पूरोर्वंशं प्रवक्ष्यामि यत्र जातोऽसि भारत
॥ अथ सप्तदशोऽध्यायः ॥
श्रीशुक उवाच—
पूरोर्वंशं प्रवक्ष्यामि यत्र जातोऽसि भारत ।
यत्र राजर्षयो वंश्या ब्रह्मवंश्याश्च जज्ञिरे ॥ १ ॥
पदरत्नावली
यत्र पूरोर्वंशे ये जज्ञिरे तेषु केचन राजवंश्या राजर्षयः, केचन ब्रह्मवश्या ब्रह्मर्षयश्चाभवन् । वंशे भवा वंश्याः ॥ १ ॥
सत्यधर्मीया
यत्र वंशे, न केवलमेतावत् किन्तु यत्रेति य इत्यर्थे । ये केचन वंश्या राजर्षयो जज्ञिरेऽभवन् । केचन ब्रह्मवंश्या ब्राह्मण्यं प्राप्ता इति यावत् । जज्ञिरेऽभवन् । अनेन वंश्या इत्यनेनैव वंशसम्भवत्वलब्धेर्यत्रेत्यनन्वितमवक्तव्यमिति परास्तम् ॥ १ ॥
छलारी
एवं ययातिराजवृत्तान्तं सपरिकरं निरूप्य ययातिराजपुत्रस्य पुरोर्वंशं निरूपयितुं प्रतिजानीते ॥ पुरोर्वंशमिति । यत्र पुरोर्वंशे जातोऽसि यत्र यस्मिन्पुरोर्वंशे ये जज्ञिरे तेषु केचन राजर्षयः केचन ब्रह्मवंश्या ब्रह्मर्षयश्चाभवन् । कथम्भूता वंश्या राजवंशे भवाः ॥ १ ॥
जनमेजयो ह्यभूत् पूरोः प्रचिन्वांस्तत्सुतः स्मृतः ।
प्रवीरोऽथ नमस्युर्वै तस्माच्चारुपदोऽभवत् ॥ २ ॥
सत्यधर्मीया
पूरोर्जनमेजयस्तत्सुतो जनमेजयसुतः । अथ प्रचिन्वतोऽनन्तरं तस्येति यावत् । प्रवीरस्तस्मान्नमस्युस्तन्नामा तस्माच्चारुपदोऽभवत् ॥ २ ॥
छलारी
अथ प्रवीरात् । वै इत्यव्ययं तस्मादित्यर्थे । तस्मान्नमस्योः ॥ २ ॥
तस्य सुद्युरभूत् पुत्रस्तस्माद् बहुगवस्ततः ।
शंयातिस्तस्य हंयाती रौद्राश्वस्तत्सुतः स्मृतः ॥ ३ ॥
सत्यधर्मीया
तस्य चारुपदस्य । तस्मात्सुद्योस्ततो बहुगवः । तस्य शंयातेस्तत्सुतो हंयातिसुतः ॥ ३ ॥
छलारी
अभूत्पुत्र इत्यस्योत्तरत्राप्यनुषङ्गः । तत्सुतो हंयातिसुतः ॥ ३ ॥
ऋतेयुस्तस्य कक्षेयुः स्थण्डिलेयुः कृतेयुकः ।
जलेयुः सन्तनेयुश्च धर्मसत्यव्रतेयवः ॥ ४ ॥
पदरत्नावली
तस्य रौद्राश्वस्य ऋतेय्वादयो दश पुत्राः । धर्मेयुश्च सत्येयुश्च व्रतेयुश्च धर्मसत्यव्रतेयवः ॥ ४ ॥
सत्यधर्मीया
तस्य रौद्राश्वस्य । ऋतेय्वादयो व्रतेयुकान्तः ॥ ४ ॥
छलारी
धर्मेयुश्च व्रतेयुश्च सत्येयुश्च धर्मसत्यव्रतेयवः ॥ ४ ॥
दशैतेऽप्सरसः पुत्रा वनेयुश्चावमः स्मृतः ।
घृताच्यामिन्द्रियाणीव मुख्यस्य जगदात्मनः ॥ ५ ॥
पदरत्नावली
अप्सरस इति षष्ठी सप्तम्यर्थे । घृताच्यामप्सरस इत्यन्वयः । जगदात्मनो जगद् व्याप्य तिष्ठतो मुख्यस्य प्राणस्य वशे इन्द्रियाणि यथा वर्तन्ते तद्वदित्यर्थः ॥ ५ ॥
सत्यधर्मीया
अप्सरसः षष्ठी सप्तमी सती घृताच्यामित्यनेनान्वेति । ततश्च घृताच्यामप्सरसि सुजातास् तत्र दशसु सुतेष्ववमो वनेयुर्व्रतेयुर्वा पूर्ववत्पूर्ववत्तथा न नः काचिद्धतिः । किन्तु श्लोकयोः समता मता । पित्राज्ञां वर्तितायां निदर्शनमाह ॥ इन्द्रियाणीवेति । मुख्यस्य जगदात्मनो जगतां दासप्राणानामात्मनोऽधिपतेः प्राणपञ्चकस्य मुख्यस्याधिपस्य मुख्यप्राणस्य जगत्प्रवर्तकत्वेन तत्स्वामिनो मुख्यप्राणस्येति वा । इन्द्रियाणि यथा तथेति । एतच्चोक्थमसीत्यादि छान्दोग्योपनिषदि स्पष्टम् ॥ ५ ॥
छलारी
वनेयुश्चावमोऽन्तिमः । एवम् ऋतेयुप्रमुखा दशपुत्रास्तस्य रौद्राश्वसकाशाद्घृताच्या-मप्सरसि जाताः । अप्सरस इति षष्ठी सप्तम्यर्थे । वंशवर्तित्वे दृष्टान्तमाह ॥ मुख्यस्येति । जगदात्मनो जगद्व्याप्य तिष्ठतो मुख्यप्राणस्य वशे इन्द्रियाणि यथा वर्तन्ते तद्वदिति भावः ॥ ५ ॥
ऋतेयो रन्तिनारोऽभूत् त्रयस्तस्यात्मजा नृप ।
सुमतिर्ध्रुवोऽप्रतिरथः कण्वोऽप्रतिरथात्मजः ॥ ६ ॥
सत्यधर्मीया
ऋतेयो रौद्राश्वप्रथमपुत्रस्य । तस्य रन्तिनारस्य । अप्रतिरथस्य तृतीयस्यात्मजः कण्व इत्यन्वयः ॥ ६ ॥
छलारी
ऋतेयो दशसु प्रथमात् । कण्वोऽप्रतिरथात्मजोऽप्रतिरथपुत्रः ॥ ६ ॥
तस्य मेधातिथिस्तस्मात् प्रस्कण्वाद्या द्विजातयः ।
पुत्रोऽभूत् सुमते रैभ्यो दुष्यन्तस्तत्सुतो मतः ॥ ७ ॥
सत्यधर्मीया
तस्य मेधातिथिस्तस्मात् प्रस्कण्वाद्या द्विजातयो मेधातिथिप्रभृतयो वेदद्रष्टारोऽयं कण्वो मेधातिथिरित्यादिवेदप्रसिद्धा ब्रह्मवंश्याश्चेति प्रागुक्तेः । अप्रथमस्याप्यप्रतिरथस्य प्रथमतो वंशशंसनं सुमतेरादिमत्त्वेऽपि मेधातिथ्यादयो ब्राह्मणा इति सुमतिसुतसम्मान्यतावेदनायेति ज्ञेयम् । अथ सुमतिसुतवंशं शंसति । तत्सुतो रैभ्यभवः ॥ ७ ॥
छलारी
तस्य कण्वस्य सुमतेस्त्रिषु पुत्रेषु प्रथमात् ॥ ७ ॥
दुष्यन्तो मृगयां यातः कण्वाश्रमपदं गतः ।
तत्रासीनां स्वप्रभया मण्डयन्तीं रमामिव ॥ ८ ॥
दुर्घटभावदीपिका
रमामिवेत्यस्य रमावद्विद्यमानामित्यर्थः । देवमायामिवेत्यस्य देवमायावद्विद्यमानामित्यर्थः । एतेन रमामिवात्यस्य देवमायामिवेत्यस्य चोपमानवाचकत्वादिदमेव देवमायेवेति वक्तव्युमुपमेयवाचक-त्वाभावात् । द्वितीया विभक्तिरनुपपन्नेति शङ्गानवकाशः । अत्रोपमानस्योपमेयवृत्तित्वाद् द्वितीया विभक्तिरुपपन्नेत्यूरीकरणात् ॥ ८,९ ॥
सत्यधर्मीया
तत्राश्रमे । स्वप्रभया रमामिव मण्डयन्तीं तदाश्रमपदमासीनाम् ॥ ८ ॥
छलारी
दुष्यन्तस्य शकुन्तलायां भरतः पुत्रोऽभवदिति वक्तुं कथामाह ॥ दुष्यन्त इत्यादिना । कण्वाश्रमं रमामिव मण्डयन्तीं देवमायामिव रमामिव स्थितां स्त्रियं विलोक्य मुमुहे । वरारोहां सुन्दरजघनाम् ॥ ८,९ ॥
विलोक्य मुमुहे सद्यो देवमायामिव स्त्रियम् ।
बभाषे तां वरारोहां भटैः कतिपयैर्युतः ॥ ९ ॥
पदरत्नावली
देवमायामिव विद्यमानां स्त्रियम् । वरारोहां सुन्दरजघनाम् ॥ ९ ॥
सत्यधर्मीया
देवमायामिव विद्यमानां स्त्रियं विलोक्य सद्यो मुमुहे । कतिपयैर्भटैर्भृत्यैः । उपलक्षणमिदम् । प्रागित्यर्थः । यथोक्तं भारत आदिपर्वणि । एक एवोत्तमबलः क्षुत्पिपाससमन्वित इति । इत इति चेत्यादिना शाकुन्तल इति ज्ञेयम् ॥ ९ ॥
तद्दर्शनप्रमुदितः सन्निवृत्तपरिश्रमः ।
पप्रच्छ कामसन्तप्तः प्रहसन् श्लक्ष्णया गिरा ॥ १० ॥
सत्यधर्मीया
सन्निवृत्तः परिश्रमो मृगयामार्गणमार्गश्रान्तिर्यस्य सः॥ १० ॥
छलारी
तस्या दर्शनेन प्रमुदितोऽत एव सन्निवृत्तः सञ्चारश्रमो यस्या श्लक्ष्णया मधुरया ॥१०॥
