१८ अष्टादशोऽध्यायः

वितथस्य सुतान्मन्योर्बृहत्क्षेत्रो जयस्ततः

॥ अथ अष्टादशोऽध्यायः ॥

श्रीशुक उवाच —

वितथस्य सुतान्मन्योर्बृहत्क्षेत्रो जयस्ततः ।

महावीर्यो नरो गर्गः सङ्कृतिस्तु नरात्मजः ॥ १ ॥

पदरत्नावली

वितथसंज्ञो भरद्वाजो ब्राह्मणोऽपि भरतस्य दत्तपुत्रो जात इति तस्यान्वयः कथ्यते- वितथस्येत्यादिना ॥१॥

सत्यधर्मीया

वितथ इत्यपि भरद्वाजस्य नाम । ततो बृहत्क्षेत्रात् । ततो जयान् महावीर्यो नरो गर्ग इति जाताः । सङ्कृतिर्नरात्मजः । स चापि वितथः पुत्राञ्जनयामास पञ्च वै । सुहोत्रं च सुहोतारं गयं गर्गं तथैव च । कपिलं च महात्मानमिति हरिवंशोक्तिश्च मन्युव्यतिरिक्तसुतपञ्चकपरेति न विरोधः ॥ १ ॥

छलारी

इदानीं दौष्यन्तिभरतस्यान्वये वितथे सति दत्तत्वाद्वितथसंज्ञो भरद्वाजो ब्राह्मणोऽपि भरतस्य दत्तपुत्रो जात इति तद्वंशोऽनुक्रम्यते ॥ वितथस्येति ॥ ततो मरुद्भ्यः सुहृदानन्तरं तस्य वितथस्य सुतो मन्युस्तस्माद्बृहत्क्षेत्रो जयो महावीर्यो नरो गर्गश्चेति पञ्चपुत्रा बभूवुः ॥ १ ॥

गुरुश्च रन्तिदेवश्च सङ्कृतेः पाण्डुनन्दन ।

रन्तिदेवस्य हि यश इहामुत्र च गीयते ॥ २ ॥

पदरत्नावली

रन्तिदेवस्य माहात्म्यं भगवन्महिमोपचितत्वात् कथयति- रन्तिदेवस्येत्यादिना । चशब्दो दौष्यन्तिमहिम्ना समुच्चीयते ॥ २ ॥

सत्यधर्मीया

गुरू रन्तिदेवश्चेति द्वौ सङ्कृतेर्जातौ । न केवलमिह किन्त्वमुत्र च गीयते । यथोद्रिक्तारिमारणेन रणे तथा वित्तवितरणेनापि यशो ज्ञेयम् । यथोक्तं द्रोणपर्वणि षोडशराजकीये ।

यस्य द्विशतसाहस्रा आसन्सूदा महात्मनः ।

गृहानभ्यागतान्विप्रानतिथीन्परिवेषकाः ।

वेदानधीत्य धर्मेण यश्चक्रे द्विषतो वश इत्यादि ॥ २ ॥

छलारी

इति सङ्कृतेर्द्वौ पुत्रौ भरतात्पंचमो रन्तिदेवस्तस्य माहात्म्यं भगवन्महिमोपचितत्वात्कथयति ॥ रन्तिदेवस्येत्यादिना ॥ २ ॥

वीतवित्तस्य ददतो लब्धं लब्धं बुभुक्षतः ।

निष्किञ्चनस्य धीरस्य सकुटुम्बस्य सीदतः ॥ ३ ॥

पदरत्नावली

कीदृशं यशः शत्रुविजयाल्लब्धमुतान्यस्मादिति संशयं निवारयति- वीतवित्तस्येति ॥ वीतवित्तस्य वस्तुशून्यस्य दरिद्रस्य ददतो दानं कुर्वतः । धनाभावे दानं कथं घटत इति तत्राह- लब्धमिति ॥ स्वस्य बुभुक्षाभावाद् ददाति न तु कर्तव्यत्वेनेति तत्राह- बुभुक्षत इति ॥ भोगेच्छुश्चेत् सस्वः, अन्यथा तदसम्भवादिति तत्राह- निष्किञ्चनस्येति ॥ तर्हि भिक्षुवत् । कृपण इत्यतो वाह - निष्किञ्चनस्येति ॥ अकृपणस्य । अकृपणत्वं कथमवगतमिति तत्राह- धीरस्येति ॥ धिया सह रमते न तु स्त्रियेति धीरस्तस्य । एकाकिनः का चिन्ता इति तत्राह-सकुटुम्बस्येति ॥ सीदतः शीर्णस्य ॥ ३ ॥

सत्यधर्मीया

लब्धं लब्धं राज्यादिनेवाज्यादितः । वीतं परिवीतं वित्तं यस्य तस्य प्राग्ददतोऽतो निष्किञ्चिनस्य । निर्न विद्यते किञ्चन यस्य स तस्य । बुभुक्षतः । तथाऽप्यस्खलच्चेतस्क इत्याह ॥ धीरस्येति ॥ न तदनुसारिण इतर इति नेत्याह । सकुटुम्बस्य । सीदतः शिथिलाङ्गस्य ॥३॥

छलारी

कीदृशं यशः । शत्रुजयाल्लब्धमुतान्यस्मादिति तत्राह ॥ वीतवित्तस्येति ॥ दरिद्रस्य ददतो दानं कुर्वतो धनाभावे दानं कथं घटत इति तत्राह ॥ लब्धमिति ॥ स्वस्य बुभुक्षाभावाद्ददाति न तु कर्तव्यत्वेनेति तत्राह ॥ बुभुक्षत इति ॥ स्वयमकृपणस्य कथं दानं घटत इति तत्राह ॥ निष्किञ्चनस्येति ॥ अकृपणत्वं कथमवगतमिति तत्राह ॥ धीरस्येति ॥ धिया हरौ रमते न तु स्त्रियेति धीरः । तस्यैकाकिनः का चिन्तेति तत्राह ॥ सकुटुम्बस्येति ॥ सीदत आहाराभावेन सीदतः शीर्णस्येत्यर्थः ॥ ३ ॥

