सुहृद्वधान्निववृते कंसस्तद्वाक्यसारवित्
॥ अथ द्वितीयोऽध्यायः ॥
श्रीशुक उवाच–
सुहृद्वधान्निववृते कंसस्तद्वाक्यसारवित् ।
वसुदेवोऽपि तं प्रीतः प्रशस्य प्राविशद् गृहम् ॥ १ ॥
पदरत्नावली
अत्र कंसचरितकथनव्याजेन संसारस्यानर्थरूपत्वं वर्णयति शुकः । भार्यावधो-परमात् प्रीतः । कंसं प्रशस्य ॥ १ ॥
सत्यधर्मीया
अत्र कंसकृत्यशंसनापदेशेन संसारो निस्सार इति शुकः शंसति ॥ सुहृद्वधादिति ॥ भगिनीवधात् । सुहृदिति वदन्नदो हृदयं पद्माधवसद्मायितमिति शोभनं तद्वती सा देवकीति ध्वनयति । कंसो हिंसात इदानीं निवृत्तः किं क्षणान्तरे तनोतीत्यपि न किन्तु मनःशौध्द्यान्निववृत इत्यप्याह ॥ सुहृदिति ॥ शुद्धमनस्को वधात्प्रस्तुतादिव । तत्र निमित्तमाह ॥ तद्वाक्यसारविदिति ॥ तस्य वसुदेवस्य वाक्यं तद्वाक्ये यः सारस्तं वेत्तीति स तथा । अशरीरवाणीसारविदिति वा । वाक्यभावविन्निववृते । प्रीतः प्रस्तुतभीत्यपगमात्प्रशस्य स्तुत्वा स्वगृहं प्राविशत् ॥ १ ॥
सुमनोरञ्जिनी
तद्वाक्यसारवित् तस्य वसुदेवस्य वाक्यसारं वाक्याभिप्रायं वेत्तीति स तथा कंसः। सुहृत् सहोदरी देवकी तस्या वधात् । निववृते निवृत्तोऽभवत् । तेन वसुदेवोऽपि प्रीतः सन् । तं कंसं प्रशंस्य श्लाघयित्वा । स्वगृहं प्राविशदिति सम्बन्धः ॥ १ ॥
अथ काल उपावृत्ते देवकी सर्वदेवता ।
पुत्रान् प्रसुषुवे चाष्टौ कन्यां चैवानुवत्सरम् ॥ २ ॥
पदरत्नावली
सर्वा देवता यस्यां सन्निहिताः सा इति । भगवदवतारस्थानभूतत्वात् सर्वस्तुत्येति वा । अनुवत्सरं प्रतिसंवत्सरम् ॥ २ ॥
सत्यधर्मीया
सर्वदेवता सर्वा देवता यस्यां सन्निधानवत्य इति वा भगवदवतारभूतत्वा-त्सर्वस्तुत्येति वा । दशमे मासि जायत इति श्रुतिश्रावितसमये उपावृत्ते प्राप्ते सति अष्टौ पुत्रानेकां कन्यां चानुवत्सरं संवत्सरस्यैकैकमिति प्रसुषुवे ॥ २ ॥
सुमनोरञ्जिनी
अथ काल यौवनकाल उपावृत्ते प्राप्ते । सर्वा देवता यस्यां सन्निहिताः सा तथा । अनुवत्सरं वत्सरानुक्रमेण । एकैकस्मिन्वत्सरे एकैकमिति क्रमेण । अष्टौ बलभद्रसहितान् सप्त पुत्रान् एकां कन्यां च सुषुव इत्यन्वयः । पुत्रान् कन्यां चेत्यष्टावपत्यानि सुषुव इति वा । तेन बलभद्रस्य रोहिणीजातत्वे न दोषः ॥ २ ॥
कीर्तिमन्तं प्रथमजं कंसायानकदुन्दुभिः ।
अर्पयामास कृच्छ्रेण सोऽनृतादतिविह्वलः ॥ ३ ॥
पदरत्नावली
जन्मनाम्ना कीर्तिमन्तम् ॥ ३ ॥
सत्यधर्मीया
