२१ एकविंशोऽध्यायः

तस्यां विदर्भोऽजनयत् पुत्रौ नाम्ना कुशक्रथौ

॥ अथ एकविंशोऽध्यायः ॥

श्रीशुक उवाच —

तस्यां विदर्भोऽजनयत् पुत्रौ नाम्ना कुशक्रथौ ।

तृतीयं रोमपादं च वैदर्भकुलनन्दनम् ॥ १ ॥

छलारी

ज्यामघवंशं निरूपयति ॥ तस्यामिति ॥ १ ॥

रोमपादसुतो बभ्रुर्बभ्रोः कृतिरजायत ।

कुशिकस्तत्सुतस्तस्माच्चेदिश्चैद्यादयो यतः ॥ २ ॥

पदरत्नावली

यतश् चेदेः ॥ २ ॥

सत्यधर्मीया

तत्सुतः कुशिककुमारश्चेदिश्चैद्यादयः शिशुपालादयो यतश् चेदेः ॥ २ ॥

छलारी

यतश्चेदिश्चैद्यादयो दमघोषादयः ॥ २ ॥

क्रथस्य कुन्तिः पुत्रोऽभूद् बलिस्तस्याथ निर्वृतिः ।

ततो दशार्हनामाऽथ तस्य व्योमः सुतस्ततः ॥ ३ ॥

सत्यधर्मीया

तस्य कुन्तेरथ बलेस्ततो निर्वृतेस्तस्य दशार्हस्य ततो व्योमात् ॥ ३ ॥

छलारी

कुशस्य वंशाभावाद्विदर्भसुतस्य क्रथस्य वंशमाह ॥ क्रथस्येति । ततो जीमूतसम्बन्धः ॥ ३ ॥

जीमूतो विकृतिस्तस्य ततो भीमरथः सुतः ।

ततो नवरथः पुत्रो जातो दशरथस्ततः ॥ ४ ॥

पदरत्नावली

ततो दशरथात् शकुनिः ।

दुर्घटभावदीपिका

ततो भीमरथान्नवरथो नवरथनामकः पुत्रो जातः । ततो नवरथाद्दशरथो जातः । दशरथाच्छकुनिर्जातः । शकुनेः कराम्भिः पुत्रो जातः । देवरातस्तदात्मजस्तस्य करम्भेरात्मज इति । एतेन करम्भिः शकुनेः पुत्र इत्येतदसङ्गतमिति दूषणं परास्तम् । दशरथ इत्येतस्यार्थवशात्पञ्चम्यन्ततया विपरिणामेन शकुनेरित्यस्यार्थवशात्प्रथमान्ततया विपरिणामेन शकुनेर्दशरथपुत्रत्वमुक्त्वा करम्भेः शकुनिपुत्रत्वमुच्यत इत्यभ्युपगमात् ॥ ४,५ ॥

सत्यधर्मीया

तस्य जीमूतस्य तस्य विकृतेस्ततो भीमरथात् ततो नवरथाद् दशरथोऽयमितरो रामतातात् ॥ ४ ॥

छलारी

शकुनिः पुत्र इति ज्ञेयम् । शकुनेः करम्भिरित्यनुवादात् ॥ ४ ॥

करम्भिः शकुनेः पुत्रो देवरातस्तदात्मजः ।

देवक्षत्रस्ततस्तस्य मधुः कुरुवशादनुः ॥ ५ ॥

पदरत्नावली

शकुनेः करम्भिः पुत्रः ॥ ४-५ ॥

सत्यधर्मीया

ततो दशरथात् शकुनिः, शकुनेः करम्भिः करम्भिजस्ततो देवरातात् तस्य देवक्षत्रस्य ततो मधोस्ततः ककुरस्य ॥ ५ ॥

छलारी

तदात्मजः करम्भिसुतो मधोः कुरुवंशस्तत इति ज्ञातव्यम् । कुरुवंश इत्यनुवादात् ॥ ५ ॥

पुरुहोत्रस्त्वनोः पुत्रस्तस्यायुः सात्वतस्ततः ।

भजमानो भजिर्दिव्यो वृष्णिर्देवावृधोऽन्धकः ॥ ६ ॥

सत्यधर्मीया

अनोरित्यनुवादादनुः सूनुस्तस्य पुरुहोत्रस्य, तत आयोस्तस्य सात्वतस्य भजमानादयो महाभोजान्ताः ॥ ६ ॥

छलारी

सात्वतस्य पुत्रानाह ॥ भजमान इति ॥ ॥६॥

सात्वतस्य सुताः सप्त महाभोजश्च मारिष ।

भजमानस्य निम्लोचिः किङ्किणो धृष्टिरेव च ॥ ७ ॥

दुर्घटभावदीपिका

धृष्टिरेव चेत्यस्य धृष्टिविशिष्ट एवेत्यर्थः । एतेनैवेत्येतव्द्यर्थमिति दूषणं परास्तम् । तुशब्दार्थकस्य चशब्दविशिष्टत्ववाचित्वमभ्युपगम्य धृष्टिविशिष्ट एवेति धृष्टेः सावधारणं विशिष्टत्वमुच्यत इत्यूरिकरणात् ॥ ७ ॥

सत्यधर्मीया

सप्त मारिषेति गतम् ॥ ७ ॥

छलारी

महाभोजश्चेत्येवं सप्त । मारिष हे आर्य । सात्वतस्य ज्येष्ठपुत्रस्य भजमानस्य पुत्रानाह भजमानस्येति ॥ ७ ॥

एकस्यामात्मजाः पत्न््नयामन्यस्यां च त्रयः सुताः ।

**शताजिच्च सहस्राजिदयुताजिदिति प्रभो ॥ **

बभ्रुर्देवावृधसुतस्तयोः श्लोकं पठन्त्यमुम् ॥ ८ ॥

पदरत्नावली

तयोः पितापुत्रयोर्विषये ॥ ९ ॥

सत्यधर्मीया

एकस्यां भार्यायामन्यस्यां च त्रय एवं षट् । नामाह ॥ शताजिच्चेति ॥ तयोः पितापुत्रयोर्विषयेऽमुं वक्ष्यमाणं श्लोकं पठन्ति । श्लोकमित्येकवचनं द्विवचनार्थे । तयोस्तस्य तस्यामुं श्लोकं श्लोकमिति प्रातिस्विकमन्वयने तद्विकसम्पत्तिर्वा । मूले श्लोकमित्येकवचनं श्लोकद्वयाखण्डान्वयमूलकमिति ज्ञेयम् ॥ ८ ॥

छलारी

एकस्यां पत्न्यां निम्लोचिः । आत्मज इत्यनुषङ्गः । अन्यस्यां पत्न्यां शताजिदित्यादयस्त्रय सुताः ॥ ८ ॥

यथैव श्रृणुमो दूरात् सम्पश्यामस्तथाऽन्तिकात् ।

बभ्रुः श्रेष्ठो मनुष्याणां देवैर्देवावृधः समः ॥ ९ ॥

पदरत्नावली

बभ्रुर् मनुष्याणां मध्ये श्रेष्ठो देवावृधो देवैः समः । तस्माद् देवावृधो बभ्रोः सकाशाच्छेष्ठ इति यावत् ॥ १० ॥

सत्यधर्मीया

दूराद्यथैव येन प्रकारेण ृणुमोऽन्तिकात्समीपेऽपि तथैव पश्यामः । लोके दूरतोऽधिकं श्रूयते समीपेऽल्पीयो दृश्यते न तथाऽपि तु श्रवणदर्शनयोः समानमानविषयकतेति भावः । बभ्रुः पुत्रो मनुष्याणां मध्ये श्रेष्ठो देवावृधः पिता देवैः समो बभ्रोर्देवावृधादपीति पितापुत्राभ्याम् ॥ ९ ॥

छलारी

सात्वतस्य पञ्चमपुत्रस्य देवावृधस्य वंशमाह ॥ बभ्रुरिति ॥ तयोर्बभ्रुदेवावृधयोर्माहा-त्म्यप्रतिपादकश्लोक इत्यर्थः । श्रुणुमः । तयोर्माहात्म्यमिति शेषः । अथ देवावृधो बभ्रोः सकाशाच्छ्रेष्ठ इत्यर्थः ॥ ९ ॥

पुरुषाः पञ्चषष्टिश्च षट्सहस्त्राणि चाष्ट च ।

येऽमृतत्वमनुप्राप्ता बभ्रोर्देवावृधादपि ॥ १० ॥

सत्यधर्मीया

ये पञ्चषष्टिस्तथाऽष्ट च । षट्सहस्रोपरि त्रिसप्ततिसङ्ख्याः पुरुषास्ते । तदुभयोपदेशतोऽमृतत्वं मुक्तिमनुप्राप्ताः ॥ १० ॥

छलारी

ये पञ्चषष्ठ्यादिसङ्ख्यावच्छिन्नाः । बहव इति यावत् । पुरुषा वंशे बभ्रोः । देवावृधादपि तत्त्वोपदेशं प्राप्तास्ते सर्वेऽप्यमृतत्वं मोक्षं प्राप्ताः ॥ १० ॥

महाभोजोऽतिधर्मात्मा भोजा आसन् तदन्वये ॥ ११ ॥

पदरत्नावली

महाभोजोऽतिधर्मात्मा भोजा आसन् तदन्वये ॥ ११ ॥

सत्यधर्मीया

महाभोजवंशजानाह । तदन्वये भोजास्तन्नामान आसन्नभवन्निति ॥ ११ ॥

छलारी

महाभोजः सात्वतस्य सप्तमपुत्रः । भोजास्तदन्वये जाताः ॥ ११ ॥

वृष्णेः सुमित्रः पुत्रोऽभूद् युधाजिच्च परन्तप ।

शिनिस्तस्यानमित्रश्च निम्नोऽभूदनमित्रतः ॥ १२ ॥

सत्यधर्मीया

सुमित्रो युधाजिच्चेति द्वौ । तस्य सुमित्रस्य । तस्य शिनेः ॥ १२ ॥

छलारी

सात्वतपुत्रस्य वृष्णेर्युधाजिच्च पुत्रोऽभवद् वृष्णिसुमित्रावित्यर्थः । तस्य युधाजितः(?) शिनिरनामित्रश्चेति पुत्रौ ॥ १२ ॥