व्यतीयुरष्टचत्वारिंशदहान्यपिबतः किल ।

घृतपायससंयावं तोयं प्रातरुपस्थितम् ॥ ४ ॥

पदरत्नावली

शीर्णत्वे निमित्तमाह- अपिबत इति ॥ जलमप्यपिबत इत्यर्थः । घृतं च पायसं च संयावो गोधूमान्नं च घृतपायससंयावम् । उपस्थितं प्राप्तम् ॥४ ॥

सत्यधर्मीया

जलमप्यपिबतोऽष्टचत्वारिंशदहानि व्यतीयुः किल । अहःपदेन दिनानि ग्राह्याणि । दिनानीति पाठोऽतिसरलः । घृतपायससंयावं घृतं च पायसं क्षीरपक्वमन्नं च । ताभ्यां सहितः संयावो गोधूमान्नं च यस्य तत् । तोयं प्रातरुपस्थितम् ॥ ४ ॥

छलारी

शीर्णत्वे निमित्तमाह ॥ अपिबत इति ॥ जलपानमकुर्वत इत्यर्थः । घृतपायसंयावमिति द्वन्द्वैकवद्भावः । संयाव इत्यस्य गोधूमविकारभक्षस्येत्यर्थः । प्रातरुपस्थितं केनचित्पुरुषेण दययाऽऽनीतमित्यर्थः ॥ ४ ॥

कृत्स्नप्राप्तकुटुम्बस्य क्षुत्तृड्भ्यां जातवेपथोः ।

अतिथिर्बाह्मणः काले भोक्तुकामस्य चागमत् ॥ ५ ॥

पदरत्नावली

जातवेपथोरुत्पन्नकम्पस्य भोक्तुकामस्य सतः काले भोजनसमये ॥ ५ ॥

सत्यधर्मीया

कृत्स्नप्राप्तकुटुम्बस्य कृत्स्नं प्राप्तं येन तत्कुटुम्बं यस्य स तस्य । जातवेपथोरुत्पन्नकम्पस्य भोक्तुकामस्य सतः काले तत्कालेऽतिथिर्ब्राह्मणोऽगमत् ॥ ५ ॥

छलारी

एतद्भोक्तुकामस्य काले भोजनसमये ॥ ५ ॥

तस्मै संव्यभजत् सोऽन्नमाहृत्य श्रद्धयाऽन्वितः ।

हरिं सर्वत्र सम्पश्यन् स भुक्त्वा प्रययौ द्विजः ॥ ६ ॥

पदरत्नावली

आहृत्य आनीय । सर्वत्र अतिथिप्रभृतिषु ॥ ६ ॥

सत्यधर्मीया

सर्वत्रैतदादिषु हरिं पश्यन् श्रद्धयाऽन्वितः सन् अन्नमाहृत्य तस्मा अतिथये संव्यभजदित्यन्वयः ॥ ६ ॥

छलारी

स रन्तिदेव आहृत्यादरं कृत्वा सर्वत्रातिथिषु हरिं सम्पश्यन् हरिरेवातिथिरूपेण समागत इति जानन्सन् संव्यभजद्विभज्य दत्तवान् ॥ ६ ॥

अथाऽन्यो भोक्ष्यमाणस्य विभक्तस्य महीपतेः ।

विभक्तं व्यभजत् तस्मै वृषलाय हरिं स्मरन् ॥ ७ ॥

पदरत्नावली

ब्राह्मणाय विभक्तस्यान्नस्य शेषं भोक्ष्यमाणस्य भोक्तुकामस्य महीपतेरन्यो वृषलोऽतिथिरागमत् । विभक्तं पूर्वं विभक्तमन्नम् ॥ ७ ॥

सत्यधर्मीया

अथानन्तरं विभक्तस्य विभक्तं ब्राह्मणदत्तं शेषं भोक्ष्यमाणस्य भोक्तुमयुञ्जानस्यावनीपतेरन्यो वृषलोऽगमदित्यन्वयः । हरिं स्मरन् तस्मै विभक्तं विभक्तमध्ये पुनर्विभक्ते व्यभजत् । ‘अहं वैश्वानरो भूत्वा प्राणिनां देहमाश्रित’ इत्यादेर्यत्र कुत्र वा समर्पितं हर्यर्पितमेवेति तत्स्मरणमिति भावः ॥ ७ ॥

छलारी

ब्राह्मणाय विभक्तस्यान्नस्य शेषं भोक्ष्यमाणस्य भोक्तुकामस्य महीपतेरन्यो वृषलोऽतिथिरागमत् । वृषलाय शूद्राय ॥ ७ ॥

याते शूद्रे तमभ्यागादतिथिः श्वभिरावृतः ।

राजन् मे दीयतामन्नं सगणाय बुभुक्षते ॥ ८ ॥

सत्यधर्मीया

श्वभिः सारमेयैः । हे राजन् मेऽन्नं दीयताम् । नैकलाय किल म इत्याह ॥ सगणायेति ॥ इदानीं तत्र भुक्त्वा यात इति किं त्वया तव गणेनेति न भणेति भणति ॥ बुभुक्षत इति ॥ बुभुक्षत्वं योग्यतया गणे गणोच्चे चान्वेतव्यम् । बुभुक्षते गणाय बुभुक्षते मह्यं चेत्यर्थः ॥ ८ ॥

छलारी

अन्यः शूद्रोऽतिथिः । श्वभिः सारमेयैः । सगणाय स्वयूथगणसहिताय बुभुक्षते ॥८॥

स आतिथ्यावशिष्टं यद् बहुमानपुरस्सरम् ।

तच्च दत्वा नमश्चक्रे श्वभ्यः श्वपतये विभुः ॥ ९ ॥

पदरत्नावली

सगणाय गणसहिताय । नमश्चक्रे, हरये इति शेषः । ‘शुनि चैव श्वपाके च पण्डिताः समदर्शिनः’ इत्यादिस्मृतेः ॥ ९ ॥