जन्मनाम्ना कीर्तिमन्तम् । प्रथमं जायते स तथा तं कृच्छ्रेण कष्टेन कंसायार्पयामास । विना तद्याञ्चां हिंसायै कंसाय दानं नोचितमित्यत आह ॥ सोऽनृतादतिविह्वल इति ॥ अदाने प्राप्यादनृतात्तद्वादित्वप्रयुक्तपातकादति विह्वलः सन्नार्पयत् ॥ ३ ॥
सुमनोरञ्जिनी
अनृतादनृतवचनात् । विह्वलो भीतः । आनकदुन्दुभिर्वसुदेवः । प्रथमजं कीर्तिमन्तम् । प्राग्जन्मनि कीर्तिमान्नामकमित्यर्थः ॥ ३ ॥
किं दुस्सहं नु साधूनां विदुषां किमपेक्षितम् ।
किमकार्यं कदर्याणां दुस्त्यजं किम् ऋतात्मनाम् ॥ ४ ॥
पदरत्नावली
स्वात्मनां प्राणनाशेनापि सत्यमेव रक्षन्ति महान्त इत्याशयेनाह किं दुस्सहमिति ॥ कंसोऽसाधुष्वेक इत्याशयेनाह किमकार्यमिति ॥ कदर्याणां कुत्सितस्वामिनाम् अकार्यं किम् ? वसुदेवः साधुष्वन्यतम इत्याशयेनाह दुस्त्यजमिति ॥ ऋतात्मनाम् ऋजुस्वभावानाम् । ‘ऋतमुञ्छशिलम्’ इत्युक्तेर् उञ्छवृत्तिमनसां वा ॥ ४ ॥
दुर्घटभावदीपिका
वसुदेवेन दुःसहपुत्रवियोगसहनं कथं कृतमित्यत उक्तम् ॥ किं दुःसहमिति ॥ अनेन साधूनां सदाचाराणां दुःसहं किं न किमपि । अतोऽयमपि साधुरिति दुःसहपुत्रवियोगसहनं कृतवानित्युक्तं भवति । सर्वापेक्षितपुत्रलालनाद्यपेक्षा वसुदेवेन कथं त्यक्तेत्याशङ्कापरिहारायोक्तम् ॥ विदुषामिति ॥ अनेन विदुषां भगवज्ज्ञानिनामपेक्षितं किं न किमपि । अतोऽयमपि भगवज्ज्ञानीति पुत्रलालनादिकमपेक्षितं न जातमित्युक्तं भवति । ननु वसुदेवेनाकार्यं हननार्थं पुत्रसमर्पणं कथं कृतमित्याशङ्कां परिहर्तुमुक्तम् ॥ किमकार्यमिति ॥ अनेन कदर्याणां कदर्यभयविशिष्टानामकार्यं किं न किमपि । अतोऽस्यापि कदर्यं कंसभयविशिष्ट-त्वाद्धननार्थमकार्यपुत्रसमर्पणं कृतमित्युक्तं भवति । ननु वसुदेवेन दुस्त्यजपुत्रत्यागः स्वहस्तेन कथं कृत इत्याशङ्कां निराकर्तुमुक्तम् ॥ दुस्त्यजमिति ॥ अनेन सत्यात्मनां स्ववाक्यं सत्यं कर्तव्यमित्यन्तःकरणसंपन्नानां दुस्त्यजं किं न किमपि । अतो वसुदेवोऽपि प्राणभयेनोत्पन्नानां पुत्राणां समर्पणं करिष्य इत्युक्तं स्ववाक्यं सत्यं कर्तव्यमित्यन्तःकरणवानिति पुत्रत्यागः स्वहस्तेन कृत इत्युक्तं भवति । एतेन वसुदेवस्य कदर्यत्वाभावात्किमकार्यं कदर्याणामित्ययुक्तमिति चोद्यं निराकृतम् । कदर्यशब्दस्य मत्वर्थीयाजन्तत्वात्कदर्याणामित्यनेन भयसाधनत्वेन कदर्यविशिष्टानामित्यर्थो लभ्यत इति भावेन कदर्यभयसंपन्नानामिति तात्पर्यस्योक्तत्वात् ॥ ४ ॥