का त्वं कमलगर्भाभे कस्यासि हृदयङ्गमे ।
किं वा चिकीर्षितं त्वत्र भवत्या विजने वने ॥ ११ ॥
पदरत्नावली
कमलगभस्याभेवाभा यस्याः सा तत्सम्बुद्धिः । कस्यासि कस्यात्मजासि । हृदयङ्गमे सुन्दरि ॥ ११ ॥
सत्यधर्मीया
तत्प्रश्नानन्तरं पृच्छति ॥ केति । यथोक्तम् ।
सा तं दृष्ट्वैव राजानं दुष्यन्तमसितेक्षणा ।
स्वागतं त इति क्षिप्रमुवाच प्रतिपूज्य च ॥ इत्यादिना ।
कमलगर्भस्याभेवाभा यस्याः सा तत्सम्बुद्धिः । हृदयङ्गमे मनोरमे । भवत्या विजने जनरहिते वने चिकीर्षितं कर्तुमिष्टं किं वेति । पप्रच्छेत्यन्वयः ॥ ११ ॥
छलारी
कमलगर्भाभे पद्मोदरप्रभे । कस्यासि कस्यात्मजाऽसि । हृदयङ्गमे सुन्दरि ॥ ११ ॥
व्यक्तं राजन्यतनयां वेद्म्यहं त्वां सुमध्यमे ।
न हि चेतः पौरवाणामधर्मे रमते क्वचित् ॥ १२ ॥
सत्यधर्मीया
स्वयं कान्तापदे तां निधायैव विजातीयायां मम ममता नोदेयादिति सुदतीं वदति ॥ व्यक्तमिति । हे सुमध्यमे । पौरवाणां पूर्वन्वयसम्भवानामधर्मे धर्मविरुद्धेऽर्थे क्वचिदप्यापदादिसमास्कन्दनेऽपि मनो न हि रमते न रतं भवेद् अभूच्च त्वयि रतमतस्त्वां राजन्यतनयां व्यक्तं वेद्मीत्यन्वयः ॥ १२ ॥
छलारी
पुरोर्वंशोत्पन्नानां चेतो न ह्यधर्मे रमते । मच्चेतस्त्वयि रमते । अतस्त्वां राजपुत्रीं जानामि ॥ १२ ॥
शकुन्तलोवाच —
विश्वामित्रात्मजैवाहं त्यक्ता मेनकया वने ।
वेदैतद् भगवान् कण्वो वीर किं करवाम ते ॥ १३ ॥
सत्यधर्मीया
यद्राजन्राजन्यतनयां प्रत्यभ्यधास्तद्यथार्थमित्यभिधत्ते ॥ शकुन्तलेति । विश्वामित्रात्मजा वने च मेनकया त्यक्ता विश्वामित्रात्तपस्त्रासात् सुत्रामप्रेषितायां मेनकायां तज्जाता तत्त्यक्ता च । तप्यमानः किलेत्यारभ्य मामनिन्दतेति ग्रन्थेन तत्रोक्तेः । एतन्मम जन्म भगवान्कण्वो वेद । वयं किं करवाम ॥ १३ ॥
छलारी
विश्वामित्रस्यात्मजाऽहं मेनकायां जाता तया स्वर्गं प्रति गच्छन्त्याऽत्र वने त्यक्ताऽतो राजकन्यैवाहमित्यर्थः ॥ १३ ॥
आस्यतामरविन्दाक्ष गृह्यतामर्हणं च नः ।
भुज्यतां सन्ति नीवारा उष्यतां यदि रोचते ॥ १४ ॥
पदरत्नावली
अर्हणम् अर्ध्यादिपूजाम् । नीवारा देवव्रीहयः, तैरापादितमन्नमिति शेषः ॥ १४ ॥
सत्यधर्मीया
नोऽर्हणं, नीवारा देवव्रीहयः ॥ १४ ॥
छलारी
आस्यतामुपविश्यताम् । अर्हणमर्घ्यादिपूजाम् । नीवारा देवव्रीहयः । तैरापादि-तमन्नमिति शेषः ॥ १४ ॥
दुष्यन्त उवाच —
उपपन्नमिदं सुभ्रु जातायाः कुशिकान्वये ।
स्वयं हि वृणुते राज्ञां कन्यकाः सदृशं वरम् ॥ १५ ॥
सत्यधर्मीया
कुशिकान्वये जातायाः । पूर्वमेव तन्मनःपरीक्षार्थं वदति ॥ स्वयमिति ॥ १५ ॥
छलारी
किं करवामेत्यादि वाक्यात्तदभिप्रायं ज्ञात्वाऽऽह ॥ उपपन्नमिति । इदं वचनं युक्तमित्यर्थः ॥ १५ ॥
श्रीशुक उवाच —
ओमित्युक्ते यथाधर्ममुपयेमे शकुन्तलाम् ।
गान्धर्वविधिना राजा देशकालविधानवित् ॥ १६ ॥
पदरत्नावली
ब्राह्मो राक्षसो गान्धर्व इत्यादयो बहवो विवाहविधयः सन्ति, तेषु गान्धर्वविधिना स्वयंवरलक्षणेनोपयेमे ॥ १६ ॥
सत्यधर्मीया
यथाधर्मं स्वयं मन्त्रतन्त्रज्ञो गान्धर्वविधिनोपयेमे ॥ १६ ॥
छलारी
त्वमेव मम सदृशो वरोऽतस्तव पतित्वविषयेऽङ्गीकार एवेत्याशयेन तया ॐ इत्युक्त इत्यर्थः । ब्राह्मो राक्षसो गान्धर्व इत्यादयो बहवो विवाहविधयः सन्ति । तेषु गान्धर्वविधिना स्वयंवरलक्षणेनोपयेमे ॥ १६ ॥
अमोघवीर्यो राजर्षिर्महिष्यां वीर्यमादधे ।
श्वोभूते स्वपुरं यातः कालेनासूत सा सुतम् ॥ १७ ॥
दुर्घटभावदीपिका
श्वोभूत इत्यस्य श्वः श्व इति शब्दवाच्ये दिने भूते प्राप्ते सतीत्यर्थः । एतेन परदिन इति वक्तव्यम् । श्व इति कथनमनुपपन्नमिति दूषणमपास्तम् । श्वः शब्दस्य यस्मिन्दिने वीर्याद्यनन्तं कृतदिनापेक्षया श्वः शब्दवाच्यदिन इत्यर्थ इत्यभ्युपेत्य परदिन इत्यत्रैव तात्पर्यमित्यभ्युपगमात् । एतेनैव भूत इत्येतव्द्यर्थमिति दूषणं प्रत्युक्तम् । भूत इत्यस्य प्राप्त्यर्थकत्वमङ्गीकृत्य सूर्योदयसमय इत्यत्र तात्पर्यमित्यङ्गीकारात् ॥१७॥
सत्यधर्मीया
महिष्यां शकुन्तलायाम् । श्वोभूते उषःकाले ॥ १७ ॥
छलारी
महिष्यां शकुन्तलायां श्वोभूते परदिने ॥ १७ ॥
कण्वः कुमारस्य वने चक्रे समुदिताः क्रियाः ।
बद्व्धा मृगेन्द्रांस्तरसा क्रीडति स्म स बालकः ॥ १८ ॥
पदरत्नावली
समुदिताः सम्यग् विधिबोधिताः ॥ १८ ॥
सत्यधर्मीया
समुदिताः सम्यग्विधिबोधिताः । मृगेन्द्रान् सिंहादीन् ॥ १८ ॥
छलारी
समुचिता ज्ञातकर्मादिक्रियाः । मृगेन्द्रान्सिंहान् ॥ १८ ॥
तं दुरत्ययविक्रान्तमादाय प्रमदोत्तमा ।
हरेरंशांशसम्भूतं भर्तुरन्तिकमागमत् ॥ १९ ॥
पदरत्नावली
तं कुमारम् । हरेर्नारायणस्य अंशः पद्मनाभस् तस्यांशेन सम्भूतम् । प्रमदोत्तमा शकुन्तला ॥ १९ ॥
सत्यधर्मीया
भर्तुर्दुष्यन्तस्यान्तिकं कुमारम् । षड्वर्ष एव बालः स इति च ॥ १९ ॥
छलारी
दुरत्ययमत्येतुमशक्यं विक्रान्तं विक्रमणं यस्य तं कुमारं प्रमदोत्तमा शकुन्तला हरेरंशांशेनांशः पद्मनाभस्तस्यांशेन सम्भूतम् ॥ १९ ॥
यदा न जगृहे राजा भार्यापुत्रावनिन्दितौ ।
ृण्वतां सर्वभूतानां खे वागाहाशरीरिणी ॥ २० ॥
पदरत्नावली
एकान्तप्रमेयमजानन्तो लोका राजा सौन्दर्यवशः कान्तेति कां वा जग्राहेति वदेयुरिति न जगृह इति युक्तोऽग्रह इति बोध्यम् । अशरीरिणी वाग् दैवी वाणी आह ॥ २० ॥
सत्यधर्मीया
एकान्तप्रमेयं लोका अजानन्तो राजा सौन्दर्यभ्रान्तः कान्तेति कां वा जग्राहेति वदेयुरिति यदा न जगृह इति युक्तोऽग्रह इति ज्ञेयम् । यथोक्तम् ।
तच्छत्वा पौरवो राजा व्याहृतं त्रिदिवौकसाम् ।
पुरोहितममात्यांश्च सम्प्रहृष्टोऽब्रवीदिदम् ।
ृण्वन्त्वेतद्भवन्तोऽस्य । भाषितम् ।
अहं चाप्येवमेवैनं जानामि स्वयमात्मजम् । भवेद्धि शङ्क्यो लोकस्य नैवं शुद्धो भवेदयम् ।
वैशंपायन उवाच ।
तं विशोद्ध्य तदा राजा देवदूतेन भारत ।
हृष्टः प्रमुदितश्चापि प्रतिजग्राह तं सुतम् ।
तां चैव भार्यां दुष्यन्तः पूजयामास धर्मतः ।
अब्रवीच्चैव तां राजा सान्त्वपूर्वमिदं वचः ।
कृतो लोकपरोक्षोऽयं सम्बन्धो वै त्वया सह ।
