यतिर्ययातिः संयातिरायातिर्वियतिः कृतिः
॥ अथ पञ्चदशोऽध्यायः ॥
श्रीशुक उवाच—
यतिर्ययातिः संयातिरायातिर्वियतिः कृतिः ।
षडिमे नहुषस्यासन् इन्द्रियाणीव देहिनः ॥ १ ॥
पदरत्नावली
अथ नहुषस्य सन्ततिमनुकामति– यतिरित्यादिना ॥ १ ॥
सत्यधर्मीया
नहुषसन्ततिमाह ॥ यतिरिति ॥ इमे षट् सुता देहिनः षडिन्द्रियाणीवासन् । षढ्ढोतारमिति यथा ॥ १ ॥
छलारी
नहुषस्य सन्ततिमनुक्रमति ॥ यतिरित्यादिना ॥ षडितीन्द्रियाणीत्यत्रापि सम्बन्धः ॥ १ ॥
राज्यं नैच्छद् यतिः पित्रा दत्तं तत्परिणामवित् ।
यत्र प्रविष्टः पुरुष आत्मानं नावबुध्यते ॥ २ ॥
पदरत्नावली
तस्य राज्यस्य परिणाममनर्थहेतुत्वं वेत्तीति तथा । तत्र हेतुर् यत्रेति ॥ यत्र राज्ये आत्मानं स्वं परमात्मानं च ॥ २ ॥
सत्यधर्मीया
पित्रा नहुषेण यतिर्दत्तं राज्यं स्वस्य ज्यैष्ठ्यान्नैच्छत् । तत्परिणामविदिति निमित्तोत्कीर्तनम् । तत्करिष्यमाणविकारवित् । तदेव विशदयति ॥ यत्रेति ॥ यत्र राज्यादिविषये प्रविष्ट आसक्तः पुरुष आत्मानं स्वं परमात्मानं च नावबुध्यते ॥ २ ॥
छलारी
तस्य राज्यस्य परिणाममनर्थहेतुत्वं वेत्तीति तथा । तत्र हेतुः ॥ यत्रेति ॥ आत्मानं स्वात्मानं परमात्मानं वा ॥ २ ॥
पितरि भ्रंशिते स्थानाद् इन्द्राण्या धर्षणाद् द्विजैः ।
प्रापितेऽजगरत्वं च ययातिरभवन्नृपः ॥ ३ ॥
पदरत्नावली
इन्द्राण्या धर्षणात् शच्याः संस्पर्शनिमित्तात्, पितरि नहुषे द्विजैरगस्त्यादिभिः स्वर्गस्थानाद् भ्रंशिते त्याजिते सति, अजगरत्वं महासर्पत्वं प्रापिते सति ॥३॥
सत्यधर्मीया
पितरि नहुषे स्थानादिन्द्राण्याः शच्या धर्षणान्मानसात् । इन्द्रवरुणेत्यालुक् । द्विजैर्वाहितशिबिकोऽगस्त्यादिभिः शापद्वाराऽजगरत्वं च प्रापिते सति । उक्तं च वनपर्वणि ।
अहं हि दिवि दिव्येन विमानेन चरन् पुरा ।
अभिमानेन मत्तः सन् कञ्चिन्नान्यमचिन्तयम् ।
ब्रह्मर्षिदेवगन्धर्वयक्षराक्षसपन्नगाः ।
करान् मम प्रयच्छन्ति सर्वे त्रैलोक्यवासिनः ।
चक्षुषा यं प्रपश्यामि प्राणिनं पृथिवीश्वरम् ।
तस्य तेजो हराम्याशु तद्धि दृष्टेर्बलं महत् ।
ब्रह्मर्षीणां सहस्रं हि उवाह शिबिकां मम ।
स मामपनयो राजन् भ्रंशयामास वै श्रियः ।
तत्र ह्यगस्त्यः पादेन वहन् स्पृष्टो मया मुनिः ।
अगस्त्येन ततोऽस्म्युक्तो ध्वंस सर्पेति वै रुषा ।
ततस्तस्माद्विमानाग्य्रात्प्रच्युतश्च्युतभूषणः ।
प्रपतन् बुबुधेऽऽत्मानं व्यालीभूतमधोमुखम् ।
इत्यादिना । तथोद्योगपर्वणि च । वहन्तु त्वां महाभागेत्यारभ्याथ मामस्पृशन्मूधर्ि्न पादेनाधर्मपीडित इत्याद्यन्तरीकृत्य -
ध्वंसः पापपरिभ्रष्टः क्षीणपुण्यो महीतलम् ।
दशवर्षसहस्राणि सर्परूपधरो महान् ।
विचरिष्यसि पूर्णेषु पुनः स्वर्गमवाप्स्यसि ।
इति । इत्यादिना । षष्ठे च नीतस्तिरश्चां गतिमिन्द्रपत्न्येत्युक्तेः पादेनर्षिशीर्षताडनानुगुणं गूढपादजगरत्वमगस्त्योक्तमिति विभावनीयम् । वनपर्वणि यद्यप्यगस्त्येनेत्युक्तम् । तथाऽपि तत्संस्थेन भृगुणेति वाच्यम् । यथोक्तं दानधर्मे ।
ततो भृगुर्महातेजा मैत्रावरुणिमब्रवीत् ।
निमीलयस्व नयने जटा यावद्विशामि ते ।
स्थाणुभूतस्य तस्याथ जटाः प्राविशदच्युतः ।
भृगुः स सुमहातेजाः पातनाय नृपस्य च ।
ततोऽगस्त्यो मदपतिं वाक्यमाह विशाम्पते ।
योजयस्वेति मां क्षिप्रं कं च देशं वहामि ते ।
इत्युक्तो योजयामास नहुषस्तेन तं मुनिम् ।
भृगुस्तस्य जटान्तःस्थो बभूव हृषितो भृशम् ।
न चापि दर्शनं तस्य चकार स भृगुस्तदा ।
वरदानप्रभावज्ञो नहुषस्य महात्मनः ।
न चुकोप तदाऽगस्त्यो युक्तोऽपि नहुषेण वै ।
तं तु राजा प्रतोदेन चोदयामास भारत ।
न चुकोप स धर्मात्मा ततः पादेन देवराट् ।
अगस्त्यस्य तदा क्रुद्धो वामेनाभ्याहनच्छिरः ।
तस्मिंश्छिरस्यभिहते स जटान्तर्गतो भृगुः ।
शशाप बलवत्क्रुद्धो नहुषं पापचेतसम् ।
यस्मात्पदाहतः क्रोधाच्छिरसीमं महामुनिम् ।
तस्मादाशु महीं गच्छ सर्पो भूत्वा सुदुर्मते ।
इत्युक्तः स तदा तेन सर्पो भूत्वा पपात ह ॥ इति । अत्रापि विशेषः ।
वेदप्रामाण्यविषये पृष्टो नेत्याह मूढधीः ।
प्रमाणमिति तेनोक्ते शिरस्येनं पदाहनत् ।
तदा भृगुं तस्य जटासु लीनः कदाऽपि तस्याक्षिपथं न यातम् ।
आविश्य कञ्जप्रभवः शशाप व्रजस्व पापाजगरत्वमेव ॥
इति महाभारततात्पर्यनिर्णयतोऽवसेयः । मूलमगस्त्य इति वनपर्वणि तथोक्तिः । न भृगुणाऽपि ब्रह्मदत्तवरके दत्तोऽकिञ्चित्करः स्याच्छाप इत्याविश्य कञ्जप्रभव इत्यभ्यधुराचार्या इति सर्वैककण्ठ््यं ज्ञेयम् ॥ ३ ॥
छलारी
इन्द्राण्या धर्षणाच्छच्याः संस्पर्शनिमित्तात्पितरि नहुषे द्विजैरगस्त्यादिभिः स्वर्गस्थानाद्भ्रंशिते सति अजगरत्वं महासर्पत्वं प्रापिते सति । केनचिन्निमित्तेन नहुषस्य स्वर्गाधिपत्ये प्राप्ते शचीसम्भोगेच्छायामगस्त्यादिभिरजगरो भवेति शापे दत्ते सत्यजगरो बभूवेति भावः ॥ ३ ॥
चतसृष्वादिशद् दिक्षु भ्रातॄन् गोप्तृन् यवीयसः ।
कृतदारो जुगोपोर्वीं काव्यस्य वृषपर्वणः ॥ ४ ॥
पदरत्नावली
यवीयसः कनिष्ठा संयातिपूर्वान् । काव्यस्य शुक्रस्य पुत्र्या देवयान्या, वृषपर्वणो राज्ञः पुत्र्या शर्मिष्ठया च कृतदारो ययातिः ॥ ४ ॥
दुर्घटभावदीपिका
भ्रातेत्यस्यात्यक्तभ्रातृवृत्तिरित्यर्थः । एतेन यवीयसो भ्रातृनित्यनेनैव ययातेर्ज्येष्ठभ्रातृत्वस्य लब्धत्वाद्भ्रातेति व्यर्थमिति चोद्यं पराकृतम् । आधिपत्यवशाद्भ्रतृवृत्तिस्त्यक्तेति शङ्कापरिहारार्थं भ्रातेत्यनेनात्यक्तभ्रातृवृत्तित्वमुच्यत इत्यङ्गीकारात् ॥ ४ ॥
राजोवाच—
ब्रह्मर्षिर्भगवान् काव्यः क्षत्रबन्धुश्च नाहुषः ।
