१९ एकोनविंशोऽध्यायः

मित्रायुश्च दिवोदासाच्च्यवनस्तत्सुतो नृप

॥ अथ एकोनविंशोऽध्यायः ॥

श्रीशुक उवाच —

मित्रायुश्च दिवोदासाच्च्यवनस्तत्सुतो नृप ।

सुदासः सहदेवोऽथ सोमको जन्तुजन्मकृत् ॥ १ ॥

पदरत्नावली

अहल्यासन्ततिं प्रोच्य तद्भ्रातृदिवोदाससन्ततिं कथयति- मित्रायुरिति ॥ अथेत्यस्यावृत्तिः । तस्मात् सुदासस्तस्मात् सहदेवस्तस्मात् सोमक इति विवेकः । जन्तुजन्मकृत् सोमकस्य जन्तुज्येष्ठपुत्रः ॥ १ ॥

सत्यधर्मीया

अहल्यायाः सन्ततिमुक्त्वा तद्भ्रातृदिवोदाससन्तानं कथयति ॥ मित्रायुरिति ॥ तत्सुतश्च्यवनसुतः सुदासस्तत्सुतः सहदेवस्तत्सुतो जन्तुजन्मकृज्जन्तुपिता सोमक इति विवेकः ॥१॥

छलारी

अहल्यासन्ततिं प्रोच्य दिवोदाससन्ततिं कथयति ॥ मित्रायुरिति ॥ अथेत्यस्यावृत्तिः । तस्मात्सुदासस्तस्मात्सहदेवस्तस्मात्सोमक इति विवेकः । जन्तुजन्मकृत्सोमकस्य जन्तुर्ज्येष्ठपुत्रः ॥१॥

तस्य पुत्रशतं तेषां यवीयान् पृषतस्ततः ।

द्रुपदो द्रौपदी तस्य धृष्टद्युम्नादयः सुताः ॥ २ ॥

पदरत्नावली

पृषतो यवीयान् कनिष्ठः ॥ २ ॥

सत्यधर्मीया

तस्य सोमकस्य पुत्रशतम् । तेषां जन्तुं प्रथमजन्तुं वदन्ति । यवीयान्कनिष्ठः सुतः पृषत इति शतं मन्तव्यम् । तस्य पृषतो द्रुपदस्तस्य द्रुपदस्य द्रौपदी धृष्टद्युम्नादयः सुता अभवन् ॥ २ ॥

छलारी

सोमकस्य बहवः पुत्रा बभुवुरित्याह ॥ तस्येति ॥ पृषतो यवीयान्कनिष्ठः ॥ २ ॥

धृष्टद्युम्नाद् धृष्टकेतुर्हर्म्याः पाञ्चालका इमे ।

योऽजमीढसुतो ह्यन्य ऋक्षात् संवरणस्ततः ॥ ३ ॥

पदरत्नावली

अजमीढसुतो योऽन्यः, बृहदिषोरिति शेषः । अन्यस्यां भार्यायां जातः नाम्ना ऋक्षः । ऋक्षाज्जातः संवरणो नाम ॥३॥

सत्यधर्मीया

हर्म्या उपाधितः पाञ्चालका अन्यो बृहदिषो ऋक्षस्तस्मात्संवरणः स्मृतः ॥३॥

छलारी

ततः पृषतादिमे हर्म्या हर्म्याश्ववंश्यः पञ्चालवंशोत्पन्नत्वात्पाञ्चालका इत्युच्यन्ते । अजमीढस्य वंशान्तरमाह ॥ य इति । अन्यः । बृहदिषोरिति शेषः । अन्यस्यां भार्यायां जातः स ऋक्षो नाम ततः संवरणः ॥ ३ ॥

तत्पत्न्नयां सूर्यकन्यायां कुरुक्षेत्रपतिः कुरुः ।

परीक्षित् सुधनुर्जह्नुर्निषधाश्वः कुरोः सुताः ॥ ४ ॥

सत्यधर्मीया

सूर्यकन्यायां नाम्ना तत्पत्न््नयां ततः संवरणात्कुरुक्षेत्राधिपतिः कुरुरभूत् । कुरोः सुताः परीक्षिदादयश्चत्वारः सुता अभवन् ॥ ४ ॥

छलारी

तत इत्यस्यावृत्तिः । ततः संवरणात्तत्पत्न्यां तपतीनामिकायां सूर्यकन्यायां कुरुरभूत् परीक्षिदादयश्चत्वारः कुरोः सुताः ॥ ४ ॥

सुहोत्रोऽभूत् सुधनुषश्च्यवनस्तत्सुतः कृती ।

वसुस्तस्योपरिचरो बृहद्रथमुखास्ततः ॥ ५ ॥

सत्यधर्मीया

तत्सुतश्च्यवनसुतस् तस्य कृतिनस्ततो वसोस्तत उपरिचरात् ॥ ५ ॥

छलारी

सुहोत्रसुतश्च्यवनः । तत्सुत इत्यस्यानुकर्षः । कृती तत्सुतश्च्यवनसुतः । तस्य कृतिन उपरिचर इति सोमपादो वसुर्जात एतद्वीर्यादेव सत्यवती विराटश्च मत्स्यादुत्पन्ना वेति ज्ञेयम् । ततो वसोर्भार्याभेदेन बृहद्रथमुखाः कुशांब्वाद्याश्च जाताः । कथम्भूताः । चेदिपाश्चेदिदेशपालाः । तस्य ऋषभः ॥ ५,६ ॥

कुशाम्बुमत्स्यप्रत्यग्रवेदिषाद्याश्च चेदिपाः ।

बृहद्रथात् कुशाग्रोऽभूद् ऋषभस्तस्य तत्सुतः ॥ ६ ॥

सत्यधर्मीया

कुशाम्बादयश्चेदिपास्तस्य कुशाग्रस्य । तत्सुतः सत्यहितः ॥ ६ ॥

जज्ञे सत्यहितोऽपत्यं पुष्पवांस्तत्सुतो जहुः ।

अन्यस्यामपि भार्यायां शकले द्वे बृहद्रथात् ॥ ७ ॥

सत्यधर्मीया

तत्सुतः पुष्पवान् तत्सुतो जहुस्तन्नामा बृहद्रथाज्जातः ॥ ७ ॥

छलारी

जज्ञे । सत्यहितस्तत्सुतः सन् जज्ञे । तस्य पुष्पवानपत्यं पुत्रः । बृहद्रथस्यैक-भार्यासन्ततिमुक्त्वाऽन्यभार्यासन्ततिमाह ॥ अन्यस्यामिति ॥ द्वे शकले एककर्णाद्यवयवयुक्तार्धशरीररूपशकले ॥ ७ ॥

