तथेति चार्थः । आदिवृक्षः स्वतः परतो वा सदा सन् जगन्नगोऽस्य चोत्तरेणान्वयः । हीति मानसिद्धतामाह ॥२८॥

सुमनोरञ्जिनी

सत्यस्य योनिमित्यादिनोक्तं जगत्कारणत्वं जगत्स्वरूपनिरूपणेन विवृणोति ॥ एकेति ॥ एका सूक्ष्मरूपा प्रकृतिरेव अयनम् आश्रयो यस्यासौ तथोक्तः । त्रिमूलं, त्रीणि सत्वादीनि मूलानि यस्य स तथा । पञ्चशिखः पञ्च शब्दस्पर्शरूपरसगन्धात्मका मात्राः शिखा अवान्तरमूलानि जटा वा यस्येति तथा । षडात्मा । अस्ति, जायते, परिणमते, वर्धते, अपक्षीयते, नश्यतीति षट्प्रकारानाप्नोतीति तथा । दध्यादौ वृध्द्यतिरिक्तपरिणामदर्शनाद् वृध्द्यपेक्षया परिणामस्य पार्थक्यम् । परिणामातिरिक्तस्य जने शरीरप्राप्तिलक्षणस्य दर्शनात्ततोऽपि पार्थक्यं बोध्यम् । सप्त, पञ्चभूतमहदहंकारभेदेन सप्ततत्वानि त्वक्स्थानापन्नानि यस्य स तथा । अष्टविटपः देव–गन्धर्व–दानव–राक्षस–पिशाच–तिर्यक्–मानुष–स्थावर–भेदेनाष्टौ जातय एव विटपाः शाखा यस्येत्यर्थः । नवाक्षः देहानां यानि नवद्वाराणि तान्येव अक्षाश् छिद्राणि यस्य सः । दशच्छदी दशेन्द्रियाणि च्छदाः पत्राण्यस्य सन्तीति तथा । द्विफलः द्वे प्रवृत्तनिवृत्ते फले यस्य सः । चतूरसश् चत्वारः धर्मार्थकाममोक्षा रसाः फलगता रसा यस्य । तत्र प्रवृत्ताख्यफलस्य त्रयो रसाः । निवृत्ताख्यफलस्य तु मोक्ष एक एव रस इति विवेकः । द्विखगः प्रवृत्तफलभोक्तारो निवृत्तफलभोक्तारश्चेति द्वौ द्विविधौ खगौ पक्षिणौ यस्येति तथाविधः । असौ प्रत्यक्षादिसिद्धः । आदिः कारणात्मना पुरातनः । ऐदंप्राथम्याभावादिति वा तत्प्रवाहस्य । वृक्ष इव वृक्षः यो ऽस्येत्युत्तरेणान्वयः । तदुक्तम्–

जगद्वृक्षाश्रया ह्येषा प्रकृतिस्तु गुणत्रयम् ।

मूलं मात्राः शिफास्तस्य उत्पित्सुत्वादिकास्तथा ।

षट् प्रकारास्तु विटपा देवगन्धर्वदानवाः ।

राक्षसाश्च पिशाचाश्च तिर्यङ्मानुषतस्थुषः ।

इन्द्रियाण्यस्य पत्राणि द्वारो द्वारो नव स्मृताः ।

प्रवृत्तं च निवृत्तं च फलद्वयमुदीरितम् ।

धर्मादयस्तत्र रसा मोक्ष एकफलस्य तु ।

प्रवृत्ताश्च निवृत्ताश्च पक्षिणो द्विविधा मताः ।

कारणस्य सदा सत्वात्प्रवाहेण च सन्नसौ ।

न कदाचिन्न भूतोऽसौ न चैव न भविष्यति ।

स्वतो वा परतो वाऽपि सन्नतोऽसौ जगत्तरुः ॥ इति ॥

तिर्यंचः पश्वादयः । तस्थुषः स्थावरजीवाः । नवद्वारः देहस्येति शेषः । देहस्य नवद्वारो ऽस्य वृक्षस्य द्वारश् छिद्राणीत्यर्थः । तत्र एकफलस्य प्रवृत्ताख्यस्य धर्मादयस्त्रयो रसाः पुनरन्यस्य फलस्य निवृत्ताख्यस्य मोक्षस्तु मोक्ष एक एव रस इत्यर्थः । प्रवृत्ताः प्रवृत्तकर्मरता निवृत्ता निवृत्तकर्मकारिणः । आदित्वमुपपादयति । कार्यकारणरूपराशिद्वये कारणस्य प्रकृत्यादेः सदा सत्वाद् आदित्वम् । प्रकारान्तरेणापि तदाह । असौ प्रपंचः कार्यात्मना प्रवाहेण सदा सन् । तदुपपादयति ॥ नेति ॥ असौ प्रपंचप्रवाहः स्वतः परतो वा कदाचिन् न भूत इति न किन्तु भूत एव । अतीतकाले सन्नेव । एवं न भविष्यतीति न । किं तु भविष्यति । अनेनोत्तरकाले सत्वमुक्तम् । असावित्यनेन वर्तमानता ध्वनिता । अतोऽसौ जगत्तरुः सदा कालत्रयेऽपि सन्निति योजना द्रष्टव्या

॥ २८ ॥

त्वमेक एवास्य सतः प्रसूतिः स्थानं निधानं त्वमनुग्रहश्च ।

त्वन्मायया संवृतचेतसस्त्वां पश्यन्ति नाना न विपश्चितो ये ॥ २९ ॥

पदरत्नावली

ननु ‘ब्रह्मा देवानां प्रथमः सम्बभूव विश्वस्य कर्ता भुवनस्य गोप्ता’, ‘एको रुद्रो न द्वितीयाय तस्थे’ इत्यादिनेतरेषामपि जगदाश्रयत्वप्रतीतेर्हरेरेवैतल्लक्षणं कथं स्यादिति तत्राह-त्वमेक एवेति ॥ अस्य सतः सत्यजगतः । प्रसूयत इति प्रसूतिः कारणम् । तिष्ठत्यस्मिन्निति स्थानम् । निधीयतेऽस्मिन्निति निधानम् । अनुगृह्णाति रक्षतीत्यनुग्रहः । त्वन्मायया त्वद्बन्धकशक्त्या संवृतम् आवृतं चेतोऽन्तःकरणं येषां ते तथा । त्वां नाना अन्यथाऽन्यथा पश्यन्ति । ये च त्वन्मायया न संवृतचेतसो विपश्चितस् ते नाना न पश्यन्तीत्यनेन हरेरेवोक्तलक्षणं नान्यस्येति निरणायि

॥ २९ ॥

सत्यधर्मीया

अस्य प्रपञ्चस्य सतः सत्यभूतस्य स्वरूपतः प्रवाहतो वा । प्रसूतिः प्रसूयत इति प्रसूतिः कारणम् । स्थानं स्थितिदः । निधानमन्ततः प्रवेशाधिकरणम् । त्वमेवानुग्रहोऽनुगृह्णा-तीत्यनुग्रहश्च । अब्जभवभवादीनामेतत्प्रपञ्चरचनादिकर्तृतया तत्तत्सार्वोत्तम्यवादिभिर्हिरण्यगर्भः समवर्तताग्रे ब्रह्मा देवानां प्रथमः सम्बभूव । एको रुद्रो न द्वितीयाय तस्थ इत्यादिमान-तोऽङ्गीकरणात्कथं माधव एवेत्यवधार्यत इदं कर्तेत्यत आह ॥ य इति ॥ ये न विपश्चितः श्रुतिपरमार्थज्ञानहीनाः । कुतस्तेषां न शेमुषीत्यत आह ॥ त्वन्माययेति ॥ त्वन्मायया त्वद्बन्धकशक्त्या संवृतं चेतोऽन्तः-करणं येषां ते तथा । नानाविधां त्वन्मायां देवतां कर्तृत्वेनैतदादिश्रुत्यर्थतया जानते । ये च त्वन्मायया न संवृतचेतसो विपश्चितः पातनिकार्थभ्रमभ्रंशयुता नाना उत्पादत्वादिप्रकारेण त्वामेव पश्यन्त्यतस्त्वमेक एवेत्याद्युपपद्यत इति भावः । ते चास्वतन्त्रास्तच्छब्दवाच्यश्च त्वमेवेति न तदभिमतः सत्सम्मतः श्रुत्यर्थ इति भावः । अमुं श्लोकं यथावद्विवरीतुमस्य सर्गादिकृद्विष्णुः सदानन्दैकरूपक इति मानमानन्दतीर्थचरणा आदावेवोदाजह्रुरिति मन्तव्यम् । त्वन्माययाऽसंवृतचेतसो विपश्चितस्त्वामेव प्रसूतित्वादिना पश्यन्ति । नाना इतरथा न पश्यन्तीति वा ॥ २९ ॥

सुमनोरञ्जिनी

एवं जगत्स्वरूपं निरूप्य तत्स्रष्टृत्वादिकं पूर्वोक्तमनतिव्याप्तमित्याह ॥ त्वमेक इति ॥ अस्य जगतः प्रकृष्टा सूतिर्जन्म यस्मादिति प्रसूतिः स्रष्टेत्यर्थः । स्थानमाश्रयः धारक इति यावत् । निधीयते जगत् प्रलयेऽस्मिन्निति निधानम् । अनुगृह्णाति रक्षतीत्यनुग्रहः पालकस् त्वमेक एव नान्यः । तदुक्तम् । ‘अस्य सर्गादिकृद्विष्णुः सदानन्दैकरूपकः’ इति । त्वन्मायया त्वदिच्छया । त्वदधीनप्रकृत्या वा । संवृतम् आवृतं चेतो येषां ते अज्ञानिन इति यावत् । त्वां सृष्ट्यादिकार्यभेदेन । नाना भिन्नं पश्यन्ति जानन्ति । ये विपश्चितो ज्ञानिनस् ते न पश्यन्ति ॥२९॥

बिभर्षि रूपाण्यवबोध आत्मन् क्षेमाय लोकस्य चराचरस्य ।

सत्वोपपन्नानि सुखावहानि सतामभद्राणि मुहुः खलानाम् ॥ ३० ॥

पदरत्नावली

तत्तत्कालप्राप्तानर्थपरिहारलक्षणपालनं चावतारलक्षणस्वरूपग्रहणेनेत्याह बिभर्षीति ॥ अवबोध आत्मन् ज्ञानस्वरूपे त्वय्यधिकरणे स्वेच्छयैव रूपाणि बिभर्षि । अनेन शुक्रशोणितसम्बन्धं निवारयति । क्षेमाय तत्तत्कालप्राप्तविपत्परिहारलक्षणपालनाय । ‘क्षेमो ना प्राप्तरक्षायाम्’ इति यादवः । कीदृशानि रूपाणि? सत्वोपपन्नानि । बलज्ञानादिसर्वगुणसमाहार-युक्तानि । सतां मुहुरिह परत्र च सुखकराणि । कंसादिखलानामभद्राणि तमआद्यमङ्गलकराणि

॥ ३० ॥

सत्यधर्मीया

त्वमनुग्रह इत्युक्तानुग्रह एतद्रूप इति निरूपयति ॥ बिभर्षीति ॥ हे आत्मन् स्वामिन् । त्वं चराचरस्य समस्तस्य लोकस्य क्षेमाय तदर्थमवबोधे सुखक्षेमादिसाधने ज्ञाने सति तन्निमित्तीकृत्येति यावत् । सतां सत्त्वोपपन्नानि बलज्ञानसमाह्रियायुक्तानि । सत्त्वं स्वातन्त्र्यमुद्दिष्टं तच्च कृष्णे न चापरे । अस्वातन्त्र्यात्तदन्येषां न सत्त्वमित्याद्येकादशतात्पर्योक्तेः स्वातन्त्र्योपपन्नानीति वा सुखावहानि । चराचरस्य लोकस्येत्युक्तापवादमाह । खलानां कंसादीनां मुहुरिह परत्र चेति वा पुनः पुनरुत्पत्ताविति वा । अभद्राणि दुःखतमआद्यमङ्गलदानि रूपाणि बिभर्षि तत्तदापदपनुत्त्यै तत्तत्समययोग्याङ्गानि धरसीति त्वमनुग्रह इत्यर्थः । यान्यभद्राणि दित्यपत्यानि तेषां खलानां मुहुः सुखस्यावहान्यप्रापकाणीति वाऽऽवृत्त्याऽन्वयः । अनेनाभद्राणि रूपाणीति शब्दतः प्राप्ताभद्रता विद्रावितेति ध्येयम् ॥ ३० ॥

सुमनोरञ्जिनी

न केवलमन्तःस्थित्वा सत्तादिदातृतया रक्षको ऽपि तु बहिरप्यवताररूपेण प्राप्तानर्थपरिहारद्वारा क्षेमकर इत्याह ॥ बिभर्षीति ॥ अवबोध आत्मन् ज्ञानस्वरूप । असंधिरार्षः । त्वं चराचरस्य स्थावरजङ्गमात्मकस्य लोकस्य क्षेमाय रूपाण्यवताराणि बिभर्षि धत्से । कीदृशानीत्यतः सत्वेन सर्वगुणसमुदायेन उपपन्नानि युक्तानि । तदुक्तमाचार्यैः–

सदा सर्वगुणाढ्यत्वात्सत्ववान् हरिरुच्यते ।

न तु सत्वगुणात्मत्वाद्यतस्त्रिगुणवर्जितः ॥ इति ।

सतां सुखावहानि प्राप्तानर्थपरिहारेण सुखकराणि । मुहुः खलानाम् अभद्राणि दुःखकराणि इति

॥ ३० ॥

विरोधोद्धारः

बिभर्षीति ॥ अत्र अव बोधेति सम्बोधनपक्षे सन्धिभङ्गः । प्रथमाया-मात्मविशेषणानुपपत्तिः । सप्तम्यामन्वयानुपपत्तिः । किं च निर्गुणस्य भगवतः सत्त्वोपपन्नत्वमपि न युज्यते । अपि च चरशब्देन सतां खलानां च ग्रहणसिद्ध्या पुनः सत्खलग्रहणात्पुनरुक्तिप्रसङ्गः । पूर्वं चरान्तर्वर्तिखलानामपि क्षेमायेत्यनेन क्षेमकारकत्वे सिद्धे पुनरभद्राणीत्यनेनाशुभत्वकथने व्याघातश्चेति चेन्न । अभिप्रायसद्भावात् । तथा हि । रूपाणि बिभर्षीत्यनेनास्मत्सदृशजडशरीरात्मकरूपग्रहणं प्रसज्येतेत्यतोऽवबोधे ज्ञानात्मके ॥ आत्मन् आत्मनि स्वरूपे । इयं विषयसप्तमी तृतीयार्थे । द्वितीयार्थे तृतीयार्थे पञ्चम्यर्थे च सप्तमी । चतुर्थ्यर्थे च विज्ञेया विषयेति च यां विदुरिति महा-व्याकरणे । आत्मन्निति तु सप्तमी छान्दसी । परमे व्योमन्नित्यादौ दृष्टत्वात् । ज्ञानात्मकस्वरूपे-णेत्यर्थः । रूपाणि मत्स्याद्यवतारान् । बिभर्षि धत्से । यद्वा । हे आत्मन् अवबोधो ज्ञानस्वरूपस्त्वम् । अनेन कस्मिन्नप्यवतारे जडशरीरसम्बन्धो नास्तीति ध्वनितम् । चराचरस्य भूमिर्दृप्तेत्यादि व्यसनं समवोचतेत्यन्तेन भूलोकस्य चरत्वसिद्धेर्महाभूतात्मकत्वेनाचरत्वसिद्धेश्च चराचरस्य लोकस्येत्यनेन भूलोको गृह्यते । तस्य मोक्षायेत्यनेनाधिकरणक्षेममेवाभ्युपेयते नाधेयक्षेमम् । सत्त्वं स्वातन्त्र्यमुद्दिष्टमिति भागवततात्पर्योक्तेः ॥ सत्त्वोपपन्नानि स्वातन्त्र्योपेतानीत्यर्थः । इदानीमाधेय-विशेषाणां क्षेमाक्षेमकरत्वमाह ॥ सुखेति ॥ सतां सुखावहानि खलानामभद्राणीति । मुहुरित्यनेन सार्वकालिकोऽयं नियमः सूच्यते इत्यतो न कश्चित्क्षुद्रशङ्कावकाशः ॥ ३० ॥