तस्मादेतन्मया देवि तच्छुद्ध्यर्थं विचारितम् ।
लोको हि मन्यते चैवं स्त्रीभावान्मयि सङ्गतम् ।
पुत्रश्चायं वृतो राज्ये मया तस्माद्विचारितम् ।
यच्च कोऽपि तयाऽत्यर्थं त्वयोक्तोऽयं प्रियं प्रिये ।
प्रणयिन्यविशालाक्षि तत्क्षान्तां ते मया शुभ इति ।
अनिन्दिता चानिन्दितश्च तौ ॥ २० ॥
छलारी
न जगृहे । कदाचिन्मृगयां गतो दुष्यन्तो वने शकुन्तलां दृष्ट्वा गान्धर्वविधिना विवाहं कृत्वा स्वपुरं ययौ । ततः कालविलम्बेन स्मरणाभावात्तां शकुन्तलां नेयं भार्या तज्जन्यं पुत्रं नायं पुत्र इति बुद्ध्या न जगृहे इत्यर्थः ॥ २० ॥
माता भस्त्रा पितुः पुत्रो यस्माज्जातः स एव सः ।
भरस्व पुत्रं दौष्यन्तिं माऽवमंस्थाः शकुन्तलाम् ॥ २१ ॥
पदरत्नावली
माता भस्त्रेति लुप्तोपमा । यथा ’कारुशालाचुल्लीस्थितामिशक्त्युद्दीपकत्वेनामेराधारमात्रं भस्रा भस भक्षणदीप्त्योेः’ इति धातोः । तथा करचरणाद्यवयवविशिष्टदेहाकारेण परिणममानस्य भर्तुर्वीर्यस्याधारमात्रं माता इति मातुः पुत्रत्वमौपचारिकम् । तर्हि कस्य मुख्यपुत्रत्वमिति तत्राह- पितुरिति ॥ कुत इत्यत आह- यस्मादिति ॥ स पितैव पुत्रो जात इति यस्मात् तस्मात् स पुत्रः पितुरेवेत्यर्थः । ‘आत्मा वै पुत्रनामासीत्’ तज्जाया जाया भवति यदस्यां जायते पुनः’ इत्यादिश्रुतेः । पुत्रदेहस्यापि पितृदेहैकदेशोपादानत्वद्योतनाय पितुरित्युक्तम् । अन्यथा पिता पुत्र इति प्रयोगस्यापि सम्भवात् । शुक्लान्तःस्थितजीवस्य मातुरुदरप्रवेशानन्तरं जीवावरकं तदेव शुक्लं मातृभुक्तरसान्नादिना देहाकारेण परिणतं भवति । शोणितं तु कमलस्य सरोवरपङ्किल’ इवाधारमात्रमिति भावः । अथवा हिरण्यधान्यादिग्राहिणी पात्री भस्रा नाम । तद्वन्माता भत्रहितवीर्यधारिणी पुत्रस्य द्वारमात्रम् । पितृवीर्यात्मकत्वात् पितुरेव पुत्र इति वा योजना । प्रकृते किं कर्तव्यमिति तत्राह- भरस्वेति ॥ अन्यपुत्रं कथं स्वीकरोमीत्यत उक्तं- दौष्यन्तिमिति ॥ औरसं पुत्रमित्यर्थः । माऽवमंस्थाः स्वैरिणीति माऽवमानय ॥ २१ ॥
सत्यधर्मीया
अशरीरिणी देवताका वाणी किमभाणीदित्यत आह ॥ मातेति । भस्त्रचर्मप्रसेचकेत्यमरात् कार्वागारचुल्लीसल्लीनानलवलीकरणफूत्करणकरणचर्ममयमहाद् इतिः सा यथाऽन्याहितगन्धवहं वहति तथेयं माता । न पिता तादृश इति शंसति ॥ पितुः पुत्र इति । कुतोऽयं विशेष इत्यत आह ॥ यस्माज्जातः स एव स इति । आत्मा वै पुत्रनामाऽसीत्यादेः । यज्जाया जाया भवति यदस्यां जायते पुनरिति च । औपचारिकी वाङ्मातुः पुत्र इत्यनौपचारिकी पितुः पुत्र इति वागिति भावः । पुत्रं भरस्व । डु भृञिति ञित्वात्स्वरित ञित इत्यात्मनेपदता । स कोऽहं क इति तं कथयेत्याह ॥ दौष्यन्तिमिति । दुष्यन्तस्य तवापत्यमिति स तथा भरस्व पुत्रमिति वा । अतोऽयं दौष्यन्तिस्तां शकुन्तलां माऽवमंस्थाः स्वैरिणीति माऽवमानय । माऽवमंस्था भरस्वेति तत्राप्यन्वयो ज्ञेयः ॥ २१ ॥
छलारी
यथा कारुशालाचुल्लीस्थिताग्निशक्त्युद्दीपकत्वेनाग्नेराधारमात्रं भस्रा । भस भक्षण दीप्त्योरिति धातोः । तथा माता भर्त्राहितं वीर्यमादाय करचरणाद्यवयवविशिष्टदेहाकारेण परिणम-मानस्य वीर्यस्य प्रथमाधारभूतत्वान्मातुः पुत्रत्वमौपचारिकम् । तर्हि कस्य मुख्यपुत्रत्वमिति तत्राह ॥ पितुरिति । मुख्यपुत्रत्वं पितुरेव । कुत इत्यत आह ॥ यस्मादिति स पितैव पुत्रो जात इति यस्मात्तस्मात्सः पुत्रः पितुरेवेत्यर्थः । आत्मा वै पुत्रनामासीदिति श्रुतेः । तज्जाया जाया भवति यदस्यां जायते पुनरिति च । तर्हि किं कर्तव्यमिति तत्राह ॥ दौष्यन्तिमिति । दुष्यन्तस्य तव पुत्रत्वादेव दौष्यन्तिशब्दवाच्यं पुत्रं भरस्व पोषय । अनेन भरतनाम निरुक्तम् । अतः शकुन्तलां स्वैरिणीति माऽव मंस्था अवज्ञां न कुरु ॥ २१ ॥
रेतोधाः पुत्रं नयति नरदेव यमक्षयम् ।
त्वं चास्य धाता गर्भस्य सत्यमाह शकुन्तला ॥ २२ ॥
पदरत्नावली
नन्वेतद्भरणकरणे मम किं प्रयोजनम् ? येन भरणं स्यादिति तत्राह- रेतोधा इति ॥ यं यः ‘सुप्तिङुपग्रहलिङ्गनराणाम्’ इति महाव्याकरणसूत्राद् व्यत्ययो युक्तः । पुत्रं पुत्रः, अत्रापि व्यत्ययः । रेतोधा रेतोधातारम् । ‘सप्तसु प्रथमा’ इति सूत्रात् । अक्षयम् अक्षयोऽनन्तो यो लोकस्तं वैकुण्ठादिकं नयति प्रापयति । यः पुत्रः स रेतोधातारमक्षयं नयति’ ‘यस्मात् पुत्रमनुशिष्टं लोकमाहुस्तस्मादेनमनुशासति’ नापुत्रस्य लोकोऽस्ति’ इत्यादिश्रुतेः । मयाऽनाहितं गर्भं कथं पुत्रं वदसीति तत्राह- त्वं चेति ॥ चशब्द एवार्थकः । भो नरदेव दष्यन्त, यं यः पुत्रं पुत्रो-रेताधा रताधातारं पितरमक्षयं लोकं नयति तस्यास्य गर्भस्य सर्वदमनाख्यस्य शकुन्तलागर्भस्य धाता रेतोधाता त्वमेव । तस्मात् तव पुत्रं त्वमेव भरस्वेति पूर्वेणान्वयः । अथवाऽस्वीकारेऽनर्थमाह- रेतोधा इति ॥ रेतोधा भवान् पुत्रं यमक्षयं यमस्य मृत्योः क्षयं निवासं नयति । क्षि निवासगत्योरिति धातोः क्षय निवासः । मृतप्रायं करोति अस्वीकारात् । तेन सत्पुत्रहत्याख्यदोषप्राप्तिस्तव स्यादतस्तद्वयादपि स्वीकुर्वित्यर्थः । अथवा रेतोधा अक्षयगतिमनन्याधारं यं पुत्रं नयति स्वाश्रयं करोति स पुत्रस्तं रेतोधातारमक्षयं लोकं नयति । अनन्याधारत्वे हेतुगर्भविशेषणमाह- त्वं चेति ॥ अस्य सर्वस्य प्रमाणं शकुन्तला वचनमित्याह- सत्यमिति ॥ शकुन्तला सत्यं यथार्थमेवाह नानृतम् ॥ २२ ॥
दुर्घटभावदीपिका
हे नरदेव पुत्रं पुत्रो रेतोधाः । पुत्रमिति चोद्यं निरस्तम् । रेतोधा इति प्रथमादेः पुत्रम् इति द्वितीया प्रथमादेश इत्यभ्युपगमात् । एतेनैव वयमिति यच्छब्दोऽनन्वित इति दूषणस्यानवकाशः । अकय-प्रविसम्भूमसखहाविष्णुवाचका इति वचनानुसारेण विष्णुवाच्यकारान्तो यशब्द इत्यूरीकरणात् ॥ २२ ॥
सत्यधर्मीया