राजन्यविप्रयोः कस्माद् विवाहः प्रातिलोमकः ॥ ५ ॥
पदरत्नावली
प्रातिलोम्येन विवाहः कथं घटत इति पृच्छति- ब्रह्मर्षिरिति ॥ ५ ॥
सत्यधर्मीया
ययातिर्यत्यनन्तरजो यतिरपि स्वनामानुगुणं चक्र इति ज्ञेयम् । भ्राता ज्यायान्यवीयसो भ्रातॄंश्चतुसृषु दिक्षु प्रादिशत् । कृतदारः काव्यस्य शुक्राचार्यस्य वृषपर्वणश्च कन्यायां ब्राह्मणस्य शुक्रस्य चक्रवर्तिनो ययातेश्च विवाहादिकोऽनुबन्धः कथं सम्बद्ध इति पृच्छति परीक्षिदित्याह ॥ राजेति ॥ प्रातिलोमको विवाहः कस्माद्धेतोरभूद्वदेति राजोवाचेत्यनेनान्वयः ॥ ४,५ ॥
छलारी
चतसृषु दिक्षु यवीयसः कनिष्ठान्संयाति पूर्वान् भ्रातॄन् आदिशत् । काव्यस्य शुक्रस्य वृषपर्वणो राज्ञः । कन्याभ्यामिति शेषः । कृतदारो ययातिः ॥ प्रातिलोम्येन विवाहः कथं घटत इति पृच्छति ॥ ब्रह्मर्षिरिति ॥ नाहुषो नहुषसुतो ययातिः प्रतिलोमतो व्युत्क्रमाद् व्यत्यासतो विवाहः कस्मादासीत् ॥ ४,५ ॥
श्रीशुक उवाच—
एकदा दानवेन्द्रस्य शर्मिष्ठा नाम कन्यका ।
सखीसहस्त्रसंयुक्ता गुरुपुत्र्या च भामिनी ॥ ६ ॥
पदरत्नावली
दैववशादिदं पाणिग्रहणं प्राप्तं न तु मानुषवशादिति प्रकाशयितुमाख्यायिकामाख्याति- एकदेति ॥ भामिनी तेजस्विनी ॥ ६ ॥
सत्यधर्मीया
दैववशादेवैवमभूत् किञ्च कचशापतश्चेत्याख्यायिकामुखेनाख्याति ॥ श्रीशुक इति ॥ सखीनां सहस्रं तेन युक्ता । गुरुपुत्र्या उशनसः सुतया देवयान्येत्यन्वयः ॥ ६ ॥
छलारी
न प्रातिलोमतादोषो, दैववशादिदं पाणिग्रहणं प्राप्तं न तु मानुषवदिति प्रकाशयितुमाख्यां कथयति ॥ एकदेति ॥ गुरुपुत्र्या देवयान्या संयुक्ता व्यचरदिति द्वयोरन्वयः । भामिनी तेजस्विनी ॥ ६ ॥
देवयान्या पुरोद्याने पुष्पितद्रुमसङ्कुले ।
व्यचरत् कलगीतालिनलिनीपुलिनेऽबला ॥ ७ ॥
पदरत्नावली
कलगीता अलयो यस्यां सा नलिनी, तस्याः पुलिने तस्मिन् ॥ ७ ॥
दुर्घटभावदीपिका
देवयान्या पुरोद्यानेति श्लोके अबलेत्यस्य सुन्दरस्त्रीत्यर्थः । एतेनैकदा दानवेन्द्रस्य शर्मिष्ठा नाम कन्यकेत्यत्र विद्यमानेन कन्याशब्देन स्त्रीत्वस्य लब्धत्वादबलेति स्त्रीत्वकथनमनुपन्नमिति दूषणं परि-हृतम् । मुख्यामुख्ययोर्मुख्ये सम्प्रत्यय इति न्यायेनाबलेत्यनेन सुन्दरस्त्रीत्वमुच्यत इत्यभ्युपगमात् ॥ ७ ॥
सत्यधर्मीया
पुष्पितेति तारकादिः । कलगीता अलयो यस्यां सा । नलिनी पद्मिनी तस्याः पुलिनं तस्मिन् ॥ ७ ॥
छलारी
कलगीता अलयो यस्मिंस्तथोक्तम् । तादृशं नलिनीपुलिनं यस्मिंन्पुरोद्याने तत्तथोक्तं तस्मिन् । अबलेति शर्मिष्ठाविशेषणम् ॥ ७ ॥
जलाशयं समासाद्य कन्याः कमललोचनाः ।
तीरे न्यस्य दुकूलानि विजह्रुः सिञ्चतीर्मिथः ॥ ८ ॥
पदरत्नावली
सिञ्चतीर् जलप्रक्षेपं कुर्वन्त्यः ॥ ८ ॥
सत्यधर्मीया
अनन्तरं जलाशयं मिथः सिञ्चतीः सिञ्चन्त्योऽम्भोभिषेकं कुर्वन्त्यो विजह्रुरक्रीडन् ॥ ८ ॥
छलारी
सिञ्चतीः सिञ्चन्त्यो विजह्रुर्जलक्रीडां चक्रुः ॥ ८ ॥
व्रजन्तं वीक्ष्य गिरिशं सह देव्या वृषे स्थितम् ।
सहसोत्तीर्य वासांसि पर्यधुर्व्रीडिताः स्त्रियः ॥ ९ ॥
पदरत्नावली
पर्यधुर् आच्छादितवन्त्यः ॥ ९ ॥
सत्यधर्मीया
देव्योमया सहसा व्रीडिताः स्त्रियो वासांसि पर्यधुर्दध्रुः ॥ ९ ॥
छलारी
देव्या पार्वत्या । पर्यधुः परिधानं चक्रुः । स्त्रियः कन्याः ॥ ९ ॥
शर्मिष्ठाऽजानती वासो गुरुपुत्र्याः समव्ययत् ।
स्वीयं मत्वा प्रकुपिता देवयानीदमब्रवीत् ॥ १० ॥
पदरत्नावली
अजानती शर्मिष्ठा गुरुपुत्र्या वासः स्वीयं मत्वा समव्ययत् संवीतवती । व्येञ् संवरणे इति धातोः । तदा प्रकुपिता देवयानीदं वक्ष्यमाणमब्रवीदित्यन्वयः ॥ १० ॥
सत्यधर्मीया
शर्मिष्ठा वृषपर्वसुताऽजानती द्वयोः सारूप्याद् गुरुपुत्र्या वासः समव्ययत् । व्येञ् संवरणे संवीतवती । स्वीयं स्वस्मै हितमिति स्वीयं स्वकीयमिति तात्पर्यार्थ इति ज्ञेयम् । विस्तृतं स्कन्धान्तरविवरणे । मत्वा देवयानी प्रकुपिता सती इदं वक्ष्यमाणमब्रवीत् ॥ १० ॥
अहो निरीक्ष्यतां मह्यं दास्याः कर्म ह्यसाम्प्रतम् ।
अस्मद्धार्यं धृतवती शुनीव हविरध्वरे ॥ ११ ॥
पदरत्नावली
मह्यं मम दास्याः शर्मिष्ठायाः । असाम्प्रतम् अयुक्तम् ॥ ११ ॥
सत्यधर्मीया
मह्यं मम असाम्प्रतमयुक्तम् । शुनी श्वस्त्री अध्वरे हविरिवास्मद्धार्यं वस्त्रं धृतवतीत्यहो निरीक्ष्यतामित्युवाच ॥ ११ ॥
छलारी
मह्यं मम दास्याः शर्मिष्ठाया असांप्रतमन्याय्यम् । हविरिव पुरोडाशमिव ॥ ११ ॥
यैरिदं तपसा सृष्टं मुखं पुंसः परस्य वै ।
धार्यते यैः परञ्ज्योतिः शिवः पन्थाश्च दर्शितः ॥ १२ ॥
पदरत्नावली
स्वकुलप्रशंसायै ब्राह्मणानां माहात्म्यं कथयति– यैरिदमित्यादिना ॥ इदं विश्वं ये ब्राह्मणैस्तपसा सृष्टम्, तद् ब्राह्मणकुलं परस्य पुंसो विष्णोर्मुखं तज्जातं तदाश्रितं च । वैशब्दः ‘ब्राह्मणोऽस्य मुखमासीत्’ इत्यादिश्रुतिप्रसिद्धिद्योतकः । यैः परञ्जोतिः परब्रह्माख्यं हृदि धार्यते, यैश्च शिवः पन्था वेदमार्गो दर्शितः ॥ १२ ॥
सत्यधर्मीया
तस्या दास्यं स्वस्याः स्वाम्यं येन तद्ब्राह्मणमहत्त्वमाह ॥ यैरिति ॥ यैर्ब्राह्मणैरिदं विश्वं तपसा सृष्टं च्यवनादिभिः । यथोक्तं शान्तिपर्वणि । कृतपूर्वाह्निकः प्रायात्सभार्यस्तद्वनं प्रति । ततो ददर्श नृपतिः प्रासादं सर्वकाञ्चनम् । मणिस्तम्भसहस्राढ्यमित्यारभ्य सर्वमन्तरधीयतेत्यन्तेन । तद्ब्राह्मणकुलं परस्य पुंसः श्रीहरेर्मुखं तज्जातं तदाश्रितं च । वैशब्दो ब्राह्मणोऽस्य मुखमासीदित्यादिश्रुतिप्रसिद्धिद्योतकः । यैः परञ्ज्योतिर्नारायणो हृदि धार्यते उपासनादिना । यैः शिवः पन्था वेदमार्गो दर्शितः ॥ १२ ॥