सत्राजितः प्रसेनश्च निम्नस्याप्यासतुः सुतौ ।

अनमित्रसुतो योऽन्यः शिनिस्तस्य च सत्यकः ॥ १३ ॥

सत्यधर्मीया

सत्राजितो ऽकारान्तः । प्रसेनश्चेति द्वौ निम्नस्य सुतावासतुः । अनमित्रस्य सुतोऽन्यः शिनिः सुमित्रपुत्रशिनेरन्यस् तस्य शिनेः सत्यकोऽपत्यम् ॥ १३ ॥

छलारी

योऽन्यः पूर्वोक्तान् निम्नादिति शेषः ॥ १३ ॥

युयुधानः सात्यकिर्वै जयस्तस्य कुणिस्ततः ।

युगन्धरोऽनमित्रस्य पृश्निः पुत्रोऽपरस्ततः ॥ १४ ॥

पदरत्नावली

नाम्ना युयुधानः, सात्यकिरिति गुणनाम । अनमित्रस्य पृश्निरपरः पुत्रः । अनेनानमित्रस्य निम्नः शिनिः पृश्निश्चेति त्रयः पुत्रा आसन्नित्युक्तं भवति ॥ १४ ॥

सत्यधर्मीया

तस्य सात्यकिः सत्यकस्यापत्यम् । त्रियन्तो (?) युयुधान इति रूढं नामान्तरम् । तस्य सात्यकेर्जयस्ततो जयाद् युगन्धरोऽनमित्रस्य पृश्निरपरः पुत्रः ॥ १४ ॥

छलारी

युयुधानः सत्यकपुत्रस्तस्य युयुधानस्य जयो जयस्य कुणिस्तन्नामकः । कुणेर्युगन्धरोऽनमित्रस्यैवापरः पृश्निर्नामपुत्रो ऽनेनानमित्रस्य निम्नः शिनिः प्रश्निश्चेति त्रयः पुत्रा आसन्नित्युक्तं भवति ॥ १४ ॥

श्वफल्कश्चित्ररथश्चैव गान्दिन्यां तु श्वफल्कतः ।

अक्रूरप्रमुखा आसन् पुत्रा द्वादश विश्रुताः ॥ १५ ॥

पदरत्नावली

अक्रूरः प्रमुखो येषां द्वादशपुत्राणामित्यतद्गुणसंविज्ञानबहुव्रीहिः ॥ १५ ॥

सत्यधर्मीया

ततः पृश्नेः श्वफल्कश्चित्ररथश्चेति द्वौ । तत्र श्वफल्कतो गान्दिन्यां तन्नाम््नयाम् । एतेन साऽपि सुकृतवतीति ध्वन्यते । अक्रूरः प्रमुखं प्रमुख एव येषां ते तथा । अतद्गुणसंविज्ञानबहुव्रीहिमाश्रित्याक्रूरमन्यमन्यांश्च द्वादशसङ्ख्यानाहुः ॥ १५ ॥

छलारी

ततः पृश्नेः सकाशात् श्वफल्कश्चित्ररथश्चेति द्वौ पुत्रौ बभूवुतुः । अक्रूरप्रमुखः प्रधानो येषां द्वादशपुत्राणामिति । अतद्गुणसंविज्ञानो बहुव्रीहिः । तथाऽक्रूरादन्ये वक्ष्यमाणाश्च द्वादशपुत्राश्च श्वफल्किनो गान्दिन्यां तन्नामिकायां जाता इत्यर्थः ॥ १५ ॥

आसङ्गः सारमेयश्च मृदुरो मृदुवद्गिरिः ।

धर्मो विधृष्टकर्मा च क्षेत्रोपेक्षोऽरिमर्दनः ॥ १६ ॥

शत्रुघ्नो गन्धमोदाह्वः प्रतिबाहुश्च द्वादश ।

तेषां स्वसा सुचाराख्या द्वावक्रूरसुतावपि ॥ १७ ॥

सत्यधर्मीया

मृदुवद्गिरिमेके चारिमर्दन इति सर्वविशेषणं वाऽङ्गीकृत्य द्वादशतायास्तद्गुणबहुव्रीहिणा निर्वाह इति वदन्ति । तन्नामान्याह ॥ आसङ्ग इत्यादिना ॥ १६,१७ ॥

छलारी

अक्रूरव्यतिरिक्ताद् द्वादशान्दर्शयति ॥ आसङ्ग इति ॥ आसङ्गादिप्रतिबाह्वान्ता द्वादशपुत्राः । उपदेवश्चेति । द्वावितः पूर्वेणान्वयः ॥ १६,१७ ॥

देववानुपदेवश्च तथा चित्ररथात्मजाः ।

पृथुर्विपृथुनामाद्या बहवो वृष्णिनन्दनाः ॥ १८ ॥

पदरत्नावली

श्वफल्कानुजस्य चित्ररथस्य वंशमाह– तथेति ॥ वृष्णिनन्दनाः पूर्वोक्ता एते सर्वे सात्वतपुत्रवृष्णिकुलनन्दनाः ॥ १८ ॥

सत्यधर्मीया

तन्नामनी आह ॥ देववानिति ॥ चित्ररथस्य श्वफल्कभ्रातुः ॥ १८ ॥

छलारी

श्वफल्कानुजस्य चित्ररथस्य वंशमाह ॥ तथेति ॥ विपृथुनामाद्या अन्ये बहवश्चित्ररथात्मजा इत्यन्वयः । वृष्णिनन्दनाः पूर्वोक्ता एते सर्वे सात्वतपुत्रवृष्णिकुलनन्दनाः ॥१८॥

कुकुरो भजमानश्च शुचिः कम्बलबर्हिषः ।

कुकुरस्य सुतो धृष्णुर्विलोमा तनयस्ततः ॥ १९ ॥

पदरत्नावली

अथ सात्वतपुत्रस्यान्धकस्य वंशमाह– कुक्कुर इति । कुक्कुरादयश्चत्वारोऽन्धकसुता इति बोध्यम् । तदुक्तं हरिवंशे ‘अन्धकात् काश्यदुहिता चतुरोऽलभतात्मजान् । कुकुरं भजमानं च शुचिं कम्बलबर्हिषम्’ इति ॥ १९ ॥

सत्यधर्मीया

कुकुराद्यास्ततो धृष्णेर्विलोमा तनयः ॥ १९ ॥

छलारी

अथ सात्वतपुत्रस्यान्धकस्य वंशमाह ॥ कुक्कुर इति ॥ कुक्कुरादयश्चत्वारो अन्धकस्य सुता इति ज्ञेयम् ॥ तथा चोक्तं विष्णुपुराणे । कक्कुरो भजमानः शुचिकम्बलबर्हिषास्तस्थाऽन्धकपुत्रा इति । वन्हिर्वह्निनामा । तत इत्यस्योत्तरत्रापि सम्बन्धः ॥ १९ ॥

कपोतरोमा तस्यानुः सखा यस्य च तुम्बुरुः ।

अनोश्च दुन्दुभिस्तस्य दरिद्योतः पुनर्वसुः ॥ २० ॥

सत्यधर्मीया

तस्य विलोम्नः । तस्य कपोतरोम्णो, यस्यानोः सखा तुम्बुरुर्देवगन्धर्वस्तस्यान्धकोऽन्धकाद्दुन्दुभिरिति मध्येऽन्धको ज्ञेयः । यथोदाजहार पराशरः । कुकुरभजमानशुचिकम्बलबर्हिषस्तथाऽन्धकस्य पुत्रा इति । दुन्दुभेर्दरिद्योतस्तस्मात्पुनर्वसुः ॥ २० ॥

छलारी

अनुरनुनामको यस्यानोः पुत्रो दुन्दुभिर्दरिद्योतः । तस्येत्यस्यावृत्तिः । तस्य दरिद्योतस्य ॥ २० ॥

तस्याहुकश्चाहुकी च कन्या द्वावाहुकात्मजौ ।

देवकश्चोग्रसेनश्च चत्वारो देवकात्मजाः ॥ २१ ॥

सत्यधर्मीया

तस्य पुनर्वसोः । आहुकात्मजौ द्वौ तावाह ॥ देवकश्चोग्रसेनश्चेति ॥ २१ ॥

छलारी

पुनर्वसोराहुकः पुत्र आहुकीनामकन्या चेत्यपत्यद्वयम् । देवकश्चोग्रसेनश्चेति द्वावाहुकजाविति सम्बन्धः ॥ २१ ॥

देववानुपदेवश्च सुदेवो देववर्धनः ।

तेषां स्वसारः सप्तासन् धृतदेवादयो नृप ॥ २२ ॥

सत्यधर्मीया

तेषां देववदादीनाम् । धृतदेवा आदिर्यासां ताः ॥ २२ ॥

छलारी

तानेवाह ॥ देववानिति ॥ शान्तिदेव आदिर्यासां देवताः सप्त ॥ २२ ॥

शान्तिदेवोपदेवा च श्रीदेवा देवरक्षिता ।

सहदेवा देवकी च वसुदेव उवाह ताः ॥ २३ ॥

सत्यधर्मीया

ताः सप्तापि ॥ २३ ॥

छलारी

तासां नामान्याह ॥ शान्तिदेवेति ॥ वासुदेवस्योत्पत्तिमनुपदमेव वक्ष्यति ॥ २३ ॥

कंसः सुनामा न्यग्रोधः कङ्कः शङ्कुः सुभूस्तथा ।

राष्ट्रपालोऽब्दसृष्टिश्च तृष्टिमानौग्रसेनयः ॥ २४ ॥

पदरत्नावली

उग्रसेनवंशमाह- कंस इति ॥ औग्रसेनय उग्रसेनपुत्राः ॥ २४ ॥

सत्यधर्मीया

कंसादयस्तुष्टिमदन्ता औग्रसेनय उग्रसेनपुत्राः ॥ २४ ॥

छलारी

उग्रसेनस्य वंशमाह ॥ कंस इति ॥ औग्रसेनय उग्रसेनपुत्राः ॥ २४ ॥

कंसा कंसवती कङ्का सुरभू राष्ट्रपालिका ।

औग्रसेना दुहितरो वसुदेवानुजस्त्रियः ॥ २५ ॥

पदरत्नावली

वसुदेवानुजानां देवभागादीनां स्त्रियो भार्याः ॥ २५ ॥

सत्यधर्मीया

कंसा योषिदाद्या राष्ट्रपालिकान्ता औग्रसेना उग्रसेनस्येमाः । णप्रत्ययस्ततो न ङीप् । वसुदेवानुजानां वक्ष्यमाणानां देवभागादीनाम् ॥ २५ ॥

