१६ षोडशोऽध्यायः

स इत्थमाचरन् कामांस्त्रैणोऽपह्नवमात्मनः

॥ अथ षोडशोऽध्यायः ॥

श्रीशुक उवाच—

स इत्थमाचरन् कामांस्त्रैणोऽपह्नवमात्मनः ।

बद्ध्वा प्रियायै निर्विण्णो गाथामेतामगायत ॥ १ ॥

पदरत्नावली

अन्यापदेशेन स्ववृत्तान्त शिक्षाकरणत्वेन स्वभार्यायै कथयति– स इत्थमिति ॥ स्त्रैणः स्त्रीजितः स ययाति इत्थमात्मज्ञानहेतून् कामान् विषयान् आचरन् भुञ्जान आत्मनोऽपह्नवं नित्यसुखहानिलक्षणं नाशं विज्ञाय निर्विण्णो विरक्त एतां वक्ष्यमाणत्वेन बुद्धिसन्निहितां गाथां स्वकीयवृत्तान्तरूपमितिहासमगायतेत्यन्वयः ॥१॥

सत्यधर्मीया

स्त्रैणः स्त्रीजितः स ययातिः कामान् विषयानाचरन् भुञ्जान आत्मनोऽपन्हवं भाविनमनर्थं बुद्ध्वा निर्विण्णः प्रियायै देवयान्यै अन्यापदेशेनैतां गाथामगायत ॥ १ ॥

छलारी

ययातेर्वैराग्यप्रकारं दर्शयति- स इत्थमिति ॥ स्त्रीजितः कामान्विषयान् आचरन् उपभुञ्जान आत्मनोऽपन्हवं नित्यसुखहानिलक्षणं नाशं विज्ञाय निर्विण्णो विरक्त एतां वक्ष्यमाणत्वेन बुद्धिसंनिहितां गाथां स्वकीयवृत्तान्तरूपमितिहासमगायदन्यापदेशेन स्ववृत्तान्तमकथयदित्यर्थः ॥ १ ॥

शृणु भार्गव्यमूं गाथां मद्विधाचरितां भुवि ।

धीरा यस्यानुशोचन्ति वने ग्रामनिवासिनः ॥ २ ॥

पदरत्नावली

हे भार्गवि भृगुकुलजाते । मद्विधैः स्त्रैणैराचरितां दृष्ट्वेति शेषः । वने धीरा निवृत्तिमार्गलक्षणे स्थिरा मुक्तसङ्गा ज्ञानिनो यस्य ग्रामनिवासिनः कामिनो गृहस्थस्याचरणमनु शोचन्ति । अहो लोकस्य मौढ्यमिति परिखिन्ना भवन्तीत्यर्थः ॥ २ ॥

सत्यधर्मीया

हे भार्गवि भृगुकुलजाते । मद्विधैः स्त्रैणैराचरिताम् । वने धीराः संसारासारताज्ञानेन वनवासिनो ग्रामवासिनश्च प्राक् । एतेन किञ्चित्तदनुभूय वनं भवनं चक्रुस्ते यस्य ग्रामनिवासिन इत्यत्रापि योज्यम् । आचरणमनुशोचन्ति । अहो मोहोऽस्य नश्यति वृथेति क्लिश्यन्ति ॥ २ ॥

छलारी

हे भार्गवि । वने स्थिता धीरा यस्य ग्रामनिवासिनः कामिनो गृहस्थस्य मद्विधस्य स्त्रीजितस्य मादृशस्याचरितम् । दृष्ट्वेति शेषः । अनुशोचन्ति । तस्या गाथां शृृणु ॥ २ ॥

बस्त एको वने कश्चिद् विचिन्वन् प्रियमात्मनः ।

ददर्श कूपे पतितां स्वकर्मवशगामजाम् ॥ ३ ॥

पदरत्नावली

आत्मानं लक्षीकृत्याह– बस्त इति ॥ बस्तोऽजः । प्रियं स्त्रीजनम् । कृपे संसारलक्षणे । अत्राजशब्देन प्रकृतिपुरुपावुपलक्ष्येते ॥ ३ ॥

सत्यधर्मीया

स्वयं न्यस्तो बस्तः पदे पदे चाजायास्तां सुजातां विन्यस्य विरक्त्युत्पत्त्यै चान्यापदेशेनोपदिशति ॥ बस्त इति ॥ एको निस्सहाय आत्मनः प्रियं विचिन्वन्कूपे पतितां काञ्चिदेकाकिनीं स्वकर्मवशगामजां छागीं ददर्श ॥ ३ ॥

छलारी

आत्मानं लक्षीकृत्याह ॥ बस्त इति ॥ ३ ॥

तस्या उद्धरणोपायं बस्तः कामी विचिन्तयन् ।

व्यधत्त तीर्थ उद्धृत्य विषाणाग्रेण रोधसि ।

सोत्तीर्य कूपात् सुश्रोणी तमेव चकमे किल ॥ ४ ॥

पदरत्नावली

तीर्थे कूपजले अवतारमार्गे वा, विवर्त्य किञ्चिदवतीर्य विपणाग्रेणोद्धृत्य रोधसि कूपतीरे न्यधत्त तामिति शेषः । तीर्थं मन्त्राद्युपाध्याये शास्त्रेष्वम्भसि पावने । पात्रोपायावतारेषु स्त्रीपुष्पे योनियज्ञयोः’ इति यादवः । उपायं वा विवर्त्य उद्धरणोपायं दृष्ट्वेत्यर्थः ॥ ४ ॥