छलारी
स्वकुलप्रशंसार्थं ब्राह्मणानां माहात्म्यं कथयति ॥ यैरित्यादिना ॥ इदं विश्वं यैर्ब्राह्मणैस्तपसा सृष्टं ये परस्य पुंसो मुखं मुखादुत्पन्नत्वेन श्रेष्ठा इत्यर्थः । यैरिदं परंज्योतिर्ब्रह्माख्यं धार्यते यैश्च शिवः पन्था वेदमार्गः ॥ १२ ॥
येऽपीदमुपतिष्ठन्ते लोकनाथाः सुरेश्वराः ।
भगवानपि विश्वात्मा पावनः श्रीनिकेतनः ॥ १३ ॥
पदरत्नावली
ये लोकनाथाः सुरेश्वरास्तेपीदं ब्राह्मणकुलमुपतिष्ठन्ते अग्निमुखेन हविरादातुं प्रतीक्षन्ते । विश्वात्मा भगवानपि, ब्राह्मणप्रियो यानुपतिष्ठति इति शेषः ॥ १३ ॥
सत्यधर्मीया
ये लोकनाथाः सुरेश्वरास्तेऽपीदं द्विजकुलमुपतिष्ठन्ते याजनादिके । विश्वात्मा भगवाञ्छ्रीनिकेतनो यानुपतिष्ठते । नमस्ते शिरसाऽसकृदित्यादेः ॥ १३ ॥
छलारी
ये लोकनाथाः सुरेश्वरास्तेऽपीदं ब्राह्मणकुलमुपतिष्ठन्तेऽग्निमुखेन हविरादातुं प्रतीक्षन्ते । विश्वात्मा भगवानपि यत्र संनिहितः ॥ १३ ॥
वयं तत्रापि भृगवः शिष्योऽस्या नः पितासुरः ।
अस्मद्धार्यं धृतवती शूद्रो वेदमिवासती ॥ १४ ॥
पदरत्नावली
वयं तत्रापि ब्राह्मणेष्वपि भृगवो भृगुकुलजाः, अत एव श्रेष्ठा इति शेषः । अस्याः पिता वृषपर्वासुरो नोऽस्माकं शिष्यः । गुरुपुत्रीत्वादेवमवादीदिति ज्ञेयम् । यथा वेदग्रहणायोग्यो वृषलो वेदं धारयति तथेयमसती अस्मद्धार्य वस्त्रमिदं धृतवती ॥ १४ ॥
सत्यधर्मीया
विप्रमात्रमेवं वयं चैतादृशा इति ततोऽपि स्वान् विशेषयन्ती भाषते ॥ वयमिति ॥ तत्रापि ब्राह्मणकुलेऽपि अस्याः शर्मिष्ठायाः पिता नः शिष्यः । गुरुपुत्रीत्वादेवमवादीदिति ज्ञेयम् । शूद्रो वेदं यथा धृतवांश्चेत् प्रत्यवेति तथेयमसती चास्मद्धार्यं धृतवतीति । अध्ययने जिह्वाच्छेद इत्यादेः ॥ १४ ॥
छलारी
तत्रापि ब्राह्मणेष्वपि भृगवो भृगुकुलोत्पन्नाः । अत एव श्रेष्ठा इति शेषः । अस्याः पिता वृषपर्वा नः शिष्यः । असती दुष्टा ॥ १४ ॥
एवं क्षिपन्तीं शर्मिष्ठा गुरुपुत्रीमभाषत ।
रुषा श्वसन्ती नागीव धर्षिता दष्टदच्छदा ॥ १५ ॥
पदरत्नावली
धर्षिता अप्रगल्भीकृता तुच्छीकृतेत्यर्थः । दष्टदच्छदा दष्टोष्ठा ॥ १५ ॥
सत्यधर्मीया
नागी नागवेणीव धर्षिता पराभवं प्राप्ता । गतम् । दष्टदच्छदा सन्दष्टोष्ठा । दष्टौ दच्छदौ यया सा ॥ १५ ॥
छलारी
धर्षिता भर्त्सिता तुच्छीकृतेत्यर्थः । दष्टदच्छदा दष्टोष्ठा ॥ १५ ॥
आत्मवृत्तिमविज्ञाय कत्थ्यसे बहु भिक्षुकि ।
किं न प्रतीक्षसेऽस्माकं गृहान् बलिभुजो यथा ॥ १६ ॥
पदरत्नावली
आत्मवृत्तिं स्वजीविकामविज्ञाय बहु कत्थसे व्यर्थवचनं वदसि । तद् भिक्षुकीत्वं स्पष्टमित्याह– किं नेति ॥ बलिभुजः श्वानः काको वा ॥ १६ ॥
सत्यधर्मीया
भिक्षुकी आत्मवृत्तिं स्वजीविकामविज्ञायाज्ञात्वा बहु यथा तथा विकत्थसे । तद्भिक्षुकीत्वं स्पष्टयति । यथा बलिभुजः सारमेयास्तथाऽस्माकं गृहान्न प्रतीक्षसे किम् । प्रतीक्षस एव ॥१६॥
छलारी
हे भिक्षुकि । आत्मवृत्तिमात्मस्थितिं बहु कत्थसे निष्ठुरवचनं वदसि न प्रतीक्षसे किं बलिभुजः श्वानः काका वा ॥ १६ ॥
एवंविधैः सुपरुषैः क्षिप्त्वाऽऽचार्यसुतां सतीम् ।
शर्मिष्ठा प्राक्षिपत् कूपे वासस्त्वादाय मन्युना ॥ १७ ॥
सत्यधर्मीया
एवंविधैरिति पदमेकम् । एवं विधाः प्रकारा येषु तैः सपरुषैः क्षिप्त्वा तिरस्कृत्य वास आदाय मन्युनाऽऽचार्यसुतां कूपे प्राक्षिपत् । नग्नां मग्नामपि चकारेति भावः ॥ १७ ॥
छलारी
वास आदाय नग्नं कृत्वेत्यर्थः ॥ १७ ॥
तस्यां गतायां स्वगृहं ययातिर्मृगयां चरन् ।
प्राप्तो यदृच्छया कूपे जलार्थी तां ददर्श ह ॥ १८ ॥
सत्यधर्मीया
तस्यां शर्मिष्ठायाम् । कूपे पतितां ताम् ॥ १८ ॥
छलारी
तां देवयानीम् ॥ १८ ॥
दत्वा स्वमुत्तरं वासस्तस्यै राजा विवाससे ।
गृहीत्वा पाणिना पाणिमुज्जहार दयापरः ॥ १९ ॥
पदरत्नावली
उत्तरम् उत्तरीयम् । उज्जहार कूपादिति शेषः ॥ १९ ॥
सत्यधर्मीया
स्वमुत्तरमुत्तरीयं वासो दत्वा विवाससे दिगम्बरायै पाणिना स्वस्य पाणिम् । तस्य उज्जहार कूपतः । उकोऽनुबन्ध इत्यत आह ॥ दयापर इति ॥ १९ ॥
छलारी
उत्तरमुत्तरीयं पाणिम् । तस्या इति शेषः । उज्जहार । कूपादिति शेषः ॥ १९ ॥
तं वीरमाहौशनसी प्रेमनिर्भरया गिरा ।
राजंस्त्वया गृहीतो मे पाणिः परपुरञ्जय ।
हस्तग्रहोऽपरो मा भूद् गृहीतायास्त्वया हि मे ॥ २० ॥
पदरत्नावली
औशनसी उशनसोऽपत्यम् । प्रेमनिर्भरया स्नेहपूर्णया । हस्तं गृह्णातीति हस्तग्रहः पाणिग्रहणकर्ता अपरोऽन्यो न स्यात् । हस्तग्राह इति पाठे हस्ते ग्राहो ग्रहणं यस्य स तथा । कुम्भकारवदण्प्रत्ययान्तो वा ॥ २० ॥
सत्यधर्मीया
औशनसी उशनसोऽपत्यम् । प्रेम्णा निर्भरोऽतिशयो यस्यां सा तया गिरा वाचा । हे परपुरञ्जय राजन् । त्वया गृहीतो मे मम पाणिर्हि यतोऽतो ऽपरस्त्वदितरस्त्वया गृहीतायाः पाणिग्रहः पाणिं गृह्णातीति स तथा मा भून्न भवतु । किं तादृशविशङ्कटसङ्कटवती त्वमित्यतोऽप्याह ॥ हिम इति ॥ मरणकारणहिमे सति मामुज्जहार गृहीतश्च भयो मया ययातेर्नेतरो वरो मम भवेदित्याशयः ॥ २० ॥
छलारि— प्रेमनिर्भरया स्नेहपूर्णया । हस्तं गृण्हातीति हस्तग्रहः पाणिग्रहणकर्ताऽपरोऽन्यो न स्यात् । परंपुरजय शत्रुसंहारक ॥ २० ॥
एष ईशकृतो वीर सम्बन्धो नौ न पौरुषः ।
यदिदं कूपमग्नाया भवतो दर्शनं मम ॥ २१ ॥
पदरत्नावली
निषिद्धोऽयं प्रातिलोम्यसम्बन्ध इति चेत् तत्राह– एष इति ॥ कूपमग्नाया मम भवतो यदिदं दर्शनमेष सम्बन्ध ईशकृतः श्रीनारायणविहितः । न पौरुषः पुरुषयत्नसाध्यो न भवति ॥ २१ ॥
सत्यधर्मीया