॥ इति श्रीभागवतटिप्पण्यां सत्याभिनवयतिकृतायां
दुर्घटभावदीपिकायां द्वितीयोऽध्यायः ॥ १०-२ ॥
सत्यधर्मीया
पादत्रयेण सत्स्वभावमेकेन दुःस्वभावं चावेदयन्कथं वसुदेवो नृपभीतः पोतमदादित्युत्तरयति ॥ किमिति ॥ साधूनां किं दुःसहं विदुषामपेक्षितं किं न किमपीत्युपेक्षित-वान्सुतमिति भावः । किञ्चेदमपि तनुजत्यजनं दुःशकमित्यत आह । ऋतात्मनां सत्यसंहितचेतसां किं दुस्त्यजं न किमपि सर्वं सुत्यजमिति भावः । वसुदेवदत्तं पुत्रं न हन्यात्कंस इत्यत आह । कदर्याणां कृपणानां कुत्सितस्वामिनां वाऽकार्यं किं सर्वं हिंसादिकार्यमेवेत्यर्थ इति । कदर्ये कृपणक्षुद्रकिंपचानेत्यमरः । पर्यायेष्वेवं बहुस्थलेष्वमरो वर्तत इति नाद्भुतमिदम् । ऋतात्मनां हरिमनसामिति वा । ऋ गताविति धातोस्तु पूर्वावगतवत्सदा । स्थितेर्ब्रह्मर्तमित्युक्तमित्युक्तेः । ऋतमुञ्छशिलमित्युक्तेस्तद्वृत्तिमनसां वा ॥ ४ ॥
सुमनोरञ्जिनी
ननु कथं परमप्रेमास्पदं ज्येष्ठापत्यं नृशंसाय कंसाय समर्पितवानित्यतस्तत्राह ॥ किमिति ॥ अत्र यथा तथेत्युपस्कर्तव्यम् ॥ यथा साधूनां विहिताचरणशीलानाम् । दुःसहं सोढुमशक्यं किं न किमपि । यथा वा विदुषां ज्ञानिनाम् एकान्तिनामिति यावत् । किमपेक्षितं भगवत्प्रसादमन्तरा न किमपि । कदर्याणां निन्दितानाम् अकार्यं किं न किमपीति च यथा, कंसस्वभावबोधनायेदं, तथा ऋतात्मनां सत्यवचनस्वभावानां किं दुस्त्यजं न किमपि । स्वशरीरमपि त्यक्त्वा सत्यमेव रक्षन्ति महान्त इति भावः ॥ ४ ॥
विरोधोद्धारः
कीर्तिमन्तमिति ॥ अत्र वसुदेवस्यानृतादतिविह्वलत्वमुक्तम् । तत्कृष्णसमर्पणेन विरुद्धमतोऽर्थ उच्यते । स आनकदुन्दुभिः ॥ अनृतात् ॥ नास्ति ऋतं सत्यम् । ऋ गताविति धातोर्गत्यर्थानां च ज्ञानार्थत्वात् । ज्ञानं वा यस्मिंस्तस्मात्कंसात् ॥ अतिविह्वलः बहुविद्विग्नः सन् ॥ कीर्तिमन्तं तन्नामकम् । आद्यजं पुत्रम् ॥ कंसाय । कसि हिंसायामिति धातोर् हिंसनार्थम् ॥ कृच्छे्रण अतिकष्टेन । अर्पयामासेत्यन्वयः ।
ननु स्वभोगसाधनदारकृते हिंसाविषये पुत्रदातुर्वसुदेवस्यानृतादिदोषभीतिः कथं युज्यत इत्यतः कृच्छ्रेणेत्युक्तम् । एतदुपलक्षणम् । कृच्छ्रादिप्रायश्चित्तपूर्वकमित्यर्थः । यद्वा । अनृतं नाम भगवत्प्रीतिविरोधि । अन्यत्सर्वं तत्प्रियत्वाद्गुणो दोषो तथाऽप्रियम् । एवं ज्ञानवतो दृष्टिरज्ञ-स्तन्नावगच्छतीत्युक्तेः । भगवद्वचःसत्यत्वाविश्वस्तेन