छलारी

वसुदेवस्यानुजानां देवभगादीनां स्त्रियो भार्या वसुदेवानुजश्चोत्तरत्र कथ्यन्ते ॥ २५ ॥

शूरो विदूरथादासीद् भजमानसुतात् ततः ।

शिनिस्तस्मात् स्वयम्भोजो हृदिकस्तत्सुतो मतः ॥ २६ ॥

पदरत्नावली

भजमानसुताद् विदूरथाच्छूर आसीदित्यन्वयः ॥ २६ ॥

सत्यधर्मीया

भजमानसुताद्विदूरथात् शूरो वसुदेवपितुरन्य आसीत् । ततः शूरात् शिनिरन्यस्तस्माच्छिनेस्तत्सुतो भोजसुतः ॥ २६ ॥

छलारी

कुकुरस्य वंशमुक्त्वाऽन्धकस्य भजमानस्य वंशमाह ॥ शूर इति ॥ भजमानसुताद्विदूरथाच्छूर आसीदिति ज्ञेयम् । अयं शूरो वसुदेवपितुर् अन्य इति ज्ञेयम् । ततः शूराच्छिनिः॥२६॥

देवबाहुः शतधनुः कृतवर्मेति तत्सुताः ।

दैवमीढस्य शूरस्य मारिषा नाम पत्न््नयभूत् ॥ २७ ॥

पदरत्नावली

तस्य हृदिकस्य सुताः । देवमीठोऽपि हृदिकसुतः ॥ २७ ॥

सत्यधर्मीया

तत्सुता हृदिकसुताः । दैवमीढस्य देवमीढसुतस्य शूरस्य मारीषा पत्नी अभून्नामेत्यन्वयः ॥ २७ ॥

छलारी

देवबाहुः शतधनुः कृतवर्मा देवमीढश्चेति तत्सुता हृदिकसुताश्चत्वार इति ज्ञातव्यम् । दैवमीढस्य शूरस्येत्युत्तरत्रानुवादात् । पुराणान्तरे तथोक्तेश्च । दैवमीढस्य देवमीढपुत्रस्य शूरस्य सः शूरः ॥ २७ ॥

तस्यां सञ्जनयामास दशपुत्रानकल्मषान् ।

वसुदेवं देवभागं देवश्रवसमानकम् ॥ २८ ॥

सत्यधर्मीया

तस्यां मारीषायाम् ॥ २८ ॥

छलारी

तस्यां मारिषायाम् । शूरपुत्राणां नामान्याह ॥ वसुदेवमिति ॥ २८ ॥

सृञ्जयं श्यामकं कङ्कमनीकं वत्सकं वृकम् ।

देवदुन्दुभयो नेदुरानका यस्य जन्मनि ॥ २९ ॥

सत्यधर्मीया

वसुदेवाद्या वृकान्ता देवेतिः । दुन्दुभिपदसमस्तं योग्यतयाऽऽनकपदेनाप्यन्वेति । देवदुन्दुभयो देवानकाश्च पटहाश्च यस्य जन्मनि तत्समये नेदुः ॥ २९ ॥

छलारी

वसुदेवस्य नामान्तरमस्तीत्याह ॥ देवेति ॥ आनकाश्च नेदुः ॥ २९ ॥

वसुदेवं हरेः स्थानं वदन्त्यानकदुन्दुभिम् ।

पृथा च श्रुतदेवा च श्रुतकीर्तिः श्रुतश्रवाः ॥ ३० ॥

पदरत्नावली

यस्य वसुदेवस्य जन्मनि जननसमये देवदुन्दुभयो देवानकाः पटहाश्च नेदुरित्यतो वसुदेवस्य नामान्तरमस्तीत्याह- वसुदेवमिति ॥ स्थानमवतारस्य ॥ २९-३० ॥

सत्यधर्मीया

स्थानं प्रादुर्भावस्य ॥ ३० ॥

छलारी

कृष्णावतारस्य स्थानं स्थानभूतं वसुदेवमानकन्दुदुभिमिति वदन्ति । पृथा चेयमेव कुन्ती ॥ ३० ॥

राजाधिदेवी चैतेषां भगिन्यः पञ्चकन्यकाः ।

कुन्तेः सख्युः पिता शूरो ह्यपुत्रस्य पृथामदात् ॥ ३१ ॥

पदरत्नावली

एतेषां वसुदेवादीनाम् । पृथायाः पिता शूरो स्वसख्युरपुत्रस्य कुन्तेः कुन्तिभोजस्य पृथां पालनायादात् । पश्चात् सा कुन्तीति विख्याता ॥ ३१ ॥

सत्यधर्मीया

एतेषां वसुदेवादीनां सख्युः स्वस्य शूरः कुन्तेरपुत्रस्य पृथां पालनायादात् ॥ ३१ ॥

छलारी

एतेषां वसुदेवादीनाम् । पृथायाः कन्यकावस्थायाः कर्णोत्पत्तिप्रकारमाह ॥ कुन्तेरिति ॥ पृथायाः पिता शूरः स्वसख्युरपुत्रस्य कुन्तेः कुन्तिभोजस्य पृथामदादित्यन्वयः ॥ ३१ ॥

सा च दुर्वाससो विद्यां देवहूतिं प्रतोषितात् ।

तस्या वीर्यपरीक्षार्थमाजुहाव रविं शुचिः ॥ ३२ ॥

पदरत्नावली

देवा आहूयन्तेऽनयेति देवहूती देवाह्वानकरीत्यर्थः । तां विद्यां दुर्वाससः, अलभतेति शेषः । तस्या विद्यायाः । शुचिः स्नानादिना ॥ ३२ ॥

सत्यधर्मीया

सा पृथा प्रतोषितात्परिचर्यया दूर्वाससः । देवहूतिं देवा हूयन्तेऽनयेति देवहूती ताम् । देवताह्वानेन तदागमनहेतुं विद्यां लब्ध्वेति शेषः । साऽपेति पाठे न श्रमः । तस्या विद्यायाः शुचिः स्नानादिना परीक्षार्थं रविमाजुहाव ॥ ३२ ॥

छलारी

देवा आहूयन्तेऽनयेति देवहूती देवाह्वानकारीत्यर्थः । तां विद्यां दुर्वाससः । लेभे इति शेषः । तस्या विद्यायाः शुचिर्ऋतुस्त्राता ॥ ३२ ॥

तदैवोपागतं देवं वीक्ष्य विस्मितमानसा ।

प्रत्ययार्थं प्रयुक्ता मे याहि देव क्षमस्व मे ॥ ३३ ॥

पदरत्नावली

भो देव प्रत्ययार्थं विश्वासार्थं मे मया प्रयुक्ता विद्या । याहि स्वलोकम् । मे मां क्षमस्व । जनापवादतो मां पाहीति ॥ ३३ ॥

सत्यधर्मीया

तदैव मन्त्रमात्रोच्चारणसमय एवोपागतं देवं सवितारं वीक्ष्य विस्मितमानसा सती भो देव रवे मे मया प्रत्ययार्थं विद्या प्रयुक्ता । एतमपराधं क्षमस्व । याहि स्वलोकम् । प्रत्ययार्थं प्रयुक्तायां विद्यायां माहात्म्यस्येदमकरणं क्षमस्व मां जनापवादतः पाहीति वा ॥ ३३ ॥

छलारी

मे मया प्रत्ययार्थं मन्त्रपरीक्षार्थं विद्या प्रयुक्ता । भो देव । त्वं क्षमस्व स्वस्थानमेहीत्यर्थः ॥ ३३ ॥

अमोघं देवसंदर्शमाधास्ये त्वयि चात्मजम् ।

योनिर्यथा न दुष्येत कर्ताऽहं ते सुमध्यमे ॥ ३४ ॥

पदरत्नावली

कुन्तीचिन्तां शमयन् रविरेवमाह- अमोघमिति ॥ देवसंदर्शनममोघ फलानाधायकं न भवेदिति, जानीहीति शेषः । स्वकर्तव्यमाह- आधास्य इति ॥ लोकापवादः स्यादिति मा भैषीरिति समाधते .-योनिरिति । यथा न दुष्येत पुरुषसंसृष्टा न भवेत् तथाऽहं कति ॥ ३४ ॥

सत्यधर्मीया

कुन्तीचिन्तां शमयन् रविराह ॥ अमोघमिति ॥ देवस्य मम सन्दर्शो दर्शनं येन तन्मदागमनममोघं न वृथा फलानाधायकं न भवेत् । अतस्त्वय्यात्मजमाधस्ये । न वद कनीयसीति समाधत्ते ॥ योनिरिति ॥ न दुष्येत दुष्येद्यथा तथा कर्ता पुरुषसंसर्गो न भवेत्तथाऽहं कर्तेति रविराबभाषे ॥ ३४ ॥

छलारी

अतो याहीत्युक्तो रविः कुन्तीमाह ॥ अमोघमिति ॥ देवसन्दर्शं देवसंस्पर्शनम् । अमोघम् । सफलमिति शेषः । मैथुनयोग्यतारुण्यादर्शनाच्छिन्नयोनिर्दुष्टा स्यामिति पृथाया मनोगतशंकापरिहारार्थमाह ॥ योनिरिति ॥ कन्याऽहमिति चेत्तत्राह । यथा योनिर्न दुष्येत तथाऽहं कर्ता करिष्यामीति ॥ ३४ ॥