सत्यधर्मीया

तस्या उद्धरणोपायं कामी बस्तो विचिन्तयन्नालोचयंस्तीर्थेऽवतारप्रदेशे व्यधत्त । तीर्थमुद्धृत्येति सुललितः पाठः । विषाणाग्रेण तीर्थमवतारमार्गं व्यधत्तेत्यर्थः । तीर्थं गतम् । तां विवर्त्य विषाणाग्रेणेति स्फुटस्फुटताविघटनाय । कराग्रेणेति हृदयम् । रोधसि तीरे उद्धृत्य व्यधत्त तमेवोन्नेतारं चकमे ॥ ४ ॥

छलारी

तीर्थे कूपजले विवृत्य किञ्चिदवतीर्य विषाणाग्रेणोद्धृत्य रोधसि तटे । न्यधत्तेति शेषः ॥४॥

तया वृतं समुद्वीक्ष्य बह्व्योऽजाः कान्तकामिनीः ।

पीवानं श्मश्रुलं प्रेष्ठं मीढ्वांसं यावकोविदम् ॥ ५ ॥

पदरत्नावली

कान्तविषयः कामो यासामस्तीति कान्तकामिनीः । श्मश्रुल बहुलश्मश्रुयुक्तम् । मीढ्वासं रेतःसेकसमर्थम् । यावकोविदं यावान्नभक्षणपाटवोपेतम् । यावः यावकः कुल्माषस् तद्भक्षणे शक्तमिति वा । यावः केवलकुल्माषे बलकेतोपवर्णिके’ इत्यमिधानम् । याभकोविदमिति पठित्वा मैथुनकुशलमिति व्याख्यानं मीढ्वांसमित्यनेन गतार्थत्वात् पौनरुक्त्यग्रस्तम् । असम्प्रदायज्ञता चात्र प्रसज्येत ॥ ५ ॥

सत्यधर्मीया

तयैकया वृतं कान्तकामिनीः कान्तमपेक्षमाणाः कामिन्यो वध्वोऽजाः पीवानं पुष्टं प्रेष्ठम् । मीढ्वांसं रेतःसेकशक्तम् । श्मश्रुलम् । सिध्मादिर्लच् । एतेन क्षत्रियतां कटाक्षयति । यावकोविदं केवलं कुल्माषभक्षकमपरत्र गोधूमादिभक्षकम् । याभकोविदमिति पाठे मीढ्वांसमभिलषितसेचकम् । मीढ्वानस्माकं भूयादिति ऋग्भाष्यटीकायां मीढ्वान् सेचको दाता स्वामी चेति व्याख्यानात् । दातारं स्वामिनं वा । याभकोविदं मैथुनकुशलम् ॥ ५ ॥

छलारी

सोऽजो तया वृत्तं समावृतं युक्तमित्यर्थः । शर्मिष्ठाप्रमुखा लक्षीकृत्याह ॥ बह्व्योऽजा इति ॥ कान्तकामिनीः पतिकामितवत्यस्तमेव भेजुः । पीवानं पुष्टं श्मश्रुलं बहुलश्मश्रुयुक्तं मीढ्वांसं रेतःसिक्तारं रतिसमर्थमित्यर्थः । यावकोविदं यावान्नभक्षणपाटवोपेतम् ॥ ५ ॥

स एकोऽजवृषस्तासां बह्वीनां रतिवर्धनः ।

रेमे कामग्रहग्रस्त आत्मानं नावबुध्यत ॥ ६ ॥

पदरत्नावली

मीढ्वांसमिति पदं विवृण्वन्नाह– स एक इति ॥ अजवृषस्तदधिपः । अवबुध्यतेत्यत्र अडभावश्छान्दसः ॥ ६ ॥

सत्यधर्मीया

अजवृषस्तदधिपस् तासां बह्वीनामित्यप्याच्छादनार्थम् । यद्वा देवयानीशर्मिष्टे भार्ये बह्वी । तदतिरिक्ताश्च काश्चन सन्ति तदङ्गसङ्गिन्योऽङ्गना इति बहुवचनोपपत्तिः । तथा ह्यादिपर्वणि । यौवनेन चरन् कामान् युवा युवतिभिः सह । ययातिरथ पत्नीभ्यां दीर्घकालं विहृत्य च । विश्वाच्या सहितो रेम इति । काम एव ग्रहस्तेन ग्रस्त आत्मानं भगवन्तं स्वं वा नावबुद्ध्यत न ज्ञातवान् ॥ ६ ॥

छलारी

अजवृषोऽजश्रेष्ठो नावबुद्ध्यत । अडभावश्छान्दसः ॥ ६ ॥

तमेव प्रेष्ठतमया रममाणमजाऽन्यया ।

विलोक्य रूपसंलग्ना नामृष्यद् बस्तकर्म तत् ॥ ७ ॥

पदरत्नावली

शर्मिष्ठां लक्षीकृत्याह– अन्ययेति ॥ अजा रूपसंलग्ना रूपगुणसम्पन्ना । कुचसंलग्नेति पाठे कुचभरसन्नतमध्या, व्रज्यतमया प्राप्तुं योग्यतमया अन्यया अजया एवं रममाणं तं विलोक्य तद् अन्यासक्तिलक्षणं बस्तस्य कर्म नामृष्यदित्यन्वयः ॥ ७ ॥

सत्यधर्मीया

तमेवाजवृषमेव प्रेष्टतमयाऽत्यन्तप्रियतमयाऽन्ययाऽजया रममाणं विलोक्य । रूपसंलग्ना रूपं सौन्दर्यं संलग्नं यस्यां सा । कुचसंलग्नेति पाठे कुचौ संलग्नौ निरन्तरौ यस्याः सा तद्बस्तकर्म इतराजासङ्गमरूपं नामृष्यन्न सेहे ॥ ७ ॥

