कथितो वंशविस्तारो भवता सोमसूर्ययोः
श्रीमद्भगवद्बादरायणप्रणीतम्
श्रीमद्भागवतम्
दशमस्कन्धस्य पूर्वार्धः
॥ अथ प्रथमोऽध्यायः ॥
राजोवाच–
कथितो वंशविस्तारो भवता सोमसूर्ययोः ।
राज्ञां चोभयवंश्यानां चरितं परमाद्भुतम् ॥ १ ॥
श्रीमद्विजयध्वजतीर्थपूज्यचरणविरचिता पदरत्नावली
पदरत्नावली
नवमस्कन्धान्ते सङ्क्षिप्य वर्णितं श्रीविष्ण्ववतारभूतकृष्णचरितं विस्तरतः श्रोतुमत्युत्कमनस्को राजा वृत्तमनूद्य वक्तुं प्रार्थयते कथितो वंशविस्तार इत्यादिना । वंशविस्तारः । अन्ववायप्रपञ्चः ‘व्यासः प्रपञ्चो विस्तारः’ इत्यभिधानम् । उभयवंश्यानां विद्यया जन्मना चैकलक्षणः सन्तानो वंशस्तत्र भवा वंश्यास्तेषां राज्ञां, परमाद्भुतं सर्वेशस्य विष्णोर्बहुविधमहामाहात्म्यप्रकाश-परत्वेनात्याश्चर्यकरं चरितं च कथितम् ॥ १ ॥
श्रीसत्यधर्मयतिकृता भागवतटिप्पणी
सत्यधर्मीया
दशमे दिश मेऽम्बोधौ धीतर्या तरितुर्यतः ।
पाराशर्य परं पारमसि दाशसुतासुतः ॥
नवमान्ते कथां शुकेन सङ्कुच्य कथितां विस्तरतः श्रोतुमुत्कमनस्कः परीक्षित्किञ्चिदनूद्य श्रोतव्यं त्रयोदशश्लोक्या पृच्छतीति वदति ॥ राजेति ॥ हे शुक भवता सोमसूर्ययोर्वंशविस्तारोऽन्ववायार्थ-प्रपञ्चः । विस्तारो विग्रहो व्यास इत्यमरः । उभयोः सोमसूर्ययोः । ((हरदत्तेनोभयशब्दस्य द्विवचन-मस्तीत्युक्तम् । तथाऽपि शेखरे ननु काकचोः को विशेष इत्यारभ्यैतन्मूलकमेवोभय-शब्दस्यासर्वविभक्तिकत्वं तद्धितश्चेति सूत्रे कैय्यटेनोक्तम् । तदाह कैय्यट इति हरदत्त इति । अत्रारुचिबीजं प्रागुक्तभाष्यविरोधः । भाष्ये तूभयशब्दपाठः प्रत्याख्यात इत्यन्तग्रन्थेन नास्तीति शंसनादस्वरसम् । अत एव सम्प्रदायविदः शय्यां जहत्युभयपक्षविनीतनिद्रा इति पञ्चमसर्गरघुवंशविशदने उभाभ्यां पक्षाभ्यामिति विगृह्य कैय्यटमतमुट्टङ्कितवन्त इति दिक् ।)) वंशे भवा वंश्यास्तेषां चरितम् । कथित इति विपरिणतं सत्कथितमित्यन्वेति । कथननिमित्तं कथयति ॥ परमाद्भुतमिति । अत्याश्चर्यकरम् । परा मा ज्ञानं सम्पद्वा येन तच्च तदद्भुतं, तयाऽद्भुतमिति वा अद्भुतं स्कन्धान्तरे गतम् । किञ्चोभयवंश्यानाम् । अभवता न विद्यते भवः संसारो येषां तेषां मुक्तानां भावो मुक्तत्वं, भवता साऽपि कथिता । त्वयेत्यनुक्त्वोक्त्वा चाकारप्रश्लेषभूमिकं पदं पूर्वं वदंश्चानन्तरं भवतेति भगवानमुमर्थं विवक्षितवानिति प्रेक्षणीयम् । वंशस्तथा तद्वंश्यानां च चरितं कथितः कथितमित्यन्वेति ॥ १ ॥
श्रीमद्भागवतदशमस्कन्धापूर्वार्धव्याख्या (गूढकर्तृका) सुमनोरञ्जिनी
सुमनोरञ्जिनी
श्रीगुर्वन्तर्गतलक्ष्मीनरसिंहाय नमो मङ्गलम् ॥ निर्विघ्नमस्तु ॥ ॐ ॥
श्रीमौद्गरार्यचरणानुग्रहैकसहायतः ।
अब्धिस्तरीतुमारब्धः स पारयतु मामिह ॥
नवमस्कन्धान्ते संक्षिप्योक्तं श्रीकृष्णचरितं श्रुतवतस्तत एव विस्तरतः श्रोतुं जातजिज्ञासस्य राज्ञः पूर्ववृत्तानुवादपूर्वकप्रश्नप्रकारं प्रदर्शयति ॥ कथित इति ॥ हे मुनिसत्तम । भवता सोमसूर्ययोर् वंशस्य विस्तारः प्रपञ्चः । व्यासः प्रपञ्चो विस्तार इत्यभिधानात् । स च प्रपञ्चस् तत्तद्वंशभुवामुत्पत्तौ निमित्तकथनादिरूपः । च अपि च । उभयवंश्यानाम् । वंशः सन्तानः । तत्र भवा वंश्याः । तेषां परमाद्भुतं, अनन्यसाध्यतया अत्याश्चर्यकरम् । चरितं कथितमिति लिङ्गव्यत्ययेनानुवर्तते ॥ १ ॥
पाङ्घरी श्रीनिवासाचार्यकृतः विरोधोद्धारः
विरोधोद्धारः
श्रीमद्धनुमद्भीममध्वान्तर्गतरामकृष्णवेदव्यासात्मकलक्ष्मीहयग्रीवाय नमः ॥
((अत्र विरोधोद्धारे दशमस्कन्धस्य क्रमप्राप्तेऽपि प्रसङ्गादघासुरवधाद्यध्यायत्रयस्य प्रक्षिप्तत्वं श्रीश्रीनिवासार्यैरेव साधितमत्र लिख्यते ।))
अथ केचन श्रीमद्भगवन्मायामोहिता अघासुरवधप्रतिपादकाध्यायत्रयं भागवताङ्गं ब्रुवते । तन्न । प्रक्षिप्तत्वात् । तथा हि । सर्वसंमतेन श्रीधरेण भागवतटीकारम्भसमये कल्पद्रुमसाम्येन भागवतस्तुतिः कृता । तत्रेदं पद्यम्–
श्रीमद्भागवताभिधः सुरतरुस्ताराङ्कुरः सज्जनिः
स्कन्धैर्द्वादशभिस्ततः प्रविलसद्भक्त्यालवालोदयः ।
द्वात्रिंशत्त्रिशतं च यस्य विलसच्छाखाः सहस्राण्यलं
पर्णान्यष्टदशेष्टदोऽतिसुलभोवर्वर्ति सर्वोपरि ॥ इति ।
अत्र द्वात्रिंशत्त्रिशतं च यस्य विलसच्छाखा इत्यनेन भागवतस्थत्रिंशदधिकशतत्रयाः प्रोक्ताः । कृतायां तु गणनायां पञ्चत्रिंशाधिकत्रिशताध्याया भवन्ति । तदित्थम् । प्रथमस्य (१९) ॥ द्वितीयस्य (१०) ॥ तृतीयस्य (३३) ॥ चतुर्थस्य (३१) ॥ पञ्चमस्य (२६)॥ षष्ठस्य (१९) ॥ सप्तमस्य (१५) ॥ अष्टमस्य (२४) ॥ नवमस्य (२४) ॥ दशमस्य (९०) ॥ एकादशस्य (३१) ॥ द्वादशस्य (१३) ॥ एवं मिलित्वा त्रिशतोपरिपञ्चत्रिंशत्सङ्ख्या भवति (३३५) । तस्मात्पूर्वप्रतिज्ञाताध्यायापेक्षयाऽध्यायत्रयस्याधिक्यात्ज्ञायतेऽध्यायत्रयमिदं प्रक्षिप्तमिति ।
न च वाच्यं चकारेणाध्यायत्रयस्यापि सङ्ग्रहः पूर्वप्रतिज्ञायामेव कृत इति । चशब्दोपात्तसङ्ग्रहस्य निरङ्कुशत्वेनाधिकस्य न्यूनस्य वा कर्तुं सुशकत्वात् । चशब्दस्य सङ्ग्रहार्थत्वे समुच्चयार्थकत्वाभावेन द्वात्रिंशतमित्यस्य द्वात्रिंशद्गुणितं त्रिशतमित्यर्थप्रसङ्गाच्च । दाशरथिवनवासप्रकरणे वर्षाणि नवपञ्च चेत्यत्रापि चकारेण चतुर्वर्षाधिक्यप्रसङ्गाच्च । अत्राध्यायत्रयोपलब्ध्याऽन्यत्र चतुर्वर्षाधिक्यानुपलब्ध्या च नैवमिति चेन्न । उपलब्धेरेव सर्वासंमतत्वेन सन्दिग्धत्वादसिद्धेः । अन्योन्याश्रयत्वाच्च । सत्यां चाध्यायत्रयोपलब्धौ चकारस्याध्यायत्रयसङ्ग्रहार्थकत्वनिश्चयसिद्धिः । तत्सिद्धौ चाध्यायत्रय-निश्चयोपलब्धिसिद्धिरिति ।
ननु मास्तु चशब्देनाध्यायत्रयसिद्धिः । तथाऽपि द्वात्रिंशत्त्रिशतमित्यत्र त्रिशब्दस्य पुनरावृत्त्या त्र्यधिकं त्रिशतमित्यर्थोपपत्त्या पञ्चत्रिंशदधिकत्रिशताध्यायसिद्धेरिति चेत् । मैवम् । कल्पनागौरवात् । पद्ये द्वितीयत्रिशब्दाभावेन त्रिशब्दस्य कल्पनैव कार्या । ततोऽधिकशब्दस्यापि कल्पनम् । तेन पञ्चत्रिंशदधिकत्रिशताध्यायकल्पनमिति । न च वाच्यं गौरवं न दूषणम् । अन्यथाऽनुपपत्तेरिति । अध्यायत्रयाभावकल्पनस्यैव लाघवादन्यथाऽप्युपपत्तेः । ननु व्यासप्रोक्तस्यैव वस्तुतत्वाद् द्वात्रिंशत्त्रिशतमित्युक्तिः पूर्वप्रतिज्ञातायां गणनायामध्यायत्रयाधिक्यं तु भागवतान्ते सूतप्रोक्तत्वादिति चेन्न । अन्त्याध्यायद्वयस्यैव सूतप्रोक्तत्वात् । अन्यथा महापुरुषविन्याससूर्यादिसप्तकप्रतिपादकाध्यायस्य व्यासप्रणीतत्वेनाख्यानद्वयस्यानुक्रमणिकायामभावः प्रसज्येत । न हि तथाऽत्रास्ति । महापुरुषविन्यासः सूर्यस्य जगदात्मन इति चोक्तम् । द्विजश्रेष्ठोऽहमिहास्मि व इत्युक्तेः । अत्रेतिशब्दस्य सूर्यादिसप्तकाख्यानान्ते भागवतसूचकत्वाच्च ।
ननु भागवतस्य द्वात्रिंशदधिकत्रिशताध्यायत्वेऽपि नाघासुरवधवत्सहरणब्रह्मस्तुतिप्रतिपादका-ध्यायप्रक्षेपः सिद्ध्यति । किंतु त्र्यध्यायात्मकस्याजामिलोपाख्यानस्य भागवतानन्तर्भूतत्वाद्द्वात्रिंंश-त्त्रिशतमित्युक्तिः । यत इतिहासमिमं मह्यं भगवान्कुम्भसम्भवः । कथयामास मलय आसीनो हरिमर्चयन्निति शुकोक्तेरिति चेत् । मैवम् । षष्ठस्कन्धस्यैकोनविंशत्यध्यायप्रतिज्ञाव्याहतेः । न च वाच्यं षष्ठस्तु षोडशाध्यायात्मकोऽध्यायत्रयं तु बाह्यमिति । तथा सूचितत्वाभावात् । अस्येतिहासस्य शुकायागस्त्योक्तत्वेऽपि व्यासग्रथितत्वसम्भवाच्च । कृष्णोक्ताया अपि व्यासग्रथितत्ववत् । किञ्चेतिहासारम्भस्तु कान्यकुब्जो द्विजः कश्चिदित्येतस्माच्छ्लोकादेव । तत्पूर्वश्लोकानां तु भागवतसम्बन्धोऽस्ति वा नास्ति । नाद्यः । अध्यायानां षोडशत्वानुपपत्तेः । न चोत्तराध्यायस्याङ्गम् । असङ्गतेः । न द्वितीयः । निवृत्तिमार्गः कथित इत्याद्यनुवादानुपपत्तेः । तस्मादजामिलाख्यानस्य बाह्यत्वासिद्ध्या द्वात्रिंशत्त्रिशतमित्यध्यायसङ्ख्यासिद्ध्यर्थं सेत्स्यत्येवाध्यायत्रयप्रक्षेपः ।
स्यादेवं यदि वयं श्रीधरोक्तस्य श्लोकस्यैव प्रामाण्यमङ्गीकुर्मः । येनाध्यायत्रयप्रक्षेपसिद्धिः । तदेव नास्तीति चेत् । तथात्वे सर्वटीकाया एवाप्रामाण्यसङ्गात् । यस्य हि ग्रन्थस्य प्रारम्भ एव ग्रथिताप्रामाण्यं तद्ग्रथितस्य सर्वस्याप्यप्रामाण्यं कथं न भवेत् । स्यादेतत् । यदि ग्रन्थारम्भेऽप्रामाण्यं स्यात् । तन्नास्त्येव । यतो द्वात्रिंशच्च त्रयश्च त्रिशतानि चेति व्युत्पत्तेर्विवक्षा । अनयाऽपि कथं सङ्ख्यासिद्धिरिति चेत् । मैवम् । शतानीति बहुवचनस्य त्रित्वे पर्यवसानात् । अपर्यवसितबहुत्वस्य त्रित्वे पर्यवसानमिति न्यायादिति चेन्न । गौरवानिस्तारात् । त्रिशब्दस्य पार्थक्यकल्पनम् । शतशब्दस्य बहुवचनकल्पनम् । बहुवचनस्य त्रित्वकल्पनमिति । गौरवं न दोषाय । अन्यथाऽनुपपत्तेरिति चेन्न । द्वात्रिंशदधिकत्रिशताङ्गीकारेण लाघवस्याप्युपपत्तेः ।
किंच न्यायः सर्वत्रोपादीयते अथवा क्वचित् । नाद्यः । ब्राह्मणान्भोजयेत्पश्चात्साङ्गतार्थं हि कर्मण इत्यत्रापि ब्राह्मणत्रयस्यैव भोज्यत्वापत्तेः । द्व्यवरान्भोजयेद्विप्रानित्यत्र विप्रशब्दबहुवचनेनैव त्रित्वलाभे पुनर्द्व्यवरशब्दस्य वैयर्थ्यप्रसङ्गाच्च । द्वौ अवरौ अल्पौ येभ्य इति व्युत्पत्तिः । चतुर्थप्रभृतीनां तु अपर्यवसितत्त्वेनाङ्गीकारायोगाद् द्व्यवरशब्देन त्रित्वमेव सिद्ध्यतीति । तस्य बहुवचनेनैव सिद्धत्वे विशेषणवैयर्थ्यं सुस्थमेव । त्रीणि त्रीणि वै देवानामृद्धानि त्रीणि छन्दासि त्रीणि सवनानि त्रय इमे लोका इत्यत्र सर्वत्र त्रिशब्दानां वैयर्थ्यप्रसङ्गाच्च । फलानि समिधः कुशानित्यत्रापि फलादीनां त्रयस्यैव हरणापत्तेश्च । यो भूतानामधिपतयो रुद्रस्तंतिचरो वृषेत्यत्र च भूतत्रयाधिपतित्वमेव रुद्रस्य श्रुतिप्रतिपादितं स्यात् । अन्येषां भूतानां च रुद्रानधीनता स्यात् । अस्तु क्वचित्कपिञ्जलाहरणादौ सार्थकमुपादानम् । अत्र मास्तु । नियामकाभावात् । अत्र शतत्रयोपलब्धिरेव नियामिकेति चेत् । सा च श्रवणादिना विना न भवति । श्रवणादिप्रवृत्तिश्च सुलभेष्टसाधनताज्ञानं विना न भवति । सुलभेष्टसाधनज्ञानं तु एतस्मात्पद्यादेव । इष्टदोऽतिसुलभ इत्युक्तत्वात् । एतत्पद्यप्रामाण्यसिद्धिस्तु तदाशयाध्यायोपलब्ध्या । एवं चक्रकापत्त्या तस्याप्यसिद्धेः । सुलभेष्टसाधनताज्ञानहेतुत्वं नास्यैव पद्यस्य अन्यस्यापि सम्भवान्न चक्रकापत्तिरिति चेन्न । इष्टदत्वातिसुलभत्वप्रतिपादनस्य व्यर्थत्वेनाप्रामाण्यप्रसङ्गात् । इष्टदत्वादिप्रतिपादनं हि श्रोतृप्रवृत्तिजननार्थमेव । तस्मादुभयथाऽपि न्यायस्योपादेयताभावाद्व्युत्पादितार्थासिद्ध्या प्रामाण्याभावो शक्यसाधन इति ।
किं चाघादिविषयाध्यायत्रयान्तिमश्लोकस्य तत्पूर्वाध्यायान्तिमश्लोकस्य च । ‘‘एवं विहारैः कौमारैः कौमारं जहतुर्व्रजे । निलायनैः सेतुबन्धैर्मर्कटोत्प्लवनादिभिः ॥’’ इत्याकारकस्यैकत्वेनापि प्रक्षेपोऽध्यायत्रयस्य सिद्ध्यति । प्रक्षेपकेण हि सङ्गत्यर्थं पूर्वाध्यायान्तिमश्लोकस्य गृहीतत्वात् । अन्यथाऽसङ्गतैव । प्रक्षेपज्ञानस्य सुशकत्वात् ।
नन्वेकस्यैव श्लोकस्य पुनर्ग्रहणेन तन्मध्यवर्तिनो ग्रन्थस्य प्रक्षेपाभ्युपगमे नामकर्णप्रकरणे आसन्वर्णास्त्रयो ह्यस्येत्यादीनां श्लोकानां पुनर्गोवर्धनोद्धरणप्रकरणे गृहीतत्वेन तन्मध्यवर्तिग्रन्थस्यापि तथात्वं स्यात् । न च तथा । तस्मादेतस्याप्यध्यायत्रयस्य तद्दृष्टान्तेन प्रक्षेपासिद्धिरिति । मैवम् । दृष्टान्तदार्ष्टान्तिकयोर्वैषम्यात् । दृष्टान्ते हि आसन्वर्णा इत्यादीनां नामकर्णप्रकरणे गर्गोक्तत्वेन गोवर्धनोद्धारणप्रकरणे च नन्दानूदितत्वेन वक्तृभेदः । दार्ष्टान्तिके च वक्तृभेदाभावः । उभयत्रापि शुकोक्तेरेवेति गर्गनन्दवाक्ययोः शुकेनानूदितत्वात् ।
अपि च समाख्याभावाच्च प्रक्षेपः सिद्ध्यति । तथा हि । द्वितीये ब्रह्मणा कृष्णकर्माणि नारदायोपदिष्टानि । तृतीये उद्धवेन विदुराय । दशमे गोवर्धनोद्धारे गोपोक्तानि रङ्गसभायां च सभास्थैर्वर्णितानि । द्वादशे च सूतेन सङ्ग्रहोक्तानि । तेषां मध्ये अघाद्याख्यानस्य क्वाप्यदृष्टत्वात् । न च वाच्यं दशम एव प्रलम्बबकचाणूरतृणावर्तमहाशनैरित्यत्र महाशनशब्देनाघासुरस्य गृहीतत्वा-त्समाख्याऽस्तीति । महाशनशब्दस्याघासुरवाचकत्वे प्रमाणाभावात् । तर्हि महाशनशब्देन को गृह्यते । कुवलयापीड इति ब्रूमः । कुतः । महान् पूज्यत्वेन वा स्वजातिश्रेष्ठत्वेन पिप्पलः सोऽशनं भक्षणं यस्येति व्युत्पत्त्या युक्तत्वात् । कुञ्जरः पिप्पलाशन इत्युक्तेः । यद्वा । प्रलम्बादीनामेव महाशनशब्दवाच्यकामक्रोधादिरूपम् । उक्तं च गीतासु । काम एष क्रोध एष रजोगुणसमुद्भवः । महाशनो महापाप्मेत्यादि । कामक्रोधादयो दैत्या देवाः शमदमादय इति च ।
ननु मास्तु भागवते समाख्या । तथाऽपि अन्येषां बहूनां ग्रन्थानां विद्यमानत्वेन स्यात्क्वचिदिति चेन्न । भारते हरिवंशे चाघासुरवधाख्यानाभावेन सर्वत्राप्यभावात् । उक्तं च ब्रह्माण्डे । तस्माद्धि भारते नोक्तं तद्धि नैवास्ति कुत्रचित् । अत्रोक्तं सर्वशास्त्रेषु न हि सम्यगुदाहृतमिति । यदिहास्ति तदन्यत्र यन्नेहास्ति न तत्क्वचिदिति च महाभारते । एवमेतत्प्रक्षेपसिद्धौ ग्रन्थसङ्ख्याऽपूर्तिः स्यादिति चेन्न । प्रक्षेपकेण हि पूर्वमिदं प्रक्षिप्य ग्रन्थसङ्ख्यालोचने आधिक्यभिया पारिजातहरणस्योद्वापात् । न च वाच्यं तस्यैव प्रक्षेप इति । हरिवंशादौ समाख्यासद्भावात् । तस्मादिदमेव प्रक्षिप्तमिति सिद्धम् ॥
॥ इत्यघासुरवधाद्यध्यायत्रयप्रक्षेपसाधनं समाप्तम् ॥
कथितेति ॥ अत्र राज्ञा श्रुतनवमस्कन्धानुवादः कृतः । तत्र पूर्वं सूर्यवंशकथनेऽत्र सोमसूर्ययोरिति व्यत्ययेनोक्तमतो विरोधोऽत उच्यते । अल्पाच्तरमिति सूत्रेण सोमशब्दस्य सूर्यशब्दादर्धमात्रालाघवेन सायंप्रातःशब्दयोर्मध्ये सायंशब्दस्येव पूर्वनिपातौचित्यम् । यद्वा । अभ्यर्हितं पूर्वमिति सूत्रेण सोमवंशस्य स्वसन्निहितकृष्णावतारेणाभ्यर्हितत्वात्तच्छब्दस्य पूर्वमुक्तिः । अथवा । सोमस्य स्ववंशमूलपुरुषत्वेनाभ्यर्हितत्वाभिमानात्तथोक्तिरतो न विरोधः ॥ १ ॥
यदोश्च धर्मशीलस्य नितरां मुनिसत्तम ।
तत्रांशेनावतीर्णस्य विष्णोर्वीर्याणि शंस नः ॥ २ ॥
पदरत्नावली
तत्र विशेषमाह यदोरिति । यदोर्ययातिपुत्रस्य वंशो नितरां कथितः । धर्मशीलस्य सर्वजगद् धरतीति धर्मो भगवान् । ‘धर्मो वा इदमग्र आसीन्न पृथिवी न वायुर्नाकाशो न ब्रह्मा न रुद्रो नेन्द्रो न देवा नर्षयः सोऽध्यायत्’ इत्यादिश्रुतेः । तच्छीलस्य तत्समाधियुक्तस्य । ‘शील समाधौ’ इति धातोः । तत्र यदोर्वंशे । वीर्याणि पराक्रमान् ॥ २ ॥
सत्यधर्मीया
तत्र यदुवंशेंऽशेनावतीर्णस्य यदोर्विष्णोरिति सामानाधिकरण्येनाप्यन्वयः । यथोक्तम् – ‘अग्निना तुर्वशं यदुमि’त्यृग्भाष्यटीकयोर्यदस्ति तत उच्चत्वाद्यदुः । यदस्ति तत उच्चत्वाद्यदुरिति मयूरव्यंसकादित्वात्साधुरिति । विद्यमानसर्वोच्चत्वाद्विष्णुर्यदुरित्यर्थः । विष्णौ व्याख्यातोऽयं शब्दो ऋगैतरेयभाष्यदिशा स्कन्धान्तरे, तथा तत्त्वसङ्ख्यानटिप्पणे चास्मत्कृतेऽनु-सन्धेयः । वीर्याणि नितरां नः शंस । एतेन वक्तैकोऽनेके श्रोतार इति सूचितं भवति । तत्रेति समस्तमंशपदेन सम्बध्यते । तान् त्रायत इति तत्रः । स चासावंशश्च तेनेति । तत्र पृथक् पृथक्पदं सद्वंश इत्यर्थकं च । तकारद्वन्द्वाद्वन्द्वशङ्कापनुत्तिश्चोक्षा सा द्यावा पृथिवीत्यृग्व्याख्याभावबोधे सदिति भवत्कार्यमिति द्वेधा व्याकृतमित्यत्र दकारद्वयश्रवणं स्यादिति दूषणाभासभासकभाष्यदीपिकामनूद्य भाष्यदीपिकायुक्तिवात्यायामस्मत्कृतायां यद्द्वैतं न पश्यति समरुद्राक्षोल्लसन्मण्टपं महत्या गदया समन्वित इत्याद्यनद्यतनोदाहरणपूर्वकं कृताऽनुसन्धेया । न मम समर्थता सविस्तरसङ्कीर्तन इति न वद स्वामिंस्त्वमेष इत्यपि भाषते । भवता रुद्रता यत्ते ततः शंसेति ॥ २ ॥
सुमनोरञ्जिनी
चशब्दोऽप्यर्थः । तत्रेत्यनुकृष्यते । तत्र च तत्रापि । धर्मशीलस्य धर्मे भागवतधर्मानुष्ठाने शीलं स्वभावो यस्य । अथवा धारकत्वाद्धर्मो भगवान् । तत्समाधियुक्तस्य । शील समाधाविति धातोः । यदोर् ययातिपुत्रस्य । वंशविस्तारः । परमाद्भुतं च । नितरां कथित-मित्यनेनान्वयः । उपदिष्टमपि तत्त्वम् अधिकारिण एव हृदयेऽवतिष्ठते नान्यस्येति न्यायमनुसन्दधानः शुकं प्रति स्वस्मिन्नुपदिष्टतत्त्वावधारणख्यापनद्वारा अधिकारितां निश्चाययितुं वृत्तानुवादो युक्त इति यदर्थं वृत्तानुवादस्तत्प्रार्थयते ॥ तत्रेति ॥ तत्र यदुवंशे । अंशेन कृष्णकेशाख्येन । अवतीर्णस्य । विष्णोर् वीर्याणि पराक्रमान् । नो ऽस्मभ्यम् । शंसेति ॥ २ ॥
विरोधोद्धारः
यदोरिति ॥ अत्र यदोर्नितरां धर्मशीलत्वमुक्तम् । तदयुक्तम् । जरायौवनव्यत्यासार्थं पितृकृताज्ञालङ्घनात् । मैवम् । स्वयौवने स्वमातृभोगापेक्षया पित्राज्ञाभङ्गस्यानधिकपापवहत्वात् । तर्हि पुरोरयं दोषः स्यादिति चेन्न । सापत्नमातुः पितृद्वारा सम्बन्धसत्वेन तदाज्ञापालनस्यैवौचित्यात् । तस्माद्यदुकृतपित्राज्ञाभङ्गेन न धर्मशीलत्वहानिः । प्रकृतयदोरिति विचारवत्त्वादेव नितरामिति विशेषितम् । अन्यथा तद्वंशे कृष्णावतारासम्भवात् ॥२॥
अवतीर्य यदोर्वंशे भगवान् भूतभावनः ।
कृतवान् यानि विश्वात्मा तानि नो वद विस्तरात् ॥ ३ ॥
पदरत्नावली
भूतानि भावयतीति भूतभावनो जगदुत्पादको विश्वात्मा विश्वः पूर्णश्चासावात्मा च । ‘जगत् समस्तं विश्वं च निखिलं पूर्णमुच्यते’ इत्यभिधानम् । विश्वेषु वस्तुषु आत्मानो ऽन्तर्यामिमूर्तयो यस्य स तथेति च । यानि भूकण्टकमहासुरहननादीनि कर्माणि । विस्तरात् शब्दतः । ‘स च शब्दस्य विस्तरः’ इत्यमरः ॥ ३ ॥
सत्यधर्मीया
भूतभावनो जगदुत्पादको विश्वात्मा जगद्धितो वा तत्स्वामी वा तदादानादिकर्ता वा । यानि वीर्याणि पराक्रमान् विस्तरात् । ऋदोरप् स्तॄञ् आच्छादन इति स्मरन्ति । स च शब्दस्य विस्तर इत्यमरः । कृतवांस्तानि नो वद ॥ ३ ॥
सुमनोरञ्जिनी