त्वय्यम्बुजाक्षाखिलसत्त्वधामि्न समाधिनाऽऽवेशितचेतसो ये ।

त्वत्पादपोतेन महत्कृतेन कुर्वन्ति गोवत्सपदं भवाब्धिम् ॥ ३१ ॥

तात्पर्यम्

‘सदा सर्वगुणाढ्यत्वात्सत्ववान् हरिरुच्यते । न तु सत्वगुणात्मत्वाद्यत- स्त्रिगुणवर्जित’ इति नारदीये ॥ ३१ ॥

पदरत्नावली

सतां सुखावहानीत्येतद् विवृणोति त्वयीति । अखिलसत्त्वधामि्न सदा सर्वगुणानामाधारभूते त्वयि समाधिना उपासनया आवेशितचेतसः निवेशितचित्ता ये पुरुषास् ते भवाब्धिं संसारसागरं घोरं त्वत्पादपोतेन भवच्चरणरूपप्लवेन महद्भिः स्वस्वापेक्षयोत्तमैस् तत्वेन कृतेन गोवत्सपदं कुर्वन्ति । यथा गोवत्सचरणभारकृतनिम्नस्थितजलमयत्नेन तरन्ति तथेत्यन्वयः ॥ ३१ ॥

सत्यधर्मीया

त्वय्यम्बुजाक्षाखिलसत्त्वधाम्नीति श्लोके धाम स्वरूपमुद्दिष्टमाश्रयस्तेज एव चेत्यभिधानात्सत्त्वगुणस्वरूपता विष्णोः प्रतीयते । सा च न तस्य प्राकृता मूर्तिर् निर्गुणं निर्विकार-मित्यादिनाऽवमानितेति नारदीयवचनेन सत्त्वशब्दार्थमाह ॥ सदेति ॥ सर्वगुणाढ्यत्वात्त-दात्मकत्वादित्यर्थः । सत्त्ववान्विशेषशक्त्या हरिरुच्यते न तु सत्त्वगुणात्मकत्वात् । तत्र तन्त्रं यतस्त्रिगुणवर्जित इति । विशेषाभावः सामान्याभावेन साध्यः । यद्वा त्रयो गुणा यस्य तदव्यक्तं प्रकृतिस्त्रिगुणपदवाच्यं तेन वर्जितः प्रकृतिसम्बन्धवैधुर्यात्प्राकृतगुणविधुर इति सत्त्ववर्जित इति वा । अनेनातीतपद्यगतं सत्त्वपदं व्याख्यातमिति वेदितव्यम् ॥ ततश्चायं श्लोकार्थः ॥ हे अम्बुजाक्षाम्बुजे कमले इवाक्षिणी यस्य तत्सम्बुद्धिः । अखिलं सत्त्वं सर्वे गुणास्त एव धाम स्वरूपं यस्य स तस्मिन्सकलगुणाढ्य इति वा । समाधिनोपासनया निवेशितं चेतो येषां ते तथा ये ते भवाब्धिं संसारशरधिं त्वत्पादपोतेन त्वच्चरणतर्या महद्भिः स्वस्वापेक्षयोत्तमैस्तत्त्वेन कृतेन गोवत्सपदं कुर्वन्ति । पादपोतनिरीक्षणमात्रेण वत्सपदीभवनं भवाब्धेरिति भावः ॥ ३१ ॥

सुमनोरञ्जिनी

प्रागुक्तमोक्षप्रदत्वं साधनाभिधानमुखेन विशदयति ॥ त्वयीति ॥ हे अम्बुजाक्षअखिलसत्वानां सर्वप्राणिनां धामि्न आधारभूते । अखिलसत्वेषु धाम स्वरूपं यस्येति वा सर्वान्तर्यामिणीत्यर्थः । ये समाधिना ध्यानेन आवेशितं तत्रैव निक्षिप्तं चेतो येषां ते तथाविधा भक्तास् त्वत्पादपोतेन उपासितेन त्वत्पादाख्यप्लवेन । उडुपन्तु प्लवः पोत इत्यभिधानम् । कीदृशेन, महद्भ्यः महान्तो गुर्वादयस् तेभ्यस् तदुपदेशेनेति यावत् । कृतेन स्वीकृतेनेत्यर्थः । महत्वेन लौकिकविलक्षणत्वेन कृतेन अङ्गीकृतेनेति वेत्यर्थः । सद्भिरिति शेषः । तदुक्तं तात्पर्ये–

भगवत्पादपोतोऽसौ नान्यपोतसमो भवेत् ।

सन्निधायापि शिष्येषु तमेव प्राप्नुयुर्यतः ॥ इति वामने ।

तेन ध्यानेन महद् विस्तीर्णं यथा भवति तथा कृतेनेति पदरत्नावल्याम् । भवाब्धिं संसारसमुद्रं गोवत्सस्य पदमिव कुर्वन्ति तद्वदनायासेन तरन्तीति सम्बन्धः ॥ ३१ ॥

स्वयं समुत्तीर्य सुदुस्तरं द्युमन् भवार्णवं भीममदभ्रसौहृदाः ।

भवत्पदाम्भोरुहनावमत्र ते निधाय याताः सदनुग्रहो भवान् ॥ ३२ ॥

तात्पर्यम्

‘भगवत्पादपोतोऽसौ नान्यपोतसमो १भवेत् । २सन्निधायैव शिष्येषु तदेव३ प्राप्नुयुर्यत’ इति वामने ॥ ‘४भगवत्पादनौकाया नेयं नौकोपमा भवेत् । तया तीर्त्वा तु तामेव प्राप्य तिष्ठन्ति तत्र यदि’ति ब्राह्मे ॥ अतस्तामेव याताः ॥ ३२ ॥

पदरत्नावली

नन्वस्तु गोवत्सपदोपमो भवाब्धिः । महान्तस्ते तमुत्तीर्य कुत्र यान्तीति तत्राह स्वयं समुत्तीर्येति । हे द्युमन् तेजोमूर्ते ये अदभ्रसौहृदाः स्वस्वयोग्यबहुलभक्तिभरिताः स्वयमकृत्रिमया भवत्पादोम्भोरुहनावा सुदुस्तरमितरैर् भीमं घोरं भवार्णवं समुत्तीर्य तीर्त्वा स्थितास्तेऽत्र योग्यादिषु शिष्यादिषु भवत्पदाम्भोरुहनावं निधाय उपदेशादिना स्थापयित्वा स्वयमपि तां भवत्पदाम्भोरुहनावमेव याताः । नान्यद् याता इति यदतो भवान् सत एवानुगृह्णातीति सदनुग्रहः । ननु सत्त्वोपपन्नानीत्यादौ सत्त्वगुणात्मकत्वप्रतीतेस्तत्तीर्त्वा पुनस्तत्प्राप्तिरित्युक्तिः कथं स्यात्? परब्रह्मणस्तावत् सत्त्वादित्रिगुणविधुरत्वाद् इति चेद् । उच्यते । अत्र सत्त्वशब्देन न सत्त्वगुणविवक्षा किन्तु ज्ञानादिगुणसामग्री, प्रामाणिकत्वात् । तदुक्तम् ‘सदा सर्वगुणाढ्यत्वात् सत्त्ववान् हरिरुच्यते । न तु सत्त्वगुणात्मत्वाद् यतस्त्रिगुणवर्जितः’ इति । त्वत्पादपोतेनेत्यनेन भगवद्भक्तस्य शिवादिपादपोतपुरुषाद् वैशिष्ट्यं ज्ञाप्यते । तदुक्तम् ‘भगवत्पादपोतोऽसौ नान्यपोतसमो भवेत् । सन्निधायापि शिष्येषु तमेव प्राप्नुयुर्यतः ॥’ इत्यादि । लोके नौतीर्णस्य तां विहाय देशान्तर-गमनदर्शनात् कथं तामेवाश्रिता इति युज्यत इति चेन्न । लौकिकनौकातो भगवत्पादनौकाया बहुलवैलक्षण्यात् । तदुक्तम्– ‘भगवत्पादनौका या नेयं नौकोपमा भवेत् । तया तीर्त्वा तु तामेव प्राप्य तिष्ठन्ति तत्र यत्’ इति ब्राह्मे । अस्यार्थः – या भगवत्पादनौका इयम् अन्यनौकोपमा न भवति, कुतः ? तया भगवत्पादनावा भवाब्धिं तीर्त्वा श्रीहरिपादनावं तामेवाश्रित्य सुखं तिष्ठन्तीति यस्मात् तस्मादिति । लोके च कर्णधारादयस् तयाऽब्धिं तीर्त्वा तत्तीर एव तामाश्रित्य तिष्ठन्तो दृश्यन्ते इत्यतोऽविषमो दृष्टान्त इति वा ॥ ३२ ॥

सत्यधर्मीया

पूर्वश्लोके नौकात्वं हरिचरणस्योक्तम् । न लोके नौकामधिरुह्य परम्पारमेत्य पुनर्नौकां केऽपि प्राप्नुवन्ति । किञ्च तां निधाय यानं च कथमित्यतस्तत्तात्पर्यं लोकनौकावैलक्षण्य-मुपपाद्याह ॥ भगवदिति ॥ भगवत्पादपोतो भगवत्पादनौकाऽन्यपोतसमो लौकिकनौकासदृशो न बतेत्यास्वादने । शिष्येषु सन्निधायोपदेशापदेशेन निधाय तदेव तमेव पोतं यतः प्राप्नुयुस्ततो नोक्तसमः । प्रमाणान्तरमुक्तार्थ उक्त्वा तं दृढयति ॥ भगवत्पादेति ॥ भगवत्पादनौकाया इयं लौकिकी नौका, उपमीयत इति उपमा सदृशी नैव भवेत् । येयं भगवत्पादनौका सा नौकोपमा सादृश्यं यस्याः सा तत्सदृशी नैव भवेत् । किं कृतं वैलक्षण्यमित्यत आह ॥ यद्यतस्तयेति ॥ तुरवधारणे । तया तीर्त्वा तामेव प्राप्य तत्रैव तिष्ठन्ति ततो न सदृशीत्यर्थः । अत एतद्धेतोस्तामेव याता इति मूले उक्तिरुपपद्यत इति शेषः ॥ ततश्चायं श्लोकार्थः ॥ पूर्वमुक्तमनुग्रहमेवमित्याह ॥ स्वयमिति ॥ हे द्युमन्ज्ञानतनो । अदभ्रसौहृदा बहुलभक्तिमन्तः सुदुस्तरमितरैर्भीमं भीष्मं भवार्णवं संसारसमुद्रमतिशोभनं स्वदैवमनुसृत्य, स्वस्य स्वशब्दवाच्यस्य यं ज्ञानं यस्मिंस्तद्यथा भवति तथेति वा । अयः शुभावहो विधिः । येति ज्ञानमित्यादेः । समुत्तीर्य । समाऽपुनरावृत्तिं द्योत्यते । तीर्त्वा । अत्र शिष्यादिषु भगवत्पादाम्भोरुहनावं निधायोपदेशादिना स्थापयित्वा स्वयमपि तामेव याता अतो लौकिकनौकातोऽयं पोतो विलक्षण इति भावः । एवं भवांस्तत्तदौपसदतारकसदनुग्रहः । सतोऽनुगृह्णातीति स वा । सत्स्वनुग्रहो यस्येति वा । सन्नुत्तमोऽनुग्रहो यस्येति वा । अत्रत इति पदमेकं वा । अतारं भगवन्तम् अते गते सच्छिष्ये अत्ताऽतो ज्ञातो येन तस्मिन्निति वा । जात्येकवचनं चेदं तदादाविति वा । तं शिष्यादिजनम् । हे द्युमन्निति सम्बोध्य बोधयित्वा समयज्ञानिन् त्वमपि अभवान् भवेऽनिति चेष्टते यः स भवान् स न भवतीत्यभवान् । सदनु-ग्रहश्चास्मद्वद्भवेति अदभ्रसौहृदा विनेये सन्तस्तत्र विने पूर्ववदुर्वरितम् । एवमाशिषा विशेष्य शिष्यं स्वयं तामेव याता इत्यावृत्त्याऽन्वय इति वा ॥ ३२ ॥

सुमनोरञ्जिनी

दलद्वयात्मकमोक्षे पूर्वदलमुपपाद्योत्तरदलं विशदयति ॥ स्वयमिति ॥ हे द्युमन् तेजोमूर्ते सु अत्यन्तं दुस्तरम् । भीमं भयङ्करम् । भवार्णवं समुत्तीर्य । त्वयीत्यनुवर्तते । अदभ्रं स्वयोग्यतानुसारेण पूर्णं सौहृदं स्नेहः भक्तिर्येषान्ते तथाविधाः परमभक्तिसंपन्नाः सन्त इति भावः । भवतः पदांभोरुहनावं, अत्र शिष्येषु निधाय उपदेशद्वारा संस्थाप्य, तामेव याताः सन्तस् तत्रैव तिष्ठन्तीत्यर्थः । ननु परमप्रसादमन्तरा कथं भगवत्प्राप्तिलक्षणमोक्षः स्यादिति तत्राह । यतो भवान्, सत्सु भक्तेषु अनुग्रहः प्रसादो यस्य तथाविधोऽत इति । अपरोक्षज्ञानेन परमभक्त्या जातपरमप्रसादेन संसारसंज्ञकलिङ्गभङ्गानन्तरं यथायोग्यं भगवत्प्राप्तिलक्षणं मोक्षं प्राप्नुवन्तीत्याशयः । लोके नौकया तीर्णानां, तां तीरे विहायैव गतिदर्शनात्कथं तामेव याता इत्युच्यत इति चेदत्राहुरा-चार्याः– भगवत्पादनौकाया नेयं नौकोपमा भवेत् । तया तीर्त्वा तु तामेव प्राप्य तिष्ठन्ति तत्र यत् ॥ इति । तामेव प्राप्य तत्रैव तिष्ठन्ति यतोऽतः लोकोपमा नेति सम्बन्धः ॥ ३२ ॥

येऽन्येऽरविन्दाक्ष विमुक्तमानिनस् त्वय्यस्तभावादविशुद्धबुद्धयः ।

आरुह्य कृच्छ्रेण परं पदं ततः पतन्त्यधोऽनादृतयुष्मदङ्घ्रयः ॥ ३३ ॥

पदरत्नावली

खलानामिति प्रागुक्तं, ते च किमाकारा इत्यतस्तान् विवृणोति येऽन्य इति । अरविन्दे ज्ञानात्मके अक्षिणी यस्येति तत्सम्बुद्धिः । रविन्दम् अन्धकारः स न भवतीत्यरविन्दं प्रकाशः, ज्ञानमिति यावत् । ‘अन्धकारो रविन्दान्धतिमिरं तम उच्यते’ इत्युत्पलमाला । ये सद्भ्योऽन्ये खलास् ते ततः परमपदाद् योगारूढाः पतन्तीत्यन्वयः । पतने कारणमाह अनादृतेति ॥ ‘अघिलघी गत्यर्थौ’ इति धातुपाठाद् अनुपासितभगवज्ज्ञानाः ॥ ज्ञानाभावे कारणमाह त्वयीति ॥ त्वय्यस्तभावात् त्वद्विषयभक्त्यभावाद् अविशुद्धबुद्धयः दुष्टान्तःकरणा दुष्टज्ञाना वा । किं कृत्वा पतन्तीति तत्राह आरुह्येति ॥ कृच्छ्रेण महता आयासेन परं पदं भगवत्प्राप्तिनिमित्तयोगमारुह्य सन्यासाश्रमं प्राप्य तदनुष्ठानसामर्थ्याभावात् पतन्तीत्यर्थः । योगमवाप्य तद्भ्रंशे निमित्तमाह विमुक्तेति । विमुक्ता वयमित्यभिमानो येषामस्तीति । ताच्छीलिको णिनिः । हे विमुक्तेति वा । अभिमान एव भ्रंशे कारणमित्यर्थः । विमुक्तोऽत्यक्तश्चासौ मानश्चाभिमानः सोऽस्ति येषां ते इति वा ॥ ३३ ॥