ते मात्रा बहिरुत्सृष्टे जरया चाभिसन्धिते ।

जीव जीवेति क्रीडन्त्या जरासन्धोऽभवत् सुतः ॥ ८ ॥

पदरत्नावली

जरया तन्नाम्न्या राक्षस्या ॥८॥

सत्यधर्मीया

जरया तन्नाम्न्या जीव जीवेति क्रीडन्त्या ततो जरासन्धस्तदभिधोऽभवत् ॥ ८ ॥

छलारी

बृहद्रथादुत्पन्ने । जीव जीवेति वदन्त्याऽशेषजरया रक्षस्या ताभ्यां शकलाभ्यां जरासन्धोऽभवत् ॥ ८ ॥

ततश्च सहदेवोऽभूत् सोमापिर्यच्छ्रुतश्रवाः ।

परीक्षिदनपत्योऽभूत् सुरथो नाम जाहवः ॥ ९ ॥

पदरत्नावली

जाहवः जहोः पुत्रः ॥ ९ ॥

सत्यधर्मीया

ततो जरासन्धात् । ततो सहदेवात् । सोमापिस्ततः सोमापेः परीक्षित् । जाहवो जहुसुतः ॥ ९ ॥

छलारी

यदित्यस्योभयत्रानुषङ्गः । यतो यस्मात्सहदेवात्सोमापिर्यस्मात्सोमापेः श्रुतश्रवाः कुरोश्चतुर्षु पुत्रेषु ज्येष्ठः पुत्रः । परीक्षिदनपत्योऽभूत् । कुरुपुत्रस्य जह्नोर्वंशमाह ॥ सुरथ इति ॥ ९ ॥

ततो विदूरथस्तस्मात् सार्वभौमस्ततोऽभवत् ।

जयत्सेनस्तत्तनयो राचीकोऽतो द्युमानभूत् ॥ १० ॥

सत्यधर्मीया

ततो जाहवात् । तस्माद्विदूरथात् । तत्तनयः सार्वभौमसुतस्तत्सुतो जयत्सेनतनयः । अतो राचीकात् ॥ १० ॥

छलारी

सार्वभौमस्तन्नामकस्ततो जयत्सेनादभवद्राचीकस्तत्तनयः । ततो ऋचीकात् ॥ १० ॥

ततश्च क्रोधनस्तस्माद् देवातिथिरमुष्य च ।

ऋक्षस्तस्य दिलीपोऽभूत् प्रतीपस्तस्य चात्मजः ॥ ११ ॥

सत्यधर्मीया

ततो द्युमतस्तस्मात्क्रोधनात् । अमुष्य देवातिथेस्तस्य ऋक्षस्य तस्य दिलीपस्य ॥ ११ ॥

छलारी

ऋक्षो ऋक्षनामा ॥ ११ ॥

देवापिः शन्तनुस्तस्य बाह्लीक इति चात्मजाः ।

पितृराज्यं समुत्सृज्य देवापिस्तु वनं गतः ॥ १२ ॥

पदरत्नावली

तुस्त्वग्दोषादिविशेषसूचकः । तदुक्तम् ‘त्वग्दोषयुक्तो देवापिर्जगाम तपसे वनम्’ इति ॥१२॥

सत्यधर्मीया

तस्य प्रतीपस्य । तुस्त्वग्दोषादिविशेषसूचकः ॥ १२ ॥

छलारी

तस्य प्रतीपस्य देवापिशंतनुबाह्लीकाख्यास्त्रयः पुत्राः । स च शन्तनुः पूर्वं वरुणो बाल्हीकः पूर्वं प्रल्हादो, देवापिस्त्वग्दोषयुक्तत्वात्तपसे वनं गतः ॥ १२ ॥

अभवच्छन्तनू राजा प्राङ्महाभिषजसञ्ज्ञितः ।

यं यं कराभ्यां स्पृशति जीर्णं यौवनमेति सः ॥ १३ ॥

पदरत्नावली

शन्तनुशब्दं निर्वक्ति– यं यमिति ॥ कराभ्यां यं यं जीर्णं जराद्युपेतं स्पृशति स स एतत्स्पृष्टो यौवनमेति । शं सुखसाधनीभूता तनुर्येन सः सुखप्रदायकत्वात् शम्, ‘तनु विस्तारे’ इति धातोः शरीरपुष्टिहेतुत्वात् तनुः, शं चासौ तनुश्चेति वा । शन्तं शान्तं नयति प्रापयतीति वा । द्वौ चापरौ वर्णविकारनाशौ इति निरुक्त वर्णविकारनाशयोरुक्तत्वात् । शन्तं शान्तिसुखं नयतीति शन्तनुरिति च निरुक्तिं सूचयति- शान्तिमाप्नोतीति ॥ १३ ॥

सत्यधर्मीया

प्राग्विधिशापतो महाभिषगिति जातस्तदनन्तरं शन्तनुर्जातः । यथोक्तमाचार्यैः पूर्वोदधेरित्यारभ्य तया मुमोदाब्दगणान्बहूंश्चेत्यन्तैः श्लोकैः । शन्तनुशब्दं निर्वक्ति ॥ यं यमिति ॥ स यं यं जीर्णं कराभ्यां स्पृशति स स एतत्स्पृष्टो यौवनमेति प्राप्नोति । शं सुखसाधनीभूता तनुर्येन स इति सुखं यन्नामेवेति ॥ १३ ॥

छलारी

प्राक् पूर्वजन्मनि महाभिषङ्नामकः । जीर्णं जराद्युपेतम् ॥ १३ ॥

शान्तिमाप्नोति चैवाग्य्रां कर्मणा तेन शन्तनुः ।

समा द्वादश तद्राष्ट्रे न ववर्ष यदा विभुः ॥ १४ ॥

सत्यधर्मीया

कराभ्यामित्युक्त्या तयोरविशेषमाह । यः स्पर्शेन रूपेण जीर्णोऽशान्तिमाञ्छान्तिमाप्नोति यत्तेन शन्तनुरभवत् । शान्तं शान्तिं नयतीति शन्तनुरिति निरुक्तिं सूचयति । तद्राष्ट्रे शन्तनुदेशे द्वादश समाः संवत्सरान्विभुरिन्द्रो न ववर्ष यदा तदा ॥ १४ ॥

छलारी

शान्तिं सुखम् । यदा देवो न ववर्ष तदा शन्तनुस्तत्र । ब्राह्मणानपृच्छदिति शेषः ॥ १४ ॥

शन्तनुर्ब्राह्मणैरुक्तः परिवेत्ताऽयमग्रभुक् ।

राज्यं देह्यग्रजायाशु पुरराष्ट्रविवृद्धये ॥ १५ ॥

पदरत्नावली

दाराग्निहोत्रसंयोगादिकं यः कुरुतेऽग्रजे स्थिते सति स परिवेत्ता । तदुक्तम् ‘दाराग्निहोत्रसंयोगं कुरुते योऽग्रजे स्थिते । परिवेत्ता स विज्ञेयो परिवित्तिस्तु पूर्वजः’ इति । अयं शन्तनुरग्रभुक् अग्रजस्य देवापेरग्रतो राज्यभोक्ता । त्वं परिवेत्ता, एतदधर्मादनावृष्टिः, पुरराष्ट्रविवृद्धये अग्रजाय देवापये आशु जननाशात् प्राग् राज्यं देहीति ब्राह्मणैरुक्त इत्यन्वयः ॥ १५ ॥