भूतभावनः भूतानि भावयत्युत्पादयतीति । भूतैर् योग्यप्राणिभिर् भावे मनसि नीयते रूप्यते । सर्वदा ध्यायत इति यावत् । अथवा भूतानां भावम् । भवः संसारस् तत्सम्बन्धी तत्र भवत्वाद् भावः सुखदुःखादिः । तं नयति प्रापयतीति । भगवान् श्रीहरिः । यदोर्वंशे अवतीर्य प्रादुर्भूय । यानि कर्माणि कृतवान् । नवमस्कन्धे ‘जातो गतः पितृगृहादि’त्यादिना संक्षिप्योक्तान्यपि तानि विस्तरात् । नो ऽस्मभ्यम् अस्मान् प्रति वा वदेत्यन्वयः ॥ ३ ॥
विरोधोद्धारः
अवतीर्येति ॥ पूर्वश्लोके विष्णोर्वीयाणि शंस न इत्युक्तत्वेऽपि अत्र तानि नो वदेत्युक्त्या पुनरुक्तिरित्यत उच्यते । पूर्वश्लोके कृते प्रश्ने जातो गतः पितृगृहादिनोक्तमेव पुनः किं पृच्छसीत्याशङ्क्य पृच्छति । यद्यपि पूर्वस्कन्धान्ते संक्षिप्योक्तं तथापीदानीं विस्तराद्वदेति प्रश्नेन न पुनरुक्तिः ॥ ३ ॥
निवृत्ततर्षैरुपगीयमानाद् भवौषधाच्छ्रोत्रमनोभिरामात् ।
**क उत्तमश्लोकगुणानुवादात् पुमान् विरज्येत विना पशुघ्ना(त्)न् **
(विनाऽतिमुग्धान्) ॥ ४ ॥
पदरत्नावली
अतीतस्कन्धे हरिकथाश्रवणेनालम्बुद्धिर्नाभूत् किमिति तत्राह ॥ निवृत्तेति ॥ निवृत्ततर्षैर्विषयालम्बुद्धिरहितैः । भवौषधात् संसाराख्यरोगपरिहारहेतुभूतौषधात् । अतिमुग्धान् अन्यथाज्ञानिनः । पशुघ्नादिति वा पाठः ॥ ४ ॥
सत्यधर्मीया
मया वर्णितं त्वया चाकर्णितं किं पुनरवनीश जोषमास्वेति नो वदाहमेतादृशो न तादृश इति शंसति ॥ निवृत्ततर्षैरिति ॥ निवृत्तो गतस्तर्षो कामो येषां ते मुक्ता जीवन्मुक्ताश्च तैः । कामोऽभिलाषस्तर्ष इत्यमरः । तैरुपगीयमानाद्भवौषधान्मङ्गलोन्नाहागदादेकत्र परत्र संसाररोग-वियोगौषधरूपात् । श्रोत्रमनोभिरामाच्छ्रोत्राणि च मनांसि च तान्यभिरामयति तोषयतीति स तथा । श्रोत्रमनसामभिरामो येन तस्मात् । श्रोत्राणि मनांसि च श्रोत्रमनः । प्राण्यङ्गतयैकवद्भावः । तस्याभि-रामस्तत्तस्मात् । उत्तमैर्ब्रह्मादिभिः श्लोक्यत इति स तथा । उद्गतं तमः संसारमूलमज्ञानं येन स श्लोकः । पद्ये यशसि च श्लोक इत्यमराद्यशो यस्य । गुणानामनुवादो हि पुनः पुनर्वादस्तस्मात्कः पुमान्विरज्येत न कोऽपि भवेद्विरक्त इत्यर्थः । पशुघ्नात्पशुघ्नानतिमुग्धानिति पाठत्रयम् । बलभद्रः प्रलम्बघ्नो वृत्रघ्न इति मूलविभुजादित्वात्सिद्धमिति सिद्धान्तकौमुद्युक्तेः । केत्युपधालोपे हो हन्तेरिति कुत्वे रूपम् । पशुर्भगवांस्तं घ्नन्ति, स नास्तीति मतिरेव हतिस्तस्मात्तान्वा विना मिथ्याज्ञानिनो विना भवेच्चेद्विरतिस्तादृशानामेव भवेन्नान्येषामिति भावः । यथोक्तमेकादशतात्पर्ये एतत्सजातीये–
ब्राह्मणो विष्णुरुद्दिष्टः स नास्तीत्यभिचिन्तनम् ।
ब्रह्महत्या समुद्दिष्टा तां न कुर्यात्कथञ्चन ॥ इति ।
पालनात्सुखरूपत्वात्पशुनामा जनार्दन इति छान्दोग्यभाष्योक्तेर्हरिः पशुः । साधारणपशुमारकतया सम्मतानां धर्मव्याधाद्यानां तद्विरक्त्यदर्शनादेवंविधः पशुवधो ग्राह्यः । अपशुक् अपगता शुक् शोको यस्मात्तं घ्नन्ति ते तथेत्यपि व्याकुर्वते । अपशुघ्नान्हरिः सर्वेशोऽस्तीति ज्ञानिनो विना । उत्तमश्लोकगुणानुवादात् । उत्तमः श्लोको गुणैरनु हीन इति वादान् नितरां वृत्तस्तर्षो विषयाभिलाषो येषां तैरुपगीयमानाद्भवौषधात्तत्प्राप्तिभेषजरूपात् । श्रोतॄणां सतां पाक्षिकतयाऽमनोभिरामात्को विरज्येत न कोऽप्येतादृशो विरक्तियुक्तो भूयादिति दुरात्मदौरवस्थ्यपरताऽपि गमनिकयाऽनया ज्ञेया । निवृत्ताश्च ते तर्षा अभिलाषास्तैः करणैः श्रोत्रमनोभिरामाद्भवौषधाद्भवस्य रुद्रस्य निरन्तरजपद्वारा विषभेषजरूपात् स्वेनोपगीयमानात् श्लोकगुणानुवादाद्धेतोः पुमान्पुरुषो हिरण्यगर्भ उत्तम इयदामनना-दित्यधिकार्यधिकः । श्लोकगुणान् श्लोक्यन्त इति श्लोकास्ते च ते गुणाश्च तान् । शुघ्नान् शुचं संसारक्लेशं घ्नन्तीति ते तथा तान् । उवादात् । ल्यब्लोपनिमित्ता चेयं पञ्चमी । ओः रुद्रस्य वादोऽतथ्यवितथ्यवादस्तं परित्यज्य । विना भगवताऽपि तस्मात्को विरज्येतेति वा । शं लोकः सुखं ज्ञानं च । यथोक्तम् । कीर्तिं श्लोकं च विन्दत इति बृहदारण्यकोपनिषद्भाष्ये शं लोकः श्लोकः परमानन्दं परमज्ञानं चेत्यर्थः । लुक् प्रकाश इति धातोरिति । उत्तमानां श्लोकः यैस्ते उत्तमश्लोकास्तत्प्रापकाः प्रातिस्विकगुणास्तदनुवादादिति वा । य उवादादुक्तरूपाद्विरज्येत स कोऽपि यज्जात्यवच्छिन्नोऽपि पुमान्, विना भगवता शुघ्नान् उत्तमश्लोकगुणानाप आपैव । अतस्तद्वीर्याणि वदेत्यन्वयो वा । यथोक्तम् । त्वं च रुद्र महाबाहो मोहशास्त्राणि कारय । अतथ्यानि वितथ्यानि दर्शयस्व महाभुजेत्यादि वाराहे । यः पुमान्विरज्येत सः के स्वप्राप्ये सांसारिके लीने सुखे मोक्षसुखे वा विरज्येतेति वा । सुखद्वयस्य नपुंसकपुल्लिङ्गशब्दवाच्यताविशेषोऽवसेयः । यथोक्तं बृहदारण्यकभाष्ये लोकशब्दव्याकृतौ । संसाराल्लुप्तानां मुक्तानां कानि सुखानि लोकाः । लीनं सुखं क इत्युक्तं कं नाम क्षीयतेऽत्र यदिति । क इत्यानन्द उद्दिष्ट इति छान्दोग्यभाष्येऽप्युक्तेः । ततश्चैतत्सुखद्वयं त्यक्तवानेव स मानव इति भावः । वीति विष्णुः समुद्दिष्टो विशिष्टत्वाच्च सर्वत इति छान्दोग्यभाष्योक्तेः । अकयप्रवीत्येकाक्षररत्नमालोक्तेश्च विर्हरिः । तेन कः पुमान्विरज्येत न कोऽपि । सो विरज्यमान एव विना विशिष्टः पुरुष इत्यप्यावृत्त्याऽन्वयो ज्ञेयः ॥ ४ ॥
सुमनोरञ्जिनी
एतावन्तं कालं श्रुतामेव श्रीहरिकथां पुनः पुनः किं शुश्रूषसीति तत्राह ॥ निवृत्ततर्षैरिति ॥ निवृत्ता तर्षा विषयाकांक्षा येभ्यस्तैः । पदरत्नावल्यां तु विषयालम्बुद्धि-रहितैरित्यर्थ उक्तः । तस्य विषयेषु अलम्बुद्धिर् भूषणमिति बुद्धिः शोभनत्वाध्यास इति यावत् तद्रहितैरित्यभिप्रायः । अलंभूषणपर्याप्तीत्यभिधानात् । भवौषधात् । भवः संसारस् तदाख्यरोगस्य औषधात् तत्परिहारहेतोरित्यर्थः । प्रसिद्धमूलिकादिवत् कट्वादिनाऽमनोहरं किं, नेत्याह ॥ श्रोत्रेति ॥ श्रोत्रमनसोरभिरामाद् आनन्दकरात् । उत्तमश्लोकस्य हरेर्गुणानां यो वादः प्रतिपादकः शब्दस् तस्मात् । पशुघ्नाद् विना पृथग्विनेत्यादिना तृतीया । विकल्पात्पंचमी । स्वर्गादिकामनया यज्ञादौ पशुहिंसाकारिणः केवलं प्रवृत्तकर्मानुष्ठातुर्विनेति यावत् । अतिमुग्धानिति पाठे अन्यथाज्ञानिन इत्यर्थः । कः पुमान् विरज्येत न कोऽपीत्यर्थः । विषयासक्ताद्विनेति वक्तव्ये यत्पशुघ्नादित्युक्तं तेनायमर्थः सूचितः । नित्यपुरुषार्थसाधनं सुगमं शुद्धं निवृत्तमार्गं परित्यज्य अस्थिराल्पतरसुखमुद्दिश्य प्रवृत्तकर्ममार्गनिरतो न प्रेक्षावानिति ॥ ४ ॥
विरोधोद्धारः
ननु विस्तारकथने विषयतृष्णया प्रवाहितस्य वक्तुः सांसारिकतापपरिजिहीर्षोः प्रष्टुर्योग्ययोगिभेदेन द्विविधश्रोतॄणां मध्ये मनःसमाधानापेक्षकानां योगिनामिन्द्रियतृप्त्यपेक्षकाणामयोगिनां चावसराभावात्कथमिदं घटत इत्याशङ्क्य समाधत्ते ॥ निवृत्तेति ॥ यद्यपि पापापरिहारकाल्पकीर्तेः पुंसो गुणानुवादे कश्चन विरज्येत तथाप्युत्तमश्लोकगुणानुवादात्पापनाशकमहाकीर्तेर्विष्णोर्गुणा-नामद्भुतचरितानुवादात् पुनः पुनः कथनप्रश्नश्रवणादिरूपात्मकः पुमान् विरज्येत अलम्बुद्धिमान् भवेत् । न कोऽपीत्यर्थः । तत्र हेतुगर्भाण्यधिकारिभेदेन त्रीणि विशेषणानि निवृत्ततर्षैर्भवद्भिः । उपगीयमानात् कथ्यमानात् । भवतां विषयतृष्णाभावेन कथने वक्तुरवसरप्राप्तिरिति भावः । भवस्य तज्जन्यतापानां च औषधात् । उष दाह इति धातोः । दाहकत्वादित्यर्थः । अनेन पृच्छकस्य ममाप्यवसरसिद्धिश्च सूचिता । श्रोत्रमनोभिरामात् । योगिनामत्रागतानां श्रोतॄणां मुनीनां मनःसमाधानहेतोरयोगिनां केवलेन्द्रियतर्पकाणां श्रोतॄणां श्रोत्रेन्द्रियरुचिकरात् । अनेन द्विविधश्रोतॄणामप्यवसरप्राप्तिः सूचिता । तस्माद्विस्तरकथनादिषु न विराग इति भावः । नन्वत्र विरक्तोऽपि कश्चिद्दृश्यत इत्यत आह ॥ विनेति ॥ पशुघ्नात् । पशुरिति विष्णुदीक्षाराहित्येन जीवन्मृत इति ज्ञायते । स पशुघ्नः । हन हिंसागत्योर्गत्यर्थानां च ज्ञानार्थत्वात् । उक्तं च । ‘‘ते नराः पशवो लोके किं तेषां जीवने फलम् । यैर्न लब्धा हरेर्दीक्षा सर्वबन्धविमोचनीति’’ कृष्णामृतमहार्णवे । तस्माद्विना न कोऽपि विरज्येतेति । यस्तत्र विरक्तः स तु जीवन्मृत इति भावः ।
यद्वा । पशुघ्नः पशुहत्यादिभिः केवलयज्ञादिकर्मणि निष्ठावान्ज्ञानशून्यः । यद्वा । अपशुघ्नादिति पदम् । अपगताः शुचो जीवगतशोकोपलक्षितसर्वदोषा यस्मात्तं हरिं हन्तीति । ईश्वरोऽहमहं भोगी यस्त्वया मन्दभाग्योक्तो, मदन्यो जगदीश्वरः कोऽसावित्यादिना चेश्वराभावकल्पनरूपां हत्यामाचरति तस्मात्पापरूपाद्विनेति । अथवा । पुमान् पुवर्ण आदौ यस्यास्तीति पुरुषोत्तम इत्यर्थः । यद्वा पूर्णषड्गुणः । पुंनामा भगवान्विष्णुर्यतोऽसौ पूर्णषड्गुण इत्युक्तेः । तादृशो विष्णुः । श्लोकगुणानुवादात् स्वकीर्त्यादिगुणाद्धेतोस्तमुद्दिश्येत्यर्थः । शुघ्नात् शोकनाशकवैकुण्ठात् । विना गरुडेन । आप प्राप्तोऽभूत् । विनेत्यावृत्तिपक्षे गरुडेन विनेत्यर्थः । अनेन कथाश्रवणे उत्सुकता मर्यादा च सूचिता । अतस्तस्मात्क उत्तमो विरज्येत । यो विरज्येत स नोत्तमः किन्तु नीच इति भावः । किंवा । भवौषधाद् रुद्रस्यौषधाद्विषतापहारकाद्रामायणात् । श्रोत्रमनोभिरामात् कर्णान्तःकरणमनोहराद् भारतात्सकाशादपि । पशुघ्नात् पस्य व्यासस्य शोकनाशकात् । तथाऽपि नात्मा परितुष्यते इत्यादिना व्यासमनस्तोषसाधकत्वात् । निवृत्ततर्षैः । न मे कर्मफले स्पृहेत्यादिभिस्तृष्णारहितैर् भगवद्ब्रह्मनारदव्यासशुकैः । उपगीयमानादुत्तमश्लोकगुणानुवादात् । अत्रानुवर्ण्यतेऽभिक्ष्णम् इत्यादिना पुण्यश्लोकगुणानामनुवेलं वादो वर्णनं यस्मिंस्तस्माद् भागवतात् के सुखविषये । अपेक्षक इति शेषः । यः पुमान्नरः विरज्येत सः विना विरुद्धः पुरुषः पुरुषो न भवति किंतु पशुरिति भावः ॥ ४ ॥
पितामहा मे समरेऽमरञ्जयैर्देवव्रताद्यातिरथैस्तिमिङ्गिलैः ।
दुरत्ययं कौरवसैन्यसागरं कृत्वाऽतरन् वत्सपदं स्म यत्प्लवाः॥ ५ ॥
पदरत्नावली
माहात्म्यं हरेरनुभवसिद्धं यस्मादतो वक्तव्यमित्याशयेनाह ॥ पितामहा इति ॥ पितामहा अर्जुनादयः । अमरान् देवान् जयन्तीत्यमरञ्जयास्तैः । देवं क्रीडां स्त्रिया समं व्रतयतीति देवव्रतो भीष्मः, स आद्यो येषां द्रोणादीनां ते तथा, त एवातिरथा रथ्युत्तमास्तैः । तिमिर्नाम महामत्स्यः, कायेन दशयोजनप्रमाणमावृत्य स्थितः, तमपि गिलति ग्रसत इति तिमिङ्गिलः । खप्रत्ययनिमित्तो मुमागमः । वत्सः गोवत्सस् तत्पदमिव । लुप्तोपमेयम् । यः कृष्णः प्लव उडुपं येषां ते यत्प्लवाः । अनायासतरण एव तात्पर्यम् । नदीतरणाय निर्मितं वंशचर्मादिना यत् साधनं स प्लव इति ॥ ५ ॥
दुर्घटभावदीपिका
श्रीमद्धनुमद्भीममध्वान्तर्गतरामकृष्णवेदव्यासात्मकलक्ष्मीहयग्रीवाय नमः ॥ कृत्वा तरन् वत्सपदं स्म यत्प्लवा इत्यस्यायं भावः । यथा वत्सपदतरणं प्लवारोहणादिक्लेशं विनैव भवति तथा दुरत्ययकौरव सैन्यसागरतरणं प्लवारोहणादिक्लेशं विनैव जातम् । भगवद्रूपप्लवस्य सुखमात्रसाधनत्वादिति । एतेन वत्सपदतरणे प्लवो नास्ति । कौरवसैन्यसागरतरणे भगवद्रूपप्लवोऽभूदतो दृष्टान्तदार्ष्टान्तिकयोर्वैषम्यमिति दूषणस्यानवकाशः । प्लवारोहणादिक्लेशाभावेनैव साम्यमित्यभ्युपगमात्
॥ ५ ॥
सत्यधर्मीया
बहुबहुज्ञमुखतः श्रुतमनुभवसिद्धं माहात्म्यं न हातुमुत्सहेऽतो वक्तव्यमेवेति वक्तुं काञ्चित्सङ्गतिं विज्ञापयति ॥ पितामहा इति ॥ समरे रणे मे मम पितामहाः पञ्च पाण्डवा अमरञ्जयैः । असंज्ञायामपि बाहुलकान्मानवमावर्तं नावर्तन्त इतिवन्मुमागमे छान्दसेऽशनायां हि मृत्युः सर्वाशनतेत्यर्थे बिन्दुः । आधिक्येऽधिकमिति सूत्रादिति बृहद्भाष्योक्तदिशा सर्वामरेत्यर्थके बिन्दौ वाऽमरञ्जयैरिति सम्भवति । अमारान्देवाञ्जयन्ति ते तथा तैः । अमराणां वरादिना मरणरहितानां जयो यैरिति वा तैः । देवव्रतो भीष्मः स एवाद्यो येषां ते तथा । देवं क्रीडां स्त्रिया सह व्रतयति, देवस्य व्रतं त्यागो येनेति सः । व्रताद्भोजनतन्निवृत्त्योरित्युक्तेः । पयो व्रतयति शूद्रान्नं व्रतयतीत्युदाहरणे । व्येतूर्ध्वरेताः सततं भवानीति श्रीमदुक्तेः । ते च तेऽतिरथाः । देवव्रतो हरिव्रतवानादिर्येषां ते च ते रथा येषां तैरित्यर्थः । तिमिङ्गिलैस्तिमिं गिरति गॄ निगरणे मूलविभुजादिः कः । अतिविभाषेति लः । गिलेऽगिलस्येति मुम् । तिमिङ्गिलादयश्चाथेत्यमरभानुदीक्षितीये मत्स्यविशेषाणां नामेत्युक्तेस्तिमिङ्गिलतुलैः । दुरत्ययं दुःसाधोऽत्ययोऽतिक्रमणं यस्य तम् । कौरवाणां सैन्यं सेना तदेव सागरः समुद्रस्तं वत्सपदं वत्सस्तर्णकस्तत्पदमिव । लुप्तोपमेयम् । कृत्वा, यः प्लवो येषां तेऽनायासतरण एव तात्पर्यम् । यत्प्लवा येनैव प्लवः प्लुतगतिर्यस्य, प्लवः शब्दः कृष्णेत्यादिर्येषां ते तथाऽतरन् । प्लवः कारण्डवे भेके कुलके फलके कृपौ । शब्दे प्लुतिगतौ प्लक्षे चण्डालजलकाकयोरिति विश्वः । यस्य स्वान्वत्सपदं सुतस्थानं कृत्वा । यत्प्लवा यः प्लवः पोतो येषां ते सन्तोऽतरन् । यं वत्सपदं वत्सापदेशं कृत्वेति वा । पुत्रदूतत्वादिना कृत्वा । प्रियः सुहृदः खलु मातुलेय आत्मार्हणीयो विधिकृदित्यादेः । अनेन वत्सपदं कृत्वेतीरणेनेरणीयं यत्प्लवा इति वत्सपदतरणस्यानपेक्षितरिकृतत्वादतो यत्प्लवो यत्प्लव इति शङ्का कल्पितेति ज्ञेयम् । स्म निन्दां धिक्कारं यन्ति प्राप्नुवन्तीति स्मयन्तस्ते प्लवाः पोता यैरिति स्मयत्प्लवाः सन्तः । स्म पादपूरणेऽतीतसामिनिन्दार्थयोर्मतमिति विश्वः । स्मयन्तः स्मयमाना अस्मदसाध्योऽयं व्यापार इतीव प्लवा येषां त इति वा । एवं तारणं नास्मत्साध्यमिति प्लवा विसिस्मिर इवाभवन्निति भाव इति वा । स्मयन्त इति चान्द्य्रा रीत्येति ज्ञेयम् ॥ ५ ॥
सुमनोरञ्जिनी
एवं सामान्यतः संक्षिप्य राज्ञा कृतं प्रश्नं प्रदर्शयित्वा विशेषतो विस्तरेण च कृतं दर्शयति श्लोकत्रयेण । तत्रादौ राजा स्वपूर्वजोपकारितया हरिं स्तौति ॥ पितामहा इति ॥ मे पितामहा धर्मादयः । यत्प्लवा यः कृष्ण एव प्लव उडुपं येषाम् । तादृशा भूत्वा । समरे । अमरानपि जयन्तीति तादृशैः । ज्ञायामपीत्यादिवन्मुमागमः । देवव्रतो भीष्मः स एवाद्यो येषामतिरथानां, तद्रूपैस्तिमिङ्गिलैस् तन्नामकमत्स्यविशेषैर्विद्यमानैर् निमित्तैः । दुरत्ययम् अत्येतुम-शक्यम् । कौरवाणां सैन्याख्यसमुद्रम् । वत्सपदं तज्जलमिव कृत्वा आयासं विना अतरन् स्मेत्यर्थः । तिमिर्नाम दशयोजनपरिमितो मत्स्यः । तमपि ग्रसति यो मत्स्यः स तिमिङ्गिल इति ॥ ५ ॥
द्रौण्यस्त्रविप्लुष्टमिदं मदङ्गं सन्तानबीजं कुरुपाण्डवानाम् ।
जुगोप कुक्षिङ्गत आत्तचक्रो मातुश्च मे यः शरणं गतायाः ॥ ६ ॥
पदरत्नावली
मातृगर्भे स्वपरिरक्षितृश्रीहरिविषयकपरमाद्भुतविविधवीर्यश्रवणे परमौत्सुक्यं परीक्षित् प्रकाशयतीत्याह ॥ द्रौण्यस्त्रेत्यादिना ॥ स्वं शरणं गताया मातुरुत्तरायाः कुक्षिमुदरं गतः प्रविष्टो यो मातुर्ज्ञातुर्मम मेयो ज्ञेयः, दृग्विषयः सन्नित्यर्थः । मातुरित्यस्य तन्त्रेणान्वयः । आत्तं चक्रं येन स तथा । द्रौणेरश्वत्थाम्नो यदस्त्रं पाण्डवकुलोन्मूलनाय कृतसङ्कल्पेन मुक्तं ब्रह्मास्त्रं तेन विप्लुष्टं विदग्धम् । ‘प्लुष दाहे’ इति धातुः । कुरुपाण्डवानां सन्तानबीजं वंशबीजायितमिदं मदङ्गं मच्छरीरं जुगोप परिररक्ष ॥ ६ ॥
सत्यधर्मीया
साक्षादधोक्षजाध्यक्षता मत्साक्षीक्षितेति न त्यक्ष्यामि तत्कथामृतमतस्तद्वदेति वदति ॥ द्रौणीति ॥ यः कृष्णो मे मातुरातुराया उत्तरायाः स्वं शरणं गतायाः कुक्षिमुदरं गतः प्रविष्ट आत्तचक्र आत्तं चक्रं येन सः सन् कुरुपाण्डवानां कुरवश्च दुर्योधनाद्याश्च पाण्डवाश्च धर्माद्याश्चेति द्वये तेषां सन्तानबीजं वंशबीजायितमिदं मदङ्गं मत्कलेवरमपि जुगोपापीपलत् । किं घटितं सङ्कटं तवागतमित्यत आह । द्रौणेरश्वत्थाम्नो यदस्त्रं ‘निर्वंशं करिष्ये पाण्डवकुलमि’ति कृतसङ्कल्पेन मुक्तं ब्रह्मास्त्रं तेन विप्लुष्टम् । उष प्लुष दाह इति स्मरणाद्दग्धमिति । ममैवं ज्ञानमपि तदानीं तद्दत्तमित्यप्यवयति ॥ मेय इति ॥ कुक्षिं गतो यो मातुर्ज्ञातुर्मम सकाशान्मेयो ज्ञेयः सन् जुगोपेत्यन्वयः। अनेन मदङ्गं मातुरित्येवोक्तौ स्वमातुरित्यर्थसम्भवे भवेदतिरिक्तं म इति शङ्का दुर्मुखीकृतेति ज्ञेयम् । चात्पाण्डवव्यसनं च वीक्ष्येति ग्राह्यम् । ग्राह्यं च कुन्त्यादिप्रार्थनं च । यथोक्तं प्रथमेऽश्वमेधपर्वणि च । तेषां तव्द्यसनं वीक्ष्येत्यादि । ततः कृष्णं समासाद्य कुन्तिभोजसुता तदा । प्रोवाचेत्यारभ्य प्रपन्नानामियं चेति दयां कर्तुमिहार्हतीत्याध्यायावसिति ।
मातुर्गर्भगतो वीरः स तदा भृगुनन्दन ।
ददर्श पुरुषं कञ्चिद्दह्यमानोऽस्त्रतेजसा ।
अङ्गुष्ठमात्रममलं स्फुरत्पुरटमौलिनम् ।
आपीच्य दर्शनं श्यामं तटिद्वाससमच्युतम् ।
क्षतजाक्षं गदापाणिमात्मनः ….. ।
परिभ्रमन्तमुल्काभं भ्रामयन्तं गदां मुहुः ।
अस्त्रतेजः स्वगदया ….. मिषतो दशमासस्य ….. ।
………….. तत्रैवान्तर्दधे हरिः ॥ इति ।
प्रथमे प्रथमतो गर्भगो भगवानवददित्युच्यते तथा गदेति । अत्र दशमे चात्तचक्र इति । तथाऽश्वमेधपर्वणि च । नान्तरनन्तनिवेशः शंसितः । किञ्च–
गर्भस्थस्यास्य बालस्य विना प्राणेन पातनम् ।
तथा मृतः शिशुरयं जीवतामभिमन्युजः ।
इत्युक्तेर्वासुदेवेन स बालो भरतर्षभ ।
शनैः शनैर्महाराज प्रास्पन्दत सचेतन इत्युक्तिः, जुगोप कुक्षिं गत आत्तचक्र इत्येवोक्तिश्च कथमिति चेन्न । आचार्यैरेवाभिधानात्समाधानस्य । तथा हि ।
प्रविवेश पुरं कृष्णस्तदाऽसूतोत्तरा सुतम् ।
द्रौण्यस्त्रसूदितं बालं दृष्ट्वा कुन्त्यादिकाः स्त्रियः ।
शरण्यं शरणं जग्मुर्वासुदेवं जगत्पतिम् ।
प्रत्यक्षमात्मनाभेऽन्तः रक्षितं प्रसवे हतम् ।
पुनरुज्जीवयामास केशवः पार्थतन्तव इति ।
