अनोः सभानरश्चक्षुः परेक्षुश्च त्रयः सुताः
॥ अथ विंशोऽध्यायः ॥
श्रीशुक उवाच —
अनोः सभानरश्चक्षुः परेक्षुश्च त्रयः सुताः ।
सभानरात् कालनरः सञ्जयस्तत्सुतस्ततः ॥ १ ॥
पदरत्नावली
ययातेश् चतुर्थपुत्रस्यानोरनुसन्ततिमनुक्रमति- अनोरिति ॥१॥
सत्यधर्मीया
अनुसन्ततिमाह ॥ अनोरिति ॥ सभानरादयस्त्रयः पुत्राः । तत्सुतः कालनरसुतः ॥ १ ॥
छलारी
तदेवं ययातेः पुत्राणां पञ्चमस्य पुरोर्वंशो निरूपितः । इदानीं चतुर्थस्यानोर्वंशमनुक्रामति ॥ अनोरिति ॥ त्रयः । ततो जनमेजयः ॥ १ ॥
जनमेजयस्तस्य पुत्रो महाशीलो महामनाः ।
उशीनरस्तितिक्षुश्च महामनस आत्मजौ ॥ २ ॥
सत्यधर्मीया
तत्पुत्रः सञ्जयजस्तत्पुत्रो महाशीलसुतः । उशीनरस्तितिक्षुश्चेति आत्मजौ ॥ २ ॥
छलारी
तस्य जनमेजयस्य महाशालस्तस्य महामनाः ॥ २ ॥
शिबिर्वनः शमिर्दक्षश्चत्वारोशीनरात्मजाः ।
वृषदर्भः सुवीरश्च मद्रः केकय आत्मजाः ॥ ३ ॥
पदरत्नावली
चत्वारोशीनरात्मजा इत्यत्र सन्धिरार्षः । वृषदर्भादयश्चत्वारः शिबेरात्मजाः ॥ ३-४ ॥
सत्यधर्मीया
चत्वारोशीनरात्मजा इत्यत्र सन्धिरार्षः ॥ ३ ॥
छलारी
चत्वारोशीनरात्मजाः । सन्धिरार्षः । वृषदर्भादयश्चत्वारः शिबेरात्मजा इत्यन्वयः ॥ ३ ॥
शिबेश्चत्वार एवासन् तितिक्षोश्च पृषद्रथः ।
ततो हेमोऽथ सुतपा बलिः सुतपसोऽभवत् ॥ ४ ॥
सत्यधर्मीया
केकयान्तिमा शिबेश्चत्वार आत्मजास्तितिक्षोः पृषद्रथस्ततः पृषद्रथात् ॥ ४ ॥
छलारी
तितिक्षोरुशीनरानुजस्य ॥ ४ ॥
अङ्गवङ्गकलिङ्गाद्याः सुद्मपुण्ड्रान्ध्रसञ्ज्ञिताः ।
जज्ञिरे दीर्घतमसो बलेः क्षेत्रे महीक्षितः ॥ ५ ॥
पदरत्नावली
दीर्घतमसः सकाशाद् अङ्गवङ्गकलिङ्गा त एवाद्याः प्रधाना येषां ते, सुद्मपुण्ड्रान्ध्रनामानो महीक्षितः बलेः क्षेत्रे भार्यायां जज्ञिर इत्यन्वयः । महीक्षित इत्यनेन ब्राह्मणकुलं व्यावर्तयति ॥५॥
सत्यधर्मीया
अङ्गवङ्गकलिङ्गाद्या बले राज्ञो दीर्घतमसो मामतेयाद्भर्त्राज्ञया । क्षेत्रे भार्यायाम् ॥ ५ ॥
छलारी
दीर्घतपसः सकाशादङ्गवङ्गकलिङ्गाद्या अंगवङ्गकलिङ्ग एवाद्या प्रधाना येषां ते तथोक्ताः सुद्मपुण्ड्रादिनामानो महीक्षितो राजानो बलेः क्षेत्रे जज्ञिर इत्यन्वयः ॥ ५ ॥
चक्रुः स्वनाम्ना विषयान् षडिमान् प्राच्यकानिह ।
खनपानोऽङ्गतो जज्ञे तस्माद् दिविरथस्ततः ॥ ६ ॥
पदरत्नावली
इह भुवि प्राच्यकान् प्राचीविषयान् षड् विषयान् देशान् स्वनाम्ना ख्यातिं चक्रुः । खनपानो नाम ॥ ६ ॥
सत्यधर्मीया
तेऽङ्गादयः षट् स्वनाम्ना विषयान्देशान्प्राच्यकान्प्राचीविषयांश्चक्रुः । अङ्गतोऽङ्गात्तस्मात्खनपानात् ॥ ६ ॥
छलारी
तेऽङ्गाद्या षट् राजानः प्राच्यकान् पूर्वादिदिशि विद्यमानान् षट् विषयान् स्वनाम्ना ख्यातिं चक्रुः । अङ्गतोऽङ्गदेशाधिपतेरङ्गराजात्खनपानो नाम्ना ॥ ६ ॥
सुतो धर्मरथस्तस्य जज्ञे मित्ररथोऽप्रजः ।
रोमपाद इति ख्यातस्तस्मै दशरथः सखा ।
शान्तां स्वकन्यां प्रायच्छद् ऋष्यशृङ्ग उवाह ताम् ॥ ७ ॥
पदरत्नावली