सत्यधर्मीया

ब्राह्मणैरयं परिवेत्तेति । दाराग्निहोत्रसंयोगं कुरुते योऽग्रजे स्थिते । परिवेत्ता स इत्युक्तः परिवित्तिस्तु पूर्वजः ॥ इत्युक्तेः । अग्रभुक् अग्रजे समे ततोऽप्यग्रतो भुङ्क्ते सम्पदमिति सोऽपि परिवेत्ता भवति । एतदधर्मादनावृष्टिः । पुरराष्ट्रविवृद्धये । अग्रजाय देवापये आशु जननाशात्पूर्वं राज्यं देहीत्युक्त इत्यन्वयः ॥ १५ ॥

छलारी

ततो ब्राह्मणैरेवमुक्तो ‘दाराग्निहोत्रसंयोगं कुरुते चाग्रजे स्थिते परिवेत्ता स विज्ञेयो परिवित्तिस्तु पूर्वज’ इति स्मृतेः । अग्रभुक् अग्रतो राज्यभोक्ता त्वं परिवेत्ताऽग्रवित्तोऽयं शन्तनुरग्रभुक् अग्रजस्य देवापेरग्रतो राज्यं देहीत्युक्तः । अतस्तद्दोषपरिहारायाग्रजाय देहि ततो वृष्टिर्भविष्यतीति ॥ १५ ॥

एवमुक्तो द्विजैर्ज्येष्ठं छन्दयामास सोऽब्रवीत् ।

तन्मन्त्रिप्रहितैर्विप्रैर्वेदाद् विभ्रंशितो गिरा ।

वेदवादातिवादान् वै ततो देवो ववर्ष ह ॥ १६ ॥

पदरत्नावली

छन्दयामास प्रसादयामास । शन्तनोः कश्चिन्मन्त्री अश्मकशर्मकः, शन्तनोर्ज्येष्ठगमनात् पूर्वमेव विप्रान् न्ययुक्त अयं देवापिर्यथा वेदमार्गाद् विभ्रंशितो भवेत् तथा कर्तव्यमिति । तन्मन्त्रिप्रहितैविप्रैर्गिरा वेदवचनेन वेदाद् विभ्रंशितः सन्मार्गभ्रंशितः स देवापिर् वेदवादातिवादान् वेदवादमतिक्रम्य विद्यमानान् वादानब्रवीत् । ततः देवापौ विभ्रष्टे सति इन्द्रदेवो ववर्ष ॥ १६ ॥

दुर्घटभावदीपिका

गिरेत्यस्य वेदगिरेत्यर्थः । एतेन गिरेत्ये तद्व्यर्थमिति दूषणमपास्तम् । वेदवाक्यानुदाहृत्य वेदविरुद्धार्थानब्रवीदित्यत्र तात्पर्यात् ॥ १६ ॥

सत्यधर्मीया

एवं पूर्वं ब्राह्मणैरित्युक्त्वेदानीं द्विजैरिति वदन् वृद्धक्षत्रवैश्यादिबोधनमपि ध्वनयति । छन्दयामास वरयाञ्चकार । तस्य मन्त्रिणाऽशाकशर्मकेन प्रहितैः प्रेषितैर्गिरा वचनेन वेदाद्विभ्रंशितः पाषण्डमतप्रवेशनेन सन्मार्गभ्रंशितः प्रकर्षेण हि शन्तनुतन्मन्त्रिणो यैस्तैरित्यर्थः । तथासन् दवादातिवादान्वेदवादमतीत्य विद्यमानान्वादानब्रवीत् । ततः पतितया पतितायोग्यत्वान्न शन्तनोस्तनुरपि व्यत्यय इति । ततो देवो देवेन्द्रो ववर्ष ॥ १६ ॥

छलारी

शन्तनोर्ज्येष्ठं प्रतिगमनात्प्रागेव शन्तनुं प्रत्यमुं त्यक्त्वा स्वेच्छयैव दुष्टेन केनचिन्मन्त्रिणा देवापिं पाषण्डीकृत्वा राज्यनर्हं कुरुत इत्युक्त्वा प्रेषितैर्विप्रैर्वनम् । पाषण्डिमताश्रयो गिरा वेदोक्तसन्मार्गाद्विभ्रंशितः सन् वेदवादस्य वेदार्थस्यातिवादान्निन्दावचनान्यब्रवीत् । शन्तनुस्त्विदमज्ञात्वावनं प्रति गत्वा ज्येष्ठं छन्दयामास प्रसादयामास । प्रजापालनादिधर्मः परो धर्मोऽवश्यं त्वयाऽनुष्ठेयः । इत्युक्त्वा देवापिर्वेदन प्रमाणं तदुक्तं न कर्तव्यं किन्तु प्रजापीडा कर्तव्या । सर्वे ब्राह्मणा अयं दोषी राज्यानर्हः शन्तनुरेव गुणी राज्यार्ह इत्युक्त्वा तस्यैव भूपतित्वमङ्गीचक्रुस्तदेत्यर्थः ॥ १६ ॥

देवापिर्योगमास्थाय कलापग्राममास्थितः ।

सोमवंशे कलौ नष्टे कृतादौ स्थापयिष्यति ॥ १७ ॥

पदरत्नावली

योगं भगवद्धयानम् ॥ १७ ॥

सत्यधर्मीया

योगं समाधिर्भगवद्ध्यानं वा । आस्थाय कलापनामकग्राममास्थितस्तत्र वसन् । सोमवंशे सन्ताने शीतांशोर्नष्टे सति स कृतादौ स्थापयिष्यति ॥ १७ ॥

छलारी

कृतादौ कृतयुगस्यादिभागे विष्णोः प्रसादाद्राजा भूत्वा स्वस्य सोमवंशोत्पन्नत्वात्पुत्रपौत्रादिरूपेण सन्ततिं कृत्वा सोमवंशं स्थापयिष्यतीत्यर्थः । तदुक्तम् । विष्णोः प्रसादात्स युगे कृते राजा भविष्यतीति ॥ १७ ॥

बाह्लीकात् सोमदत्तोऽभूद् भूरिर्भूरिश्रवास्ततः ।

शलश्च शन्तनोरासीद् गङ्गायां भीष्म आत्मवान् ॥ १८ ॥

सत्यधर्मीया

ततः सोमदत्तात् । भूरिर्भूरिश्रवाः शलश्चेति त्रयः पुत्रा अभवन् । गङ्गायां भागीरथ्यामात्मवानूर्ध्वरेतस्त्वादिहेतुर्मनस्वी ॥ १८ ॥

छलारी

बाह्लीकात्प्रतीपपुत्रात्ततः सोमदत्ताद्भूरिर्भूरिश्रवाः शलश्चेति त्रयः पुत्राः । तत्र रुद्रेषु सोमदत्तः पूर्वं पत्रतापाख्यो, भूरिः पूर्वमजैकपान्नामको, भूरिश्रवाः पूर्वमहिर्बुध्ननामकः शिवादिसर्वरुद्रैराविष्टः शलः पूर्वं विरूपाक्षः ॥ १८ ॥