एतद्भरणकरणे मम किं प्रयोजनमित्यतो मया किमेतस्येत्यतश्चाह ॥ रेतोधा इति । रेतः स्वोपादानकारणं धत्ते इति स सुतः । पुत्रं पुन्नाम्नो नरकादेः स्वपितृत्रायकं स्वपितरम् । हे नरदेव अक्षयं नाशरहितं लोकं नयति । अस्य गर्भस्य धाता रतिं विधाय धारकः, त्वं त्वमेव । शकुन्तला यं भवन्तं प्रति सत्यमेवेत्यन्वयो वाऽऽह स त्वं भर भरस्वेत्यन्वयः । रेतोधाः पिता नरदेव यमक्षयं नयतीह वनरक्षयं स्वादिनरगेहं देवक्षयं वैकुण्ठं सत्कर्मानुष्ठापयित्वा । यमक्षयमेवमरक्षणे मृत्युलोकमित्यपि योजयन्ति । यमक्षयं गुरुगृहं वा । यः पुत्रः स रेतोधातारमक्षयं नयतीति श्रुतिं व्यत्यस्य विभक्तिं व्याचक्रुश्च ॥ २२ ॥
छलारी
ननु मम पुत्रेण किं प्रयोजनं स्याद्येन भार्या स्यादिति तत्राह ॥ रेतोधा इति । पुत्रम् पुत्र इति व्यत्ययः कार्यः । सुप्तिङुपग्रहलिङ्गनराणामिति महाव्याकरणसूत्रात् । रेतोधा रेतोधातारं पितरम् । सप्तसु प्रथमेति सूत्रात् । यमक्षयम् । अत्रापि व्यत्ययः । अक्षयोऽनन्तो लोकस्तं वैकुण्ठादिकं नयति प्रापयति । भो नरदेव दुष्यन्त । पुत्रं स्वीकुर्विति शेषः । मयाऽनाहितं गर्भं कथं पुत्रं वदसीति तत्राह ॥ त्वं चेति ॥ चशब्द एवार्थे । त्वमेवास्य गर्भस्य धाताऽऽधानकर्ता । क आहेति तत्राह ॥ सत्यमिति । शकुंतला सत्यं यथार्थमेवाह नानृतम् । अथवा । अस्वीकारेऽनर्थमाह ॥ रेतोधा इति । रेतोधाः पिता भवान् पुत्रं यमक्षयं मृत्युलोकं नयति मृतप्रायं करोति । त्वया पुत्रत्वेनास्वी-कारात्तेन पुत्रहत्याख्यदोषप्राप्तिस्तव स्यादतस्तद्भयादपि स्वीकुर्वित्यर्थः । रेतोधाः पुत्रो नयति नरदेव यमक्षयमिति पाठे पुत्रो रेतोधा यमक्षयाद्यमलोकाद्रेतोधातारं पितरं नयति तारयतीत्यर्थः । तथा च श्रुतिः । पुन्नाम्नो नरकाद्यस्मात्पितरं त्रायते सुतः । तस्मात्पुत्र इति प्रोक्तः स्वयमेव स्वयंभुवेति । ततश्च दुष्यन्तो राजा भार्यापुत्रौ स्वीकृतवानिति ज्ञेयम् ॥ २२ ॥
पितर्युपरते सोऽभूच्चक्रवर्ती महायशाः ।
महिमा गीयते तस्य हरेरंशभुवो भुवि ॥ २३ ॥
पदरत्नावली
पितरि दुष्यन्ते उपरते मृते सति स दुष्यन्तपुत्रो भरस्वेत्युक्तत्वाद् भरतो भरेण हरिणा ततत्वाद् - वा भूमेर्भरं भरणं तनोतीति वा । चक्रवर्ती महायशायाश्चाभूदित्यन्वयः ॥ २३ ॥
सत्यधर्मीया
पितरि दुष्यन्ते उपरते मृते सति । भरतो भरेतिशब्दो यद्विषयोऽस्ति स भरतः । मत्वर्थे तः । चक्रवर्ती महायशाश्चाभूत् । हरेर्नारायणस्यांशात्पद्मनाभाद्भवतीति भूस्तस्य । नान्तो वा टाबन्तो वा । महिमा भुवि गीयते ॥ २३ ॥
छलारी
पितरि दुष्यन्ते उपरते मृते सति स दुष्यन्तपुत्रो भरस्वेत्युक्तत्वाद्भरतो भरेण हरिणा ततत्वाद्वा । चक्रवर्ती बभूवेति शेषः । तस्य महिमा तदप्येते श्लोका अभिगीता इत्यादि बव्हृचश्रुत्या हरेरंशेन सह भवतीत्यंशभुवस्तस्य ॥ २३ ॥
चक्रं दक्षिणहस्तेऽस्य पद्मकोशश्च पादयोः ।
ईजे महाभिषेकेण सोऽभिषिक्तोऽधिराट् प्रभुः ॥ २४ ॥
पदरत्नावली
नाम्ना महाभिषेकेण इन्द्रेणाभिषिक्तोऽधिराट्प्रभुर् महाराज ईजे ॥ २४ ॥
सत्यधर्मीया
अस्य दक्षिणहस्ते चक्रं तद्रेखा । ननु दक्षिणे हस्ते चक्रं वायुलक्षणम् । यथोक्तं बृहदारण्यकभाष्ये । सहस्त्रारेण चक्रेण चिह्निता दक्षिणे करे । वायुत्वयोग्यकेति । तथा, अष्टकादृषयः प्रोक्तास्तदूनाश्चक्रवर्तिन इत्युक्तेः कथं चक्रवर्तिन एतस्य चक्रं कर इति चेन्न । सहस्त्रारेत्युदीरणेन किञ्चिदरकारिणः सर्वत्र तरतमभावेनाभ्यनुज्ञानान्न विरोधः । पादयोर्द्वयोः पद्मकोशः प्राग्वत् । महाभिषेकेणेन्द्रेणाभिषिक्तोऽधिराण्महाराज ईजे ॥ २४ ॥
छलारी
तत्र लिङ्गमाह ॥ चक्रमिति । चक्रं चक्ररेखाः पद्मकोशस्तस्य रेखा महाभिषेकेण महाभिषेकविधिनाऽभिषिक्तोऽधिराट् प्रभुर्येऽधिराजा राजाधिराजास्तेषां प्रभुरित्यर्थः ॥ २४ ॥
पञ्चपञ्चाशतैर्मेध्यैर्गङ्गायामनुवाजिभिः ।
दीर्घतमसं पुरोधाय यमुनायामनु प्रभुः ॥ २५ ॥
पदरत्नावली
गङ्गायामनु तत्तीरे वृत्रघ्नाख्यक्षेत्रे पञ्चपञ्चाशतैः पञ्चभिः पञ्चाशता च, पञ्चोत्तरपञ्चाशत्सङ्ख्याकैरित्यर्थः । मेध्यैवाजिभिरीजे । दीर्घतमसं पुरोधाय पुरोहितं कृत्वा । प्रभुरुत्तमकल्पेन यष्टुं समर्थः ॥ २५ ॥
सत्यधर्मीया
एतेन ह वा इत्यष्टमपञ्चमाध्यायगतत्रयोविंशतिखण्डानुसारिणश्चेमे श्लोका इति खण्डो व्याक्रियते । ततश्चायं खण्डः । एतेन ह वा ऐन्द्रेण महाभिषेकेण दीर्घतमा मामतेयो भरतं दौष्यन्तिमभिषिषेच । तस्मादु भरतो दौष्यन्तिः सम्मतं सर्वतः पृथिवीं जयन् पर्यायाश्वैरु च मेध्यैरीजे । तदप्येते श्लोका अभिगीताः ।
हिरण्येन परिवृतान् कृष्णाञ्च्छुक्लदतो मृगान् ।
मृष्णारे भरतोऽददाच्छतं वद्वानि सप्त च ॥ १ ॥
भरतस्यैष दौष्यन्तेरग्निः साचीगुणे चितः ।
यस्मिन्सहस्त्रं ब्राह्मणा वद्वशो गा विभेजिरे ॥ २ ॥
अष्टासप्तति भरतो दौष्यन्तिर्यमुनामनु ।
गङ्गायां वृत्रघ्नेऽबध्नात्पञ्चपञ्चाशतं हयान् ॥ ३ ॥
त्रयस्त्रिंशच्छतं राजा अश्वान् बद्ध्वा य मेध्यान् ।
दौष्यन्तिरत्यगाद्राज्ञो मायां मायावत्तरः ॥ ४ ॥
महाकर्म भरतस्य न पूर्वे नापरे जनाः ।
दिवं मर्त्य इव हस्ताभ्यां नोदापुः पञ्च मानवा ॥ ५ ॥ इति ।
ततश्चायमर्थः । मामतेयो ममताया अपत्यम् । स्त्रीभ्यो ढक् । दौष्यन्तिं भरतमभिषिषेच महाभिषेकसहितमकरोत् । तस्मात्तदभिषेकमाहात्म्यात् । उ चेति निपातसमुदायः समुच्चयार्थे । सम्मतमिति सम्मतादित्यर्थेऽव्ययम् । सम्मतं परिण्यविशन्तेति बृहदारण्यकभावबोधे सम्मतं समन्तत इति व्याख्यातत्वात् । सर्वतः सर्वां पृथिवीं जयन् । पर्याय पर्यागत्य मेध्यैरश्वैरीजे । ततस्तद्भरतविषयेऽप्येते उदाहरिष्यमाणाः श्लोका अभिगीताः । तत्र प्रथममाह ॥ हिरण्येनेति । मृगा हि एणाः । मृगः पशौ कुरङ्गे च करिनक्षत्रयोरिति विश्वः । कृष्णांस्तद्वर्णान् शुक्लदतः शुभ्रदन्तान् हिरण्येन सुवर्णेन परिवृतान् तद्भूषितानिति यावत् । मृष्णारे देशविशेषे । वद्वशब्दो वृन्दपर्यायः । वृन्दशब्दश्च शतकोटिवाची । एकं दशशतं च सहस्त्रं चायुतं नियुतं तथा । प्रयुतकोट्यर्बुदं स्थानं स्थानाद्दशगुणं (वद्वं) स्यादित्याकरकाराः । वद्वानि शतकोटिसङ्ख्यानि । शतसप्तकं चाददाद्दत्तवान् ॥ १ ॥ द्वितीयं श्लोकमाह ॥ भरतस्येति । दौष्यन्तेर् भरतस्यैषोऽग्निः साचीगुणे देशविशेषे कृतवान् । यस्मिंश्चयने ब्राह्मणा वद्वशः प्रातिस्विकं कोटिकोटिसङ्ख्या गा विभेजिरे विभज्य कृतवन्तः ॥ २ ॥ तृतीयं श्लोकमाह ॥ ओति । अश्वमेधैरीज इत्युक्तं तत्राश्वसङ्ख्या चोच्यते । भरतो यमुनामनु । अस्मव्द्याख्यानं भारतानुगुणम् । तथा हि द्रोणपर्वणि ।