तस्मै रोमपादायाप्रजाय तस्य सखा दशरथो रामपिता स्वकन्यां शान्तानाम्नीं प्रायच्छत् ॥ ऋष्यशृङ्गस्तामुवाह उपयेमे । ऋष्यस्य सारङ्गस्य शृङ्गमिव शृङ्गं यस्य सः ॥ ७ ॥
सत्यधर्मीया
ततस्तस्य सुतस्तस्य धर्मरथस्य । अप्रजः पुमपत्यरहितस्तस्मै ॥ ७ ॥
छलारी
ततो धर्मरथाख्यः सुतः । अप्रजः प्रजारहितः । स मित्ररथो रोमपाद इति ख्यातः । दशरथो रामपिता । तस्मै तस्य सखा प्रायच्छत् । ऋष्यशृृङ्गे । उवास इति शेषः ॥ ७ ॥
देवेऽवर्षति यं रामा आनिन्युर्हरिणीसुतम् ।
वाद्यसङ्गीतवादित्रैर्विभ्रमालिङ्गनार्हणैः ॥ ८ ॥
पदरत्नावली
इन्द्रदेवे द्वादशाब्दपर्यन्तमवर्षति सति यं हरिणीसुतम् ऋष्यशृङ्गं रामा वराङ्गना नाट्यादिभि र्नानोपायैरानिन्युः । उक्तं च संग्रहरामायणे ‘अनावृष्टिभयोद्विग्नो वृष्टिं लब्ध्वा ततो नृपः । दास्यत्ययं मौल्यमिव शान्तां नाम निजात्मजाम्’ इति ॥ ८ ॥
सत्यधर्मीया
सति रामा सुन्दर्यो हरिणीसुतमृष्यशृृङ्गमानिन्युरानीतवन्तः । सा ऋष्यशृृङ्गमानेष्यन्त्यङ्गना मुनिवेषतः, अनावृष्टिभयोद्विग्नो वृष्टिर्लब्धा ततो नृपः दास्यत्ययं मौल्यमिव शान्तानाम्नीं निजात्मजामिति सङ्ग्रहरामायणोक्तेः । वाद्यसङ्गीतेति नाट्यसङ्गीतेति द्वावपि सरलौ पाठौ ॥ ८ ॥
छलारी
देवे देवेन्द्रे । यम् ऋष्यशृृङ्गम् । रामा वराङ्गनाः । वाद्यानि रववाद्यानि वीणादिभिर्वादित्राणि मृदङ्गादीनि विभ्रमो विलासोऽर्हणानि पुष्पादीनि । तैरानिन्युरिति सम्बन्धः । ततो वृष्टिं लब्ध्वा स्वकन्यां प्रायच्छदिति विज्ञातव्यम् । अनावृष्टिभयोद्विग्नो लोमपादो वनस्थे हरिणीसुते ऋष्यृङ्गमुनावत्रानीते सुवृष्टिर्भविष्यतीति ब्राह्मणैरुक्ते सति । नानाप्रयत्नैस्तस्मिन्नानीते सति तस्मादृष्यशृृङ्गमुनेर्वृष्टिं लब्ध्वा सन्तुष्टः सन् स्वकन्यां शान्ताख्यां प्रायच्छदिति ज्ञातव्यम् । तदुक्तम् । अनावृष्टिभयोद्विग्नो वृष्टिं लब्ध्वा ततो नृपः । दास्यत्ययं मौल्यमिव शान्तां नाम निजात्मजामिति ॥ ८ ॥
स तु राज्ञोऽनपत्यस्य निरूप्येष्टिं मरुत्वतः ।
प्रजामदाद् दशरथो येन लेभेऽप्रजः प्रजाः ॥ ९ ॥
पदरत्नावली
अनपत्यस्य सन्तानरहितस्य रोमपादस्य मरुत्पतेरिष्टिम् इन्द्रविषयामिष्टिं निरूप्य कारयित्वा । येन इष्टिविशेषेणाप्रजो दशरथः प्रजा रामादीन् लेभे ॥ ९ ॥
सत्यधर्मीया
मरुत्वत इति सरलः पाठः । मरुत्पतेरिति पाठेऽपीन्द्रस्येत्यर्थः । इष्टिं निरूप्य कारयित्वा येन ऋष्यशृृङ्गेणाप्रजो दशरथः प्रजां रामाद्यां लेभे ॥ ९ ॥
छलारी
अत्र पुत्रस्य लोमपादस्य पुत्रोत्पत्तिप्रकारं निरूपयति । अनपत्यस्य सन्तानरहितस्य लोमपादस्य इति । ऋष्यशृृङ्गो मरुत्वत इन्द्रस्येष्टिमिन्द्रदेवताकमिष्टिमित्यर्थः । स इष्टिः कीदृशः । अप्रजो दशरथो येन ऋष्यृङ्गेनेष्टिविशेषेण प्रजा रामादीन् लेभे ॥ ९ ॥
चतुरङ्गो रोमपादात् पृथुलाक्षस्तु तत्सुतः ॥ १० ॥
सत्यधर्मीया
रोमपादाच्चतुरङ्गस्ततश्चतुरङ्गाङ्गजः ॥ १० ॥
बृहद्रथो बृहत्कर्मा बृहद्भानुश्च तत्सुताः ।
ततो बृहन्मनास्तस्माज्जयद्रथ उदाहृतः ॥ ११ ॥
पदरत्नावली