छलारी

शर्मिष्ठां लक्षीकृत्याह ॥ अन्ययाऽजया रममाणमिति । कथम्भूता अजा । रूपसंलग्ना रूपगुणसम्पन्ना तत्कर्मान्यासक्तिलक्षणं कर्म नामृष्यत् ॥ ७ ॥

तं दुर्हृदं सुहृद्रूपं कामिनं क्षणसौहृदम् ।

इन्द्रियाराममुत्सृज्य स्वामिनं दुःखिता ययौ ॥ ८ ॥

पदरत्नावली

स्वामिनं पितरं शुक्रम्, अन्यत्र कञ्चनाजस्वामिनम् ॥ ८ ॥

सत्यधर्मीया

तं दुर्हृदं दुर्मनस्कं सुहृद्रूपम् । रूपप्प्रत्ययः । सुहृत्सदृशं बहिः कामिनं कामुकं क्षणसौहृदमस्थिरसौहार्दमिन्द्रियाराममुत्सृज्य त्यक्त्वा स्वामिनं शुक्रं पितरमत्रान्यत्र कञ्चन तं स्वामिनं दुःखिताऽजा ययौ ॥ ८ ॥

छलारी

दुर्हृदं दुष्टहृदयम् । सुहृदः सुजनस्य रूपमिव रूपं यस्य तमिन्द्रियाराममिन्द्रियप्रीतिकरम् । स्वामिनमिति शुक्राभिप्रायेणाह ॥ ८ ॥

सोऽपि चानुगतः स्त्रैणः कृपणस्तां प्रसादितुम् ।

कुर्वन् बिलबिलाकारं नाशक्नोत् पथि सन्धितुम् ॥ ९ ॥

पदरत्नावली

सोऽपि बस्तोऽपि ययातिशब्दवाच्योऽपि बिलिबिलाकारं मैथुनानुकरणलक्षणं तिर्यक् कण्ठोत्थित शब्दविशेषम्, अन्यत्र सीत्कारादिशब्दं च कुर्वन् सन्धितुं सन्धानं कर्तुम् । ‘तिर्यग् बिलिबिलाकारो मैथुनानुकरो रसः’ इत्यभिधानम् ॥९॥

सत्यधर्मीया

कृपणः स्त्रैणः सोऽपि बस्तोऽपि स्वयं तामजां देवयानीं बिलबिलाकारम् । अजादिजात्युचितव्यवायाह्वानहेतुशब्दविशेषं कुर्वन् । तिर्यग्बिलबिलाकारो मैथुनानुकरो रस इत्यभिधानम् । अन्यत्र पादसंवाहनाद्यनुनयम् । पथि मार्गे सन्धितुं सान्त्वयितुं नाशक्नोच्छक्तो नाभूत् ॥ ९ ॥

छलारी

बिलबिलाकारं रमणार्थं बस्तजातिस्वरमन्यत्र सीत्कारादिशब्दं च कुर्वन् सन्धितुं प्रसादयितुम् । तामित्यनुषङ्गः ॥ ९ ॥

तस्य तत्र द्विजः कश्चिदजास्वाम्यच्छिनद् रुषा ।

लम्बन्तं वृषणं भूयः सन्दधेऽर्थाय योगवित् ॥ १० ॥

पदरत्नावली

लम्बन्तं वृषणमच्छिनद् अन्याजासंभोगासमर्थमकरोत् ॥ अन्यत्र जराकरणेन । अर्थाय स्वपुत्र्या मैथुनलक्षणप्रयोजनाय योगवित् सन्धानोपायज्ञः, अन्यत्र जराव्यत्यसनोपायज्ञः सन्दधे भोगसामर्थ्यमापादितवान् ॥ १० ॥

सत्यधर्मीया

द्विज इत्यङ्गस्मरणाभावात् । अजास्वामी रुषा स्वाजौदासीन्यागतकोपेन लम्बन्तं लम्बमानं वृषणमच्छिनत् । अर्थाय स्वाजाप्रयोजनार्थं पुनः सन्दधे शापविशापोच्छेदनसन्धाने ज्ञेये । योगविदुपायज्ञ एवं चेत्तत्सम्बन्धो भवेदिति तज्ज्ञो वा । जराव्यत्यसनोपायज्ञः परत्र ॥ १० ॥

छलारी

लम्बन्तं वृषणमच्छिनदन्याजासम्भोगासमर्थमकरोत् । अर्थाय स्वपुत्र्या कामभोगलक्षणप्रयोजनाय योगविदुपायज्ञः ॥ १० ॥

संवृद्धवृषणः सोऽपि ह्यजया कूपलब्धया ।

कालं बहुतिथं भद्रे कामैर्नाद्यापि तुष्यति ॥ ११ ॥

पदरत्नावली

अजया, रममाण इति शेषः ॥ ११ ॥

सत्यधर्मीया

संवृद्धवृषणो वयःस्वीकरणेन । बहुतिथं बहुकालमेकत्रान्यत्र तारुण्यवान् ॥११॥

छलारी

अजया । रममाणमिति शेषः ॥ ११ ॥

तथाऽहं कृपणः सुभ्रू भवत्याः प्रेमयन्त्रितः ।

आत्मानं नाभिजानामि मोहितस्तव मायया ॥ १२ ॥

पदरत्नावली

कृपणस्त्वद्वियोगासहिष्णुः, आत्मानं परमात्मानं स्वस्वरूपं च मायया विभ्रमलक्षणया ॥ १२ ॥