सत्यधर्मीया

ब्राह्मणवृषवृषलातिथ्यावशिष्टं यद्बहुमानपुरःसरं सत्कारपूर्वकं तद्दत्वा श्वभ्यः श्वपतये च विभुर्नमश्चक्रे । ‘ब्राह्मणे गविहस्तिनि । शुनि चैव श्वपाके च पण्डिताः समदर्शिनः’ इत्यादेः । श्वभ्यः श्वपतय इत्युत्क्रमः कुतः सगणायेति गणाप्रधान्योक्तेरिति चेत् । सत्यम् । श्वपत्यन्नवितरणसमये ततः प्रागेव श्वभिराश्वन्ने मुखप्रसारणानुसारेण तत्तदन्तर्गतभगवन्नमनमादाविति न क्रमानुक्रमणं तदप्राधान्यप्रच्युतिश्चेति विजानीहि । श्वभ्यः श्वपतये चान्नं दत्वा हरये नमश्चक्र इति वा । अत्रापि श्वभ्योऽन्नदानं प्रथमतः कुत इति शङ्काया उत्तरं तदेवेति ज्ञेयम् ॥ ९ ॥

छलारी

नमश्चक्रे । तदन्तर्गताय हरय इति शेषः । श्वपतये । वृषलाय इति शेषः ॥ ९ ॥

पानीयमात्रमुच्छेषं तच्चैकपरितर्पणम् ।

पास्यतः पुल्कसोऽभ्यागादपो देह्यशुभस्य मे ॥ १० ॥

पदरत्नावली

घृतादिकं दत्वा पानीयमात्रमुच्छेषमवशिष्टम् । तदपि एकपरितर्पणमेकस्य तृप्तिकरं न बहूनाम्, तज्जलं पास्यतः पातुकामस्य । पुल्कसश् चाण्डालः ॥ १० ॥

सत्यधर्मीया

आयातातिथिपीतोर्वरितं वारि । न भूरि तदपीत्याह ॥ तदिति ॥ एकपरितर्पणमेकस्य तृप्तिकरं तदप्येकवारं परितर्पयतीति तत्तथा वा । एकस्यापि परिवर्जितं तर्पणं येन तद्वा समग्रतृष्णाशामकं नेति वा । पास्यतः पातुकामस्याशुभस्यामङ्गलाचारस्य मेऽपः । शब्दस्वाभाव्याद्बहुवचनम् । किञ्चिदुदकं देहीति पुल्कसोऽन्तेवास्यभ्यगात् ॥ १० ॥

छलारी

पानीयमात्रं जलमात्रमुच्छेषमुर्वरितं तदप्येकपरितर्पणमेकस्य तृप्तिकरं न बहूनाम् । तज्जलं पास्यतः पातुकामस्य पुल्कसः कश्चन नीचजातिपुरुषो बुरुडो देहीति । ब्रुवन्निति शेषः ॥१०॥

तस्यातिकरुणां वाचं निशम्य विपुलश्रमम् । (विपुलश्रमाम् इति वि.पाठः)

कृपया भृशसन्तप्त इदमाहामृतं वचः ॥ ११ ॥

पदरत्नावली

विपुलश्रमाम् पिपासयाऽतिश्रमोपेताम् ॥ ११ ॥

सत्यधर्मीया

अतिकरुणां पुरुकृपाजननीं वाचं निशम्य श्रुत्वा विपुलश्रमं च निशाम्य कृपया भृशं यथा तथा सन्तप्त इदममृतं वचः (स्पष्टमग्रे भविष्यति) चाह । पानीयपानापेक्षया श्रवणमात्रेण तृप्तिहेतुत्वाद्वचनममृतमिति भावः ॥ ११ ॥

छलारी

विपुलश्रमां पिपासयाऽतिश्रमोपेताम् । आह । पुल्कसं प्रतीति शेषः । अमृतं कर्णामृतम् ॥ ११ ॥

न कामयेऽहं गतिमीश्वराणां महर्द्धियुक्तामपुनर्भवं च ।

आर्तिं प्रपद्येऽखिलदेहभाजामन्तःस्थितां येन भवन्त्यदुःखाः ॥ १२ ॥

पदरत्नावली

परदुःखासहिष्णुतया सर्वेषां दुःखं स्वयमाशास्त इत्याह- न कामय इति ॥ महद्धिर्युक्ताम् । अगणितसम्पत्समृद्धिसम्पन्नां योगेश्वराणां गतिमणिमादिलक्षणां महरादिलोकम् अपुनर्भवं मोक्षं वा न कामये न वाञ्छामि । तर्हि किं काङ्क्षसीत्यत आह- अखिलदेहभाजामिति ॥ अखिलदेहभाजां देहिनामन्तःस्थितामार्तिमहं प्रपद्ये । येन मदर्पितजलपानादिना, तद्दुःखभोक्त्रा मयेति वा देहभाजो अदुःखाः क्षुधादिनिमित्तदुःखरहिता भवन्ति तेन तेषामन्तःस्थितामार्तिमहं प्रपद्य इत्यन्वयः । तृषादिकं ममैवास्तु तन्निवृत्तिरस्तु सर्वेषामिति रन्तिदेवस्य काङ्क्षेति ॥ १२ ॥

सत्यधर्मीया

महती च सा ऋद्धिः सिद्धिस्तया युक्तामीश्वराणां योगीश्वराणां गतिं न कामये नेच्छामि । तर्हि मोक्षमपेक्षस्वेत्यतस्तमपि क्षिपति ॥ अपुनर्भवं चेति ॥ न कामय इति वा न प्रपद्य इत्यनुकर्षेणाकर्षेण वाऽन्वेति । तर्हि किमर्हितं काङ्क्षसीत्यत आह । अखिलभाजां देहिनामन्तःस्थितामार्तिं पीडामहं प्रपद्ये प्राप्नोमीति । येन तदपेक्षितप्रदानेन तद्दुःखभोक्त्रा मयेति वा । अदुःखास् तृषादिजनितार्तिरहिता भवन्ति तामार्तिं प्रपद्ये । मम तृषादिकं भवतु भवतु च तत्तन्निवारणमिति भावः ॥ १२ ॥

छलारी

परदुःखासहिष्णुतया सर्वेषां दुःखं स्वयमाशास्ते न कामय इति । नैवोचे महर्धियुक्तामगणितसमृद्धिसम्पन्नां योगेश्वराणां गतिं महरादिलोकमपुनर्भवं मोक्षं वा न कामये । तर्हि कं कामयस इति तत्राह ॥ अखिलदेहभाजामिति ॥ येन जलार्पणेन देहभाजोऽदुःखा भवन्ति तत्तेभ्यो दत्वा तेषां देहभाजामन्तःस्थितामार्तिमहं प्रपद्ये इत्यन्वयः ॥ १२ ॥