ततो बृहद्रथात् ॥ ११ ॥
सत्यधर्मीया
तत्सुताः पृथुलाक्षसुतास्ततो बृहद्रथात् तस्माद्बृहन्मनसः ॥ ११ ॥
छलारी
बृहद्रथादयस्त्रयस्तत्सुताः पृथुलाक्षसुताः । ततो बृहद्भानोः ॥ ११ ॥
विजयस्तस्य सम्भूत्यां ततो धृतिरजायत ।
ततो धृतव्रतस्तस्य सत्कर्माऽधिरथस्ततः ॥ १२ ॥
सत्यधर्मीया
तस्य जयद्रथस्य । ततो विजयात् । ततो धृतेस्तस्य धृतवृतस्य सत्कर्मा । ततः सत्कर्मणोऽधिरथः ॥ १२ ॥
छलारी
ततो विजयात्सम्भूतिनामिकायां धृतिनामकस्ततः सत्कर्माख्यादधिरथः ॥ १२ ॥
योऽसौ गङ्गातटे क्रीडन् मञ्जूषान्तर्गतं शिशुम् ।
कुन्त्याऽपविद्धं कानीनमनपत्योऽकरोत् सुतम् ॥ १३ ॥
पदरत्नावली
अपविद्धं गङ्गायां त्यक्तम् । कानीनं कन्यायां जातम् ।
सत्यधर्मीया
अपविद्धमेकान्तत्यक्तं कानीनं कन्यकाजातम् ॥ १३ ॥
छलारी
अपविद्धं गङ्गायां विसृष्टं कानीनं कन्यावस्थायां जातम् ॥ १३ ॥
वृषसेनः सुतस्तस्य कर्णस्य जगतीपते ।
द्रुह्योश्च तनयो बभ्रुः सेतुस्तस्यात्मजस्ततः ॥ १४ ॥
पदरत्नावली
ययातिपुत्रस्य द्रुह्योर्वशं निरूपयति- द्रुह्योश्चेति ॥ १५ ॥
सत्यधर्मीया
जगतीपते हे परीक्षित् । द्रुह्यवंशं शंसति ॥ द्रुह्योरिति ॥ तस्य बभ्रोस्ततः सेतोः ॥ १४ ॥
छलारी
तस्य कर्णस्य सुद्युम्नसुतः । कुन्त्याऽपविद्धं क्षिप्तं कानीनं कन्यावस्थायां जातं शिशुं सुतमकरोदित्यर्थः । ययातिपुत्रस्यानोर्वंशं निरूप्य द्रुह्योर्वंशं निरूपयति ॥ द्रुह्योश्चेति ॥ आत्मज इत्यस्योत्तरत्राप्यनुषङ्गः ॥ १४ ॥
आरब्धस्तस्य गान्धारस्तस्य धर्मस्ततो धृतः ।
धृतस्य कर्दमस्तस्मात् प्रचेताः प्राचेतसं शतम् ॥ १५ ॥
सत्यधर्मीया
तस्यारब्धस्य तस्य गान्धारस्य धर्मस्ततो धर्मात् । तस्मात्कर्दमात् । प्राचेतसं प्रचेतोजातम् ॥ १५ ॥
छलारी
आरब्ध आरब्धनामकः शतं पुत्रशतं प्राचेतसं प्रचेतससम्बन्धिप्राचेतसः शतसङ्ख्याकाः पुत्रा बभूवुरित्यर्थः । तेनेति शेषः ॥ १५ ॥
म्लेच्छाधिपतयोऽभूवन्नुदीचीं दिशमाश्रिताः ॥ १६ ॥
सत्यधर्मीया
उदीचीं दिशमाश्रिता म्लेञ्छाधिपतयोऽभूवन् ॥ १६ ॥
छलारी
केनचिन्निमित्तेन म्लेच्छाधिपतयोऽभूवन् ॥ १६ ॥
तुर्वसोस्तु सुतो वह्निर्वह्नेर्भागोऽथ भानुमान् ।
नृभानुस्तत्सुतोऽस्यापि करन्धम उदारधीः ।
मरुतस्तत्सुतोऽपुत्रः पुत्रं पौरवमन्वभूत् ॥ १७ ॥
पदरत्नावली
ययातिपुत्रस्य तुर्वसोर्वंशं कथयति- तुर्वसोरिति ॥ १७ ॥
सत्यधर्मीया
तुर्वसुवंशं शंसति ॥ तुर्वसोरिति ॥ अथ भागानन्तरम् । तत्सुतो भानुमत्सुतोऽस्य नृभानोस्तत्सुतः मरुतोऽपुत्रः पौरवं तद्वंशभवमन्वभूत् । औरसाभावात्पुरुवंशस्थं पालनाय गृहीतवानित्यर्थः ॥ १७ ॥
छलारी
ययातिपुत्रस्य तुर्वसोर्वंशं कथयति ॥ तुर्वसोरिति ॥ वह्निनामः । अथ तस्मात् । तत्सुतो भानुमत्सुतः । तत्सुतः करंधमसुतः पौरवं पुरुवंशोत्पन्नं दुष्यन्तं पुत्रम् । अस्य मरुतस्यौरसपुत्राभावादेनं दत्तपुत्रं चकारेत्यर्थः । स दुष्यन्तः किञ्चित्कालं मरुतस्य वंशे स्थित्वा राज्याधिपत्यापेक्षयायं दुष्यन्तभरतत्वात्पितुर्दुष्यन्तादन्य इति ज्ञातव्यम् ॥ १७ ॥