वर्णावरोऽहं कथं कथय बाले तव वरः स्यामित्यत ऐशी क्लृप्तिरनन्यथा भाविनीति भामिनी वदति ॥ एष इति ॥ पौरुषः पित्रादिपुरुषालोचितः । दैवी विचित्रा गतिरिति त्वदागतिरत्रेति देवयान्याह ॥ यदिदमिति ॥ २१ ॥
छलारी
निषिद्धोऽयं प्रातिलोमसम्बन्ध इति चेत्तत्राह ॥ एष इति ॥ कूपमग्नाया मम भवतो यदिदं दर्शनमेषः सम्बन्ध ईशकृतः श्रीनारायणविहितः । न पौरुषः पुरुषयत्नसाध्यो न भवति ॥२१॥
न ब्राह्मणो मे भविता हस्तग्राहो महाभुज ।
कचस्य बार्हस्पत्यस्य शापाद् यमशपं पुरा ॥ २२ ॥
पदरत्नावली
ब्राह्मणपुत्र्यास्तव ब्राह्मण एव भर्ता युक्तो, न तु क्षत्रियः । प्रतिलोमाप्रवेशादित्याशङ्कां परिहरति– न ब्राह्मण इति ॥ हे महाभुज मे ब्राह्मणो हस्तग्राहो न भविता न भविष्यति । कुत इति तत्राह– कचस्येति ॥ बार्हस्पत्यस्य बृहस्पतेरपत्यस्य नाम्ना कचस्य शापात् । मृतसञ्जीविनीविद्यार्थी कचस्तत्प्रतिग्रहाय बहतिथं गुरुपरिचर्यां विधाय तत्प्रसादमासाद्य तद्विद्यामध्यगीष्ट । अथ गुरोराज्ञया गन्तुकामं कचमुपलभ्य सर्वप्रकारेण कचस्य हितमाचरन्त्या मया भो कच त्वं मम भर्ता भव, इत्युक्तो मामुवाच– है देवयानि त्वया मैवं वक्तव्यं यद भ्राताऽहमिति । तदा कुपिताहं तमशपं मत्पितुरवातविद्या न फलत्वितीयमाल्यायिकानेनाख्यायते– यमशपं पुरेति । अहं पुरा ये कचमशपं शप्तवती तस्य शापादिति ॥ २२ ॥
सत्यधर्मीया
भूपं प्रति ‘करग्रहो भवेत्क्षत्रिय एवेति’ कचशापोऽस्त्यत उचित इति याचित इत्याह ॥ न ब्राह्मण इति ॥ बार्हस्पत्यस्य बृहस्पतेः पुत्रस्य शापात् । सोऽपि नानयेन मां शशापेत्याह ॥ यमशपं पुरेति ॥ मृतसञ्जीवनी विद्या न कविं मत्पितरं विहायान्यत्रास्तीति कचो विचोदितः । स्वपित्रोपायतो विद्यां च द्विषत्सु तस्यापि ख्यात्यै उपदिदेश । स चाधिगतविद्यो गन्तुमुद्यतो यदा तदाऽहं चैकत्र सहवासतस्तस्य गुणलुब्धा ममतया मम भवतु भवान् धव इत्यवदम् । हे भगिनि मैवं ब्रूया इत्यूचे सुचेताः । ततोऽहं प्रतिहतकामा कामार्ताऽतिरुषाऽनवद्यापि विद्याऽफलिष्यतीत्यशपम् । सोऽपि नेतःपरं सजातीयः पतिः स्यात्तवेत्यशपदित्याख्यायिकाऽनेन सङ्गृहीता । यथोक्तमादिपर्वणि ।
जिगीषया ततो देवा वव्रिरेऽङ्गिरसं मुनिम् ।
पौरोहित्याय राज्यार्थे काव्यं तूशनसं परे ।
ब्राह्मणौ तावुभौ नित्यमन्योन्यस्पर्धिनौ भृशम् ।
न हि वेद स तां विद्यां यां काव्यो वेद वीर्यवान् ।
सञ्जीवनीं ततो देवा विषादमगमन्परम् ।
ततो देवा भयोद्विग्नाः काव्यादुशनसस्तदा ।
ऊचुः कचमुपागम्य ज्येष्ठं पुत्रं बृहस्पतेः ।
भजमानान्भजस्वास्मान् कुरु साहाय्यमुत्तमम् ।
या सा विद्या निवसति ब्राह्मणेऽमिततेजसि ।
शुक्रे तामाहरत्क्षिप्रं भागमाङ्नो भविष्यसि ।
वृषपर्वसमीपे स द्रष्टुं शक्यस्त्वया द्विज ।
रक्षते दानवांस्तत्र न स रक्षत्यदानवान् ।
तमाराधयितुं शक्रो भवान् पूर्ववयाः कविम् ।
देवयानीं च दयितां सुतां तस्य महात्मनः ।
त्वामाराधयितुं शक्तो नान्यः कश्चन विद्यते ।
शीलमाधुर्यदाक्षिण्यैराचारेण दमेन च ।
देवयान्यां हि तुष्टायां विद्यां तां प्राप्स्यसि ध्रुवम् ।
तथेत्युक्त्वा ततः प्रायाद्बृहस्पतिसुतः कचः ।
असुरेन्द्रपुरे शुक्रं दृष्ट्वोवाच प्रणम्य च ।
ऋषेरङ्गिरसः पौत्रं पुत्रं साक्षाद्बृहस्पतेः ।
नाम्ना कच इति ख्यातं शिष्यं गृह्णातु मां भवान् ।
ब्रह्मचर्यं चरिष्यामि त्वय्यहं परमं गुरो ।
अनुमन्यस्व मां ब्रह्मन् सहस्रं परिवत्सरान् ।
शुक्र उवाच–
कच सुस्वागतं तेऽस्तु प्रतिगृह्णामि ते वचः ।
अर्चयिष्येऽहमर्च्यं त्वामर्चितोऽस्तु बृहस्पतिः ॥
वैशम्पायन उवाच–
कचस्तु तत्तथेत्युक्त्वा प्रतिजग्राह तद्व्रतम् ।
आराधयन्नुपाध्यायं देवयानीं च भारत ।
गायन्नृत्यन् वादयंश्च देवयानीमतोषयत् ।
पञ्चवर्षशतान्येवं कचस्य चरतो व्रतम् ।
तत्रातीयुरथो बुद्ध्वा दानवास्तं ततः कचम् ।
गा रक्षन्तं वने दृष्ट्वा रहस्येकममर्षिताः ।
जघ्नुर्बृहस्पतेर्द्वेषाद्विद्यारक्षार्थमेव च ।
हत्वा शालावृकेभ्यश्च प्रायच्छंल्लवशः कृतम् ।
ततो गावो निवृत्तास्ता अगोपाः स्वं निकेतनम् ।
तां दृष्ट्वा रक्षती गास्तु कचो नाभ्यागतो वनात् ।
उवाच वचनं काले देवयान्यथ भारत ॥
देवयान्युवाच–
आहुतं चाग्निहोत्रं ते सूर्यश्चास्तङ्गतः प्रभो ।
अगोपाश्चागता गावः कचस्तात न दृश्यते ।
व्यक्तं हतो मृतो वाऽपि कचस्तात भविष्यति ।
तं विना न च जीवेयमिति सत्यं ब्रवीमि ते ॥
शुक्र उवाच–
अयमेहीति शब्दाच्च मृतं सञ्जीवयाम्यहम् ।
ततः सञ्जीवनीं विद्यां प्रयुज्य कचमाह्वयत् ।
भित्वा भित्वा शरीराणि वृकाणां स विनिर्गतः ।
आहूतः प्रादुरभवत्कचो हृष्टोऽथ विद्यया ।
कस्माच्चिरायितोऽसीति पृष्टस्तामाह भार्गवीम् ।
हतोऽहमिति चाचख्यौ पृष्टो ब्राह्मणकन्यया ।
समिधश्च कुशादीनि काष्ठभारं च भामिनि ।
गृहीत्वाऽऽश्रममारात्तं वटवृक्षं समाश्रितः ।
गावश्च सहिताः सर्वा वृक्षच्छायामुपाश्रिताः ।
असुरास्तत्र मां दृष्ट्वा कस्त्वमित्यभ्यचोदयन् ।
बृहस्पतिसुतश्चाहं कच इत्यभिविश्रुतः ।
इत्युक्तमात्रे मां हत्वा पेषीकृत्य तु दानवाः ।
दत्वा शालावृकेभ्यस्तु सुखं जग्मुः स्वमालयम् ।
आहूतो विद्यया भद्रे भार्गवेण महात्मना ।
त्वत्समीपमिहायातः कथञ्चित्समजीवितः ।
स पुनर्देवयान्योक्तः पुष्पाहारो यदृच्छया ।
वनं ययौ कचो विप्रो ददृशुर्दानवाश्च तम् ।
पुनः सम्पेषयित्वा तं समुद्राम्भस्यमिश्रयन् ।
चिरं गतं पुनः कन्या पित्रे तं सन्न्यवेदयत् ।
विप्रेण पुनराहूतो विद्यया गुरुदेहजः ।
पुनरावृत्य तद्वृत्तं न्यवेदयत तद्यथा ।
देवयानी पुनश्चाह कदाचिद्वन्यमाहर ।