सर्वधर्मविदां श्रेष्ठो महाभागवतः कविः ।

वीरयूथाग्रणीर्येन रामोऽपि युधि तोषितः ॥ १९ ॥

पदरत्नावली

रामः परशुरामः ॥ १९ ॥

सत्यधर्मीया

रामोऽपि भार्गवरामोऽपि ॥ १९ ॥

छलारी

भीष्मः पूर्वं द्युनामा वसुरात्मवान् जितेन्द्रियो येन भीष्मेण तोषितो मम पाणिं गृह्णात्वित्यंबया प्रार्थितोऽपि परशुरामस्तेन युद्धं कृत्वा स्थैर्यं दृष्ट्वा सन्तुष्टोऽभूदित्यर्थः ॥ १९ ॥

शन्तनोर्दाशकन्यायां जज्ञे चित्राङ्गदः सुतः ।

विचित्रवीर्योऽवरजो नाम्ना चित्राङ्गदो हतः ॥ २० ॥

पदरत्नावली

दाशकन्यायां तत्पालितायां सत्यवत्याम् । समाननाम्ना निमित्तेन चित्राङ्गदेन गन्धर्वेण हतः । तदुक्तं भारते सम्भवपर्वणि ‘गन्धर्व उवाच- ‘त्वं वै सदृशनामासि युद्धं देहि नृपात्मज । नाम वान्यत् प्रगृह्णीष्व यदि युद्धं न दास्यमि’ इत्यादिपद्यैः ॥ २० ॥

सत्यधर्मीया

दाशकन्यायां तत्पालितायाम् । नाम्नाऽत्यक्तेन चित्रांगदेन निहतो नाम स्वमपरित्यजन् । चित्राङ्गदोऽकृतोद्वाह इत्याचार्योक्तेः ॥ २० ॥

छलारी

दाशकन्यायां दाशैः कैवर्तैः पालितत्वादेव दाशकन्यायां सत्यवत्यां नाम्नाऽतिप्रसिद्ध-समाननाम्ना निमित्तेन चित्रांगदेन गन्धर्वेण युद्धे हतः ॥ २० ॥

यस्यां पराशरात् साक्षादवतीर्णो हरेः कला ।

वेदगुप्त्यै मुनिः कृष्णो यतोऽहमिदमध्यगाम् ॥ २१ ॥

पदरत्नावली

यस्यां दाशकन्यायाम् । वेदगुप्त्यै तद्रक्षणाय कृष्णो व्यासो मुनिरवतीर्णः । यतः कृष्णादिदं श्रीमद्भागवतम् अध्यगामधीतवानस्मि ॥ २१ ॥

सत्यधर्मीया

यस्यां सत्यवत्यां पराशराद्धरेः साक्षात्कलाबलादिव्यावृत्तये साक्षादिति । वेदगुप्त्यै तद्रक्षणाय कृष्णो मुनिरवतीर्णः । यतोऽहमिदं भागवतं पुराणमध्यगामधीतवान् ॥ २१ ॥

छलारी

यस्यां शन्तनुपरिग्रहात्पूर्वमेवावतीर्णः साक्षात्कलास्वरूपांशभूतः । अवतारप्रयोजनमाह ॥ वेदेति ॥ वेदविभागार्थं कृष्णो व्यासो यतो व्यासाच्छुकनामकोऽहं जातः । इदं भागवतं पुराणमध्यगामधिगतवानस्मि ॥ २१ ॥

हित्वा स्वशिष्यान् पैलादीन् भगवान् बादरायणः ।

मह्यं पुत्राय शान्ताय परं गुह्यमिदं जगौ ॥ २२ ॥

पदरत्नावली

श्रीमद्भागवतं स्तौति- हित्वेति ॥ २२ ॥

सत्यधर्मीया

मयि ममताविशेषः सुतत्वादित्यभिधत्ते ॥ हित्वेति ॥ स्वशिष्यान्पैलादीन्पैलजैमिन्यादीन्हित्वा पुत्राय मह्यं परं गुह्यं गोप्यमिदं जगौ ॥ २२ ॥

छलारी

श्रीभागवतं स्तौति ॥ हित्वेति ॥ २२ ॥

विचित्रवीर्योऽथोवाह काशिराजसुते बलात् ।

स्वयंवरादुपानीते अम्बिकाम्बालिके उभे ॥ २३ ॥

पदरत्नावली

काशिराजसुते ते अम्बिकाम्बालिके बलाद् भीष्मेणोपानीते ॥ २३ ॥

सत्यधर्मीया

बलाद्भीष्मेणोपानीते अम्बिकाम्बालिके उभ उत्कृष्टाभार्ययोस्ते ते । एतेन द्विवचनादेव द्वित्वे लब्धे पुनरुभे इति व्यर्थमिति परास्तम् ॥ २३ ॥

छलारी

विचित्रवीर्यः सत्यवत्यां कनिष्ठपुत्रः । स्वयंवराद्भीष्मेण बलादुपानीते । यक्ष्मणा क्षयेन ॥ २३,२४ ॥

तयोरासक्तहृदयो गृहीतो यक्ष्मणा मृतः ॥ २४ ॥

पदरत्नावली

यक्ष्मणा क्षयरोगेण ॥ २४ ॥

सत्यधर्मीया

यक्ष्मणा क्षयरोगेण ॥ २४ ॥

क्षेत्रेऽप्रजस्य वै भ्रातुर्मात्रोक्तो बादरायणः ।

धृतराष्ट्रं च पाण्डुं च विदुरं चाप्यजीजनत् ॥ २५ ॥

पदरत्नावली

अप्रजस्य सन्तानरहितस्य भ्रातुर्विचित्रवीर्यस्य । विदुरं भुजिष्यायां जनयामास ॥ २५ ॥

सत्यधर्मीया

अप्रजस्य प्रजारहितस्य विचित्रवीर्यस्य भ्रातुः क्षेत्रे भार्ये ये तयोः । सप्तमी वा । मात्रा उक्तः । तद्दाक्षिण्यादकार्यमप्यकार्यं नेति ज्ञेयम् । अम्बिका सामान्यतोऽम्बकद्वयमाच्छाद्य रेमेऽतोऽन्धः सुतो जातः । अम्बालिकाऽपि भीता पाण्डुरे नेत्रे विधायारीरमत् तेन पाण्डुः सुतोऽभवन्नामतो वर्णतश्च । भीतयोस्तयोरनागतयोरागतायां भुजिष्यायां विदुरं जनयामास व्यासः ॥ २५ ॥

छलारी

अप्रजस्य सन्तानरहितस्य भ्रातुर्विचित्रवीर्यस्य प्रथमक्षेत्रे धृतराष्ट्रं द्वितीयक्षेत्रे पाण्डुमिति विवेकः । भुजिष्यां विदुरमिति विवेकः । तत्र धृतराष्ट्रः पूर्वं धृतराष्ट्रनामकगन्धर्वः पाण्डुः पूर्वं परावहो नामकमरुत्, विदुरः पूर्वं यमधर्मः ॥ २५ ॥