क्षुत्तृट्श्रमो गात्रपरिश्रमश्च दैन्यं क्लमः शोकविषादमोहाः ।

सर्वे निवृत्ताः कृपणस्य जन्तोर्जिजीविषोर्जीवजलार्पणेन ॥ १३ ॥

पदरत्नावली

किमर्थमेवमार्तिमर्थयस इत्यत आह- क्षुत्तृडिति ॥ कृपणस्य जन्तोर्जीवस्य जीवजलार्पणेन जीवनप्रदजलदानेन सर्वेषां सुखं स्यात् । तदार्तिर्ममास्त्विति जिजीविषोर्जीवितुमिच्छतः पुंसः क्षुत्तृडादयो निवृत्ता भवन्तीत्यन्वयः । अन्यदुःखनिवृत्यैव मे क्षुत्तृडादिसर्वदुःखनिवृत्तरिति यावत् । अनेन क्षुधादिमतः पुंसोऽन्नजलादिदानेन दातुरपि समूलं तन्निवृत्तिः, तददाने न तन्निवृत्तिरित्यन्वयव्यतिरेको द्रष्टव्यौ ॥ १३ ॥

सत्यधर्मीया

प्रस्तुतं तदेवोर्वरितमित्युर्वीशस्तद्दानादानयोरन्वयव्यतिरेकाभ्यामेवम् अर्थानर्थौ भविष्यत इत्याह ॥ क्षुत्तृडिति ॥ कृपणस्य दरिद्रस्य जिजीविषोर्जीवितुमिच्छोर्जीवजलार्पणेन जीवे जीवनहेतुभूतजलार्पणेन, जीवयतीति जीवं तच्च तज्जलं वा । क्षुत्तृट्श्रमो गात्रपरिश्रम आन्तरङ्गिको बाहिरङ्गिकश्च श्रमो क्रमाद्बोध्यः । क्लमस्तन्द्री, शोकविषादमोहाः शोकोऽन्तर्दुःखं, विषादो बहिर्नेत्रस्रुतजलादिना दर्शितो, मोहो विचिन्तना इति सर्वे दातुर्निवृत्ता भवन्ति । कृपणस्य जिजीविषोर्जन्तोर्जीवे जीवने जलार्पणे कृते सति सर्व एते निवृत्ता न भवन्ति । अतो देयमेव मया पानीयमानीय तस्मै पुल्कसायेति भावः ॥ १३ ॥

छलारी

ननु दुःखं किमर्थं प्रार्थयसे, परदुःखनिवृत्त्यैव मम सर्वदुःखनिवृत्तेरिति तत्राह ॥ क्षुत्तृडिति ॥ कृपणस्य जन्तोर्जीवजलार्पणेन जीवनप्रदजलदानेन सर्वेषां सुखं स्यात् । तदार्तिर्ममास्त्विति जिजीविषोर्जीवितुमिच्छतः पुंसः क्षुत्तृडादयो निवृत्ता भवन्तीत्यन्वयः । क्षुत्तृट्श्रम इत्येकं पदम् । गात्रपरिभ्रमो देहपरिभ्रमणं क्लमो ग्लानिर्विषादो विषण्णता मोहो मूर्च्छ्रा । अनेन क्षुधादिमतः पुंसो जलादिदानेन दातुरपि तन्निवृत्तिस्तददाने न तन्निवृत्तिरित्यन्वयव्यतिरेकौ द्रष्टव्यौ ॥ १३ ॥

एवं प्रभाष्य पानीयं म्रियमाणः पिपासया ।

पुल्कसायाददाद् धीरो निसर्गकरुणो नृपः ॥ १४ ॥

पदरत्नावली

पिपासया म्रियमाणोऽत्यन्तं पीडितोऽपि निसर्गकरुणः स्वाभाविककृपणो धीरो धिया हरौ रमत इति स नृपो पुल्कसायाददादित्यन्वयः ॥ १४ ॥

सत्यधर्मीया

एवं प्रभाष्य स्वचेतस्यालोच्य तमपि लक्ष्यीकृत्य प्रभाष्य स्वयं पिपासया म्रियमाणः सोऽपि पुल्कसोऽपि पिपासया म्रियमाण इति तस्मै । निसर्गकरुणः स्वाभाविककृपो नृपो धीरो नारायणोऽयं मामप्यवेदिति वृत्तिमान् अददात् ॥ १४ ॥

छलारी

पिपासया म्रियमाणोऽत्यन्तं पीडितोऽपि ॥ १४ ॥

तस्य त्रिभुवनाधीशाः फलदाः फलमिच्छताम् ।

आत्मानं दर्शयाञ्चक्रुर्मायां विष्णुविनिर्मिताम् ॥ १५ ॥

पदरत्नावली

आत्मानं स्वं मायां ब्राह्मणादिप्रदर्शनरूपमहिमानम् । महिमाऽपि भगवदनुग्रहविजृम्भित इत्याह -विष्ण्विति ॥ आश्रिता इति शेषः । ईश्वरेच्छया तद्धैर्यपरीक्षार्थं ब्राह्मणादिरूपेण समाजग्मुरित्यर्थः ॥ १५ ॥

सत्यधर्मीया

ये यस्य त्रिभुवनाधीशाः फलमिच्छतां जनानां फलदा विष्णुविनिर्मितां मायां ब्राह्मणवृषलश्वश्वपतितपुल्कसादिप्रदर्शनरूणिणीं स्वशक्तिं दर्शयामासुः । परीक्षार्थं ते देवा आत्मानं स्वां दर्शयाञ्चक्रुरित्यन्वयः ॥ १५ ॥

छलारी

त्रिभुवनाधीशा ब्रह्मादयो वैष्णवीं मायाम् । आश्रिता इति शेषः । ईश्वरेच्छया तद्धैर्यपरीक्षार्थे ब्राह्मणादिरूपेण समागता इत्यर्थः ॥ १५ ॥