उक्तोऽगच्छद्वनं तत्र दानवा ददृशुः पुनः ।
ततस्तृतीयं तं हत्वा दग्ध्वा कृत्वा च चूर्णशः ।
प्रायच्छन्ब्राह्मणायैव सुरायामसुरास्तथा ।
देवयान्यथ भूयोऽपि पितरं वाक्यमब्रवीत् ।
पुष्पाहारप्रेषणकृत्कचस्तात न दृश्यते ॥
शुक उवाच-
बृहस्पतेः सुतः पुत्रि कचः प्रेतगतिं गतः ।
विद्यया जीवितोऽप्येवं हन्यते करवाणि किम् ।
मैवं शुचो मा रुद देवयानि न त्वादृशी मर्त्यमनुप्रशोचेत् ।
यस्यास्तव ब्रह्म च ब्राह्मणाश्च देवाः सेन्द्रा वसवोऽथाश्विनौ च ॥
सुरद्विषश्चैव जगच्च सर्वमुपस्थाने सन्नमति प्रभावात् ।
अशक्योऽसौ जीवयितुं द्विजातिः सञ्जीवितो वध्यते चैव भूयः ॥
देवयान्युवाच–
यस्याङ्गिरा वृद्धतमः पितामहो बृहस्पतिश्चापि पिता तपोनिधिः ।
ऋषेः पुत्रं तमथो वाऽपि पौत्रं कथं न शोचेयमहं न रुन्ध्याम् ।
स ब्रह्मचारी च तपोधनश्च सदोत्थितः कर्मसु चैव दक्षः ।
कचस्य मार्गं प्रतिपत्स्ये न भोक्ष्ये प्रियो हि मे तात कचोऽनुरूपः ।
आकारयामास तदा देवयान्याः कृते विभुः ।
गुरोर्भीतो विद्यया चोपहूतः शनैर्वाक्यं जठरे व्याजहार ।
प्रसीद भगवन्मह्यं कचोऽहमभिवादये ।
यथा बहुमतः पुत्रस्तद्वत्कुर्यात्तु मां भवान् ।
तमब्रवीत्केन इहोपनीतो ममोदरे तिष्ठसि ब्रूहि वत्स ।
असुरैः सुरायां भवतोऽस्मि दत्तो हत्वा दग्ध्वा चूर्णयित्वा च काव्य ।
किं ते प्रियं ते करवाणि वत्से वधेन मे जीवितं स्यात्कचस्य ।
नान्यत्र कुक्षेर्मम भेदनेन दृश्येत्कचो निहतो देवयानि ॥
देवयान्युवाच–
द्वौ मां शोकाविग्नकल्पौ दहेतां कचस्य नाशस्तव चोपघातः ।
कचनाशे मम शर्म नास्ति तवोपघाते जीवितुं नास्ति शक्तिः ॥
शुक्र उवाच–
संसिद्धिरूपोऽसि बृहस्पतेः सुत यं त्वां भक्तं भजते देवयानी ।
विद्यामिमां प्राप्नुहि जीवनीं त्वं न चेदिन्द्रात्कचरूपी त्वमेव ।
न निवर्तेत्पुनर्जीवन् कश्चिदन्यो ममोदरात् ।
ब्राह्मणं वर्जयित्वैकं तस्माद्विद्यामवाप्नुहि ।
गुरोः सकाशात्समवाप्य विद्यां भित्वा कुक्षिं निर्विचक्राम विप्रः ।
दृष्ट्वा च तं पतितं ब्रह्मराशिमुत्थापयामास मृतं कचोऽपि ।
विद्यामित्यारभ्य ऋषेरङ्गिरसः पुत्र भर्ता भवितुमर्हसि ।
अनवद्याङ्गि पूजनीयतरा मम ।
गुरुपुत्रस्य पुत्रो वै, यत्रोषितं विशालाक्षि त्वया चन्द्रनिभानने ।
तत्राहमुषितो भद्रे कुक्षौ तस्य महात्मनः ।
भगिनी प्रत्याख्यास्यसि चोदितः ।
ततः कच न विद्या ते सिद्धिमेषा गमिष्यति ॥
कच उवाच–
ऋषिपुत्रो न ते कश्चिज्जातु पाणिं ग्रहीष्यति ।
फलिष्यति न ते विद्या यन्मामुक्तवती ह्यसि ।
अध्यापयिष्यामि च यत्तस्य विद्या फलिष्यतीत्यन्तेन । मात्स्येऽपि सुरापानाद्वञ्चनीयं प्रायणीय इत्याद्युक्तेः । तदैव शुक्रशापः सुरापविषये तत्रैवोक्तः । यो ब्राह्मणोऽद्यप्रभृतीह कश्चिन्मोहात्सुरां पास्यति मन्दबुद्धिः । तपोपहा ब्रह्महा चैव स स्यादस्मिंल्लोके गर्हितः स्यात्परे चेत्यादिना ।
मघवा तदा,
तथेत्युक्त्वाऽथ चक्राम सोऽपश्यत वने स्त्रियः ।
क्रीडन्तीनां च कन्यानां वने चैत्ररथोपमे ।
वायुर्भूत्वा सवस्त्राणि सर्वाण्येवाभ्यमिश्रयत् ।
ततो जलात्समुत्तीर्य कन्यास्ताः सहितास्तदा ।
वस्त्राणि जगृहुस्तानि यथासन्नान्यनेकशः ।
ततो वासो देवयान्याः शर्मिष्ठा जगृहे तदा । व्यतिमिश्रमजानन्ती दुहिता वृषपर्वण इत्युक्तेः । मिश्रीकरणेन परस्य व्यत्यासे च शुक्रकोपो भवतीति शक्रभाव इति भावः ॥ २२ ॥
छलारी
ब्राह्मणपुत्र्यास्तव ब्राह्मण एव भर्ता न तु क्षत्रियो युक्तः । प्रतिलोमाप्रवेशादित्याशङ्कां परिहरति ॥ न ब्राह्मण इति ॥ बृहस्पतेः सुतः कचः शुक्रान्मृतसंजीवनीविद्यामध्यगीष्ट । तदा च देवयानी तं पतिं चकमे । सः कचो गुरुपुत्रिणा, मम पूज्येति न तामुदवहत् । ततश्च सा कुपिता सती तवेयं विद्या न फलत्विति शशाप । तदनन्तरं कचस्तव ब्राह्मणः पतिर्न भवत्वित्यशपदितीयमाख्यायिकाऽनेनोच्यते । अहं पुरा पूर्वं यं कचं प्रत्यशपं शप्तवती बार्हस्पत्यस्य बृहस्पतेरपत्यस्य तस्य कचस्य शापान्मे ब्राह्मणो हस्तग्राहो न भवतीत्यतस्त्वमेव मम पाणिग्रहणं कुरु ॥ २२ ॥
ययातिरनभिप्रेतं दैवोपहृतमात्मनः ।
मनस्तु तद्गतं बुध्द्वा प्रतिजग्राह तद्वचः ॥ २३ ॥
पदरत्नावली
अनन्तरं ययातिः किं कृतवानिति तत्राह– ययातिरिति ॥ यदनभिप्रेतं प्रातिलोम्येनोद्वहनं तदेव आत्मनो देवेन नारायणेन उपहृतं प्रापितम्, आत्मनो मनश्च तस्यां गतमनुरक्तं बुद्ध्वा तस्या देवयान्या वचः प्रतिगृहीतवानित्यन्वयः ॥ २३ ॥
सत्यधर्मीया
प्रार्थितो ययातिस्तां किं नेत्युत पतिः स्यामित्युक्तवानित्यतोऽङ्गीचकारेतीरयति ॥ ययातिरिति ॥ अनभिप्रेतं प्रातिलोम्याद्दैवोपहतं क्व सा मृगशावाक्षी क्व वा मृगया क्वाहं दैवमेवैतद्घटकमिति दैवोपहृतम् । किञ्चात्मनः स्वस्य मनश्च तद्गतं देवयानीनिविष्टं बुद्ध्वा । तद्वचस् तस्या वचः प्रतिजग्राह । यया भावी तिरानन्द इति तद्वचो जग्राहेति वा ॥ २३ ॥
छलारी
अनेन ययातिः किं कृतवानिति तत्राह ॥ ययातिरिति ॥ अशास्त्रीयत्वादनभिप्रेतमपि दैवेनोपहृतं प्रापितं बुद्ध्वा न ह्यधर्मे मदीयं मनो गच्छेन्मम मनश्च तस्यां गतमतो न मे दोष इति बुद्ध्वा तस्या वचः प्रतिजग्राह तां भार्यात्वेनाङ्गीचकार । प्रायः सतां न मनः पापमार्गे गच्छेदिति ह्यात्मनश्च सत्यमित्युक्तेः सतां मनः पापमार्गं न गच्छेदिति द्रष्टव्यम् ॥ २३ ॥
गते राजनि सा वीरे तत्र स्म रुदती पितुः ।
न्यवेदयत् ततः सर्वमुक्तं शर्मिष्ठया कृतम् ॥ २४ ॥
पदरत्नावली
ततो घूर्णिकामुखात्् स्ववृत्तान्तमाकर्ण्य तत्रागतस्य पितुः पुरतो रुदती सती उक्तं भिक्षुकीत्यादि कृतं कूपप्रक्षेपादि सर्वं न्यवेदयत् ॥ २४ ॥