इति तस्यां समाधाय गर्भं सूर्यो दिवं गतः ।

सद्यः कुमारः संजज्ञे द्वितीय इव भास्करः ॥ ३५ ॥

सत्यधर्मीया

इति तां समाधाय समाहितां कृत्वा तस्यां गर्भं च समाधाय सूर्यो दिवं स्वस्थानं गतः । द्वितीयो भास्कर इव सद्यः कुमारः सञ्जज्ञे जातः ॥ ३५ ॥

छलारी

इति समाधाय समाधानं कृत्वा गर्भं समाधाय निधाय ॥ ३५ ॥

तं साऽत्यजन्नदीतोये कृच्छ्राल्लोकस्य बिभ्यती ।

प्रपितामहस्तामुवाह पाण्डुर्वै सत्यविक्रमः ॥ ३६ ॥

पदरत्नावली

तव प्रपितामहः पाण्डुः ॥ ३६ ॥

सत्यधर्मीया

लोकस्य कृत्स्नात्तदपवादभाविकष्टाद्बिभ्यती भीता नदीतोये मञ्जूषायां निधाय तत्याज । प्रपितामहस्तव ॥ ३६ ॥

छलारी

कृच्छ्रादत्यजदित्यनुषङ्गः । तव प्रपितामहः पाण्डुः ॥ ३६ ॥

श्रुतदेवां तु कारूशो वृद्धशर्मा समग्रहीत् ।

यस्यामभूद् दन्तवक्र ऋषिशप्तो दितेः सुतः ॥ ३७ ॥

पदरत्नावली

वसुदेवभगिनीनां श्रुतदेवादीनां विवाहं पुत्रांश्च कथयति- श्रुतदेवामित्यादिना । यस्यां श्रुतदेवायाम् । ऋषिशप्तः सनकादिभिः शप्तो विजयो स एव दितेः । सुतो हिरण्यकशिपुर्जातः, स एवाधुना दन्तवक्र इत्यभूदिति भावः ॥ ३७ ॥

सत्यधर्मीया

कारुषस्तद्देशेशो वृद्धशर्मा श्रुतदेवां समग्रहीत् । यस्यां श्रुतदेवायामृषिशप्तः जयः स एव दितेः सुतो हिरण्यकशिपुर्जातः । स एव दन्तवक्र इत्यभूदित्यर्थः । दितेः सुत इत्यत्र षष्ठ्या आक्रोश इत्यलुग्वा ॥ ३७ ॥

छलारी

वसुदेवभगिनीनां विवाहं पुत्रांश्च कथयति ॥ श्रुतदेवामित्यादिना ॥ कारुषः करूशदेशाधिपतिर्वृद्धशर्मा नामतः । स पूर्वं किमित्यत आह ॥ ऋषिशप्त इति ॥ प्राक् सनकादिभिः शप्तो विजयो दितेः सुतः । स तु हिरण्यकशिपुरभूत् । स एवाधुना दन्तवक्त्र इति जात इति ज्ञातव्यम् ॥ ३७ ॥

कैकेयो धृष्टकेतुश्च श्रुतकीर्तिमविन्दत ।

सन्तर्दनादयस्तस्याः पञ्चासुः कैकयाः सुताः ॥ ३८ ॥

पदरत्नावली

नाम्ना घृष्टकेतुः । केकयदेशाधिपतित्वात् केकय इति । चशब्दः पूर्वेण समुच्चीयते ॥ ३८ ॥

सत्यधर्मीया

कैकेयो देशः नाम्ना । नाम्ना च धृष्टकेतुः श्रुतकीर्तिं भार्यामविन्दत, सन्तर्दनादयः सुताः पञ्चासुः ॥ ३८ ॥

छलारी

कैकेयः कैकेयदेशाधिपतिर्नाम्ना धृष्टकेतुः । कैकेयदेशाधिपतित्वात्तत्सुता अपि कैकेयनामानः ॥ ३८ ॥

राजाधिदेव्यामावन्त्यौ जयत्सेनोऽजनिष्ट ह ।

दमघोषश्चेदिराजः श्रुतश्रवसमग्रहीत् ॥ ३९ ॥

पदरत्नावली

आवन्त्यौ अवन्तिदेशभवौ विन्दानुविन्दौ । अजनिष्ट जनयामास ॥ ३९ ॥

सत्यधर्मीया

आवन्त्यौ अवन्तिदेशभवौ । जयत्सेनो नाम्नाऽजनिष्ट जनयामास । चेदिराजो दमघोषः श्रुतः श्रवसं भार्यात्वे ॥ ३९ ॥

छलारी

जयत्सेनोऽवन्त्यौ विन्दानुविन्दावजनिष्ट जनयामास । समग्रहीत् पाणिग्रहणं चकार ॥ ३९ ॥

शिशुपालः सुतस्तस्याः कथितस्तस्य सम्भवः ।

देवभागस्य कंसायां चित्रकेतुबृहद्बलौ ॥ ४० ॥

पदरत्नावली

वसुदेवभ्रातृणां वंशं कथयति- देवभागस्येत्यादिना ॥ ४० ॥

सत्यधर्मीया

तस्य शिशुपालस्य सम्भवो जन्म । तद्भ्रातॄणां पत्नीः पुत्रांश्चाह ॥ देवभागस्येति ॥ कंसायां कंससहोदर्यां चित्रकेतुबृहद्बलौ जातौ ॥ ४० ॥

छलारी

अयं पूर्वं क इत्यत आह ॥ कथित इति ॥ तस्य शिशुपालस्य सम्भवः । दितेः सकाशादिति शेषः । द्वारपालो जयो ऋषिशापाद्धिरण्याक्षनामकः सन् विजयवद्दितेः सुतोऽभवदित्यस्योत्पत्तिप्रकारः पूर्वं कथित इत्यर्थः । तदेव वसुदेवस्य भगिन्यास्तत्पुत्रींश्चोक्त्वा तद्भ्रातॄणां पत्नीपुत्रांश्च कथयति ॥ देवभागस्येत्यादिना ॥ देवभागस्य सकाशाच्चित्रकेतुर्बुहद्बलौ । जाताविति शेषः ॥ ४० ॥

कंसवत्यां देवश्रवसः सुवीर इषुमांस्तथा ।

कङ्कायामानकाज्जातः सत्यजित् पुरुजित् तथा ॥ ४१ ॥

पदरत्नावली

देवश्रवसो वसुदेवभ्रातुः ॥ ४१ ॥

दुर्घटभावदीपिका

कथितस्तस्य सम्भव इत्यस्य शिशुपालस्य सम्भवः सम्भवनिमित्तं सनकादिशापादेकं कथितः कथितमित्यर्थः । एतेन कथितस्य सम्भव इत्येतद्व्यर्थमिति दूषणं परास्तम् । भगवद्द्वारपालस्य जयस्य कथमासुरजन्मेति शङ्कापरिहारार्थं कथितस्य सम्भव इत्यनेनासुरजन्मनिमित्तं सनकादिशापादिकमुच्यत इत्यभ्युपगमात् ॥ ४१ ॥

इति श्रीभागवतटिप्पण्यामेकोनविंशोऽध्यायः ॥ ९-२१ ॥

इति श्रीमद्श्रुतपदवाक्यप्रमाणव्याख्यातॄणामभिनवचन्द्रिकाऽभिनवतांडवाभिनवगदाऽभिनवामृतादि बहुग्रन्थकर्तॄणां जगत्पूज्यपादुकानां श्रीसत्यनाथश्रीपादानं शिष्येण सत्यभिनवयतिना भागवतटिप्पणं त्वया कारयिष्यामीति तदीयामोघसङ्कल्पमात्रमवलम्ब्य कृतायां श्रीमद्भागवतटिप्पण्यां दुर्घटभावदीपिकायां नवमः स्कन्धः समाप्तः ॥ ९ ॥

सत्यधर्मीया

देवश्रवसो वसुदेवभ्रातुः सुवीर इषुमांश्चेति द्वौ । जात इति पृथक् पृथगन्वेति ॥ ४१ ॥

छलारी

देवश्रवसः सकाशात् ॥ ४१ ॥

सृञ्जयो राष्ट्रपाल्यां तु वृषदुर्मर्षणादिकान् ।

हरिकेशहिरण्याक्षौ सुरभूम्यां तु श्यामकः ॥ ४२ ॥

सत्यधर्मीया

सृञ्जयो राष्ट्रपाल्यां तन्नाम््नयाम् । सुरभूम्यां श्यामकः ॥ ४२ ॥

छलारी

राष्ट्रपाल्यां तन्नामिकायां सुरभूम्यां तन्नामिकायाम् ॥ ४२ ॥

मित्रकेश्यामप्सरसि वृकादीन् वत्सकस्तथा ।

तक्षपुष्करसालादीनुर्वश्यां वृक आदधे ॥ ४३ ॥

सत्यधर्मीया

मित्रकेश्यां तन्नामिकायामप्सरसि अप्सरःसु गतम् । वृकस्तूर्वश्यां तक्षपुष्करसालादीनादधे ॥ ४३ ॥

छलारी

मित्रकेश्यां तन्नामिकायां वृको वृकनामक आदधे जनयामास । अस्य सर्वत्र सम्बन्धः ॥ ४३ ॥

सुमित्रार्जुनबाणादीननीकात् तु सुदामनी ।

कङ्कश्च कर्णिकायां वै ऋतधामजयावपि ॥ ४४ ॥

सत्यधर्मीया

अनीकात् तन्नामकात्सुदामनी तन्नाम्नी । कङ्कः नाम्ना कर्णिकायां तन्नाम््नयाम् ॥ ४४ ॥