स वै तेभ्यो नमस्कृत्य निःसङ्गो विगतस्पृहः ।

वासुदेवे भगवति भक्त्या चक्रे मनः परम् ॥ १६ ॥

पदरत्नावली

अनन्यसाधारणतां मनोधारणस्याह- परमिति ॥ १६ ॥

सत्यधर्मीया

तेभ्य आगतेभ्यो ब्राह्मणादिभ्यो नमस्कृत्य । तातमनुकूलयितुं तन्नमस्करणमित्युपपन्ना चतुर्थी । निःसङ्गः फलस्नेहरहितः । गता स्पृहा येभ्यस्तैर्भार्यादिभिर्विशिष्ट इति विगतस्पृहः । सकुटुम्बस्य प्रागुक्तेर् इति ततस्तेऽपि तथा चेदेवैतस्य निःसङ्गता भवेन्न चेदसङ्गतता स्यादिति भावः । परमित्यनन्यसाधारणतां मनोधारणस्याह ॥ १६ ॥

छलारी

परं केवलं वासुदेवे भक्त्या मनश्चक्रे । न तु तान् किमपि ययाचे । कथम्भूतः । निःसङ्गोऽत्यन्तं कुटुम्बासक्तिशून्योऽत एव निस्पृहस्तत्पोषणायात्यन्तवित्तादिस्पृहारहितः ॥ १६ ॥

ईश्वरालम्बनं चित्तं कुर्वतोऽनन्यराधसः ।

माया गुणमयी राजन् स्वप्नवत् प्रत्यलीयत ॥ १७ ॥

पदरत्नावली

ईश्वरालम्बनं श्रीनारायणविषयम् । अनन्यराधसों भगवत्सिद्धिमन्तरेणान्यसिद्धिशून्यस्य तदेक निष्ठस्येत्यर्थः । अन्यस्माद् राधः सिद्धिर्मुक्तिस् तया रहितस्य । भगवत एवापेक्षिताशेषपुरुषार्थवतः । माया संसाराख्या प्रत्यलीयत नष्टाऽभूत् ॥ १७ ॥

सत्यधर्मीया

अनन्यराधसोऽनन्येन स्वतन्त्रेण भगवता राधः संसिद्धिर्मोक्षो यस्य तस्येश्वरालम्बनं तदाश्रयं चित्तं कुर्वतो रन्तिदेवस्य गुणमयी माया संसारः प्रत्यलीयत निलिल्ये । तत्र निदर्शनं स्वप्नवत्स्वाप्नपदार्थवदिति । स सन्नप्यवसन्नप्रायोऽभूदिति भावः ॥ १७ ॥

छलारी

ईश्वरालम्बनं श्रीहरिविषयमनन्यराधसो भगवत्सिद्धिमन्तरेणान्यसिद्धिशून्यस्य तदेकनिष्ठस्येत्यर्थः । माया संसाराख्या प्रत्यलीयत नष्टाऽभूत् ॥ १७ ॥

तत्प्रसङ्गानुभावेन रन्तिदेवानुवर्तिनः ।

अभवन् योगिनः सर्वे नारायणपरायणाः ॥ १८ ॥

पदरत्नावली

तस्य रन्तिदेवस्य प्रसङ्गः कथालक्षणस् तस्यानुभावेन भावसूचकेन । अनुभावः प्रभावे स्यान्निश्चये भावसूचके’ इति यादवः ॥ १८ ॥

सत्यधर्मीया

तत्प्रसङ्गस्तद्बहुसहवासस्तस्यानुभावः प्रभावस्तेन । रन्तिदेवानुवर्तिनः सर्वेऽपि नारायणपरायणा योगिनः सोपायाः सन्तोऽभवन् ॥ १८ ॥

छलारी

तत्प्रसङ्गानुभावेन तत्सङ्गतिप्रभावेन योगिनो योगितुल्याः ॥ १८ ॥

गर्गाच्छिनिस्ततो गार्ग्यात् क्षत्राद् ब्रह्म ह्यवर्तत ।

दुरितक्षयो महावीर्यात् तस्य त्रय्यारुणिः कविः ।

पुष्करारुणिरित्यत्र ये ब्राह्मणगतिं गताः ॥ १९ ॥

पदरत्नावली

ब्रह्म ब्राह्मणकुलम् । नाम्ना दुरितक्षयः, तस्य त्रय्यारुणिः कविः पुष्करारुणिश्चेति त्रयः पुत्राः । ये, ते अत्र क्षत्रवंशे ब्राह्मणगतिं ब्राह्मणरूपतां गताः ॥ १९॥

दुर्घटभावदीपिका

महावीर्याद्दुरितक्षयो दुरितक्षयनामक उत्पन्नस्तस्य दुरितक्षयसकाशात्त्रैय्यारुणिः कविः पुष्करारुणिरित्येतदुत्पन्नाः । एतेऽत्र क्षत्रियकुले उत्पन्ना अपि विष्णुविषये ब्राह्मणगतिं ब्राह्मणस्थितिं गता इति । ब्राह्मणवद्विष्ण्वाराधनं कृतमिति भावः । एतेनात्रेत्यनेनान्वितमिति दूषणं परास्तम् । उत्पन्ना अपीति शेषपूरणेनान्वयस्योक्तत्वात् । एतेनैव त्रैय्यारुणिः कविः पुष्करारुणिरित्येकवचनान्ता-नामन्वयघटनार्थमित्येतत्तच्छब्दाध्याहारस्य कर्तव्यत्वेन त इत्येवं तच्छब्दाध्याहारस्य कर्तुमशक्यत्वाद्ये ब्राह्मणगतिं गता इति यच्छब्दोऽनन्वित इति चोद्यं परिहृतम् । य इति यच्छब्दरूपमित्यनङ्गीकारात् ॥ १९ ॥

सत्यधर्मीया

गर्गात् । ततः शिनेर्गार्ग्यात् क्षत्राद् ब्रह्म ब्राह्मणकुलम् । तस्य दुरितक्षयस्य त्रय्यारुणिः कविः पुष्करारुणिरिति त्रयो ब्राह्मणगतिं गताः क्षत्रजा अपि ब्राह्मणा अभूवन्नित्यर्थः ॥ १९ ॥