सत्यधर्मीया

खलानामिति प्रागभिहितम् । ते च किमाकारा इत्यत ईरयति ॥ हे अरविन्दाक्ष पद्माक्ष । अरविन्दे ज्ञानात्मके अक्षिणी यस्येति तत्सम्बुद्धिः । रविन्दोऽन्धकारः स नास्ति याभ्यां तौ रविशशिनौ अक्षिणि यस्य स तत्सम्बुद्धिरिति वा । अन्धकारो रविन्दान्धतिमिरं तम उच्यत इत्युत्पलमाला । अन्ये सत इतरे । कृच्छ्रेण तप आदिश्रमेण परं पदं योगादिकमारुह्य ततः पुनरधः पतन्ति । कुत इत्यतः सपरिकरमीरयति ॥ त्वयीति ॥ अस्तश्चासौ भावो भक्तिः । अनादृतयुष्मदङ्घ्रयोऽनादृते युष्माकमङ्घ्री यैस्तैरसम्पादितयुष्मज्ज्ञाना वा । अधिर्गत्यर्थ इति ज्ञानार्थः । अस्तभावादनन्तःकरणादिति वा । आदरो भजनं भक्तिरिति गीताभाष्योक्तेरनादृतेत्यनेनैवा-भक्तिपूर्वकताप्रतीतेरिति वा । अतश्चाविशुद्धबुद्धयोऽपक्वज्ञानिनः । सर्वसम्भावकमवगमयति ॥ विमुक्तमानिन इति । विमुक्तोऽत्यक्तश्चासौ मानश्चाभिमानः सोऽस्ति येषामिति ते तथा । यद्यपि बहुव्रीहिणा निर्वाहस्तथापि तेषां निन्दनीयताऽधिका वेदिता भवतीति मतुपः सार्थक्यमवधेयम् । अस्तभा अस्ता निरस्ता भा त्वद्विषयद्योतो येषां तेऽस्तभाः । तर्हि सा क्व वर्तत इत्यत आह ॥ वादविशुद्धबुद्धय इति ॥ वेदपातनिकार्थवचने विशुद्धा बुद्धिर्येषां ते तथा । यथोक्तं गीताभाष्ये । वेदवादरता वेदैर्यन्मुखत उच्यते तत्रैव रताः । वादो विषयकत्वं च मुखतो वचनं स्मृतमिति वा

॥ ३३ ॥

सुमनोरञ्जिनी

भक्तेर्मोक्षहेतुत्वेऽन्वयमुक्त्वा व्यतिरेकव्याप्तिमाह ॥ येऽन्य इति ॥ हे अरविन्दाक्ष अरविन्दे इवाक्षिणी यस्यासौ । रविन्दोऽन्धकारः । अन्धकारो रविन्दान्धतिमिरं तम उच्यत इत्यभिधानात् । तद्विरोधिनौ चन्द्रसूर्यौ तावेवाक्षिणि यस्यासाविति वा । येऽन्ये सद्भ्योऽन्ये विमुक्तमानिनः वयमेव विमुक्ता इत्यभिमानिनस् त्वयि (अस्तान्निरस्ताद् भावाद् भक्तेः) । भक्त्यभावान्निमित्तादिति यावत् । अविशुद्धा कामादिदोषदुष्टा बुद्धिर्येषान्ते तथोक्ता ये जनास्ते कृच्छ्रेण श्रमसाध्येन काम्यकर्मणा परम् अस्माल्लोकाद्विलक्षणं पदं स्वर्गादिस्थानम् आरुह्यापि पतन्ति । कुतः । यतोऽनादृतयुष्मदंघ्रयः, न आदृते युष्मदङ्घ्री यैस्ते । भवत्पदारविन्दे भक्तिशून्या इत्यर्थः । आदरो भजनं भक्तिरिति वचनात् । अनादृतयुष्मदङ्घ्रित्वात्स्वर्गादेरपि पतनं यदा तदा मोक्षे प्रत्याशा केति भावः । परं, पदं पद्यतेऽनेनेति पदं मोक्षपरोक्षस्थानम् आरुह्य प्राप्यापि अनादृतभवदङ्घ्रित्वा-त्पतंतीति वा योजना ॥ ३३ ॥

तथा न ते माधव तावकाः क्वचिद्

भ्रश्यन्ति मार्गात् त्वयि बद्धसौहृदाः ।

त्वयाऽभिगुप्ता विचरन्ति निर्भया

विनायकानीकपमूर्धसु प्रभो ॥ ३४ ॥

पदरत्नावली

भगवत्पदपद्मपरायणानां पुनः कर्हिचिदपि नैवाधःपतनमित्यावेदयति तथा नेति । तावकास् त्वत्सम्बन्धिनस् त्वयि बद्धसौहृदा एते, तथा परमपदाद् भ्रश्यमाना विमुक्तमानिन इव मार्गाद् उत्तमाश्रमान्न भ्रश्यन्तीत्यर्थः । अभिगुप्ता अभितो रक्षिताः । विनायको विघ्नराजः, तस्यानीकानि सेनाः श्रेयःप्रतिबन्धिनो विघ्नास्तानि पान्तीत्यनीकपा महाप्रत्यूहास्तेषां मूर्धसु, महाप्रत्यूहनिवहानतिक्रम्य श्रेयस एव यतन्त इति यावत् ॥ ३४ ॥

सत्यधर्मीया

यदन्येषां दशाऽन्यरूपा तत्प्रतियोगिनस्त्वद्दयायोगिन एवमित्यावेदयति ॥ तथेति ॥ हे माधव प्रभो तावकाः षष्ठादौ, गतम् । त्वत्सम्बन्धिन एते तथा त इव त्वयाऽभिगुप्तास्त्वयि बद्धसौहृदा मार्गात्सतः क्वचिदपि न भ्रश्यन्ति भ्रष्टा न भवन्ति । निर्भया अतीतभीतयो विनायकानीकपमूर्धसु विनायको गणेशस्तस्यानीकानि सेना विघ्नास्तानि पान्तीत्यनीकपा महाप्रत्यूहास्तेषां मूर्धानः शिरांसि तेषु विचरन्ति घनान्विघ्नानपि ते घ्नन्तीत्याशयः । आनते त्वयीत्यप्यन्वयः । सर्वजननमस्कृत इत्यर्थः ॥ ३४ ॥

सुमनोरञ्जिनी

किं समं प्रकृतेऽपीति तत्राह ॥ तथेति ॥ हे माधव माया रमाया धव स्वामिन् । मा धवो यस्येति वा । मधुकुलोद्भवत्वाद्वा माधव ये तावकास् ते तथा अनादृत-भवदङ्घ्रय इव क्वचिदपि मार्गान् न भ्रश्यन्ति भ्रष्टा न भवन्ति । तत्र हेतुस् त्वयि बद्धं सौहृदं भक्ति-लक्षणं यैस्ते तथोक्ता यतोऽत इति । ननु श्रेयांसि बहुविघ्नानीति वचनाद् विघ्नवशाद्भ्रंशस्तेषामपि किं न स्यादिति तत्राह ॥ त्वयेति ॥ भक्त्या प्रसन्नेन त्वयाऽभिगुप्ताः संरक्षिताः सन्तो विनायका विघ्नाः, विनायकस्तु हेरम्बे तार्क्ष्ये विघ्ने जिने गुराविति विश्वः । तेषामनीकानि समुदायास्तानि पान्ति ये ते विनायकानीकपास् तेषां मूर्धसु निर्भया विचरन्ति विघ्नान् जयन्तीत्यर्थ इति पदरत्नावली-रीत्याऽर्थो द्रष्टव्यः । विनायकस्य विघ्नेशस्य अनीकानि स्तोमा विघ्ना इत्यर्थ इति केचित् । तथा च त्वद्भक्तानां विघ्नभयमपि नास्तीति भावः ॥ ३४ ॥

सत्त्वं विशुद्धं श्रयते भवान् स्थितौ शरीरिणां श्रेयउपायनं वपुः ।

वेदक्रियायोगतपःसमाधिभिस्तवार्हणं येन जनः समीहते ॥ ३५ ॥

तात्पर्यम्

‘विशुद्धसत्वं ब्रह्मादेः २शरीरे संस्थितो हरिः । तेषामादेशमार्गेण वेदाद्यैरर्चयन्ति तमि’ति भागवततन्त्रे ॥ ३५ ॥

पदरत्नावली

अधुना कस्मिन्नधिष्ठाने स्थितो हरिः पूज्यः कैः साधनैरिति तत् स्पष्टयति सत्त्वमिति ॥ स्थिताविति सप्तमी चतुर्थ्यर्थे । स्थितौ ज्ञानस्थिरीकरणाय भवान् सत्त्वं वपुर् विशिष्य शुद्धसत्त्वात्मकं ब्रह्मादिशरीरं श्रयते । यथोक्तं स्कान्दे ‘सात्त्विकाः सात्त्विकास्तत्र तात्त्विकाः परिकीर्तिताः । तेषां च सात्त्विकाः शेषगरुत्मद्रुद्रतत्स्त्रियः । ततोऽपि देवी ब्रह्माणी ब्रह्मा चैव ततः स्वयम्’ इति । तत्त्वविवेके च ‘मानुषापेक्षया देवाः सात्त्विकाः परिकीर्तिताः । तत्रापि सात्त्विकाः प्रोक्तास्तात्विका यास्तु देवताः । तत्रापि सात्त्विको रुद्रस्तत्रापि च चतुर्मुखः’ इति । शरीरिणां ज्ञानार्थिनां जीवानां श्रेयउपायनं श्रेयःसाधनम् । जनो येन ब्रह्मादिशरीरे स्थितेन हरिणोपदिष्टमार्गेण वेदादिभिस्तवार्हणं पूजां समीहते करोति । अतस्त्वत्प्रसादादवाप्तं ज्ञानमेव स्थितं भवतीत्यर्थः । तदुक्तम् ‘विशुद्धसत्त्वं ब्रह्मादेः शरीरे संस्थितो हरिः । तेषामादेशमार्गेण वेदाद्यैरर्चयन्ति तम्’ इति ॥ ३५ ॥

सत्यधर्मीया

सत्त्वं विशुद्धं श्रयते भवान् स्थितौ शरीरिणां श्रेयउपायनं वपुरिति श्लोकेऽतीतश्लोकेऽन्यत्रापि सदा सर्वगुणाढ्यत्वादित्यादिव्याकरणप्रकारेण भगवद्वाचकत्वेऽङ्गीकृते तवार्हणं येनेति न वक्तव्यं स्यात्तथा शुद्धसत्त्वगुणात्मकं वपुराश्रयत इत्यपि ज्ञानानन्दतनुमत्त्वाद्बाधितमित्यतोऽत्र युक्तं सत्त्वशब्दार्थं मानेनाह ॥ विशुद्धेति ॥ सुविशुद्धसत्त्वे सत्त्वसत्त्वसत्त्वप्रचुरादित्वेन ब्रह्मादेः शरीरे यो हरिः स्थितस्तेषां ब्रह्मादीनां शरीरस्थभगवदादेशेन एष आदेश एष उपदेशस्तन्मार्गेण वेदाद्यैस्तदुपदिष्टैर्येऽर्चयन्ति । अर्चयो ज्ञानिनो तद्वदाचरन्ति तद्बाहुल्यात्तत्त्वेन व्यपदेशः । अग्नेर्भ्राजन्त्यर्चय इत्यादेरर्चिन्शब्दपर्यायोऽयमर्चिशब्दः । इनित्विदन्तोऽप्यस्तीति भानुः । ते ज्ञानिनोऽर्चयन्ति पूजयन्ति ॥ अयं श्लोकार्थः ॥ कुत्र तिष्ठति किंसाधनेऽनुष्ठिते भगवांस्तुष्टः स्यादिति किमुपदेशेन जायमानमानवसभाजनीयो जनार्दन इत्यत आह ॥ सत्त्वमिति ॥ भवान्विशुद्धं सत्त्वं ब्रह्मादेर्वपुर्देहं शरीरिणां ज्ञानादिप्राप्तियोग्यतावत्प्रशस्तशरीरवतां श्रेय उपायनं श्रेयसामधिकाश्रयम् । स्थितौ तादर्थ्ये सप्तमी । प्राप्तप्रतिपत्स्थिरतायै श्रयते जनो येन तत्कायनिकायेन हरिणा । अकायेत्यादेर् न यच्छब्दोऽयं किन्तु यशब्दः । वेदाः, क्रिया ज्योतिष्टोमादयो, योग इति चोपायवाचि सत्काकाक्षिन्यायेन वेदक्रियायोगौ तद्रूपोपायौ पुनर्योगौ, तौ च तपःसमाधी चेत्यन्वेति । ततश्च वेदः क्रिया तपः समाधियोगैरिति सिद्ध्यति । यद्वा क्रियायोगो ज्योतिष्टोमादिरितरत्पूर्ववत् । तैः करणैस्तवार्हणमर्चनं समीहते करोति । विध्याद्यधिष्ठातृत्वदुपदेशलब्धोपलब्धिः स्थैर्यं भजते स जनस्त्वामर्चतीति साधनाधिष्ठानं चोक्तं भवति ॥ ३५ ॥

सुमनोरञ्जिनी

सत्यस्य सत्यमित्यादिना पूर्वोक्तं ज्ञानप्रदत्वं विवृणोति ॥ सत्वमिति ॥ भवान् स्थितौ स्थितिकाले विशुद्धं रजस्तमोभ्याममिश्रितं सत्वं सत्वगुणात्मकं वपुर् ब्रह्मादिशरीरं श्रयते आश्रयते । ततस्तद्वपुः । शरीरिणां जीवानां श्रेयसः ज्ञानादिलक्षणस्य उपायनं निमित्तं भवति । अतो जनस्तेन ब्रह्मादिशरीरस्थितभगवदुपदिष्टमार्गेण वेदा ऋगादयः, क्रिया अग्निहोत्रादयः, योगः श्वासधारणादिः, तप उपोषणादिव्रतं, समाधिर् हरौ मनोनिवेशनम् । तैः साधनैस् तवार्हणं पूजां समीहते कुर्वन्तीति योजना । तदुक्तम्–

विशुद्धसत्वं ब्रह्मादेः शरीरं संस्थितो हरिः ।

तेषामादेशमार्गेण वेदाद्यैरर्चयन्ति तम् ॥ इति ।

विशुद्धसत्वात्मकं ब्रह्मादेः शरीरं संस्थित आश्रितो हरिर्यतोऽतस्तेषां ब्रह्मादीनाम् आदेश उपदेशस्तेन मार्गेण तदुपदेशरूपमार्गेणेत्यर्थः । तं हरिम् अर्चयन्ति विद्वांस इति शेषः ॥ ३५ ॥

सत्त्वं न चेद् धातरिदं निजं भवेद् विज्ञानमज्ञानभिदापमार्जनम् ।

गुणप्रकाशैरनुमीयते भवान् प्रकाशते यस्य च येन वाऽगुणः ॥ ३६ ॥

तात्पर्यम्

‘सत्वं ब्रह्मादिदेहाख्यं ज्ञानरूपं तमोनुदम् । यदि न स्यात्तदा सत्व-प्रकाशानुमितो विभुः । यदि न स्यात्परो विष्णुः कथं विद्वज्जना अमुम् । अर्चयन्तीति १तत्त्वस्य जिज्ञासुभिरधोक्षजः । कथं ज्ञायेत कस्यापि निर्गुणत्वात्परो विभुरि’ति तन्त्र-भागवते ॥ ३६ ॥