सत्यधर्मीया

सुभ्रूरिति सुपठम् । प्रेमयन्त्रितः स्नेहाधीनस्तव माययाऽऽत्मानं मां परमात्मानं च न जानामि ॥ १२ ॥

छलारी

कृपणस्त्वद्वियोगासहिष्णुरात्मानं परमात्मानं स्वस्वरूपं च मायया विभ्रमलक्षणया ॥ १२ ॥

यत् पृथिव्यां व्रीहियवं हिरण्यं पशवः स्त्रियः ।

न दुह्यन्ति मनःप्रीतिं पुंसः कामहतस्य मे ॥ १३ ॥

पदरत्नावली

काममोहनास्त्रविद्धस्य पुंसः नैतच्चित्रमित्याह– यत् पृथिव्यामिति ॥ व्रीहियवमित्येकवद्भावः । व्रीह्यादयो मनःप्रीतिं न दुह्यन्ति न पूरयन्ति । दुह प्रपूरण इति धातुः ॥ १३ ॥

सत्यधर्मीया

अद्यापि पते ते तृप्तिर्न जाता किमित्यत इयता किमायताक्षि इतीदं सर्वमपि न तृप्तिकृदिति तत्प्रतिक्षिपति ॥ यत्पृथिव्यामिति ॥ व्रीहिभिः सहिता यवा यस्मिंस्तद्धिरण्यं पशवः स्त्रियश्च कामहतस्य मे मनःप्रीतिं सन्तो न दुह्यन्ति नालं मतिं जनयन्ति । व्रीहियवमिति समाहारद्वन्द्वो वा ॥ १३ ॥

छलारी

ननु तर्हि पुनरपि विषयः सेव्यतां ततो मनसि प्रीते सति कामोपशान्त्या मोहो निवर्तत इति चेत्तत्राह ॥ यदिति द्वाभ्याम् । व्रीहियवमित्येकवद्भावः । व्रीह्यादयो मनःप्रीतिं न दुह्यन्ति न पूरयन्ति । दुह् प्रपूरण इति धातुः ॥ १३ ॥

न जातु कामः कामानामुपभोगेन शाम्यति ।

हविषा कृष्णवर्त्मेव भूय एवाभिवर्धते ॥ १४ ॥

पदरत्नावली

ननु प्रावृडुपरमे नदीजलह्रासवद् विषयोपभोगेन कामोपशान्त्या मोहो निवर्तत इति चेत् तत्राह– नेति ॥ कामस् तृष्णा । कामानां विषयाणाम् । हविषाऽऽज्येन । ‘हविर्गव्ये घृते तोये’ इति यादवः । कृष्णवर्त्माऽग्निः ॥ १४ ॥

सत्यधर्मीया

काम इच्छा । कामानां काम्यानां विषयाणामुपभोगेन जातु कदाचिदपि न शाम्यति । किन्तु भूय एवानुसेवनं यथासेवमधिको भवति । तत्र दृष्टान्तमाचष्टे । कृष्णवर्त्माग्निर्हविषा सर्पिषेवेति । हविर्घृते हेमि्न तोय इत्यभिधानम् ॥ १४ ॥

छलारी

कामस्तृष्णा कामानां विषयाणां हविषा घृतेन । हविर्गव्ये घृते तोये इति यादवः । कृष्णवर्त्माऽग्निः ॥ १४ ॥

यदा न कुरुते भावं सर्वभूतेष्वमङ्गलम् ।

समदृष्टेस्तदा पुंसः सर्वाः सुखमया दिशः ॥ १५ ॥

पदरत्नावली

नन्वेवं चेत् साधनाभावेन कदापि मुक्तिन स्यादिति तत्राह– यदेति ॥ यदा सर्वभूतेषु अमङ्गलं पापसाधनं हिंसालक्षणं भावं स्वभावं न कुरुते यस्तदा तस्य समदृष्टेः सर्वस्य ब्रह्माधीनत्वेन तत्तद्योग्यताविशिष्टवस्तुदर्शिनः पुंसः सर्वा दिशः सुखमाययन्ति प्रापयन्तीति सुखमयाः, सुखप्रधाना वा । ‘भावः पदार्थे सत्तायामात्मयोनिस्वभावयोः’ इति यादवः ॥ १५ ॥

सत्यधर्मीया

सर्वभूतेष्वमङ्गलं भावं यो यदा न कुरुते भावमभिप्रायमत एव समदृष्टेः पुंसः सर्वा दिशः । सुखमयाः सुखमाययन्ति प्रापयन्तीति तास्तथा । सुखात्मिका इत्यर्थपक्षे मयटष्टित्त्वप्रयुक्तटिड्ढाणञिति ङीबभाव आर्षः । यदा यः पुमान् सर्वभूतेष्वमङ्गलं भावम् । सुमङ्गलः कश्चन काङ्क्षते हि मामिति रमावचनादमङ्गलमिति भावं कुरुते जगन्मङ्गलताप्रतिपादके कुत्सिते शब्दे भावं मनश्च न कुरुत इत्यावर्त्यान्वयनेऽर्थविशेषश्च ज्ञेयः ॥ १५ ॥

छलारी

नन्वेवं चेत्साधनाभावेन कदापि मुक्तिर्न स्यादिति तत्राह ॥ यदेति । यदा सर्वभूतेष्वमङ्गलं भावं रागद्वेषादिलक्षणं भावं न कुरुते तस्य समदृष्टेः सर्वस्य ब्रह्माधीनत्वेन तत्तद्योग्यताविशिष्टवस्तुदर्शिनः पुंसः सर्वा दिशः सुखमयन्ते प्रापयन्तीति सुखमयाः सुखप्रधाना वा ॥ १५ ॥