छलारी

भरतपौत्रेषु मन्युसुतेषु वंशस्य वंशमुक्त्वा पञ्चमस्य गर्गस्य वंशमाह ॥ गर्गादिति ॥ गार्ग्याद्गर्गसुतात्क्षत्रात्क्षत्रियात्ततः शिानेर्ब्रह्मावर्तत । मन्युसुतस्य महावीर्यस्य वंशमाह ॥ महावीर्याद्दुरितक्षय इति ॥ तस्य दुरितक्षयस्य त्रय्यारुणिः कविः पुष्करारुणिश्चेति त्रयः पुत्राः । अत्र क्षत्रवंशे त्रैय्यारुणादयो ब्राह्मणगतिं ब्राह्मणरूपतां गताः ॥ १९ ॥

बृहत्क्षेत्रस्य होत्रोऽस्माद्धस्ती यद् हस्तिनापुरम् ।

अजमीढो द्विमीढश्च पुरुमीढश्च हस्तिनः ॥ २० ॥

पदरत्नावली

मन्योर्ज्येष्ठसुतस्य वंशमाह- बृहत्क्षेत्रस्येति ॥ नाम्ना हस्ती । यद् येन हस्तिनापुरम्, कृतमिति शेषः । अजमीढादयस्त्रयो हस्तिनः पुत्राः ॥ २० ॥

सत्यधर्मीया

अस्मात् होत्रात् हस्ती नाम्ना, यदव्ययं येन हस्तिनापुरं निर्मितमिति शेषः ॥२०॥

छलारी

मन्योर्ज्येष्ठसुतस्य वंशमाह ॥ बृहत्क्षेत्रस्येति ॥ होत्रः पुत्रोऽभूत् । अस्माद्धोत्राद्धस्ती हस्तिनाम यद् येन हस्तिनापुरं कृतमिति शेषः । अजमीढादयस्त्रयो हस्तिनः पुत्राः । अजमीढस्य वंशेयाः प्रियमेधादयः केचन द्विजाः स्युः ॥ २०,२१ ॥

अजमीढस्य वंश्याः स्युः प्रियमेधादयो द्विजाः ॥ २१ ॥

पदरत्नावली

द्विजाः स्युरभवन् ॥ २१ ॥

सत्यधर्मीया

द्विजाः स्युरभवन् ॥ २१ ॥

अजमीढाद् बृहदिषुस्तस्य पुत्रो बृहद्धनुः ।

बृहत्कायस्ततस्तस्य पुत्र आसीज्जयद्रथः ॥ २२ ॥

सत्यधर्मीया

तस्य बृहदिषोस् ततो बृहद्धनोस् तस्य बृहत्कायस्य ॥ २२ ॥

तत्सुतो विशदस्तस्य श्येनजित् समजायत ।

रुचिराश्वो दृढहनुः काश्यो वत्सश्च तत्सुताः ॥ २३ ॥

रुचिराश्वसुतो याजः पृथुसेनस्तदात्मजः ।

पारस्तत्तनयो नीपस्तस्य पुत्रशतं त्वभूत् ॥ २४ ॥

सत्यधर्मीया

तत्सुतो जयद्रथसूनुस्तस्य विशदस्य । तस्य सुताः श्येनजित्सुताः । तदात्मजः याजजो याज इत्यपि वदन्ति । तन्नामकरणाकालिका वयं तेऽपीति पुस्तकन्यस्तभाराः । तत्तनयः पृथुसेनतनयः । तत्तनयः पारतनयः । तस्य नीपस्य ॥ २३,२४ ॥

छलारी

रुचिराश्वादयश्चत्वारस्तत्सुताः श्येनजित्सुताः । तस्येत्यस्यावृत्तिः । तस्य पारस्य तनयो नीपः । तस्य नीपस्य पुत्रशतमभूत् ॥२३,२४॥

अणुहो नाम यस्तेषां ज्येष्ठो सत्यात्मको नृप ।

स कल्यां शुककन्यायां ब्रह्मदत्तमजीजनत् ॥ २५ ॥

पदरत्नावली

सत्ये पूर्णानन्दज्ञानात्मके हरावात्मा मनो यस्य सः सत्यात्मकोऽणुहः ॥ २५ ॥

सत्यधर्मीया

तेषां मध्ये ज्येष्ठोऽणुहः सत्यात्मकः सत्ये भगवत्यात्मा मनो यस्य सः । शुकस्य व्याससूनोः कन्यायां कल्यां नाम्ना ब्रह्मदत्तमजीजनत् ।

पराशरकुलोत्पन्नः शुको नाम महायशाः ।

व्यासादरण्यां सम्भूतो विधूमोऽग्निरिव ज्वलन् ।

स तस्यां पितृकन्यायां वीरिण्यां जनयिष्यति ।

कृष्णं गौरप्रभं शम्भुं तथा भूरिश्रुतं जयम् ।

कन्यां कीर्तिमतीं षष्ठीं योगिनीं योगमातरम् ।

ब्रह्मदत्तस्य जननीं माहिषीमणुहस्य च ॥ इति हरिवंशोक्तेः ।

साक्षात्त्र्यक्षस्य गृहस्थत्वमवधूतत्वं च, गार्हस्थ्यं च यतित्वं च देवेष्वेकत्वमागतमित्यादेः । पञ्चकं नाः स्मरेन्नित्यमित्यहल्यादिकन्यात्वादिवदविरुद्धम् ॥ २५ ॥

छलारी

तेषु पुत्राणां मध्ये योऽणुहो ज्येष्ठः स ब्रह्मदत्तमजीजनदित्यन्वयः । कथम्भूतोऽणुहः । सत्यात्मकः सत्ये पूर्णानन्दज्ञानात्मके हरावात्मा मनो यस्य सः सत्यात्मकः ॥ २५ ॥

योगेशो गवि भार्यायां विश्वक्सेनमधात् सुतम् ।

जैगीषव्योपदेशेन योगतन्त्रं चकार ह ॥ २६ ॥

पदरत्नावली

योगेशो ब्रह्मदत्तो गविनाम्न्यां भार्यायाम् । जैगीषव्यो रुद्रावतारस्तस्योपदेशेन योगतन्त्रं योगशास्त्रम् ॥ २६ ॥