पदरत्नावली

ब्रह्मादेः सत्त्वप्रचुरदेहेषु भगवतो नित्यसन्निहितत्वात् तेषां साक्षादधोक्षजज्ञानम् । अन्येषामज्ञानिनां तत्त्वजिज्ञासूनां तावदनुमानद्वारा ब्रह्मादिशरीरसन्निहितहरिप्रसादोत्पन्नं यज्ज्ञानं तज्ज्ञानमज्ञानान्यथाज्ञाननिरासद्वारा विज्ञानजनकं सत् पुरुषार्थसाधनं भवतीत्यत्र स्तूयते सत्त्व-मिति ॥ धातृविशुद्धसत्त्ववपुषि विष्णुसन्निधानाधिक्येन विश्वधारणपोषणकर्तृत्वेन च धातरिति सम्बुध्यते । भो धातः निजं स्वकीयं विज्ञानं विशिष्यं ज्ञानं यस्मात् तत् सत्त्वं ब्रह्मादिदेहाख्यम् अज्ञानभिदापमार्जनम् अज्ञानान्यथाज्ञाननिवर्तकम् । तस्मात् सत्त्वप्रधानदेहिनो ज्ञानिजनाः स्वस्वसन्निहितं त्वां स्वयं विज्ञाय सदा सम्पूजयन्तीति तेषां साक्षाद् भवान् प्रकाशत इति यावत् । निजं स्वाभाविकम् इदम् अज्ञानान्यथाज्ञाननिवर्तकं विज्ञानजनकं च सत्त्ववपुर्न भवेच्चेत् तर्हि तैस् तत्त्वजिज्ञासुभिर् गुणप्रकाशैः सत्त्वगुणप्रचुरज्ञानिजनोपदेशादिभिर्भवान् अनुमीयते अनुसृत्य ज्ञायते । सर्वोत्कृष्टो विभुर्भगवान् यदि न स्यात् तर्हि कथं खलु सत्त्वगुणोन्मेषिणामशेषप्रेक्षावतां गुणपूर्णनिर्दोषविष्णुविषयकशेमुषीविशेषः समुन्मिषेत ? कथं चैते वेदादिसदागमसन्दोहैरनवरतं हर्यर्चननिरता भवेयुः? हरिर्यदि न स्यात् तर्हि नैवाऽर्चयन्ति स्म । यस्माद् विद्वज्जना नित्यं नितरामर्चयन्ति तस्मादस्ति परतरो हरिरित्यनुमीयते । भगवत्सन्निधानातिशयवतां ज्ञानिनामनुग्रहाभावे तज्ज्ञानं दुर्मिलमेवेत्याह प्रकाशत इति ॥ अगुणः सत्त्वादित्रिगुणातीतो हरिर् यस्य कस्यचित् त्रिगुणबद्धस्य पुरुषस्य येन केन वा साधनेन प्रकाशते ? ज्ञातो भवेत् ? तदुक्तम् ‘सत्त्वं ब्रह्मादि-देहाख्यं ज्ञानरूपं तमोनुदम् । यदि न स्यात् तदा सत्त्वप्रकाशानुमितो विभुः । यदि न स्यात् परो विष्णुः कथं विद्वज्जना अमुम् । अर्चयन्तीति तत्त्वस्य जिज्ञासुभिरधोक्षजः । कथं ज्ञायेत कस्यापि निर्गुणत्वात् परो विभुः’ इति ॥ ३६ ॥

दुर्घटभावदीपिका

हे धातर्जगद्धारक विष्णो । इदं निजं स्वकीयं सत्त्वं ब्रह्मादिदेहाख्यः सत्त्वगुणः । सात्विकब्रह्मादिशरीरमिति यावत् । यस्य चेति चशब्दो येन वेति वाशब्द इत्येतौ परस्परसमुच्चयौ । अज्ञानभिदापमार्जनमज्ञानमिथ्याज्ञाननिवर्तकं च, विज्ञानं विशिष्टः सर्वोत्तम इति ज्ञानकारणं च यदि न स्यादिति यावत् । तर्हि येन केनाधिकारिणा यस्य कस्य साधनस्य सकाशा-द्भवान् सर्वोत्तम इति प्रकाशते ज्ञायेत न केनापि न कस्य साधनस्य सकाशाज्ज्ञायेत । मत्सर्वोत्तमत्वज्ञानमनुमानेन भवतीत्याशङ्कापरिहारायोक्तम् ॥ गुणप्रकाशैरनुमीयते भवानिति ॥ गुणप्रकाशैः पूर्णज्ञानानन्दादिगुणानां ज्ञानैर्ज्ञातैः । पूर्णज्ञानानन्दादिगुणैरिति यावत् । भवान् सर्वोत्तम इत्यनुमीयते । अनेन विष्णुः पूर्णज्ञानानन्दादिमानिति ज्ञानं (विना?) विष्णुसर्वोत्तमत्वानु-मितेरयोगात्पूर्णज्ञानानन्दादिज्ञानार्थं विष्णुरपेक्षित एवेति विष्णुरेव विष्णुसर्वोत्तमत्वज्ञानकारणमित्युक्तं भवति । अन्यत्राविद्यमानं सर्वोत्तमत्वं मम कुत इत्यत उक्तम् ॥ अगुण इति ॥ यतो भगवानगुणः सत्त्वादिगुणरहितोऽतः सर्वोत्तम इति ॥ ता.अर्थः ॥ ब्रह्मादिदेहाख्यं सत्त्वं सत्त्वगुणः सात्विको ब्रह्मादिस्थितो विष्णुरिति यावत् । तमोनुदमज्ञानमिथ्याज्ञाननिवृत्तिकारणम् । ज्ञानरूपं ज्ञानं विष्णुसर्वोत्तमत्वज्ञानं रूपयति निरूपयतीति ज्ञानरूपं विष्णुसर्वोत्तमत्वज्ञानकारणं यदि न स्यात् तदा तर्हि विभुर्विष्णुः परः सर्वोत्तम इति तस्य जिज्ञासुभिः कथं ज्ञायेत न कथमपि । विष्णुसर्वोत्तमत्वज्ञानमनुमानेन भविष्यतीत्यत आह ॥ सत्त्वप्रकाशानुमित इति ॥ अधोक्षजो विष्णुः सत्त्वप्रकाशानुमितः सत्त्वस्य साधुत्वस्य गुणपूर्णत्वस्येति यावत् प्रकाशेन ज्ञानेनानुमितः सर्वोत्तम इत्यनुमितो भवति । अतो गुणपूर्णत्वज्ञानार्थं विष्णुरपेक्षितः । गुणपूर्णत्वज्ञानार्थं विष्णुरपेक्षित इत्यनङ्गीकारे बाधकमाह ॥ यदीति ॥ विष्णुः स्वगुणपूर्णत्वज्ञानकारणं यदि न स्यात्तर्हि गुणपूर्णत्वज्ञानं कस्य साधनस्य सकाशात् स्यात् । न कस्यापि साधनस्य सकाशात् स्यात् । विष्णुसर्वोत्तमत्वज्ञानाभावे बाधकमाह ॥ कथमिति ॥ यदि विष्णुः सर्वोत्तम इति ज्ञातो न स्यात्तर्हि विद्वज्जना अमुं विष्णुं कथमर्चयन्त्यर्चयेयुः । विष्णुसर्वोत्तमत्वसम्भावकमाह ॥ निर्गुणत्वादिति ॥ विभुर्विष्णुर्निर्गुणत्वात्सत्त्वादिगुणरहितत्वात्परः सर्वोत्तम इति ॥ ३६ ॥

सत्यधर्मीया

एवमनर्थापने चैवमनर्थापत्तिरित्यनिष्टोपदर्शनेन पूर्वोक्तं सत्त्वाद्यर्थं व्यवस्थापयतः सत्त्वं न चेद्धातरिति पद्यस्य, प्रपञ्चमिथ्यात्वं हरेर्नैर्गुण्यं चार्थ इत्यन्यथाप्रतीतिं विवक्षितार्थाप्रतीतिं च प्रच्यावयितुं मानमेवाह ॥ सत्त्वमिति ॥ यदि ब्रह्मादिदेह इत्याख्या यस्य तत्सत्त्वम् । ज्ञानरूपं ज्ञानं रूपयत्युपदेशादिना प्रतिष्ठापयतीति तत्तथा न स्यात् । तमोनुदमज्ञानापनोदकं कथं स्यात्तदुपायाभावात् । यदि न स्यादज्ञाननिवर्तकं तदा विभुर्हरिः सत्त्वप्रकाशानुमितो ब्रह्माद्युपदेशप्रादुर्भूतं प्रकाशमनु अनुसृत्य मितो विषयीकृतः कथं स्यान्न कथमपि । यदा न तदज्ञानहानं तत्सत्तानिमित्तकं तत्र तत्र सन्निहितो हरिरिति परः सर्वविलक्षणो विष्णुरिति ज्ञानं क्व च स्यात् । न स्यात्तच्चेद्विद्वज्जना अमुं माधवं कथमर्चयन्ति । नानेकेषां मनीषिणां प्रमोषो वक्तुं शक्य इति विद्वज्जना इति बहुवचन-मर्चयेयुः । न हि हीनस्तज्ज्ञानेन तं सदाऽर्चयेदिति भावः । यदि ते तं नार्चयेयुस्तदा तत्त्वं जिज्ञासवस्तत्त्वजिज्ञासवस्तैः । नलोकेति षष्ठीनिषेधात् । कथं ज्ञायेत न कथमपि । नन्वर्चनचर्चनं विना न तज्ज्ञानमिति कुत इत्यत आह ॥ कस्यापि केनापीति न ज्ञायते तत्र तन्त्रं निर्गुणत्वात् । केनचिद्धर्मेण कश्चिद्धर्मी केनचिज्ज्ञेय इति लौकिकी रीतिरियम् । निर्गुण इतरज्ञानविषयताहेतुसत्त्वादि-गुणहीन इति प्रसादसौमुख्यमनासाद्य ज्ञानविषयो न भवतीत्यव्यक्तताऽनेन सूचिता । तदधिपतिर्नान्य इति नैतदसम्भावितमित्यप्याह ॥ निर्गुणत्वादप्रधानत्वादिति ॥ अनेन हरिर्नित्यमव्यक्तः स्वातन्त्र्येण गुणत्रयातीतत्वात् । तथा हरिर्गुणत्रयातीतः सर्वप्राधान्याद् व्यतिरेकेण स्वेतरसर्व-वदित्यनुमानमशुष्कं मानमुक्तं वेदितव्यम् । ननु प्रत्यक्षादिप्रमाणतोऽन्यथापि ज्ञायत इति सर्वमुक्तं गजमज्जनायितमित्यतोऽधोक्षज इति । अधःकृतः शुष्कप्रत्यक्षादिरिति न तद्बाधः । नेन्द्रियाणि नानुमानं वेदा ह्येवैनं वेदयन्तीत्यादेरर्थत उपादानम् । हरिः परः सर्वोत्कृष्टो विभुत्वादिति सूचयितुं विशेषणद्वयम् । वैपरीत्येन वेति ज्ञेयम् । विविधं भावयत्युत्पादयति सत्तावत्करोतीति विभुस्तदुत्पादकतया तत्सत्ताप्रापकतया तद्वशकत्वमुक्तम् । तच्च न तत्परत्वं विना सम्भवत्तदाक्षिपति । यथोक्तमाचार्यैरन्यत्र । यदि नाम परो न भवेत्सः हरिः कथमस्य वशे जगदेतदभूदिति । यदि न चेत्कथमित्यादीनां यथायथमावृत्त्याऽन्वयप्रदर्शनमुत्तरतात्पर्यपर्यालोचनमूलमिति मन्तव्यम् । तत् तत्त्वं जिज्ञासुभिस्तत्त्वस्य जिज्ञासुभिरिति पाठद्वयम् । द्वितीयपाठे तत्त्वसम्बन्धिजिज्ञासावद्भिरित्यर्थः । परोविभुरिति पदमेकं वा । परस्माद्ब्रह्मादेः परं परो श्रीतत्त्वम् । तदपेक्षया विभुर्गुणतो व्याप्त इति परोविभुः । परस्मादुत्तमं प्रोक्तं परो इति छान्दोग्यभाष्योक्तेः ॥

ततश्चायं श्लोकार्थः ॥ हे धातः सकलजगद्धारक हरे । इदं निजं स्वकीयं विज्ञानं विशिष्टज्ञानं यस्मात्तत्सत्त्वं ब्रह्मादिदेहाख्यम् । अज्ञानभिदापमार्जनं भिदाऽन्यथाज्ञानं तयोरपमार्जनमपमार्जकं निवर्तकमिति यावत् । न भवेच्चेद्यदि न भवेत्तर्हि तद्विमतज्ञानजनकेन केनचिद्भवितव्यम् । कार्यमात्रस्य सकारणकत्वात् कार्यं चेदमिति । गुणप्रकाशैः सत्त्वाद्युत्पन्नज्ञानैर्भवाननुसृत्य मीयते ज्ञायत इति यदि न स्यात्तर्ह्यगुणो भवान् यस्य कस्य । यतश्चोदेति सूर्य इत्यादेः । येन साधनेन प्रकाशते ज्ञायते । अत्रेदमाकूतम् । ब्रह्मादिदेहगेहनारायणानुग्रहेण ज्ञानमज्ञानमिथ्यज्ञानहानिदत्वेन श्रेयःसाधनं न स्यात्तर्हि ज्ञानाभावेनानुमापकहेतुज्ञानं न स्यात् । तद्यदि न स्यात्तज्ज्ञानं दुर्मिलं यदि तत्तथा कस्य च पूजा जायेत सा च यदि नाम न स्यात्स्याज्जगदन्धं तच्चानिष्टम् । कश्चिन्मां वेत्ति तत्त्वतः । प्रियो हि ज्ञानिनोऽत्यर्थमहं स च मम प्रिय इत्यादिमानदुराननतापत्तेः । अतो विज्ञानमज्ञा-नभिदापमार्जनं भवत्पुरुषार्थसाधनं भवतीति सिद्धमिति ॥ ३६ ॥

सुमनोरञ्जिनी

विपक्षे बाधकप्रदर्शनेन पूर्वोक्तं समर्थयते ॥ सत्वमिति ॥ हे धातः धारणपोषणकर्त इदं सत्वं ब्रह्मादिदेहाख्यं निजं त्वत्सन्निधानपात्रं न चेत्तर्हि विज्ञानं विशिष्टज्ञानरूपम् अन्येषामज्ञानभिच्च न स्यात् । अस्त्विति चेत्तर्हि स्वस्यैव ज्ञानाभावे परोपदेशासंभवेन गुणप्रकाशैः शुद्धसत्वगुणोत्पन्नज्ञानैर्ब्रह्मादिभिरुपदेशकैर्निमित्तैर्भवान् तत्वजिज्ञासुभिरनुमीयते यथावज्ज्ञायत इति यत् तन् मार्जनमाप तन्न स्यादित्यर्थः । अनुमेति द्वयं प्राहुर्यथा ज्ञानं च लिङ्गजमिति तृतीयेऽभि-धानात् । मास्तु तदुपदेशेन ज्ञानम् इति चेत् तर्हि अगुणो भवान्, यतश्चोदेति सूर्य इतिवद्यच्छब्दः किंशब्दपर्यायः यस्य कस्य पुरुषस्य येन केन साधनेन भवान् प्रकाशते न केनापीति योजना । इत्थं चोपदेशकाभावेन लोके भगवज्ज्ञानमेव लुप्येत । तथा च विद्वज्जना अपि भवन्तं नार्चयेयुः । अर्चनं च प्रत्यक्षसिद्धं नापलापार्हमित्यतो भवत्सन्निधानपात्रमङ्गीकार्यमिति भावः । तदेतदाहुराचार्य-चरणाः–

सत्वं ब्रह्मादिदेहाख्यं ज्ञानरूपं तमोनुदम् ।

यदि न स्यात्तदा सत्वप्रकाशानुमितो विभुः ।

यदि न स्यात्परो विष्णुः कथं विद्वज्जना अमुम् ।

अर्चयन्तीति तत्वस्य जिज्ञासुभिरधोक्षजः ।

कथं ज्ञायेत कस्यापि निर्गुणत्वात्परो विभुः ॥ इति ।

इयमत्र तात्पर्ययोजना । ब्रह्मादिदेहाख्यं सत्वं यदि भवत्सन्निधानपात्रं न चेदिति बहिरेवोहनीयम् । तर्हि ज्ञानरूपं विशिष्टज्ञानस्वरूपं तमोनुदं च न स्यात् । ज्ञानादौ तस्यास्वातन्त्र्यादिति भावः । यदि तथा न स्यात्तर्हि गुणप्रकाशैर् गुणेन शुद्धसत्वगुणेन उत्पन्नः प्रकाशो ज्ञानं येषान्तैर्ब्रह्मादि-भिरुपदेष्टृभिर्निमित्तैस् तदुपदेशेनेति यावत् तत्वजिज्ञासुभिः कर्तृभिर् भवाननुमितः यथावज्ज्ञात इति न स्यात् । स्वस्यैव ज्ञानाभावे परेषामुपदेशासंभवादिति भावः । यदि च परो विष्णुस् तथा न स्यात् तदाऽधोक्षजस् तत्वजिज्ञासुभिः कथं ज्ञायेत उपदेशकाभावेन कस्यापि न ज्ञायेत । यदि च न ज्ञायेत तदा विद्वज्जना अमुं विष्णुं कथमर्चयन्ति नार्चयेयुरेवेति भावः । अतो ब्रह्मादिदेहाख्यं सत्त्वं भवत्सन्निधानपात्रमङ्गीकार्यमेवेति ॥ ३६ ॥