अन्तर्यथा न मृतः स्यात्तथा ररक्ष कुक्षिस्थः । भूतलपातकाले पुनर्मृतोऽपतत् । तत उज्जीवयामासेत्युभयैककण्ठ्यात् । परमवशिष्यते गदासुदर्शनगदने कथमिति शङ्कामात्रम् । चक्रं राष्टास्त्रयोरपीति तथाऽस्त्रं प्रहरणेऽपि चेति विश्वाच्चक्रशब्द आयुधमात्रवचनोऽत्रेति । तच्च प्रथमस्कन्धानुसन्धानेन गदेति गदनसम्भवात् । शङ्खचक्रगदापद्मधराश्चिन्त्या हरेर्भुजा इत्यादेस्तत्सहितता सहजेति द्वयोः स्थानद्वय उक्तिर्वा । याः शरणं गताः कुन्त्याद्यास्ताभ्यो मातुश्च निमित्तं जुगोपेत्याद्युर्वरितं पूर्ववत् । जु इति सौत्रो धातुर्गतिवेगवाची । ततो भ्रागभासधुर्विद्युतोर्जिपॄजुग्रावस्तुवः क्विबिति क्विप्प्रत्यये जवतेर्दीर्घश्चेति काशिकोक्तेर्जू इति जाते ह्रस्वो नपुंसक इति ह्रस्वे जु इति भवन्मदङ्गविशेषणम् । जु गतं मदङ्गम् । गोपनकृदपि न गोपसुतादन्य इत्यप्याह ॥ गोपकुक्षिं गत इति ॥ गोपालपालितपुत्र इति द्योतयितुं कुक्षिज इत्यनुक्तिरुक्तिश्च कुक्षिं गत इति मन्तव्यम् । यः स एव जुगोपेत्यन्वयः । मनोजुवेत्यृग्भाष्यटीकायां मनोजु मनोवेगिनावित्युक्तेः । विस्तरस्तट्टिप्पणतोऽवसेयः । विप्लुष्टं भावे क्तः । विप्लोषं दाहं जु प्राप्तं मदङ्गमिति वा । पाण्डवानां सन्तानबीजं कुर्विति शरणं गताया मातुः कुक्षिं गत इदं मदङ्गं यश्च जुगोपेत्यन्वयो वा । अत एव कुरुपाण्डवेति जुगुप्सिताजुगुप्सितसन्तानबीजमित्युक्तिमस्वरसां मत्वाऽऽचार्याः केशवः पार्थतन्तव इत्येवावदन्निति मन्तव्यम् । ननु भक्तिपादीयं कुरुपाण्डववत्तेषामुपपत्तेः पृथग्वच इत्यनु-व्याख्यानव्याख्यावसरे सुधायां पाण्डवानां कुरुत्वेऽपि सामान्यविशेषापेक्षया सन्तानबीजं कुरुपाण्डवानामित्यादौ कुरुभ्यः पृथग्वचनमित्युक्तिविरोधोऽत्रेव तत्र पार्थेत्येवोक्तिविरोध इति चेन्न । निर्वीर्यं सामान्यविशेषप्रयोगं प्रदर्श्य त एवोपलक्षणयैतद्ग्रहोऽप्यभिमतष्टीकाकाराणामिति सर्वैककण्ठ्यसम्भवात् । अत एव कुरुभ्यः पृथग्वचनमित्येव वचनम् । न च कुरुपाण्डवानां सन्तानबीजमित्यन्वयप्रदर्शनमिति मन्तव्यम् ॥ ६ ॥
सुमनोरञ्जिनी
स्वस्यैवोपकर्तृतयापि तं स्तौति ॥ द्रौण्यस्त्रेति ॥ यो हरिर् द्रौणेर् अश्वत्थाम्नोऽस्त्रेण विप्लुष्टं दह्यमानम् । कुरूणां तद्वंश्यानां पाण्डवानां च । पाण्डवानां कुरुत्वेऽपि गोबलीवर्दन्यायेन सामान्यविशेषभावमाश्रित्य सजातीयवैशिष्ट्यकथनाय पृथग्व्यवहार इति ज्ञेयम् । इदं दृश्यमानम् । मदङ्गं मम शरीरम् । शरणं गताया मे मातुः कुक्षिं गतः । आत्तचक्रः स्वीकृत-चक्राद्यायुधः सन् । आद्यर्थकबहुवचनांतचक्रपदेन समासः । तेन प्रथमस्कन्धोक्तगदायुधत्वमपि सङ्गृहीतं भवति । जुगोप रक्षितवानिति योजना । मदङ्गमित्यत्र बुद्ध्या अङ्गमिति विच्छिद्य मे मातुश्चाङ्गं जुगोपेति योज्यम् । पदरत्नावल्यान्तु इदं प्रत्यक्षमिति भावेनोक्तं मेय इति । मया मेयो ज्ञेयः । मम दृग्विषय इत्यपि योजितम् ॥ ६ ॥
विरोधोद्धारः
द्रौण्यस्त्रेति ॥ अत्र धार्तराष्ट्रस्य सन्तानस्यानपेक्षितत्वेऽपि कुरुशब्देन तेषां ग्रहणं कथमित्याक्षेपापाकरणायार्थ उच्यते । यः श्रीकृष्णः दौण्यस्त्रदग्धमिदं मदङ्गं पाण्डवानां सन्तानबीजं वंश्यव्यञ्जकम् । कुर्विति शरणं गताया मे मातुः । कुक्षिंगत उदरं प्रविष्टः । तत्रापि । आत्तचक्रः । चक्र दीप्ताविति धातोः । दीप्तगदाभ्रमणेनालातचक्रवद्दर्शनादात्तचक्र इत्युक्तिः । अन्यथा प्रथमस्कन्धोक्तेन परिभ्रमन्तमुल्काभां भ्रामयन्तं गदां मुहुरित्यनेन विरोधः स्यात् । तस्मात्तथा सन् जुगोप । तस्य वीर्याणि वदस्वेत्युत्तरेणान्वयः ॥ ६ ॥
वीर्याणि तस्याखिलदेहभाजामन्तर्बहिः पूरुषकालरूपैः ।
प्रयच्छतो मृत्युमनामयं च मायामनुष्यस्य वदस्व विद्वन् ॥ ७ ॥
पदरत्नावली
अखिलदेहभाजामशेषशरीरधारिणामन्तर्बहिश्च क्रमात् पुरुषरूपैः कालरूपैश्च मृत्युं नित्यदुःखोद्रेकानुभवलक्षणमन्धन्तमः, अनामयं संसारनिरासद्वारा परमसुखानुभवलक्षणं मोक्षं च प्रयच्छतो ददतः, प्रलयान्त इति शेषः । तस्य मायामनुष्यस्य स्वच्छन्देनोपात्तमर्त्यमूर्तेर् वीर्याणि विद्वन् ज्ञानिन् वदस्व उपमन्त्रणपूर्वकं वदेत्यर्थः । ‘भासनोपसम्भाषाज्ञानयत्नविमत्युपमन्त्रणेषु वद’ इत्युक्तेः ॥ ७ ॥
सत्यधर्मीया
अखिलदेहभाजां सकलदेहधारिणामन्तर्बहिश्च क्रमात्पुरुषरूपैः कालरूपैश्च मृत्युं दुःखमनन्तरं मरणं, चादन्धन्तमः । अनामयं नीरोगतां सुखमिति यावत् । तथा मोक्षं च प्रयच्छतो ददतस्तस्य मायामनुष्यस्य स्वेच्छोपात्तमनुजतनुमतो वीर्याणि । नैतानि गोप्यानि गुरो इत्यप्याह ॥ वीर्याणीति ॥ विशेषत ईर्याणि शंसनीयानि । तर्ह्येवं मानवतनुः कुतोऽभवद्भगवानित्यत आह ॥ मायेति ॥ इच्छयैव मनुष्यो न तु तुच्छजनवज्जननं जनार्दनस्येति भावः । हे विद्वन् ज्ञानिन् शुक वदस्व । भासनोपसम्भाषाज्ञानयत्नविमत्युपमन्त्रणेषु वद इत्युक्तेः । शृण्वित्युपमन्त्रणपूर्वकं वदेत्यर्थः । वद सन्देशवचन इत्यस्य वा इदं रूपम् । स्वविद्वन् भगवज्ज्ञानिन्निति वा । परः स्वो हरिरुद्दाम इति वचनात् ॥ ७ ॥
सुमनोरञ्जिनी
न केवलं मम पूर्वजानां मातुर्मम चेति त्रयाणामेवोपकारस्तेन कृतः किन्तु देहधारिणां सर्वेषामपि क्रियमाण उपकारो ऽनुभवसिद्ध इति दर्शयन् तन्महिमानं पृच्छति ॥ वीर्याणीति ॥ हे विद्वन् । अखिलदेहभाजाम् । अन्तः पुरुषरूपैर् बिम्बरूपैः । बहिः कालरूपैः कालनियामकरूपैश्च । मृत्युं संसारम् । अनामयं मोक्षं च प्रयच्छतो, मायया स्वेच्छया । वस्तुतोऽ-मानुषस्यापि विडम्बनाय मनुष्यवत्प्रतीयमानस्य विष्णोर्वीर्याणि वदस्वेत्यन्वयः ॥ ७ ॥
विरोधोद्धारः
वीर्याणीति ॥ पूर्वत्र वीर्याणि शंस न इत्यनेन सामान्योक्तौ वद विस्तरादित्यनेन च विस्तररूपविशेषप्रश्नसिद्धौ पुनरत्र वदस्व विद्वानित्यनेन पुनरुक्तापात इति चेन्न । पूर्वत्र यद्यपि सामान्यविशेषविषयौ प्रश्नौ द्वावपि कृतौ ताववतारविषयौ । तत्रांशेनावतीर्णस्येति यदोर्वंश इति चोक्तेः । तथाप्यत्र देह्यन्तर्बहिष्ठत्वोक्तेर्मूलरूपवीर्यविषयकप्रश्नेन विशेषसिद्धेः । न च मायामनुष्यस्येत्यनेन विरोधः । मायेतीच्छा समुद्दिष्टेति वचनान्मायया स्वेच्छ्या मनुष्या मनुष्यावतारा यस्मादिति व्युत्पत्त्या मूलरूपस्यैव सिद्धेः । नाप्युत्तराभावात्प्रश्नवैयर्थ्यमत्र शङ्क्यम् । शिवसङ्कट-मोचकत्वभृगुवत्सलत्वश्रुतिस्तुतित्वाद्युक्तेः । ततश्चायं श्लोकार्थः ॥ अखिलदेहभाजाम् । सर्वप्राणिनाम् । अन्तर्बहिः । पुरुषकालरूपैः । नन्वत्रान्तर्बहिरेकैकरूपसत्त्वेन द्विवचनसम्भवेऽपि रूपैरिति बहुवचनमयुक्तमिति चेन्न । शरीरान्तःस्थद्विसप्ततिसहस्रनाड्यादिषु प्रातिस्विकत्वेन स्थित-सूक्ष्मादिद्विपरार्धपर्यन्तकालावयवादिषु प्रातिस्विकत्वेन स्थितरूपाणामनेकत्वात् । तथा च शरीरान्तःस्थनाडीन्द्रियादिगतैरत एव पुरुषशब्दवाच्यै रूपैः । मृत्युम् । देहवियोगलक्षणरूप-मृत्यूपलक्षितदेहसम्बन्धरूपजन्मादिलक्षणसंसारम् । प्रयच्छतः प्रकर्षेण यमयतः । यावद्भगवा-न्स्थूलनाडीन्द्रियान्तःस्थित्वा तानि देहभाग्भिः प्रवर्तयति तावत्संसारोऽत्रापगच्छतीति भावः । तथैव शरीरबहिःस्थातिसूक्ष्मतमादिपरान्तकालावयवस्थैरत एव कल छेदने कल कामधेनावित्यादिधातुभ्यः । संसारच्छेदकत्वेन मोक्षकामपूरकत्वेन कालसंज्ञकै रूपैः ॥ अनामयम् आरोग्यं मोक्षं वा । नास्ति नाम मृत्युनामापि यस्मिन्सोऽनामा विष्णुर्वा । अः इति ब्रह्मेति श्रुतेः । अ शब्दवाच्यत्वाद्वा । तं याति प्राप्नोत्यनेनेति अनामयं ज्ञानं प्रयच्छतः ददतः । अमनुष्यस्य । मनुष्योपलक्षित-सर्वजीवभिन्नस्य । तस्य वीर्याणि । माया । सप्तसु प्रथमेति सूत्रात् । बहूनां जन्मनामन्ते ज्ञानवान्मां प्रपद्यत इत्युक्त्या बहुकालसिद्धज्ञानेन भगवत्प्राप्तिरूपमोक्षो भवतीति भावः ।
अथवा । अन्तर्बहिः पुरुषकालरूपैः । अन्तःपुरुषरूपैर् अन्तराकर्षणेन पुरुषसंज्ञकै रूपैरुच्छ्वासैरित्यर्थः । बहिः कालरूपैर् बहिर्विसृष्टत्वेन कं कायं न लान्ति । ला आदान इति धातोः । नाङ्गीकुर्वन्तीति व्युत्पत्त्या कालसंज्ञकै रूपैर्निश्वासैः । आयुर्गणनायां तेषामेव निमित्तत्वात् । अखिलदेहभाजाम् अखिलः पूर्णो विष्णुर्देहाः संत्येषामिति देहाः । अर्श आद्यच् । जीवा इत्यर्थः । विष्णुरेव जीवा इति । भजन्ति । उपासन्ति । तेषाम् । मृत्युं संसारं तमो वा । प्रयच्छतः । मायामनुष्यस्य । महामायेत्यविद्येति नियतिर्मोहिनीति चेत्यारभ्य विष्णोः प्रज्ञप्तिरेवैका शब्दैरेतैरुदीर्यत इति नारायणश्रुतेः । माया ज्ञानं तद्युक्तो मनुष्य इति मध्यमपदलोपीसमासः । तस्य । अनामयं मोक्षम् । प्रयच्छतः । ज्ञानिनां मोक्षदश्च स इत्यनुव्याख्यानोक्तेः । मनुष्याणां सहस्रेषु कश्चिद्यतति सिद्धय इत्युक्तेर्देहभाग्मनुष्ययोर्बहुवचनैकवचने क्रमाज्ज्ञेये । अनामयं क्षेमं प्रति । क्षेमार्थमिति यावत् । अपि वा । अखिलदेहभाजाम् अखिलं सर्वमिष्टं ददातीति अखिलदा तथाविधा ईहा यस्य सोऽखिलदेहो हरिस् तं भजताम् । अन्तर्बहिः पुरुषकालरूपैः परमाण्वंशान्तःस्थब्रह्माण्डबहिष्ठपुरुषकालख्यरूपैः । ज्ञातैरिति शेषः । पुरुषाख्यस्य भगवतो रूपैः रूप्यते एभिरिति ज्ञानैरित्यर्थो वा तैः । अमृत्युं मोक्षम् । प्रयच्छतो ददतः । अमनुष्यस्य मनुष्योपलक्षितसर्वजीवभिन्नस्य तस्य वीर्याणि । माया । सप्तसु प्रथमेति सूत्रात् । इच्छां कामितं च वदस्वेति । यद्वा । मायेति शुकं प्रति सम्बुद्धिः । मः शिवे मा रमायां चेति विश्वात् । मः शिव आ आत्मत्वेन याति प्राप्नोतीति स तथा । मां ज्ञानं वा यातीति स तथेत्यर्थे विद्वन्नित्यनेन पुनरुक्तिः । अतो मातीति मः सर्वज्ञः स चासौ अश्च व्यासश्च तस्माद् यं ज्ञानं यस्य तत्सम्बुद्धिरित्यर्थः ॥ ७ ॥
रोहिण्यास्तनयः प्रोक्तो रामः सङ्कर्षणस्त्वया ।
देवक्या गर्भसम्बन्धः कुतो देहान्तरं विना ॥ ८ ॥
पदरत्नावली
एकस्य योनिद्वयसम्बन्धानुपपत्तिः प्रश्नबीजम् ॥ ८ ॥
सत्यधर्मीया
ननु मुने सङ्कर्षणमहीश्वरमिति हि किल बलो देवकीसुतत्वेन कीर्तितः । स एव बलं गदं सारणं चेति रोहिणीगर्भप्ररोहिणी त्वयैव कथितः । कथमन्तरा शरीरान्तरं योनिद्वय-संसर्ग एकस्यादृष्टचर इति परीक्ष्य परीक्षित्पृच्छति ॥ रोहिण्या इति ॥ सङ्कर्षणो रामस्त्वया रोहिण्यास्तनयः प्रोक्तो नवमान्ते । तस्यैव देवक्या गर्भसम्बन्धो देहान्तरं विना कुतः किंकारणकः । अत एव मयाऽपि मन्दमुक्तमिति नेत्याह ॥ प्रेति ॥ प्रकर्षेणोक्त इति । देवक्या गर्भसम्बन्ध इति गर्भपदसमस्तस्यैकदेशोत्कीर्तनेन सम्बन्धशब्दस्यावर्तितस्य तृतीयान्तरोहिणीपदेनान्वयः । रोहिण्या सम्बन्धः कुत इत्यर्थः । सर्वजनीने प्रमेये किं चित्रयसि चेतःपातः क्षितिमित्यत आह ॥ अस्तनय इति ॥ अस्तो निरस्तो नयो नीतिर्यस्य स तथा निर्नीतिक इत्यर्थः ॥ ८ ॥
सुमनोरञ्जिनी
विस्तरतः कथने बीजभूतां स्वमनोगताशङ्कां दर्शयति ॥ रोहिण्या इत्यादिना ॥ त्वया संकर्षणस्तदवतारो रामः रोहिण्यास्तनय इति प्रोक्तः बलं गदं सारणं चेत्यादिना । देवक्या गर्भसम्बन्धश्च प्रोक्तः वसुदेवस्तु देवक्यामित्यादिना इत्यन्वयः । स कुतः कथं देहान्तरं विना घटते । गर्भद्वयसम्बन्धस्य देहद्वयं विनाऽसम्भवादिति भावः ॥ ८ ॥
कस्मान्मुकुन्दो भगवान् पितुर्गेहाद् व्रजं गतः ।
क्व वासं ज्ञातिभिः सार्धं कृतवान् सात्वतां पतिः ॥ ९ ॥
सत्यधर्मीया
पितुर्वसुदेवस्य ज्ञातिभिः सार्धं साकं सात्वतां पतिः क्व वासं कृतवान् ॥९॥
सुमनोरञ्जिनी
मुक्तिं ददातीति मुकुन्दः। पितुर्गेहाद्व्रजं गत इति यत् तत् कस्मात्कारणाद् व्रजं गतोऽपि, सात्वतां पतिः । सुखार्थकसातेः क्विपि सात् सुखं तद्वन्तो मुक्तास् तेषां पतिः कृष्णः ज्ञातिभिः सार्धम् । क्व कस्य गृहे वासं कृतवान् ॥ ९ ॥
व्रजे वसन् किमकरोन्मधुपुर्यां च केशवः ।
भ्रातरं चावधीत् कंसं मातुरद्धाऽतदर्हणम् ॥ १० ॥
पदरत्नावली
मधुपुर्यां च वसन् किं कर्म कृतवान् ? मातुर्भ्रातरं मातुलमित्यर्थः । अतदर्हणं तस्य वधस्यायोग्यमित्यर्थः ॥ १० ॥
सत्यधर्मीया
मधुपुर्यां च वसन् किमकरोदित्यन्वयः । मातुर्भ्रातरं कंसम् । अतदर्हणं हननानर्हम् । ओति स्वहस्ततः सम्यगिति मातुर्भ्रातरं कंसमित्येकसरण्यानुक्तिस्तदयोग्यतायत्तेति ज्ञेयम् ॥ १० ॥
सुमनोरञ्जिनी
व्रजे मधुपुर्यां च वसन् किमकरोदिति योज्यम् । ननु मधुपुर्यां कंसवधं कृतवानिति प्रसिद्धमेव । पुनः किं पृच्छसीत्यतः प्रश्नतात्पर्यमाह ॥ भ्रातरमिति ॥ अत्र वा मधुपुर्यामित्येतत्सम्बध्यते । मधुपुर्याम् अतदर्हणं तस्य वधस्यायोग्यं मातुर्भ्रातरं मातुलमित्यर्थः । अवधीदिति अद्धा निश्चितम् । तथापि तत्, चशब्दात्कुत इत्याकृष्यते । कुतो निमित्तादिति । कंसवधे निमित्तं किमिति भावः ॥ १० ॥
देहं मानुषमाश्रित्य कति वर्षाणि वृष्णिभिः ।
यदुपुर्यां सहावात्सीत् पत्न्यः कत्यभवन् विभोः ॥ ११ ॥
सत्यधर्मीया
मानुषं देहमाश्रित्य स्थितैर्वृष्णिभिरित्यप्यन्वयः ॥ ११ ॥
सुमनोरञ्जिनी
मानुषम् अमानुषमपि मन्ददृष्ट्या मानुषवत्प्रतीतम् । यदुपुर्यां मधुरायाम्
॥ ११ ॥
एतदन्यच्च सर्वं मे मुने कृष्णविचेष्टितम् ।
वक्तुमर्हसि सर्वज्ञ श्रद्दधानाय विस्तृतम् ॥ १२ ॥
पदरत्नावली
मे मह्यम् ॥ १२ ॥
सत्यधर्मीया
अन्यन्मयाऽविज्ञातं सर्वं कृष्णविचेष्टितं वक्तुमर्हसि ॥ १२ ॥
सुमनोरञ्जिनी
एतन् मया दृष्टम् । अन्यच्च एतदुपयुक्तपूर्वापरकथासन्दर्भम् । मे मह्यम् । श्रद्दधानाय श्रन्नामास्तिक्यबुद्धिस् तां दधानाय । वक्तुमर्हसीति ॥ १२ ॥
नैषाऽतिदुस्सहा क्षुन्मां त्यक्तोदमपि बाधते ।
पिबन्तं त्वन्मुखाम्भोजसृतं हरिकथामृतम् ॥ १३ ॥
पदरत्नावली
क्षुधितस्य तव दौर्बल्यान्मनो नेच्छति श्रोतुमिति तत्राह ॥ नैषेति ॥ त्यक्तोदम् आचमनोदकमन्तरेणेति शेषः । ननु दिव्यमन्त्रौषधादिकमन्तरेण क्षुधादिकं मानुषदेहं बाधत एव, अतः कथं न बाधत इति ? तत्राह ॥ पिबन्तमिति ॥ सृतं गलितम् ॥ १३ ॥
सत्यधर्मीया
बुभुक्षितं न प्रतिभाति किञ्चनेत्युक्तेरहं बोधयामि बोधस्तव कथं भवेन्नृपोपोषितस्येत्यतो भाषते ॥ नेति ॥ एषा सर्वप्रत्यक्षसिद्धाऽतिदुःसहा क्षुत्क्षुधा त्यक्तोदमपि त्यक्तमुदं सन्ध्याद्युपयुक्तोदकमन्तरेण येन तं मां न बाधते । तर्ह्येतदन्तरा किं वा भक्तं भुक्तवानसीति नेत्याह ॥ पिबन्तमिति ॥ सृतं बहिरुपायातं पिबन्तं कर्णाभ्यामिति शेषः । पिबन्तं श्रुतवन्तम्
॥ १३ ॥
सुमनोरञ्जिनी
नन्वस्ति ते श्रद्धादिकं तथापि प्रायोपविष्टस्य ते क्षुद्बाधेन न मनः स्थिरं भवत्यतो मदुपदिष्टं प्रमेयं कथं त्वद्बुद्धिपथमारोहेन्मम श्रमश्च विफलः स्यादिति तत्राह ॥ नैषेति ॥ दुःसहा सोढुमशक्याऽपि एषा क्षुत् त्यक्तोदमपि आचमनादिकमन्तरा पानीयोदकरहितमपि मां न बाधते । तत्र निमित्तमाह ॥ पिबन्तमिति ॥ त्वन्मुखं तव मुखम् अम्भोजमिव तेन सृतं गलितं, कथैवामृतमिव कथामृतम् । उपमितसमासोऽयम् ॥ १३ ॥
विरोधोद्धारः
नैषेति । अत्रोत्प्रेक्षितकमलपर्यायादम्भोजादमृतस्रवणमसम्भावितमतो विरोधोऽतोऽर्थ उच्यते । अत्रांभोजशब्दश्चन्द्रवाचकः । अब्जो जैवातृकः सोम इत्यभिधानात् । विधुः सुधांशुः शुभ्रांशुरित्यनेनामृतकराच्चन्द्रादमृतस्रवणं युक्तमेवेति न विरोधः । किञ्च एतदन्यच्चेति पूर्वश्लोके विस्तृतं वक्तुमर्हसीत्युक्तम् । तत्र क्षुत्तृट्पीडितस्य तव कथमवसर इत्याशङ्क्य एषाऽतिदुःसहा क्षुत् त्यक्तोदमपि मां न बाधते । तत्र हेतुगर्भविशेषणं त्वन्मुखांभोजसृतं हरिकथामृतं पिबन्तमिति समाहितम् । अनेन ममापि क्षुत्तृट्परीतत्वात्कथमवसर इत्यपि परास्तम् । यद्यस्माद्बहिर्गच्छति तत्तस्मिन्नस्त्येवेति व्याप्त्या क्षुदुपशमस्यानुमेयत्वात् । यद्वा । अम्भोजशब्दः कमलार्थक एव । द्रवद्द्रव्ये भाजनस्थे जाते तस्य तल्लेपेन न्यूनतादर्शनेऽपि पद्मपत्रमिवांभसीत्युक्त्या तत्र लोपासम्भवेन कमलोत्प्रेक्षा मुखस्येति ज्ञेयम् । व्यासमुखाद्यावत्प्राप्तं तन्मध्ये किञ्चिदपि ऊनं न भूत्वैव सर्वं मत्कर्णोपरि पतिष्यतीत्यर्थः ॥ १३ ॥
सूत उवाच–
एवं निशम्य भृगुनन्दन साधुवादं वैयासकिः स भगवानथ विष्णुरातम् ।
प्रत्यर्च्य कृष्णचरितं कलिकल्मषघ्नं व्याहर्तुमारभत भागवतप्रधानः ॥ १४ ॥
पदरत्नावली
हे भृगुनन्दन शौनक । वैयासकिर् व्याससुतः । प्रत्यर्च्य प्रतिसम्भाव्य, राजानमिति शेषः । भागवतप्रधानस् तच्छ्रेष्ठः ॥ १४ ॥
सत्यधर्मीया
एवं परीक्षित्पृष्टः किं शुकोऽकरोदिति शौनकसन्देहं परिहरति सूत इत्याह ॥ सूत उवाचेति ॥ हे भृगुनन्दन शौनक साधुवादं निशम्य वैय्यासकिर् गतम् । व्याससूनु-र्विष्णुरातं प्रत्यर्च्य ‘‘वरीयानेष ते प्रश्नः कृतो लोकहितं नृपेति’’ सत्कृत्य भागवतप्रधानस्तच्छ्रेष्ठः कलिकल्मषघ्नं कृष्णचरितं व्याहर्तुमारभत ॥ १४ ॥
सुमनोरञ्जिनी
एवं पृष्टवते राज्ञे प्रीत्या प्राहेत्याह ॥ एवमिति ॥ हे भृगुनंदन शौनक । भागवतेषु भगवद्भक्तेषु प्रधानः भगवान् वैय्यासकिर् व्याससूनुः, अपत्ये व्यासशब्दस्येञ् अकङ् च । स शुक एवं साधुवादं निशम्य अथ विष्णुरातं परीक्षितं प्रत्यर्च्य संभाव्य कलिकल्मषघ्नं विष्णुचरितं व्याहर्तुं वक्तुम् आरभतेति योजना । अथ प्रश्नरूपं साधुवादमिति वा । प्रश्नकार्त्स्न्येष्वथो अथेत्यभिधानात् । कृष्णचरितम् अथ कार्त्स्न्येन व्याहर्तुमारभतेति वा योज्यम् । साधुवादमिति विष्णुरातमित्यस्य वा विशेषणम् ॥ १४ ॥
श्रीशुक उवाच -
सम्यग् व्यवसिता बुद्धिस्तव राजर्षिसत्तम ।
वासुदेवकथायां ते यज्जाता नैष्ठिकी रतिः ॥ १५ ॥
पदरत्नावली
कीदृशी प्रत्यर्च्येति तामाह ॥ सम्यग् व्यवसितेति ॥ नैष्ठिकी उत्कृष्टा । ‘निष्टोत्कर्षे व्यवस्थायाम्’ इति यादवः । निश्चलतया स्थितिर्निष्ठा तद्वतीति वा ॥ १५ ॥
सत्यधर्मीया