हैरण्यानश्वान्द्विरदान्रथानुष्ट्रानजाविकान् ।
दासीदासं धनं धान्यं गाः सवत्साः पयस्विनीः ।
ग्रामान्गृहांश्च क्षेत्राणि विविधांश्च परिच्छदान् ।
यस्य यूपः शतव्यामः परिणाहेन काञ्चनः ।
कोटिशतायुतांश्चैव ब्राह्मणेभ्यो ह्यमन्यतेति । चतुर्दशलक्षेत्यादिविवरणं तद्दुर्दशात इति ज्ञेयम् । कालिन्दीकूलेऽष्टसप्ततिहयानबध्नाद् बबन्ध । तावद्भिरर्वद्भिरीज इति भावः । यतो गङ्गायां विष्णुपद्यां तत्रापि वृत्रध्ने क्षेत्रविशेषे पञ्चपञ्चाशत् पञ्चोत्तरपञ्चाशत्सङ्ख्यान्हयान् अबध्नात् ॥ ३ ॥ आहत्य तत्सङ्ख्यां चतुर्थेन श्लोकेनाह ॥ त्रयस्त्रिंशच्छतमिति ॥ ७८५५=१३३ ॥ त्रयस्त्रिंशदुत्तरशतसङ्ख्यान्मेध्यान्मेधार्हांच्छुद्धानिति यावत् । अश्वान् बद्ध्वा बन्धनं कृत्वा मायावतारो मायावच्छ्रेष्ठो राज्ञः स्ववैरिराजवर्गस्य मायां स्वव्यामोहिनीम् । अत्यगादतिचक्राम । मायावत्तरो वैचित्र्यवदुत्तमो राजा नित्यं प्रजारञ्जानो हरेर्मायामत्यगादिति ॥ ४ ॥ महाभिषेकमहिमानमुक्त्वा पञ्चममेव प्रपञ्चयित्वोपसंहरति ॥ महाकर्मेति । भरतस्य पूर्वे भरतात्पुरातना अपरे तदनन्तरजा जनाः पञ्च मानवाश्चत्वारो वर्णा निषादाश्च पञ्चमाश्चेति पञ्चमानवा नोदापुर्महाकर्म नाप्नुवन्तः । तत्र दृष्टान्तमाचष्टे । मर्त्यो हस्ताभ्यां दिवं स्वर्गं यथा स्पृष्टुं न शक्तस्तथैतत्कर्म केऽपि नाप्नुवन्निति भावः ॥ ५ ॥
अथैतच्छतिप्रतीकश्लोकार्थः । दीर्घतमसं मामतेयं पुरोधाय पुरोहितं वाऽभिषेक्तारमृत्विजं वा कृत्वा यमुनायामनु तत्तीरेऽष्टसप्ततिसङ्ख्याकानश्वान्बबन्ध । वसुदानादि प्रददे दत्तवान् । गङ्गायामनु तत्तीरे वृत्रघ्ने पञ्चपञ्चाशतैर्मेध्यैर्वाजिभिरीजे ॥ २५ ॥
छलारी
गङ्गायामनु गङ्गातीरे पञ्चपञ्चाशतैः पञ्चभिः पञ्चाशता च पञ्चोत्तरपञ्चा-शत्सङ्ख्याकैरित्यर्थः । वाजिभिरश्वैरीजे । दीर्घतमसं पुरोधाय पुरोहितं कृत्वा । पुनर्यमुनायामनु यमुनातीरेऽष्टसप्ततिसङ्ख्याकान् अश्वान् बबन्ध । पशुबन्धं कृतवानित्यर्थः । किं कुर्वन् । वसु धनं प्रकर्षेण प्रददे प्राददत् । भरतस्येदं सामर्थ्यमाह ॥ भरतस्येति । कैकयीपुत्रव्यावृत्त्यर्थं दौष्यन्तेरिति । भरतस्य यज्ञेऽग्निः साचीगुणे चितः साचिव्यगुणे कृतः साचिव्यं कृतवानित्यर्थः । अग्निमथने कृते सति शीघ्रं प्रकटीबभूवेति भावः ॥ २५,२६ ॥
अष्टसप्तति मेध्याश्वान् बबन्ध प्रददे वसु ।
भरतस्य हि दौष्यन्तेरग्निः साचीगुणे चितः ।
सहस्त्रं वद्वशो यस्मिन् ब्राह्मणा गा विभेजिरे ॥ २६ ॥
पदरत्नावली
पुनर्यमुनायामनु तीरे अष्ट सप्तति मेध्याश्वान् बबन्ध । तदा वसु धनकनकादिदक्षिणां प्रकर्षण ददे । भरतस्य सामग्रमाह- भरतस्येति ॥ कैकेयीपुत्रव्यावृत्यर्थम् -दौष्यन्तेरिति ॥ भरतस्य यज्ञे अग्निरग्रभागनेतृत्वादग्निनामा साचीगुणे समीचीनदेशविशेषे चितश् चयनं कृतवानित्यर्थः ॥२६॥
सत्यधर्मीया
साचीगुणे समीचीनदेशविशेषे चितः । सहस्त्रं वद्वश इति सुपाठः । द्वन्द्वश इति तु लेखकमहिमा । सर्वत्र श्रौतपदानुवादादत्रेति । खण्डार्थदशावर्णितावद्वशोऽर्थादयमेकस्तत्पदार्थः सम्भवीति केचित् । तथा हि । चतुरशीत्यधिकैस्त्रिदशसहस्त्रैरेकं वद्वम् । सप्ताधिकशतवद्वानि । इमामेव सङ्गृह्य शुको वक्ष्यति । एवं चतुर्दशलक्षणासप्ताधिकशतभागो वद्वम् । ततो बह्वल्पाच्छसिति स्वार्थे शसि सङ्ख्यापूर्वकत्वाद्वीप्सायां वा वद्वश इति भवतीति । ब्राह्मणा गा विभेजिरे विभज्य गृहीतवन्तः ॥ २६ ॥
छलारी
यस्मिन्यज्ञे ब्राह्मणा द्वन्द्वशः सहस्रं द्विसहस्रं गा विभेजिरे विभज्य स्वीकृतवन्तः ॥ २६ ॥
त्रयस्त्रिंच्छतं ह्यश्वान् बद्ध्वा विस्मापयन् नृपान् ।
दौष्यन्तिरत्यगान्मायां देवानां पूरुमायया ॥ २७ ॥
पदरत्नावली
यस्मिन् यज्ञे सहस्रं ब्राह्मणा वद्वशः प्रातिस्विकं कोटिकोटिसङ्ख्या गा विभेजिरे विभज्य स्वीकृतवन्तः । वद्वशब्दो वृन्दसङ्ख्यापर्यायः । वृन्दशब्दश्च शतकोटिवाची । दौष्यन्तिर् भरतस्तस्मिन् यज्ञे आहत्य त्रयस्त्रिशंच्छतं त्रयस्त्रिशंदुत्तरशतसङ्ख्यान् मेधार्हान् अश्वान् बद्ध्वा नृपान् विस्मापयन् विस्मितवन्तः कुर्वन् पुरुमायया महता महिम्ना देवानां मायां निजभोगेच्छामत्यगाद् यज्ञे विघ्नकरीमतिचक्रामेति ॥ २७ ॥
सत्यधर्मीया
त्रयस्त्रिंशच्छतं त्रयस्त्रिंशदुत्तरमेकशतमश्वान्बध्वा नृपांस्तल्लववर्तिनो राज्ञः । राज्ञ इत्येकवचनं बहुवचनार्थं सद्देववाचीति सूचितं भवति । मायावत्तर इति विशेषणीभूतमायायां श्रौततरबर्थभूतं पुरुत्वमन्वेतीति द्योतयति पूरुमाययेत्यनेन ॥ २७ ॥
छलारी
दौष्यन्तिर्भरतस्तस्मिन्यज्ञे त्रयस्त्रिंशच्छतमश्वान् बद्ध्वा नृपान्विस्मापयन्विस्मितवतः कुर्वन् पुरुमायया महता महिम्ना देवानां मायां निजभोगेच्छान् अत्यगात्कांक्षितादप्यधिकं ददावित्यर्थः । यद्वा देवानामपि मायां वैभवं स्वमहिम्नाऽत्यगादशेत ॥ २७ ॥
मृगान् शुक्लदतः कृष्णान् हिरण्येन परिष्कृतान् ।
अदात् कर्मणि मृष्णारे नियुतानि चतुर्दश ॥ २८ ॥
पदरत्नावली
शुक्लदतः शुक्लदन्तान् हिरण्येन परिष्कृतान् अलंकृतान् कृष्णान् मृगान् कृष्णमृगान्, गजान् वा । ‘भद्रो मन्दो मृगश्चेति विज्ञेया स्त्रिविधा गजाः’ इति हलः । मष्णारे क्षेत्रविशेषे, कर्मणि क्रतुरूपे, क्रियमाण इति शेषः । नियुतानि दशलक्षाणि ॥ २८ ॥
सत्यधर्मीया
मृगान् गजान् । नियुतानि चतुर्दश । प्राचीनविवरणपक्षे स्वतन्त्रमेतत्सङ्ख्या पृथग्गजदानमिति मन्तव्यम् । मृष्णारे क्षेत्रविशेषे । कर्मणि स्वकृतक्रतुरूपे ॥ २८ ॥
छलारी
शुक्लदतः शुक्लदन्तान्हिरण्येन परिष्कृतान् अलंकृतान् कृष्णान्मृगान् गजान्वा । भद्रो मृगो गजश्चेति हलः । अदात् । मृष्णारे तन्नामके कर्मणि कस्मिंश्चित्कर्मविशेषे तीर्थविशेषे वा । नियुतानि लक्षाणि ॥ २८ ॥