दुष्यन्तं स पुनर्भेजे स्वयं साम्राज्यकामुकः ॥ १८ ॥
पदरत्नावली
तत्सुतः करन्धमसुतः मरुत्तोऽपुत्रः पौरवं तद्वंशभवं दुष्यन्तमन्वभूत् स्वराज्यरक्षणाय गृहीतवान् ॥ १८ ॥
सत्यधर्मीया
दुष्यन्तं स्वसाक्षात्पितरं स्वयं साम्राज्यकामुकः पुनर्भेजे ॥ १८ ॥
ययातेर्ज्येष्ठपुत्रस्य यदोर्वंशं नरर्षभ ।
वर्णयामि महापुण्यं सर्वपापहरं नृप ॥ १९ ॥
पदरत्नावली
सूचीकटहन्यायेन द्रुह्यादीनां पुत्राणां वंशं कथयित्वा बहुलत्वाद् विशेषपुण्यहेतुत्वाच्च ज्येष्ठपुत्रस्य यदोर्वशं कथयति- ययातेरिति ॥ १९ ॥
यदोर्वंशं नरः श्रुत्वा सर्वपापैः प्रमुच्यते ।
यत्रावतीर्णो भगवान् परमात्मा नराकृतिः ॥ २० ॥
यदोः सहस्त्रजित् क्रोष्टा नलो रिपुरिति श्रुताः ।
चत्वारः सूनवस्तस्य शतजित् प्रथमात्मजः ।
महाहयो वेणुहयो हैहयश्चेति तत्सुताः ॥ २१ ॥
सत्यधर्मीया
यदोर्वंशं नरः श्रुत्वा (स्थितः) सर्वपापैः प्रमुच्यते । इदमेवोदाहृत्य समानकर्तृकतानियमो नास्तीति व्याख्याय यत्र यत्र श्रीटीकाकृत्पादाः स्थितस्येति शेषं पूरितवन्तस्तत्र तत्र पररीत्येति भावं चाविर्भावयामासुः । शेषवाक्यार्थचन्द्रिकाकारा इतोऽपि विस्तरतस्ततोऽनुसन्धेयः । चन्द्रिकायामपि ‘इत्युक्त्वा प्रतीयते’ इति भाष्ये क्रिययोः समानकर्तृकत्वाभावेऽपि क्त्वाप्रत्ययो ‘यदोर्वंशं नरः श्रुत्वा सर्वपापैः प्रमुच्यते’ इतिवद्द्रष्टव्य इत्यदृश्यत्वाधिकरणे चोक्तम् । अक्षरात्परतः परस्याप्यक्षरान्तत्ववचनादिति न्यायविवरणतत्त्वप्रदीपटीकादितः प्रतीयते व्याकरणप्रतीयता चैतत्पक्षे कथं वारणीयेत्याचार्या विचार्याः । यद्यपि व्याकर्तारो द्रष्टव्य इत्यत्र वर्तमान इति पदाध्याहारेण निर्वाह इवात्रापि वचनादित्यादिपदाध्याहारेण निर्वाहो ज्ञातव्य इति तात्पर्यमवधातव्यमिति विवृतवन्तश्चेदपि समानकर्तृकत्वाभावेऽपि यदोर्वंशमित्यादेश्चानुदाहार्यत्वशङ्कां न ते लङ्घितवन्त इत्यलम् । प्रसङ्गच्छलमेव मूलं ज्ञेयम् । नराणामाकृतिरिवाकृतिर्यस्य सः । यदोः सहस्रजिदादयश्चत्वारः श्रुताः प्रसिद्धाः प्रथमस्य सहस्रजितः ॥ १९-२१ ॥
छलारी
सूचीकटाहन्यायेन द्रुह्यादीनां पुत्राणां वंशं कथयित्वा बहुलपुण्यहेतुत्वाच्च ययातेर्ज्येष्ठपुत्रस्य यदोर्वंशं कथयति ॥ ययातेरिति ॥ महापुण्यं तद्वंशे भगवतोऽवतीर्णत्वादिति हृदयम् । तदेव विशदमाह ॥ यदोर्वंशमिति । नरवदाकृतिर्यस्य । यदोश्चत्वारः सूनवः श्रुता विख्याताः । प्रथमात्मजः प्रथमस्य सहस्रजित आत्मजः । तत्सुताः शतजित्सुतास्त्रयः ॥१९-२१ ॥
धर्मस्तु हैहयसुतो नेत्रः कुन्तेः पिता ततः ।
सोहञ्जिरभवत् कुन्तेर्महिष्मान् भद्रसेनकः ॥ २२ ॥
पदरत्नावली
कुन्तेः पिता नेत्रः । ततः कुन्तेः सोहञ्जिः । तत इत्यस्यावृत्तिः । ततः सोहजेर्महिष्मान् । ततो महिष्मत भद्रसेनकः ॥२२॥
सत्यधर्मीया
तत्सुताः शतजित्सुताः । कुन्तेः पिता नेत्रस्ततः कुन्तेः सोहञ्जिस्ततः सोहञ्जेः । महिष्मान् ततो भद्रसेनकः ॥ २२ ॥
दुर्मदो भद्रसेनस्य धनकः कृतवीर्यकः ।