छलारी

सुदामिनी सुमित्रादीन्सुषुवे । कर्णिकायां तन्नामिकायाम् ॥ ४४ ॥

पौरवी रोहिणी भद्रा मदिरा रोचना इला ।

देवकीप्रमुखा आसन् पत्न््नय आनकदुन्दुभेः ॥ ४५ ॥

सत्यधर्मीया

आनकदुन्दुभेर्वसुदेवस्य ॥ ४५ ॥

छलारी

वसुदेवस्य पत्नीः पुत्रांश्चाह ॥ पौरवीत्येकादशभिः । देवकीप्रमुखा अन्याः प्रश्रमप्रधृतिदेवाद्या बहुपत्न्य आसन् । देवकी पूर्वमदितिः ॥ ४५ ॥

बलं गदं सारणं च दुर्मदं विपुलं ध्रुवम् ।

वसुदेवस्तु रोहिण्यां कृतधीरुदपादयत् ॥ ४६ ॥

पदरत्नावली

कृतधीः शिक्षितबुद्धिः । उदपादयद् उत्पादयामास ॥ ४६ ॥

सत्यधर्मीया

कृतधीः शिक्षितबुद्धिरुदपादयदुत्पादयामास ॥ ४६ ॥

छलारी

बलं बलरामोऽयं शेषावतारः । अत्र हरेः शुक्लकेशस्तस्मिन्नस्तीति ज्ञेयम् । वसुदेवः पूर्वं कश्यपः रोहिणी पूर्वं कश्यपभार्या सुरभिः कृतधीः शिक्षितबुद्धिरित्यर्थः ॥ ४६ ॥

सुभद्रो भद्रबाहुश्च दुर्मदो भद्र एव च ।

पौरव्यास्तनया ह्येते भूताद्या द्वादशाभवन् ॥ ४७ ॥

सत्यधर्मीया

भूताद्या द्वादशाभवन् ॥ ४७ ॥

छलारी

सुभद्राद्याश्चेत्येते द्वादशतनया इत्यनुषङ्गः ॥ ४७ ॥

नन्दोपनन्दकृतकशूराद्या मदिरात्मजाः ।

भद्राख्या केशिनं त्वेकं कौसल्या कुलनन्दनम् ॥ ४८ ॥

सत्यधर्मीया

मदिराया आत्मजाः । कौसल्या भद्रा । सुपुत्रः कुलदीपक इति कुलनन्दनम् ॥ ४८ ॥

छलारी

मदिराया मदिरानामिकाया आत्मजाः । कौसल्या कोसलराजपुत्री भद्रा ॥ ४८ ॥

रोचनायां ततो जाता हस्तहेमाङ्गदादयः ।

इलायां पुरुवल्कादीन् यदुमुख्यानजीजनत् ॥ ४९ ॥

सत्यधर्मीया

इलायां जनयामास ॥ ४९ ॥

छलारी

यदुमुख्यांश्च ॥ ४९ ॥

त्रिपृष्ठो धृतदेवायां जात आनकदुन्दुभेः ।

शान्तिदेवात्मजा राजन् प्रश्रमप्रश्रितादयः ॥ ५० ॥

सत्यधर्मीया

प्रश्रमप्रश्रितादयः शान्तिदेवाया आत्मजाः ॥ ५० ॥

छलारी

त्रिपृष्ट एकः पुत्रोऽभूत् ॥ ५० ॥

राजानः कल्पवर्षाद्या उपदेव्याः सुता दश ।

वसुहंससुधन्वाद्याः श्रीदेवायाश्च षट् सुताः ॥ ५१ ॥

देवरक्षितया लब्धा नव चात्र गदादयः ।

वसुदेवः सुतानष्टावादधे सहदेवया ॥ ५२ ॥

सत्यधर्मीया

कल्पवर्ष एव आद्यो येषां ते तथा । गदादयो गदोऽयमन्यो रोहिणीतनयात् । सहदेवया सहदेवायाम् ॥ ५१,५२ ॥

छलारी

उपदेव्या दशसुताश्च राजानोऽभवन् । देवरक्षितया तन्नामिकया नवपुत्रा अभवन् ॥ ५१,५२ ॥

पुरुवत्समृदुमुख्यान् साक्षाद्धर्मो वसूनिव ।

वसुदेवस्तु देवक्यामष्टपुत्रानजीजनत् ॥ ५३ ॥

पदरत्नावली

साक्षाद्धर्मो धर्मराजो वसुनाम्न्यामष्टौ वसूनिव वसुदेवः सहदेवया सहदेवायामष्टौ सुतानादधे । तदुक्तं पष्ठस्कन्धे षष्ठाध्याये वा वसुमुहूर्ता सङ्कल्पा धर्मपत्न्यः सुतान् शृणु । वसवोऽष्टौ वसोः पुत्रास्तेषां नामानि मे शृणु’ इति । देहलीदीपन्यायेनोभयत्रायं दृष्टान्तः ॥५३॥

सत्यधर्मीया

साक्षाद्धर्मो धर्मराजो वसुनाम््नयामष्टौ वसूनिव । तदुक्तं षष्ठे । वसुर्मुहूर्ता सङ्कल्पे धर्मपत्न्यः सुताञ्छृणु । वसवोऽष्टो वसोः पुत्रास्तेषां नामानि मे श्रुण्विति । पुरुवत्समृदुमुख्यान्देवक्यामष्टपुत्रानजीजनत् ॥ ५३ ॥

छलारी

साक्षाद्धर्मः । धर्मपुत्रव्यावृत्त्यर्थं साक्षादिति । धर्मराजो वसुनामिकायां पत्न््नयामष्टवसूनि । सहदेवया सहदेवायामष्टौ सुतानादधे । तदुक्तं षष्ठस्कन्धे षष्ठाध्याये ॥ वसुमुहूर्ता सङ्कल्पा धर्मपत्न्यः सुतान् श्रुणु । अष्टौ वसोः पुत्रास्तेषां नामानि शृृण्विति । देहलीदीपन्यायेनोभयत्रायं दृष्टान्तः । अजीजनज्जनयामास ॥ ५३ ॥

कीर्तिमन्तं सुषेणं च भद्रसेनमुदारधीः ।

ऋजुं संमर्दनं भद्रं सङ्कर्षणमहीश्वरम् ॥ ५४ ॥

पदरत्नावली

अहीश्वरं शेषांशं यो दुर्गयापवाह्य देवक्युदराद् रोहिण्युदरे प्ररोहितः स सङ्कर्षणस्तम् ॥ ५४ ॥

सत्यधर्मीया

अहीश्वरं शेषांशं यो दुर्गयाऽपवाह्य देवकीतो रोहिण्यां प्ररोहितः स सङ्कर्षणस्तम् ॥ ५४ ॥

छलारी

उदारधीर्महाबुद्धिर्वसुदेवः । सङ्कर्षणः पूर्वं क इत्यत आह ॥ अहीश्वरमिति ॥ ५४ ॥

अष्टमस्तु तयोरासीत् स्वयमेव हरिः किल ।

सुभद्रा च महाभागा तव राजन् पितामही ॥ ५५ ॥

सत्यधर्मीया

तयोर्देवकीवसुदेवयोः स्वयमेव यो हरिः सोऽष्टम आसीत् । पितामही पितामहमहिषी ॥ ५५ ॥

छलारी

अष्टमस्तु स्वयमेव स्वैच्छयैवासीत् । न कर्मादिना । यतो हरिः । किलेति श्रुत्यादिप्रसिद्धिमाह । सुभद्रा च कन्याऽऽसीत् । पितामहमही । अभिमन्युमातृत्वादियं सुभद्रा पूर्वं त्रिजटा ॥ ५५ ॥

यदा यदा हि धर्मस्य क्षयो वृद्धिश्च पाप्मनः ।

तदा तु भगवानीश आत्मानं सृजते हरिः ॥ ५६ ॥

सत्यधर्मीया

हरिरयं धरिण्यां नरवदवतारी चेन्नावतारी दुरितं न चेच्चेतनसमः स्यात् । किञ्चानेनानेनसो न प्रयोजनमिति च वक्तव्यम् । अन्यथाऽपूर्णताऽऽपद्येत । न च तद्विना प्रेक्षावतां प्रवृत्तिः श्रुता वा दृष्टा वेत्यादिशङ्कामङ्कुरयन्नासीत्स्वयमेव हरिः किलेति स्वयं व्यासस्तत्सम्भवादिसम्भवमेतत्स्कन्धावसिति शंसन् तां शातां तनोति ॥ यदा यदा हीत्यादिना । यदा यदेति मुखनिरीक्षणेनोत्तरत्र तदोपरि तदेति पूरणीयम् । विस्तृतः प्राक् प्रकारो वीप्सया प्रति प्रति तत्समयम् । धर्मस्य क्षयः पाप्मनः पापस्य वृद्धिर्यदा यदा तदा तदा । तुर्मानिकरेतोऽविकृतत्वादिविशेषसूचकः । भगवानिति प्राप्यं प्रयोजनं नास्तीति सूचयति । आत्मानं सृजति । सृजतीत्यनेन न कर्मनिर्मितता तनोः । तत्कुत इयं चर्येत्यत ईश इति लोकचर्यान्यथा स्यात् । धर्मादिरिरक्षिषातो लीलेति च सूचयति ॥ ५६ ॥

छलारी

स्वयमेवासीन्न कर्मादिनेत्येतदुपपादयति ॥ यदेत्यादिना ॥ आत्मानं सृजते स्वयमवतारं करोति ॥ ५६ ॥