गान्धार्यां धृतराष्ट्रस्य जज्ञे सुतशतं नृप ।

तेषां दुर्योधनो ज्येष्ठो दुःशला चापि कन्यका ॥ २६ ॥

सत्यधर्मीया

तेषां सुतानां मध्ये दुर्योधनो ज्येष्ठः शतोत्तरा च दुःशला कन्यका जज्ञे ॥२६॥

छलारी

दुर्योधनः पूर्वं कलिः । दुःशला नाम कन्या जज्ञे ॥ २६ ॥

शापान्मैथुनरुद्धस्य पाण्डोः कुन्त्यां महारथाः ।

जाता धर्मानिलेन्द्रेभ्यो युधिष्ठिरमुखास्त्रयः ॥ २७ ॥

पदरत्नावली

मुनिशापान्मैथुनरुद्धस्य मैथुने मरणलक्षणविघ्नवतः ॥ २७ ॥

सत्यधर्मीया

शापात् सुरतरतेऽनेन हतेर्मृगीरूपिणी वृषौ कर्दमे स्वस्मिन् समय एतस्मिंस्तव भवतु मृतिरिति शशाप । यथोक्तमादिपर्वणि । अहं हि कर्दमो नामेत्यारभ्यास्य तु त्वं फलं मूढ त्वं प्राप्स्यसीदृशीमेव हीत्यन्तेन । तस्माच्छापात् । मैथुनं व्यवायो रुद्धं यस्य तस्य । कुन्त्यां पाण्डोराज्ञया तेभ्यो धर्मानिलेन्द्रेभ्यः । अनिलेन्द्रधर्मेभ्य इति क्रमाद्वक्तव्ये उक्तातिक्रमात्तत्रापि द्वयोरपि वायोरावेशं द्योतयितुमनिलो मध्ये निबद्धः । युधिष्ठिरो मुखं येषां ते त्रयः । युधिष्ठिरस्यापि त्रित्वघटकतयाऽन्तर्निवेशाद्यास्तिस्रः स्थितयः पुण्या इतिवद्युधिष्ठिरमुखास्त्रय इति युज्यते ॥ २७ ॥

छलारी

शापान्मुनिशापात् । कुन्ती पूर्वदेहेऽपि पाण्डुभार्या ॥ २७ ॥

नकुलः सहदेवश्च माद्य्रां नासत्यदस्त्रयोः ।

द्रौपद्यां पञ्च पञ्चभ्यः पुत्रास्ते पितरोऽभवन् ॥ २८ ॥

पदरत्नावली

द्रौपद्यां पञ्चभ्यो युधिष्ठिरादिभ्यः पञ्च पुत्रास्ते तव पितरः पितृव्या अभवन् । अपितर इति वा छेदः । ये पञ्च पुत्रा अभवन् ते अपितर इत्यन्वयः । अपुत्राः सन्त एव द्रौणिना संहृता इति भावः ॥ २८ ॥

सत्यधर्मीया

नासत्यदस्राविति यथेति ऋग्भाष्योक्तेर्नासत्यदस्रयोः सकाशान्माद्य्रां नकुलः सहदेवश्चेति द्वौ जातौ । द्रौपद्यां पञ्चभ्यो युधिष्ठिरादिभ्यः पञ्च ते तव पितरः पितृव्या अभवन् । पितरो जन्मान्तरे पितर इत्यप्याहुः ॥ २८ ॥

छलारी

नासत्यदस्रयोरश्विभ्यां जातौ । पञ्चभ्यो युधिष्ठिरादिभ्यः पञ्च पुत्रास्ते पूर्वजन्मनि पितरः ॥ २८ ॥

युधिष्ठिरात् प्रतिविन्ध्यः श्रुतसेनो वृकोदरात् ।

अर्जुनाच्छ्रुतकीर्तिस्तु शतानीकस्तु नाकुलिः ॥ २९ ॥

पदरत्नावली

विविच्याह- युधिष्ठिरादिति ॥ नाकुलिर् नकुलपुत्रः ॥ २९ ॥

सत्यधर्मीया

कस्मात्क इत्यत आह ॥ युधिष्ठिरादिति ॥ नाकुलिर्नकुलसुतः ॥ २९ ॥

छलारी

विविच्याह ॥ युधिष्ठिरादिति ॥ नाकुलिर्नकुलपुत्रो भार्यान्तरेषु युधिष्ठिरादिभ्योऽपरे च सुता बभूवुः ॥ २९ ॥

सहदेवसुतो राजन् श्रुतकीर्तिस्तथाऽपरे ।

युधिष्ठिरात्तु पौरव्यां देवकोऽथ घटोत्कचः ॥ ३० ॥

पदरत्नावली

भार्यान्तरेषु अपरे च सुता जज्ञिरे इत्याह- युधिष्ठिरादिति ॥ ३० ॥

सत्यधर्मीया

पौरव्यां पौरवीनाम््नयांं देवकः ॥ ३० ॥

छलारी

अपरे भार्यान्तरेष्वित्युक्तं विवृणोति ॥ युधिष्ठिरादिति ॥ पौरव्यां पौरवीनामिकायां देवकः सुतः । युधिष्ठिरस्य देवकी नामिका शिशुपालसुताऽन्यभार्या, तस्यां सुहोत्रो नामपुत्रो बभूवेति ज्ञेयम् । तात्पर्यनिर्णये तथोक्तेः । हिडिम्बायां घटोत्कच इति ज्ञेयम् । काली च काशिराजपुत्री अन्या । भीमसेनस्य भार्या भारती । तस्यां ततो भीमसेनादसूत । ततः शर्वगतः शर्वत्रातः पूर्वं समानवायुः । विजयानामिकायाः पार्वतीति नामान्तरम् ॥ ३०,३१ ॥

भीमसेनाद् हिडिम्बायां काल्यां शर्वगतस्ततः ।

सहदेवात् सुहोत्रं तु विजयाऽसूत पार्वती ॥ ३१ ॥

पदरत्नावली

शर्वगतः शर्वत्रातः ॥ ३१ ॥

सत्यधर्मीया

घटोत्कचो भीमसेनाद्धिडिम्बायामजायत । शर्वगतः शर्वत्रातस्तम् । पार्वती विजया चेत्येकस्या नामद्वयम् ॥ ३१ ॥

करेणुमत्यां नकुलो निरमित्रं तथाऽर्जुनः ।

इरावन्तमुलूप्यां वै सुतायां बभ्रुवाहनम् ॥ ३२ ॥

मणिपूरपतेः सोऽपि तत्पुत्रः पुत्रिकासुतः ।

तव तातः सुभद्रायामभिमन्युरजायत ॥ ३३ ॥

पदरत्नावली

अर्जुन उलूप्यां नागकन्यकायाम् इरावन्तं नाम्ना, मणिपूरपतेः पाण्ड्यस्य सुताया चित्राङ्गदायां पुत्रिका पुत्रधर्मेण दत्तायां बभ्रुवाहनमजीजनत् । सोऽपि बभ्रुवाहनोऽपि तत्पुत्रो मणिपूरपतेः पुत्रः, अभूदिति शेषः ॥ ३३ ॥