भरतस्य महत्कर्म न पूर्वे नापरे नृपाः ।
नोदापुर्नैव प्राप्स्यन्ति बाहुभ्यां त्रिदिवं यथा ॥ २९ ॥
पदरत्नावली
पूर्वे नृपा महत्कर्म बह्वश्वमहीदानादिरूपं न उदायुः प्रापुः । अपरे पश्चात्तना न प्राप्स्यन्ति । इदनीन्तना नाप्नुवन्तीति किमु वक्तव्यम् । तत्र दृष्टान्तमाह- बाहुभ्यामिति ॥ अग्निष्टोमादिसाधनमन्तरेण केवलं बाहुभ्यां स्वर्गं यथा न गच्छन्ति तथा । आकाशं वा । त्रिदिवो व्योमि्न दिव्यपि इति यादवः ॥ २९ ॥
सत्यधर्मीया
अपरे भविष्यन्तः बाहुभ्यां त्रिदिवं यथा न प्राप्नोति मर्त्यस्तथा भरतस्य महत्कर्म पूर्वे नापुरपरे न प्राप्नुवन्ति ॥ २९ ॥
छलारी
पूर्वे नृपा महत्कर्म बह्वश्वमहीदानादिरूपं महत्कर्म नोदापुर्न प्रापुः । अपरे पश्चात्तना नृपाश्च न प्राप्स्यन्तीदानीन्तना न प्राप्नुवन्तीति किमु वक्तव्यम् । तत्र दृष्टान्तमाह ॥ बाहुभ्यामिति ॥ अग्निष्टोमादिसाधनमन्तरेण केवलबाहुभ्यां स्वर्गं यथा न गच्छन्ति तद्वदित्यर्थः ॥ २९ ॥
किरातहूणान् यवनावन्ध्रान् कङ्कान् कषान् शकान् ।
अब्रह्मण्यान् नृपांश्चाहन् म्लेञ्छान् दिग्विजयेऽखिलान् ॥ ३० ॥
पदरत्नावली
स किरातादीन् म्लेञ्छविशेषान् अब्रह्मण्यान् ब्राह्मणविरोधिनो नृपानहन् ॥ ३० ॥
सत्यधर्मीया
किरातादयो म्लेञ्छविशेषाः । अब्रह्मण्यान् ब्राह्मणविरोधिनो नृपांश्चेत्यखिलान् दिग्विजये तत्सम्पादनाकालेऽहन् हतवान् ॥ ३० ॥
छलारी
किरातादयो नीचजातिविशेषाः । तान् अब्रह्मण्यान् ब्राह्मणविरोधिनो नृपांश्चाहनद्धतवान् ॥ ३० ॥
जित्वा पुराऽसुरान् देवा येन स्वौकांसि भेजिरे ।
देवस्त्रियो रसां नीताः पणिभिः पुनराहरत् ॥ ३१ ॥
पदरत्नावली
विक्रमान्तरं दर्शयति- जित्वेति ॥ पुरा दिग्विजयकाले येन सहायभूतेन भरतेनासुरान् जित्वा देवाः स्वौकांसि स्वस्वस्थानानि भेजिरे । स भरतो नाम्ना पणिभिरसुरैः रसातलं नीता देवस्त्रियः पुनराहरद् आनीतवान् ॥ ३१ ॥
सत्यधर्मीया
येन भरतेन सहायेन देवा असुरान् जित्वा स्वौकांसि स्वानि धामानि भेजिरे । स पणिभिस्तन्नामकैर्दैत्यैः । यथोक्तम् ऋग्भाष्यटीकाटिप्पणे । पणिनेव गावः पणिविशेषेण बलेन पणिनामकदैत्यानां मध्य इति । रसातलं नीता देववनिताः पुन आहरदानीतवान् ॥ ३१ ॥
छलारी
विक्रमान्तरं दर्शयति ॥ जित्वेति ॥ पुरा दिग्विजयकाले येन सहायभूतेन भरतेनासुरान्स्वयं जित्वा स्वौकांसि स्वस्वस्थानानि प्रापुः । असुरजयो न भरतकर्तृकः । समानकर्तृकयोः पूर्वकाले क्त्वेत्युक्तत्वात् । स भरतो नाम्ना पणिभिरसुरैः रसातलं नीता देवस्त्रियः पुनराहरदानीतवान् ॥ ३१ ॥
सर्वान् कामान् दुदुहतुः प्रजानां तस्य रोदसी ।
समास्त्रिनवसाहस्रीर्दिक्षु चक्रमवर्तयत् ॥ ३२ ॥
पदरत्नावली
त्रिनवसाहस्रीः समाः सप्तविंशत्सहस्रसंवत्सरान् रोदसी द्यावापृथिव्यौ तस्य राज्ये दुदुहतुर्दोहनं चक्रतुः । स भरतश्चक्रमाज्ञां सर्वदिक्ष्ववर्तयत् प्रवर्तयामास । चक्रमाज्ञारथाङ्गयोः’ इत्यभिधानम् ॥ ३२ ॥
सत्यधर्मीया
तस्य भुवं पालयतः सतः सर्वान्कामान् । रोदसी द्यावापृथिव्यौ । प्रजानां दुदुहतुः । यश्च त्रिनवसहस्रीः समाः सप्तविंशत्सहस्रशरदो दिक्षु चक्रमाज्ञाम् । चक्रमाज्ञारथाङ्गयोरिति । चक्रं ग्रामजालमवर्तयत्प्रवर्तयामास । अपीपलेदिति वा । चक्रं सैन्यरथाङ्गयोर्ग्रामजाल इति विश्वः ॥ ३२ ॥
छलारी
त्रिनवसाहस्रीः समाः सप्तविंशत्सहस्रवत्सरान् रोदसी द्यावाभूमी तस्य राज्ये दुदुहतुर्दोहनं चक्रतुः । स भरतश्चक्रमाज्ञां सर्वदिक्ष्ववर्तयत्प्रवर्तयामास । चक्रमाज्ञारथांगयोरित्यभिधानम् ॥ ३२ ॥
स सम्राट् लोकपालानामैश्वर्यमधिराट्श्रियम् ।
चक्रं चास्खलितं प्राणान् मृषेत्युपरराम ह ॥ ३३ ॥
पदरत्नावली
भरतस्य वैराग्यप्रकारमाह- स इति ॥ सम्राट् चक्रवर्ती लोकपालानामिन्द्रादीनामैश्वर्यं स्वर्गाद्या धिपत्यम् अधिराश्रियमधिराजां साम्राज्यलक्ष्मीमपि, अस्खलितं केनाप्यप्रतिहतं चक्रं सैन्यं राष्ट्रं वा प्राणानिन्द्रियाणि च मृषा नाशशिरस्कमिति मत्वा उपरराम उपरतव्यापारोऽभूत् । निस्पृहोऽभूदित्यर्थः । हेत्यनेन आब्रह्मस्तम्बपर्यन्तमसारं चाप्यनित्यकम्’ इत्यादिवाक्यप्रसिद्धिं सूचयति । ‘चक्रं सैन्ये जलावर्ते रार्ष्ट्रे’ इत्यभिधानम् ॥ ३३ ॥
सत्यधर्मीया
सम्राण्महाराजोऽधिराटि्श्रयमधिराजां श्रीस्ताम् । लोकपालानां चैश्वर्यमस्खलितं तत्त्वेन प्रतीयमानं चक्रं राष्ट्रं च । राष्ट्रस्त्रयोरपीति तत्रैवोक्तेः । प्राणानिन्द्रियाणि मृषा नाशशिरस्काणीति मत्वोपररामोपरतोऽभूत् । निस्पृहोऽभूदिति भावः । हेति श्रुत्यादिबोधितत्वादिदमवश्यानुष्ठेयमिति सूचयति । मृषेति चास्थिरतार्थकवृथेति वा । यत्र त्रिसर्गो मृषा भित्वा मृषाश्च इत्याद्युक्तवक्ष्यमाणतात्पर्यादिदिशा ज्ञेयम् ॥ ३३ ॥
छलारी
भरतस्य वैराग्यप्रकारमाह ॥ स इति ॥ सम्राट् चक्रवर्ती लोकपालानामिन्द्रादीनामैश्वर्यं स्वर्गाद्याधिपत्यमधिराट्श्रियं साम्राज्यलक्ष्मीमस्खलितं केनाप्यप्रतिहतं चक्रं गजतुरगादिसैन्यम् । चक्रं सैन्ये जलावर्त इत्यादेः । प्राणान् बहुवचनमाद्यर्थे । इन्द्रियादीन्मृषा नाशशिरस्काणीति मत्वोपररामोपरतव्यापारोऽभूत् । हेत्यनेन आब्रह्मस्तंबपर्यन्तमसारं चाप्यनित्यकमित्यादिवाक्यप्रसिद्धिं सूचयति ॥ ३३ ॥
तस्यासन् नृप वैदर्भ्यः पत्न््नयस्तिस्त्रः सुसंमताः ।
जघ्नुस्त्यागभयात् पुत्रान्नानुरूपा इतीरिते ॥ ३४ ॥
पदरत्नावली
इदानीं तस्य सन्तानप्रकारं कथयति- तस्येति ॥ वैदर्भ्यः । विदर्भराजपुत्र्यः । ते पुत्रा नानुरूपा रूपशीलादिषु न मे योग्या इति राज्ञा ईरिते कथिते ता पत्न्यस्त्यागभयाद् एतद्दौरात्म्येनास्माकमपि त्यागो भवेदिति भयात् पुत्रांस्तान् जनुरित्यन्वयः ॥ ३४ ॥
सत्यधर्मीया
वैदर्भ्यो विदर्भराजगर्भजाः सुसम्मता आचारेण रुचा च रामाः, पुत्रा नानुरूपा न मे योग्या इतीरिते सति । एतद्दौरात्म्येनास्माकमपि त्यागो भवेदिति भयात्पुत्रान् संजघ्नुर्विषभेषजादिना सुकुमारान्मारयामासुः ॥ ३४ ॥
छलारी