न ह्यस्य जन्मनो हेतुः कर्मणां वा महीपते ।

आत्ममायां विनेशस्य परस्य द्रष्टुरात्मनः ॥ ५७ ॥

पदरत्नावली

ननु यदि श्रीनारायणो जीववज्जन्मकर्माणि भजते तर्हि संसारनिवृत्तये तत्सेवा व्यर्थेति तत्राह- न हीति ॥ विषमो दृष्टान्तः । तथा हि । जीवस्य जन्मादिमत्त्वे पुण्यपापे कारणं विधिबद्धत्वात्, तदनियतत्वाद् ईश्वरस्य न हि ते स्तः । न हि कार्यमकारणमिति न्यायात् कारणं वक्तव्यं चेद् लोकानुग्रहोदबुद्धात्मेच्छैवेत्याशयेनाह- आत्ममायामिति ॥ आत्मनः स्वस्य मायामिच्छां विना । स्वेच्छयैवेत्यर्थः । अनुग्रहोद्बोधस्यापि धर्मपाप्मनोः क्षयवृद्धिदर्शननिमित्तमित्युक्तम् । अतस्तत्सेवा न व्यर्थेत्यर्थः । कथं हरेरेव स्वेच्छया प्रवृत्तिरित्युच्यत इति तत्राह- ईशस्येति । स ईश इत्यादेर् ईशत्वात् । जीव एवेशः किं न स्यादिति तत्राह- परस्येति ॥ परस्य जीवविलक्षणस्य तत्त्वात् । ‘उत्तमः पुरुपस्त्वन्यः परमात्मेत्युदाहृतः’ इत्यादेः । ननु किं तद् वैलक्षण्यम् ? येनेशादन्यो जीवः स्यादिति तत्राह- द्रष्टुरिति ॥ यः सर्वज्ञः सर्ववित्’ न हि द्रष्टुदृष्टेर्विपरिलोपो विद्यते’ इत्यादिमानैः सार्वज्यं जीवाद् भिन्नत्वे मुख्यं लक्षणम् । सार्वज्यं स्वाभाविकं न तु नैमित्तिकमित्याशयेनाह- आत्मन इति ॥ आत्मा देहे धृतौ जीवे स्वभावे परमात्मनि’ इति यादवः । हरेः प्रपञ्चनिर्माणादिकं तत्तत्पदार्थविशेषज्ञानं विना न युज्यते । तद्बलादपोहितुं न पार्यते प्रामाणिकत्वात् । अतो निरुपचरितं सार्वज्यं हरेरेव अन्यस्यौपचारिकमित्यतो जीवव्यावृत्तिलक्षणसद्भावाद् युक्तमिति भावः ॥ ५७ ॥

सत्यधर्मीया

सङ्क्षेपविस्तराभ्यां तु कथयन्ति मनीषिण इत्युक्तेः सङ्कुच्योक्त्वा विविच्य वदति ॥ न हीति ॥ अत एवाध्यायावसितीत्यवतारिकाऽपि लग्नेति ज्ञेयम् । अस्य प्रत्यक्षसिद्धदेहवतोऽपि जन्मन उत्पत्तेर्हेतुः कारणं न हि न ह्यस्ति । कर्मणां तत्तदवताररचितकर्मणामपि हेतुः प्राप्यफलादिकं कारणं न हीत्यन्वय इति वेति सूचयति । तर्हि कस्य जन्मादेर्हेतुरस्तीत्यतोऽप्याह ॥ न ह्यस्येति ॥ नह्यो हि हरिवध्यो जीवसङ्घस्तस्यैव जन्मनः कर्मणां च हेतुरस्तीत्यर्थः । न विना कारणं लोके लोकानां प्रवृत्तिरित्यतोऽनयैव प्रवृत्तिरस्येत्याह ॥ आत्ममायामिति ॥ आत्मनः स्वस्य मायामिच्छां विना स्वेच्छयैव हेतुरित्यर्थः । तदसम्भावनोन्मूलकान्मानानुसारेण हेतूनाह ॥ ईशस्येत्यादिना ॥ स ईश इत्यादेरीशत्वात्परस्य जीवविलक्षणस्य तत्त्वात् । उत्तमः पुरुषस्त्वन्य इत्यादेः । द्रष्टुः साक्षात्कर्तुः । तृना स्वरूपतां दर्शनस्य दर्शयति । यः सर्वज्ञः सर्ववित् । न हि द्रष्टुर्दृष्टेर्विपरिलोपो विद्यत इत्यादेः । न केवलं पदत्रयबोध्यगुणत्रय-मात्रतस्तदसम्भावनासाम्भावित्वं किन्तु सकलगुणकत्वादित्याह ॥ आत्मन इति ॥ सर्वगुणपूर्णस्य सर्वान्गुणानात्मशब्दो ब्रवीतीत्यादेः ॥ ५७ ॥

छलारी

द्रष्टुः सर्वज्ञस्य परमात्मनः परमात्मनोऽवतारस्यावतारकर्मणां चात्ममायां स्वेच्छां विना हेतुर्ना हि सम्भवति ॥ ५७ ॥

यन्मायाचेष्टितं पुंसः स्थित्युत्पत्त्यप्ययाय हि ।

अनुग्रहस्तन्निवृत्तेरात्मलाभाय चेष्यते ॥ ५८ ॥

पदरत्नावली

ननु जीवव्यावर्तकं लक्षणं जगत्कर्तृत्वादिकम् । तत्प्रकृतेः । अतः सार्वज्ञ्यमात्रेण कथमीश्वरो जीवाद व्यावर्त्यः । सार्वज्ञ्यविशेषणस्य सर्वज्ञस्त्रिपुरान्तकस्त्रिनयनः’ इत्यादावन्यविषयत्वेन व्यभिचारित्वाद् उक्तदोषानिस्तार इति तत्राह- यन्मायेति ॥ यस्येश्वरस्याधीनाया मायायाः प्रकृतेश्चेष्टितं परिणामलक्षणम् । पुंस इत्युपलक्षणम्, प्रपञ्चस्य स्थित्युत्पत्यप्ययाय स्थित्यादेर्हेतुर्भवति । तदेकविषयत्वद्योतनाय एकवचनम् । प्रकृतिं पुरुषं चैव प्रविश्य पुरुषोत्तमः’ इत्यादिस्मृतीर् हिशब्देन दर्शयति । यदनुग्रहः प्रकृतिचेष्टाया निवृर्त्तेहेतुः । निवृत्तिश्चात्मलाभाय सच्चिदानन्दस्वरूपाविर्भावाय । ‘बलमानन्द ओजश्च’ ‘यस्य प्रसादात् परमार्तिरूपादस्मात् संसारान्मुच्यते नापरेण’ इत्यादिश्रुतेः । इष्यते निरूप्यते ॥ ५८ ॥

सत्यधर्मीया

निग्रहानुग्रहौ संसारतन्निःसरणोपायावित्याह ॥ यन्मायेति ॥ पुंसः प्रपञ्चस्य स्थित्युत्पत्त्यप्ययाय स्थित्युत्पत्तिभ्यां सहितोऽप्ययो नाशस्तस्मै । यस्य मायायाश्चेष्टितमिच्छाया निग्रहरूपो व्यापारः । उत्तरत्रापि निवृत्तेरनुग्रह इत्युक्तेस्तत्प्रतियोगी निग्रहो ग्राह्य इति विवृतं चेष्टितमिति पदमिति ज्ञेयम् । तन्निवृत्तेः संसारपरिहृतये । आयस्तु फलमृदि्द्टं प्रोक्तं मायेति निष्फलमित्येकादशतात्पर्योक्तेः । यस्य माया न विद्यते तद्यन्मायम् । तच्च तदाचरितमीष-च्चरितमचरितं सच्चरितविरुद्धमचरितमिति चेष्टितचरितपाठौ सरलौ । तदनन्तरमात्मलाभाय स्वरूपानन्दावाप्तये चेष्यते । यस्य प्रसादात्परमार्तिरूपादस्मात्संसारान्मुच्यते नापरेणेत्यादिश्रुतेः ॥ ५८ ॥

छलारी

उक्तार्थं स्पष्टयति ॥ यन्मायेति ॥ यस्येश्वरस्याधीनाया मायायास्त्रिगुणात्मिकायाः प्रकृतेश्चेष्टितं व्यापारः पुंसः पुरुषस्य । उपलक्षणमेतत् । प्रपञ्चस्य स्थित्युत्पत्तिसंहाराय भवन्ति । भगवानेव सत्त्वादिगुणैः सृष्ट्यादिकं करोतीत्यर्थः । अनुग्रहो यस्य प्रसादस्तन्निवृत्तेर्मायानिवृत्तेः । हेतुरिति शेषः । यत्प्रसादाल्लिङ्गशरीररूपसंसारनिवृत्तिर्भवतीत्यर्थः । ‘यस्य प्रसादात्परमार्तिरूपादस्मात्संसारान्मुच्यते नापरेण’ इति श्रुतेः । सा च संसारनिवृत्तिरात्मलाभाय स्वरूपानन्दाविर्भावाय भवति ॥ ५८ ॥

अक्षौहिणीनां पतिभिरसुरैर्नृपलाञ्छनैः ।

भुव आक्रम्यमाणाया अभावाय कृतोद्यमः ॥ ५९ ॥

पदरत्नावली

हरेर्लोकविलक्षणमहिमानमुपपाद्य अवतारप्रयोजनमाह- अक्षौहिणीनामित्यादिना ॥ नृपाणां लाञ्छनमिव लाञ्छनं येषां तैरक्षौहिणीनां पतिभिरसुरैर् जरासन्धादिरूपविप्रचित्याद्यसुरैर् भुव आक्रम्यमाणायाः सत्या अभावाय नाशाय । कृत उद्यम यस्य सः भूभारभूतदितिसुतसंहननोद्यमवानित्यर्थः ॥ ५९ ॥

सत्यधर्मीया

चरितश्रवणकीर्तनादिभिरनुग्रहस्तेन च लिङ्गभङ्गम् आनन्दादिश्चेति तच्चरितं वदति ॥ अक्षौहिणीनामिति ॥ नृपाणां लाञ्छनमिव लाञ्छनं येषां तैरक्षौहिणीनां पतिभिर्जरासन्धादिभिरसुरैः प्राग्विप्रचित्त्याद्यात्मभिर्भुव आक्रम्यमाणायाः सत्या अभावाय तदसत्तायै तन्नाशायेति यावत् । कृत उद्यम उत्कृष्ट उद्योगो यस्य स धराभारभूतदितिसुतविनाशोद्योगवानित्यर्थः ॥ ५९ ॥

छलारी

हरेर्लोकविलक्षणत्वमुपपाद्यावतारप्रयोजनमाह ॥ अक्षौहिणीनामिति द्वाभ्याम् । बह्वक्षौहिणीसङ्ख्यातसेनानां पतिभिर्नृपलाञ्छनैश् छत्रादि तैः । नृपाभासैरिति यावत् । असुरैराक्रम्यमाणाया भुवोऽभाराय भारहृतये प्रयत्नः सन् ॥ ५९ ॥