प्रत्यर्चनमुदञ्चयति ॥ सम्यगिति ॥ हे राजर्षिसत्तम राजर्षिश्रेष्ठ ते यद्यतो वासुदेवकथायां तच्छ्रवणे नैष्ठिकी स्थिरा चरमकालिकी रतिरासक्तिर्जाताऽतस्तव बुद्धिः कर्तव्याकर्तव्यनिश्चयात्मिका । यथोक्तं बुद्धिर्ज्ञानमिति गीताभाष्ये । कार्याकार्यविनिश्चयो बुद्धिः । ज्ञानं प्रतीतिर्बुद्धिस्तु कार्याकार्यविनिश्चय इत्यभिधानम् । सम्यग्व्यवसिता प्रान्तगन्त्री सम्यग्विगतमवसितमलमित्युपरमणं यस्याः सेति वा नैष्ठिकी रतिर् यज्जाता यस्या बुद्धेः, सा ते बुद्धिस्सम्यग्व्यवसितेत्यन्वयो वास्तवः । राजर्षय इति स्तोत्रं येषां ते च ते सन्तश्च तेषु श्रेष्ठेति वा । बुद्धिरिति ज्ञानमात्रं सम्यग्व्यवसिता सर्वशाखास्वपि भगवानेक एव प्रतिपाद्य इति सर्वसन्मतैकथयपरा इति वा । यथोक्तं गीताभाष्ये । बह्व्यो हि बुद्धयो मतभेदात् । तत्कथमेकत्र निष्ठां करोमीत्यत आह ॥ व्यवसायात्मिकेति ॥ सम्यग्युक्तिनिर्णीतानां मतानामैक्यमेवेत्यर्थ इति । सम्यक् समीचीनं ज्ञानवत्कुलं व्यव रक्ष । सिता धवला प्रशस्तेति वा सिता मया ज्ञातेत्यावृत्त्याऽन्वयो वा । सितो धवले निबद्धज्ञातयोरपीति विश्वः । समञ्चतीति, समः समिरिति सम्यादेशः । अबुद्धिर्बुद्ध्यभावः सिता बद्धेति वा । राज्ञामृषीणां, च सन्तोऽवसादका दुरात्मानस्तांस्तमयति । तमु ग्लान इति स्मृतिः । ग्लापयतीति स तथा । यद्वा राजानश्च ऋषयश्च ते सन्तश्च तैस्तम्यते कांक्ष्यत इति स तथा सर्वथा तदपेक्षित इत्यर्थः । पुरुतमं पुरूणामित्यृग्भाष्यटीकायां पुरुभिस्तम्यते आकाङ्क्ष्यते तमु अभिकाङ्क्षायामिति व्याख्यानात् ॥ १५ ॥
वासुदेवकथाप्रश्नः पुरुषांस्त्रीन् पुनाति हि ।
वक्तारं पुच्छकं श्रोतॄंस्तत्पादसलिलं यथा ॥ १६ ॥
पदरत्नावली
न केवलं हरिकथाप्रश्नः प्रष्टारं पुनाति किन्तु वक्तारमपीत्याह ॥ वासुदेवेति ॥ तत्पादसलिलं भागीरथी, शालग्रामतीर्थं वा । ‘गङ्गा गङ्गेति यो ब्रूयात्’ इत्यादेः ॥ १६ ॥
सत्यधर्मीया
श्रोतव्या वक्तव्या च हरिकथेति तत्कार्यनिरूपणेन निरूपयति ॥ वासुदेव-कथेति ॥ हि यतो, वक्तारं पृच्छकं श्रोतॄनिति त्रीन् पुरुषान्पुनाति पवित्रयति । निदर्शनं दर्शयति ॥ तत्पादेति ॥ तस्य वासुदेवस्य पादसलिलं गङ्गादिजलं यथा गङ्गा गङ्गेति कीर्तयन्तं तथैव माहात्म्यपृच्छकं श्रोतॄंश्च पुनाति तथेति । तव प्रश्नो यथा समीचीन इत्यर्थः । यथाशब्दस्य सम्यगर्थकत्वं षष्ठे स्पष्टमभिहितमनुसन्धेयम् । एवमन्वयनेन कथं वक्तृसम्बन्धिनः प्रश्नस्य तत्पावकता कथन्तरां कथाया मामित्येवातीतपद्ये कथनात्प्रश्नपर्यन्तानुधावनमिति शङ्काग्रन्थिर्मन्थरित इति ज्ञेयम् । यद्वा पृच्छ्यत इति प्रश्नो हि कथारूपः प्रष्टव्योऽर्थ इत्यर्थः । प्रश्नमेतं वद प्रभो इत्यादेः ॥१६॥
विरोधोद्धारः
वासुदेवेति ॥ अत्र केचिदुपमायामुक्तकर्मासङ्गतिं ब्रुवते । तदर्थमयमर्थः । कीदृशः प्रश्नः ॥ तत्पादसलिलं यथा ॥ गङ्गाजलतुल्य इत्यर्थः । ननु तत्कर्मक्रिययोः सम्बन्धोऽत्रान्वेषणीयः । उपमायां सर्वसाम्याभावात् । यद्वा । तत्सम्बन्धावश्यकत्वे तु स्नानं कुर्वाणं तत्पितृपुत्रौ चेति त्रीन्पुरुषान्यथा गङ्गा पुनातीति उपमायां योज्यम् । उपमेये च वक्त्रादींस्त्रीनिति केचित्स्नातुः पितृपितामहप्रपितामहानिति । अन्ये पितृमातृमातामहानिति वदन्ति । तदयुक्तम् । स्नातुः फलायोगप्रसङ्गात् । तस्याप्यङ्गीकारे त्रित्वसङ्ख्योक्त्यनुपपत्तेः । अथवा । वक्त्रादीनामेवोभयत्र सम्बन्धसत्त्वापेक्षायां तु वक्तारं शुकं पृच्छकं राजानं श्रोतॄनृषिसूतादीन् त्रयाणामपि गङ्गामध्यस्थत्वेन पवित्रीकर्तुं शक्यत्वात् । जटास्थगङ्गा रुद्रावतारत्वेन शुकं वक्तारं गङ्गामध्ये प्रायोपविष्टत्वेन परीक्षितं पृच्छकं सदा यात्राप्रसङ्गात्स्नानपानादिना ऋषीन् श्रोतॄनिति योजना । उत वा । गङ्गा गङ्गेति यो ब्रूयाद्योजनानां शतैरपि । मुच्यते सर्वपापेभ्यो विष्णुलोकं स गच्छतीति वचनाद्वक्तारं कियद्दूरेऽस्ति गङ्गेतः, किं योगात्साऽघहारिणीति पृच्छकम् । श्रुणुयाद्गङ्गामाहात्म्यं स याति परमां गतिमिति फलश्रुतेः श्रोतॄंस्तत्पादसलिलं यथा पुनातीत्यर्थः ।
ननु प्रश्नादिकृतिः स्वकर्तारमेव पावयेत् । अन्यथाऽतिप्रसङ्गात् । तस्मात्प्रश्नस्य पृच्छकपावकत्व-मस्तु । वक्त्रादिपावकत्वं तु कुत इति चेत् । उच्यते । वासुदेवकथाप्रश्नः श्रूयतां देवदेवेशेति वक्तृप्रार्थनया वासुदेवस्य श्रोतृत्वे सिद्धे शक्यसम्बन्धेन लक्षणया वासुदेवपदेन तद्गतश्रवणरूपो धर्मो गृह्यते । कथाशब्देन वक्तृधर्मः । प्रश्नशब्देन पृच्छकधर्मः । एकवद्भावेन वासुदेवकथाभ्यां सहित-तद्रतिः । मध्यमपदलोपीसमासेन वैकवचनोपपत्तिः । अभ्यर्हितत्वाद्वासुदेवस्यादौ ग्रहणम् । अत एवाल्पाच्तरविरोधाभावः ।
ननु सहपठितेष्वेकस्यैव लक्षणायां किं निमित्तमिति चेत् । इदं ज्ञेयम् । वक्तृपृच्छकयोः प्रार्थनाभावेन वासुदेवत्वासिद्ध्या कथञ्चिदपावित्र्यसम्भवेऽपि श्रोतृत्वाय प्रार्थितवासुदेवेऽपावित्र्यस्य सर्वथाऽसम्भवात् । तत्रैव लक्षणाश्रयणं युक्तम् । तस्माच्छ्रवणादयः स्वस्वकर्तारं पुनन्तीति भावः । तत्र दृष्टान्तः ॥ तत्पादसलिलमिति ॥ तनोति जगदिति तच्चतुर्मुखः । तनु विस्तारे ततः क्विप् । पातीति पो विष्णुर् अत्ति जगद्भक्षयतीत्यदो रुद्रः । एते तत्पादास्तेषां सलिलं कमण्डलुजं पादजं जटोद्भवं च तत्र द्वितीयं ध्रुवादीन् आद्यं शवादीन् । तृतीयं सगरादीनिति त्रीन्पथेत्यर्थः । गिरिजादिभिस्तत्त्ववक्तृत्वाद्रुद्रस्य, नारदाय कृतप्रश्नत्वाद्ध्रुवादेः, पितुराज्ञाश्रवणात्सगरादेः । एवं विवेकेन वक्त्रादिकमप्येतेषु युज्यते इति भावः । किञ्चैतद्वक्तृत्वादिकर्मत्रिके वक्तरि प्रश्नश्रवणादुत्तरदानाच्च प्रश्नं विना वक्तृत्वश्रोतृत्वधर्मद्वयसत्त्वाच्छ्रोतरि च प्रश्नोत्तराभावादेकस्य श्रवणस्यैव सत्त्वात्पृच्छके तूत्तरदानरूपवक्तृत्वाभावरूपेऽपि प्रश्नकरणरूपवक्तृत्वस्य प्रश्नस्याप्रयोजकत्वप्रसङ्गाच्छ्रवणस्य निजधर्मरूपस्य च सत्त्वेन धर्मत्रयस्यापि सद्भावात्पृच्छकाद्वक्तुराधिक्येऽपि परीक्षित्संमाननार्थे शुकेन प्रश्नस्यैव प्राधान्यसमर्थनार्थं श्रोतृत्ववक्तृत्वाभ्यां सहेति विवक्षया प्रश्नैकवचनप्रयोगः ।
यद्वा । वासुदेवकथाप्रश्नो यजुःप्रसिद्धप्रश्न इति गुणप्रतिपादकग्रन्थैकदेशः । सप्तसु प्रथमेति सूत्रात् षष्ठ्यर्थे । तस्य वक्तारं पृच्छकं श्रोतॄंश्च तत्पादसलिलं गङ्गा यथा यथावत्पुनाति । अतो वक्त्रादीनां गङ्गया कृतपावित्र्यरूपफलप्राप्तेरयं प्रश्नस्तव समीचीन इति भावः । अथवा । वासुदेवकथा- प्रश्नस्तत्पादसलिलगङ्गा यथावत्पुनाति किं पुनर्वक्त्रादींस्त्रीनिति योजना द्रष्टव्या । हिशब्दः किंस्वर्थे यच्छब्दस्य किमर्थकाद्वा यथाशब्दस्य किमर्थकत्वम् ॥ १६ ॥
भूमिर्दृप्तनृपव्याजदैत्यानीकशतायुतैः ।
आक्रान्ता भूरिभारेण ब्रह्माणं शरणं ययौ ॥ १७ ॥
पदरत्नावली
एतदन्यच्च सर्वमित्यादिना परीक्षिता यत् पृष्टं किमर्थं हरिरवततारेति तदुत्तरितुं श्रीशुकः कथामुपक्रमते ॥ भूमिरित्यादिना ॥ शतायुतैरित्यादिनाऽसङ्ख्यातत्वं सूचयति । भूरिभारेण, पीडितेति शेषः ॥ १७ ॥
सत्यधर्मीया
अन्यच्च सर्वमिति सूचितं वक्तव्यत्वेन तदिदानीं किमर्थं भगवानवततारेत्ये-तद्रूपमित्यर्थात्सूचयंस्तदुत्तरं सङ्गमयन्नाह ॥ भूमिरिति ॥ दृप्ता अहङ्कृता नृपव्याजा राजापदेशा दैत्या दैतेया एव नृपतयोऽवतीर्णास्तेषामनीकशतायुतैरनीकानां सैन्यानां शतायुतैः । तात्पर्यं तु बाहुल्ये । तन्निमित्तको यो भूरिभारस्तेनाक्रान्ता व्याप्ता पीडितेति यावत् । ब्रह्माणं चतुर्मुखम् ॥१७॥
गौर्भूत्वाऽश्रुमुखी खिन्ना रुदन्ती करुणं यथा ।
उपस्थिताऽन्तिके त(स्य)स्मै व्यसनं १समवोचत ॥ १८ ॥
पदरत्नावली
यथा करुणं भवति तथा रुदन्ती । व्यसनं विविधनिरसनम् ॥ १८ ॥
सत्यधर्मीया
गौर्भूर्गोरूपिणीति केचित् । करुणयतीति करुणं स्वव्यसनमवोचतेत्यन्वयः । करुणं यथा भवति तथा रुदन्ती । विभोरिति पाठे तस्य विभोर्ब्रह्मण इत्यर्थः । अन्तिके उपस्थिता भूत्वा व्यसनं तत्प्राप्ताशुभं विपत्तिं वा । व्यसनं त्वशुभेऽनिष्टफले पापे विपत्ताविति विश्वः ॥१८॥
विरोधोद्धारः
गौर्भूत्वेति ॥ पूर्वश्लोके ब्रह्माणं शरणं ययावित्युक्तम् । तत्र जडरूपाया भूम्या यानासम्भवेऽत्र गौर्भूत्वेत्याद्युक्तम् । तथाप्यवोचतेत्यनेन विरोधः । गोजातेरपि वचनासम्भवात् । अत उच्यते । ससंकेतेनावोचतेत्यर्थः । स्वमिति पाठे स्वं व्यसनमवोचतेति लुप्तोत्प्रेक्षा । उः शङ्करः । उकाःशङ्करः प्रोक्त इत्येकाक्षरः । सः पः पालको येषां तेषां कंसबाणजरासन्धादीनाम् । स्थितेन स्वतले स्थित्वा यद् अन्तिकं नाशवत्सुखं तद्विषये व्यसनम् अवोचत वेत्यर्थः । अन्यथा । उपान्तिकशब्दाभ्यां पुनरुक्तिप्रसङ्गः । ननु भूम्या रूपान्तरग्रहणशक्तौ गत्युक्तिसाधनरूपमगृहीत्वा केवलगतिसाधनगोरूपधरणे किं निमित्तमिति चेत् । स्त्रीरूपापेक्षया गोरूपस्यातिदयोत्पादकत्वात् । न च वचनं विना दयाहेतुदुःखज्ञानाक्षम् । दयावशेन पुंसां तल्लिङ्गादिनाऽनुमेयत्वात् । अत एव करुणक्रन्दनादीनि लिङ्गान्यभिहितानि । तस्माद्गोरूपस्यैव स्वभावात्पावित्र्याद् दयाजन-कत्वाच्चौचित्यमिति भावः ॥ १८ ॥
ब्रह्मा तदुपधार्याथ सह देवैस्तया सह ।
जगाम सत्रिनयनस्तीरं क्षीरपयोनिधेः ॥ १९ ॥
पदरत्नावली
सत्रिनयनो महेश्वरान्वितः ॥ १९ ॥
सत्यधर्मीया
तन्मेदिनीखेदं देवैः सह तया च सह सत्रिनयनो महादेवसहितः । सह देवैरित्यनेनैव वामदेवो ग्रहीतुं शक्योऽप्राधान्यपिशाचि तु तं न मोचयति । सत्रिनयन इत्युक्तावपि । इति किमिति पृथक् प्रमथकथनमिति चेत् । शङ्का तु निश्शङ्कमङ्कुरिताऽन्तरिति मतिमति न चित्रं त्वयि । तर्हि कर्णावभ्यर्ण आनय विनेय वक्ष्यामः । सर्जको रजसा स्थूललोचनविलोचन इत्याद्युक्ते-स्तृतीयनेत्रवीतिहोत्रमारमारकस्यापीदं मथनसमर्थता नास्तीति द्योतयितुं वा । एतत्पक्षे तृतीयं नयनं यस्य तेन सहित इति विग्रहः । त्रिशब्दस्य तृतीयवाचित्वं त्रिदशशब्दान्तर्गतत्रिशब्दवत्त्रिभाग इत्यादिवद्द्रष्टव्यम् । देवाः सर्वेऽपि सर्वं सहायामवतीर्य सेवां कृत्वा कृपामृषाकपेः सम्पादयन्ति नायं तथेति तत उत्कृत्य पृथगुक्तिरिति वा । एते देवा वासुदेवसेवां विधाय व्यवधानाव्यवधानेन धाम स्वं स्वं भेजिरेऽयं तु चिरञ्जीवः सन् भूमौ जीविष्यतीति भावमाविष्कर्तुं वेति । न केवलं मेदिनीखेदत एव धातुर्विधातुं तत्समाधानं, धावनं सिन्धुं प्रति, किन्तु सप्ततन्तुमुखाखण्डसत्कर्मविलोप-तस्तत्क्रतुकृज्जनान्निरीक्ष्येत्यप्याह ॥ सत्रिनयन इति ॥ सत्रिषु क्रतुकारिष्वाहुत्यादिद्वारा तद्वत्सु सुरेषु वा नयनं कृपादृष्टिः । उपसर्गाश्च धातुलीनार्थद्योतका इति नयनमनुनयनं वा यस्य स तथा सन्निति वा समाधिसम्भवात् । क्षीरपयोनिधेः क्षीराब्धेस्तीरं तटम् ॥ १९ ॥
तत्र गत्वा जगन्नाथं देवदेवं वृषाकपिम् ।
पुरुषं पुरुषसूक्तेन उपतस्थे समाहितः ॥ २० ॥
पदरत्नावली
जगन्नाथत्वं राजादेरप्यस्तीत्यत आह ॥ देवदेवमिति ॥ इन्द्रादिव्यावृत्यर्थं वृषाकपिमिति ॥ अभीष्टदानादानन्ददानाच्च । वर्षति अभीष्टं ददातीति वृषः । आ पूर्णं कं सुखं पाययतीति आकपिः । अथवा वृताः षड्गुणा येनेति वृषः । कं सुखम्, अकं दुःखम्, तत् पिनष्टीत्यकपिः । वृषश्चासावकपिश्च वृषाकपिः, तम् । नीरूपस्य हरेरिन्द्रियविषयत्वं कथमित्यतः पुरुषमिति ॥ ‘तस्येदमेव शिरः’ इत्यादेः । उपतस्थे मन्त्रवचनपूर्वकमुपासनां कृतवान् । ‘उपान्मन्त्रकरणे’ इति पुरुषसूक्तस्य करणत्वात् तिष्ठतेरात्मनेपदम् । ‘वेदाः पुरुषसूक्तगाः’ इत्यादेः पुरुषसूक्तमात्रस्तोत्रे सर्ववेदैर्भगवत्स्तवो भवतीति भावेनाह ॥ पुरुषसूक्तेनेति ॥ २० ॥
सत्यधर्मीया
वृषाकपिं हरिम् । हरिविष्णू वृषाकपीत्यमरः । वृषं धर्ममाकम्पयति । कपि कम्पि चलन इति स्मरणात् । अहिकम्प्योर्नलोपश्चेतीः । वृषाद्धर्मादाकम्पयति तदननुष्ठातॄन्दुष्टानिति वा । वर्षति कामान् । वृष सेचने इगुपधः कः । आकम्पयति पापानि । पूर्ववदिः । वृषश्चासावकपिरिति वा । वृषेण स्वानुष्ठितधर्मेणाकं दुःखं पियति गमयतीति स तथा पि गतौ अन्तर्भावितण्यर्थो वा विच् संज्ञापूर्वकत्वान्न गुणः । क्विपि तु ह्रस्वस्येति तुगागमे शासनस्यानित्यतया नेति ज्ञेयम् । वृषं धर्मं कम्पयत्यनुकम्पयतीति वा । अन्येषामपि । तुराषाट् इष्टापूर्तमितिवद्दीर्घः । इन्द्रं वा कम्पयति प्रापयतीति वा । भक्ताभिलषितसेचक इति, सुखरूपत्वादा सुखरूपत्वात्क आको वा, स चासौ स च, पालयतीति पिश्चेति वृषाकपिर्वा । पातेः किः । पुरुषसूक्तेन, पुरुषं पूर्णषड्गुणं सर्वशरीरशायिनं जगन्नाथं जगदधिपं प्राणनाथं वा देवदेवं सर्वदा सर्वदेवैः स्तुत्यमुपतस्थे । उपान्मन्त्रकरण इति पुरुषसूक्तस्य करणत्वात्तिष्ठतेरात्मनेपदम् । देवपूजेत्यादिवार्तिकादपूजयदिति वा । पुरुषसूक्तेनेत्युक्तिस्तु वेदाः पुरुषसूक्तगा इत्युक्तेरेतन्मात्रस्तोत्रे सर्ववेदेन देवस्तुतिर्भवतीति भावेन वा । लोके लोकानामनुबन्धे बोधिते दयोदयमेतीति, पद्भ्यां भूमिरजायतेति तत्रोक्तेर्गोत्रा-पुत्रीतत्परिदेवनमेवं न देव त्वया श्राव्यं किंत्वन्येति विज्ञापयितुं वेति ज्ञेयम् । समाहित-स्तदेकाग्रचेतस्कः ॥ २० ॥
सुमनोरञ्चिनी
तत्र क्षीराब्धेस्तीरे जगन्नाथं देवानामपि देवम् । यद्वा ज्ञानज्ञान इतिवद् देवदेवं निरतिशयक्रीडादिगुणयुक्तम् । वृषाकपिं भक्तानामभीष्टवर्षणाद्वृषः । कं सुखं पिबतीति कपिः । असाधारण्येन व्यपदेशा भवन्ति । वृषश् चासौ कपिश्च तम् । वर्षणाद्वृष आकं पूर्णानन्दं पिबत्यनुभवतीति वा । पुरुषं पूर्णषड्गुणं पुरुषनामकम् । समाहितः भयवति चित्तसमाधानयुक्तः । सकर्मकादपि धातोः पीता गाव इत्यादिवत्कर्तरि क्तः । य उत्तरपदलोपेन समाहितचित्त इत्यर्थः । पुरुषसूक्तेन इत्थम्भूतलक्षणे तृतीया । पुरुषसूक्तोक्तगुणोपसंहारेण उपतस्थे ध्यानरूपामुपासनां चक्रे । यद्वा अभेदे तृतीया । धान्येन धनवानितिवत् । उपतस्थे तन्मन्त्रवचनरूपामुपासनां चक्र इति सम्बन्धः ॥ २० ॥
विरोधोद्धारः
तत्रेति ॥ अत्र यद्यपि न वैकेनाक्षरेण छन्दांसि वियन्तीति श्रुतेरक्षराधिक्यं न दोषाय । तथाऽपि यत्र गत्यन्तरं नास्ति तत्रैव तत् । अन्यथा सर्वछन्दोच्छेदप्रसङ्गात् । तस्मात्पुरुषं पुरुषसूक्तेनोपतस्थे समाहित इति पाठाङ्गीकारे गत्यन्तरसत्त्वान् नात्र यतिभङ्गः शङ्क्यः । तस्य काव्यविषयत्वोक्त्या शास्त्राविषयत्वात् । भक्त्या भागवतं शास्त्रमित्युक्त्याऽस्य च शास्त्रत्वात् । तदुक्तं टीकाचार्यैश्च– ‘गीतार्थं वक्ष्यामि लेशत’ इति गीताभाष्यमङ्गलव्याख्याने ‘न चात्र यतिभङ्गो दोषः । तस्य काव्यविषयत्वात् ।’ इति । नाप्यत्र सन्धिभङ्गः । अजायन्त एके चोभयादत इत्यादेर्बहुशो दृष्टत्वात् ॥ २० ॥
गिरं समाधौ गगने समीरितां निशम्य वेधास्त्रिदशानुवाच ह ।
गां पौरुषीं मे शृणुतामराः पुनर्विधीयतामाशु तथैव मा चिरम् ॥ २१ ॥
पदरत्नावली
समाधौ समाध्यर्थं, देवकार्यसमर्थनार्थमित्यर्थः । तादर्थ्ये सप्तमी । ‘समाधिर्ध्यानसन्धानप्रतिज्ञासु समर्थने’ इत्यभिधानम् । गगने समीरितां गिरं वेधा निशम्य संश्रुत्य त्रिदशानमरान् प्रति हे अमराः पौरुषी पुरुषो भगवान् तस्येयं पौरुषी, तां मे गां गमयति ज्ञापय-त्यर्थमिति गौर्वाणी तां वाणीमाशु शृणुत । पुनः श्रवणानन्तरं माचिरं तथैव विधीयतामित्युवाच
॥ २१ ॥
श्रीसत्याभिनवतीर्थविरचिता व्याख्या दुर्घटभावदीपिका
दुर्घटभावदीपिका
वेधा गगने, समाधौ समाधानविषये समीरितां प्रयुक्तां देवानां समाधानं कर्तव्यमिति प्रत्युक्तमिति यावत् । गिरं निशम्य त्रिदशानुवाचेत्येत्तद्धि प्रसिद्धम् । हे अमराः । मे मम पौरुषी-मुत्तमपुरुषभगवदभिप्रेतार्थविषयीणीं गां वाचं शृृणुत तथा मया यथोच्यते तथैवाशु विधीयताम् । चिरं विलम्बो मा भूत् । न केवलं शृृणुत किंतु विधीयतां चेति । क्रियासमुच्चये पुनःशब्द इति । एतेन पौरुषीं गां शृृणुतेत्यनुपपन्नम् । पुरैव पुंसावधृतो धराज्वर इत्यादिवक्ष्यमाणवाक्यविरोधात् । तत्र हि पुरैव मया धराज्वरोऽवधृत इत्यादि नोच्यते किन्तु पुरैव पुंसा धराज्वरोऽवधृत इत्याद्युच्यते । अत इदं चतुर्मुखस्यैव वाक्यं न विष्णुवाक्यमिति दूषणं परिहृतम् । पौरुषीमित्यनेन पुरैवेत्यादिवाक्यस्य भगवद्वाक्यत्वमुच्यत इत्यनङ्गीकृत्य पौरुषीमित्यस्य पुरुषाभिप्रेतार्थविषयिणीमित्यङ्गीकारेण म इत्यनेन चतुर्मुखवाक्यत्वमुच्यत इत्यूरीकरणात् ॥ २१ ॥
सत्यधर्मीया
गगने समीरिताम् । किंसम्बन्धिनी सा गीरित्यत आह ॥ पौरुषीमिति ॥ पुरुषो भगवांस्तस्येयं पौरुषी ताम् । किमुद्दिश्य किंविषय ईरिता गीरित्यत आह ॥ गां समाधा-विति ॥ गां पृथ्वीं प्रति गौर्भूत्वेति प्राग्वादात् समाधौ समाधानार्थं, समाधौ मनःपीडायां प्रसक्ते सति समा तस्येतरानिरास्यत्वं सूचयति । इतराश्रयणीयां श्रवणीयां चतुराननेनेत्यनेन द्योत्यते । स्वयं तां पौरुषीं समाधावागतसर्वसमाधानार्थं वा । वेधा निशम्य श्रुत्वा त्रिदशान् देवान्प्रति गतां, मे गां वाणीं, हे अमरा आशु श्रुणुत । श्रवणफलमपि लपति । यथा मयोच्यते तथा । पुनःशब्दश्चशब्दार्थः । मा चिरं च तथैव विधीयतां भवद्भिरिति शेषः । पुनः श्रवणानन्तरं मा चिरं निरालस्यं गगने समीरितामित्यन्वयो वा ॥ २१ ॥
सुमनोरञ्जिनी
वेधा ब्रह्मा । समाधौ ध्यानकाले । समाधानार्थमिति वा । समाधिर्ध्यानसन्धानप्रतिज्ञासु समर्थन इत्यभिधानात् । गगने हरिणेति वायुनेति शेषः । समीरितां स्पष्टमुक्तां गिरं निशम्य त्रिदशान् देवान् प्रति स्वयमुवाच । किमिति । मे मम सकाशात् पौरुषीं परमपुरुषश्रीहर्याज्ञारूपाम् । मे मां प्रति समीरितामित्यत्रापि सम्बध्यते । गां वाचं श्रुणुत । श्रुत्वा च पुनरनन्तरं तथैव मया यथोच्यते तथैव मा चिरं शीघ्रं यथा स्यात्तथा विधीयतामिति सम्बन्धः
॥ २१ ॥
विरोधोद्धारः
गिरमिति ॥ अत्र समीरितामित्यस्य तृतीयासापेक्षत्वात्तदभावेन न्यूनता स्यादित्यतोऽर्थ उच्यते । अकथप्रविसम्भूमसखहाविष्णुवाचका इत्यभिधानात् । संशब्दवाच्येन भगवता ईरिताम् । यद्वा । सः विष्णुर् मा रमा । यद्वा । मया सहितः समो भगवान् । ते वा स वा उत्तमत्वेन स्तो वा अस्ति यस्येति समी समीरणस् तेन ईरिताम् । उदीरिताम् । गिरं हे अमरा यूयं मे मत्तः पौरुषीं विष्णूक्तां वायूक्तां वा । गां वाचम् । आशृृणुत । पुनो ऽनन्तरम् । तथैव भगवदुक्तानुसारिणैव ॥ माचिरम् अविलम्बितम् । विधीयतां क्रियताम् । अन्यथा पुनरुक्तापातः । न तूक्तयोजनायामुभयोराशु माचिरमित्येतयोर्मध्ये एकस्य श्रवणक्रियायामन्यस्य विधानक्रियायामिति पार्थक्येन सङ्गतत्वात् ॥ २१ ॥