कृत्याग्निः कृतवर्मा च कृतौजा धनकात्मजाः ॥ २३ ॥
पदरत्नावली
दुर्मदो धनकश्चेति भद्रसेनस्य पुत्रौ । कृतवीर्यप्रभृतयश्चत्वारो धनकात्मजाः ॥ २३ ॥
सत्यधर्मीया
धनकः कृतवीर्यादयश्चत्वारो धनकात्मजाः ॥ २३ ॥
छलारी
ततो धर्मात् । नेत्र इत्यनुषङ्गः । स च कुन्तेस्तन्नामकस्य पिता कुन्तिनामको नेत्रस्य पुत्र इत्यर्थः । कुन्तेः सोहंजिः सोहंजेर्महिष्मान्महिष्मतो भद्रसेनः । भद्रसेनस्य दुर्मदो धनकश्चेति द्वौ पुत्रौ । धनकः कृतवीर्यकः कृतवीर्यजनकः । धनकस्यान्येऽपि पुत्रास्तानाह ॥ कृत्याग्निरित्यादिना ॥ अर्जुनः कार्तवीर्यार्जुनः । प्राप्ता अणिमादयो योगाः शौर्यादयश्च महागुणा यस्य स तथोक्तः ॥ २३,२४ ॥
अर्जुनः कृतवीर्यस्य सप्तद्वीपेश्वरोऽभवत् ।
दत्तात्रेयाद् हरेरंशात् प्राप्तयोगमहागुणः ॥ २४ ॥
सत्यधर्मीया
अर्जुनः कार्तवीर्यार्जुनो हरेः साक्षादंशात् ॥ २४ ॥
न नूनं कार्तवीर्यस्य गतिं यास्यन्ति पार्थिवाः ।
यमदानतपोयोगैः श्रुतवीर्यजयादिभिः ॥ २५ ॥
सत्यधर्मीया
श्रुतं श्रवणं वीर्यं पराक्रमो जयोऽरीणामेत आदयो येषां ते तैः ॥ २५ ॥
छलारी
तानेव महागुणानाह ॥ न नूनमिति ॥ गतिं स्थितिम् । सामर्थ्यमिति यावत् । ते पार्थिवाः । योगोऽणिमादिर्ज्ञानादिश्च जयः शत्रुजयः ॥ २५ ॥
पञ्चाशीतिसहस्राणि ह्यव्याहतबलः समाः ।
**अकरोदर्जुनो राज्यं हरिं चैवान्वहं स्मरन् ॥ २६ ॥ **
सत्यधर्मीया
पञ्चाशीतिसहस्राणि समा इति सामानाधिकरण्यम् ॥ २६ ॥
छलारी
पञ्चोत्तराशीतिसहस्रसङ्ख्याकाः समा अव्याहतमप्रतिहतं शरीरबलं यस्य स तथा ॥ २६ ॥
अनष्टविष्णुस्मरणो बुभुजेऽक्षय्यषड्वसु ।
तस्य पुत्रसहस्राणां पञ्चैवोर्वरिता मृधे ॥ २७ ॥
पदरत्नावली
भोगकालेऽपि विष्णुस्मरणं न नष्टमित्याह- अनष्टेति ॥ अक्षय्यं षड्वसु षडिन्द्रियभोग्यविषयजातं षड्भ्यो गुणेभ्यो लब्धं यद्- वसु तद् वा । मृधे युद्धे ॥ २७ ॥
सत्यधर्मीया
स्वयं स्मरतु हरिं न समीपवर्तिनस्तथेति चेन् नेति कथयति ॥ अनष्टविष्णुस्मरण इति ॥ नष्टं विष्णुस्मरणं येषां ते, ते न विद्यन्ते यस्मिन्निति स तथा । अनेनान्वहं हरिं स्मरन्निति गतार्थतेति ज्ञेयम् । षडिन्द्रियभोग्यं वसु विषयजातम् । तस्य कार्तवीर्यस्य ये दशसहस्राणां मध्येऽयुतं दुद्रुवुर्भयादिति पूर्वमुक्तेर्मृधे पञ्चोर्वरिताः ॥ २७ ॥
छलारी
भोगकालेऽपि विष्णुस्मरणं न परित्यक्तवानित्याह ॥ अनिष्टेति ॥ अक्षय्यं षट्सु षडिन्द्रियविषयं षष्ठांशं वसु षड्वसु वा बुभुजे । तस्य कार्तवीर्यार्जुनस्य मृधे युद्धे ॥ २७ ॥
जयध्वजः शूरसेनो ऋषभो मधुरूर्जितः ।
जयध्वजात् तालजङ्घस्तस्य पुत्रशतं त्वभूत् ॥ २८ ॥
पदरत्नावली
तेषां नामान्याह- जयध्वज इति ॥ २८ ॥
सत्यधर्मीया
पञ्चानां नामान्याह ॥ जयध्वज इति ॥ जयध्वजात्तालजङ्घस्तस्य तालजङ्घस्य पुत्रशतम् ॥ २८ ॥
छलारी
तानेवाह ॥ जयध्वज इति ॥ २८ ॥
क्षत्रं यत् तालजङ्घाख्यमौर्वतेजोपसंहृतम् ।
तेषां ज्येष्ठो वीतिहोत्रो वृष्णिः पुत्रो मधोः स्मृतः ॥ २९ ॥
पदरत्नावली