न नामरूपे १गुणजन्मकर्मभिर् निरूपितव्ये तव तस्य साक्षिणः ।

मनोवचोभ्यामनुमेयवर्त्मनो देवक्रियायाः प्रतियन्त्यथापि हि ॥ ३७ ॥

तात्पर्यम्

‘लोकसिद्धार्थनाम्नः स राहित्यान्नामवर्जितः । अरूपोऽप्राकृतत्वाच्च सत्वाभावात्तथाऽगुणः । अकर्माऽक्लिष्टकारित्वान्नित्यत्वादज एव च । अलौकिकार्थ-सन्नाम्नामनन्तत्वाज्जनार्दनः । अनन्तनामा परमः २सुसुखज्ञानरूपवान् । तानि चास्य सुदिव्यानि सुगन्धीनि सुभान्ति च । शुभलक्षणपूर्णानि सुवर्णानि महान्ति च । यदतोऽ-नन्तरूपोऽसौ पूर्णानन्दादिभोजनात् । बलैश्वर्यसुवीर्यादिपूर्णासङ्ख्यगुणत्वतः । अनन्तगुण एवासौ ते चाभिन्ना गुणा हरेः । परस्परमभिन्नाश्च ३सर्वधर्माश्च तद्गताः । अभिन्नानि च रूपाणि सर्वाणि जगदीशितुः । प्राकृतस्य तु नामादेरीक्षिता पुरुषोत्तमः । अनामादि-वचोभिस्तु स एषोऽर्थोऽनुमीयते । अनामत्वादि चान्यच्च ज्ञानिनां मनसेङ्ग्यते । तेनैव ४चोह्य एषोऽर्थस्तस्माज्ज्ञेय इति प्रभुरि’ति ब्रह्मतर्के ॥ देवक्रियायाः प्रतियन्ति भगव-त्प्रेरणादेव जानन्ति । ‘नामरूपादि विष्णोस्तु न शक्यं ज्ञातुमञ्जसा । तथापि तत्प्रसादेन जानन्ति परमर्षय’ इति पाद्मे ॥ ३७ ॥

पदरत्नावली

गुणप्रकाशैस् तव सद्भावानुमानं यथा तथा तव नामरूपानुमानेनापि त्वत्सद्भावज्ञानं किं न स्यात् ? अत्राह न नामेति ॥ त्वन्नामरूपाभ्यां त्वत्सद्भावज्ञानसम्भवात् किमायाससाध्येन परिशेषप्रमाणेनेत्यतो वा अत्राह न नामेति ॥ शुक्लभास्वरं तेज इति गुणेन, कृपीटयोनिरग्निरिति जन्मना, दहनोऽग्निरिति कर्मणा, यथाऽग्निर्निरूप्यते तथा त्वं गुणजन्मकर्मभिर्न निरूपयितुं शक्यः । लोकप्रसिद्ध्यभावात्, अप्राकृतत्वात् सत्त्वाद्यभावाद् अक्लिष्टकारित्वान् नित्यत्वात् । तदुक्तम् ‘लोकसिद्धार्थनाम्नः’ इत्यादिना । न च नामादिकं मिथ्येत्याह तस्येति ॥ तस्य नामादेः साक्षिणः साक्षाद् द्रष्टुः । न हीश्वरज्ञानगोचरस्य मिथ्यात्वं वक्तुं युक्तम् । तथा सति सर्वत्रानाश्वासप्रसङ्गः स्यात् । तस्माद् ‘वाचारम्भणं विकारः’ इति श्रुत्यवष्टम्भेन नामरूपयो-र्मिथ्यात्वेन हरेस्ते न स्त इति न वक्तव्यम् । किन्त्वलौकिकार्थसन्नाम्नां तद्वाच्यरूपाणां वाऽनन्त-त्वादनामादिवचनमिति । ज्ञानिमनसा चानुमेयानि नामरूपाणि सन्ति, ‘सर्वनामा सर्वकर्मा सर्वलिङ्गः सर्वगुणः सर्वकामः सर्वधर्मः सर्वरूपः’, ‘रुग्मवर्णं कर्तारमीशम्’ इत्यादिश्रुतेरित्याशयेनाह मनो-वचोभ्यामिति ॥ यद्ययमनामा स्यात् तर्हि शब्दावाच्यः स्यात् । न च तथा ‘नामानि सर्वाणि यमाविशन्ति तं वै विष्णुं परममुदाहरन्ति’, ‘यो देवानां नामधा एक एव’ इत्यादिश्रुतेरिति । ननु ज्ञानाभावान्नास्त्येव नामादिकमिति तत्राह प्रतियन्तीति ॥ अथापि यद्यप्यनन्तत्वाज्ज्ञातुमशक्यानि तथापि प्रतियन्ति जानन्ति, ज्ञानिन इति शेषः । तज्ज्ञानं च न स्वनियतमित्याह देवक्रियाया इति ॥ देवस्य सर्वत्र द्योतमानस्य हरेः क्रियायाः प्रेरणालक्षणायाः श्रीनारायणप्रसादादित्यर्थः । हिशब्दो नामरूपादेर्ब्रह्मतर्कादिबहुलप्रमाणसिद्धतां सूचयति । उदाहृतानि च तान्येव आचार्यैः ‘लोकसिद्धार्थनाम्नः स राहित्यान्नामवर्जितः । अरूपोऽप्राकृतत्वाच्च सत्त्वाभावात् तथाऽगुणः । अकर्माऽक्लिष्टकारित्वान्नित्यत्वादज एव च । अलौकिकार्थसन्नाम्नामनन्तत्वाज्जनार्दनः । अनन्तनामा परमः सुसुखज्ञानरूपवान् । तानि चास्य सुदिव्यानि सुगन्धीनि सुभान्ति च । शुभलक्षणपूर्णानि सुवर्णानि महान्ति च । यदतोऽनन्तरूपोऽसौ पूर्णानन्दादिभोजनात् । बलैश्वर्यसुवीर्यादिपूर्णा-सङ्ख्यगुणत्वतः । अनन्तगुण एवासौ ते चाभिन्ना गुणा हरेः । परस्परमभिन्नाश्च सर्वे धर्माश्च तद्गताः । अभिन्नानि च रूपाणि सर्वाणि जगदीशितुः । प्राकृतस्य तु नामादेरीक्षिता पुरुषोत्तमः । अनामादिवचोभिस्तु स एषोऽर्थोऽनुमीयते । अनामत्वादि चान्यच्च ज्ञानिनां मनसेङ्ग्यते । तेनैव चोह्य एषोऽर्थस्तस्माज्ज्ञेय इति प्रभुः’ इति ब्रह्मतर्के’ इति । पाद्मं चैवमुदाहृतम् - ‘नामरूपादि विष्णोस्तु न शक्यं ज्ञातुमञ्जसा । तथाऽपि तत्प्रसादेन जानन्ति परमर्षयः’ ॥ इति ॥ ३७ ॥

सत्यधर्मीया

न नामरूपे गुणकर्मजन्मभिर्निरूपितव्य इति श्लोके नामरूपानिरूपणीयत्वेन तद्राहित्यं तत्साहित्येन गुणकर्मादिराहित्यं च भगवत उच्यत इति प्रतीयते । तच्च सर्वनामा सर्वकर्मा सर्वगुणः सर्वरूपः । नामानि सर्वाणि यमाविशन्ति । यो देवानां नामधा । ईक्षतेर्नाशब्द-मित्यादिबाधितमित्यतोऽभिप्रायं प्रायोमतिर्मानेनैवाह ॥ लोकेति ॥ स हरिर्नामवर्जित इत्युच्यते कुत इत्यत आह ॥ लोकप्रसिद्धार्थनाम्नो रहित इति ॥ लोकप्रसिद्धोऽर्थो यस्य तच्च तन्नाम च तस्य राहित्यादभावात् । आनन्दो नेदृश आनन्द इत्यादेः साधारणाभिधेयहीननामवानित्यर्थः । अन्यत्राप्यनामाऽसौ प्रसिद्धत्वादिति । अप्राकृतत्वादप्राकृतरूपवत्त्वात् । अरूपो भूतवर्जनादित्युक्तेः । पूर्वपद्ये गदितमगुणपदमनुवर्ण्य तदर्थं वर्णयति । तथाशब्दः समुच्चायकः । सत्त्वाभावान्मुख्यस्यैव सत्त्वस्यासत्त्वस्यासत्त्वे द्वयोरमुख्ययोः प्रत्याख्यानं कैमुत्येन प्रत्येतुं शक्यमिति तन्मात्राग्रहणमिति ज्ञेयम् । तथा च गुणत्रयातीततयाऽगुण इत्युच्यत इति भावः ।

अक्लिष्टकारित्वादकष्टोऽकार्यकर्तृत्वादकर्मा । एतद्व्याजेनातीतैष्यदेतत्सजातीयशब्दार्थमप्याह ॥ नित्यत्वादज इति ॥ अलौकिकार्थानि यानि सन्ति नामानि तेषाम् । अनन्तत्वाज्जनार्दनो गतम् । अनन्तनामोच्यते । प्रकृतप्राकृतरूपराहित्ये किं नीरूप उत सरूपः । नाद्यः । अनन्त-रूपोऽनन्ताक्ष इत्यादिविरोधापत्तेः । द्वितीये तन्निरूपणीयमित्यत आह ॥ सुसुखेति ॥ सुनामसुखज्ञानसाधारण्यं चारयति तान्येव रूपाणि सन्त्यस्येति सः । तानीत्यनेन रूपवानिति विशेषणरूपपरामर्शः । यत्तानि रूपाण्यस्य हरेः सुदिव्यानि । सु शोभनश्चासौ गन्धश्च, आ सम्यक् नि नितरां शुभं च मङ्गलं च येषु तानि । एतेन गन्धस्य इदुत्पूतिसुसुरभिभ्य इतीत्वं न कुत इति शङ्काऽऽतङ्कितेति ज्ञेयम् । यद्वा गन्धो येषामस्तीति गन्धीनि सु शोभनानि गन्धीनि च । स्वार्थशोभनताया विशेषणे गन्धे योग्यतयाऽन्वयः । प्रपञ्चः स्कन्धान्तरविवृतौ कृतोऽत्रानुसन्धेयः । सु शोभनश्चासौ गन्धश्च नितरां शुभान्यशुभमिश्राणि च शुभानि चेत्येवमेव विग्रहः । गन्धपदोत्तरं दीर्घश्च सांहितिकः । न चेदृशायासं विज्ञानं क्वेति वाच्यम् । ईदृशायासविज्ञ इत्येकादशमूलतात्पर्ये ईदृशं वर्तमानमाय एष्यन्सोऽतीत इति त्रैविध्यं भाति । विज्ञाय वस्तुनि विज्ञाते सति, दीर्घलोपोऽत्रात इतिवत् । क्षैप्रे दीर्घलोप इति सूत्रादित्युक्तेर्विग्रहदशीयपदकाले ह्रस्व इति ज्ञेयम् । शुभानि लक्षणानीतरविलक्षणानि तैः पूर्णानि सुवर्णानि रुक्मवर्णमित्यादेर्महान्ति च । अतोऽसौ हरिरनन्तरूपः पूर्णानन्दादिभोजनाद्बलैश्वर्यसुवीर्यादयः पूर्णाः प्रत्येकमसङ्ख्याश्च गुणा यस्य स तस्य भावस्तत्त्वम् । तस्मादसावनन्तगुण एव । तर्हि तत्तेषां भेदः किमित्यत आह ॥ ते चेति ॥ तत्तेषां परस्परमप्यनन्तरमितीरयति । तद्गताः सर्वे धर्माश्च परस्परं चाभिन्ना भेदरहिता इति । रूपाण्यपि मत्स्यादीन्यप्यभिन्ना इत्याह ॥ अभिन्नानीति ॥ प्राकृतस्य । अत्र द्वे दर्शने । भागवतानां नाम्नां प्राकृतत्वमेवेत्येकम् । द्वयमन्येषां च । ‘‘अलौकिकास्तस्य शब्दास्तथाऽर्था, अलौकिको ह्येष विष्णु’’रिति न्यायविवरणं मूलम् । तस्य प्रथमेऽर्थोऽलौकिकत्वं वैदिकत्वमर्थानामप्राकृतत्वमिति श्रीभावबोधीये । द्वितीये ‘‘सम्यक् तद्वाचकाः शब्दास्तत्स्वरूपा अलौकिकाः । अप्युक्ता लौकिकैः शब्दैरचिन्त्यैश्वर्ययोगतः ।’’ ‘वस्तुतः सम्यक् तत्प्रतिपादने ब्रह्मस्वरूपभूता एव शब्दा नान्य इत्याह ॥ सम्यगिति ॥ तथाऽपि प्रसिद्धानन्दसुखादिपदवाच्यताऽप्यस्ति । तादृशैश्वर्यादित्याह ॥ अपीति ॥’ इति सटीकसत्तत्त्वरत्नमालोक्तोऽर्थः । तथा चाद्यरीत्या प्राकृतस्य स्वनामेतरनामादेः । तुशब्दो रूपादीनां तत्त्वाभावं तत्त्वं नाम्न इति विशेषसूचकः । द्वितीयस्याप्राकृतस्य त्वप्राकृतस्य च नामादेः स्वकीयस्येति विवेकः । पुरुषोत्तमः क्षराक्षरपुरुषश्रेष्ठो नामादेरीक्षिता साक्षात्कर्ताऽनामादि-वचोभिर्हरेर्नामरूपादिरहितताप्रतिपादकवचोभिरनु उपक्रमाद्यनुसृत्यैष एवार्थो मीयते ज्ञायते । अनामत्वादिकमन्यनामादिविलक्षणार्थकमित्यन्यत् । ज्ञानिनां बहूनां बहुज्ञानं मनसेङ्ग्यते ज्ञायते । अनेन बहुप्रेक्षावदनुभवो मानमस्मिन्नर्थ इति ज्ञापितमिति ज्ञेयम् । एषोऽर्थोऽनामेत्यादेस्तेनैव ज्ञानिज्ञानसिद्धत्वादितरैरूह्यः सम्भाविततयोहनीयः । तस्मान्मानिकत्वादित्युक्तप्रकारेण । प्रभुर्हरिर्ज्ञेयस्तत्रैव देवक्रियायाः प्रतियन्तीत्यनूद्य व्याख्याति ॥ भगवत्प्रेरणादेव जानन्तीति ॥ स्वोक्तार्थस्थेम्ने मानमाह ॥ नामरूपादीति ॥ विष्णोर्नामरूपादिकमञ्जसा स्वसामर्थ्येन ज्ञातुं न शक्यम् । तर्हि सर्वथाऽज्ञेयं चेच्छून्यमिति स्यादित्यत आह ॥ तथाऽपीति ॥ तस्य विष्णोः प्रसादो, ज्ञानी भव त्वमितीच्छाविशेषस्तेन परमर्षयस्तज्ज्ञानयोग्या जानन्ति । प्रसादो नामेच्छाविशेषो गुणान्तरं वा न नः काचित्क्षतिरिति सुधाभिधानात् ।

ततश्चायं श्लोकार्थः ॥ तस्य प्राकृतनामादेः साक्षिणः साक्षाद्द्रष्टुर्मनोवचोभ्यां मनश्च मनस्विनां वचश्च सर्वनामा यो देवानां नामधा । नामानि सर्वाणि । अलौकिकार्थसन्नाम्नामित्यादि च वचश्च । ताभ्यामनु उपक्रमादितात्पर्यलिङ्गमनुसृत्य मेयं ज्ञेयं मानोक्तप्रकारेणानुमेयं च वर्त्म यस्य स तस्य । नामरूपे गुणकर्मजन्मभिर्निरूपितव्ये ज्ञातृस्वातन्त्र्येण न निरूपयितुं शक्ये । तर्हि केचन जना जानत इति कथमित्यतः कथयति ॥ देवेति ॥ अथाऽपि स्वयं ज्ञातुं शक्तिरिक्तत्वेऽपि हे देवैतद्रूपक्रीडाशालिन् तव क्रियायाः प्रेरणारूपिण्याः सकाशात्प्रतियन्ति जानते परमर्षय इति मानिकस्यात्र शेषः । देवक्रियाया इत्यैकपद्ये देवस्य क्रियाया इति व्याख्याने तवेत्यस्य प्रागेवान्वयः । हीति मानसिद्धं नामादिकमित्यसूचि ॥ ३७ ॥