धर्मराजेनाश्वत्थामा हत इति भाषणे निःसन्देहानाचरणेन तस्य दोषवत्त्वदर्शनाच्च । अतः श्रीकृष्णानर्पणस्य भगवद्विरोधित्वाभावेनावृतत्वा-भावाद्वसुदेवस्यानृतादतिविह्वलत्वं न विरुद्धमिति भावः । अथवा । पुत्रान्समर्पयिष्येऽस्या इति प्रतिज्ञातुर्वसुदेवस्य हत्यार्थं पुत्रोत्पादनमेवायुक्तमिति न शङ्क्यम् । सोनृतादित्येकं पदम् । उना उन्प्रत्ययेन सहित ऋतुशब्द ऋतुरिति भवति । तस्मादृतोः रजोदर्शनलक्षणात् । अतिविह्वलः दुस्त्यजं किमृतात्मनामित्युक्त्या वसुदेवस्य कामत्यागशक्तत्वेऽपि प्रदाय मृत्यवे पुत्रान्मोचये कृपणामिमामिति विचारितपुत्रदानापेक्षया देशकालाद्यनापदि भार्याऋतोर्वंध्यत्वकारणे भ्रूणहत्यारूपदोषस्य स्वात्मकृत्याधिक्यं ज्ञात्वाऽतिभीतः सन्नित्यर्थः । कंसाय अन्तं लक्षणया बालवधदोषम् । स्वस्मै चेति शेषः । धर्मज्ञत्वेन कीर्तिमाप । दयितुमित्यध्याहार्यम् । प्रथमजं पूर्वगर्भम् । कृच्छ्रेण धर्मसंकटेन । अर्पयामास देवक्यामधात् । तस्मात्स्वेन केवलदत्तानां परेण हिंसा कृता चेत्तत्र स्वमनीषितस्या-भावात्तदपेक्षया भार्याऋतोर्वन्ध्यत्वकरणेन सभ्रूणहत्यायाः स्वकृतत्वसिद्ध्या महादोषत्वमिति विचारेण पुत्रदाने केवलविह्वलत्वेऽपि भार्याऋतुवन्ध्यत्वकरणेऽतिविह्वलः सन् तेन कथंचित्पुत्रसम्भवेऽपि तदाचारस्य युक्तत्वमेवेति भावः ।
अनेन कंसायान्तमित्यादिना जातमात्रसुतार्पणे नामकरणकालासम्भवेन नामानुपपत्त्या कीर्तिमन्तमिति नामकथनेन प्राप्तविरोधोऽपि परिहृतो भवति । ततश्च शौरिर्भगवत्प्रचोदित इत्युक्तेः । परप्रेरणयाऽविहितकर्मकरणेऽपि कर्तुर्दोषाभावः । अन्यथा विश्वामित्रप्रेरितवसिष्ठपुत्रहन्तुः कल्माषपादस्य ब्रह्महत्त्याप्रसङ्गात् । न च तथा । किन्तु प्रेरकस्य विश्वामित्रस्यैव ब्रह्महत्याप्राप्तिदर्शनात् । यद्वा । अनृतत्वं नाम प्रतिज्ञाया अपारगम् । प्रतिज्ञा तु पुत्रान्समर्पयिष्येऽस्या यतस्ते भयमुत्थितमिति । समभेदे समीचीने इति यादवकोशात् । देवकीशोणितोपादानकशरीरत्वेन सम् अभिन्नानामेव पुत्राणा-मर्पणप्रतिज्ञया, काष्ठा यथाऽऽनन्दकरं नभस्त इति दृष्टान्तेन तमद्भुतं बालकमित्यादिना च भगवतः शोणितोपादानकशरीराभावेन भिन्नत्वसिद्ध्या तददानेऽपि वसुदेवस्य नानृतभाषित्वप्राप्तिः । यतस्ते भयमित्यत्र अभयमिति पदच्छेदो वा । यतः येभ्यो पुत्रेभ्यस्ते तुभ्यम् अभयमुत्थितं तान्प्रदास्यामीति प्रतिज्ञायां सत्यां भयहेतुपुत्रानर्पणे को दोषः । उत वा । तसेः सार्वविभक्तिकत्वात् । यतो येषां पुत्राणां ते त्वत्तो भयमुत्थितं तान्पुत्रान्समर्पयिष्य इति कंसयोग्यतानुरोधेन पूर्वमेव सविप्रलम्भप्रतिज्ञायां कंसजभयोत्थानरहितस्य भगवतोऽनर्पणे कथमसत्याचारित्वम् । नास्त्येवेत्यर्थः ॥ ३,४ ॥