दुर्घटभावदीपिका
वीरे राजनि ययातिराजनि गते सति सा देवयानी तत्र पुरोद्याने रुदती भवति स्म । ततो दासीमुखाच्छर्मिष्ठाया कृतां पुत्रीपीडां श्रुत्वाऽगतस्य पितुः शुक्रचार्यस्य पुरतः शर्मिष्ठयोक्तं कृतं सर्वं न्यवेदयदिति । एतेन पुरोद्याने पितुरभावात्पुरोद्याने रुदती पितुर्न्यवेदयादित्यनुपपन्नमिति दूषणं परिहृतम् ।
‘‘सा तत्र त्वरितं गत्वा घूणिकासुरमन्दिरम् ।
दृष्ट्वा काव्यमुवाचेदं सम्भ्रमाविष्टचेतना ।
आचचक्षे महाब्रह्मन् देवयानीं वने हतामि’’त्यादि भातरवाक्यानुसारेण दासीमुखादित्यादिशेषं पूरयित्वाऽर्थस्योक्तत्वात् ॥ २४ ॥
सत्यधर्मीया
राजनि ययातौ गते याते सत्युक्तं परुषभाषणं कृतं कूपप्रक्षेपादिकं च न्यवेदयत् । यदि मद्वचनादेव मां नेच्छसि नराधिप । त्वामेव वरये पित्रोः पश्चाज्ज्ञास्यसि गच्छ वै इत्यादिपूर्वोक्तिरप्युभयोर्ग्रहगमनान् मानसिकानभिप्रेतत्वाभिप्रायेण ययातेः पितुरनुमत्याऽपि पतिर्भवेदेवेति देवयानी भावेन लग्नेति ज्ञेयम् । अतो नैतद्वैसंवाद्यम् । घूर्णिकामुखत आवेदयित्वा गत्वा स्वयं च न्यवेदयत् । यथोक्तं तत्रैव । त्वरितं घूर्णिके गच्छेत्यारभ्याध्यायावसानं तदुक्तिशुक्रोक्तिपूर्वकम् । मात्स्ये च । त्वरितं घूर्णिके गच्छ सर्वमाचक्ष्व मे पितुरित्यारभ्याध्यायावसित्ययमर्थ उक्तो विस्तरतोऽवसेयः ॥ २४ ॥
छलारी
स्ववृत्तान्तं श्रुत्वा तत्रागतस्य पितुः पुरतो रुदती सती भिक्षुकीत्याद्युक्तं कृतं कूपप्रक्षेपादि सर्वं न्यवेदयत् ॥ २४ ॥
दुर्मना भगवान् काव्यः पौरोहित्यं विगर्हयन् ।
स्तुवन् वृत्तिं च कापोतीं दुहित्रा स ययौ पुरात् ॥ २५ ॥
पदरत्नावली
कापोतीं कपोतसम्बन्धिनीमुञ्छवृत्तिं स्तुवन् । ग्रन्थाधिकभयान्न कापोतीवृत्तिर्विव्रियते । दुहित्रा देवयान्या सह ।
सत्यधर्मीया
दुर्मनाः पौरोहित्यं विगर्हयन् । अनेनैव भिक्षुक्यभवन्मम दुहितेति निन्दन् कापोतीमुञ्छःकणश आदानमित्युक्तोञ्छवृत्तिम् । कपोताः पाषाणभक्षकास्तद्वृत्तिम् । स्तुवन् दृषत्कण्टकादिभिरुदरपूरणं वरमिति गृणन् । यदैवमवादीत्काव्यस्तत्प्रभृति दुर्भृतिजीवनापेक्षया दृषदादिपूरणेन जीवनं कर्तुं शक्यमित्याभाणकं प्रावर्ततेति ज्ञेयमिति वा । दुहित्रा सह पुराद्ययौ । ननु भारतोक्तेस् ततः काव्यो भृगुश्रेष्ठः समन्युरुपगम्य ह । वृषपर्वाणमासीनमित्युवाचाविचारयन्नित्यत्र च पुराद्गमनोक्तेर्विरोध इति चेत् । देवयानीसान्त्वनार्थं तया यातस्तां बहिः प्रस्थाप्यागत्य वृषपर्वाणमनुशास्य तेन सह पुनर्बहिर्गत्वा शान्तां पुरमानिनायेति भावविभावनेनाविरोधोपपत्तेः । यथोक्तं पुनस्तत्रैव । प्रविशामि पुरं तात तुष्टाऽस्मि द्विजसत्तमेति ॥ २५ ॥
छलारी
काव्यः शुक्रः कापोतीमुंच्छवृत्तिम् ॥ २५ ॥
वृषपर्वा तमाज्ञाय प्रत्यनीकविवक्षितम् ।
गुरुं प्रसादयन् मूर्ध्ना पादयोः पतितः पथि ॥ २६ ॥
पदरत्नावली
प्रत्यनीका असुरद्वेषिणो देवा विवक्षिता जयं प्रापणीया इत्यभिप्रेता येन सः ॥ २६ ॥
सत्यधर्मीया
प्रत्यनीकानां नाकौकसां विवक्षितमेव विवक्षितं यस्य सः । प्रत्यनीका विवक्षिता रक्षितव्या इति येन स वा तम् । गुरुं मूर्ध्ना प्रसादयन् परुषं रुषोक्त्वा गच्छतः पादयोः पथि पतितः ॥ २६ ॥
छलारी
तं गुरुं प्रत्यनीका देवास्ते विवक्षिता जयं प्रापणीया इत्यभिप्रेतं यस्य तथाभूतं ज्ञात्वा ॥ २६ ॥
क्षणार्धमन्युर्भगवाञ्छिष्यं व्याचष्ट भार्गवः ।
कामोऽस्याः क्रियतां राजन् नैनां त्यक्तुमिहोत्सहे ॥ २७ ॥
पदरत्नावली
अस्या देवयान्याः कामोऽपेक्षाविशेषः । स्वाभीष्टसाधनाय यात्वियं शर्मिष्ठा भवानस्मत्प्रियायास्तामिति तत्राह– नैनामिति ॥ २७ ॥
सत्यधर्मीया
अस्या देवयान्याः ॥ २७ ॥
छलारी
शिष्यमुत्थाप्येति शेषः । अस्या देवयान्याः कामोऽपेक्षाविशेषः । एनां देवयानीम् ॥ २७ ॥
तथेत्यवस्थिते प्राह देवयानी मनोगतम् ।
पित्रा दत्ता यतो यास्ये सानुगा यातु मामनु ॥ २८ ॥
पदरत्नावली
यदभीष्टं तत् तथा करिष्ये इत्युक्त्वा वृषपर्वण्यवस्थिते सति वृषपर्वणा तव किं कर्तव्यमिति पृष्टा देवयानी मनोगतं स्वमनसि स्थितं कार्यं प्राह । अहं पित्रा दत्ता यतो यत्र यास्ये तत्र गामियं शर्मिष्ठा सानुगा दासीसहस्रेण सहिताऽनुयातु अन्वागच्छतु इति ॥ २८ ॥
सत्यधर्मीया
अवस्थिते कर्तुमोङ्कृतवती देवयानी स्वमनोगतं प्राह । पित्राऽहं दत्ता यतो यत्र यास्ये तत्र सानुगा सस्वदासीजनो मामनुयातु । अहं सानुगा पर्वतशिखरगा चेदपि मामनुयातु तनया तवेत्यप्यर्थो ज्ञेयः ॥ २८ ॥
छलारी
यदभीष्टं तत्तथा करिष्य इत्युक्त्वा वृषपर्वण्यवस्थिते सति वृषपर्वणा तव किं कर्तव्यमिति पृष्टा देवयानी मनोगतं स्वमनसि स्थितं कार्यं प्राह । अहं पित्रा कस्मैचिद्वराय दत्ता सती यतो यत्र यास्ये तत्रानुयातु ॥ २८ ॥
स्वानां तत् सङ्कटं वीक्ष्य तदर्थस्य च गौरवम् ।
देवयानीं पर्यचरत् स्त्रीसहस्त्रेण दासिवत् ॥ २९ ॥
पदरत्नावली
शर्मिष्ठा तत् सर्वं श्रुत्वा यद्यहं नानुगमिष्यामि तदा गुरुद्रोहान्मत्कुलं सर्वं नष्टं भवतीति यत् स्वानां सङ्कटं तद् वीक्ष्य तदर्थस्य तदनुगमनप्रयोजनलक्षणस्य गौरवं गुरुप्रसादेन स्वकुलाभिवृद्धिलक्षणमस्तीति मनसा निश्चित्य स्त्रीसहस्रेण परिवृता तथा करिष्यामीति पितरमुकत्वा देवयानीं दासीवत् पर्यचरत् ॥ २९ ॥
सत्यधर्मीया