और्वमुनेस् तेजो यस्य स तथा तेन सगरेणोपसंहृत विनाशितम् ॥ २९ ॥
सत्यधर्मीया
और्वतेजोपसंहृतमौर्वेण तेजो यस्य स सगरस्तेनोपसंहृतम् । तेषां शतसुतानां मध्ये वीतिहोत्रो ज्येष्ठस्तस्य मधोर्वृष्णिः सुतः स्मृतः ॥ २९ ॥
छलारी
यत्पुत्रशतं यत्तालजंघपुत्रशतत्वादेव तदाख्यं क्षत्रं क्षत्रकुलं तदौर्वस्य मुनेस्तेजो यस्य स तथा तेन सगरेण संहृतमित्यर्थः । यद्वा । सगरेणौर्वतेजसा युद्धे संहृतम् । तेषां तालजङ्घपुत्राणां वीतिहोत्रो ज्येष्ठः । वीतिहोत्रस्येति शेषः । मधुः सुत इत्यन्वयः । कथम्भूतो मधुः । वृष्णिपुत्रो वृष्णिः पुत्रो यस्य स तथा । तस्य मधोः पुत्रशतं त्वासीदिति हरिवंशवचनादिति दुर्घटभावदीपोक्तेः ।
तस्य पुत्रशतं त्वासीद् वृष्णिज्येष्ठं यतः कुलम् ।
माधवा वृष्णयो राजन् यादवाश्चेति सञ्ज्ञितम् ॥ ३० ॥
दुर्घटभावदीपिका
पूर्वश्लोके मधोर्वृष्णिरुत्पन्न इत्युक्तम् । अस्मिन् श्लोके मधोः सकाशाद्वृष्णिव्यतिरिक्तं पुत्रशतं चोत्पन्नमित्युच्यते । मधोः पुत्रशतं त्वासीदिति हरिवंशवचनात् । यतः पुत्रशताद्वृष्णिर्ज्येष्ठं वृष्णिर्ज्येष्ठम् आर्यो यस्य तद्वृष्णिर्ज्येष्ठं कुलमासीत् । तद्वृष्णिर्ज्येष्ठं वृष्णिज्येष्ठोऽग्रजो यस्य तद्वृष्णिज्येष्ठपुत्रशतं तस्य मधोः सकाशादासीत् । यद्वृष्णिज्येष्ठं कुलं तन्मध्ये किञ्चित्कुलं माधवेति संज्ञितम् । किञ्चित्कुलं वार्ष्णेयेति संज्ञितम् । किञ्चित्कुलं यादवेति संज्ञितमासीत् । तत्रा हेतुमाह ॥ माधवा इति ॥ यतो वृष्णिज्येष्ठकुले उत्पन्नानां मध्ये केचन वृष्णिद्वारा मधुज्येष्ठकत्वेन वृष्णयो वार्ष्णेयनामका जाता । केचन मधुवृष्णिद्वारा ज्येष्ठकत्वेन यादवा यादवनामकाश्च जाता इति । वार्ष्णेयशब्दाज्जनित द्रराजस्य बहुषु तेनैवास्त्रियामित्यनेन लको लुकि वृष्ण्या इति भवति । अतो वृष्ण्य इत्युक्तम् ॥ ३० ॥
इति श्रीभागवतटिप्पण्याविंशोऽध्यायः ॥ ९-२० ॥
सत्यधर्मीया
तस्य पुत्रशतं त्वासीद् वृष्णिः शतातिरिक्तो यतः कुलं, माधवा वृष्णयो यादवाश्चेति संज्ञितम् । तत्तन्मुख्यपुरुषजन्यत्वात् । मधोः पुत्रशतं त्वासीदित्यादिहरिवंशोक्तेः । वृष्णय इत्यत्र देशस्य तत्संज्ञाङ्गीकारेण तद्राजस्य बहुषु तेनैवास्त्रियामिति द्व्यच्काणलुक् ॥ ३० ॥
छलारी
कीदृशं पुत्रशतम् । वृष्णिर्ज्येष्ठो यस्य स तथोक्तम् । वृष्णिं प्रथममुक्त्वाऽनन्तरं पुत्रशतमभूदित्यर्थः । यतो मधोर्वृष्णेर् यदोश्च हेतोरिदं कुलमुत्पन्नम् अतस्तत्कुलस्था माधवा वृष्णयो यादवाश्चेति संज्ञिता इति योज्यम् ॥ २८ ॥
यदुपुत्रस्य च क्रोष्टोः पुत्रो वृजिनवांस्ततः ।
वाहितोऽतोनुशेकुर्वै तस्य चित्ररथस्ततः ॥ ३१ ॥
पदरत्नावली
यदुपुत्रेषु चतुर्षु ज्येष्ठस्य सहस्रजितो वंशमुक्त्वा द्वितीयस्य वंशमाह- यदुपुत्रस्येति ॥ ३१ ॥
सत्यधर्मीया
ततो वृजिनवतोऽतो वाहितादनुशेकुस्तस्यानुशेकोस्ततश्चित्ररथात् ॥ ३१ ॥
छलारी
यदुपुत्रेषु चतुर्षु ज्येष्ठस्य सहस्रजितो वंशमुक्त्वा द्वितीयस्य वंशमाह ॥ यदुपुत्रस्येति ॥ क्रोष्टोः क्रोष्टनामकस्य वृजिनवान्पुत्रस्ततो वाहेरनुशेकुः । तत इत्यस्योत्तरत्र सम्बन्धः ॥ ३१ ॥