पुरैव पुंसाऽवधृतो धराज्वरो भवद्भिरंशैर्यदुषूपजन्यताम् ।
स यावदुर्व्या भरमीश्वरेश्वरः स्वकालशक्त्या क्षपयंश्चरेद् भुवि ॥ २२ ॥
पदरत्नावली
धराज्वरः भूमेः सन्तापः । ‘ज्वर सन्तापे’ इति धातुः । न केवलं जननमेव पूर्यते तावन्तं कालमवस्थानं चापेक्षितमित्याह ॥ स यावदिति ॥ स्वकालशक्त्या स्वरूपभूतोपसंहारशक्त्या ॥ २२ ॥
सत्यधर्मीया
धराज्वरो भूम्या उपतापः । पुंसा परमपुरुषेण । अवधृतश्चिकित्सनीयत्वेन ज्ञातः । यदुष्विति बहुवचनमाद्यर्थे । यद्वादिषु । एतत्पुरस्कृतिस्तु मुरहरावतारपात्रत्वादिति ज्ञेयम् । भवद्भिरंशैरुपजन्यताम् । स ईश्वरेश्वरः सर्वेशः । स्वकालशक्त्या स्वरूपभूतदुर्भूतसंहारकशक्त्या क्षपयन्क्षपाचरादीन्भुवि चरेद्यावत्तावत्पर्यन्तं स्थीयताम् ॥ २२ ॥
सुमनोरञ्जिनी
पुरैव अस्मद्विज्ञापनात्प्रागेव । धराया भूमेर्ज्वरः सन्तापः । ज्वर सन्ताप इति धातोः । पुंसा परमपुरुषेण अवधृतः परिहार्य इति निश्चितः । सर्वसाक्षितया रक्षकत्वादिति भावः । यतस्तदर्थं यदुकुलेऽवतरिष्यति अतस्तदनुसेवार्थं भवद्भिरपि अंशैः स्वस्वकलाभिर् यदुषु उप समीपे कालतः, अतितीव्रमिति यावत् । जन्यताम् अवतीर्यताम् । स ईश्वराणां ब्रह्मादीनामपीश्वरः स्वामी स्वकालशक्त्या स्वस्य कालाख्यया कालनियामकया शक्त्या स्वरूपसामर्थ्येन उर्व्या भरं भारं क्षपयन् परिहरन् यावद्भुवि चरेत् तावत्पर्यन्तं भवद्भिरपि तत्र स्थातव्यमिति वाक्यशेषः । यद्वा भवद्भिरुप जन्यताम् । जनितैर्भवद्भिरेव निमित्तैः स्वकालशक्त्या च यावदुर्व्या भरं समस्तमप्युर्व्या भारं क्षपयन् चरेदिति योजना । अस्यां योजनायां न वाक्यशेषादिकम् ॥ २२ ॥
वसुदेवगृहे साक्षाद् भगवान् पुरुषः परः ।
जनिष्यते तत्प्रियार्थं सम्भवन्तु सुरस्त्रियः ॥ २३ ॥
पदरत्नावली
न केवलं देवानामुर्व्यामवतारस्तदङ्गनानामपीत्याह ॥ वसुदेवेति ॥ २३ ॥
सत्यधर्मीया
साक्षाद्भगवान्परमपुरुषो वसुदेवगृहे तद्भार्यायां जनिष्यते यस्तत्प्रियार्थं सुरस्त्रियोऽपि सम्भवन्तु ॥ २३ ॥
सुमनोरञ्जिनी
भगवान् समग्रैश्वर्यादिगुणवानत एव परः पुरुषः श्रीहरिर् वसुदेवस्य गृहे भार्यायां देवक्यां साक्षात् स्वयमेव जनिष्यते प्रादुर्भविष्यति न त्वस्मदादिवदुत्पद्यते । जनि प्रादुर्भाव इति धातोः ॥ २३ ॥
वासुदेवकलानन्तः सहस्रवदनः स्वराट् ।
अग्रतो भविता देवो हरेः प्रियचिकीर्षया ॥ २४ ॥
पदरत्नावली
हरेरवताराविनाभूतस्य शेषावतारस्य प्रकारमाह ॥ वासुदेवेति ॥ वासुदेव-कलानन्त इत्येकं पदम् । वासुदेवस्य कलया सितकेशांशेन युक्तः शेषः स्वेन हरिणा राजत इति स्वराट् । स्वस्य स्वतन्त्रस्य हरेरधस्तच्छयनीयत्वेन राजत इति वा । स्वमात्मानं सनकादिभ्यो राजयति प्रकाशयतीति वा । हरेरग्रतः ॥ २४ ॥
सत्यधर्मीया
वासुदेवकला अनन्त इति छेदः । यः सहस्रवदनः स्वराट् स्वेन हरिणा शयानेन राजत इति स्वराट् । वासुदेवस्य कला भिन्नांशरूपः । वासुदेवस्य कलासहित-श्चासावनन्तश्चेति पदमेकं वा । तत्रापि वासुदेवस्य कलाऽप्यनन्ताऽपरिच्छिन्ना यस्मिन्स इत्यर्थ इति वा । हरेः प्रियचिकीर्षया हरेरग्रतः प्राक् भविता । सौमित्रिः सन् स्वयुक्तातिरिक्तां सेवां कृतवान् । तत्सत्कृतस्य तत्कृतनमस्कारादिना तिरस्कारे स्वयोग्यतायोग्यस्य स्थितिं सम्पादयामास शेष इति भावः । अर्थादमुमेवार्थं ‘सेवाखिन्नो लक्ष्मणोऽग्रे हरेर्भूदिति’ वदन्त आचार्यवर्या अपि सूचयामासुः ॥ २४ ॥
सुमनोरञ्चिनी
वासुदेवस्य हरेः कलया श्रुक्लकेशांशेन युक्तोऽनन्तः शेषः, स्वेन स्वतन्त्रेण विष्णुना राजत इति स्वराट् । हरेरग्रतः हरेः प्रियचिकीर्षयेत्युभयत्रापि सम्बध्यते ॥ २४ ॥
योगमाया भगवती यया सम्मोहितं जगत् ।
आदिष्टा प्रभुणांऽशेन कार्यार्थे सम्भविष्यति ॥ २५ ॥
पदरत्नावली
देवकार्यार्थं सहायान्तरं वक्ति ॥ योगमायेति ॥ योगमाया दुर्गा ॥ २५ ॥
सत्यधर्मीया
यया जगन् मदादिकं सम्मोहितं भवति सा भगवती पूज्या योगमाया दुर्गाऽपि प्रभुणाऽऽदिष्टाऽऽज्ञप्तांऽशेन कार्यार्थे कर्तव्यप्रयोजनार्थं सम्भविष्यति प्रादुर्भविष्यति ॥ २५ ॥
सुमनोरञ्जिनी
यया जगत् सम्मोहितं भवति सा योगमाया दुर्गा भगवती कार्यशक्ति- मतीत्यभिप्रायेण प्रभुणा आदिष्टा सती कार्यार्थे अंशेन संभविष्यतीति योजना ॥ २५ ॥
श्रीशुक उवाच–
इत्यादिश्यामरगणान् प्रजापतिपतिर्विभुः ।
आश्वास्य च महीं गीर्भिः स्वधाम परमं ययौ ॥ २६ ॥
पदरत्नावली
महर्लोकादिभ्यः परमम् ॥ २६ ॥
सत्यधर्मीया
अमरगणान् । मरुदादिगणानामपि बाहुविध्याद्गणानित्युक्तिः । प्रजापतयो दक्षाद्यास्तेषां पतिर्धाता । गीर्भिः सान्त्वनप्रकारभेदाद्बहुवचनम् । परमं स्वधाम परमं महरादितो महासम्पद्वा ॥ २६ ॥
सुमनोरञ्जिनी
प्रजापतीनां रुद्रादीनामपि पतिर् विभुर्ब्रह्मा गीर्भिर्वाग्भिश् च महीमाश्वास्येति । परमं महरादिलोकेभ्य उत्तमं स्वधाम सत्याख्यं ययाविति सम्बन्धः ॥ २६ ॥
शूरसेनो यदुपतिर्मधुरामावसत् पुरीम् ।
माधुरान् शूरसेनांश्च विषयान् बुभुजे स्वराट् ॥ २७ ॥
पदरत्नावली
चतुर्मुखे भुवं सान्त्वयित्वा सत्यलोकं गते उत्तरकथां प्रसञ्जयति ॥ शूरसेन इति ॥ कार्तवीर्यसुतः शूरसेनः । पुरीमावसन्निति सप्तम्यर्थे द्वितीया । ‘उपान्वध्याङ्वसः’ इति सूत्रात् ॥ २७ ॥
सत्यधर्मीया
अकरोदर्जुनो राज्यं, तस्य पञ्चैवोर्वरिता मृधे, जयध्वः शूरसेन इत्युक्तेः कार्तवीर्यवीर्यजो मधुरां पुरीमावसत् । उपान्वध्याङ्वस इति द्वितीया । स्वराट् स्वेन द्रव्येण राजत इति स तथा । सु अत्यन्तं न विद्यते राट् राजा यस्यासौ अखण्डभूमण्डलेश इति यावत् ॥२७॥
सुमनोरञ्जिनी
एवं चतुर्मुखाज्ञया सर्वेष्वपि देवेषु भुव्यवतीर्णेषु सत्सु तदुत्तरभाविनीं कथामाह ॥ शूरसेन इति ॥ यदूनां यादवानां पतिः शूरसेनो नामतः मधुरां पुरीं द्वितीया सप्तम्यर्थे । षट्सु द्वितीयेति सूत्रात् । मधुरायां पुर्यामावसत् । माधुरान् मधुरायाः परितो वर्तमानान् शूरसेनां-स्तन्नामकान् विषयान् देशान् स्वराट् स्वयमेव राजा सन् अनन्याधीनो बुभुजे ॥ २७ ॥
राजधानी ततः साऽभूत्सर्वयादवभूभुजाम् ।
मधुरा भगवान् यत्र नित्यं सन्निहितो हरिः ॥ २८ ॥
सत्यधर्मीया
यत्र यस्यां यतो भगवान्हरिर्नित्यं सन्निहितस्ततः सा मधुरा सर्वयादवभूभुजां सर्वे च ते यादवभूभुजश्च तेषां राजधानी मुख्यराजस्थानमभूत् । हरिसन्निधिश्च कृत्रिमो ज्ञेयः । यथोक्तमेकादशतात्पर्ये । आन्तरः सन्निधिर्विष्णोर्बाह्यसन्निधिरेव च । द्विविधः सन्निधिः प्रोक्तः कृत्रिमो बाह्य उच्यते । स्वाभाविकस्त्वान्तरः स्यात्प्रतिमा जीवगो यथेति चेति । प्रतिमागतोऽ-चेतनप्रतिमादिगतः कृत्रिमः । सर्वजीवान्तर्गतः सन्निधिः स्वभाविक इत्यर्थ इति व्यासोक्तेः ॥ २८ ॥
सुमनोरञ्जिनी
ततः शूरसेनावासानन्तरं यत्र यस्यां पुर्यां सोऽवसत् सा मधुरा सर्वयादवभूभुजां सर्वेषां यदुवंश्यानां राज्ञां राजधानी वासस्थानं यतो ऽभूत् तत एव भगवान् हरिस् तत्र पुर्यां नित्यं सन्निहितो भविष्यति । वसन्ति वैष्णवा यत्रेत्युक्तत्वात् । यदुवंश्यानां देवावतारत्वाद्देवानां च वैष्णवोत्तमत्वेन तदावासेनाविनाभूतत्वान्नित्यं सन्निहित इति भावः ॥ २८ ॥
तस्यां तु कर्हिचिच्छौरिर्वसुदेवः कृतोद्वहः ।
देवक्या भार्यया सार्धं प्रयाणे रथमारुहत् ॥ २९ ॥
पदरत्नावली
ततो वृत्तं वृत्तान्तमाह ॥ तस्यामिति ॥ २९ ॥
सत्यधर्मीया
ततो वृत्तं वृत्तान्तं कथयति ॥ तस्यामिति ॥ तस्यां मधुरायां कृत उद्वह उद्वाहो येन स कृतोद्वहः । भार्यया देवक्या सार्धम् । सूर्ययेति पाठे नवोढयेत्यर्थः । प्रयाणे स्वगृहं प्रति गन्तुं रथमारुहत् ॥ २९ ॥
सुमनोरञ्जिनी
ततः किमित्यत आह ॥ तस्यामिति ॥ तस्यां मधुरायां कर्हिचित् कदाचित् शौरिः शूरस्यापत्यं वसुदेवो नामतः, कृत उद्वहो विवाहो येन तादृशः सन् भार्यया भया प्रभया आर्यया सर्वोत्कृष्टकान्तिमत्येति यावत् । वस्तुतो भार्यया गृहिण्या देवक्या तन्नामिकया सहितः प्रयाणे स्वगृहं प्रति प्रयाणार्थं रथमारुहदिति सम्बन्धः ॥ २९ ॥
उग्रसेनसुतः कंसः स्वसुः प्रियचिकीर्षया ।
रश्मीन् हयानां जगृहे रौक्मै रथशतैर्वृतः ॥ ३० ॥
पदरत्नावली
विवाहकाले रथहयानां कविकाग्रहणे अत्यन्तं बन्धुना भाव्यमिति दर्शयितुं तद्ग्राहिणमाह ॥ उग्रसेनसुत इति ॥ ३१ ॥
सत्यधर्मीया
स्वसुः पितृव्यसुतात्वेन स्वसुः । रौक्मैः सुवर्णमयोपस्करैः ॥ ३० ॥
सुमनोरञ्जिनी
ततः किमित्यत आह ॥ उग्रसेनेति ॥ उग्रसेनस्य तन्नामकस्य सुतः कंसः स्वसुर् भगिन्याः प्रियचिकीर्षया प्रीतिं कर्तुमिच्छया रौक्मैर् हिरण्मयैः रथानां शतैर्वृतोऽपि स्वयं हयानां स्वसूरथहयानां रश्मीन् हयचालनोपयोगिरज्जून् जगृह इति योजना । ननु कंसस्योग्रसेनात्मजत्वेन देवक्या देवकसुतात्वेन प्रसिद्धत्वात्कथं कंसभगिनीत्वमिति चेत्, उग्रसेनदेवकयोः सहोदरत्वेन देवकपुत्र्या अपि देवक्या उग्रसेनसुतकंसभगिनीत्वादिति भावः ॥ ३० ॥
चतुश्शतं पारिबर्हं गजानां हेममालिनाम् ।
अश्वानामयुतं सार्धं रथानां च त्रिषट्शतम् ॥ ३१ ॥
पदरत्नावली
विवाहकाले दुहित्रे यद् दीयमानं धनकनकादिकं तत् पारिबर्हं नाम ॥३१॥
सत्यधर्मीया
पारिबर्हं प्राहुणिकैर्विवाहकाले पुंपक्षीयदेयम् । हेम्नां माला साऽस्त्येषां, हेम्ना मालन्त इति वा तेषामयुतं दशसहस्रम् । त्रिषट्शतमष्टादशशतीम् ॥ ३१ ॥
सुमनोरञ्जिनी
हेममय्यो माला येषां सन्ति ताः । प्रशंसार्थकोऽयं मत्वर्थीयः । भूमनिन्दा-प्रशंसासु भवन्ति मतुबादय इति वचनात् । तादृशानां गजानां चतुःशतम् । हेममालिना-मित्येतद्देहलीदीपन्यायेनोभयत्रान्वेति । तादृशानामश्वानामयुतं सार्धम् अर्धेन पञ्चसहस्रेण सहितम् अयुतं पञ्चदशसहस्रमित्यर्थः । सार्धमित्यस्यापि देहलीदीपवदन्वयः । रथानां त्रिषट्शतं च सार्धं, षट् संख्याकानां शतं षट्शतम् । त्रिगुणितं च तत् षट् शतम् अष्टादशशतमित्यर्थः । तच्च सार्धम् अर्धेन नवशतेन सहितम् । तथा च सप्तविंशतिशतमित्यर्थः ॥ ३१ ॥
दासीनां सुकुमारीणां द्वे शते समलङ्कृते ।
दुहित्रे देवकः प्रादाद् यामे दुहितृवत्सलः ॥ ३२ ॥
सत्यधर्मीया
यामे गमनसमये । निवो यामायेत्यृग्भाष्ये वो मार्गाय । तट्टीकायां च यात्यस्मिन्निति यामे मार्ग इत्युक्तेः । तत्र वावा यामाय वो यामं प्रति दार्ढ्याय । यामं गमनं प्रतीति तदुभयोक्तेश्च । किं वक्तव्यम् । या मे इत्यवादीद्देवकी ताः सम्पदो ददौ देवक इति वा । किं तद्दाक्षिण्यमित्यत आह ॥ दुहितृवत्सल इति ॥ ३२ ॥
सुमनोरञ्जिनी
सुकुमारीणां शोभनकौमार्योपेतानां नित्यनूतनयौवनविशिष्टानामित्यर्थः । सुन्दरीणामिति वा । दासीनां सम्यगलंकृते द्वे शते इत्येतत्सर्वं पारिबर्हं विवाहकाले दीयमानं पदार्थजातं दुहित्रे सुतायै । दुहितृवत्सल इति हेतुगर्भविशेषणं, देवकः याने प्रयाणे समुपस्थिते तत्काल इति यावत् प्रादादित्यन्वयार्थः ॥ ३२ ॥
शङ्खतूर्यमृदङ्गानि नेदुर्दुन्दुभयः समम् ।
प्रयाणप्रक्रमे तात वरवध्वोः सुमङ्गलम् ॥ ३३ ॥
पदरत्नावली
प्रयाणप्रक्रमे गमनारम्भे ॥ ३३ ॥
सत्यधर्मीया
वरवध्वोर्वसुदेवदेवक्योः । सुमङ्गलं यथा तथा नेदुः । प्रयाणप्रक्रमे तदारम्भसमये
॥ ३३ ॥
सुमनोरञ्जिनी
वरवध्वोर् वसुदेवदेवक्योः प्रयाणप्रक्रमे स्वगृहं प्रति प्रयाणोपक्रमे सु मङ्गलं यथा स्यात्तथा शंखतूर्यमृदंगानि, तूर्यं वाद्यविशेषः, दुन्दुभयश्च समं सहैव एकदैवेति यावत् । नेदुरिति
॥ ३३ ॥
पथि प्रग्रहिणं कंसमाभाष्याहाशरीरवाक् ।
अस्यास्त्वामष्टमो गर्भो हन्ता यां नयसेऽबुध ॥ ३४ ॥
पदरत्नावली
प्रग्रहः कविका तद्वन्तम् । अस्या देवक्याः ॥ ३४ ॥
सत्यधर्मीया
प्रग्रहिणं हयरश्मिवन्तमशरीरवाक् । वचनादेव वाग्ब्रह्मेत्यनुव्याख्यानोक्ते- र्वक्तीति वाक् अशरीरं यथा तथा वक्तीति वागशरीरदेवता । कंसमाभाष्याहतो नाहेत्यनुपपन्नम् । तां वाचं विविच्याह ॥ अस्या इति ॥ हे अबुध अज्ञ कंस त्वं यां नयसे । नीय उभय-पदित्वात् । नयसि देवक्या अष्टमो गर्भस्त्वां हन्तेति । उच्यत इति वाक् । वच परिभाषणे क्विब्-वचीत्यादिना क्विप् दीर्घोऽसम्प्रसारणं च । गीर्वाग्वाणीत्यमरः । अशरीराऽतत्प्रयोज्या वाग्यस्य स वायुरिति वा । मिथ्याशब्दोऽनिर्वचनीयं वदतीतिवत्करणे कर्तृत्वोपचाराद्वागाहेति वा ॥३४॥
सुमनोरञ्जिनी
पथि मार्गे प्रग्रहिणं प्रग्रहः कविका अश्वमुखप्रोतो रज्जुविशेषस् तद्वन्तं कंसं समाभाष्य हे कंसेति संम्बोध्य । अशरीरवाक् अदृश्यशरीरः सन् वक्तीति अशरीरवाक् वायुः ‘जगाद वायुर्गगनस्थितोऽमुमि’ति निर्णयोक्तेः । आह । किमिति । हे अबुध यां देवकीं नयसे हर्षेणेति शेषः । कथमबुधत्वं तस्येत्यत आह ॥ अस्या इति ॥ अस्या देवक्या अष्टमो गर्भस् त्वां हंता भविष्यतीत्यज्ञात्वैव यतो नयसेऽतोऽबुधत्वमिति भावः ॥ ३४ ॥
इत्युक्तः स खलः पापो भोजानां कुलपांसनः ।
भगिनीं हन्तुमारब्धः खड्गपाणिः कचेऽग्रहीत् ॥ ३५ ॥
पदरत्नावली
कुलपांसनः कुलधूलीकरणशीलः । कचे केशपाशे ॥ ३५ ॥
सत्यधर्मीया
इत्युक्तोऽशरीरदेवतया पापः स्वभावतस्तद्वान् समीपेऽपि न समीचीना जना इत्याह ॥ सखल इति ॥ सदा तत्सहवासी । स्वकुलव्याकुलतां व्यापारयति ॥ भोजानां कुलपांसन इति ॥ नित्यसापेक्षत्वात्समासः । तत्कुलधूलीधूसरताकृत् । आरब्धः संरब्धः सन् खड्गपाणिर्भगिनीं हन्तुं कचे केशपाशेऽग्रहीज्जग्राह ॥ ३५ ॥
सुमनोरञ्जिनी
खलो दुर्जनः स्वभावत एव दुष्टो ऽत एव पापो ऽर्शाद्यच् पापी तत एव भोजानां कुलस्य पांसनः धूलीकरणशीलः भोजकुलस्याकीर्तिसम्पादक इति यावत् । स कंसः, इति अस्या अष्टमो गर्भस्त्वां हन्तेति अशरीरवाचा उक्तः सन् भगिनीं हन्तुमारब्धः । तदेव दर्शयति ॥ खड्गपाणिरिति ॥ खड्गः पाणौ यस्येति तथोक्तस् तादृशः सन् कचे भगिन्याः केशपाशे अग्रहीदिति ॥ ३५ ॥
तं जुगुप्सितकर्माणं नृशंसं निरपत्रपम् ।
वसुदेवो महाभाग उवाच परिसान्त्वयन् ॥ ३६ ॥
पदरत्नावली
नृशंसं क्रूरकर्माणम् । परिसान्त्वयन् साम्ना भेदेन च सम्बोधयन् ॥ ३६ ॥
सत्यधर्मीया
महाभागवतो भगवदवतारहेतुदैववान्वसुदेवः परिसान्त्वयन्नुवाच ॥ ३६ ॥
सुमनोरञ्जिनी
जुगुप्सितं निन्दितं कर्म यस्यासौ तथोक्तस् तम् । नृशंसं क्रूरम् । नृशंसो घातकः क्रूर इत्यभिधानात् । परद्रोहनिरतमिति यावत् । अत एव निष्क्रान्ता अपत्रपा लज्जा यस्मात्तं कंसं, महान् सर्वोत्तमः श्रीहरिर्भागे यस्य महा यस्येति स महाभागो वसुदेवः परिसांत्वयन् सामभेदाभ्यां, ‘‘साम पञ्चविधं भेदो दृष्टादृष्टभयं वच’’ इति वचनात् पञ्चविधसाम्ना द्विविधभेदेन चेत्युभाभ्यां बोधयन् उवाचेति सम्बन्धः ॥ ३६ ॥
वसुदेव उवाच–
श्लाघनीयगुणः शूरैर्भवान् भोजयशस्करः ।
स कथं भगिनीं हन्याः स्त्रियमुद्वाहपर्वणि ॥ ३७ ॥
पदरत्नावली
‘सम्बन्धलाभोपकृतिरभेदो गुणकीर्तनम् । साम पञ्चविधं भेदो दृष्टादृष्टभयं वचः’ इति स्मृतेः पञ्चविधं साम द्विविधश्च भेद इति बोध्यम् । तत्र प्राधान्याद् गुणविशेषकीर्तनं सामविशेषमाह ॥ श्लाघनीयगुण इति ॥ भोजयशस्करेति कीर्तिलाभकथनम् । अन्यथाऽ-कीर्तिलाभः । भगिनीमिति सम्बन्धवचनम् । स्त्रियमिति उपकृतिसूचनम् । उद्वाहपर्वणीति भोजानामस्माकं च परस्परं दृष्टादृष्टभीत्यभावात् परममैत्र्येणाभेदः सूचितः । स्त्रियमित्यदृष्टभयं दृष्टभयं लोकापवादरूपमप्यनेन द्योत्यत इति भेदोऽपि प्रादर्शीत्यवगन्तव्यम् ॥ ३७ ॥
सत्यधर्मीया
‘सम्बन्धलाभोपकृतिरभेदो गुणकीर्तनम् । साम सप्तविधं भेदो दृष्टादृष्टभयं वच’ इति स्मृतेस्तत्र प्रथमतः क्रममननुसृत्य प्राधान्याद्गुणकीर्तनं सामविशेषमाह ॥ श्लाघनीयगुण इति ॥ श्लाघनीया गुणा यस्येत्यर्थाद् गुणकीर्तिरियं न गृहे गृहिण्यादिभिरित्यभिधत्ते ॥ शूरैरिति ॥ भोजयशस्कर इति कीर्तिलाभोऽन्यथाऽकीर्तिलाभ इत्यलाभलाभः । भगिनीमिति सम्बन्धदर्शनम् । स्त्रियमित्युपकृतिः । उद्वाहपर्वणीति भोजानामस्माकं च परस्परं दृष्टादृष्टभीत्यभावात्परममैत्र्येणाभेदः सूचितः । स्त्रियमित्यदृष्टभयं जनापवादरूपं दृष्टभयं चानेन द्योत्यत इति भेदोऽपि सूचित इति ज्ञेयम्
॥ ३७ ॥
सुमनोरञ्जिनी
सांत्वनप्रकारमाह ॥ श्लाघनीयेति ॥ ‘सम्बन्धलाभोपकृतिरभेदो गुणकीर्तनम्’ इति वचनात्, भगिनीमिति सम्बन्धस्य, यशस्कर इति कीर्तिलाभस्य, उद्वाहेत्युपकृतेः, श्लाघनीयगुण इति गुणानां कीर्तनं लभ्यते । स्त्रियमिति स्त्रीवधादकीर्तिसूचनेन दृष्टभयमदृष्टभयं च सूचितमिति पदरत्नावलीरीत्या पदप्रयोजनं द्रष्टव्यम् । शूरैः श्लाघयितुं योग्या गुणाः शौर्यादयो यस्य । भोजवंशस्य यशस्करः भवान् त्वं, स्त्रियं तत्रापि भगिनीम् अन्तःकरुणाविषयामिति यावत् कथं हन्याः । उद्वाहपर्वणि विवाहसमयरूपपुण्यकाले । विवाहदिनमारभ्य षोडशदिवसपर्यन्तम् उद्वाहपर्वसंज्ञा । अत एवेदानीमपि जनास् तावत्पर्यन्तं वरवध्वोर्दिवसविशेषेष्वार्तिक्यादिमहोत्सवं षोडशदिवसे मण्डपविसर्जनं च कुर्वन्ति । एतेन वरवध्वोः स्वगृहप्रयाणसमये कथमुद्वाहपर्वणीत्युक्तमिति शङ्कानवकाशः ॥ ३७ ॥
मृत्युर्जन्मवतां वीर देहेन सह जायते ।
अद्य वाऽब्दशतान्ते वा मृत्युर्वै प्राणिनां ध्रुवः ॥ ३८ ॥
पदरत्नावली
मृत्युर्जन्मवतामित्यादिनाऽदृष्टभयं प्रपञ्च्यते ॥ ३८ ॥
सत्यधर्मीया