शर्मिष्ठा नर्मैव मर्मस्पृग्जातमिति स्वकसङ्कटं वीक्ष्यानुमेने हीनवृत्तिमित्याह ॥ स्वानां पित्रादीनामिति । सङ्कटं वीक्ष्य गुरुप्रसादे सम्पादिते तदर्थस्य तदनुगरूपप्रयोजनस्य गौरवं भावि च वीक्ष्य स्त्रीसहस्रेण स्त्रियश्च सहस्रसङ्ख्याकास्ताभिः सहितं यत्सहस्रमाहत्य सहस्रद्वयेन । यथोक्तमादिपर्वणि । द्वाभ्यां कन्यासहस्राभ्यां द्वे कन्ये परिवारिते । द्विसहस्रेण कन्यानां तथा शर्मिष्ठया सहेति । दासिवद्दासीवत्पर्यचरत् । देवयान्युवाच ।
याचतो भिक्षुकस्याहं स्तुवतः प्रतिगृह्णतः ।
स्तूयमानस्य दुहिता कथं दासी भविष्यसि ।
शर्मिष्ठोवाच ।
येन केनचिदार्तानां ज्ञातीनां सुखमावहे ।
अतस्त्वामनुयास्यामि यत्र दास्यति ते पितेति तत्रैवोक्तेः । पर्यचरत्सिषेवे ॥ २९ ॥
छलारी
शर्मिष्ठा तत्सर्वं श्रुत्वा यद्यहं नानुगमिष्यामि तदा गुरुद्रोहान्मत्कुलं सर्वं नष्टं भविष्यतीति यत्स्वानां सङ्कटं वीक्ष्य तदर्थस्य तदनुगमनप्रयोजनलक्षणस्य गौरवं गुरुप्रसादेन स्वकुलाभिवृद्धिलक्षणमस्तीति मनसा निश्चित्य स्त्रीसहस्रेण परिवृता तत्तथा करिष्यामीति पितरमुक्त्वा देवयानीं दासीव पर्यचरत् ॥ २९ ॥
नाहुषाय सुतां दत्वा सह शर्मिष्ठयोशनाः ।
तमाह राजञ्छर्मिष्ठां मा धास्तल्पे तु कर्हिचित् ॥ ३० ॥
पदरत्नावली
उशनाः सुतां देवयानीं नाहुपाय नहुपपुत्राय ययातये शर्मिष्ठया सह दत्वा तं राजानमाह ॥ किमाह ? क्वचिदपि शर्मिष्ठां तल्पे शयनीयस्थाने मा धा नोपगच्छेः ॥ ३० ॥
सत्यधर्मीया
सह शर्मिष्ठया उशना शुक्रो नाहुषाय ययातये । राजन् ययाते । शर्मिष्ठां कर्हिचिदपि तल्पे शयनीये मा धा मा धत्स्व । तल्पे भावप्राधान्येन भार्यात्वे मा धा मा कार्षीः । तल्पं तु शयनीये स्यात्तल्पमट्टकलत्रयोरिति विश्वः । तल्पेऽन्नमात्रे तद्योग्यां माहेति वा । सम्पूज्या सततं राजन्मा चैनां शयनेऽऽह्वयेरिति तत्राप्युक्तेः । न भार्यां कुर्याम् इत्यर्थः ॥ ३० ॥
छलारी
उशनाः शुक्रो नाहुषाय नहुषपुत्राय ययातये शर्मिष्ठया सह सुतां देवयानीं दत्वा शर्मिष्ठां तल्पे मा धास्तां नोपगच्छेरित्यर्थः ॥ ३० ॥
विलोक्यौशनसीं राज्ञीं शर्मिष्ठा सुप्रजां क्वचित् ।
तमेव वव्रे रहसि सख्याः पतिमृतौ सति ॥ ३१ ॥
पदरत्नावली
औशनसीं देवयानीम् । विलोक्य कार्यमालोच्य । सख्याः पतिं तमेव ययातिमेव ऋतौ तत्काले वव्रे ॥ ३१ ॥
सत्यधर्मीया
औशनसीं राज्ञीं नृपपत्नीं सुप्रजां शोभनापत्यवतीं गतम् । सख्याः पतिं तमेव ययातिमेव ऋतौ तत्काले सति शर्मिष्ठा वव्रे ॥ ३१ ॥
छलारी
औशनसीं देवयानीं तमेव ययातिमेव सख्या देवयान्याः पतिं तस्य तत्पतित्वे तस्या दासीतुल्यत्वमुक्तम् ऋतौ ऋतुकाले ॥ ३१ ॥
राजपुत्र्याऽर्थितोऽपत्ये धर्मं चावेक्ष्य धर्मवित् ।
स्मरञ्छुक्रवचः काले दिष्टमेवाभ्यपद्यत ॥ ३२ ॥
पदरत्नावली
अपत्ये सन्तानार्थे । तादर्थ्ये सप्तमी । राजपुत्र्या शर्मिष्ठया प्रार्थितो धर्मविद् धर्मज्ञः । न काञ्चन परिहरेत् तद् व्रतम्’ इति छान्दोग्ये । अत्यागी च स्वभार्याणां मुच्यते नात्र संशयः’ इति सामसंहितायां च । स्वयमागतां परिहतुर्मशक्यं चेति धर्ममवेक्ष्य शुक्रवचः स्मरन्नपि दिष्टमेव दैवमेवात्र कारणमिति निश्चित्य काले ऋतुकालेऽभ्यपद्यत, तामिति शेषः ॥ ३२ ॥
दुर्घटभावदीपिका
धर्मविद्ययातिः राजपुत्र्या शर्मिष्ठयाऽपत्ये विषयेऽर्थितः सन् तत्सङ्गेन धर्मं चावेक्ष्य काले तत्सङ्गकाले शुक्रवचः स्मरन्नपि यथादिष्टं वर्तते तथैव भविष्यतीति निश्चित्य शर्मिष्ठामभ्यपद्यतेति । एतेन काल इत्येतव्द्यर्थमिति दूषणं परास्तम् । शर्मिष्ठासङ्गकाल एव शुक्रवचसः स्मरणं जातं पूर्वं शुक्रवचसः स्मरणं नाभूदिति वक्तुं काल इत्युक्त इत्यभ्युपगमात् । एतेनैवादिष्टेत्येतदनन्वितामिति दूषणं परिहृतम् । यथेत्यादि शेषपूरणेनान्वयस्योक्तत्वात् ॥ ३२ ॥
सत्यधर्मीया
राजपुत्र्याऽर्थितो धर्मविद्धर्मज्ञो धर्मं याचितमुचितं देयं मयेति स्वस्मरणादागच्छन्तम् । यथोक्तम् ।
सा त्वां प्रासाद्य याचे त्वामृतुं देहि नराधिप । ययातिः ।
वेद त्वां शीलसम्पन्नां दैत्यकन्यामनिन्दिताम् ।
रूपं च ते न पश्यामि सूच्यग्रमपि निन्दितम् ।
किञ्चाब्रवीन्मामुशना देवयानीं यदावहम् ।
नेयमाह्वयितव्या ते शयने वार्षपर्वणी ।
शर्मिष्टा ।
न नर्मयुक्तं वचनं हिनस्ति न स्त्रीषु राजन्न विवाहकाले ।
प्राणात्यये सर्वधनापहारे पञ्चानृतान्याहुरपातकानि ।
पृष्टन्तु साक्ष्ये प्रवदन्तमन्यथा वदन्ति मिथ्या पतितं नरेन्द्र ।
एकार्थितायां तु समर्थितायां मिथ्या वदन्तं त्वनृतं निहन्ति ।
ययातिः ।
राजा प्रमाणं भूतानां स नश्येत मृषा वदन् ।
अर्थकृच्छ्रमपि प्राप्य न मिथ्या वक्तुमुत्सहे ।
शर्मिष्टा ।
समावेतौ मतौ राजन्पतिः सख्याश्रयः पतिः ।
समं विवाहमित्याहुः सख्यामसि वृतः पतिः ।
दातव्यं याचमानेभ्य इति मे व्रतमाहितम् ।
त्वं च मां याचसे कामं ब्रूहि किं करवाणि ते ।
इत्यादि । इति व्रतमितीरयन् पराशर्यो न काञ्चन परिहरेद् व्रतमिति श्रुतिपातनिकार्थस्य नावसरं व्यतारीदिति मतैतदभिमत आचार्यवर्यश्छान्दोग्योपनिषद्भाष्ये, अत्यागाच्च स्वभार्याणां मुच्यते नात्र संशय इति च सामसंहितायामिति व्याख्यातवान् । एकस्य बह्वोर् जाया भवन्तीत्यादेर्बहुषु योषित्सु पाणिगृहीतीषु न काञ्चन परिहरेदिति तदर्थः । इतरस्तु परस्त्रीपारवश्येन कृतव्याख्यानमित्युपेक्ष्यमिति श्रीवेदेशतीर्थश्रीपादैरुक्तत्वात्तथा भार्याद्वये परित्यागादेकस्यादुष्टचेतसेति माधवस्तवराजोक्तेश्च स्वीकार्यो न स्वीकार्यश्चेति ज्ञेयम् । शुक्रवचो मा धास्तल्पे तु कर्हिचिदिति वचः स्मरन् स्मरशरार्दितां च तां स्मरन् स्मरंश्च स्वप्रतिज्ञां च ययातिभागधेयमेवाभ्यपद्यत । बलीयसी दैवमेवेत्यबलालापं लालयामास भूप इति भावः ॥ ३२ ॥