सत्यधर्मीया

योगेशो ब्रह्मदत्तो गवि तन्नाम््नयां भार्यायां विष्वक्सेनं सुतमधाद् गर्भाधानद्वारा जनयामासेति यावत् । जैगीषव्यो योगी तस्योपदेशेन योगतन्त्रं योगशास्त्रं चकार । हेति पाराशर्यो जालकर्ण्यः पराशरसुतावुभौ । विप्रायामेव भार्यायां तृतीयः कृष्ण एव चेति बृहद्भाष्योक्तेः । पराशरशरीरजो व्यासाग्रज इति सूचयति । स शिवावतारः । यथोक्तं तत्रैव । शुकस्तथा सद्यो जातो वामदेवश्चाद्योरस्तत्पुमानिति । दूर्वासा द्रौणिरौर्वश्च जैगीषव्यादिरूपका इति ॥ २६ ॥

छलारी

योगेशो ब्रह्मदत्तो योगशास्त्रविद् गविनामिकायाम् । अधाद् अजीजनत् । जैगीषव्यो रुद्रावतारस्तस्योपदेशेन योगतन्त्रं योगशास्त्रम् ॥ २६ ॥

उदक्सेनस्ततस्तस्माद् भल्लादो बार्हदीषवाः ।

यवीनरो द्विमीढस्य कृतिमांस्तत्सुतस्ततः ॥ २७ ॥

सत्यधर्मीया

ततो विष्वक्सेनात् । तस्मादुदक्सेनाद् भल्लाद इत्येते बार्हदीषवाः । बृहदिषुरेव बार्हदीषुस्तस्येमे बार्हदीषवाः । तत्सुतो यवीनरसुतस्ततः कृतिमतः ॥ २७ ॥

छलारी

इमे बार्हदीषवा अजमीढपुत्रस्य बृहदिषोर्वंश्याः । अजमीढानुजस्य द्विमीढस्य वंशमाह ॥ यवीनर इति ॥ २७ ॥

नाम्ना सत्यधृतिर्यस्माद् दृढनेमिः सुपार्श्वकृत् ।

सुपार्श्वात् सुमतिस्तस्य पुत्रः सन्ततिमांस्ततः ॥ २८ ॥

पदरत्नावली

सुपार्श्वकृत् सुपार्श्वजनकः ॥ २८ ॥

सत्यधर्मीया

यस्मात्सत्यधृतेर्दृढनेमिः सुपार्श्वकृत्सुपार्श्वपिता । तस्य सुमतेः ॥ २८ ॥

छलारी

ततः सत्यधृतेः सुपार्श्वकृत्सुपार्श्वजनकस्तस्य सन्ततिमान्पुत्रः ॥ २८ ॥

कृतिर्हिरण्यनाभाद् यो योगं प्राप्य जगौ द्विषट् ।

संहिताः प्राच्यसाम्नां वै नीपो ह्यौग्रायुधस्ततः ॥ २९ ॥

पदरत्नावली

योगं तच्छास्त्रं प्राप्य प्राच्यसाम्नां द्विषट् द्वादश संहिता जगौ ॥२९॥

सत्यधर्मीया

कृतिर्हिरण्यनाभादृषेर्योगं तच्छास्त्रं प्राप्य प्राच्यसाम्नां तन्नाम्नां द्विषट् द्वादशसंहिता जगौ अध्यापयामास । ततः कृतेरुग्रायुधस्यायमौग्य्रायुधो नीपः । अनेन पुत्रो ह्युग्रायुधस्तत्पुत्रो नीप इत्युक्तं भवति ॥ २९ ॥

छलारी

ततः कृतिर्यो हिरण्यनाभादृषेर्योगं प्राप्य योगशास्त्रं प्राप्य प्राच्यसाम्नादि द्विषट्सु संहितां विभज्य जगावध्यापितवान् । तस्य कृतेरुग्रायुधः सुतोऽभूत् ॥ २९ ॥

तस्य क्षेम्यः सुवीरोऽथ सुवीरस्य रिपुञ्जयः ।

ततो बहुतिथो नाम पुरुमीढोऽप्रजोऽभवत् ॥ ३० ॥

सत्यधर्मीया

तस्य नीपस्य । ततो रिपुञ्जयादप्रजो गतम् ॥ ३० ॥

छलारी

अथ तस्माद् द्विमीढानुजस्य वंशो नाभूदित्याह ॥ पुरुमीढ इति ॥ ३० ॥

नलिन्यामजमीढस्य नीलः शान्तिस्तु तत्सुतः ।

शान्तेः सुशान्तिस्तत्पुत्रः पुराजोऽर्कस्ततोऽभवत् ॥ ३१ ॥

पदरत्नावली

ततः पुराजाद् अर्काख्यः ॥ ३१ ॥

सत्यधर्मीया

अजमीढाः केचिद्द्विजाः केचित्क्षत्रिया इति तद्वंशद्वयं प्रोच्य तद्वंशानन्तरं शंसति ॥ नलिन्यामिति ॥ तत्सुतो नीलबालस्तत्पुत्रः सुशान्तिसुतस्ततः पुराजात् ॥ ३१ ॥

छलारी

अजमीढस्य वंश्याः प्रियमेधादयः केचिद्ब्राह्मणा बभूवुः । बृहदिषुप्रभृतयः क्षत्रियाश्चेति वंशद्वयमुक्तम् । तस्यैव वंशान्तरमाह । नलिन्यामिति यावत्समाप्तिः । ततः पुराजादर्काख्यः ॥ ३१ ॥

हर्म्याश्वस्तत्सुतस्तस्य पञ्चासन् मुद्गलादयः ।

यवीनरो बृहदिषुः काम्पिल्यः सञ्जयस्ततः ॥ ३२ ॥

पदरत्नावली

इमे हि पुत्राः पञ्चानां विषयाणां शब्दादिपञ्चविषयाणां सकाशान्मे रक्षणायाऽलं समर्था इत्युक्तेः पञ्चालसज्ञिता अभवन् ॥ ३२ ॥

सत्यधर्मीया

तत्सुतोऽर्कार्भकस्तस्य हर्म्याश्वस्य मुद्गलादयः पञ्च सुता आसन् । उर्वरितचतुर्नामाह ॥ यवीनर इति ॥ ततः पञ्चानामुत्पत्त्यनन्तरम् ॥ ३२ ॥