इदानीं तस्य सन्तानप्रकारमाह ॥ तस्येति ॥ वैदर्भ्यो विदर्भराजपुत्र्यः । नानुरूपा इतीरिते एते मत्सदृशा न भवन्तीति राज्ञेरिते सति व्यभिचारशङ्कया भयात्पुत्रान्जघ्नुरित्यन्वयः ॥३४॥
तस्यैवं वितथे वंशे तदर्थं यजतः सुतम् ।
मरुत्स्तोमेन मरुतो भरद्वाजमुपाददुः ॥ ३५ ॥
पदरत्नावली
नन्वेवं चेद् भरतस्य पुत्राभावेन परलोकक्षेमाभावः प्रसक्त इत्यत आह- तस्येति ॥ तस्य वंशे एवं वितथे उत्सन्ने सति तदर्थं स्वानुरूपपुत्रार्थं नाम्ना मरुत्स्तोमेन मरुद्विषययज्ञेन यजतस्तस्य प्रसन्ना मरुतो नाम देवा गुणनिमित्तेन नाम्ना भरद्वाजं सुतमुपाददुः पुत्रत्वेन दत्तवन्तः ॥ ३५ ॥
सत्यधर्मीया
तस्यैवं वंशे सन्ताने वितथे उत्सन्ने सति मरुत्स्तोमेन यागेन मारुतेन तदर्थं सुतार्थे यजतस्तत्पूजां कुर्वतो मरुतस्तुष्टा भरद्वाजं सुतं ददुः पुत्रत्वेन दत्तवन्तः ॥ ३५ ॥
छलारी
नन्वेवं चेद्भरतस्य पुत्राभावेन परलोकाभावः प्रसक्त इत्यत आह ॥ तस्येति ॥ भरतस्य वंशे एवं वितथे उत्सन्ने सति तदर्थं पुत्रार्थं मरुत्स्तोमनामकयागेन यजतस्तस्य प्रसन्नाः सन्तो मरुतो भरद्वाजनामकं पुत्रम् उपाददुः पुत्रत्वेन समर्पयामासुः ॥ ३५ ॥
अन्तर्वत्न््नया भ्रातृपत्न्नया मैथुनाय बृहस्पतिः ।
प्रवृत्तो वारितो गर्भं शप्त्वा वीर्यमवासृजत् ॥ ३६ ॥
पदरत्नावली
कुतोऽस्य भरद्वाजाख्यं नाम कथमस्योत्पत्तिरित्यतस्तदत्पत्तिप्रकारमाह- अन्तर्वत्न्येति ॥ अन्तर्वत्न्या गर्भिण्या बृहस्पतेर्भ्रातुरुचथ्यस्य पत्न्या नाम्ना ममतया गर्भिणीति वारितोऽपि मैथुनाय प्रवृत्तो बृहस्पतिः पादेन द्वारं निरुध्यमानं गर्भं गभस्थं दीर्घतमसं क्रोधेनान्धो भवेति शप्त्वा स्ववीर्यं तस्यां ममतायामवासृजन् न्यषिञ्चदित्यन्वयः । बृहस्पतिशापाद्गर्भस्थो दीर्घतमा अन्धो बभूव । तेन च तद्वीर्यं पादप्रहारेण योनेबहिर्भूमौ पतितम् । तेन च सद्यः दीर्घतमसोऽन्यः कुमारोऽभवत् ॥ ३६ ॥
सत्यधर्मीया
तस्य नामेदं कुतः कस्मात्कथं जात इत्यत आह ॥ अन्तर्वर्त्न्येति ॥ भ्रातृपत्न््नयोचथ्यभार्यया स चाग्रजः । यथोक्तमादिपर्वणि–
उचथ्यस्य यवीयांस्तु पुरोधास्त्रिदिवौकसाम् ।
बृहस्पतिर्महातेजा ममतामन्वपद्यत ।
उवाच ममतां तं तु देवरं वदतां वरम् ।
अन्तर्वत्न्यप्यहं भ्रातुस्तव ज्येष्ठस्य धीमतः । इति ।
भानुरपि देवरशब्दव्याख्यायां द्वे पत्युः कनिष्ठभ्रातुरिति स्वामीत्याह । तन्मैथुनाय प्रवृत्तो बृहस्पतिस्तया वारितो निवारितः । देवराच्च सुतोत्पत्तिरित्यादेः । सा वारिजाक्ष्यपि कुतोऽवारयन्न वरयामासेत्यत आह ॥ अन्तर्वर्त्न्येति ॥ गर्भं पादेनाध्वानरुन्धानं शप्त्वाऽन्धो भवेति । वीर्यं रेतो योनिद्वार्यवासृजत् तत्याज स्थापितवान् । तेन च दीर्घतमसोऽन्यः कुमारो जातः ॥ ३६ ॥
छलारी
मरुतां तदागमनप्रकारः कथं कस्मादस्य भरद्वाजाख्यं येन तन्नामयुक्तः स्यादतस्तत्ज्ञापनाय तदुक्तिप्रकारमाह ॥ अन्तर्वर्त्न्येति ॥ अन्तर्वत्न््नर्या गर्भिण्या भ्रातुरुचथ्यस्य पत्न््नया चौर्येण मैथुनाय प्रवृत्तो बृहस्पतिरुचथ्याहितगर्भच्छेदनं दीर्घतमसा निवारितः सन् क्रोधेनान्धो भवेति गर्भस्थं शप्त्वा तस्यां वीर्यं बलान्न्यषिञ्चत् । तच्छापाद्गर्भस्थो दीर्घतमा अन्धो बभूव । तेन च तद्वीर्यं पादप्रहारेण योनेर्बहिर्भूमौ पतितम् । ततः सद्य एव कुमारोऽभवत् ॥ ३६ ॥
तं त्यक्तुकामां ममतां भर्तुस्त्यागविशङ्किताम् ।
नामनिर्वचनं तस्य श्लोकमेतं जगुः सुराः ॥ ३७ ॥
पदरत्नावली
ततः किमभूदिति तत्राह– तमिति ॥ बृहस्पतिवीर्यजं कुमारं त्यक्तुकामामुचथ्याख्यभर्तृत्यागविशङ्कितां ममतां प्रति तस्य सुतस्य नाम्नो निर्वचनं येन ज्ञायते तमेतं श्लोकं सुरा जगुरित्यन्वयः ॥ ३७ ॥
सत्यधर्मीया
तं बृहस्पतिपातितरेतोजातं भर्तुस्त्यागेन भाविना विशङ्कितामतस्त्यक्तुकामां ममतां प्रति तस्य जातपोतस्य नामनिर्वचनं नाम्नो निर्वचनं निरुक्तिर्यस्मिन्स तम् । एतं श्लोकं सुरा जगुः ॥ ३७ ॥
छलारी
ततः किमभूदिति तत्राह ॥ तमिति । तं परवीर्यजं कुमारं त्यक्तुकामामुचथ्याख्य-भर्तृत्यागविशंकितां ममतां प्रति सुरा एनं श्लोकं जगुः । एतच्छ्लोकाभिधेयमकथयन्नित्यर्थः । किमर्थं जगुरित्यत आह । तस्य सुतस्य नामनिर्वचनमिति नाम निरुच्यते येनेति स तथा तम् । तन्नामनिर्वचनेनैव भर्तस्त्यागशङ्कामपा कर्तुमित्यर्थः ॥ ३७ ॥
मूढे भर द्वाजमिमं भरद् वाजं बृहस्पतेः ।
त्राता तु दुःखात् पितरौ भरद्वाजस्ततस्त्वयम् ॥ ३८ ॥
तात्पर्यम्
— द्वाजमिमं भर । उचथ्यस्य क्षेत्रजो बृहस्पतेर्जात इति । द्वयोर्जातत्वाद्द्वाजः । बृहस्पतेर्वाजः प्रजासन्ततिर्येन भृता बृहस्पतेर्भरद्वाजः । भरद्वाजो मरुद्भिश्च भृतो जातो द्वयोर्यतः । इति पाद्मे ॥ ३८ ॥
पदरत्नावली
भो मूढे इम द्वाजं भर पोषय । भृञ् भरणे इति धातोः । उचथ्यस्य क्षेत्रजं बृहस्पतेर्जातमिति द्वयोर् उचथ्यक्षेत्रबृहस्पत्योर्जातत्वाद् द्वाजमिति, भरद्वाजनामानम् । ‘सह सुपा’ इति सुत्राद्भरेति तिङन्तस्य सुबन्तेन समासः । तदुक्तम् ‘द्वाजमिमं भर । उचथ्यस्य क्षेत्रजो बृहस्पतेर्जात इति द्वयोर्जातत्वाद् द्वाजः’ इति । द्वितीयपादं व्याचष्टे–बृहस्पतेरिति ॥ बृहस्पतेः प्रजासन्ततिभर्तृत्वाद् भरद्वाज इति निर्वचनान्तरम्’ । तदुक्तम् ‘बृहस्पतेर्वाज प्रजासन्ततिर्येन भृता स बृहस्पतेभरद्वाज’ इति । उक्तं हि ‘एष उ एव बिभ्रद्वाजः, प्रजा वै वाजस्ता एष बिभर्ति यद् बिभर्ति तस्माद् भरद्वाजस्तस्माद्भरद्वाज इत्याचक्षत एतमेव सन्तम्’ इत्यैतरेये । भरद्वाज इत्यत्र भरतेः शब्विकरणत्वादभ्यासाभावः । पितरौ दुःखाद् भरद् भर्ता । बृहस्पतेर्वा जातो वाजः । वाशब्दस्य पूर्वनिपातो ज्ञातव्यः । यथा बृहस्पतेर्जातस् तथोचथ्यादपीत्यर्थः । ततः पितृभर्तृत्वात्, बृहस्पतेर्वाजत्वादयं भरद्वाज इति ॥ ३८ ॥
दुर्घटभावदीपिका