बुद्धिमता गच्छन्मृत्युश्रवणसमनन्तरं तत्प्रयत्नमनुष्ठाय स प्रच्यावनीयस्तदु-पायमेवात्मार्थे पृथिवीमिति नीतेर्भो भामेति भो भोजवरेन्द्र यतसि चेत्किं कदाऽप्येतदुपायेनैत-दपायापायेन मृत्युपस्थितिरिति मत्वा यतसे उतैतत्समयमात्रगमनमनसेति विकल्पं मनसि कृत्वा स सर्वथेशक्लृप्तो नान्यथयितुं शक्य इति दृष्टादृष्टोभयभयवचनरूपभेदं प्रपञ्चयन्नाह ॥ मृत्युरिति ॥ जन्मवतां जनानां देहेन सहैव मृत्युर्जायते । एवमनेन संसर्तव्यं मर्तव्यं चैवमिति जायते रणे मारणेनारिभिर्वीराणां स च नियतः क्षणे क्षणार्धे वेति तथा सम्बोधयति ॥ वीरेति ॥ शालत्वादबलासङ्कालनयत्नवानहहेति वीरेति वदन्नुपजहास वसुदेव इति वा । अद्य वाऽब्दशतान्ते वेति शतायुर्वै पुरुष इत्यभिप्रायेणेति ज्ञेयम् । तन्मात्रे तात्पर्यं किन्तु तदास्कन्दितत्वे ततो ध्रुवत्वान्न तत्त्यजनं सुशकमिति भावः । तर्हि सर्वेषामेवमेव किमित्युक्तौ वक्ति ॥ प्राणिनामिति ॥ प्रकर्षेणाणनवतां तरतमभावेन चेष्टकानां ब्रह्मादीनां मध्ये ध्रुवो विष्णुर्वैमृत्युर्मरणरहितस्तस्य स्थविष्ठः स्थविरो ध्रुव इति हरिनामत्वात् । न ह्यध्रुवैः प्राप्यते हि ध्रुवं तदिति काठकोपनिषद्भाष्ये ध्रुवो भगवानिति व्याख्यातत्वाच्च । एतेन ध्रुव इत्यलं पुनर्मुत्युरित्युक्तिस्तथा प्राणिनामिति च कुत इति परास्तम् । वैशब्दो जरो विमृत्युरित्यादिप्रसिद्धिं द्योतयति ॥ ३८ ॥
सुमनोरञ्जिनी
यदि त्वन्मृत्युभयादेनां हनिष्यसि तर्हि किं कृतं स्यात् । एतद्धननेऽपि तस्यावर्जनीयत्वादित्याह ॥ मृत्युरिति ॥ हे वीर मृत्युर् जन्मवता उत्पत्तिमता देहेन सह जायते सम्बद्धो भवति । व्याप्तो भवति । य उत्पत्तिमान्देहः स मृत्युमानिति हि व्याप्तिः । अस्य देहस्यास्मिन्काले मृत्युर्भवितेति भगवता क्लृप्तो भवतीति यावत् । जन्मवतामित्यपि पाठो दृश्यते । तदा प्राणिनामित्यनेनान्वयः । यद्वा देहेन सहजवदाचरति देहेन सहजो यथा देहाविनाभावी तथेति । तस्मात् प्राणिनां देहधारिणाम् अद्य वा अब्दशतान्ते वा मृत्युर्ध्रुवः । यस्य यत्काले भगवता क्लृप्तस् तस्य तत्काले निश्चित एवेति भावः ॥ ३८ ॥
देहे पञ्चत्वमापन्ने देही कर्मानुगोऽवशः ।
देहान्तरमनुप्राप्य प्राक्तनं त्यजते वपुः ॥ ३९ ॥
पदरत्नावली
देहे पञ्चत्वमित्यादिना दृष्टभयं प्रपञ्च्यते । कर्म पुण्यपापविषयम् । अवशो विष्णुवशः । त्यजते परित्यजति ॥ ३९ ॥
सत्यधर्मीया
तत्प्रकारं प्रपञ्चयति ॥ देह इत्यादिना ॥ पञ्चत्वं नाशं गतम्, आपन्ने प्राप्ते सति कर्मानुगोऽवशोऽस्वाधीनप्रवृत्तिरवशो भगवदधीन इति वा । देहान्तरं स्वकर्मानुगुणमनुप्राप्य प्राक्तनं वपुस्त्यजते त्यजति ॥ ३९ ॥
सुमनोरञ्जिनी
ननु भवतु कालान्तरे मृत्युः । अल्पकाल एव यदि सस् तदैत्तद्देहनाश-प्रयुक्तभोगनाशो मम स्यादेव । देहान्तराभावादतोऽपि भयादेनां हन्मीति तत्राह ॥ देह इति ॥ देहे पञ्चत्वं विविक्तपञ्चभूतात्मकताम् आपन्ने । देही जीवः कर्मानुगः पुण्यपापे अनुसृत्य गच्छतीति तथोक्तस् तदनुसारेणेति यावत् । नैतावता पुण्यपापयोः स्वातन्त्र्यं मन्तव्यमित्याह ॥ अवश इति ॥ विष्णुवशः सन् देहान्तरमनुप्राप्य तत्राभिमानवान् प्राक्तनं वपुस्त्यजते । जीवस्याणुत्वेऽपि प्रकाशरूपेण देहान्तरसम्बद्धः सन् पूर्वदेहं त्यजतीति वा भावः । तथा च देहान्तराभावप्रयुक्तं व्यसनमपि भवता त्याज्यमेवेति भावः ॥ ३९ ॥
व्रजंस्तिष्ठन् पदैकेन यथैवेकेन गच्छति ।
यथा तृणजलूकैवं देही कर्मगतिं गतः ॥ ४० ॥
पदरत्नावली
पूर्वदेहपरित्यागेन देहान्तरप्राप्तौ दृष्टान्तमाह ॥ व्रजन्निति ॥ यथा व्रजन् पुरुष एकेन पादेन तिष्ठन् एकेन पदा गच्छति, पूर्वदेशवियोगेन देशान्तरसंयोगमाप्नोति, यथा तृणजलूका तृणग्राही कीटविशेषस् तृणान्तरं गृहीत्वा पूर्वतृणं त्यजति एवं देही कर्मगतिं गतो भवतीत्यन्वयः । जीवः स्वकर्मार्जितमपरं शरीरं गृहीत्वा पूर्वशरीरं जहातीत्यर्थः । कर्मणो गतिः प्राप्तिर्यस्य तं देहं गत इति वा ॥ ४० ॥
सत्यधर्मीया
एकस्मिन्नेवास्मिन् शरीरे देहिनोऽस्मिन् यथा देहे कौमारं यौवनं जरा । तथा देहान्तरप्राप्तिरिति विशोकदा दशा देहहानौ देहान्तरस्वीकार एवेत्यत्र निदर्शनद्वयं दर्शयति ॥ व्रजन्निति ॥ व्रजन्पुमानेकेन पदा तिष्ठन् यथैवैकेन पदा गच्छति तथा बाल्येन तिष्ठन्कौमारं व्रजत्येवं जराम् । तृणजलूका तृणग्रहणकृत्कृमिविशेषः । पुरतस्तृणान्तरं गृहीत्वा प्राग्गृहीतं तृणं त्यजत्येवं जीवः स्वकर्मार्जितमूर्जितमनूर्जितं वा कलेवरं परं गृहीत्वैतत्त्यजति । कर्मणा गतिः प्राप्तिर्यस्य तं देहं गत इति वा । दृष्टान्तद्वयमेकत्रैवेति । पूर्वत्र । परस्तु किञ्चित्सोहितीमस्मद्व्याख्यानस्य । अत्र च स्वीकारपरित्यागौ नात्यन्तभिन्नविषयाविति स्पष्टं दृष्टान्तान्तरमाहेत्यवतारयिता चकारेत्युपर्येव ज्ञायते । जलमोको यस्याः । ओक उचः क इति निपातितोदन्त ओकशब्दः । जलोकापि जलौका स्याज्जलूका जलजन्तुकेति तारपालः ॥ ४० ॥
सुमनोरञ्जिनी
उक्तार्थे दृष्टान्तमाह ॥ व्रजन्निति ॥ यथा व्रजन् गच्छन्पुरुष एकेन पदा तिष्ठन् उत्तरदेशे तिष्ठन्नेव एकेन अन्येन पदा गच्छति पूर्वदेशं परित्यजति । एके मुख्यान्यकेवला इत्यभिधानात् । यथा वा तृणजलूका तृणचारी कीटविशेषः । तृणान्तरं गृहीत्वैव पूर्वतृणं परित्यजति । एवं देही जीवः कर्मगतिं गतः कर्मप्रवाहपतितः सन् देहान्तरं प्राप्यैवेति पूर्वेणान्वयः ॥४० ॥
विरोधोद्धारः
देह इति ॥ वासांसि जीर्णानि यथा विहाय नवानि गृह्णाति नरोऽपराणि । तथा शरीराणि विहाय जीर्णान्यन्यानि संयाति नवानि देहीति गीतासु जीर्णशरीरत्यागान्ते नवग्रहणोक्तिप्रतीत्याऽत्र च भूतार्थकसत्सप्तमीक्तप्रत्ययोक्त्या देहान्तरमनुप्राप्य प्राक्तनं त्यजते वपुरित्यस्य विरोधोऽत उच्यते । सप्तम्यादेरतिसामीप्यार्थकत्वात् । क्तस्य च वर्तमानार्थकत्वात् ॥ देहे पञ्चत्वम् ॥ पञ्चरूपतयाऽदर्शनम् आपद्यमाने सतीत्यर्थः । अनेनात्रत्यो विरोधः परिहृतः । जडत्वेन स्वतोऽग्रे गन्तुमशक्यत्वात् । कर्माणि अनुगानि यस्य स देही देहाभिमानी जीवः ॥ अवशः विष्णुवशः सन् । अनेन जीवदेहाभिमानिकर्माणि विष्ण्वधीनानीति सूचितम् ॥ देहान्तरम् ॥ अन्तरे भव आन्तरः देहस्य स्थूलदेहस्य आन्तरो ऽन्तःस्थो लिङ्गदेहः ॥ तमनुप्राप्य ॥ धृत्वैवेति यावत् ॥ प्राक्तनं जीर्णस्थूलशरीरम् । त्यज्यते । गीतोक्तिविरोधोऽपि नास्ति । तस्याः स्थूलशरीर-द्वयविषयत्वात् । अस्य च लिङ्गदेहाश्रयणेनैव प्राक्तनदेहविसर्जनपरत्वात् ।
ननु गीतायां जीर्णदेहान्ते एव नवदेहप्राप्तिरुक्ता । अत्र तु जीर्णदेहविसर्जनमेवोक्तम् । अतो विरोध इति चेन्न । तत्रापि हि जीर्णदेहविसर्जनकाल एव नवदेहप्राप्तिर्न विवक्षिता । मध्ये स्वर्गनरक-भोगकालस्यापेक्षितत्वात् । ततः शेषेणेमं लोकं व्रजतीति श्रुतेः । कालान्तरेणैव नवदेहप्राप्त्याऽत्रापि लिङ्गदेहस्थित्युक्तावपि तथैव स्थातुमशक्यत्वात् । अग्रे नवदेहस्यापेक्षितत्वाच्चैकवाक्यतासम्भवात् । न च व्रजंस्तिष्ठन्पदैकेन यथैवेकेन गच्छति । यथा तृणजलूकैवं देही कर्मगतिं गत इत्यग्रिमश्लोके नास्यार्थस्य विरोधः । प्रातिकूल्याभावात् । तथा हि । व्रजनान्ता पुमान् एकेनैकसंख्याश्रयेण पदा दक्षिणाद्यन्यतमेन पादेन तिष्ठन् भारं स्थापयन् । अन्तर्णिच् । सर्वशरीरभारमेकस्मिन्नेव पादे निधायेति यावत् । एकेन अन्येन । एके मुख्यान्यकेवला इत्यभिधानात् । पदा पादेन गच्छति पूर्वस्थापितभूमिं विसृजति यथा तथा स्वदेहान्तःस्थं लिङ्गदेहमनुप्राप्य दीपज्योतिःसदृशाणुरूपेणाश्रित्य प्राक्तनं प्रकाशसदृशव्याप्त्याऽधिष्ठितं पूर्वं जीर्णं वपुः शरीरं त्यज्यते । यद्वा । पञ्चत्वमनु मरणानन्तरम् । गोवश इन्द्रियाधीनः कर्म । सप्तसु प्रथमेति सूत्रात् । कर्मणा आपन्ने प्राप्ते । अथवा । इकर्मा । इ विचित्रे स्मरे पुमानिति यादवकोशात् । विचित्रकर्मेत्यर्थः । नवे देहे आपन्ने प्राप्ते सति देही तद्देहाभिमानी भवतीत्यर्थः । तस्मात्कदाऽपि देहेन विनाऽनवस्थानात् तद्वियोगभियाऽकीर्तिकरं स्त्रीवधं कर्तुं नार्हसीति भावः । नन्वत्रोक्तोऽयमयुक्तो दृष्टान्तः । तत्र पादान्तरप्राप्त्या दार्ष्टान्तिके च देहान्तरप्रतीत्या स्वारस्याभावादित्याशङ्क्य दृष्टान्तान्तरमाह ॥ यथेति ॥ तृणजलूका तृणसंचारी शामनामा कीटविशेषः । देही शामकीटदेहवान्सन्नेव । भृङ्गाकारदेहमनुप्राप्तशामदेहाकारं त्यज्यते । एवं देही उत्तरदेहबीजभूतवृक्षान्तराङ्कुरजनकत्वानुमेयबीजसदृशलिङ्गाख्यदेहावृत एव । कर्मगतिं कर्मानुरूपा गतिः प्राप्तिर्यस्य तं नवदेहं गतः प्राप्तो भवतीति । तस्मात्प्राक्तनमनादिं देहान्तरं स्थूलदेहान्तःस्थलिङ्गदेहमनुप्राप्याधिष्ठायैव नवं सादिं पूर्वमुत्तरं च स्थूलदेहं त्यजते गृह्णाति चेत्यर्थः । अतः कदाऽपि देहेन विनाऽनवस्थानात्तद्वियोगभिया कीर्तिनाशकं स्त्रीवधं कर्तुं नार्हसीति भावः
॥ ३९-४० ॥
स्वप्ने यथा पश्यति देहमीदृशं मनोरथेनाभिनिविष्टचेतनः ।
दृष्टश्रुताभ्यां मनसाऽनुचिन्तयन् प्रपद्यते तत् किमपि ह्यपस्मृतिः ॥ ४१ ॥
तात्पर्यम्
स्वप्ने यथा दृष्टश्रुतस्मृत्यनुसारि देहं प्राप्नोति । अपस्मृतिर्मृतः । पूर्वदेह-स्मरणाभावात् । अभिमानतः ॥ ४१ ॥
पदरत्नावली
ननु देहात्मनोरभेदेन देही पूर्वदेहं परित्यज्याभिनवदेहान्तरं यातीति कथं सञ्जाघटीति ? तत्राह ॥ स्वप्न इति ॥ जाग्रद्दृष्टश्रुतपदार्थसंस्कारसमुद्बुद्धमनोरथेन अभिनिविष्टचेतनः गाढप्रग्रस्तबुद्धिरात्मा स्वप्ने ईदृशं जाग्रद्देहसदृशदेहं यथा पश्यति स्वकीयत्वेनानुभवति परकीयत्वेन वा । आत्मन एकत्वेन देहयोर्द्वित्वेन दर्शनाद् देहात्मनोर्भेद आनुभविकः । तथा मनसाऽनुचिन्तयन् आत्मा दृष्टश्रुतस्मृतानुसृतं तत् तत्र किमपि देवाद्यन्यतमशरीरं प्रपद्यते । कदेत्यत उक्तम् अपस्मृति-रिति । उत्तरदेहे अभिमानितया पूर्वदेहस्मरणाभावेन मृत इत्यर्थः । तदुक्तमाचार्यैः– ‘स्वप्ने यथा दृष्टश्रुतस्मृत्यनुसारि देहं प्राप्नोति । अपस्मृतिर् मृतः । पूर्वदेहस्मरणाभावादभिमानतः’ इति ॥४१॥
सत्यधर्मीया
स्वप्ने यथा पश्यति देहमीदृशमिति श्लोके यथा मनोरथेनाभिनिविष्टचेतनः स्वप्ने देही मिथ्याभूतमेव देहं पश्यति तथा दृष्टेन श्रुतेन दृष्ट्या श्रवणेनानुचिन्तनसहितेन मनसा ध्यातं देहं प्रपद्यते । तद्देहनिदर्शनेनेतरसर्वस्य मिथ्यात्वमुच्यत इति भ्रमं शमयितुं योजनाप्रदर्शनपूर्वं समग्रश्लोकतात्पर्यमाह ॥ स्वप्न इति ॥ स्वप्ने तदवस्थायां दृष्टश्रुतस्मृत्यनुसारिदेहमनुसारी चासौ देहश्च वासनामयश्च तम् । भिन्नं पदं वा । कायो देहः क्लीबपुंसोरित्यमराद्देहशब्दो नपुंसकलिङ्गोऽपीति विशेषणमनुसारीति सम्भवति । प्रेण सुखदुःखानुभवप्रकर्षसहितत्वप्राप्तेः सूचयति । अनेन चिन्तयन्निति विशेषणं चिन्तनं प्रपत्तिसम्पत्तिसाधनं हरिं पश्यन्मुच्यत इतिवदिति सूचयति । अपस्मृतिरित्यनूद्य व्याचष्टे ॥ अपस्मृतिर्मृत इति ॥ किं प्रयुक्तोक्ता मृततेत्यत आह ॥ अभिमानतः पूर्वदेह-स्मरणाभावादिति ॥ ममायं कायो मम सुखादिकं जातमित्यभिमानपूर्वकपूर्वदेहादिस्मृतिरहित इति मृत इत्युच्यत इत्यर्थः । अनभिमानत इत्यचतुरपाठस्तथाऽपि अनभिमानतोऽभिमानाभावात् । तद्व्याख्याति पूर्वदेहस्मरणाभावादिति, व्याख्यानव्याख्येयभाव इति व्याकुर्वते । केचिद्वैपरीत्येन पूर्वदेहस्मरणं यत्तन्मृत्युरिति ।
ततश्चायं श्लोकार्थः ॥ जलूकातुलतोपपादनेन तृणतद्भेदवदत्रापि देहदेहिनोर्भेद इत्युक्तं स्यात् । तदैक्यात्तदसम्भावितमिति तत्राह ॥ स्वप्न इति ॥ स्वप्नेऽवस्थाविशेषे तत्रापि स्वापं नयतीति स्वप्नो हरिरिति बृहद्भाष्यव्याख्यानानुसारेण च न तत्र रथा न रथयोगा न पन्थानो भवन्त्यथ रथान् रथयोगान्पथः सृजत इति श्रुतेर्हरिस्तस्मिन्वासनामुपादानमुपादाय सर्जके च सतीत्यप्यर्थः । मनोरथेन जाग्रद्दृष्टश्रुतवस्तुसंस्कारसचिवेन मनोरथेनाभिनिविष्टा चेतना संविद्यस्य । चेतना संविदि प्रोक्तेति विश्वः । तद्ग्रस्तधीरित्यर्थः । ईदृशं जाग्रद्देहसदृशं शरीरं यथा पश्यति स्वत्वेन जानाति परकीयत्वादिना वा । तत्रावलोक्यावलोकयितृकायभेदोऽनुभवसिद्धस्तथा दृष्टश्रुताभ्यां दर्शनश्रवणाभ्यां मनोऽपि यदनुचिन्तनसहितं तेन युक्तस्तदनुचिन्तनसाधनकमपस्मृतिरपगतस्मृतिरभिमानाभावाप्रयुक्तपूर्व-शरीरस्मरणरहितत्वान्मृतः किमपि स्ववासनानुसारि सुरनराद्यन्यतमं शरीरं प्रपद्यते हि यतोऽतः स्वतः सरणीयशरीरनिमित्तमुत्तम्भितासिः कथं स्वसुर्हननं तनुयास्त्यजेति भावः । निर्णयाभावात्किमपीत्युक्तिः
॥ ४१ ॥
सुमनोरञ्जिनी
ननु देहान्तरप्राप्तिरेवासिद्धेत्यतोऽनुभवमारोहयितुं दृष्टान्तान्तरकथनेन समर्थयते ॥ स्वप्न इति ॥ दृष्टश्रुताभ्यां यद् दृष्टं यच्च श्रुतं ताभ्यां निमित्ताभ्यां यो मनोरथः जाग्रद्दृष्टश्रुत-पदार्थस्मृतिशब्दोक्तसंस्काररूपस् तेन अभिनिविष्ट आविष्टः युक्त इति यावच् चेतनश् चेतनविशेषो जीवः । अभिनिविष्टा युक्ता चेतना मनो यस्य स तथाविधो जीव इति वा । स्वप्ने स्वप्नावस्थायाम् ईदृशं जाग्रद्दृष्टदेहसदृशं देहं यथा पश्यति प्राप्नोतीत्यर्थः । स्वप्ने यथा दृष्टश्रुतस्मृत्यनुसारि देहं प्राप्नोतीति आचार्यैर्व्याख्यातत्वात् । अत्र स्मृतिशब्देन तत्कारणवासनापरपर्यायः संस्कारो विवक्षितः । दृष्टश्रुताभ्यां तदुभयस्मृत्याऽभिनिविष्टचेतनो ना पुरुषः मनोरथे यथा ईदृशं देहं पश्यतीत्यपि योजयन्ति । तथा दृष्टश्रुताभ्यां निमित्ताभ्यां मनसा यद्यदनुचिन्तयन् स्मरन् । अपस्मृतिर् अपगता पूर्वदेहस्मृतिर्यस्यासौ तथोक्तः मृत इति यावत् । तदुक्तमाचार्यैः । अपस्मृतिर् मृतः पूर्वदेहस्मरणा-भावादभिमानत इति । अभिमानत उत्तरदेहाभिमानेन निमित्तेन पूर्वदेहस्मरणाभावादपस्मृतिर्मृत उच्यत इति तदर्थः । तत् तेन मृतिकालेऽनुचिन्तनेन निमित्तेन किमपि देवाद्यन्यतमशरीरं प्रपद्यते प्राप्नोतीति योजना । अथवा दृष्टश्रुतस्मृत्यनुसारि देहं प्राप्नोतीति तात्पर्यपर्यालोचनया दृष्टं दर्शनं श्रुतं श्रवणं, स्मृतिरपि ग्राह्या, सर्वेन्द्रियसाध्यभोगोपलक्षणमेतत् । ताभिरीदृशं जाग्रद्देहसदृशम् । यथा जाग्रद्देहो भोगक्षमस्तथा सर्वेन्द्रियसाध्यभोगक्षममिति यावत् । शेषं पूर्ववत् । तथा चास्य देहस्य भोगक्षमत्वमिव देहान्तरस्यापि भोगक्षमत्वादेतन्नाशप्रयुक्तभयमपि त्वया त्याज्यमिति भावः ॥ ४१ ॥
यतो यतो धावति दैवचोदितं मनो विकारात्मकमात्मपञ्चसु ।
गुणेषु मायारचितेषु देह्यसौ प्रपद्यमानः सह तेन जायते ॥ ४२ ॥
तात्पर्यम्
यतो यतः यत्र यत्र, मनो धावत्यात्मपञ्चानां मध्ये तत्र तत्र तेन दैवेन सह जायते गुणानुबद्धः सन् । ‘दैवगान्धर्वपित्र्येषु मानुषेष्वासुरेषु च । यत्र यत्र मनो याति तत्र तत्रोपजायते । स्वगुणस्यानुसारेण सत्वादिविनिबन्धन’ इति गारुडे । ‘देवादित्वं योग्यतया तत्सकाशस्त्वनुस्मृतेः । श्वेतद्वीपादि तत्रापि योग्यतामप्यपेक्ष्य तु । विष्णोः स्थानं विनाऽन्यत्र वायुशक्रादिनामपि । त्रैलोक्यदेशभेदेषु योग्यता न त्वपेक्षिते’ति नारदीये ॥ ४२ ॥
पदरत्नावली
एतदेव विवृणोति ॥ यतो यत इति ॥ सार्वविभक्तिकस्तसिरिति वचनाद् यतो यतो यत्र यत्र । वीप्सा तु विषयाणां बाहुविध्यात् । मायारचितेष्विति सप्तमी षष्ठ्यर्थे, भगवदिच्छोद्बोधितप्रकृतिनिमित्तानामित्यर्थः । प्रकृतेरेकत्वेन सृष्टेर्नानाविध्यं कथम् ? अत्राह– गुणेष्विति ॥ कार्यकारणाभेदात् । आत्मपञ्चसु देवगन्धर्वपितृमनुष्यासुरभेदेन पञ्चानामात्मनां देहानां मध्ये दैवेन अदृष्टोद्बोधकेन हरिणा चोदितं प्रेरितं मनो यत्र यत्र धावति तत्र तत्र तदधीनेन देहेन सहानुजायते । कथमित्यत आह गुणेष्विति । गुणेषु प्रपद्यमानः स्वयोग्यगुणानुबद्धः सन्निति यावत् । तदुक्तम् ‘दैवगान्धर्वपित्र्येषु मानुषेष्वासुरेषु च । यत्र यत्र मनो याति तत्र तत्रोपजायते । स्वगुणस्यानुसारेण सत्त्वादिविनिबन्धनः’ इति । मनो विशिनष्टि विकारात्मकमिति । सङ्कल्प-विकल्पनिबद्धमिति । अत्रापि योग्यतामपेक्ष्य तत्तच्छरीरग्रहणम् । तदुक्तम्– ‘देवादित्वं योग्यतया तत्सकाशस्त्वनुस्मृतेः । श्वेतद्वीपादि तत्रापि योग्यतामप्यपेक्ष्य तु । विष्णोः स्थानं विनाऽन्यत्र वायुशक्रादिनामपि । त्रैलोक्यदेशभेदेषु योग्यता न त्वपेक्ष्यते’ इति । अनेन व्याप्तस्यात्मनो गमनं कथमिति चोद्यं परिहृतम् । परमात्मानमन्तरेणेतरेषां निरुपचरितव्याप्तिर्नास्ति । ‘अणुर्ह्येष आत्मा’ इति श्रुतेः । आलोकवद् गुणेन यथायोग्यव्याप्तिरस्तु नाम । तथापि स्वरूपतो नास्त्येव । ‘व्याप्ता ह्यात्मानश्चेतना निर्गुणाश्च’ इति स्मृतिः श्रीनारायणविषयेति निरणायि । नो चेदुक्ता गतिरेवेति
॥ ४२ ॥
सत्यधर्मीया
यतो यतो धावतीति श्लोके विवक्षितार्थाप्रतीतेरात्मपञ्चसु स्वोपभोग्य- शब्दादिविषयपञ्चक इत्याद्यन्यथाप्रतीतेश्च स्वयं यथावद्व्याकृत्य मानं चोदाहरति ॥ यतो यत इति ॥ सार्वविभक्तिकस्तसिरत्र सप्तम्यर्थ इत्याह ॥ यत्र यत्रेति ॥ वीप्सा च विषयाणां बाहुविध्याद्युक्ता । आत्मपञ्चस्विति सप्तमी निर्धारण इति निर्धारयितुं पञ्चानां मध्य इत्युक्तिः । आत्मानो वक्ष्यमाणजीवाश्च ते पञ्च च तेषु तत्र तत्र तेन देवेन क्रीडादिमता भगवता । तथा दिवु क्रीडा-कान्तिगतिष्विति स्मृतेरसाधारण्येन नयेन सदागतिर्ग्राह्या । तेन वायुना च सह गुणानुबद्धः सत्त्वादिगुणवशः स्वस्वरूपगुणानुबद्ध इति वा सन् जायते शरीरसम्बन्धवान्भवति । इदं विशेष-विवक्षया । सामान्यतश्चेत्पराधीनविशेषावाप्त्यादिमान्भवतीति व्याकुर्वते । दैवगान्धर्वपित्र्येषु मानुषेष्वसुरेष्विति पञ्चानां मध्ये यत्र यत्र मनो ध्यायद्याति तत्र तत्र तेन देवेनोक्तरूपेण सह जायते । स्वगुणस्य स्वरूपभूतगुणानामनुसारेण तथा सत्त्वादिप्राकृतगुणैश्च नितरां बन्धनं यस्य स इति । एतेनैव स्वपदस्यानुसारपदस्य च स्वारस्यं सूचितमिति ज्ञेयम् । स्वस्वगुणसत्वादि-गुणैर्देवादित्वप्राप्तिर्भवन्ती सा योग्यतामनुसृत्येति मानेनाह ॥ देवादित्वमिति ॥ देवेत्युत्तमाधि-कार्युपलक्षणम् । गान्धर्वेत्यधमाधिकार्युपलक्षणम् । उपलक्षकं च पित्र्येति मध्यमानाम् ।
मानुषा मिश्रगतयो विमिश्रगतयोऽपि च ।
पुनः पुनर्मानुषांस्तु सृतावावर्तयत्यसौ ॥