दृष्ट्वा समत्वं तच्छौरेः सत्ये चैव व्यवस्थितिम् ।
कंसस्तुष्टमना राजन् प्रहसन्निदमब्रवीत् ॥ ५ ॥
सत्यधर्मीया
समत्वं तोषकातोषकार्ययोः सत्ये यथार्थभाषणे व्यवस्थितिं च दृष्ट्वैव तुष्टमनाः कंसः प्रहसन्सन्निदमब्रवीत् ॥ ५ ॥
सुमनोरञ्जिनी
कंसः, शौरेः शूरपुत्रस्य । समत्वं, शत्रुमित्रोदासीनेषु । सत्ये व्यवस्थितिं निष्ठां च ॥ ५ ॥
प्रतियातु कुमारोऽयं न ह्यस्मादस्ति मे भयम् ।
अष्टमाद् युवयोः पुत्रान्मृत्युर्मे विहितः किल ॥ ६ ॥
सत्यधर्मीया
अस्मात्प्राथमिकात्कुमारान्मे भयं हि यतो नास्ति ततोऽयं कुमारः प्रतियातु । युवयोरष्टमात्पुत्रान्मे मृत्युर्विहितः । किलेत्यशरीरवाणीवार्तायाम् ॥ ६ ॥
सुमनोरञ्जिनी
अयं कुमारः प्रतियातु एनं गृहीत्वा गच्छेत्यर्थः । कुत इति तत्राह ॥ न हीति ॥ विहितः प्रतिपादितः । विधिनेति शेषः ॥ ६ ॥
तथेति सुतमादाय ययावानकदुन्दुभिः ।
नाभ्यनन्दत तद्वाक्यमसतोऽविजितात्मनः ॥ ७ ॥
पदरत्नावली
अविजितात्मनोऽसतः कंसस्य तद्वचनं न विश्वसनीयमिति नाभ्यनन्दत ॥७॥
सत्यधर्मीया
असतस्तत्राप्यविजितात्मनोऽनिगृहीतमानसस्य तत् प्रतियातु कुमारोऽयमिति वचनं नाभ्यनन्दत न विश्वसनीयमिति न तुतोष ॥ ७ ॥
सुमनोरञ्जिनी
तद्वाक्यं श्रुत्वा नाभ्यनंदत । तत्र हेतुरसत इति । असुरस्वभावस्येत्यर्थः । अत एव अविजितात्मनः । अविजितम् अस्वाधीनम् आत्मा मनो यस्यासौ तथोक्तः । अस्य वचनमपि नाभ्यनन्दतेति ॥ ७ ॥
नन्दाद्या ये व्रजे गोपा याश्चामीषां च योषितः ।
वृष्णयो वसुदेवाद्या देवक्याद्या यदुस्त्रियः ।
सर्वे वै देवताप्राया उभयोरपि भारत ॥ ८ ॥
पदरत्नावली
नन्दाद्या इत्यारभ्य लोकोपद्रवकारिण इत्यन्तं नारदवाक्यम् । उभयोर् यदुकुलगोकुलयोः ॥ ८ ॥
सत्यधर्मीया
शुकः कंसघ्नकंसपक्षीयस्वरूपं निरूपयति ॥ नन्दाद्या इति ॥ अमीषां गोपानां वसुदेवाद्या वृष्णयो देवक्याद्या यदुस्त्रियश्चेत्युभयोर्वसुदेवनन्दकुलयोः सर्वे देवताप्राया बाहुल्येन देवता एव ॥ ८ ॥
सुमनोरञ्जिनी