सुमनोरञ्जिनी

हे विष्णो तस्य प्राकृतनामरूपादेर् नामरूपात्मकसर्वजगत इत्यर्थः । साक्षिणस्तव गुणकर्मजन्मभिः सह ये नामरूपे नामानि रूपाण्याकृतयः समुदायापेक्षया द्विवचनम्, न स्तः । गुणकर्मजन्मभिः सह ये नामरूपे स्तस् ते मनोवचोभ्यां न निरूपितव्ये । साकल्येन निरूपयितुं ज्ञातुं ज्ञापयितुं च अशक्ये । यतो वाचो निवर्तन्त इत्यादिश्रुतेः । तव नामरूपगुण-कर्मजन्मनामनन्तत्वादलौकिकत्वाच्च दुर्ज्ञेयतेति भावः । ननु तर्हि भगवज्ज्ञानमेव न स्याज्ज्ञानिनामिति चेत्तत्राह ॥ मनोवचोभ्यामिति ॥ अथापि दुर्ज्ञेयत्वेऽपि मनोवचोभ्याम् अनुमेयं वर्त्म यस्यासौ तथोक्तः । तस्य तव । नामरूपे देवक्रियाया देवस्य प्रसन्नस्य हरेः क्रियायाः प्रेरणालक्षणायाः सकाशात् प्रतियन्ति जानन्ति हि यस्मादित्युत्तरश्लोकेनान्वयः । त्वत्प्रसादेनैव जानन्ति अतो न तज्ज्ञानलोपप्रसङ्ग इति भावः । अत्राहुराचार्यचरणाः–

लोकसिद्धार्थनाम्नः स राहित्यान्नामवर्जितः ।

अरूपोऽप्राकृतत्वाच्च सत्वाभावात्तथाऽगुणः ।

अकर्माऽक्लिष्टकारित्वान्नित्यत्वादज एव च ।

अलौकिकार्थसन्नाम्नामनन्तत्वाज्जनार्दनः ।

अनन्तनामा परमः सुखज्ञानस्वरूपवान् ।

तानि चास्य सुदिव्यानि सुगन्धीनि सुभान्ति च ।

शुभलक्षणपूर्णानि सुवर्णानि महान्ति च ।

यदतोऽनन्तरूपोऽसौ पूर्णानन्दादिभोजनात् ।

बलैश्वर्यसुवीर्यादिपूर्णासङ्ख्यगुणत्वतः ।

अनन्तगुण एवासौ ते चाभिन्ना गुणा हरेः ।

परस्परमभिन्नाश्च सर्वे धर्माश्च तद्गताः ।

अभिन्नानि च रूपाणि सर्वाणि जगदीशितुः ।

प्राकृतस्य तु नामादेरीक्षिता पुरुषोत्तमः ।

अनामादिवचोभिस्तु स एषोऽर्थोऽनुमीयते ।

अनामत्वादि चान्यच्च ज्ञानिनां मनसेङ्ग्यते ।

तेनैव चोद्य एषोऽर्थस्तस्माज्ज्ञेय इति प्रभुः ॥ इति ब्रह्मतर्के ।

देवक्रियायाः प्रतियन्ति भगवत्प्रेरणादेव जानन्ति ।

‘‘नामरूपादि विष्णोस्तु न शक्यं ज्ञातुमञ्जसा ।

तथापि तत्प्रसादेन जानन्ति परमर्षयः ॥’’ इति पाद्म इति ।

लोके इन्द्रादिलोके सिद्धः प्रसिद्धो योऽर्थः प्रवृत्तिनिमित्तम् अल्पैश्वर्यादिरूपं तत्, यस्य तस्य नाम्नः राहित्यात् । लोकप्रसिद्धाल्पैश्वर्यादिरूपनामप्रवृत्तिनिमित्ताभावादिति यावत् । नामवर्जित इत्युच्यत इति शेषः । अप्राकृतत्वात् । न विद्यते प्राकृतं प्रकृतिकृतं रूपं यस्यासौ तथोक्तः । तत्वात् प्राकृतदेहशून्यत्वादित्यर्थः । सत्वाभावात् सत्वशब्दोपलक्षितगुणत्रयाभावादित्यर्थः । अक्लिष्टकारित्वान्निमित्तादकर्मा अकर्मपदोक्तः । नित्यत्वात् स्वरूपतो देहतश्च शश्वदैकप्रकारत्वादजो जन्मरहित उच्यत इत्यर्थः । ततो न नामरूपे गुणकर्मजन्मभिरित्यस्य भावो वर्णितो भवति । एवम् अनामत्वादिवचनस्य गतिमभिधाय दुर्ज्ञेयत्वे निमित्तमाह ॥ अलौकिकेत्यादि ॥ अलौकिका लोकविलक्षणा निरवधिका वा अर्था येषां सन्नाम्नां सतामलौकिकत्वेनोत्तमानां नाम्नाम् । अलौकिकास्तस्य शब्दास्तथार्था इति श्रुतेः । अनन्तत्वान्निमित्तादनन्तनामा । सु निर्दुष्टानि सुखज्ञानात्मकरूपाणि अस्य सन्तीति तादृशो यतो ऽनन्तरूप इति सम्बन्धः ।

तानि रूपाणि विशिनष्टि ॥ तानि चेति ॥ दिव्यानि क्रीडादिगुणविशिष्टानि । सु भान्ति सम्यक् भान्ति प्रकाशन्ते च । शुभानि यानि लक्षणानि तैः पूर्णानि । सुष्ठु अप्राकृता वर्णाः शुक्लादयो येषां तथोक्तानि । महान्ति महत्परिमाणवन्ति च । शब्दादणूनि चेत्यपि ग्राह्यम् । पूर्णानन्दादिभोजनात् । बलैश्वर्यसुवीर्यादयः पूर्णा यस्यासौ तथोक्तः । स चासावनन्तगुणश्च । तस्य भावस्तत्वं तस्मात् । बलादिपूर्णत्वादसंख्यगुणत्वाच्चानन्तगुण इत्यर्थः । अतोऽसौ दुर्ज्ञेय इति भावः । अनेनानन्तशब्दः पूर्णत्वमसंख्यत्वं च वक्तीत्युक्तं भवति । बलैश्वर्यसुवीर्यादयश्च ते पूर्णानन्तगुणा यस्येति वा । प्रकारान्तरेणाप्यगुणत्वादिव्यपदेशस्य गतिमाह ॥ ते चेति ॥ चोऽवधारणे । ते आनन्दादयो गुणा हरेरभिन्ना एव । न भिन्ना नापि भिन्नाभिन्नाः । न केवलं हरेः सकाशादपि तु परस्परमप्यभिन्नाः । न केवलं गुणा एव किं तु तद्गता धर्मक्रियादिरूपा अपि । अनन्तानि रूपाणि । चशब्दादभिन्नानि परस्परमिति पदद्वयमाकृष्यते । जगदीशितुः परस्परं चाभिन्नानीति । स पूर्वोक्तः लौकिकनामराहित्यादिर् एषः भिन्नधर्मराहित्यादिश्च । अनामादि-वचोभिरनुमीयते ज्ञायत इति । मूलोक्त तस्य साक्षिण इत्यस्यार्थः प्राकृतस्येत्यादि ॥ अनुमेयवर्त्मन इत्यादेस्तात्पर्यम् अनामत्वादि चेत्यादि । तत्र वर्त्मपदार्थोऽनामत्वादीति । अनन्तनामत्वादिक-मादिपदार्थः । इङ्ग्यते ज्ञायते । देवक्रियाया इत्यस्य तात्पर्यं तेनैव चोद्य इति । एषः ज्ञानि-मनसेंगनादिरूपः । तेन हरिणा चोद्यः प्रेरणीयः । हरिप्रसादादेव ज्ञानिनो जानन्तीति भावः । ऊह्य इति पाठे तेनैव हरिप्रसादेनैवेति ऊह्यः ज्ञेय इत्यर्थः । एवं प्रमाणेन व्याख्याय स्पष्टं स्ववचनेन व्याख्याति ॥ देवेत्यादि ॥ निगमयति ॥ नामरूपादीति । इति तात्पर्यार्थोऽवसेयः ॥ ३७ ॥

**शृण्वन् गृणन् संस्मरयंश्च चिन्तयन् **

नामानि रूपाणि च मङ्गलानि ते ।

क्रियासु यस्त्वच्चरणारविन्दयो-

राविष्टचित्तो न भवाय कल्प्यते ॥ ३८ ॥

तात्पर्यम्

यस्मान्नामरूपादयः सन्ति तस्माच्छृण्वन् गृणन् । क्रियासु क्रियमाणासु प्रेरकत्वेन पूज्यत्वेन च । ‘सर्वक्रियासु कर्तृत्वपूज्यत्वेन जनार्दनम् । यो वेत्ति नैति संसारं तत्प्रसादान्न संशय’ इति क्रियायोगे ॥ ३८ ॥

पदरत्नावली

यस्मान्नामरूपादयः सन्ति तस्मात् क्रियमाणासु क्रियासु यः प्रेरकत्वेन पूज्यत्वेन ते नामानि शृण्वन् गृणन्, संस्मरयन् अन्यान् संस्मारयंश्च चिन्तयन्नास्ते स त्वच्चरणार-विन्दयोराविष्टचित्तः समावेशितचित्तः पुरुषः भवाय संसाराय न कल्प्यत इत्यन्वयः । चशब्देन ‘सर्वक्रियासु कर्तृत्वपूज्यत्वेन जनार्दनम् । यो वेत्ति नैति संसारं तत्प्रसादान्न संशयः’ इति स्मृतेर्न श्रवणादिना पूर्यते किन्तु तज्ज्ञानं चावश्यमपेक्षितमिति दर्शितम् ॥ ३८ ॥

सत्यधर्मीया

शृृण्वन्गृणन्निति श्लोके क्रियासु तदिति तच्छब्दः किमन्वयः किमर्थ इति न ज्ञायत इत्यतस्तौ प्रदर्शयन्क्रियास्वित्यत्रापेक्षितं पूरयित्वाऽन्वयं च दर्शयति ॥ यस्मादिति ॥ नामरूपादयः सन्ति तस्मात्क्रियासु क्रियमाणासु तत्प्रेरकत्वेन पूज्यत्वेन च गृणन् स्तुवन् शृृण्वंस्तच्चरितम् । मूलस्थेन न भवाय कल्प्यत इत्यनेनान्वयः । तत्र मानमाह ॥ सर्वक्रियास्विति ॥ कर्तृत्वेन सहितं च तत्पूज्यत्वं च तेन यो वेत्ति संसारं तत्प्रसादतो नैति ॥ ततश्चायं श्लोकार्थः ॥ यस्माद्धरेर्नामरूपाण्युक्तरूपाणि सन्ति ततः क्रियमाणक्रियासु प्रेरकत्वेन पूज्यत्वेन त्वच्चरणारविन्दयोरेव समावेशितचित्तो नामानि गृणन् शृृण्वन्रूपाणि संस्मरयन्नन्यान्संस्मारयन् स्वयं च चिन्तयन्मङ्गलानि तत्प्रदानि तद्रूपाणि वा जनार्दनं त्वां वेत्ति स भवाय संसृत्यै न कल्प्यते ॥ ३८ ॥

सुमनोरञ्जिनी

भागवतधर्मानुष्ठानलभ्यमोक्षान्तरङ्गसाधनं भक्तियोगं निरूपयन्नाह ॥ शृृण्वन्निति ॥ यस्मात्ते नामरूपाणि सन्ति तस्मात् ते मङ्गलानि मङ्गलकराणि नामानि शृृण्वन्, गृणन् उच्चरन् ते रूपाणि च संस्मरयन् सम्यक् स्मरन् । चिन्तयन् ध्यायन् सन् । न केवलमेतावत् किन्तु यः क्रियासु अग्निहोत्रादिक्रियासु क्रियमाणासु सतीषु । त्वच्चरणारविन्दयोराविष्टं चित्तं मनो यस्य स तथा । सर्वक्रियासु कर्तृत्वेन पूज्यत्वेन त्वामेवानुसन्दधान इति यावत् । सः भवाय संसाराय न कल्पते मुक्तो भवतीति यावत् । अस्य श्लोकस्य योजनान्तराण्यस्मत्परमगुरुचरण-कृतभागवतसारोद्धारादवगन्तव्यानि । तदुक्तं तात्पर्ये - ‘‘यस्मान्नामरूपादयः सन्ति तस्मात् शृृण्वन् गृणन् । क्रियासु क्रियमाणासु प्रेरकत्वेन पूज्यत्वेन च । ‘सर्वक्रियासु कर्तृत्वपूज्यत्वेन जनार्दनम् । यो वेत्ति नैति संसारं तत्प्रसादान्न संशयः ॥’ इति क्रियायोग’’ इति । यस्मादिति पूर्वश्लोकादनुकृष्टहिशब्दार्थकथनं क्रियमाणास्विति शेषोक्तिः ॥ ३८ ॥

**दिष्ट्या हरेऽस्या भवतः पदो भुवो **

भारोऽपनीतस्तव जन्मनेशितुः ।

दिष्ट्याऽङ्कितां त्वत्पदकैः सुशोभनै-

र्द्रक्ष्याम गां द्यां च तवानुकम्पिताम् ॥ ३९ ॥

तात्पर्यम्

‘खं नाभिश्चरणौ क्षितिरि’ति भवतः पदो भुवः । ‘पदाद्याश्रयणाद्विष्णोः पृथिव्यादि पदादिकम् । तज्जत्वाद्वाथ सादृश्याद्यथा नुर्भूमिगं पदमि’ति ब्रह्मतर्के ॥ ३९ ॥

पदरत्नावली

हरेरवतारप्रयोजनमत्र विज्ञापयति दिष्ट्येति ॥ हे हरे विश्वस्य ईशितुस्तव जन्मनाऽवतारेण भवतः पदः भवच्चरणस्थानीयाया भुवो ऽसुरकृतभारोऽपनीत इति यत् तद् दिष्ट्या सर्वस्य सुखमभूत् । ‘सुष्टु दिष्ट्योपजोषम्’ इति यादवः । सुशोभनैस् त्वत्पदकैः प्रतिबिम्बितपदैर्गां मेदिनीम् अङ्कितां चिह्नितां द्यां च तवानुकम्पिताम् अनुकम्पाविषयां द्रक्ष्यामः । दिष्ट्येत्यभ्यास आदरार्थम् । यथा खलु भूमिगं नरस्य पदचिह्नं सादृश्यात् पदमित्युच्यते तथा विराड्रूप-विष्णुपादाश्रितत्वतज्जत्वसादृश्यैर् भुवः पादत्वव्यपदेशः । उक्तं च ‘खं नाभिश्चरणौ क्षितिः’ इति भवतः पदो भुवः । ‘पादाद्याश्रयणाद् विष्णोः पृथिव्यादि पदादिकम् । तज्जत्वाद् वाऽथ सादृश्याद् यथा नुर्भूमिगं पदम्’ इति ॥ ३९ ॥