सत्यधर्मीया

करेणुमत्यां तन्नामवत्यां निरमित्रं पुत्रमजीजनदित्यन्वयः । उलूपी नागकन्यका । इरावन्तं नाम्ना । मणिपूरपतेः सुतायां चित्राङ्गदायां बभ्रुवाहनाह्वयम् । अस्यां यो जायते पुत्रः स मे पुत्रो भविष्यतीति पुत्रिकापुत्रनीतिः । अनेन तस्य निरपत्यता वा स्वायम्भुववत्सापत्यत्वेऽपि विशिष्टत्वेन गुणैर्यज्ञवरणवदर्जुनजोऽर्जुनयशस्को भवेदिति वा पुत्रीपुत्रवरणमिति ज्ञेयम् । तत्पुत्रो मणिपूरपतेः सुतः । सुभद्रायां भगवद्भगिन्याम् ॥ ३२,३३ ॥

छलारी

निरमित्रम् । अजीजनदिति शेषः । अर्जुन उलूप्यां नागकन्यकायामिरावन्तम् ।अर्जुन एवं मणिपूरपतेः पाण्ड्यस्य सुतायां चित्रांगदायां पुत्रिकापुत्रधर्मेण दत्तायां बभ्रुवाहनमजीजनत् । सोऽपि बभ्रुवाहनोऽपि तत्पुत्रो मणिपूरपतेः पुत्रः । अभूदिति शेषः । तव तातोऽभिमन्युः सुभद्रायामजायत । अर्जुनादिति शेषः । पूर्वं सुभद्रा त्रिजटाऽभिमन्युः पूर्वं बुधः ॥ ३२-३३ ॥

सर्वातिरथजिद् वीर उत्तरायां ततो भवान् ।

परिक्षीणेषु कुरुषु द्रौणेर्ब्रह्मास्त्रतेजसा ॥ ३४ ॥

पदरत्नावली

ततोऽभिमन्योः ॥ ३४ ॥

त्वं तु कृष्णानुभावेन सजीवो मोचितोऽन्तकात् ।

तवेमे तनयास्तात जनमेजयपूर्वकाः ॥ ३५ ॥

दुर्घटभावदीपिका

हे तात जनमेजयपूर्वका जनमेजयज्येष्ठकाः । वीर्यवानिति सर्वत्र सम्बध्यते । वीर्यवान् श्रुतसेनो भीमसेन उग्रसेनः । चशब्दोऽनुक्तसमुच्चये । चित्रसेन इन्द्रसेनः सुषेणोऽन्ये महारथा इतीमे तव तनया इति ॥ तदुक्तं भारते–

जनमेजादयः सत्य तथैवान्ये महारथाः ।

परीक्षितो भवत्पुत्राः सर्वे धर्मार्थकोविदाः ॥

कक्षसेनोग्रसेनौ च चित्रसेनश्च वीर्यवान् ।

इन्द्रसेनः सुषेणश्च भीमसेनश्च नामतः ॥ इति । एकस्यैव श्रुतसेनः कक्षसेन इति नामद्वयमतो न भारतविरोधः ॥ ३५,३६ ॥

सत्यधर्मीया

ततोऽभिमन्योरुत्तरायां विराट्कुमार्यां कुरुषु कुरुक्षेत्रे मृतेषु सत्सु द्रौणेरश्वत्थानाम्नो ब्रह्मास्त्रतेजसा । अन्तः पेशि प्रसरता प्राप्तो योऽन्तको मृत्युस्तस्मात् । त्वं कृष्णानुभावेन सजीवो मोचित इत्यन्वयः ॥ ३४-३५ ॥

छलारी

कथम्भूतोऽभिमन्युः । सर्वातिरथजित्सर्वान् अतिरथान् जयतीति तथा । ततोऽभिमन्योः सकाशादुत्तरायां विराटपुत्र्यां भवान् जातः । ब्रह्मास्त्रतेजसा कुरुषु पौरवेषु परिक्षीणेषु सत्सु नष्टेषु सत्सु । अन्तकान्मृत्योः सकाशात्सजीवो जीवसहितः सन्मोचितः ॥ ३४-३५ ॥

श्रुतसेनो भीमसेन उग्रसेनश्च वीर्यवान् ।

जनमेजयस्त्वां विदित्वा तक्षकान्निधनं गतम् ॥ ३६ ॥

पदरत्नावली

निधनं मरणं गतं प्राप्तं त्वाम् ॥ ३६ ॥

सत्यधर्मीया

तक्षकात्सर्पात् ॥ ३६ ॥

छलारी

जनमेजयपूर्वकान्पुत्रानाह ॥ श्रुतसेन इत्यादिना वीर्यवानित्यन्तेन । जनमेजयस्य महिमानमाह ॥ जनमेजय इति ॥ तक्षकात्तन्नामकसर्पान्निधनं मरणम् । परीक्षितस्तक्षकान्मरणं तु प्रथमस्कन्धे स्पष्टम् ॥ ३६ ॥

सर्पान् वै सर्पयागाग्नौ स होष्यति रुषाऽन्वितः ।

कावषेयं पुरोधाय तुरं तुरगमेधया ॥ ३७ ॥

पदरत्नावली

सर्पयागसम्बन्धिन्यग्नौ होष्यति होमं करिष्यति । तुरं तन्नामकमुनिं पुरोधाय तुरगमेधया अश्वमेधया ॥ ३७ ॥

सत्यधर्मीया

मेधया मेधेन पशुविषयिण्या मत्या । मेधः क्रतौ स्त्रियां मेधौ मताविति विश्वः । काविषयं कविषीपुत्रं तुरं तन्नामकं पुरोधाय पुरोहितं कृत्वा ॥ ३७ ॥

छलारी

स जनमेजयः सर्पान्होष्यति । कावषेयं तन्नामकम् ऋषिं गुरुं पुरोधाय पुरतः कृत्वा तुरगमेधयाऽश्वमेधयागेन ॥ ३७ ॥

समन्तात् पृथिवीं सर्वां जित्वा यक्ष्यति चाध्वरैः ।

तस्य पुत्रः शतानीको याज्ञवल्क्यात् त्रयीं पठन् ॥ ३८ ॥

पदरत्नावली

सर्वां पृथिवीं जित्वा समन्ताद् यत्र यत्र तीर्थविशेषास्तत्र सर्वत्राध्वरैरश्वमेधादिभिर्यक्ष्यतीत्यन्वयः ॥३८॥