या दुस्त्यजा दुर्मतिभिर्जीर्यतो या न जीर्यते ।

तां तृष्णां दुःखनिवहां शर्मकामो द्रुतं त्यजेत् ॥ १६ ॥

पदरत्नावली

ननु स्थाविर्ये निराहारत्वे वा स्वतो विषयतृष्णात्यागेन मुक्तिः किं न स्यादिति तत्राह– येति । सत्य तृष्णात्यागे मुक्तिः स्यात् । स एव नास्ति । यस्माद् ज्ञानेन तत्त्यागोऽतस्तदेवापाद्यमित्यर्थः । जीर्यतः वयसा अनशनेन वा जरामाप्नुवतः । शर्मकामः मोक्षरूपनित्यसुखार्थी ॥ १६ ॥

सत्यधर्मीया

ननु स्थविरतायां कलेवरबलाभावे स्वतो विरतिर्जायत इति तत्राह ॥ येति ॥ या तृष्णा दुर्मतिभिर्दुस्त्यजा दुःसाधत्यागा जीर्यतो जरायुजो न जीर्णा भवति तां तृष्णाम् । तस्याः क्रियामाह ॥ दुःखनिवहामिति ॥ दुःखानां निवहः समूहो यया सा ताम् । शर्मकामो नित्यसुखरूपमोक्षापेक्षो द्रुतं यथा तथा तां तृष्णां त्यजेत्तत्त्यजनोपायमाचरेत् ॥ १६ ॥

छलारी

ननु स्थानवीर्यं निराहारत्वेन विषयतृष्णात्यागेन मुक्तिः किं न स्यादिति तत्राह ॥ येति ॥ सत्यं तृष्णात्यागेन मुक्तिः स्यात् । स एव नास्ति । तस्माज्ज्ञानेन तत्त्यागस्तदेवापाद्यमित्यर्थः । जीर्यता वयसाऽनशनेन वा जरां प्राप्नुवतो दुःखनिर्वाहां दुःखानि नितरां वहतीति तथा ॥ १६ ॥

मात्रा स्वस्रा दुहित्रा वा न विविक्तासनो भवेत् ।

बलवानिन्द्रियग्रामो विद्वांसमपि कर्षति ॥ १७ ॥

पदरत्नावली

स्त्रीसन्निधानं तु सर्वथा त्याज्यमित्याह– मात्रेति ॥ अविविक्तासन एकशग्यासनः ॥ १७ ॥

सत्यधर्मीया

विषयशमार्थ्यहं शर्मिष्ठामगममिति त्वं श्रमवत्यभूः किल । कलालापे तदिन्द्रियस्वभावोऽयमिति न चैत्र्यमावहेत्याह ॥ मात्रेति ॥ विविक्तमैकान्तिकमासनं यस्य न भवेत् । ज्ञानी चेत्तानि किं कुर्युरित्यत आह । बलवानिन्द्रियग्रामस्तत्समूहो विद्वांसं मानिनमपि कर्षति । यथा स्थगनं न भवेत्तथा कर्षति । नाविविक्तासन इति पाठेऽविविक्तासन एकासन इत्यर्थः ॥ १७ ॥

छलारी

स्त्रीसंनिधानं तु सर्वथा त्याज्यमित्याह ॥ मात्रेति ॥ अविविक्तासन एकशय्यासनः ॥ १७ ॥

पूर्णं वर्षसहस्त्रं मे विषयान् सेवतोऽसकृत् ।

तथापि चानुसवनं तृष्णा तेषूपजायते ॥ १८ ॥

पदरत्नावली

स्वतो विषयतृष्णा न शाम्यतीत्यत्र स्वानुभवमाह– पूर्णमिति ॥ १८ ॥

सत्यधर्मीया

विषयान् पूर्णं वर्षसहस्रं तत्राप्यसकृत् सेवतः सेवमानस्य मे । तथाऽपि चानुसवनं तेषु विषयेषु तृष्णोपजायते ॥ १८ ॥

छलारी

स्वतो विषयतृष्णा न शाम्यतीत्यत्र स्वानुभवमाह ॥ पूर्णमिति ॥ अनुसवनं प्रतिदिनम् ॥ १८ ॥

तस्मादेतामहं त्यक्तवा ब्रह्मण्याधाय मानसम् ।

निर्द्वन्द्वो निरहङ्कारश्चरिष्यामि मृगैः सह ॥ १९ ॥

पदरत्नावली

स्वयमित्थं विचार्य फलितमाह- तस्मादिति ॥ मृगयन्ते तत्त्वमिति मृगा ज्ञानिनस्तैः सह । अरण्यचरैर्हरिणादिभिर्वा, तपश्चरिष्यामीत्यर्थः ॥ १९ ॥

सत्यधर्मीया

निगमयति ॥ तस्मादिति ॥ एतां तृष्णां त्यक्त्वा ब्रह्मणि मानसमाधाय निर्द्वन्द्वः शीतोष्णादिभीत्यतीतो निरहङ्कारोऽहंममकारहितो मृगैर्हरिणादिभिः सह चरिष्यामि वने वसिष्यामीत्याशयः ॥ १९ ॥

छलारी

स्वयमित्थं विचार्य फलितमाह ॥ तस्मादिति ॥ मृगयन्ते तत्त्वमिति मृगा ज्ञानिनस्तैः सह तपश्चरिष्यामीत्यन्वयः ॥ १९ ॥