दुर्घटभावदीपिका

अस्या भवतः पदो भुव इत्यस्य भवतः पदश्चरणभूताया अस्या भुवो भूम्या इत्यर्थः । एतेन भगवतः पृथिव्याश्रयणाभावाद्भवतः पदाश्रयभूताया अस्या भुव इत्यनुपपन्नमिति दूषणं निरस्तम् । यच्छब्दस्याश्रयत्वमनङ्गीकृत्य पदार्थस्योक्तत्वात् ॥ ता. अर्थः ॥ खं नाभिश्चरणौ क्षितिरित्यनेन पृथिव्या भगवच्चरणत्वस्योक्तत्वाद्भवतः पदो भुव इत्यनेन पृथिव्या भगवच्चरणत्वमेवोच्यते न तु भगवदाश्रयत्वम् । खं नाभिश्चरणौ क्षितिरित्यनेन भवतः पदो भुव इत्यनेन च पृथिव्या यद्भगवच्चरणैक्यमुक्तं तन्मुख्यं न भवति किन्तु तदाश्रितत्वतज्जन्यत्वतत्सादृश्यत्वरूपं गौणमित्यस्मिन्नर्थे प्रमाणमाह ॥ पदाद्याश्रयणादिति ॥ विष्णोः पदाद्याश्रयणात्तज्जन्यत्वात्पादादिजन्यत्वाद्वा । अथवा सादृश्यात्पदादिसादृश्यात्पृथिव्यादि विष्णोः पदादिकं पादादिकमिति खं नाभिश्चरणौ क्षितिरित्यादा-वुच्यन्ते । अत्र दृष्टान्तमाह ॥ यथेति ॥ यथा नुः पुरुषस्य भूमिगं भूमौ विद्यमानं पदं प्रतिपदं पुरुषपादजन्यत्वात्पुरुषपादसदृशत्वाद्वा पुरुषस्य पदमित्युच्यत इति । एतेन भगवतः पदो भुव इति सामानाधिकरण्येनैव पृथिव्या भगवत्पादत्वस्य प्रतीयमानत्वात् खं नाभिश्चरणौ क्षितिरिति भवतः पदो भुव इति तात्पर्यं व्यर्थमिति दूषणस्यानवकाशः । भवतः पदो भुव इत्यनेन पृथिव्या भगवत्पादत्वस्य बाधितत्वाद्भगवदाश्रयत्वमुच्यत इति भ्रमं परिहर्तुं खं नाभिश्चरणौ क्षितिरिति भवतः पदो भुव इति तात्पर्यं प्रवृत्तमित्यभ्युपगमात् ॥ ३९ ॥

सत्यधर्मीया

दिष्ट्या हरेऽस्या भवतः पदो भुव इति धरिण्या हरिचरणतोक्ता । सा च जडपृथिव्या इव तदभिमानिन्या अपि । सद्देहः सुखगन्धश्च ज्ञानभाः सत्पराक्रमः । ज्ञानज्ञानः सुखसुखः स विष्णुः परम इति प्रमुखमानबाधितेत्यतो मेदिन्याः पदतां प्रतिपिपादयिषुः प्रसङ्गाद्गगनस्याप्यवयवविशेषतां प्रतिपादयन्मानमुदाहृत्य किञ्चिन्मध्ये सङ्गमनप्रकारं प्रदर्श्य विशिष्टेऽर्थे मानमुदाहरति ॥ खमिति ॥ खं गगनं नाभिः क्षितिश्चरणौ । इति मानस्य सत्त्वाद्भवतः पदो भुव इति युक्तमिति शेषः । सामानाधिकरण्यघटना त्वेवं पदाद्याश्रयणात्पदनाभ्याद्याश्रयणात्पृथिव्यादि खाब्धिमेखलादि पदादिकं पदनाभ्यादिकं तज्जत्वाद्वा पदनाभ्यादेरुत्पन्नत्वात् । तत्त्वेनोच्यत इति शेषः । विष्णोरिति योग्यान्वयि । सादृश्याद्भूमिरप्युपरिगकतिपयपदार्थाधारभूता । तथा भगवत्पदमपि सर्वाधारमिति वा भुवः पद इति सम्भवति । तन्निदर्शनेन दर्शयति ॥ यथेति ॥ नुर्गच्छतः पुंसः । उपलक्षणमेतत् । गच्छतः सर्वस्य जनस्य भूमिगं चेत्तन्मुद्रितां दृष्ट्वेदं तत्पदमित्याश्रय-सादृश्यादेरिदमिति व्यवहारस्तथोक्तस्थलेऽपीति ॥ ततश्चायं पद्यार्थः ॥ स्वार्थितमर्थितदाता कृतवानित्याह ॥ दिष्ट्येति ॥ हे हरे । भवतः पदो भुव आश्रितत्वतज्जत्वसादृश्यैस्तथाभूताया भुवः, ईशितुस्तव जन्मनाऽवतारेण भारोऽपनीतः । स्वस्वाम्याज्ञा नास्ति सा चेद्भारावतारः स्यादिति न च वद देव स नास्तीत्यप्याह ॥ अपेति ॥ पालकविकलेत्यर्थः । न्यायदीपिकायामापो वा इदमग्र इति व्याकृतावपः पालकरहित इत्युक्तेस्तत्सम्बुद्धिः । नीतोऽवितथसङ्कल्प इति सिद्धवदुक्तिः । अपनीत इत्यखण्डपक्ष ईशितुरित्यनेन कृतशङ्कापराकृतिर्ज्ञेया । इति यत्तद्दिष्ट्या सुखमभूत् । भूमेः सुशोभनैस्त्वत्पदकैः प्रतिबिम्बितपदैर्गां भूमिमङ्कितां चिह्नितां द्रक्ष्यामः । तवानुकम्पितामनुकम्पा सञ्जाताऽस्या इति तारकादीतच् । द्यां च द्रक्ष्याम इति । दिष्ट्याऽस्माकं सुखमिति द्विष्टस्य दिष्ट्येत्यस्यान्वयः । तावत्पर्यन्तमर्यपसदैरुपसर्गः कृत इति तदपनयनेन दिवोऽनुकम्पास्पदतेति ज्ञेयम् । भवतः पदं षष्ठ्यन्तं भुवस्तवेशितुर्जन्मना त्वत्पदकैरङ्कितां द्यां च तवानुकम्पितामिति पृथक् पृथगन्वयनान्नातिरेकः शङ्क्यः ॥ ३९ ॥

सुमनोरञ्जिनी

इदानीं भवदवतारेण भुवः कृतकृत्यता । अस्मद्विज्ञापनं च सार्थकमभवदित्याह ॥ दिष्ट्येति ॥ हे हरे ईशितुर् जगदीशस्य तव जन्मना अस्या भवतः पदः पादाश्रितायाः पादजन्याया वा पादसदृशाया वा भुवः भारो ऽपनीतो निरस्त इति दिष्ट्या सर्वेषां सुखकरम् । सुशोभनैर् ध्वजवज्रांकुशादिशुभचिह्नचिह्नितैस् त्वत्पदकैस् त्वदीयैः कोमलैः पदैर् अङ्कितां चिह्निताम् । काम् । तव त्वया अनुकंपितां दयाविषयाम् । द्यां द्युलोकम् । तत्रस्थान् देवान् द्रक्ष्याम इति यत् तदपि परमानन्दकरमित्यर्थः । दिष्ट्या समुपजोषं चेत्यानन्द इत्यमरः । पदो भुव इत्यत्र भुवः पादाभिन्नत्वभ्रमं निवारयितुमुक्तमाचार्यैः - ‘‘खं नाभिश्चरणौ क्षितिरिति । भवतः पदो भुवः । पदाद्याश्रयणाद्विष्णोः पृथिव्यादि पदादिकम् । तज्जत्वाद्वाथ सादृश्याद्यथा नुर्भूमिगं पदमिति ब्रह्म’’ इति । चरणौ क्षितिरितिवद् भवतः पदो भुव इति प्रकृतेऽपि सामानाधिकरण्यव्यवहार इत्यर्थः ।

इदं वाक्यं मोक्षधर्मगतम् । ननु तत्राप्यभेद एव प्रतीयत इत्यतो अभिप्रायमाविष्करोति ॥ पदाद्याश्रयणादिति ॥ विष्णोः पदाद्याश्रयणात् । आदिशब्देन नाभ्यादिकम् । तज्जत्वात् तत्सादृश्याच्च पृथिव्यादि । आदिना आकाशादिपरिग्रहः । पदादिकमित्युच्यत इति शेषः । तत्रान्त्यनिमित्तद्वये दृष्टान्तमाह । नुर् मनुष्यस्य । भूमिगं पदं भुवि विद्यमानं प्रतिमुद्रास्थानीयं पदमित्युच्यते यथा तथेति ॥ ३९ ॥

न तेऽभवस्येश भवस्य कारणं विना विनोदं बत तर्कयामहे ।

भवो निरोधः स्थितिरप्यविद्ययाऽऽकृता यतस्त्वय्यभवाश्रयात्मनि ॥ ४० ॥

तात्पर्यम्

‘अज्ञानादेव मन्यन्ते विष्णोर्जनिमृती नराः । स्थितिरूपस्य चान्यस्मा-त्स्थितिं मोक्षाश्रयस्य हि । स्वेच्छया हि जनिं भङ्गं स्थितिं चासौ करोत्यजः । सर्वस्य जगतो यस्मात्तज्जन्मादिः कुतो भवेदि’ति च ॥ ४० ॥

पदरत्नावली

लोकानुग्रहमन्तरेणान्यदवतारप्रयोजनं नास्तीति विज्ञापयतीत्याह नेति ॥ न विद्यते भवः शुक्रशोणितसम्पर्कलक्षणं जन्म यस्य स तथा तस्य । अथवा भवस्येति च्छेदः । भवस्य भद्रस्य जन्मादिदोषरहितस्येत्यर्थः । ‘भवो भद्रे हरे प्राप्तौ सत्तासंसारजन्मसु’ इति यादवः । ननु कर्दमार्णवनिमग्नं य उद्धरते सोऽपि कर्दमेन लिप्यत एव । तथा जननमरणाद्यूर्मिमत्संसारार्णव-निमग्नदीनसुजनसमुद्धारकस्य हरेर्जन्मादिमत्त्वं सत्यमित्यायातम् । तथा च तस्य कर्माधीन-प्रवृत्तत्वेनेश्वरत्वहानेर्न मोक्षार्थं तदुपासनं विधेयमिति तत्राह भव इति ॥ त्वयीत्यत्र अभवाश्रयात्मनीत्यत्र च षष्ठ्यर्थे सप्तमी । अभवाश्रयश्चायमात्मा चेत्यभवाश्रयात्मा मोक्षाश्रयः स्वामी तस्य, मुक्ताश्रयस्य स्वरूपस्य वा । तव कृता अङ्गीकृता भवादयोऽविद्यया त्वत्स्वरूपाज्ञानेन सत्या इति नरा मन्यन्ते इति, यत इति शेषः । ज्ञानिनस्तु अस्य स्वस्य विद्यया इच्छया कृताः सत्या इति मन्यन्त इति यतस्तस्मात् स्वरूपानादित्वेन ईश्वरत्वहान्यभावेन त्वदुपासनमेव विधेयमिति भावः । ‘अज्ञानादेव मन्यन्ते विष्णोर्जनिमृती नराः । स्थितिरूपस्य चान्यस्मात् स्थितिं मोक्षाश्रयस्य हि । स्वेच्छया हि जनिं भङ्गं स्थितिं चासौ करोत्यजः । सर्वस्य जगतो यस्मात् तज्जन्मादिः कुतो भवेत् ॥’ इति वचनान्नेन्द्रजालमिति मन्तव्यम् ॥ ४० ॥

सत्यधर्मीया

न तेऽभवस्येति श्लोके वास्तविकसंसाररहितजीवात्मके भवादयोऽविद्याकल्पिता अतोऽप्रपञ्चो मिथ्येति प्रतीयते । तां मानेन निराकरोति ॥ अज्ञानादिति ॥ केचिन्नरा अन्यस्मात्कर्तुरिव कर्मादेश्च विष्णोरज्ञानादेव जनिमृती मन्वते । स्थितिरूपस्य स्थितिप्रतिष्ठापकस्य स्थितिं च मन्यन्त इत्यन्वयः । कुतस्तेऽज्ञा इत्यतस्तद्दौर्घट्ये हेतुमाह । हि यतो मोक्षाश्रयस्येत-रासुसाधतद्दाननिदानत्वेन तदाश्रयस्येति । न हि भवपरिभावकः स्वयं तद्वान्भवेत् । तद्वेदितारोऽतोऽज्ञा इति भावः । नैतदन्यथाऽनुपपत्तिमात्रत एव जनिमृतिदूरता हरेः स एवेतरजन्मादि तन्वान इत्यपि न जनिमृती तस्येत्याह ॥ स्वेच्छयेति ॥ स्वस्येच्छा स्वरूपभूतेच्छा तया । यस्मादसावजः स्वयं सर्वस्य जगतो जनिं करोति तस्मादिति स्वेतरसत्ता लभ्यते । यस्मादित्युक्तेः । तज्जन्मादिस्तस्य विष्णोर्जन्मादिर्यस्य सः । कुतः कस्माद्भवेत् । सर्वकर्तुः कर्ताऽन्यः कः स्यादिति भावः । समस्तस्य प्रपञ्चस्येत्यवचनेन सर्वस्य जगत इति वचनेन सर्वस्य अर्व षर्व हिंसायामिति स्मृतेः सर्वति हिनस्तीति सर्वो रुद्रस्तस्य च सर्वोऽस्त्वेष रुद्रः सर्वः कालञ्जर शिव इति नामनिधानम् । जगतः प्राणात्मकस्य सर्जकस्य ब्रह्मणश्च यस्मात्तज्जन्मादिरित्यान्तरङ्गिको भावः सूचित इति ज्ञेयम् । जगत्प्राणसमीरणा इत्यत्र जगदिति भिन्नं पदं प्राणवाचीत्यपि भानुव्याख्यानात् । अनेन भगवान्नान्यतो जन्मादिमान् स्वातन्त्र्येण तत्कर्तृत्वाव्द्यतिरेकेणान्यवत् । सोऽप्ययमेवमवसेयः । ब्रह्मादिर्न स्वातन्त्र्येण जननादिकर्ताऽन्यतो जन्मादिमत्त्वाद्यन्नैवं तन्नैवमिति । सत्येवं हरेरितरतो जन्मादिकमिति ये मन्वते तान्मिथ्याज्ञानिन इति मन्तव्यम् ॥

अयं मूलार्थः ॥ अस्मदादिनाथनात एव नाथ तवावतारो नान्यत्तत्र निमित्तमित्याह ॥ नेति ॥ हे ईश । अभवस्यान्यकर्तृकोत्पत्तिर्भवः स न विद्यते यस्य तस्याभवस्यैतस्य विनोदं विविधो नोदोऽस्मत्प्रेरणा याञ्चेति यावत् । तं विना कारणमितरत्र नास्ति । अभवाश्रयात्मनि मुक्तस्वामिनि त्वयि सति जगतो भवो निरोधः स्थितिश्च भवन्ति । ते च तेऽसन्त इति ये मन्वते तेऽविद्यया मिथ्याज्ञानेनाकृता आकृष्टा इति तर्कयामहे । त्वय्यभवात्मनि भवादयोऽविद्यया कृता अङ्गीकृताः । बत खेद इति वा । अ विद्यया अविद्ययेति पदद्वयं वा । हे अ ईश । विद्यया तवेच्छयैव कृता इति तेन, न सन्तीति वा । ‘अदोषत्वाद्गुणोद्रेकाद इत्युक्तो हरिः स्वयम् । अगम्यत्वाच्च बुद्ध्यादे’-रिति बृहदारण्यकभाष्योक्तेः । ते सकाशाद्भवतीति भवस्तस्य भवस्य मम तथा भवस्य शिवस्यापि भवो निरोधः स्थितिर्यतः कृता अतस्तवादयोऽविद्ययाऽङ्गीकृता इति वा । विना भगवता त्वया विनेत्यावृत्तमन्वेतव्यम् । विना का देवताऽरणं न काऽपि रक्षयित्रीति योजयन्ति । नते सर्वनमस्कृते त्वयीत्यपि योजयन्ति । भवो निरोधः संहारोऽनिरोधः पालनं स्थितिरूर्ध्वगतिः साऽव्यक्तवाच्या यया सा च साऽविद्या तया । स्थितिरूर्ध्वगतौ भाव इति विश्वात्स भावो रय्यो ययेति सा तयेति वा । ये भवादयस्त्वय्यकृता नाङ्गीकृता ये ते चाविद्यया । शिष्टं प्राग्वत् । अवि त्त्वयि कृता इति जानातीति शेषः । यया ते शरीर्यप्यशरीरवानित्यभवस्य मम भवस्य शिवस्य च भवादयः कृतास्तस्य । या रमाया शं यस्मात्तस्या ईशेति वा तत्सम्बुद्धिः । यं कामये तं तमुग्रं कृणोमि तं ब्रह्माणं तमृषिं तं सुमेधामित्यादेरित्यपि वर्णयन्ति ॥ ४० ॥