दुर्घटभावदीपिका

जनमेजयः कावषेयम् ऋषिं पुरोधाय पुरतः कृत्वा तुरङ्गमश्वं गृहीत्वा समन्तात्सर्वां पृथ्वीं जित्वा तुरङ्गमेधयाऽश्वमेधयज्ञेन यक्ष्यति । अध्वरैरश्वमेधातिरिक्तैर्यज्ञैश्च यक्ष्यतीति । एतेन तुरङ्गमित्येतद्व्यर्थमनान्वितं चेति दूषणं परिहृतम् । तुरङ्गमित्यतः परं गृहत्वेति शेषपूरणेनान्वयस्यार्थस्योक्तत्वात् ॥३८॥

**अस्त्रज्ञानं क्रियाज्ञानं शौनकात् परमेष्यति । **

सहस्त्रानीकस्तत्पुत्रस्ततश्चैवाश्वमेधजः ॥ ३९ ॥

पदरत्नावली

परं हरिविषयकज्ञानम् ॥ ३९ ॥

सत्यधर्मीया

सर्वां पृथिवीं जित्वा समन्ताद् यत्र यत्र तीर्थविशेषास्तत्र सर्वत्राध्वरैरश्वमेधादिभिर्यक्ष्यति । तथा चाष्टमपञ्चकैकोनचत्वारिंशेऽध्याये एकविंशतिखण्ड उक्तम् । जनमेजयजयनं यजनं च । एतेन ह वा ऐन्द्रेण महाभिषेकेण तुरः काविषयो जनमेजयं पारीक्षितमभिषिषेच । तस्मादु जनमेजयः परीक्षितः समन्तं सर्वतः पृथिवीं जयन्परियायाश्वेन च मेध्येनेजे तदेषाभियज्ञगाथा गीयते । आसन्दीवति धान्यादं रुग्मिणं हरितस्रजम् । अश्वं बबन्ध सारङ्गं देवेभ्यो जनमेजय इति । तस्यार्थः । तत्तस्मिन् जनमेजययजनविषये एषा वक्ष्यमाणा गाथा गीयते । तां गाथामाह ॥ आसन्दिवतीति ॥ आसन्दिवति देशविशेषे जनमेजयो देवेभ्यो देवार्थं योग्यमश्वं बबन्ध । तद्भोज्यमाह ॥ धान्यादमिति ॥ धान्यं चणकाद्यत्तीति धान्यादस्तं रुग्मिणं स्वर्णालङ्कृतं ललाटं श्वेतलाञ्छनयुक्तमिति वा । हरितवर्णा स्रग्यस्यासौ तं सारं कर्म श्रेष्ठं यागं गच्छति स तथा तम् । इतरत् स्पष्टम् । जनमेजयस्य शतानीको नाम्ना यः क्रियाज्ञानं कर्मज्ञानं शौनकात् परं हरिविषयकज्ञानं कृपात् । कृपादस्त्राण्यवाप्यैष इति विष्णुपुराणोक्तेः । अस्त्रज्ञानं कृपाचार्यादिति पाठ इति वदन्ति । तत्पुत्रः शतानीकतोकस्ततः सहस्रानीकाज्जातो योऽश्वमेधस्तज्जातः ॥ ३८,३९ ॥

छलारी

सर्वां पृथ्वीं जित्वाऽश्वमेधेन तदतिरिक्तैरध्वरैश्च यक्ष्यतीत्यन्वयः । भविष्यानाह ॥ तस्य पुत्र इति ॥ मत्समाप्तिजनमेजयस्येत्यर्थः । याज्ञवल्क्यात्क्रियाज्ञानं शौनकात्परं चात्मसदृशादस्य ज्ञानं प्राप्स्यति । कृपादस्त्राण्यवाप्येति विष्णुपुराणोक्तेः । क्वचित्ज्ञानं कृपाचार्यादित्येव पाठः ॥ ३९ ॥

विश्रम्भकृष्णस्तस्यापि नेमिचक्रस्तु तत्सुतः ।

गजाह्वये हृते नद्या कौशाम्ब्यां साधु वत्स्यति ॥ ४० ॥

पदरत्नावली

कौशाम्ब्यां पुर्यां साधु सम्यग् वत्स्यति वासं करिष्यति ॥ ४० ॥

सत्यधर्मीया

विश्रम्भकृष्णस्तस्य विश्रम्भकृष्णस्य नेमिचक्रस्तत्सुतो नेमिचक्रसुतः । नद्या यमुनया गजाह्वये नगरे हृते प्लाविते सति कौशाम्ब्यां नगर्यां साधु सम्यग्वत्स्यति वासं करिष्यति ॥ ४० ॥

छलारी

नेमिचक्रस्तत्सुतो विश्रंभकृष्णसुतः । नेमिचक्र इति शेषः । गजाह्वये पुरे नदीप्रवाहेण हृते सति कौशांब्यां पुर्यां वत्स्यति वासं करिष्यति । कौशांब्यां तन्नामकपुर्याम् ॥ ४० ॥

उक्तस्ततश्चित्ररथस्तस्माच्छुचिरथः सुतः ।

तस्माच्च धृष्टिमांस्तस्य सुषेणोऽथ महीपतिः ॥ ४१ ॥

दुर्घटभावदीपिका

उक्तश्चित्ररथ इत्यस्य ततश्चक्रनेमेरुक्तो लोकैरुक्तः । प्रसिद्ध इति यावत् । चित्ररथोत्पन्न

इत्यर्थः । एतेनोक्त इत्येतव्द्यर्थमिति दूषणं परिहृतम् । चित्ररथस्य प्रसिद्धत्वं वक्तुमुक्त इत्युक्त-मित्यूरीकरणात् ॥ ४१ ॥

सत्यधर्मीया

उक्तो नाम्ना । ततस्तस्माच्चित्ररथस्तस्माच्छुचिरथस्तस्माच्छुचिरथाद्धृष्टिमान् । तस्य सुषेणः ॥ ४१ ॥

छलारी

ततो नेमिचक्राच्चित्ररथ उक्तश्चित्ररथेत्युक्तः सुतः । अथ सुषेणात्सुनीथो महीपतिस्तन्नामकः ॥ ४१ ॥

सुनीथस्तस्य भविता नृचक्षुर्यत् सुखीनलः ।

पारिप्लवः सुतस्तस्मान्मेधावी सुनयात्मजः ॥ ४२ ॥

सत्यधर्मीया

तस्य सुषेणस्य तस्य सुनीथस्य नृचक्षुः । यद्यस्मात् सुखीनलो नाम्ना । सुनय आत्मजो यस्येति, सुनयस्यात्मज इति वा ॥ ४२ ॥

छलारी

भविता भविष्यति । तस्येत्यनुवर्तते । तस्य नृचक्षुर्यद्यस्मात् सुखीनलो सुखीनलनामकः सुतः । तस्मादित्युभयत्र सम्बन्धः । तस्मात्सुखीनलात्पारिप्लवस्तस्मान् मेधावीत्यध्याहार्यम् । मेधावी सुनयात्मज इत्यनुवादात् ॥ ४२ ॥