कर्माण्यपरिमेयानि मनसाऽपि सुरेश्वरैः ।

सह सङ्कर्षणश्चक्रे भगवान् मधुसूदनः ॥ ६० ॥

पदरत्नावली

मनसाऽप्यपरिमेयानि आलोचयितुमशक्यानि कर्माणीत्यन्वयः ॥ ६० ॥

सत्यधर्मीया

सुरैर्यथाक्रमं रमाब्रह्मवायुभारतीसरस्वतीन्द्रादिभिः सह सङ्कर्षण इत्युक्तिस्वारस्यान् मनसाऽप्यपरिमेयानि कर्माण्यालोचयितुमशक्यानि ॥ ६० ॥

छलारी

सुरेश्वरैरपि मनसाऽपि अपरिमेयान्यवितथकर्माणि दुष्टनिग्रहादीनि कर्माणि सङ्कर्षणसहितः ॥ ६० ॥

कलौ जनिष्यमाणानां दुःखशोकतमोनुदम् ।

अनुग्रहाय भूतानां सुपुण्यं व्यतनोद् यशः ॥ ६१ ॥

पदरत्नावली

दुःखशोकतमांसि नुदतीति तत् तथा । सुपुण्यं तत्प्रापकं यशो व्यतनोद् विस्तारयामास ॥६१॥

सत्यधर्मीया

कलौ युगे जनिष्यमाणानां भूतानामुपर्यनुग्रहाय दुःखशोकतमोनुदं दुःखशोकतमांसि नुदतीति तत्तथा । अकारान्तो नुदशब्दः सुपुण्यं तत्प्रापकं यशो व्यतनोद्विस्तारयामास ॥६१॥

छलारी

सङ्कल्पमात्रेण भूभारहरणसमर्थस्यापि कर्मकरणं यशोविस्तारद्वारा भक्तानुग्रहार्थमित्याह ॥ कलाविति ॥ यशोलक्षणं पराक्रमं दुःखशोकतमांसि नुदतीति तथा ॥ ६१ ॥

यस्मिन् सत्कर्णपीयूषे यशस्तीर्थवरेऽसकृत् ।

श्रोत्राञ्जलिरुपस्पृश्य धुनुते कर्मवासनाः ॥ ६२ ॥

सत्यधर्मीया

सत्कर्णपीयूषे सतां सज्जनानां कर्णानां तच्छ्रोत्राणां पीयूषममृतमिव विद्यमाने यशस्तीर्थवरे यशोरूपतीर्थश्रेष्ठेऽसकृद्वा माहात्म्यातिशयलाभात्सकृदेकवारमिति वा । श्रोत्राञ्जलिः श्रोत्रे एवाञ्जलिः पात्रं यस्य स पुमानुपस्पृश्य श्रवणादिस्पर्शं कृत्वा पुमान् कर्मवासना दुष्कर्मसंस्कारान् धुनुते कम्पयति नाशयतीति यावत् । यद्वा यस्मिन्नित्यादि सप्तमी द्वितीयार्थे । श्रोत्रमिवाञ्जलिः स उपस्पृश्य स्पृष्ट्वा अधिकारी कर्मवासना धुनुत इति ॥ ६२ ॥

छलारी

सतां कर्णयोरमृताय मनो यशोरूपे तीर्थवरे श्रोत्रमेवाञ्जलिः पानसाधनं यस्य स पुरुषोऽसकृदुपस्पृश्य श्रवणादिलक्षणस्नानादि कृत्वा । यद्वा । सकृदप्युपस्पृश्य दुष्कर्मसंस्कारान् धुनुते नाशयति ॥ ६२ ॥

भोजवृष्ण्यन्धकमधुशूरसेनदशार्हकैः ।

श्लाघनीयेहितः शश्वत् कुरुसृञ्जयपाण्डुभिः ॥ ६३ ॥

पदरत्नावली

यशोवितानस्य भक्तानुग्रहरूपतां दर्शयितुं यशो विशिनष्टि- यस्मिन्निति ॥ सत्कर्णपीयूषे सज्जनकर्णानाममृतमिव विद्यमाने यशस्तीर्थवरे यशोरूपतीर्थश्रेष्ठे, श्रोत्रे एवाञ्जलिः पानपात्रं यस्य स पुरुषोऽसकृद् । उपस्पृश्य श्रवणादिलक्षणस्नानपानाचमनानि कृत्वा । यद्वा माहात्म्यातिशयलाभात् सकृदेकवारमप्युपस्पृश्य कर्मवासना दुष्कर्मसंस्कारान् धुनुते नाशयति ॥६२॥ श्लाघनीयेहितः पूज्यमानचरितः ॥६३॥

सत्यधर्मीया

श्लाघनीयमीहितं चेष्टितं यस्य सः ॥ ६३ ॥

छलारी

तदेवाह ॥ भोजेति ॥ द्वाभ्याम् । भोजादिभिः कौरवादिभिश्च । शश्वत् श्लाघनीयेहितः पूज्यमानचरितः ॥ ६३ ॥

स्निग्धस्मितेक्षितोदारैर्वाक्यैर्विक्रमलीलया ।

नृलोकं रमयामास मूर्त्या सर्वाङ्गरम्यया ॥ ६४ ॥

पदरत्नावली

स्निग्धेति स्मितवीक्षितोभयान्वयि, ताभ्यामुदाराणि मनोहराणि तैवाक्यैर्विक्रमलीलया विक्रमविलासेन सर्वाङ्गसुन्दरया मत्ूर्या च । नृलोकं मनुष्यजनम् । नृ नय इति धातोर्नयति भक्तिपूर्वकं तत्वं जानातीति नृलोको ज्ञानिसमूह स्तमिति वा ॥ ६४ ॥

सत्यधर्मीया

स्निग्धेति स्मितवीक्षितोभयान्वयि, ताभ्यामुदाराणि महान्ति तैर्वाक्यैर्विक्रमलीलया पराक्रमशोभया सर्वाङ्गरम्यया मूर्त्या स्वशरीरेण च नृलोकं नृणां मध्ये लोको ज्ञानिजनस्तं नरोऽसाधारण्येन न्यायेन विशिष्टमानवास्ते च ज्ञानिनः शर्मणा नृपत्नीरिति व्याख्यावसरे टीकायां तथैवोक्तेः । रमयामास ॥ ६४ ॥

छलारी

स्त्रिग्धस्मितेक्षितेनोदारैर्वाक्यैर्लीलया विक्रमविलासेन सर्वाङ्गसुन्दरया मूर्त्या नृलोकं मनुष्यजनं रमयामासेत्यन्वयः ॥ ६४ ॥

यस्याननं मकरकुण्डलचारुकर्ण-

भ्राजत्कपोलसुभगं सविलासहासम् ।

**नित्योत्सवं न ततृपुर्दृशिभिः पिबन्त्यो **

नार्यो नराश्च मुदिताः कुपिता निमेश्च ॥ ६५ ॥

पदरत्नावली

रतिकरणप्रकारे दर्शयति- यस्येति ॥ मकरकुण्डलाभ्यां चारू च तौ कर्णं च ताभ्यां भ्राजन्तौ कपोलौ ताभ्यां सुभगं सुन्दरम् । विलासेन सहितो हासो यस्य तत् तथा तत् । नित्यम् । उत्सवो यस्य तत् तथा तत् । तत्क्षणानन्दजनकमिति यावत् । न ततृपुर् नालम्बुद्धिं प्राप्ताः । दृशिभिर् नयनैः । निमेर्निमेषस्येति षष्ठी द्वितीयार्थे । निमेषं प्रति कुपिताः । निमेषमात्रव्यवधानमपि न सेहिर इति भावः ॥ ६५ ॥

सत्यधर्मीया

यस्य श्रीकृष्णस्याननं मुखं नरा नार्यश्च दृशिभिर्नयनैः पिबन्तः पिबन्त्यश्च वीक्ष्यमाणा इति यावत् । मुदितास्तुष्टा निमेर्निमेषं प्रति कुपिता बभूवुः । इयता पतता व्यवहतिर्भवति भगवदवलोकनस्येति निमेषं प्रति रोषस्तेषां योषाणां चेति ज्ञेयम् । अतृप्तौ मुखसौष्टवं कारणमिति तदाह ॥ मकरेति ॥ मकरकुण्डलाभ्यां चारू च तौ कर्णौ च ताभ्यां भ्राजन्तौ कपोलौ ताभ्यां सुभगं सुन्दरम् । सविलासो हासो यस्य तत् । नित्योत्सवं नित्यम् उत्सवो यस्य तत् । निमेश्चेति चशब्दान्निमेषनिर्मातारं प्रति च कुपिता इत्यप्यसूचि । यद्वक्ष्यति जड उदीक्षतां पक्ष्मनूदृशामिति पक्ष्मकृतं शपन्तीति च ॥ ६५ ॥

छलारी

नृलोकं रमयामासेत्युक्तं विशदयति ॥ यस्याननमिति ॥ यस्याननं दृशिभिर्नेत्रैः पिबन्त्यो नार्यो नराश्च न ततृपुर्नतृप्ताः । निमेषोन्मेषमात्रव्यवधानमप्यसहमानास्तत्कर्तुर्निमेः । निमेषस्येति षष्ठी द्वितीयार्थे । निमेषं प्रति कुपिताः । कुतः । विकासविरोधित्वात् । कथं भूतमाननम् । मकरकुण्डलाभ्यां चारू च तौ कर्णौ च ताभ्यां भ्राजन्तौ च तौ कपोलौ च ताभ्यां सुभगं सुन्दरम् । विलासेन सहितो हासो यस्य स तथा तं नित्योत्सवं यस्य स तथा तम् ॥ ६५ ॥