सुमनोरञ्जिनी

अवतारोऽपि तव लीलैवेत्याह ॥ न त इति ॥ हे ईश न विद्यते भव उत्पत्तिर्यस्य तादृशस्य ते भवस्य आविर्भावस्य कारणं विनोदं स्वेच्छया लीलारूपं विनाऽन्यदस्तीति न तर्कयामहे । नन्वभवत्वं कथमीशस्य । जनितोत विष्णोरित्यादौ उत्पत्त्यादेः प्रतीतेरित्यत आह ॥ भव इति ॥ त्वयि भव उत्पत्तिः । निरोधो नाशः, स्थितिरन्यस्मादिति शेषः । एता अविद्यया अज्ञानेन विद्याविरोधिमिथ्याज्ञानेन वा कृता अङ्गीकृताः श्रुत्यर्थापरिज्ञानेन स्वीकृता वादिभिर् न तु वस्तुतस् ताः सन्तीत्यर्थः । कुत इत्यत ॥ अभवेति ॥ अभवो मोक्षः मुक्ता वा तदाश्रयश्चासावात्मा च तस्मिन् मुक्तिप्रद इति यावत् । हेतुगर्भं विशेषणम् । एतादृशे त्वयि कथं स्युः । यतो यस्मात् सर्वजगतो ऽविद्यया त्वदिच्छया ।

महामायेत्यविद्येति नियतिर्मोहिनीति च ।

प्रकृतिर्वासनेत्येव तवेच्छाऽनन्त कथ्यते ॥ इति वचनात् ।

भवो निरोधः स्थितिश्च कृता अत इति योजना । मोक्षप्रदस्य सर्वजगज्जन्मादिकारणस्य तवान्यस्माज्जन्मादयः कथं स्युरिति भावः । तदुक्तम्–

अज्ञानादेव मन्यन्ते विष्णोर्जनिमृती नराः ।

स्थितिरूपस्य चान्यस्मात् स्थितिं मोक्षाश्रयस्य हि ।

स्वेच्छया हि जनिं भङ्गं स्थितिं चासौ करोत्यजः ।

सर्वस्य जगतो यस्मात्तज्जन्मादिः कुतो भवेत् ॥ इति चेति ।

स्थितिरूपस्य अनन्याधीनसार्वकालिकसत्तारूपस्य । अभवाश्रयात्मनीत्यस्यार्थो मोक्षाश्रयस्य हीति । द्वितीययोजनामभिप्रेत्याह ॥ स्वेच्छयेति ॥ सर्वस्य जगत इति मूले शेषोक्तिः । कुतः कस्मान्निमित्तान् न कुतोऽपीत्यर्थः ॥ ४० ॥

मत्स्याश्वकच्छपनृसिंहवराहहंसराजन्यविप्रविबुधेषु कृतावतारः ।

त्वं पासि नस्त्रिभुवनं च तथाऽधुनेश भारं भुवो हर यदूत्तम वन्दनं ते ॥४१॥

पदरत्नावली

भक्तसङ्कटपरिहारमन्तरेणान्यदवतारप्रयोजनं न तवास्तीति यतोऽतो भवान् इतो निकृष्टोत्कृष्टजातिग्रहणेन त्रिभुवनमपादित्युपसंहरति मत्स्येति ॥ अश्वो हयग्रीवः, कच्छपः कूर्मः, राजन्यो रामः, विप्रो जामदग्न्यः, विबुध उपेन्द्रः, पशुपतिना त्रिपुरासुरसंहारावसरे शररूपत्वाद् विष्णोर् इषुरिति च कृता अवतारा येन सः । तदुक्तं कर्णपर्वणि ‘चिन्तयित्वा हरिं विष्णुमव्ययं यज्ञवाहनम् । शरं सङ्कल्पयाञ्चक्रे विश्वकर्मा महामनाः’, ‘त्रैलोक्यसारं तमिषुं मुमोच त्रिपुरं प्रति’ इत्यादिना । अपा इति वक्तव्ये पासीति लकारव्यत्ययः । यथा त्वं नस्त्रिभुवनं च अपास् तथाऽधुनाऽपीश यदूत्तम भुवो भारं हर, ते वन्दनम्, अस्त्विति शेषः ॥ ४१ ॥

दुर्घटभावदीपिका

मत्स्याश्वकच्छपनृसिंहवराहहंसराजन्यविप्रबुधत्वैर्युक्तः सन् कृतोऽवतारो येन स तथेति । एतेन मत्स्येति वाक्यस्य मत्स्येषु कृतावतारोऽश्वेषु कृतावतार इत्याद्यर्थो वक्तव्यः । तत्र भगवद्व्यतिरिक्तानां मत्स्यादीनां विद्यमानत्वान् मत्स्येषु कृतावतार इत्याद्युपपद्यते । भगव-द्व्यतिरिक्तनृसिंहहंसस्याभावान्नृसिंहेषु कृतावतार इत्यनुपपन्नमिति शङ्का परिहृता । मत्स्याश्व-कच्छपनृसिंहवराहहंसराजन्यविप्रविबुधेष्विति सप्तमीबहुवचनं तृतीयाबहुवचनोद्देश्यकम् । भावप्रधानोऽयं निर्देश इति चाङ्गीकृत्य मत्स्यत्वेन युक्तः सन् कृतावतार इत्याद्यर्थ उच्यत इत्यभ्युपगम्य मत्स्यत्वादियोगवन्नृसिंहत्वयोगः सम्भवतीत्यूरीकरणात् ॥ ४१ ॥

॥ इति श्रीभागवतटिप्पण्यां सत्याभिनवयतिकृतायां

दुर्घटभावदीपिकायां तृतीयोऽध्यायः ॥ १०-३ ॥

सत्यधर्मीया

सदा देव एवमवतारान्कुर्वतस्तव न किमपि प्रयोजनं किन्त्वस्मदादिसङ्कट-विघटनमेव नैतन्मात्रं विना किञ्चित्प्रतिकर्तुं न समे वयं समर्था इति वदन्नुपसंहरति ॥ मत्स्येति ॥ अ अश्व ईषदश्वो हयग्रीवश्च । कच्छपः कूर्मश्च नृसिंहश्च वराहश्च हंसश्च राजन्यो राज्ञ्यां राज्ञा जातो रामादिश्च विप्रः परशुरामादिश्च विबुध उपेन्द्रो एषु तत्त्वेन कृतावतार इत्यर्थः । एतेन मत्स्या-दीनामन्येषां सत्त्ववन्नृसिंहानामन्येषामभावात्कथमन्वय इति निरस्तम् । यद्वा मत्स्येत्यारभ्यावतारान्तमेकं पदम् । मत्स्य इति विबुध इतीषुरिति कृता अवतारा येन स तथा । यथोक्तं कर्णपर्वणि । विष्णुमिषुं समकल्पयन् । इषुश्चाप्यभवद्विष्णुरिति । इषु इच्छायामिति स्मरणादिषेरौणादिके कुप्रत्यये इषु इच्छा तेन मत्स्येत्येवं सर्वत्रेषुणा कृतावतार इति वा । नृसिंह इव मत्स्याश्वकच्छपाश्च वराहहंसराजन्य-विप्रविबुधाश्च तेषु कृतावतार इति वा । न च द्वन्द्वनिर्दिष्टेषु कथमेकस्य दृष्टान्तत्वमदृष्टं क्वापि कल्प्यत इति वाच्यम् । दोषारच्छिद्रशब्दानां पर्यायत्वमिति व्याकृतिलवेऽत्र छिद्रशब्दोपादानं दृष्टान्तत्वेनेति सुधाभिधानात् । अनेन रेत आद्यविकृततारूपार्थविशेषोऽपि लभ्यत इति ज्ञेयम् । यदा नृसिंहाकृतिराविरासीदित्यादेः । त्वं नस्त्रिभुवनं च पासि । अपा इति वक्तव्ये यदूत्तमाभेदं बोधयितुं पासीत्युक्तिरिति ज्ञेयम् । व्यत्ययो वा । धातुसम्बन्धे प्रत्यया इति वा । यथा तथाऽधुनाऽ-पीश यदूत्तम भुवो भारं हर ते वन्दनमस्तु कुर्म इति वा शेषः ॥ ४१ ॥

सुमनोरञ्जिनी

भगवति भक्तानुकंपितां स्मरन् स्वाभिप्रेतं विज्ञापयन् शिरसा ववन्दे इत्याह ॥ मत्स्येति ॥ मत्स्येत्यादिहंसेत्यन्तं सम्बोधनम् । अश्वो हयग्रीवः । कच्छपः कूर्मः । राजन्यो रामः । विप्रो जामदग्न्यादिर् विबुधेषु कृतावतार उपेन्द्रपृश्निगर्भादिरूपेण मत्स्याश्वकच्छपेषु नृसिंहादिषु कृतावतार इति वा । नृषु कलिकः । विप्रराजन्ययोर्विवक्षा विशेषेण पृथगुक्तिर् युक्ता । ननु हयग्रीवनृसिंहयोः कथमश्वसिंहत्वे इति चेज् जातिलिङ्गं मुखं स्मृतमिति वचनादवेहि । अत एव नृसिंहं प्रति सिंहविरोधिशरभरूपेण प्रत्यवस्थानं हरस्य पुराणेषु श्रूयते तथा । नो ऽस्मान् त्रिभुवनं च यथा पासि अपा लकारव्यत्यय आर्षः । तथा अधुना भुवो भारं हर परिहर । तत्र किमस्माभि-राप्तकामस्यानुष्ठेयमस्ति । अतो यदूत्तम ते वन्दनमेवास्त्वित्युक्त्वा सर्वे शिरसा प्रणेमुरिति भावः

॥ ४१ ॥

**दिष्ट्याऽम्ब ते कुक्षिगतः परः पुमान् **

अंशेन साक्षाद् भगवान् भवाय नः ।

**मा भूद् भयं भोजपतेर्मुमूर्षोः **

गोप्ता यदूनां भविता तवात्मजः ॥ ४२ ॥

पदरत्नावली

भगवद्भक्तबहुमानातिशयोऽपि भागवतो धर्म इति प्रदर्शनाय देवकीमाह दिष्ट्येति ॥ हे अम्ब दिष्ट्या मङ्गलम् । ‘दिष्ट्या स्यान्मङ्गलादिषु’ इति यादवः । साक्षात् तुर्यः जाग्रदाद्यवस्थातिक्रान्तः । भवाय मङ्गलाय । भविता भविष्यति ॥ ४२ ॥

सत्यधर्मीया

देवकीर्तनवद्देवकीगुणकीर्तनमपि भगवत्तोषदमिति तामुद्दिश्य भाषते ॥ दिष्ट्याऽम्बेति । अम्बार्थनद्योरिति ह्रस्वः । हे अम्ब दिष्ट्या मङ्गलम् । दिष्ट्या स्यान्मङ्गलादिष्विति यादवः । परः पुमान्परपुरुषो भगवानंशेन । आवेशावतार इति पराकरोति ॥ साक्षादिति ॥ मुख्यांशेन नो भवाय मङ्गलाय भवाय नो मङ्गलाश्रय इति वा । ते कुक्षिं पिपतिषतीत्यादिवदाशङ्कायां सन् तवात्मजो यदूनां गोप्ता रक्षिता भविता भविष्यति ॥ ४२ ॥

सुमनोरञ्जिनी

देवकीं समाधत्ते ॥ दिष्ट्येति ॥ हे अम्ब । भगवानव्याहतषड्गुणैश्वर्यसंपन्नः परः पुमान् परमपुरुषः साक्षात्स्वयमंशेन ते कुक्षिं गत इति यत् तद् दिष्ट्या मङ्गलमेव । दिष्ट्या स्यान्मङ्गलादिष्विति यादवः । मुमूर्षोर्मरणाशङ्काविषयस्य । आशङ्कायामचेतनेषूपसंख्यानमिति स्मरणात् । भोजपतेर्भयं मा भूत् । कुतः । यतस्तवात्मजः यदूनां गोप्ता नः भवाय क्षेमाय मङ्गलाय भविता भविष्यति अत इति सम्बन्धः ॥ ४२ ॥

इत्यभिष्टूय पुरुषं यद्रूपमनिदं यथा ।

ब्रह्मेशानौ पुरोधाय देवाः प्रतिययुर्दिवम् ॥ ४३ ॥

॥ इति श्रीमद्भागवते दशमस्कन्धे तृतीयोऽध्यायः ॥

पदरत्नावली

यद्रूपमनिदं प्रत्यक्षसिद्धजगद्विलक्षणं तं पुरुषं पूर्णं यथा यथावदभिष्टूय । यद्वा यद्रूपं यथाऽनिदं प्रतीयते तादृशैर्विशेषणैरभिष्टूय ॥ ४३ ॥

॥ इति श्रीमद्भागवतटीकायां विजयध्वजतीर्थभिक्षुकृतायां दशमस्कन्धस्य तृतीयोऽध्यायः ॥

सत्यधर्मीया

यद्रूपमनिदं नेदमनिदं जगद्विलक्षणं तं पुरुषं पूर्णषड्गुणं यथा सम्यगिति पूर्वोक्तप्रकारेणाभिष्टूय स्तुत्वा ब्रह्मेशानौ ब्रह्मा चेशानश्च तौ ब्रह्मा चेशश्च तौ । अनित इत्यनौ च । चेष्टावन्तौ गन्तुमुद्यताविति यावदिति वा । तौ पुरोधाय पदमेकं, देवा दिवं प्रति ययुः ॥ ४३ ॥

॥ इति श्रीभागवतटिप्पण्यां सत्यधर्मयतिकृतायां

दशमस्कन्धपूर्वार्धे तृतीयोऽध्यायः ॥ १०-३ ॥

सुमनोरञ्जिनी

यद्रूपं यस्य रूपम् । अनिदम् इदं न भवतीति । प्रत्यक्षसिद्धं जगद्विलक्षण-मित्यर्थः । तं पुरुषं, इति पूर्वोक्तप्रकारेण । देवा अप्यभिष्टूय यथा गतास्तथा ययुरिति सम्बन्धः ।

॥ इति श्रीमद्भागवतदशमस्कन्धपूर्वार्धव्याख्यायां (गूढकर्तृकायां)

सुमनोरञ्जिन्यां तृतीयोऽध्यायः ॥ १०-३ ॥

विरोधोद्धारः

इतीति । अत्रादौ ब्रह्माभवश्चास्तुवत् । मध्ये ब्रह्माभवावूचतुः । अन्ते इत्यभिष्टूय देवताः प्रतिययुरिति । अतो विरोधः । तस्मादर्थान्तरम् । पुरुषं गर्भस्थम् । यदित्यव्ययम् । यस्यां देवक्यामित्यर्थः । अनिदम् । इदंशब्दवाच्यजगद्विलक्षणम् । रूपम् भगवद्रूपम् । स्थितं तं च ॥ यथा योग्यतामनतिक्रम्य ॥ इति उक्तप्रकारेण ॥ अभिष्टूय स्तुत्वा । यद्वा । यस्य भगवतः । रूपम् । अनिदम् अनः प्राणो गुरुत्वेनास्त्येषामिति अनिनो वैष्णवाः । तान् दयति पालयति तद् अनिदम् । देङ् पालन इति धातोः । तं पुरुषमभिष्टूय स्थिताविति ब्रह्मेशानविशेषणत्वेन शेषं कल्पयेत् । अन्यथा ल्यबन्तक्रिययोरेककर्तृकत्वनियमात्स्तवनरूपक्रियायाः सर्वदेवकर्तृकत्वे ब्रह्माभवावूचतुरिति पूर्ववाक्यस्य विरोधापत्तिस्तस्मात्स्थितशब्दस्य स्थानरूपक्रियायामेव ब्रह्मेशानकर्तृकल्यबन्तान्वयं कृत्वा तत्पुरोधानार्थकेन पुरोधायेति ल्यबन्तेन सहयानरूपक्रियाया देवमात्रकर्तृकत्वं ज्ञेयम् । तस्मान्न कोऽपि विरोधः ॥ ४३ ॥

॥ इति श्रीमद्भागवतदशमस्कन्धपूर्वार्धव्याख्याने पाङ्घरी श्रीनिवासाचार्यकृते

विरोधोद्धारे तृतीयोऽध्यायः ॥ १०-३ ॥