नृपञ्जयस्ततो दुर्वस्तिमिस्तस्माज्जनिष्यते ।

ततो बृहद्रथस्तस्माच्छतानीकः सुदासजः ॥ ४३ ॥

पदरत्नावली

तस्माद् बृहद्रथात् सुदासजः शतानीकः ॥ ४३ ॥

दुर्घटभावदीपिका

तस्माच्छतानीकः सुदासज इत्यस्य शतानीकः सुदासजः सुदासादुत्पन्नः सन् तस्माद्बृहद्र-थादुत्पन्न इत्यर्थः । बृहद्रथस्य पुत्रः सुदासः पुत्रः शतानीक इति हृदयम् ॥ ४३ ॥

इति श्रीभागवतटिप्पण्यामेकोनविंशोऽद्यायः ॥ ९-१९ ॥

सत्यधर्मीया

ततो नृपञ्जयात्तस्माद् दुर्वात्तिमिस्ततस्तिमेस्तस्माद्बृहद्रथात्सुदासजः शतानीकः ॥ ४३ ॥

छलारी

तत इत्युभयत्रानुषज्यते । ततो नृपंजयस्ततो दुर्व इति तस्माद्दुर्वात्तिमिः । तस्माद्बृहद्रथात्सुदासः ॥ ४३ ॥

शतानीकाद् दुर्दमनस्तस्यापत्यं बहीनरः ।

दण्डपाणिर्निमिस्तस्य क्षेमको भविता नृप ॥ ४४ ॥

सत्यधर्मीया

तस्य शतानीकस्तस्य दुर्दमनस्तस्य दुर्दमनस्य बहीनरः । क्षेमको भविता ॥४४॥

छलारी

सुदासाच्छतानीक इत्यध्याहार्यम् । शतानीकः सुदासज इत्यनुवादात् । शतानीकः सुदासपुत्र इत्यर्थः । तस्य दुर्दमनस्य । तस्येत्युत्तरत्रापि सम्बन्धः । तस्य बहीनरस्य दण्डपाणिर्निमिस्तस्य क्षेमकनृपः ॥ ४४ ॥

ब्रह्मक्षत्रस्य वै योनिर्वंशे देवर्षिसत्कृतः ।

क्षेमकं प्राप्य राजानं संस्थां प्राप्स्यति वै कलौ ॥ ४५ ॥

पदरत्नावली

ब्रह्मक्षत्रस्य योनी रक्षको देवर्षिभिः सत्कृता येन सः वंशः । संस्थाम् अवसानम् ॥ ४५ ॥

सत्यधर्मीया

ब्रह्मक्षत्रस्य योनी रक्षको देवर्षिभिः सत्कृतो, देवर्षयः सत्कृता येनेति वा क्षेमकं राजानं प्राप्य कलौ काले संस्थामवसानं प्राप्स्यति ॥ ४५ ॥

छलारी

ब्रह्मक्षत्रियस्य ब्राह्मणक्षत्रियात्मकस्य राजसमूहस्य देवर्षिसत्कृतः पूजितः संस्थामवसानं नाशम् ॥ ४५ ॥

पापानि कीर्तनादेषां विलयं यान्ति कृत्स्नशः ।

अथ मागधराजानो भाविनो ये वदामि ते ॥ ४६ ॥

सत्यधर्मीया

फलमेतत्कीर्तनस्यालपति ॥ पापानीति ॥ मागधराजानो मागधराजाः ॥ ४६ ॥

छलारी

पूर्वं कुरोश्चत्वारः कुमारा इत्युक्तम् । तत्र कुरुपुत्रस्य जहोर्वंशं क्षेमकपर्यन्तमुक्त्वा कुरुपुत्रस्य सुधनुष उक्तावशिष्टवंशमाह ॥ अथेति ॥ बृहद्रथस्य जरासन्धस्तस्य सहदेवस्य सोमापिर्यद्यस्मात्सोमापेः श्रुतश्रवाः । यद्यपि सोमापिश्रुतश्रवसौ पूर्वोक्तौ तथाऽपि तयोर्भावित्वेन पुनर्ग्रहणम् ॥ ४६,४७ ॥

भविता सहदेवस्य सोमापिर्य(त्सुतः)च्छ्रुतश्रवाः ।

ततोऽयुतायुस्तस्यापि निरमित्रोऽथ तत्सुतः ॥ ४७ ॥

सत्यधर्मीया

यत्सुतः सोमापिसुतः ॥ ४७ ॥

सुनक्षत्रः सुनक्षत्राद् बृहत्सेनोऽथ कर्मजित् ।

ततः श्रुतञ्जयो विप्रः शुचिस्तस्य भविष्यति ॥ ४८ ॥

पदरत्नावली

विप्रो नाम्ना ॥ ४८ ॥

सत्यधर्मीया

विप्रो नाम्ना ॥ ४८ ॥

छलारी

ततः सुतश्रवसोऽथानन्तरं सुनक्षत्रस्तत्सुतो बृहत्सेनात् । तत इत्यनुवर्तते । ततः श्रुतंजयः । विप्रो विप्रनामाऽथ तस्माच्छुचेः ॥ ४८ ॥

क्षेमोऽथ सुव्रतस्तस्माद् धर्मसत्रः शमस्ततः ।

दृढसेनोऽथ सुमतिः सुबलो जनिता तत ॥ ४९ ॥

सत्यधर्मीया

तस्मात्सुव्रतात् ततो धर्मसत्रात् ततो दृढसेनात् ततः सुमतेः ॥ ४९ ॥

छलारी

क्षेमस्तस्मात्सुव्रतः । तस्मादित्यस्योत्तरत्रापि सम्बन्धः । तस्माद्धर्मसत्रः । अथेत्यस्योभयत्र सम्बन्धः । अथ दृढसेनोऽथ सुमतिस्ततः सुबलो जनिता भविता ॥ ४९ ॥

सुनीथः सत्यजिदथ विश्वजिद् यद् रिपुञ्जयः ।

बार्हद्रथाश्च भूपाला भाव्याः साहस्रवत्सरम् ॥ ५० ॥

इति श्रीमद्भागवते नवमस्कन्धे एकोनविंशोऽध्यायः ।

पदरत्नावली

यद् यस्माद् रिपुञ्जयो भविता ॥ ५० ॥

इति श्रीमद्भागवतटीकायां विजयध्वजतीर्थभिक्षुकृतायां नवमस्कन्धस्य एकोनविंशोऽध्यायः ॥

सत्यधर्मीया

साहस्रं वत्सरं सहस्रसंवत्सरपर्यन्तम् ॥ ५० ॥

इति श्रीसत्यधर्मयतिकृतायां भागवतटिप्पण्यां नवमस्कन्धे एकोनविंशोऽध्यायः ।

छलारी

तत इत्यस्योत्तरत्रापि सम्बन्धः । ततः सुनीथस्ततः सत्यजित् । यद्यस्माद्भूपालाः सहस्रवत्सरं भाव्यांस्तदनन्तरभाव्यान् द्वादशस्कन्धे वक्ष्यति ॥ ५० ॥

इति श्रीछलारी शेषाचार्यकृतायां भागवतटिप्पण्यां नवमस्कन्धे एकोनविंशोऽध्यायः ।