दृष्टं श्रुतमसद् विद्वान् नानुध्यायेन्न संविशेत् ।

संसृतिं चात्मनाशं च तत्र विद्वान् स आत्मदृक् ॥ २० ॥

पदरत्नावली

दृष्टश्रुतसुखत्यागेनादृष्टाश्रतसुखाय कः कुशलः प्रयतेत अरण्ये कायक्लेशं विद्वानिति तत्राह– दृष्टमिति ॥ दृष्टं राज्यादिविभवं श्रुतं स्वर्गादिविभवमित्युभयमसत् क्षणभङ्गुरं विद्वान् तन्नानुध्यायेत् तद्विषयचिन्तां न कुर्यात्, न संविशेद् भोगलक्षणप्रवेशं न कुर्यादित्यन्वयः । कुत इति तत्राह– संसृतिमिति ॥ तत्रानुध्यानसंवेशनयोः सतोः संसारम् आत्मनाशं स्वरूपज्ञानहानिं विद्वान् यः स आत्मदृगात्मज्ञानीत्युच्यत इत्यन्वयः । ‘ध्यायतो विषयान् पुंसः सङ्गस्तेषूपजायते’ इत्यादेः । अनेन दृष्टश्रुतसुखस्य सदातनत्वं विद्वान् बालिशो यतोऽतोऽस्य दुःखोदर्कत्वं ज्ञानी पश्यतीति ज्ञायते ॥ २० ॥

सत्यधर्मीया

दृष्टमैहिकं सुखम् । श्रुतं स्वर्गगम् । असदस्थिरं विद्वांस्तन्नानुध्यायेन्न संविशेदासक्तिं न कुर्यात् । तत्र ध्यानसंवेशनयोः सतोः संसृतिमात्मनाशं स्वहानिं विद्वानात्मदृक् स्वपरोभयात्मज्ञानी । अतो न ध्यानसंवेशने तत्र कर्तव्ये इत्याह । स आत्मदृगुच्यत इत्यन्वय इति व्याकृतवन्तः ॥ २० ॥

छलारी

दृष्टश्रुतसुखत्यागेनादृष्टाश्रुतसुखाय कः कुशलः प्रयतते तारुण्ये कायक्लेशं विद्वानिति तत्राह ॥ दृष्टमिति ॥ दृष्टं राज्यादिविभवं श्रुतं स्वर्गादिविभवमित्युभयमसत्क्षणभङ्गुरम् । विद्वांस्तन्नानुध्यायेन्न संविशेत् । भोगलक्षणप्रवेशो न कर्तव्येत्यर्थः । कुत इति तत्राह ॥ संसृतिमिति ॥ तत्रानुध्यानसंवेशनयोः सतोः संसारमात्मनाशं स्वरूपनाशं विद्वान्यः स आत्मदृगात्मज्ञानीत्युच्यत इत्यर्थः । ‘ध्यायतो विषयान्पुंसः सङ्गस्तेषूपजायत’ इत्यादिः ॥ २० ॥

श्रीशुक उवाच—

इत्युक्त्वा नाहुषो जायां तदीयं पूरवे वयः ।

दत्वा स्वां जरसं तस्मादाददे विगतस्पृहः ॥ २१ ॥

पदरत्नावली

तदीयं पूरोर्विद्यमानम् ॥ २१ ।

सत्यधर्मीया

पूरवे तदीयं वयो यौवनं स्वां जरसं तस्मादाददे ॥ २१ ॥

छलारी

तदीयं पुरुषसम्बन्धि पूरवे स्वस्य कनिष्ठपुत्राय जरसं जराम् ॥ २१ ॥

दिशि दक्षिणपूर्वस्यां द्रुह्यंु दक्षिणतो यदुम् ।

प्रतीच्यां तुर्वसुं चक्रे उदीच्यामनुमीश्वरम् ॥ २२ ॥

पदरत्नावली

दक्षिणपूर्वस्याम् आग्नेय्याम् । ईश्वरं राजानम् ॥ २२ ॥

सत्यधर्मीया

दक्षिणपूर्वस्यां द्रुह्युमाग्नेय्याम् । स्वाज्ञावज्ञानकर्ताऽप्याज्ञाकर्तुर्ज्येष्ठ इति दाक्षिण्याद् द्रुह्युग्रहणमग्र इति ज्ञेयम् । शापस्त्वखण्डभूमण्डलाधिपत्यप्रतिषेधे नाप्रसिद्धतापादक इति न विरोधः । दक्षिणतो दक्षिणदिशि यदुं प्रतीच्यां तुर्वसुमुदीच्यामनुमीश्वरं चक्रे । नन्वप्रसक्तौ नास्ति चिन्ता । दानप्रसक्तौ त्वादौ भवे यदौ सति कथं पूरोरखण्डाधिपत्यं समयविगीतं ददौ । तथा शुक्रोऽपि स्वनप्तारं ज्येष्ठमतिहायाज्यायसो दानं कथं सेह इति चेन्न ।

अभिषेक्तुकामं नृपतिं पुत्रं पूरुं कनीयसम् । ब्राह्मणप्रमुखा वर्णा इदं वचनमब्रुवन् ।

कथं शुक्रस्य नप्तारं देवयान्याः सुतं प्रभो । ज्येष्ठं यदुं परित्यज्य पूरो राज्यं प्रयच्छति ।

कथं ज्येष्ठानतिक्रम्य कनीयान् राज्यमर्हति । एतत्सम्बोधयामस्त्वां धर्मं त्वमनुपालय ।

धर्मं चोल्लङ्घयन् राजा प्रजानां दुःखमावहेत् ।

ययातिरुवाच–

ब्राह्मणप्रमुखा वर्णाः सर्वे श्रुणुत मद्वचः । ज्येष्ठं प्रति यथा राज्यं न देयं मे कथञ्चन ।