नित्योपलब्ध्यनुपलब्धिप्रसङ्गोऽन्यतरनियमो वाऽन्यथा । एवमनेवं च मनुष्या इत्यादेर्नित्य-संसारिणः । एतन्मुक्तिसंसारस्तु नमकचमकविवरणेऽस्मत्कृते ललाललतायिनामिति पदव्याकृत्यवसरे विस्तृत्य कथितस्तत्स्थानादिनिरूपणतस्ततोऽनुसन्धेयः । असुरास्त्वयोग्या इति विवेकः । स्मरणमात्रेण तत्तत्प्राप्तिरिति पातनिकार्थोऽनुपपन्नः । तत्रेतिकर्तव्यान्तरमस्तीत्याह ॥ योग्यतयेति ॥ तुरवधारणार्थे सन् योग्यतयैवेति योग्यान्वयः । योग्यतयैव देवादित्वं प्राप्नोति । अनुस्मृतेर्भगवदनु-चिन्तनाद्यद्देवादित्वं तदयोग्यश्च तत्सकाशं सामीप्यं प्राप्नोति सकाशस्तत्समानदीप्तिरित्यर्थः । काशतेर्दीप्त्यर्थाद्भावे घञि समानशब्दस्य समानस्य च्छन्दस्यमूर्धप्रभृत्युदकेष्विति सभावे सकाश इति भवतीति वा । तर्ह्यविशेषेण योग्यतापेक्षिता किमित्यत आह ॥ श्वेतद्वीपेति ॥ अपिर्योग्यतोत्ते-जकसाधनान्तरसमुच्चायक एकः । तत्रापि वासाय योग्यतैवापेक्षितेत्यवधारक एकः । यथोक्तम् । योग्यत्वं चात्र विवक्षितम् । अत्र निवास इति शेष इति गीताभाष्यप्रमेयदीपिकयोः । श्वेतद्वीपादि विष्णोः स्थानं साधनसध्रीचीनां योग्यतामपेक्ष्यैव प्राप्नोति । तथा वायुशक्रादीनां स्थानं च विना तत्रापि योग्यतापेक्षितैव । अन्यत्र त्रैलोक्यदेशभेदेष्विति सामानाधिकरण्यम् । त्रैलोक्यास्त्रिलोकीभवाश्च देशभेदास्तद्विशेषास्तेषु नैवापेक्षिता योग्यता स्थित्या इति ज्ञेयम् ॥
अथ मूलार्थः ॥ विकारात्मकं सङ्कल्पविकल्पादिस्वभावं मनो दैवचोदितमदृष्टोपोद्बलितं सत्, गुणाः सन्ति येषां कारणतया ते गुणाः । कारणकार्यशब्दयोर्गोभिः श्रीणीत मत्सरं यथा ब्रह्मादिकं मुखमित्यादौ साङ्कर्यं दृष्टमिति । गुणेषु तत्कार्येषु । माया तु भगवदिच्छोद्बोधिता प्रकृतिस्तद्रचितेषु आत्मपञ्चसु देवादिजीवानां पञ्चानां मध्ये यतो यतो यत्र यत्र धावति तत्र तत्रासौ देही प्रपद्यमानो योग्यतानुसारेण स्मृततद्देहवान् तेन हरिणा वायुना च सह जायते । स्वरूपतदितरगुणानुबद्धः सन् जायते । देहसम्बन्धादुत्पत्तिमान्भवतीत्यर्थः ॥ ४२ ॥
सुमनोरञ्जिनी
मनसाऽनुचिन्तयन् किमपि प्रपद्यत इत्येतद्विवृणोति ॥ यत इति ॥ आत्मपञ्चसु । निर्धारण सप्तमीयम् । देवगन्धर्वपितृमनुष्यासुरभेदेन पञ्चस्वात्मसु देहेषु मध्ये विकारात्मकं कामसंकल्पविकल्पादिविकारात्मकं मनो यतो यतः यत्र यत्र यस्मिन्यस्मिन् देहे सार्वविभक्तिकस्तसिरिति वचनाद् यं यं देहमित्यर्थः । धावति गच्छति विषयीकरोतीति यावत् । मृतिकाल इति शेषः । असौ देही जीवः मायारचितेषु प्रकृतिनिर्मितेषु मायया भगवदिच्छया रचितेषु उद्बोधितेषु वा गुणेषु सत्त्वादिषु प्रपद्यमानः संबध्यमानः सन् तत्र तत्र देवगन्धर्वाद्यन्यतमदेहेष्वधि-ष्ठानेषु । तेन दैवशब्दप्रकृतेन श्रीहरिणा सह जायते उत्पद्यत इति योजना । अत्रोक्तमाचार्यैः । यत्र यत्र मनो धावत्यात्मपञ्चनां मध्ये तत्र तत्र तेन दैवेन सह जायते गुणानुबद्धः सन्निति । गुणानुबद्धः सन्नित्यनेन गुणेषु प्रपद्यमान इत्यन्वयः सूचितः । तेनेति तच्छब्दो न यच्छब्दोक्त-देहपरामर्शकस् तेन तेनेति वीप्साभावात्, किन्तु दैवपरामर्शक इति भावेन तेनेत्यनूद्य दैवेनेति व्याख्यातम् । आत्मपञ्चस्वित्यस्य विवरणं देवगन्धर्वेत्यादि ।
देवगन्धर्वपित्र्येषु मानुषेष्वासुरेषु च ।
यत्र यत्र मनो याति तत्र तत्रोपयुज्यते ।
स्वगुणस्यानुसारेण सत्वादिविनिबन्धनः ॥ इति गारुडे ।
देवादिषु मध्ये यत्र यत्र मनः याति सत्वादिविनिबन्धनो जीवः स्वगुणस्य प्राचुर्येण स्वबन्धकगुणस्यानुसारेण तत्र तत्र तस्मिन् तस्मिन् देह उपयुज्यते संबध्यते । तर्ह्ययोग्यानामपि देवादिपदस्मृतिमात्रेण तत्पदप्राप्तिः स्यादित्यत आह ॥ देवादित्वमिति ॥
‘देवादित्वं योग्यतया तत्सकाशस्त्वनुस्मृतेः ।
श्वेतद्वीपादि तत्रापि योग्यतामप्यपेक्ष्य तु ।
विष्णोः स्थानं विनाऽन्यत्र वायुशक्रादिनामपि ।
त्रैलोक्यदेशभेदेषु योग्यता न त्वपेक्षिते’ति ।
देवादित्वमित्यनेन अन्यतमदेहप्राप्तिर्योग्यतानुसारेणैव न स्मरणमात्रादित्याह । आदिपदेन गन्धर्वपित्रोर्ग्रहणम् । तद्देहप्राप्तिरित्यर्थः । यौग्यतयैव भवति न स्मरणमात्रात् । योग्यताभावे तु देवाज्जाताया अनुस्मृतेर् मृतिकालीनदैवादिदेहस्मृतेः सकाशात् । तत्सकाशस् तेषां देवादीनां सकाशः सामीप्यं प्राप्नोति । तत्र सामीप्येऽपि श्वेतद्वीपादिरूपं स्थानं योग्यतामपेक्ष्य तु योग्यतामपेक्ष्यैव प्राप्यं विष्णोः स्थानं श्वेतद्वीपादिकं विना अन्यत्रापि वायुशक्रादीनां स्थानं योग्यतामपेक्ष्यैव । त्रैलोक्यदेशभेदे तु । त्रैलोक्ये ये देशभेदा उक्तेभ्योऽन्ये ये देशविशेषास् तत्र देवादिसामीप्ये योग्यता नापेक्ष्यत इत्याचार्यवाक्ययोजना द्रष्टव्या ॥ ४२ ॥
ज्योतिर्यथैवोदकपार्थिवेष्वदः समीरवेगानुगतं विभाव्यते ।
एवं स्वमायारचितेष्वसौ पुमान् गुणेषु रागानुगतो विमुह्यति ॥ ४३ ॥
तात्पर्यम्
विभाव्यते विविधं भाव्यते । स्वमायारचितेषु विष्णुमायारचितेषु । रागानुगतः पुमान् जीवो विविधं मुह्यति । ‘यथैवोदशरावेषु सूर्यादिः प्रतिबिम्बितः । वायुना चलितो भाति छिन्नभिन्नादिरूपवान् । एवं विष्ण्विच्छया जातगुणेषु प्रतिबिम्बितः । छिन्नो भिन्नो मृतोऽस्मीति बहुधा प्रतिपद्यते । तदेव च दृढीभूत उदके निःशरावके । छेद-भेदादि नाप्नोति निश्चलं प्रतिबिम्बितम् । एवं गुणैर्विमुक्तस्तु जीवो नाप्नोति दुःखिताम् । शराववद्गुणाः प्रोक्ता अज्ञानं तु द्रवत्ववत् । दृढीभूतोदवज्जीवस्तज्ज्ञानं प्रतिबिम्बवत् । नित्यान्तःकरणं चैव प्रतिबिम्बश्च तद्गतः । द्वयमेव विमुक्तस्य न किञ्चिज्जडमिष्यते । सूर्यकान्तादिवत्तस्य स्वरूपं द्वयमप्युत । तस्मान्न हन्तुं शक्योऽसौ केनचिज्जीव आत्मवान् । तस्मात्स्वजीवनार्थाय न परद्रोहमाचरेत् । हन्यते चाज्ञभावेन परेषां द्रोहमाचरन्नि’ति तन्त्रभागवते ॥ ‘परः स्वो हरिरुद्दामा इति नामचतुष्टयम् । विष्णोर्गुह्यं तु यो वेद सर्वपापैः प्रमुच्यत’ इति प्रकाशिकायाम् ॥ ‘स्वतन्त्रत्वात्सुखत्वाच्च स्वनामा विष्णुरुच्यत’ इति पाद्मे ॥ ४३ ॥
पदरत्नावली
ननु गुणानां नानात्वात् सृष्टेर्वैचित्र्यमस्तु, एकस्यात्मनो नानाविधप्रतीतिः कथमिति शङ्कां सदृष्टान्तं परिहरति ज्योतिरिति ॥ यथा अदो ज्योतिरादित्यलक्षणं समीरवेगानुगतं वायुवेगनिमित्तचलनेन अनुचलितमौदकपार्थिवेषु जलपूर्णशरावाद्युपाधिषु प्रतिबिम्बितं विभाव्यते विविधत्वेन भाव्यते, छिन्नभिन्नादिरूपेण प्रतीयते, एवमसौ पुमान् स्वमायारचितेषु ‘परः स्वो हरिरुद्दामः’ इति वचनात् स्वस्य विष्णोरिच्छया रचितेषु प्रतिबिम्बितः, अशोभने शोभनाध्यासो रागस् तेनानुगतः, तन्मयान्तःकरणो विमुह्यति विविधं छिन्नो भिन्नो मृतोऽस्मीति मोहमज्ञानं प्रतिपद्यते । यथा तदेव ज्योतिः पार्थिववद् दृढीभूते वायुनाऽप्रकम्प्यमाने शरावाद्युपाधिसम्बन्धविधुरे तटाकाद्युदके प्रतिबिम्बितं वि विशिष्टं छेदभेदादिरहितं निश्चलमिति यावत्, भाव्यते प्रतीयते, एवं योग्यो जीवो गुणेषु प्रतिबिम्बितो रागमनुरागं स्नेहविशेषमनुगतो निर्मुक्तद्वेषो विगतमोहो भवति । अज्ञाननिमित्तं छेदभेदादिदुःखं न प्राप्नोतीति परिहारपरतयाऽपि योजनीयम् । उभयोरपि समाख्यानसिद्धत्वात् । तदुक्तम् - यथैवोदशरावेष्वित्यारभ्य परेषां द्रोहमाचरन्नित्यन्तेन । स्वमायेत्यत्र स्वशब्देन विष्णुरेवोच्यते मानसिद्धत्वात् । तदुक्तम् ‘परः स्वो हरिरुद्दाम इति नामचतुष्टयम् । विष्णोर्गुह्यं तु यो वेद सर्वपापैः प्रमुच्यते’ इति प्रकाशिकायाम् । गुणयोगयुक्तरूढ्या सिद्धत्वान् मुख्यं च । तदुक्तम् ‘स्वतन्त्रत्वात् सुखत्वाच्च स्वनामा विष्णुरुच्यते’ इति । ‘रागोऽनुरागे लाक्षायाम्’ इति यादवः ॥ ४३ ॥
सत्यधर्मीया
ज्योतिर्यथैवोदकपार्थिवेष्वद इति श्लोके यथाऽनिलबलेन चञ्चलीभवज्जल-तस्तत्प्रतिबिम्बितं ज्योतिः सूर्यादिकं चलनस्खलनभाग्भवति तथा भगवान् रागानुगतो बहु स्यामितीच्छानुगतः स्वाज्ञानरचितेषु देहादिषु प्रतिबिम्बितोऽहं सुखी दुःखी बुधोऽबुधो बद्ध इति मिथ्यामतिं प्राप्नोति । स एवात्र गात्रे जीवादिरूपी । तत्र दुःखादिकं च मायिकमेव प्रतीयत इत्यन्यथाप्रतीतिमन्यथयितुं किञ्चिदनूद्य तत्तात्पर्यार्थमाह ॥ विभाव्यत इति ॥ विभाव्यत इति मौलं पदम् । तव्द्याख्यानं तु विविधं भाव्यत इति । मायारचितेषु तथैव विष्णुमायारचितेषु । इदमपि रागानुगतः स्फुटार्थम् । पुमान् जीवः स्त्र्यादिसङ्ग्रहोऽनेन कृतो ज्ञेयः । विविधं मुह्यति मोहं प्राप्नोति । श्लोकमेकमखण्डप्रमाणेन व्याख्याति ॥ यथैवेति ॥ उदमुदकं तत्पूर्णाः शरावा वर्धमानकास्तदादिषु सूर्यादिः प्रतिबिम्बितः । उदकपार्थिवेष्वित्यतः परं प्रतिबिम्बितमिति शेषः कर्तव्य इत्यनेनासूचि । समीरवेगानुगतमिति व्याकरोति ॥ वायुना चलितमिति ॥ द्वैविध्यमाह ॥ छिन्नभिन्नादिरूप-वानिति ॥ अनेन विमुह्यतीति तात्पर्यमुक्तं वेदितव्यम् । एवं विष्ण्विच्छयेति मायापदार्थः कथितः । प्रतिबिम्बो जीवो बहुधा, तृतीयाविभक्तेर्लोपः, बहुप्रकारेण प्रतिपद्यत आत्मानं जानाति । प्रकारान्तरेणेमं श्लोकं व्याकुर्वन्मानमुपन्यस्यति ॥ तदिति ॥ निश्शरावके शरावान्निष्कासिते दृढीभूते उदके शरावादित्वेन दृढीभूते वाऽकम्प्याणुमुखपात्रस्थितं प्रतिबिम्बितं सूर्यादिकं निश्चलं सच्छेदभेदादिकं न प्राप्नोति । एवं गुणैः सत्त्वाद्यैर्विमुक्तस्त्यक्ताभिमतिरित्यर्थः । दुःखितं नाप्नोति । बिम्बप्रतिबिम्बभावं घटयितुं दृष्टान्त इव दार्ष्टान्तिकमुपपादयन्नाह शराववच्छरावेण तुल्यं वर्तन्त इति ते तथा । ‘ब्रह्मादिगुणवैशेष्यादानन्दादिः परस्य च । प्रतिबिम्बत्वमायाति मध्योच्चादिविभेदत’ इत्यादेर्गुणाः शराववत्प्रोक्ताः । अज्ञानं जैवं द्रवत्वं तज्जलमिव । यद्वा द्रवत्ववज्जलं लुप्तोपमा । तद्वद्दृढीभूतं यदुदमुदकं तद्वज्जीवस्तज्ज्ञानं जीवज्ञानं स्वरूपज्ञानं, प्रतिबिम्बो जीवो, जडान्तःकरणकार्यं च सज्जीवस्य दुःखादिकमिति दर्शयितुं नित्येति व्यशिंषदन्तःकरणमिति ज्ञेयम् ।
ननु मुक्तिर्हित्वाऽन्यथारूपं स्वरूपेण व्यवस्थितिरिति स्थितेरुपाधिनाशेऽज्ञानान्तःकरणादि-नाशस्ततः प्रतिबिम्बनाश इति सर्वनाशे मोक्षाशा का महामुने स्यादित्यत आह ॥ द्वयमिति ॥ तस्य द्वयं ज्ञानान्तःकरणादिकं जडमजडं चेति प्रकारद्वयोपेतम् । तत्र जडस्य नाशोऽनाशश्चापरस्य विमुक्तस्य किञ्चिज्जडं नेष्यते प्रामाणिकैर्नाङ्गीक्रियते । ‘जीवोपाधिर्द्विधा प्रोक्तः स्वरूपं बाह्य एव च । बाह्योपाधिर्लयं याति मुक्तावन्यस्य संस्थितिः । नित्योपाध्या स्वरूपया । चिद्रूपया युतो जीवः केशवप्रतिबिम्बक’ इत्यादिचतुर्थतात्पर्यगीताभाष्याद्युक्तेः किञ्चिदपि न जडमतो न सूर्यकान्तादिवद् एकाकारं येनातिप्रसक्तिः स्यादिति भावः । उत लिङ्गभङ्गानन्तरं तस्य जीवस्य द्वयमुपाधिप्रतिबिम्बात्मकमपि स्वरूपमिष्यत इत्यन्वेति । न किञ्चिदित्येतद्विवरणमिदमिति ज्ञेयम् । देहस्य सर्वथा नाशशिरस्कत्वादात्मनश्चेदनाशात्किं प्रयुक्तमेतद्धननं न युक्तमित्यतस्तस्मान्न कस्यचिदित्युत्तरश्लोकतात्पर्यं विवक्षुस्तदर्थगर्भं मानमुदाहरन्नुपसंहरति ॥ तस्मादिति ॥ असौ जीवः केनचिदपि न हन्तुं शक्य आत्मवान्नित्यभूतस्वबिम्बपरमात्मवान् बिम्बस्यानाशाच्चेतनस्याप्यनाशादुपाधेश्च नित्यतयाऽस्मान् न हन्तुं शक्य इति भावः । स्वजीवनार्थाय परद्रोहं नाचरेत् । य आचरेत्परेषां द्रोहमाचरन्सोऽज्ञभावेनैतत्प्रकाराज्ञत्वेन परैरत्रापरत्र हन्यते नरकाद्यनर्थं चाप्नोतीत्यर्थः । स्वमायेत्यत्रत्यस्वशब्दो विष्णुवाचीत्यत्र मानमाह ॥ पर इति ॥ परः स्वो हरिरुद्दाम इति नामचतुष्टयम् । गुह्यमज्ञैरज्ञातत्वात् । यो वेद स सर्वपापैः प्रमुच्यते मुक्तो भवति । अर्थवादेन तद्वेदनस्यावश्यकत्वेन विधीयमानतां द्योतयति । रूढिशब्दचतुष्टयसाधारणीं प्रकाशसंहितया प्रकाश्य प्रस्तुतस्वपदं महायोगेन हरिपरमिति प्रत्याययत्पाद्मं च मानमाह ॥ स्वतन्त्रत्वादिति ॥ स्वेति नाम यस्यासौ स्वनामा ।
ततश्चायं श्लोकार्थः ॥ आत्मन एकत्वान्नानाविधताप्रतीतिः किंनिबन्धनेत्यतः सदृष्टान्तं तत्सम्भवमाचष्टे ॥ ज्योतिरिति ॥ अदो ज्योतिः सूर्यादिलक्षणम् । समीरवेगानुगतं समीरो वायु-स्तस्य यो वेगस्तेनानुगतं सचलनं तच्चलनेनेत्यर्थः । उदकपार्थिवेषु पार्थिवाश्च मृद्विकृताः शरावोदञ्चनादयः । उदकयुताश्च ते ते च । तेषु प्रतिबिम्बितं विभाव्यते छिन्नभिन्नत्वादिना प्रतीयत एकमप्येवं तथा असौ पुमान् जीवः स्वमायारचितेषु स्वस्य हरेर्माययेच्छया रचितेषु गुणेषु तत्कार्येषु देहेषु रागानुगतः । शोभनाध्यासो राग इति गीताभाष्योक्तेस्तदनुगतः सन् विमुह्यति छिन्नः खिन्नो भिन्नोऽहमिति विविधं वैचित्यं प्राप्नोति । किञ्च यथा तदेव ज्योतिः समीरवेगोऽनु हीनतां गतो यस्य तद्विकलमुदकपार्थिवेषु तन्मिश्रपार्थिवादिषु विभाव्यते वि विशिष्टमखण्डमिति यावद् भाव्यते प्रतीयते । एवं सज्जीवो, गुणेषुरागान्वित इति पदमेकम् । गुणेन स्वगुणेन वा इषुरागो इषु च तन्मयो भवेदिति सकलेशनिवेशवान् रागोऽनुगतोऽयं वा सोऽनुगतो येन वा । स्वमायारचितेषु देहादिषु विमुह्यति मोहं न प्राप्नोतीति सज्जीवपरतया शराववद्गुणाः प्रोक्ता इत्यादिना तात्पर्यानुसारेण योजनीयोऽयं श्लोकः ॥ ४३ ॥
सुमनोरञ्जिनी
किञ्च स्वमरणभयान्न स्त्रीवधो युक्तः । चेतनस्य मरणासिद्धेः । ननु कथं तर्हि छिन्नो भिन्नोऽस्मीति प्रत्यय इति चेत् । तस्य भ्रान्तित्वादिति सदृष्टान्तं देहात्मवादेन प्रत्यवतिष्टन्तं प्रत्याह ॥ ज्योतिरिति ॥ यथा अदः प्रत्यक्षसिद्धं ज्योतिः सूर्यादिलक्षणं तेज उदकपूर्णेषु शरावोदञ्चनादिपार्थिवपदार्थेषु प्रतिबिम्बितमिति शेषः । समीरवेगानुगतं समीरस्य वायोर्वेगस्यानुगतमनुकूलं वायुचलनेन चलितमिति यावत् । समीराद्यो वेग उदकादेश्चलनं तमनुगच्छतीति वा । विभाव्यते वि विविधं यथा तथा भाव्यते ज्ञायते जनैः । छिन्नभिन्नादिरूपवत्तया ज्ञायते इति भावः । एवं स्वमायारचितेषु । स्वो विष्णुः । परः स्वो हरिरुद्दाम इति नामचतुष्टयम् । विष्णोर्गुह्यं तु यो वेद सर्वपापैः प्रमुच्यत इति रूढिज्ञापकवचनात् । स्वतन्त्रत्वात्सुरत्वाच्च स्वनामा विष्णुरुच्यत इति योगप्रदर्शकवचनाच्च । तस्य मायया इच्छया रचितेषु । तथा चाचार्यैः स्वमाया-रचितेष्वित्यनूद्य विष्णुमायारचितेष्विति व्याख्यातम् । गुणेषु सत्वादिगुणात्मकेषु देहेषु तत्रापि लिङ्गदेहरूपबाह्योपाधौ प्रतिबिम्बितः मिश्रितः क्षीरनीरवत्संवलित इति यावत्, असौ पुमान् जीवः, रागेण अनुरागेण अशोभने शोभनत्वाध्यासेन वा । रागोऽनुरागो लाक्षायामिति, रसो रागस्तथा सक्तिः शोभनाध्यास उच्यत इति चाभिधानात् । अनुगतः युक्तः सन् विमुह्यति वि विविधं मुह्यति मोहवान् भवति छिन्नो भिन्नो मृतोऽस्मीत्यादि बहुधा भ्रान्तिमान् भवतीति भावः । इयं च संसारिणामवस्था प्रदर्शिता । मुक्तस्य तु नैतादृशो मोह इत्येतदप्यनेनोच्यते । तथा हि । उदकपार्थिवेषु । उदकं पार्थिवमिव पार्थिववन्निश्चलतया विद्यमान उदक इति यावत् । प्रतिबिम्बितमदो ज्योतिः समीरवेगानुगतं समीरेण वेगश्चलनं तस्य अनु पश्चाद् गतम् । अतिक्रान्तसमीरवेगमित्यर्थः । विभाव्यते च्छेदादिरहितं ज्ञायते । एवं स्वमायारचित्तेषु गुणेषु रागानुगतः । अनुगतो नष्टो रागो यस्यासौ तथोक्तः । असौ पुमान् विमुह्यति विगतमोहो भवतीति । एतदेवाभिप्रेत्योक्तं तात्पर्यनिर्णये–
यथैवोदशरावेषु सूर्यादिः प्रतिबिम्बितः ।
वायुना चलितो भाति च्छिन्नभिन्नादिरूपवान् ।
एवं विष्ण्विच्छया जातगुणेषु प्रतिबिम्बितः ।
छिन्नो भिन्नो मृतोऽस्मीति बहुधा प्रतिपद्यते ।
तदेव च दृढीभूत उदके निःशरावके ।
छेदभेदादि नाप्नोति निश्चलं प्रतिबिम्बितम् ।
एवं गुणैर्विमुक्तस्तु जीवो नाप्नोति दुःखिताम् ।
शराववद्गुणाः प्रोक्ता अज्ञानं तु द्रवत्ववत् ।
दृढीभूतोदवज्जीवस्तज्ज्ञानं प्रतिबिम्बवत् ।
नित्यान्तःकरणं चैवं प्रतिबिम्बश्च तद्गतः ।
द्वयमेव विमुक्तस्य न किञ्चिज्जडमिष्यते ।
सूर्यकान्तादिवत्तस्य स्वरूपं द्वयमप्युत ॥ इति ।
मूलोक्त–उदकपार्थिवेष्वित्यस्यार्थ उदशरावेष्विति । बहुवचनमाद्यर्थे । उदपूर्णशरावादिष्विति । ज्योतिरित्यस्य विवरणं सूर्यादिरिति । प्रतिबिम्बित इति शेषोक्तिः । समीरवेगानुगत इत्यस्य तात्पर्यं वायुना चलित इति । विभाव्यत इत्यस्य तात्पर्यं च्छिन्नभिन्नादिरूपवानिव भातीति । एवमित्यारभ्य गुणेष्वित्यन्तविवरणं विष्ण्विच्छया जातगुणेष्विति । प्रतिबिम्बित इति पुनः शेषोक्तिः । विमुह्यतीत्यस्यार्थश् छिन्न इत्यादि । प्रतिपद्यते जानातीत्यर्थः । संसारावस्थापरतया मूलं योजयित्वा मुक्त्यवस्थापरतयाऽपि योजयति ॥ तदेवेति ॥ तदेव ज्योतिरेव । दृढीभूत इत्यनेन उदक-पार्थिवेष्वित्युक्तार्थम् । पार्थिववद्दृढीभूतेषूदकेष्विति । निश्चलमित्यनेन समीरवेगानुगतमित्येतदुक्त-तात्पर्यम् । अतिक्रान्तसमीरवेगमिति । एवमित्यनेनोत्तरार्धं विवृतम् । गुणैर्विमुक्त इत्यनेन गुणेषु अनुगतो विनष्टो रागो यस्यासौ तथोक्त इत्ययमर्थः सूचितः । विमुह्यतीत्यस्यार्थो नाप्नोति दुःखितामित्यादि । छिन्नो भिन्नो मृतोऽस्मीत्यादिमोहजनितदुःखकृतनीचतालक्षणविकृतिं नाप्नोतीति तस्यार्थः । दृष्टान्तदार्ष्टान्तिकसाम्यं स्पष्टयति ॥ शराववदिति ॥ दृष्टान्ते शरावो यथा उपाधेर्जलस्याधिष्ठानं तथा दार्ष्टान्तिके गुणाः सत्त्वादयस् तत्स्थानापन्ना ज्ञेयाः । अज्ञानन्तु । अनेन लिङ्गशरीरं विवक्षितम् । द्रवत्ववत् । भवितृप्रधानो निर्देशः । द्रवीभूतोदकवद् उपाधित्व-साम्यात् । तस्य जीवस्य स्वरूपभूतं ज्ञानं ज्ञायतेऽनेनेति ज्ञानमन्तःकरणं, दृढीभूतोदवन् निश्चलोदकवन् मोहाहेतुत्वसाम्यात् । जीवः प्रतिबिम्बवज् ज्योतिः प्रतिबिम्बमिव उपाध्यायत्तत्वसाम्यादित्यर्थः । ननु मुक्तस्यापि बाह्योपाधिसत्त्वे कथं मोहाद्यभावः । तदसत्वे कथं प्रतिबिम्बता । उपाधिं विना तदयोगात् । स्वरूपज्ञानस्योपाधित्त्वे च जीवतत्स्वरूपज्ञानयोरभेदात्कथं प्रतिबिम्बोपाधिभाव इत्याशङ्काः क्रमेण निवारयन् मुक्तस्य बाह्योपाधिं निषेधति ॥ नित्येति ॥ नित्यान्तःकरणं चैवम् उपाधिरूपम् । तद्गतो जीवः प्रतिबिम्बश्च विशेषशक्त्या भवति यतोऽतो मुक्तस्य द्वयम् उपाधित्वप्रतिबिम्बत्वेत्युभयमेवेष्यते न संसारिण इव जडमपीष्यत इति सम्बन्धः । अभेदमात्रेण नोपाधित्वप्रतिबिम्बत्वयोरनुपपत्तिः शङ्क्या । लोके सर्वत्राप्युपाधिप्रतिबिम्बयोरभेदस्यैव दर्शनादित्याह ॥ सूर्यकान्तादिवदिति ॥ आदिपदेन दर्पणादेः परिग्रहः । सूर्यकान्ताद्युपाधेः स्वप्रतिबिम्बित-वस्त्वभिन्नत्वेऽपि भेदस्याङ्गीकारादुपाधिप्रतिबिम्बभावो न विरुद्ध्यते । एवं तस्य मुक्तस्य द्वयमपि उपाधिः प्रतिबिम्बश्चेति द्वयमपि स्वरूपम् उत तथापि भेदप्रतिनिधिविशेषबलाद्विभिन्नव्यवहारभागिति तात्पर्ययोजना द्रष्टव्या ॥ ४३ ॥