शशबिन्दुर्महायोगी महाभोजो महानभूत् ।
चतुर्दशमहारत्नश्चक्रवर्त्यपराजितः ॥ ३२ ॥
पदरत्नावली
चतुर्दश महारत्नानि यस्य सः । तानि च मार्कण्डेयपुराणे वर्णितानि ‘गजवाजिरथास्त्रेषु निधिमालाम्बरद्रुमाः । शक्तिपाशमणिच्छत्रविमानानि चतुर्दश’ इति । धर्मसंहितायां च प्रकारान्तरेणोक्तानि ‘चक्रो रथो मणिः खड्गश्चर्मरत्नं च पञ्चमम् । केतुर्निधिश्च सप्तैव प्राणहीनानि चक्षते । भार्या पुरोहितश्चैव सेनानि रथकृञ्च यः । पत्यश्वौ कलभश्चेति प्राणिनः सप्त कीर्तिताः । चतुर्दशैतानि रत्नानि सर्वेषां चक्रवर्तिनाम्’ इति । एतेषां स्वस्वजातिश्रेष्ठत्वाद् रत्नसञ्ज्ञा ॥ ३२ ॥
सत्यधर्मीया
शशबिन्दुस्तस्यैव महाभोज इति नामान्तरम् । चतुर्दश महान्ति रत्नानि यस्य सः । तत्तज्जातिजाया रत्नमुच्यते । गजवाजिरथास्त्रेषु निधिमालाम्बरद्रुमाः । शक्तिसासिमणिच्छन्नविमानानि चतुर्दशेति मार्काण्डेयपुराणोक्तानि । चक्रो रथो मणिः खड्गश्चर्मरत्नं च पञ्चमम् । केतुर्निधिश्च सप्तैव प्राणहीनानि चक्षते । भार्या पुरोहितश्चैव सेनानी रथकृच्च यः । पत्यश्वौ कलभश्चेति प्राणिनां सप्त कीर्तिताः । चतुर्दशैतानि रत्नानि सर्वेषां चक्रवर्तिनामिति धर्मसंहितोक्तानि वा रत्नानि ज्ञेयानि । चक्रवर्ती गतम् । अपराजितः, शत्रुमद्विभूतीरभिध्यायन् श्रीवत्सास्त्रविभूषिताः । ध्वजातपत्रव्यजनैः स भवेदपराजित इत्येकादशस्कन्धोक्तलक्षणवानपराजितो वा ॥ ३२ ॥
छलारी
ततश्चित्ररथाच्छशबिन्दुर्महाभोज इति नामान्तरम् । तं विशिनष्टि ॥ चतुर्दशेति ॥ चतुर्दशमहारत्नानि तज्जातिश्रेष्ठवस्तूनि यस्य सः । तानि मार्काण्डेयपुराणे वर्णितानि । गजवाजिरथस्त्रेषु निधिमौक्तिकविद्रुमाः । शक्तिपाशमणिच्छन्नविमानानि चतुर्दशेति ॥ ३२ ॥
तस्य पत्नीसहस्त्राणां दशासन् स महायशाः ।
दशलक्षसहस्त्राणि पुत्राणां तास्वजीजनत् ॥ ३३ ॥
सत्यधर्मीया
पत्नीसहस्राणां दश, दशसहस्रसङ्ख्याः पत्न्योऽभवन् । स महायशाः शशबिन्दुस्तासु दशलक्षसहस्राणि प्रत्येकं प्रत्येकं लक्षं लक्षमेवं दशलक्षसहस्राणि पुत्राणामजीजनत् ॥ ३३ ॥
छलारी
तस्य शशबिन्दोः पत्नीसहस्राणां दश आसन् । दशसहस्रसङ्ख्याकाः पत्न्योऽभवन्नित्यर्थः । महायशाः सः शशबिन्दुस्तासु भार्यासु प्रत्येकं लक्षं लक्षमेवं तासु पुत्राणां दशलक्षसहस्राणि जनयामास । शशबिन्दोरनेकेषु पुत्रेषु पृथुश्रवः प्रभृतयः षट् पुत्राः प्रधानाः ॥३३॥
तेषां तु षट्प्रधानानां पृथुश्रवस आत्मजः ।
धर्मो नामोशनास्तस्य हयमेधशतस्य राट् ॥ ३४ ॥
पदरत्नावली
षट्प्रधानानां पृथुश्रवाः श्रेयान् ॥ ३४ ॥
सत्यधर्मीया
षट् प्रधानानां पृथश्रवा इति श्रेयांस्तस्यात्मजो धर्मस्तत्कर्म । तस्य धर्मस्योशनाः । नायमुशनेति अविसर्गः पाठः सम्भवति । हयमेधशतस्य राट् तदनुष्ठाता ॥ ३४ ॥
छलारी