मम ज्येष्ठेन यदुना नियोगो नानुपालितः । प्रतिकूलः पितुर्यश्च न स पुत्रः सतां मतः ।

मातापित्रोर्वचनकृद्धितः पथ्यश्च यः सुतः । स पुत्रः पुत्रवद्यश्च वर्तते पितृमातृषु ।

यदुनाऽहमवज्ञातस्तथा तुर्वसुनाऽपि च । द्रुह्युणा चानुना चैव मय्यवज्ञा भृशं कृता ।

पूरुणा च कृतं वाक्यं मानितश्च विशेषतः । कनीयान्मम दायादो जरा येन धृता पुरा ।

स च कामो मम कृतः पूरुणा मित्ररूपिणा । शुक्रेण च वरो दत्तः काव्येनोशनसा स्वयम् ।

पुत्रो यस्त्वनुवर्तेत स राजा पृथिवीपतिः । भवतोऽनुनयाम्येवं पुरू राज्येऽभिषेच्यताम् ।

प्रकृतय ऊचुः ।

यः पुत्रो गुणसम्पन्नो मातापित्रोर्हितस्सदा । सर्वमर्हति कल्याणं कनीयानपि सप्रभुः ॥

इत्याद्यादिपर्ववचनेन सुघटमित्याटीकया । पूर्वमपि सच्छुक्रवचः ।

वयो दास्यति यः पुत्रः स च राजा भविष्यति । आयुष्मान्कीर्तिमांश्चैव बहुपुत्रस्तथैव चेति ॥२२॥

छलारी

दक्षिणपूर्वस्यामाग्नेयामीश्वरं राजानं चक्र इति सर्वत्रानुषङ्गः ॥ २२ ॥

भूमण्डलस्य सर्वस्य पूरुमर्हत्तमं विशाम् ।

अभिषिच्याग्रजांस्तस्य वशे स्थाप्य वनं ययौ ॥ २३ ॥

पदरत्नावली

विशां प्रजानाम् । अर्हत्तमं पूज्यतमम् । स्थाप्य स्थापयित्वा ॥ २३ ॥

सत्यधर्मीया

अर्हत्तमं योग्यतमम् । अग्रजान् यद्वादीन् वशे स्थाप्य प्रस्थाप्य ॥ २३ ॥

छलारी

विशां प्रजानामर्हत्तमं पूरुमभिषिच्य तस्याग्रजांस्तस्य वशे स्थाप्येत्यन्वयः ॥ २३ ॥

आम्रेडितं वर्षपूगान् षड्वर्गं विषयेषु सः ।

क्षणेन मुमुचे नीडं जातपक्ष इव द्विजः ॥ २४ ॥

पदरत्नावली

शब्दादिविषयेषु आम्रेडितमभ्यस्तं षडिन्द्रियवर्गं मुमुचे विषयादाहृत्य भगवद्विषयं चकारेत्यर्थः ॥ २४ ॥

सत्यधर्मीया

स ययातिर् विषयेषु शब्दादिषु । आम्रेडितमभ्यस्तं षड्वर्गं क्षणेनैव मुमुचे । जातपक्षो द्विजः पक्षी नीडं कुलायं यथा मुञ्चति तथैवेति ॥ २४ ॥

छलारी

शब्दादिविषयेषु वर्षपूगान् । आम्रेडितमभ्यस्तं षडिन्द्रियवर्गं मुमुचे विषयादाहृत्य भगवद्विषयं चकारेत्यर्थः । द्विजः पक्षी ॥ २४ ॥

स तत्र निर्मुक्तसमस्तसङ्ग आत्मानुभूत्या विधुतत्रिलिङ्गः ।

परेऽमले ब्रह्मणि वासुदेवे लेभे गतिं भागवतीं प्रतीतः ॥ २५ ॥

पदरत्नावली

आत्मानुभूत्या परमात्मापरोक्षज्ञानेन विधुतं त्रिभिः सत्वादिभिगुणैर्निर्मितं लिङ्गमभिमानलक्षणं यस्य स तथा । विध्वस्तध्यात्मिकाधिभौतिकाधिदैविकलिङ्गो वा । भागवतीं भागवतधर्मलभ्यां गतिं जीवन्मुक्यवस्थाम् । प्रतीतः कोविदः ॥ २५ ॥

दुर्घटभावदीपिका

विधुतत्रिलिङ्ग इत्यस्य त्यक्तसत्त्वादित्रिगुणकार्यशरीर इत्यर्थः । अत्र शरीरत्यागो नामाभिमानत्याग एवेति द्रष्टव्यम् ॥ २५ ॥

सत्यधर्मीया

स तत्र वने निर्मुक्तसमस्तसङ्गस्त्यक्तसमग्रदुःखसङ्गः । समस्तः सम्यगस्तः सन्निरस्तः सङ्गो गगनादिसम्बन्धः । स च निर्मुक्तो येनेति वा । आत्मानुभूत्या स्वपरमात्मज्ञानेन । विधुतत्रिलिङ्गो विधुतं त्रिलिङ्गं त्रिभिर्गुणैर्निर्मितं लिङ्गमभिमानो येन । त्रयस्तापा लिङ्गशरीरं च विधुतानि येनेति वा । परे उत्तमेऽमले निर्दुःखादिदोषे वासुदेवे भागवतीं स्वयोग्यतामनुसृत्य । भागवतीं भागोऽस्यास्तीति सा तां गतिं प्रवेशलक्षणां मुक्तिं लेभे । भागवतीं भागवतसम्बन्धिनीमिति वा । प्रतीतः प्रख्यातः ॥ २५ ॥