हे मूढ मम ते द्वाजमुचिथ्यबृहस्पतिभ्याम् आजं बृहस्पतेर्वाजं सन्ततिं भरद् भरतमिमं भर । ततो द्वारं भजेत्यस्माभिरुक्तत्वात् । बृहस्पतिसन्ततिधारकत्वाच्च भरद्वाजो भरद्वाजनामकोऽयं पितरो उचथ्यबृहस्पतीदुःखत्राता भविष्यति । इत्येव नामनिर्वचनम् । एतं श्लोकं जगुरिति पूर्वेणान्वयः । उचथ्यपुत्रत्वं तत्क्षेत्रजत्वेनेति द्रष्टव्यम् । मत्त्वा सुरैरेवं चोद्यमाना भरेति चोद्यमानाऽप्यात्मजं देवं देवबृहस्पतिपुत्रं मत्वा भर्तृत्यागशङ्कयाऽऽत्मजं व्यसृजत् । मरुतो भरद्वाजं बिभ्रन् । अनेन मरुद्भिर्भर्तृत्वादूद्वाभ्यां जातत्वाद्वाजारम्भाश्चासौ द्वाजश्चेति भरद्वाज इति भरद्वाजशब्दस्य निर्वचनान्तरं सूचितं भवति । अन्वये दौष्यन्तिभरतस्यान्वये तयेति सन्ततिरहिते । निमित्तसप्तमी । दौष्यन्तिभरतान्वयस्य । सन्ततिरहितत्वादिति यावत् । मरुद्भिर्य भरद्वाजो भरताय दत्त इति । तां पद्मवचनस्यार्थः । मूले भरद्वाज इत्यत्र भरद्वाजमित्येकं पदमिति भ्रममन्वयप्रदर्शनेन परिहरति ॥ द्वाजमिमं भरेति ॥ द्वाजकत्वं कथमित्यतो द्वाजत्वमुपपदादयति ॥ उचथ्यस्येति ॥ अनेन द्विजेत्यत्रेकारस्याकारे द्विजेति रूपं निष्पन्नमित्युक्तं भवति । भरद्वाजं बृहस्पतेरित्यनेन सूचितं बृहस्पतेर्भरद्वाजमित्यस्य निर्वचनं दर्शयति ॥ बृहस्पतेर्वाज इति ॥ अनूद्य प्रजासन्ततिरिति व्याख्यानम् । येन बृहस्पतेः प्रजासन्ततेर्भृता धृता बृहस्पतेर्द्वाजः । अनेन भरद्वाज इति नामवत् । बृहस्पतेर्भरद्वाज इत्यपि नामेति सूचितम् । अनेनैव भरद्वाजं बृहस्पतेरित्यस्य भरदिति द्वितीयान्तमित्यङ्गीकृत्य बृहस्पतेर्वाजं भरद्भरतं भरेत्यन्वयः सूचितः । मरुद्भिर्भृतत्वाद्भरच्छब्दवाच्यो द्वाभ्यां जातत्वाद्भाज शब्दवाच्य इत्यत्र प्रमाणमाह ॥ भरद्वाज इति ॥ यतो मरुद्भिर्भरन्तो द्वयोर्जातश्चातो भरद्वाजो भरद्वाज शब्दवाच्य इति ॥ ३८,३९ ॥
इति श्रीभागवतटिप्पण्यां सप्तदशोऽध्यायः ॥ ९-१७ ॥
सत्यधर्मीया
मूढे भरद्वाजमिममिति श्लोके द्विर्भरद्वाजमिति श्रूयते । अतः पुनरुक्तिः । न प्रतीयते च बृहस्पतेरित्यस्यान्वयः । सुरा आहुश्च यदर्थं श्लोकं जगुश्च तन्नामनिर्वचनमिति न स्फुटं ज्ञायत इत्यतोऽन्वयप्रदर्शनपूर्वकं स्वयं व्याख्याय मानं चोदाहरति ॥ द्वाजमिमं भरेति ॥ कथं द्वाजत्वमित्यत आह ॥ उचथ्यस्येति ॥ क्षेत्रं भार्या तज्जो बृहस्पतेर्वीर्यादिति ममताया बृहस्पतेश्चेति द्वयोर्जातत्वाद् द्वाजस् तम् । द्वितीयपादं व्याचष्टे ॥ बृहस्पतेरिति ॥ बृहस्पतेर्वाजः प्रजासन्ततिर्येन भृता स बृहस्पतेर्भरन्वाजमिति स तथेति निर्वचनानन्तरम् । मरुद्भिर्द्वाज इति यतो द्वयोर्जातः स इति मरुद्भिश्च भृतो भृत बृहस्पतिवाजश्च ततो भरद्वाज इति मानार्थः । ऐतरेयोपनिषदि च । एष उ एव बिभ्रद्वाजः प्रजा वै वाजस्तस्या एष यद्बिभर्ति तस्माद्भरद्वाजस्तस्माद्भरद्वाज इत्याचक्षत एतमेव सन्तमिति । ततश्चायं श्लोकार्थः । हे मूढे इमं कुमारं पोषय । द्वाजं द्वाभ्यां त्वत्तो बृहस्पतेरिति जातम् । भरणे निमित्तमेतदुत्तरत्र वक्ष्यमाणे चेति ज्ञेयम् । बृहस्पतेर्भर द्वाजं सन्ततिं चेति भरद्वाजस्तम् । पितरौ त्वां बृहस्पतिं च त्रातेत्यर्थकथनं भर्तेति भरन् त्राता दुःखात्ततोऽप्ययं भरद्वाजेति नामनिर्वचनानि वा ॥ ३८ ॥
छलारी
जगुः सुरा इत्युक्तमेव विवृणोति ॥ मूढ इति ॥ हे मूढे । द्वाजं द्वाभ्यामुचथ्यबृहस्पतिभ्यां जातमिमं कुमारं भर पोषय । भृञ् भरण इति धातोः । कथम्भूतम् । बृहस्पतेर्वाजं सन्ततिं भरद्भरतं वंशकारकमित्यर्थः । ‘प्रजा वै वाज’ इति श्रुतेः । वाजशब्दः सन्तानवाचकः । द्वाजं भरेत्यस्माभिरुक्तत्वाद्बृहस्पतिसन्ततिभरत्वाच्च भरद्वाजः । एवं निमित्तद्वयेन भरद्वाजशब्दवाच्य इत्यर्थः । अयं कुमारः पितरावुचथ्यबृहस्पतिनामकौ दुःखात्त्राता भविष्यतीत्येवं निर्वचनरूपमेनं श्लोकं जगुरिति पूर्वेणान्वयः । अत्र विशेषस्तु तात्पर्यानुसारेणावगन्तव्यः ॥ ३८ ॥
चोद्यमाना सुरैरेवं मत्वा तं देवमात्मजम् ।
व्यसृजन्मरुतोऽबिभ्रन् दत्तोऽयं वितथेऽन्वये ॥ ३९ ॥
इति श्रीमद्भागवते नवमस्कन्धे सप्तदशोऽध्यायः ।
पदरत्नावली
सा ममता सुरैरेवं चोद्यमाना भरेति प्रेर्यमाणापि तमात्मजं देवं द्योतमानमात्मजं मत्वा भर्तृत्यागशङ्कया तं व्यसृजत् । ततो मरुतो देवास्तं द्वाजं गर्भमबिभ्रन् भृतवन्तोऽपोषयन्नित्यर्थः । अनेन त मरुद्भिर्भूतत्वाद् भरः, स चासौ द्वाजश्चेति निर्वचनान्तरमवगन्तव्यम् । तदुक्तं पाद्मे– ‘भरद्वाजो मरुद्भिश्च भृतो जातो द्वयोर्यतः’ इति । भृत्वा किं कृतं तैरिति तत्राह– दत्त इति ॥ भरतस्यान्वये वितथे सति मरुद्भिरयं भरताय दत्तः, पुत्रत्वेनेति शेषः । अस्य भरतपुत्रत्वानन्तरं वितथेति नामान्तरमपि ज्ञातव्यम् ॥ वितथस्य सुतान्मन्योः’ इत्युत्तरवचनाच्चेति ॥ ३९ ॥
इति श्रीमद्भागवतटीकायां विजयध्वजतीर्थभिक्षकृतायां नवमस्कन्धस्य सप्तदशोऽध्यायः ।
सत्यधर्मीया
एवं सुरैर्देवैश्चोद्यमाना ममता तं देवं द्योतमानमात्मजम् । वितथमिति पाठे ‘तथा दीर्घतमोवन्नेति वितथो जारजस्तमित्यर्थः । व्यसृजत्पतिभीता तत्याज । तदा मरुतः प्राणमात्रावशिष्टं मात्रा विसृष्टं स्वकार्यत्वादबिभ्रन् बभ्रुर्भृतत्वान्मरुद्भिर् भरः स चासौ द्वाजश्चेति निर्वचनान्तरं ज्ञेयम् । भरद्वाजेत्यत्र भरेति तिङन्तस्य सुबन्तेन समासः । सहसुपेत्यनेन । पर्यभूषदनुव्यचलत् । स च छन्दस्येवेत्युक्तेस्तद्वज्ज्ञेयः ॥ ३९ ॥
इति श्रीसत्यधर्मयतिकृतायां भागवतटिप्पण्यां नवमस्कन्धे सप्तदशोऽध्यायः ।
छलारी
सा ममता सुरैरेवं चोद्यमानाऽपि भरेति प्रेर्यमाणाऽपि देवं द्योतमानं कुमारमात्मजम् । बृहस्पतेरिति शेषः । मत्वा भर्तृत्यागशङ्कया तं व्यसृजत् । ततो मरुतस्तद्वाजं गर्भमबिभ्रन् भृतवन्तोऽपोषयन्नित्यर्थः । अनेन मरुद्भिर्भृतत्वाद्भरो द्वाभ्यां जातत्वाद्वाजो भरश्चासौ द्वाजश्चेति भारद्वाज इति भारद्वाजशब्दस्य निर्वचनान्तरं सूचितं भवति । भृत्वा किं कृतं तैरिति तत्राह ॥ दत्त इति ॥ भरतस्यान्वये वितथे सतीति मरुद्भिरयं भरताय दत्तः । पुत्रत्वेनेति शेषः । अस्य भरतपुत्रत्वानन्तरं वितथेति नामान्तरमपि ज्ञातव्यम् । वितथस्य सुतान्मन्योरित्युत्तरवचनाच्चेति ॥३९॥
इति श्रीछलारी शेषाचार्यकृतायां भागवतटिप्पण्यां नवमस्कन्धे सप्तदशोऽध्यायः ।