जातो गतः पितृगृहाद् व्रजमेधितोऽत्र

हत्वा रिपून् सुतशतानि कृतोरुदारः ।

**उत्पाद्य तेषु पुरुषः क्रतुभिः समीजे **

आत्मानमात्मनिगमं प्रथयन् जनेषु ॥ ६६ ॥

पदरत्नावली

विदितसंक्षेपा हि प्रपञ्चजिज्ञासवो भवन्तीति हेतोः श्रीकृष्णसुचरितं संक्षेपतो वर्णयति- जात इत्यादिना ॥ जातः निजरूपेणावतीर्य पश्चात् पुरुषाकारः । लोकदृष्ट्यैधितः । कृतोरुदार उद्वाहित बहुभार्यस्तेषु दारेषु सुतशतानि दशलक्षसंख्याकान् गोपकन्यासु प्रद्यन्नादीन् रुक्मिण्यादिषु, तथा षोडषसहस्रस्त्रीषु दश दश पुत्रांश्चैकैकां कन्यां चोत्पाद्येत्यर्थः । पुरुषः पूर्णषड्गुणः । क्रतुभिरश्वमेधादिभिः । आत्मनिगमं स्वगुणगणप्रतिपादको यज्ञादिकर्तव्यतावगाहकश्च यो निगमो वेदस्तम्, वेदोक्तसत्कर्मानुष्ठानमार्गमिति यावत् । प्रथयन् प्रख्यापयन् । जनेषु सज्जनेषु ॥ ६६ ॥

सत्यधर्मीया

जातः सद्यो जन्मवान्पितृगृहाद्वसुदेवकारागाराद्व्रजं गतोऽत्र च रिपून्हत्वा पूतनादीन्संहृत्य कृतोरुदारः कृता उरवो महान्तो दारा भार्या येन सः । तेषु दारेषु सुतशतानि दशलक्षसङ्ख्याकान् तथैकैकस्यां दश दश पुंसः कन्यां चैकैकामिति सुतांश्चोत्पाद्य पुरुषः पूर्णषड्गुणः सर्वशरीरशायी वाऽऽत्मानं क्रतुभिरश्वमेधादिभिरन्यस्य यष्टव्यस्याभावात्स्वयमननुष्ठाने । यदि ह्यहं न वर्तेयं जातु कर्मण्यतन्द्रितः । मम वर्त्मानुवर्तन्ते । उत्सीदयुरिमे लोका न कुर्यां कर्म चेदहमित्यादेर्लोको न प्रवर्तेतातस्तत्प्राशस्त्यै कर्मानुष्ठेयं चातो मामेवाहं यजामीति । आत्मना स्वेनैव विधायकतया विहितो यो निगमो वेदः कर्मादिकर्तव्यतावगाहकस्तं प्रथयन्प्रख्यापयन् जनेषु सज्जेनषु समीज इत्यन्वयः ॥ ६६ ॥

छलारी

विदितसंक्षेपा हि प्रपञ्चजिज्ञासवो भवन्तीति हेतोः श्रीकृष्णचरितं संक्षेपतो वर्णयति ॥ जात इत्यादि द्वाभ्याम् । निजरूपेण पश्चात्पुरुषाकारः सन् गतः । अत्र लोकदृष्ट्यैधितः सन् रिपून् पूतनादिकंसान्तसर्वशत्रून्हत्वा कृतोरुदार उद्वाहितबहुर्भार्यस्तेषु दारेषु सुतानां शतानि । अत्र शतशब्दो बहुत्ववचनः । तथा चोद्वाहितगोपकन्यासु दशलक्षपुत्रादीन् रुक्मिण्यादिषु प्रद्युम्नादीन् षोडश-सहस्रस्त्रीष्वेकैकस्यां दशदश पुत्रांश्चैकैकां कन्यां चोत्पाद्येत्यर्थः । ऋतुभिरश्वमेधादिभिः समीजे । किमर्थं जनेषु सज्जनेष्वात्मनिगमं स्वज्ञानरूपवेदोक्तयज्ञादिसत्कर्मानुष्ठानमार्गं प्रथयत्सज्जनान् शिक्षयितुमित्यर्थः ॥ ६६ ॥

पृथ्व्याः स वै गुरुभरं क्षपयन् कुरूणा

मन्तःसमुत्थकलिना युधि भूपबन्धम् ।

**दृष्ट्या विधूय विजये जयमुद्विघुष्य **

प्रोच्योद्धवाय च परं समगात् स्वधाम् ॥ ६७ ॥

इति श्रीमद्भागवते नवमस्कन्धे एकविंशोऽध्यायः

पदरत्नावली

स कृष्णः स्वधाम स्वमूलरूपं समगात् प्रविवेश, एकोऽभूदित्यर्थः । ‘पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते’ इत्याद्युपनिषदं वै इत्यनेन सूचयति । पृथ्व्या गुरुभरमसुरलक्षणम् । भूपबन्धं भूपसमूहकृतचक्रबन्धादिकं दृष्ट्या विधूय संहृत्य । तदुक्तम्- ‘मयैवैते निहताः पूर्वमेव निमित्तमात्रं भव सव्यसाचिन्’ इति । विजयेऽर्जुने जयम् अर्जुनः सर्वशत्रून् जिगायेति उद्विधुष्य डिण्डिमघोषं कारयित्वा । वरं वरणयोग्यं ज्ञानं प्रोच्य विस्तरेणोपदिश्य ॥ ६७ ॥

नाम्ना क्षत्रवसुन्धरासुरमहावंशावलीमन्दिरम् ।

व्याख्याव्याजविनोदतोऽद्य नवमस्कन्धो मयाऽम्रेडितः ॥

सर्वज्ञो विजयध्वजाय यतये मह्यं महाभूतिदो ।

हारी हारमनोहरो ह्यहरहः प्रीतोऽस्तु विश्वम्भरः ॥

पदरत्नावलिर्भूयान्नवमस्कन्ध अर्पिता ।

तुलसीव हरेः पादद्वन्द्रे द्वन्द्वापहारिणी ॥

इति श्रीमन्महेन्द्रतीर्थपूज्यपादशियविजयध्वजतीर्थमुनीन्द्रकृतायां पदरत्नावल्यां श्रीमद्भागवतटीकायां नवमस्कन्धस्य एकविंशोऽध्यायः ॥

इति नवमस्कन्धटीका

श्रीमध्वेशार्पणमस्तु

सत्यधर्मीया

स वासुदेवः पृथ्व्या भूमेर्गुरुभरं महान्तं भारं क्षपयन्नाशयितुकामः । कुरूणां कुर्वादिभ्य इति ण्यस्य तद्राजलुपि कुरवस्तेषामन्तः पाण्डवकौरवमध्ये समुत्थः कलिः कलहस्तेन निमित्तेन युधि भूपबन्धं भूपसमूहकृतचक्रबन्धादिकं दृष्ट्या विधूय । मयैवैते निहताः पूर्वमेव, निमित्तमात्रं भव सव्यसाचिन्नित्यादेः । कम्पयित्वा विजयेऽर्जुने जयं जितवानाजौ पार्थोऽरिसार्थमित्युद्धोष्य प्रख्यापयित्वोद्धवाय परं तत्त्वं च प्रोच्योक्त्वा स्वधाम वैकुण्ठं समगात् । समगात्रेणैतेन सत्रेति सूचयति । स्वधाम स्वस्वरूपं समगात्प्रविवेशेति वा । पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यत इत्यादेः । इति समेधितार्थः । समभिवर्धत सर्वपुरुषार्थ उद्धवायैव । नित्योत्सवाय जातः । परं पूर्णं प्रोच्यैवं वर्तध्वमिति मङ्गलमध्वानं समगं पिप्पलं तरुमासाद्य परं तत उत्तरं स्वधाम समगादित्यावृत्त्याऽन्वयः । तदुक्तमेकादशस्कन्धे । तूष्णीमासाद्य पिप्पलमिति । समगच्छदित्यतुलधीरनुदाहरन्नुदाहरन्समगादित्यमुमर्थविशेषं सूचयामास इत्यशेषमतिमङ्गलम् ॥ ६७ ॥

नवमे नवमेऽप्यर्थैः कथामात्रप्रथायुजि ।

परिश्रमो विश्रमदो भूयाद्भूयो धियो मम ॥ १ ॥

इति श्रीसत्यधर्मयतिकृतायां भागवतटिप्पण्यां श्रीमद्भागवतविवृतौ नवमस्कन्धे एकविंशोऽध्यायः ।

छलारी

पृथ्व्या गुरुभरं दृष्ट्वैव दर्शनमात्रेण क्षपयन् क्षपणसमर्थः कृष्णः कुरुणां कौरवाणां पाण्डवानां चान्तः समुत्थितेन कलिना कलहेन निमित्तेन भूपवर्यान् दुष्टराजन्यान् विधूय संहृत्य विजयेऽर्जुने जयमर्जुनः सर्वशत्रून्विजिगायेत्येवोभयमुद्विघुष्य डिण्डिमघोषं कारयित्वा प्रोच्य । तत्वमिति शेषः । उद्धवायोपदिश्य स्वधाम परंधाम समगाज्जगामेति सर्वं मङ्गलम् ॥ ६७ ॥

इति श्रीछलारी शेषाचार्यकृतायां भागवतटिप्पण्यां नवमस्कन्धे एकविंशोऽध्यायः ॥ ९-२१ ॥

नवलक्षणसम्पन्नो नवरत्नैर्विभूषितः ।

नवभक्तिप्रदो भूयान्नवमस्कन्धगो हरिः ॥ १ ॥

नवमस्कन्धगोविन्दो नवलक्षणसम्युतः ।

नवरत्नाम्बरधरो नवमेऽभीष्टदो भवेत् ॥ २ ॥

वेङ्कटेशहयग्रीवनृसिंहाद्यात्मको हरिः ।

आनन्दसन्ततिं कुर्यात् काले काले सुशिक्षयन् ॥ ३ ॥

इति श्रीमच्छल्लारीनरसिंहाचार्याणां निजशिष्येण शेषेण विरचितायां श्रीभागवतनवमस्कन्धटिप्पण्यां मन्दबोधिन्याम् एकविंशोऽध्यायः ।

समाप्तश्चायं नवमस्कन्धः ॥