छलारी

तत्र वने स्थित इति शेषः । आत्मानुभूत्या परमात्मापरोक्षज्ञानेन विधुतं त्रिभिः सत्त्वादिगुणैर्निर्मितमभिमानलक्षणं यस्य स तथा । ब्रह्मणि तदाराधने प्रतीतः कोविदो भागवतीं भगवद्धर्मलभ्यां गतिं जीवन्मुक्त्यवस्थां लेभ इत्यन्वयः ॥ २५ ॥

श्रुत्वा गाथां देवयानी मेने प्रस्तोभमात्मनः ।

स्त्रीपुंसोः स्नेहवैक्लव्यात् परिहासमिवोदितम् ॥ २६ ॥

दुर्घटभावदीपिका

देवयानी स्त्रीपुंसोर्दंपत्योः स्नेहवैक्लव्यां स्नेहातिशयादुदितं परिहारमिव परिहासवाक्यमिव भर्तोदितां गाथां श्रुत्वाऽऽत्मनः प्रस्तोभवचनं मेन इति । अयं भावः । यद्यपि ययातिर्भ्रात्रा परिहास एव क्रियते मम परित्यागे तात्पर्यं नास्तीति देवयान्या बुद्धिमुत्पादयितुं यथा दम्पतयः स्नेहातिशयात्परिहासवाक्यं वदन्ति । तथा परिहासप्रदर्शनपूर्वकं गाथमुक्तवान् । तथाऽपि मम वचनार्थमेव परिहासं प्रदर्शयति । मत्परित्यागे तात्पर्यमस्त्येवेति देवायान्या ज्ञातमिति ॥ २६ ॥

इति श्रीभागवतटिप्पण्यां षोडशोऽध्यायः ॥ ९-१६ ॥

सत्यधर्मीया

प्रस्तोभमजापदेशेन वचनम् । स्त्रीपुंसोः समासान्तविधेरनित्यतया नाच् । स्त्रीपुंसयोः स्नेहवैक्लव्यात्तद्विह्वलतायाः परिहासमुदितमिवैव मेने ज्ञातवती ॥ २६ ॥

छलारी

प्रस्तोभं वञ्चनं स्नेहवैक्लव्यात् । स्नेहभङ्गभयादिति यावत् । प्राप्तप्रस्तोभमाह ॥ परिहासमिवेति ॥ २६ ॥

सा संनिवासं सुहृदां प्रपायामिव गच्छताम् ।

विज्ञायेश्वरतन्त्राणां मायाविरचितं प्रभो ॥ २७ ॥

सत्यधर्मीया

प्रपायां गच्छतां मिलताम् । मायाविरचितं सन्निवासं सुहृदो विज्ञाय तेऽपि न स्वतन्त्रा इत्याह ॥ ईश्वरतन्त्राणामिति ॥ प्रभो परीक्षित् ॥ २७ ॥

छलारी

प्रपायां गच्छतामागच्छतां सहवासमिव सुहृदां संनिवासं विज्ञाय लिङ्गशरीरमधुनोदमुञ्चदित्युत्तरेणान्वयः । कथं भूतं सुहृदां संनिवासम् । प्रभोर्हरेरिच्छानिर्मितम् ॥२७॥

सर्वत्र सङ्गमुत्सृज्य स्वाप्नौपम्येन भार्गवी ।

कृष्णे मनः समावेश्य व्यधुनोल्लिङ्गमात्मनः ॥ २८ ॥

पदरत्नावली

प्रस्तोभं वञ्चनम्’ । लिङ्गं शरीरं व्यधुनोद् अमुञ्चत् ॥ २८ ॥

सत्यधर्मीया

स्वाप्नौपम्येन तत्स्थपदार्थास्थिरतासादृश्येन सङ्गमुत्सृज्य कृष्णे मनः समावेश्यात्मनो लिङ्गं व्यधुनोत् ॥ २८ ॥

छलारी

उक्तमेव विवृणोति ॥ सर्वत्रेति ॥ स्वप्नौपम्येनानित्यत्वं, विज्ञाय सर्वत्र सङ्गमुत्सृज्येत्यन्वयः ॥ २८ ॥

नमस्तुभ्यं भगवते वासुदेवाय वेधसे ।

सर्वभूताधिवासाय शान्ताय बृहते नमः ॥ २९ ॥

इति श्रीमद्भागवते नवमस्कन्धे षोडशोऽध्यायः ।

पदरत्नावली

नमस्तुभ्यम्, इति जपित्वेति शेषः ॥ २९ ॥

इति श्रीमद्भागवतटीकायां विजयध्वजतीर्थभिक्षुकृतायां नवमस्कन्धस्य षोडशोऽध्यायः ॥

सत्यधर्मीया

किं वदन्ती व्यधुनोदित्याशङ्कां विधुनोति ॥ नमस्तुभ्यमिति ॥ वेधसे ज्ञानात्मकायेति सोच्चारयन्ती लिङ्गं व्यधुनोदित्यन्वयः ॥ २९ ॥

इति श्रीसत्यधर्मयतिकृतायां भागवतटिप्पण्यां नवमस्कन्धे षोडशोऽध्यायः ।

छलारी

नमस्तुभ्यमिति ॥ जप्त्वेति शेषः । शुको वा नमस्करोति ॥ नम इति ॥ बृहते पूर्णाय ॥ २९ ॥

इति श्रीछलारी शेषाचार्यकृतायां भागवतटिप्पण्यां नवमस्कन्धे षोडशोऽध्यायः ।