तस्मान्न कस्यचिद् द्रोहमाचरेत् स तथाविधः ।
आत्मनः क्षेममन्विच्छन् द्रोग्धुर्वै परतो भयम् ॥ ४४ ॥
पदरत्नावली
नन्वस्तु नामात्मनो जन्मादिकं कर्मनिमित्तम् । प्रकृते ततः किम् ? तत्राह तस्मादिति ॥ यत आत्मा तथाविधः कर्मफलभोक्ता तस्मात् स तादृशः कस्यचिद् द्रोहं हिंसां नाचरेत् । ततः किम् ? तत्राह आत्मन इति ॥ अनर्थं चाह द्रोग्धुरिति ॥ परतः परलोके दुःखलक्षणं भयम्, भवतीति शेषः ॥ ४४ ॥
सत्यधर्मीया
निगमयति ॥ तस्मादिति ॥ यस्मात्तथाविधो नित्योपाध्यादियुतः परोऽपि स्वयं च तथाविधस्तत्प्रकार इति । कस्यचित्प्राणिनो द्रोहमात्मनः क्षेममन्विच्छन्नाचरेत् । आचर-तश्चानर्थमाह ॥ परतो भयमिति ॥ परत उपद्रुतादत्र परत्र च नरकादिभयं च भवतीति शेषः
॥ ४४ ॥
सुमनोरञ्जिनी
उक्तार्थमुपसंहरति ॥ तस्मादिति ॥ यस्मादात्मा न हन्तुं शक्यः देहश्च नियतमृत्युस् तस्मादात्मनः स्वस्य क्षेममन्विच्छन् सन् कस्यचित्प्राणिनो द्रोहं हिंसादिलक्षणापराधं नाचरेत् । कुत इति तत्राह ॥ स इति ॥ यतः सोऽपि द्रोहविषयोऽपि तथाविध आत्मनः क्षेममन्विच्छन्नेव भवति अत इत्यर्थः । क्षेमेच्छायाः साम्यादिति भावः । यदिच्छया परद्रोहाचरणं तदपि न सिद्ध्यतीत्याह ॥ द्रोग्धुरिति ॥ आत्मक्षेमेच्छया द्रोग्धुर् द्रोहकर्तुः परतोऽन्यस्माद्भयं स्वहिंसादिलक्षणं वै निश्चितमेव । परतः परलोके दुःखलक्षणं भयं भवतीति वा । तदुक्तम् ।
तस्मान्न हन्तुं शक्योऽसौ केनचिज्जीव आत्मवान् ।
तस्मात्स्वजीवनार्थाय न परद्रोहमाचरेत् ॥ इति ।
एषा तवानुजा बाला कृपणा पुत्रिकोपमा ।
हन्तुं नार्हसि कल्याणीमिमां त्वं दीनवत्सल ॥ ४५ ॥
पदरत्नावली
प्रकृतमनुसरति एषेति ॥ ४५ ॥
सत्यधर्मीया
प्रकृतमनुसरति ॥ एषेति ॥ बहुहेतूक्तिस्तु मुक्तिर्भवेदिति मन्तव्यम् । पुत्रिकोपमा पुत्तलिका वस्त्रमयी वा तदुपमा निर्जीवप्रायेति वाऽर्थः । इतरस्तु स्फुटः ॥ ४५ ॥
सुमनोरञ्जिनी
हे दीनवत्सल दीनान् वत्समिव लाति स्वीकरोतीति तथोक्त कंस त्वं कल्याणीं मङ्गलोपेतां नूतनविवाहितामिति यावत् । इमां देवकीं हन्तुं संहर्तुं नार्हसि । कुत इत्यतस्तत्र निमित्तान्याह ॥ एषेति ॥ यत एषा तव, अनु पश्चाज्जाता भगिनीत्यर्थः । बाला द्वादशवार्षिकी । एकादशद्वादशयोस्तु बालेत्युक्तेः । अत एव कृपणा कृपापात्रा । पुत्रिकोपमा तव ज्येष्ठभ्रातृत्वेन पितुः समत्वादिति भावः ॥ ४५ ॥
श्रीशुक उवाच–
एवं स सामभिर्भेदैर्बोध्यमानोऽपि दारुणः ।
न न्यवर्तत कौरव्य पुरुषादाननुव्रतः ॥ ४६ ॥
पदरत्नावली
पुरुषादान् राक्षसान् अनुव्रतस् तत्स्वभावमापन्न इत्यर्थः ॥ ४६ ॥
सत्यधर्मीया
पुरुषादाननुव्रत इत्यनेन कामिनीकारुण्यं राक्षसानामस्तीति ध्वनितम् । वधूवधनिषेधे प्रस्तुते तदननुगुणमित्यतोऽप्याह ॥ पुरुषादाननुव्रत इति ॥ पुरुषादा अननुव्रता येन, पुरुषादैरननुव्रत इति वा । तैरपि जुगुप्सिते कर्मण्युद्युक्त इत्यानुगुण्यं ज्ञेयम् । एतत्सर्वनिर्वाहार्थं दारुण इत्युक्तम् । स कंसः सामभिर्भेदैश्च बोध्यमानो वसुदेवेनेति शेषः । भगिनीभङ्गभङ्ग्या न न्यवर्तत न निववृते । तत्र हेतुर्दारुण इति । स्वभावतः क्रूरश्चेदपि बोधकाः साधवो वर्तेरन्नित्यत आह ॥ पुरुषादाननुव्रत इति ॥ पुरुषानदन्तीति ताननुव्रतो राक्षसानुसृतेर्नापससारैवैतत्कुकर्मत इति भावः ॥ ४६ ॥
सुमनोरञ्जिनी
एवमुक्तप्रकारेण सम्बन्धादिकीर्तनेन सामभिर् दृष्टादृष्टभयोक्त्या भेदैश्च बोध्यमानोऽपि प्रकृत्यैव दारुणः स कंसः । पुरुषादान् पुरुषानदन्ति खादन्तीति राक्षसास्तान् अनुव्रतस् तत्स्वभावसदृशस्वभाव इति । हे कौरव्येति परीक्षितं प्रति शुकसम्बोधनम् । न न्यवर्तत भगिनीहननोद्योगान् न निवृत्तः । राक्षसस्वभावसदृशस्वभावत्वात्तं निर्बन्धं न त्यक्तवानिति भावः
॥ ४६ ॥
निर्बन्धं तस्य तं ज्ञात्वा विचिन्त्यानकदुन्दुभिः ।
प्राप्तकालं प्रतिव्योढुमिदं तत्रान्वपद्यत ॥ ४७ ॥
पदरत्नावली
यः शास्त्रनिषिद्धस्तं प्राप्तकालं प्रसक्तमरणं प्रतिव्योढुं प्रतिहर्तुम् इदं वक्ष्यमाणम् अन्वपद्यत उपायत्वेन निश्चिकाय ॥ ४७ ॥
दुर्घटभावदीपिका
प्राप्तकालं प्रतिव्योढुं प्रसक्तमरणं परिहर्तुमित्यर्थः । एतेन कालस्य परिहर्तुमशक्यत्वात् । कालं परिहर्तुमित्यनुपपन्नमिति चोद्यं निराकृतम् । प्राप्तशब्दस्य प्रसक्त्यर्थं, कल कामधेनुरिति वचनेन कामधेनुर्यथा सर्वार्थान् ददाति तथा कल धातुः सर्वार्थवाचीत्युक्त-त्वात्कलधातोर्मरणार्थकत्वं चाङ्गीकृत्य प्राप्तकालं प्रतिव्योढुमित्यस्य प्रसक्तमरणं परिहर्तुमित्यर्थ इत्युक्तत्वात् ॥ ४७ ॥
॥ इति श्रीभागवतटिप्पण्यां सत्याभिनवयतिकृतायां दुर्घटभावदीपिकायां
दशमस्कन्धपूर्वार्धे प्रथमोऽध्यायः ॥ १०-१ ॥
सत्यधर्मीया
यदा दुर्वृत्तोऽनिवृत्तस्तदा वसुदेवः किमचरच्चरममुपशमोपायमित्यतोऽष्टभिः स्पष्टयति श्लोकैर् निर्बन्धं तस्येत्यादिभिः । तस्य कंसस्य निर्बन्धं हननदुराग्रहं प्रतिव्योढुं तदपोहितुं विचिन्त्य किञ्चिदालोच्य प्राप्तकालमनु सङ्कटकाले युक्तमिदमन्वपद्यतालब्ध ॥ ४७ ॥
सुमनोरञ्जिनी
तस्य कंसस्य तं निर्बन्धं स्त्रीवधे आग्रहं ज्ञात्वा आनकदुन्दुभिर् वसुदेवः प्राप्तं प्रतिकूलकालं प्रतिव्योढुम् अत्येतुम् इदं वक्ष्यमाणम् अन्वपद्यत मनसा निश्चितवान् ॥ ४७ ॥
मृत्युर्बुद्धिमताऽपोह्यो यावद्बुद्धिबलोदयम् ।
यद्यसौ न निवर्तेत नापराधोऽस्ति देहिनः ॥ ४८ ॥
पदरत्नावली
यावद्बुद्धिबलोदयमित्यव्ययीभावः । यावदवधारणे इति सूत्रात् । अपराधः शास्त्रविरुद्धाचरणलक्षणः ॥ ४८ ॥
सत्यधर्मीया
यावद्बुद्धिबलोदयं बुद्धेर्यद्बलं तस्योदयो यावत्पर्यन्तं वर्तते तत्पर्यन्तं यथा भवति तथा । यावदवधारण इत्यव्ययीभावः । सैव नास्ति चेन्न तद्बलं तदुदयस्तु कपोणिगुडायित इत्यत आह ॥ बुद्धिमतेति ॥ तत्रापि मतुपा प्राशस्त्यं तस्य द्योत्यते । मृत्युरपोह्यः परिहार्योऽसौ मृत्युर्यदि न निवर्तेत देहिनः परिहृतियत्नं कुर्वतोऽपराधो वैदिकलौकिकापवादलक्षणो नास्ति । यत्ने कृते यदि न सिद्ध्यति कोऽत्र दोषः । प्रयत्नमग्रतो निधायेत्यादेः । अपरैर्हेतुभिरवान्तरैस्तन्निमित्तक-मधोऽधोगतिरपि नास्तीति वर्णयन्ति ॥ ४८ ॥
सुमनोरञ्जिनी
बुद्धिमता पुरुषेण मृत्युर् यावद्बुद्धिबलोदयम् अव्ययीभावोऽयं, स्वबुद्धिबलोद-यानुसारेणेत्यर्थः । अपोह्यः निरसनीयः । यद्यसौ मृत्युर् न निवर्तेत तदा देहिनोऽपराधः मृत्युनिरसन-प्रयत्नानाचरणलक्षणो नास्तीति योजना । अपराधः शास्त्रविरुद्धाचरणलक्षण इति पदरत्नावल्याम्
॥ ४८ ॥
प्रत्यर्प्य मृत्यवे पुत्रान् मोचये कृपणामिमाम् ।
सुता मे यदि जायेरन् मृत्युर्वा न म्रियेत चेत् ॥ ४९ ॥
पदरत्नावली
किं निश्चिकायेत्यत आह प्रत्यर्प्येति ॥ मृत्यवे मारकाय कंसाय । भार्यामृतिं प्रच्यावयितुमनेकापत्यार्पणसङ्कल्पो न प्राज्ञसम्मत इत्यत आन्तरङ्गिकी काञ्चन कालयापनचिन्तां समुचितामाह सुता इति ॥ मम सुतोत्पत्तेः प्राक् मृत्युरयं कंसो न म्रियेत चेद् यदि न मरिष्यति तदा किलापत्यार्पणमित्याशयः ॥ ४९ ॥
सत्यधर्मीया
पुत्रानेतद्गात्रजान्मृत्यवे हननाय कृपणां दयापदां प्रत्यर्प्य सङ्कल्पपूर्वमर्पणं कृत्वा मोचये । एकस्य मृतिं प्रच्यावयितुमनेकतोकसमर्पणसङ्कल्पो नाल्पमतिमत्सम्मत इत्यत आन्तरङ्गिकीं काञ्चन कालयापनचिन्तामुचितामाह ॥ सुता इति ॥ यदि मम सुता जायेरंस्तदा किल समर्पणं तन्मध्ये मृत्युरयं कंसो म्रियेत न चेत्किल दानं दानवाय ॥ ४९ ॥
सुमनोरञ्जिनी
प्राप्तमृत्युपरिहाराय कमप्युपायमपश्यदिति तदाह ॥ प्रत्यर्प्येति ॥ मृत्यवे मारकाय पुत्रान्प्रत्यर्प्य अर्पयामीति प्रतिश्रुत्य यथाश्रुते क्त्वाप्रत्ययानुपपत्तिर् एनां कृपणां मोचये । ननु अपत्यार्पणेन भार्यामोचने पुनरपत्यमृत्युव्यसनं सममेवेत्यत आह ॥ सुता इति ॥ मे सुता यदि न जायेरन् तदा मृत्युर्मारकः कंसो वा म्रियेत सुतोत्पत्तेः प्राक् म्रियेत चेत् तदा च न व्यसनम्
॥ ४९ ॥
विपर्ययो वा किं न स्याद् गतिर्धातुर्दुरत्यया ।
उपस्थितो निवर्तेत निवृत्तः पुनरापतेत् ॥ ५० ॥
पदरत्नावली
विपर्ययो वा पुत्रः कंसं वा हनिष्यतीति किं न स्यात् ? कथमेतदिति तत्राह धातुरिति ॥ धातुरीश्वरस्य गतिश्चेष्टा दुरत्यया अतिक्रान्तुमशक्या । अतः किमित्यत आह उपस्थित इति । सर्वथा तावदुपस्थितो मृत्युरस्या निवर्तेत । निवृत्तो यदि रावणादेरिव पुनरापतेत् तर्हि तदानी तथा स्यात् । इदानी तावन् मार्कण्डेयादेरिव निवृत्तः किं न स्यात् । किञ्च कस्यचिदुप-स्थितोऽपमृत्युर्निवर्तते ब्राह्मणशिशोरिव । तस्मात् ‘अस्यास्त्वामष्टमो गर्भो हन्ता’ इत्यशरीरिणी वाण्यपि न वितथा भविष्यतीत्यन्तरङ्गदार्ढ्येन बुद्धिमता वसुदेवेन गतिर्धातुर्दुरत्ययेति चिन्तितमिति मन्तव्यम् ॥ ५० ॥
सत्यधर्मीया
विपर्यय एतन्मरणं वा न स्यात्किं, न चेयतिसमये कथं कंसहिंसेत्यतः शंसति ॥ गतिरिति ॥ विपर्ययः मम सुतादेवास्य मृत्युः किं न स्यात् । तनुजस्य तनीयसः कथं कथयैतन्मथकतेति तत्राह ॥ गतिरिति ॥ धातुर्विधातुर्गतिर्दुरत्ययाऽत्येतुमशक्येति वा । यद्भावि तद्भवत्येवेति भव वसुदेव तूष्णीक इत्यत आह ॥ उपस्थित इति ॥ सद्य उपस्थितो मृत्युस् तया निवर्तेत । इदानीं निवृत्तो मृत्युस्तद्रूपोऽयं पुनर्मत्तनुजजननानन्तरं तेनैवापतेत् । अत्र गतिर्धातुर्दुर-त्ययेत्यपि योज्यम् । अस्यास्त्वामष्टमो गर्भो हन्तेत्यशरीरा गीरपि न वितथा भविष्यतीत्यन्त-रङ्गबलवानेवं वसुदेवोऽवादीदिति भावसूचकं पीठिकोक्तं बुद्धिमत्त्वमिति मन्तव्यम् ॥ ५० ॥
सुमनोरञ्जिनी
यदि सुता जायेरन् मृत्युर्न म्रियेत न मरिष्यति तदा तु विपर्ययः । मत्सुतेन कंसवधरूपः किं न स्यात् । कुत इति तत्राह ॥ धातुरिति ॥ धातुरीश्वरस्य गतिरिच्छा । मतिबुद्धीत्यादौ गतिशब्दपर्यायमतिशब्दस्य इच्छार्थत्वात् । गतिश्चेष्टेति पदरत्नावल्याम् । दुरत्यया अतिक्रान्तुमशक्या दुर्ज्ञेयेति यावत् । तदेवोपपादयति ॥ उपेति ॥ यथा धातुर्गत्या उपस्थितः प्राप्तोऽपि मृत्युर्निवर्तेत यथा सांदीपिपुत्रादीनाम् । निवृत्तोऽपि निवृत्ततया निश्चितोऽपि पुनरापतेद् यथा रावणादीनां ब्रह्मादिवरादवध्यतया निश्चितानामिति ॥ ५० ॥
अग्नेर्यथा दारुवियोगयोगयोरदृष्टतोऽन्यन्न निमित्तमस्ति ।
एवं हि जन्तोरपि दुर्विभाव्यः शरीरसंयोगवियोगहेतुः ॥ ५१ ॥
तात्पर्यम्
कुण्डादिस्थाग्नेर्दारुयोगादौ स्वतः प्रवृत्त्यभावात् । ‘यथा कुण्डस्थितस्याग्ने-र्दैवाद्दारूपसन्नमेत्१ । देहयोगो वियोगश्च तथा दैवान्न चान्यथे’ति वामने ॥ ५१ ॥
पदरत्नावली
धातुर्गतिर्दुरत्ययेत्येतत् सदृष्टान्तमुपपादयति अग्नेरिति ॥ यथाग्नेर्दावादिदहनस्य दारुवियोगयोगयोः काष्ठसंयोगवियोगयोरदृष्टतोऽदृष्टाद् हरेरन्यन्निमित्तं नास्ति । अदृष्टत इत्यादिपदानि हरिपरतया कस्माद् व्याक्रियन्त इति चेद् । उच्यते । ‘कुण्डादिस्थाग्नेर्र्दारुयोगादौ स्वतः प्रवृत्त्यभावात् । यथा कुण्डस्थितस्याग्नेर्दैवाद् दारुपसन्नमेत् । देहयोगो वियोगश्च तथा दैवान्न चान्यथा’ इति । एवं जन्तोरपि शरीरसंयोगवियोगहेतुर्हरेरन्यो दुर्विभाव्यः । तस्मादस्या हननं नोचितमिति भावः ॥ ५१ ॥
सत्यधर्मीया
अग्नेर्यथा दारुवियोगयोगयोरिति श्लोके काष्ठसंयोगवियोगावदृष्टघटिताविति प्रतीयते । न चैतद्युक्तम् । तयोर्यथायथं दृष्टसामग्रीसिद्धेरिति परिहर्तुमभीप्सितमध्याहृत्य व्याकृत्य तदप्रामाणिकत्वप्रच्युत्यै वामनपुराणवचनमुदाहरति ॥ कुण्डादिस्थेति ॥ कुण्डादिस्थो योऽग्निस्तस्य दारुयोगादौ योगवियोगादौ स्वतः योजकं विना प्रवृत्तेरभावान्मूलानुकूल्येन वियोगयोगादाविति वक्तव्ये वियोगस्तु योगानन्तरकालिक इति वाऽभावज्ञानं प्रतियोगिज्ञानाधीनमित्यभावप्रतीतिर्भावप्रतीत्यधीना नियमेनेति टीकोक्तेर्युक्तं तात्पर्ये वियोगादग्रे योगाभिधानमिति ज्ञेयम् । अत एव मूलकृदपि दार्ष्टान्तिकसादृश्योक्तिसमये शरीरसंयोगवियोगेति पुरस्कुर्वन्संयोगं स्ववचनं व्याचख्याविति भावमिमं व्याख्यानम् आचार्या आविर्भावयामासुरिति विभावनीयम् । पूर्वं तथोक्तिस्तु तयोरदृष्टघटितत्वा-विशेषादिति मन्तव्यम् । कंसनिर्बन्धानुसारेण वियोगस्य पुरस्कृतिरिति वा । यथा कुण्डस्थितस्याग्ने-स्तदादिस्थिताग्नेर्दैवाद्धरेः सकाशादेव दारुकाष्ठमुपसन्नमेत्प्रह्वं भवेत्संयुक्तं भवेदिति यावत् । अन्यथेत्याकर्षणीयम् । अन्यथा च न सन्नमेद्वियुक्तं च भवेत् । तथा देहयोगः । पुनर्देहेति योगपदेन समस्तमपि विश्लेष्य वियोगपदेनाप्यन्वेतव्यम् । देहयोगो देहवियोगश्चेति । देवाद्वासुदेवादेव । अन्यथा न च । अनेनाचेतनाग्निनिकेतनश्चेतनोऽपि प्रत्युक्तः । माने वामने देवादित्येकवारोक्तौ चारितार्थ्ये पुनर्दैवादित्युक्तिर्दैवं दिष्टमित्युक्तदैवस्याप्यस्वातन्त्र्यं द्योतयितुमिति मन्तव्यम् ॥ ततश्चायं श्लोकार्थः ॥ यथाग्नेर्दारुवियोगयोगयोः काष्ठसंयोगवियोगयोरदृष्टतोऽदृष्टादन्यन्निमित्तं हेतुरितरो नास्ति । एवं तथा सर्वजन्तूनां शरीरसंयोगवियोगहेतुर्हरेरितरो दुर्विभाव्यो दुःसाध्यविभावः । अतो भगवानेवाङ्ग-सङ्गतद्भङ्गकृदिति नाभिमानाद्भामिनीहननमुन्नहनहेतुरिति निवर्तस्वेति भावः ॥ ५१ ॥
सुमनोरञ्जिनी
इतोऽपि दुर्ज्ञेयत्वमुपपादयति ॥ अग्नेरिति ॥ यथाऽग्नेः कुण्डादिस्थाग्नेर्दारुणा वियोगो योगाभावः, योगः सम्बन्धस् तयोरदृष्टतोऽदृष्टनियामकाद्धरेरन्यन्निमित्तं नास्तीति हि निश्चितम् । अग्नेर्दार्वादेर्वा स्वतः प्रवृत्त्यभावादिति भावः । एवं जन्तोर्जीवस्य शरीरसंयोगवियोगयोर्हेतुर-दृष्टतोऽदृष्टनियामकश्रीहरेरन्यो दुर्विभाव्यो दुर्ज्ञेय इति । तदुक्तम् । कुण्डादिस्थाग्नेर्दारुयोगादौ प्रवृत्त्यभावात् । यथा कुण्डस्थितस्याग्नेर्दैवाद्दारूपसंगमेत् । देहयोगो वियोगश्च तथा दैवान्न चान्यथेति ॥ स्वतः प्रवृत्त्यभावात् प्रवृत्त्यभावस्य निश्चितत्वादित्यर्थः । कुण्डस्थिताग्निं दारु दैवादेवोपसंगमेत् समीपं प्राप्नुयात् तथेति वचनार्थः ॥ ५१ ॥
एवं विमृश्य तं पापं यावदात्मनि दर्शनम् ।
सान्त्वयामास वै शौरिर्बहुमानपुरस्सरम् ॥ ५२ ॥
पदरत्नावली
विमृश्य आलोच्य । आत्मनि यावद्दर्शनं परबोधलक्षणं ज्ञानं तावता सान्त्वयामास । स्वावगतलोकप्रसिद्धदृष्टान्तो यावांस्तावता वा ॥ ५२ ॥
सत्यधर्मीया
तं पापं पापपुरुषं विमृश्य निश्चित्य । आत्मनि स्वस्मिन्दर्शनं शास्त्रज्ञानं यावत्तावता शौरिर्बहुमानपुरःसरं राजेति बहुमानपूर्वकं यावदात्मनिदर्शनं स्वानुभूतदृष्टान्तो यावान्यावदात्मनिदर्शनं यथा तथा । बहुमानपुरःसरं प्रमाणोपन्यसनपूर्वकं वा विमृश्यालोच्येति वा सान्त्वयामास ॥ ५२ ॥
सुमनोरञ्जिनी
एवं स्वयमेव विमृश्य मनसाऽऽलोच्य तं पापं पापिनं कंसं, आत्मनि दर्शनं ज्ञानं यावत् स्वबुद्ध्यनुसारेणेति तात्पर्यम् । बहुमानपुरःसरं बहुमानपूर्वकं सांत्वयामासेति योजना
॥ ५२ ॥
प्रसन्नवदनाम्भोजो नृशंसं निरपत्रपम् ।
मनसा दूयमानेन प्रहसन्निदमब्रवीत् ॥ ५३ ॥
पदरत्नावली
प्रत्यग्रं सद्यस्कं नूतनं वदनाम्भोजं यस्य स तथा । ‘प्रत्यग्रमुक्तं सद्यस्कम्’ इति हलायुधः । दूयमानेन मनसेति अन्तस्तापं च सूचयति । प्रहसन्निति बहिःप्रसादमाह । इदं महतां लक्षणम् ॥ ५३ ॥
सत्यधर्मीया
प्रसन्नवदनाम्भोजः प्रत्यग्रवदनाम्भोज इति च पाठौ । प्रसन्नं वदनाम्भोजं यस्य सः । प्रत्यग्रं वदनमेवाम्भोजं यस्य सः । प्रत्यग्रमुक्तं सद्यस्कमिति हलायुधः । दूयमानेन तप्यमानेन मनसाऽन्तः, प्रहसन् बहिः ॥ ५३ ॥
सुमनोरञ्जिनी
प्रत्यग्रं नूतनं वदनमंभोजमिव यस्य स तथा प्रसन्नवदन इति यावद् वसुदेवः । प्रत्यग्नोऽभिनवो नव्य इत्यमरः । नृशंसं घातकम् । निर्गता अपत्रपा लज्जा यस्मात्तथाविधं कंसं प्रति दूयमानेन दुःखितेन मनसेत्यन्तस्तापं सूचयति । प्रहसन्निति बहिःप्रसादम् । इदं च महतां लक्षणमिति पदरत्नावल्याम् । इदं वक्ष्यमाणं वचनम् अब्रवीदिति योजना ॥ ५३ ॥
वसुदेव उवाच -
न ह्यस्यास्ते भयं सौम्य यद् वै त्वाऽऽहाशरीरवाक् ।
पुत्रान्समर्पयिष्येऽस्या यतस्ते भयमुत्थितम् ॥ ५४ ॥
॥ इति श्रीमद्भागवते दशमस्कन्धपूर्वार्धे प्रथमोऽध्यायः ॥
पदरत्नावली
यावद्बोधनेऽप्यसंवादिनं कंसं विज्ञाय यथा संवादी स्याद् वक्ति न ह्यस्या इति । सुमुखीकर्तुं सौम्येति सम्बोधयति । यतो देवक्याः ॥ ५४ ॥
॥ इति श्रीमन्महेन्द्रतीर्थपूज्यपादशिष्यविजयध्वजतीर्थभिक्षुकृतायां पदरत्नावल्यभिधायां श्रीमद्भागवतटीकायां दशमस्कन्धपूर्वार्धे प्रथमोऽध्यायः ॥
सत्यधर्मीया
सौम्येति सुमुखीकर्तुमुक्तिः । अशरीरिणी वाग्वाणी यद्भयमाह तदस्याः सकाशात्ते न हि यतः पुत्रेभ्यो भयमुत्थितं तान्पुत्रांस्ते समर्पयिष्ये जातं जातं पोतं घातयितुं यातयामि । अष्टमत्वं प्रातिस्विकं सम्भवदेकत्र पर्याप्तमिति हन्ताऽस्या अष्टमो गर्भ इत्युक्तावपीति पुत्रानित्युक्तिः । त इत्यावर्तते । ते त्वया ते पुत्रा अस्या निरस्याः संहार्या इति यावत् । अतोऽभयं भयाभावः सिद्ध इत्यन्वयो वा । अनेनोभयस्थाने भयशब्दस्येवास्या इति शब्दस्यापि प्रयोगेऽतिरेकयितृमूकता बोधितेति बोध्यम् ॥ ५४ ॥
॥ इति श्रीभागवतटिप्पण्यां सत्यधर्मयतिकृतायां
दशमस्कन्धपूर्वार्धे प्रथमोऽध्यायः ॥ १०-१ ॥
सुमनोरञ्जिनी
अशरीरवाक् यद्भयं त्वा त्वां प्रत्याह तद् भयम् अस्या देवक्याः सकाशान् नेति हि निश्चितं खलु । अस्याः पुत्रान् ते तुभ्यं समर्पयिष्ये । कुतः । यत इति तन्त्रम् । यतः यस्माद् येषां पुत्राणाम् अन्यतमात् ते भयमुत्थितम् अतस् तस्मादिति योजना द्रष्टव्या ॥ ५४ ॥
**॥ श्रीमद्भागवतव्याख्या (गूढकर्तृका) सुमनोरञ्जिनी **
दशमस्कन्धपूर्वार्धे प्रथमोऽध्यायः ॥ १०-१ ॥