तत्र शशबिन्दोर्ज्येष्ठपुत्रस्य पृथुश्रवसो वंशमाह ॥ तेषामिति ॥ तेषां मध्ये धर्मो नाम पृथुश्रवस आत्मजः । तस्य धर्मस्योशना नामात्मजो हयमेधशतस्य हयमेधानां शतेन राजत इति राट् शताश्वमेधकर्तेत्यर्थः ॥ ३४ ॥
तत्सुतो रुचकस्तस्य पञ्चासन्नात्मजाः शृणु ।
पुरुजिद्रुक्मरुक्मेषु पृथुज्यामघसञ्ज्ञिताः ॥ ३५ ॥
सत्यधर्मीया
तत्सुत उशनःसुतस्तस्य रुचकस्य पञ्चासन् तानात्मजांच्छृणु ॥ ३५ ॥
छलारी
तस्य रुचकस्य पञ्चात्मजा आसन् । तानात्मजान् श्रुणु ॥ ३५ ॥
ज्यामघस्त्वप्रजोऽप्यन्यां भार्यां शैब्यापतिर्भयात् ।
नाविन्दच्छत्रुभवनात् कन्यां भ्रष्टामहारषीत् ॥ ३६ ॥
पदरत्नावली
युद्धे भ्रष्टाम् ॥ ३६ ॥
सत्यधर्मीया
ज्यामघः शैब्यापतिर्भयाद्भार्याभीतेर्युद्धे भ्रष्टां कन्यामहार्षीत्सामर्थ्यादानीतवान् ॥ ३६ ॥
छलारी
शैब्यानामकभार्याभयादेवैकभार्यस्य वन्ध्यापतेर्ज्यामघस्य राज्ञः पुत्रस्य तद्भयमेव पुत्रप्रदमभवदिति प्रदर्शयन्नाह ॥ ज्यामघस्त्विति ॥ अन्यां भार्यां नाविन्दन्न प्राप शत्रुभवनान्मार्गभ्रष्ठामहर्षीदपहार्षीत् ॥ ३६ ॥
रथस्थां तां निरीक्ष्याह शैब्या पतिममर्षिता ।
केयं कुहक मत्स्थानं रथमारोपितेति वै ॥ ३७ ॥
सत्यधर्मीया
तां कन्यां शैब्याऽमर्षिता सती पुनः परिणयनायानयनमित्यमर्षात्पतिमाह । हे कुहक कपटिन् मत्स्थानं रथमारोपिता केत्याह ॥ ३७ ॥
छलारी
हे कुहक कपटयुक्त । मदावासस्थानम् ॥ ३७ ॥
स्नुषा तवेत्यभिहिता स्मयन्ती पतिमब्रवीत् ।
अहं वन्ध्याऽसपत्नी च स्नुषा युज्येत मे कथम् ॥ ३८ ॥
पदरत्नावली
असपत्नी सपत्नीरहिता ॥ ३८ ॥
सत्यधर्मीया
तव स्नुषा, सपत्नी नेति स्मयन्ती पुत्रासत्त्ववचनमिदं कथमिति स्मयः । अहं च वन्ध्याऽसपत्नी च तादृश्या मम स्नुषा कथं युज्येत ॥ ३८ ॥
छलारी
स्नुषा स्नुषेति वचनं कथं युज्यते ॥ ३८ ॥
जनयिष्यसि यं राज्ञि तस्येयमुपपत्स्यते ।
अन्वमोदन्त तद् विश्वेदेवाः पितर एव च ॥ ३९ ॥
सत्यधर्मीया
हे राज्ञि यं जनयिष्यसि तस्येयमुपपत्स्यते उपयुक्ता भविष्यति । तज्जामघे जननं विश्वेदेवाः पितरश्च तेन बहुचिरं समचिन्ता अन्वमोदन्त तथाऽस्त्वित्यवदन् ॥ ३९ ॥
छलारी
अतिभयेन व्याकुलमाह ॥ जनयिष्यसीति ॥ देवताप्रसादेनेति शेषः । भार्याभयेन कथं मनःखिन्नसर्वाङ्गस्य राज्ञः प्राणसङ्कटमालोक्य कयाऽनुकंपितास्तेन पूर्वं बहुकालमाराधिता विश्वे देवाः पितरश्च तथेत्यन्वमोदन्त ॥ ३९ ॥
शैब्या गर्भमधात् काले कुमारं सुषुवे शुभम् ।
स विदर्भ इति प्रोक्त उपयेमे स्नुषां सतीम् ॥ ४० ॥
इति श्रीमद्भागवते नवमस्कन्धे विंशोऽध्यायः ।
पदरत्नावली
स्नुषां पूर्वं स्नुषेत्यभिहिताम् ॥ ४० ॥
इति श्रीमद्भागवतटीकायां विजयध्वजतीर्थभिक्षुकृतायां नवमस्कन्धस्य विंशोऽध्यायः
सत्यधर्मीया
स शैब्यात्मजो विदर्भ इति प्रोक्तः । प्रोक्तां पित्रा स्नुषेति या तां सतीमुपयेमे इत्यन्वयः ॥ ४० ॥
इति श्रीसत्यधर्मयतिकृतायां भागवतटिप्पण्यां नवमस्कन्धे विंशोऽध्यायः ।
छलारी
स्नुषां पूर्वं स्नुषेत्यभिहिताम् ॥ ४० ॥
इति श्रीछलारी शेषाचार्यकृतायां भागवतटिप्पण्यां नवमस्कन्धे विंशोऽध्यायः ।