छलारी

मद्गुल एको यवीनरादयश्चत्वार इत्येवं पञ्च सुताः ॥ ३२ ॥

हर्म्याश्वः प्राह पुत्रा मे पञ्चानां रक्षणाय हि ।

विषयाणामलमिमे इति पञ्चालसञ्ज्ञिताः ॥ ३३ ॥

सत्यधर्मीया

पञ्चानां विषयाणां देशानां रक्षणायेमे पञ्च, अलं पर्याप्ता इत्युक्तेस्ते मुद्गलादयः पञ्च पञ्चालसंज्ञिता अभवन् । पञ्चानां शब्दादीनां विषयाणां सकाशान् मद्रक्षणाय । तेष्वमनः प्रसृत्यै अलमित्युक्तेः पञ्चालसंज्ञिता इति ज्ञेयम् ॥ ३३ ॥

छलारी

इमे च पुत्राः पञ्चानां विषयाणां शब्दादिपञ्चविषयेभ्यो वैराग्यजननाय समर्थाः पञ्चालसंज्ञावन्तो भवन्तीति नाम चकारेत्यर्थः ॥ ३३ ॥

मुद्गलाद् ब्रह्म निर्वृत्तं गोत्रं मौद्गल्यसञ्ज्ञितम् ।

मिथुनं मुद्गलाद्धार्म्याद् दिवोदासः पुमानभूत् ॥ ३४ ॥

पदरत्नावली

ब्रह्म ब्राह्मण कुलं निवृत्तं जातम् ॥३४॥

सत्यधर्मीया

मुद्गलाद् ब्रह्म ब्राह्मणजातिश्च निर्वृत्तं जातं गोत्रं च मौद्गल्यसंज्ञितं निर्वृत्तमित्यन्वयः । हार्म्यादेकदेशवैकृत्यन्यायेन हर्म्याश्वपुत्रात् । धार्म्याद् धर्म्याश्व्पुत्राद् इत्यपि पठित्वा व्याकुर्वन्ति । मिथुनं यमलं तद्द्वन्द्वमध्ये दिवोदासः पुमानभूत् ॥ ३४ ॥

छलारी

ब्रह्म निर्वृतं ब्राह्मणकुलमभवत् । गोत्रं कुलं मौद्गल्यसंज्ञितम् । हर्म्याश्वसुतान्मुद्गलान्मिथुनमभूत्तदेवाह ॥ दिवोदासः पुमान् अहल्या कन्यकेति । गौतमाज्जात इति शेषः । धनुर्वेदोऽस्त्रविद्या ॥ ३४,३५ ॥

अहल्या कन्यका यस्यां शतानन्दस्तु गौतमात् ।

तस्य शतधृतिः पुत्रो धनुर्वेदविशारदः ॥ ३५ ॥

सत्यधर्मीया

कन्यका चाहल्या नाम्ना यस्यां गौतमाच्छतानन्दनामा नन्दनोऽभवत् । अहल्यानामनिरुक्तिस्तु ‘हलं नामेह वैरूपं हल्यं तत्प्रभवं भवेत् । यस्या न विद्यते हल्यं तेनाहल्येति विश्रुता । अहल्येत्येव च मया तस्या नाम प्रकीर्तितम्’ इत्युत्तरकाण्डरामायणब्रह्मवचनतः सिद्धा । उत्तररामायणे- सोऽहं तासां विशेषार्थं स्त्रियमेकां विनिर्ममे । यद्यत्प्रजानां प्रत्यङ्गं तत्तदुद्धृतम् । ततो मया रूपगुणैरहल्या स्त्री विनिर्मितेति वचनं च तस्या एव जन्मान्तरविवक्षया, मुद्गलद्वारा ब्रह्मसृष्टतया वा ससम्भवत्का । तस्य शतानन्दस्य ॥ ३५ ॥

शरद्वांस्तत्सुतो यस्मादुर्वशीदर्शनात् किल ।

शरस्तम्बेऽपतद् रेतो मिथुनं तदभूच्छुभम् ॥ ३६ ॥

पदरत्नावली

यस्माच्छरद्वतः ॥ ३६ ॥

इति श्रीमद्भागवतटीकायां विजयध्वजतीर्थभिक्षुकृताया नवमस्कन्धस्य अष्टादशोऽध्यायः ॥

दुर्घटभावदीपिका

यस्माद्यस्य रेत उर्वशीदर्शनात् शरस्तम्बेऽपतत् पतितं शुभं रेतो मिथुनमभूत्किल । स शरद्वांस्तत्सुतः शतधृतिसुतोऽभूदिति । एतेन यस्य रेत इति वक्तव्यम् । यस्माद्रेत इत्यनुपपन्नमिति चोद्यस्यानवकाशः । यस्मादिति पञ्चसी षष्ठ्यादेश इत्यभ्युपगमात् ॥ ३६ ॥

इति श्रीभागवतटिप्पण्यामष्टादशोऽध्यायः ॥ ९-१८ ॥

सत्यधर्मीया

तत्सुतः शतधृतिसूनुर्यस्माच्छरद्वतः शरस्तम्बे मुद्गल्ये ॥ ३६ ॥

छलारी

यस्माच्छरद्वतः । शुभं सुन्दरम् ॥ ३६ ॥

तद् दृष्ट्वा कृपयाऽगृह्णाच्छन्तनुर्मृगयां चरन् ।

कृपः कुमारः कन्या च द्रोणपत्न्यभवत् कृपी ॥ ३७ ॥

इति श्रीमद्भागवते नवमस्कन्धे अष्टादशोऽध्यायः ।

सत्यधर्मीया

मृगयां गतः शन्तनुः कृपया । तन्मिथुनं दृष्ट्वाऽगृह्णात् । कृपया नृपग्रहणाद्धेतोः कुमारः कृपस्तन्नामाऽभवत् । या च कन्या कृपी सा च द्रोणप्रणयिन्यभवत् ॥ ३७ ॥

इति श्रीसत्यधर्मयतिकृतायां भागवतटिप्पण्यां नवमस्कन्धे अष्टादशोऽध्यायः ।

छलारी

अत एव कुमारः कृपः कन्या च कृपी ॥ ३७ ॥

इति श्रीछलारी शेषाचार्यकृतायां भागवतटिप्पण्यां नवमस्कन्धे अष्टादशोऽध्यायः ।