तत्र उपोद्घातेन शुकः परीक्षितं प्रति देवासुरस्वभावान् कथयति ॥ नन्दाद्या इति ॥ व्रजे गोकुले । नन्दाद्या गोपाः । अमीषां नन्दादीनाम् । वसुदेवाद्या वृष्णयः देवताप्रायाः प्रायशो देवता देवा देवसदृशाश्चेत्यर्थः । उभयोर् वसुदेवनन्दगोपयोः ॥ ८ ॥
ज्ञातयो बन्धुसुहृदो ये च कंसमनुव्रताः ।
असुराः सर्व एवैते लोकोपद्रवकारिणः ॥ ९ ॥
सत्यधर्मीया
ये च कंसमनुव्रतास्तज्ज्ञातयः सुहृदश्च लोकोपद्रवकारिण एते सर्व एवासुरा दैत्याः ॥ ९ ॥
सुमनोरञ्जिनी
न केवलमेतावन्त एव किं तु ज्ञातयः भोजांधकादयः, बन्धवः पाण्डवाद्याः, सुहृदो मित्राणि च देवताप्राया इत्यन्वयः । ये च ये तु कंसम् अनुव्रता अनुसृत्य वर्तनमेव व्रतं येषां ते तथोक्ताः । ये ते सर्वे असुरा एवेत्यन्वयः । असुरत्वे निमित्तं लोकोपद्रवेति । लोकानाम् उपद्रवं कुर्वंतीति तथेति हेतुगर्भविशेषणम् ॥ ९ ॥
गतेऽथ वसुदेवे तु देवकार्यार्थमुद्यतः ।
एतत् कंसाय भगवान्शंसयामास नारदः ॥ १० ॥
भूमेर्भारावतीर्णानां दैत्यानां च वधोद्यमम् ॥ ११ ॥
पदरत्नावली
वधोद्यमम्, देवैः क्रियमाणमिति शेषः ॥ ११ ॥
सत्यधर्मीया
देवकार्यार्थमुद्यतो नारदो, देवताकार्यमेवार्थः स्वप्रयोजनं तेन मुद्यस्य स, यतस्तत इति वा । भगवान्नारदः कंसाय गतम् । एतन्नन्दादिदेवादित्वं शंसयामास । णिच् स्वार्थे शशंस । शशंसाभ्येत्य नारद इति पठन्ति । तथोत्तरत्र भूमेर्भारायमाणानामिति च ॥१०,११॥
सुमनोरञ्जिनी
एवमुक्त्वा प्रकृतमनुसरति ॥ गत इति ॥ देवैः कार्यं भूभारपरिहारलक्षणं तदर्थमुद्यतः किञ्चित्साहाय्यं कर्तुमुद्युक्तो नारद एतत्प्रसङ्गतयोक्तं भूमेर्भाराय अवतीर्णानां दैत्यानां देवैः क्रियमाणं वधोद्यमं च शंसयामास कथयामासेति । नन्दाद्या इत्यारभ्य वधोद्यमम् इत्यंतं नारदवाक्यमिति पदरत्नावल्याम् ॥ १०,११ ॥
विरोधोद्धारः
सर्वे इति ॥ अत्र नारदेन कंसं प्रति भाषणाद्भारतेति सम्बुद्धिर्न युज्यत इत्यतोऽर्थ उच्यते । अत्र भारतेति सम्बुद्धिस्तु न कंसं प्रति नारदोक्ता । किंतु राजानं प्रति शुकोक्ता । तादृशसम्बुद्धेरत्र बहुशो दृष्टत्वात् । यद्वा । भं ज्ञानं तत्र अरत ज्ञानशून्येत्यर्थः । इति कंसं प्रत्येव सम्बुद्धिः । अन्यथा कंसं प्रति भाषणे द्वितीयानुपपत्तिः । नेयं नारदोक्तिः किंन्तु शुकोक्तिरेवेति चेन्न । एतत्कंसायेत्यादिनाऽगे्र उपसंहारात् ॥ मनुव्रताः ॥ त्वन्नाशविषये यो मनुर्मन्त्रस्तस्मिन्व्रतं नियमं येषान्ते, तस्य व्रतं कर्म वा येषां ते । अथवा । कं ब्रह्माणं सं विष्णुम् अनुव्रता अनुसृतकर्माणः हिरण्यगर्भः कः प्रोक्त इति । अकथप्रविसंभूमसखहा विष्णुवाचका इति चाभिधानात् । तथा च ॥ उभयोः ॥ गोपवृष्णिकुलयोः । नन्दवसुदेवयोर्वा । अपिशब्दा-द्यशोदादेवक्योरपि ॥ ज्ञातयः कुलजाः ॥ बन्धवः सम्बन्धिनः ॥ सुहृदो मित्राणि । ये च कं विष्णुम् । कं ब्रह्म खं ब्रह्मेति श्रुतेः ॥ समनुव्रता अत्यनुकूलाः । सुधामादयस्ते सर्वे देवताप्रायाः प्रायो देवांशा वै । वसुदेवादीनां कश्यपर्ष्यादित्वात् । शतधन्वादीनां देवेतरत्वात् । तद्व्यावृत्तये प्रायःशब्दः ॥
असुरा इति । अत्र पूर्वासङ्गतिर्न शङ्क्या । यतः सम्बन्धिनां देवत्वेऽस्मदादीनामपि तत्सम्बन्धित्वाद्देवत्वं स्यादित्याशङ्कानिरासार्थं तद्व्यावर्तकविशेषणेन विवेचयति ॥ असुरा इति ॥ ये लोकोपद्रवकारिणस्त्वदादयस्ते सर्वेऽसुरा एवेति सङ्गतिरित्यन्तं नारदवाक्यम् ॥ गत इति ॥ अत्रापि तृतीयार्धस्य नासङ्गतत्वम् । तस्य क्रियाविशेषणत्वात् । यद्वा । उद्दिश्येत्यर्थकप्रतिरूपं द्वितीयाविभक्त्यर्थाङ्गीकारात् । दैत्यवधोद्यममुद्दिश्य शंसयामासेत्यर्थः ॥ ८-१० ॥
ऋषेर्विनिर्गमे कंसो यदून् मत्वा सुरानिति ।
देवक्या गर्भसम्भूतं विष्णुं च स्ववधं प्रति ॥ १२ ॥
देवकीं वसुदेवं च निगृह्य निगडैर्गृहे ।
जातं जातमहन् पुत्रं तयोरजनशङ्कया ॥ १३ ॥
पदरत्नावली
अहन् हतवान् । अजनो विष्णुरवतीर्ण इति शङ्कया ॥ १३ ॥
सत्यधर्मीया
ऋषेर्देवर्षेर्विनिर्गमे गमने इत्येवं प्रकारेण जाते सति स्ववधं प्रति तमुद्दिश्य विष्णुं देवक्या गर्भसम्भूतं मत्वा तथा यदून्सुरांश्च मत्वा देवकीं वसुदेवं च निगडैः शृृङ्खलादिभिः । अनेन पादयोरुभयोरपि पृथक् पृथक् स्थापनं द्योत्यते । तेन च किञ्चिच्चलनादिसुलभता च ध्वन्यते । गृहे कारागारे निगृह्य । जातं जातं पोतमजनशङ्कयाऽजनो लोकविलक्षणो जनार्दन इति वा शङ्कयाऽवतीर्ण इति सन्देहेन । अजनं स्वक्षेपणं संहाररूपं स्वगमनं मरणरूपं तच्छङ्कयेति च
॥ १२,१३ ॥
सुमनोरञ्जिनी
ऋषेर्नारदस्य विनिर्गमे प्रयाणे । जाते सतीति शेषः । कंसो, ऋषेः सकाशाद् यदून् सुरानिति मत्वा । स्ववधं प्रति स्ववधोद्देशेन देवक्या गर्भे संभूतम् अवतरिष्यन्तं विष्णुं च मत्वेति सम्बन्धः ॥ तयोर्देवकीवसुदेवयोः । अजनो विष्णुरवतरिष्यतीति शङ्कया देवकीं वसुदेवं च गृहे स्वगृहे निगडैर् निगृह्य निबध्येत्यर्थः । जातं जातं पुत्रम् । अहन् अहनत् । नारदवाक्यात् क्रोधमूर्छितस्य अष्टमगर्भो मम मृत्युर्विष्णुरिति विस्मृतमिति भावः ॥ १२,१३ ॥
मातरं पितरं भ्रातॄन् सर्वांश्च सुहृदः सखीन् ।
निघ्नन्त्यसुतृपो लुब्धा राजानः प्रायशो भुवि ॥ १४ ॥
पदरत्नावली
परप्राणैः स्वानसून् प्राणांस्तर्पयन्तीत्यसुतृपः ॥ १४ ॥
सत्यधर्मीया
किमेककारणमनेकतोकहिंसां कंसस्ततानेत्यत एतादृशानां स्वभावोऽयमि-त्यावेदयति ॥ मातरमिति ॥ पूर्वरूपत्वात्पूर्वं मात्रुक्तिः । अथवा कंसस्योत्तरत्र स्वेन वक्ष्यमाणस्वमातृजारजत्वेन मातृघातोऽपि घटितप्राय इति तत्पुरस्कृतिः । लुब्धा असुतृपो ऽसून्स्वप्राणांस्तर्पयन्तीति ते तथा । इतरप्राणगार्ध्योपेता इति लुब्धास्तान्हत्वा स्वासुसंरक्षकाः । प्रायो बाहुल्येन ॥ १४ ॥
सुमनोरञ्जिनी
परप्राणैः स्वासून् तर्पयन्तीत्यसुतृपः । अत एव लुब्धाः स्वशरीरे लोभवन्तः राजानः । मात्रादीन् । सुहृदो ऽमितोपकारिणः । बन्धून् मित्राणि च प्रायेण निघ्नन्तीति सम्बन्धः
॥ १४ ॥
आत्मानमिह सञ्जातं जानन् प्राग् विष्णुना हतम् ।
महासुरं कालनेमिं यदुभिः स व्यरुध्यत ॥ १५ ॥
पदरत्नावली
प्राक् पूर्वजन्मनि । व्यरुध्यत विरोधं चकार ॥ १५ ॥
सत्यधर्मीया
प्रागमृतोत्पत्त्यनन्तरं महासुरं कालनेमिं विष्णुना हतमिदानीमिह मेदिन्यां सञ्जातमात्मानं स्वं जानन् । यदुभिर्विष्णुना च स कंसो व्यरुध्यत विरोधं कृतवान् ॥ १५ ॥
सुमनोरञ्जिनी
प्राक् पूर्वजन्मनि । विष्णुना हतं महासुरं कालनेमिं च ज्ञात्वा । अहमेव पूर्वं विष्णुना हतः कालनेमिसंज्ञको दैत्य इति ज्ञात्वेति भावः ॥ १५ ॥
उग्रसेनं च पितरं यदुभोजान्धकाधिपम् ।
स्वयं निगृह्य बुभुजे शूरसेनान् महाबलः ॥ १६ ॥
॥ इति श्रीमद्भागवते दशमस्कन्धपूर्वार्धे द्वितीयोऽध्यायः ॥
पदरत्नावली
शूरसेनान् तन्नामकदेशान् ॥ १६ ॥
॥ इति श्रीमन्महेन्द्रतीर्थपूज्यपादशिष्यविजयध्वजतीर्थभिक्षुकृतायां पदरत्नावल्यभिधायां श्रीमद्भागवतटीकायां द्वितीयोऽध्यायः ॥
सत्यधर्मीया
शूरसेनांस्तन्नामकदेशान् । तन्निग्रहहेतुर्महाबल इति ॥ १६ ॥
॥ इति श्रीभागवतटिप्पण्यां सत्यधर्मयतिकृतायां
दशमस्कन्धपूर्वार्धे द्वितीयोऽध्यायः ॥ १०-२ ॥
सुमनोरञ्जिनी
पितरम् उग्रसेनम् । नामतः । निगृह्य च महाबलः कंसः स्वयम् । शूरसेनान् देशान् बुभुजे इति संबन्धः ॥ १६ ॥
**॥ श्रीमद्भागवतव्याख्या (गूढकर्तृका) सुमनोरञ्जिनी **
दशमस्कन्धपूर्वार्धे द्वितीयोऽध्यायः ॥ १०-२ ॥