छलारी
अपत्ये तादर्थ्ये सप्तमी । अपत्यार्थं धर्मं च न काञ्चन स्वयं परिहरेत्तद्व्रतमिति श्रुतेः । स्वयमागतां परिहर्तुमशक्यं चेति धर्ममवेक्ष्य शुक्रवचः स्मरन्नपि दिष्टमेव दैवमेवात्र कारणमिति निश्चित्य । काले ऋतुकालेऽभ्यपद्यत । तामिति शेषः ॥ ३२ ॥
यदुं च तुर्वसुं चैव देवयानी व्यजायत ।
द्रुह्युं चानुं च पूरुं च शर्मिष्ठा वार्षपर्वणी ॥ ३३ ॥
पदरत्नावली
व्यजायत, अजीजनत् ॥ ३३ ॥
सत्यधर्मीया
व्यजायत जनयामास । नन्वादिपर्वणि कुमारमित्युक्तिरत्र तु तत्रत्वोक्तिश्च कथमिति चेत् । तत्रैवोत्तरत्र नेत्रं निधेहि । त्रयोऽस्यां जनिताः पुत्रा राज्ञाऽनेन ययातिना । दुर्भगा मम द्वौ पुत्रावित्यत्र तु वोत्तरं भविष्यति । अहो मम मोहो जातः । हन्त तर्हि तत्रैव परस्परं विरोधो दुश्शमनः सम्पन्न इति चेत् । त्रयाणामपि यमलतां बोधयितुं पितूरेतःपातस्यैककालिकत्वादेकवचनमिति न्यक्कृतस्तव चमत्कार इति प्रशमं व्रज । अथवा राज्ञ आज्ञाकारी महानेक इति तथोक्तिरितरावकिञ्चित्करावित्यनुक्तिः । यद्वक्ष्यति । अकर्तोच्चरितं पितुरिति । वस्तुतस्तु त्रय इत्यविरोधः । एतत्पक्षे भारते मात्स्यादौ चानुक्तं पुनः पुनर्वार्षपर्वणीरमणं स्वीकार्यम् । शुक्रः ।
धर्मज्ञः सन्महाराज यो धर्ममकृथाः प्रियम् ।
तस्माज्जरा त्वामचिराद्धर्षयिष्यति दुर्जय ।
ननु न काञ्चनेत्यादिश्रुत्यर्थो न भारतवचनवैरूप्यादिति । तथा हि । ययातिः ।
ऋतुं वै याचमानाया भगवन्नान्यचेतसा ।
दुहितुर्दानवेन्द्रस्य धर्म्यमेतत्कृतं मया ।
ऋतुं यो याचमानाया न ददाति पुमान्धृतः ।
भ्रूणहेत्युच्यते ब्रह्मन्स इह ब्रह्मवादिभिः ।
अभिकामांस्त्रियश्च गम्यां रहसि याचितः ।
नोपैति सहधर्मेण भ्रूणहेत्युच्यते बुधैरितीति चेत् । चेतश्चेतः परं वा प्रवेशय पद्येषु । नान्यचेतसा गम्यामिति । धर्मेणेति सा चानन्यपाणिगृहीतीति । नेतरनरकामुकी न स्वैरिणी गम्या कुलादिमतीत्येतैर्विशेषणैस्तां विशेषाशेषवित् । अन्यथा राज्यभाक्तं तदपत्यानां न स्यादित्युक्त एवार्थः । तथा पूर्वं वयः परित्यज्य जरासन्धोऽन्वपद्यतेत्युक्तेरव्यवहृतिर् व्यवहृतिर्लडर्थतयाऽस्माभिर्वर्णिता युक्तेति मन्तव्यम् ॥ ३३ ॥
छलारी
व्यजायताजीजनत् ॥ ३३ ॥
गर्भसम्भवमासुर्या भर्तुर्विज्ञाय भामिनी ।
देवयानी पितुर्गेहं ययौ क्रोधविमूर्च्छिता ॥ ३४ ॥
पदरत्नावली
आसुर्याः शर्मिष्ठायाः ॥ ३४ ॥
सत्यधर्मीया
आसुर्या असुरताया भर्तुर्ययातेर्विज्ञाय क्रमात् । यथोक्तमादिपर्वणि । देवयान्युवाच ।
किमिदं वृजिनं सुभ्रूः कृतं वै कामलुब्धया । शर्मिष्टा उवाच । ऋषिरभ्यागतः कश्चित् । देवयानी उवाच । शोभनं भीरु यद्येवं कथं स ज्ञायते द्विजः । गोत्रनामाभिजनतो वेत्तुमिच्छामि तं द्विजम् । शर्मिष्टा उवाच । ओजसा तेजसा चैव दीप्यमानो यथा रविः । तं दृष्ट्वा मम न प्रष्टुं शक्तिरासीच्छुचिस्मिते । देवयानी उवाच । यद्येवं तर्हि शर्मिष्टे न मन्युर्विद्यते ममेति । पितुः शुक्रस्य मध्येऽध्वराजप्रार्थनादिकमलक्षयित्वेति ज्ञेयम् । यथोक्तम् । तत्र व्यथितस्तदा । अनुवव्राज सम्भ्रान्तः पृष्टतः सान्त्वयन्नृपः । न्यवर्तत न चैवाथ क्रोधसंरक्तलोचनेत्यादि ॥ ३४ ॥
छलारी
आसुर्याः शर्मिष्ठाया भर्तुः सकाशाद्गर्भसम्भवं गर्भोत्पत्तिम् ॥ ३४ ॥
प्रियामनुगतः कामी वचोभिरभिमन्त्रयन् ।
न प्रसादयितुं शेके पादसंवाहनादिभिः ॥ ३५ ॥
सत्यधर्मीया
अभिमन्त्रयन् गुप्तजपनमपनयनार्थं रुषः कुर्वन् ॥ ३५ ॥
छलारी
अभिगतोऽभिमुखं गतः । वचोभिः सांत्ववचनैरुपमन्त्रयन्प्रसादयन् संवाहनं स्पर्शः ॥ ३५ ॥
शुक्रस्तमाह कुपितः स्त्रीकामानृतपूरुष ।
त्वां जरा विशते मन्द विरूपकरणी नृणाम् ॥ ३६ ॥
पदरत्नावली
हे स्त्रीकाम अनृतपुरुष । असत्यवादिपुरुष । विशत इति लट् लोडर्थे । जरा त्वामाविशतामिति शापमदादित्यर्थः ॥ ३६ ॥
सत्यधर्मीया
तं स्वोपचारमुपचरन्तं, ययातिश्च पूजयामास भार्गवमिति तत्रोक्तेः । स्त्रीकाम अनृतपुरुष मिथ्याभाषिपुरुष । येन तारुण्येन मत्तो वार्षपार्वणीसङ्गममकार्षीस्तदेव गमयामीति कोपपरवशो बभाष इति भाषते ॥ त्वां जरेति ॥ नृणां विरूपत्वसम्पादका जरा त्वां विशते इत्युक्तेस्तत्सक्तेश्चाव्यवधानं सूचयति । लटेवं त्वं विशेत्यशंसनेन च जरा स्वातन्त्र्येण विनियमनं मनसि वर्तत इति ध्वनयामासेति ज्ञेयम् । आत्मनेपदेन व्यत्यसनयोग्यतां ध्वनयति । जरां विशते तुभ्यं विरूपकरणी विलक्षणरूपान्तरप्रापिका चेति तदान्तरङ्गिको भावश्च व्यत्ययेन ध्वनित इति वा ॥३६॥
छलारी
विकृतं रूपं करोतीति तथा ॥ ३६ ॥
ययातिरुवाच —
अतृप्तोऽस्म्यद्य कामानां ब्रह्मन् दुहितरि स्म ते ।
व्यत्यस्यैतां यथाकामं वयसा यो हि दास्यति ॥ ३७ ॥ (वि.पाठः-योऽभिधास्यति )
पदरत्नावली
ते तव दुहितरि कामानां स्म शब्दादिविषयाणां स्मरणेनातृप्तोऽस्मि अलम्बुद्धिं न प्राप्तोऽस्मि । स्मृतौ वृत्ते निषेधे स्म स्वः स्वर्गपरलोकयोः’ इत्यभिधानम् । अत एव ममानुग्रहः कर्तव्य इत्याह– व्यत्यस्येति ॥ यो मह्यं वयोऽभिधास्यति तस्मिन्नेतां जरां व्यत्यस्य सङ्क्रमय्य तद्वयसा यथाकामं भुञ्ज इति ॥ ३७ ॥
सत्यधर्मीया
हे ब्रह्मन् शुक्र । कामानां कामैर्विषयभोगैरतृप्तोऽनलम्बुद्धिरस्मि । भवतु भवांस्तथा । मम किं कथयसि । त्वं कोऽहं क इति न किलेत्यालपति । ते तव दुहितरि पुत्र्यां देवयान्यामिति । कामसम्बन्धितृप्तिशून्य इति वा । दुहितरीत्यनेन तृप्तेरुभयसम्बन्धित्वेन तदतृप्तिमपि सूचयति स्म । निन्दितामेतां जरामित्यन्वयो वा । अकालालाभान्निन्दितता । यो तनयो वयस्तरुणतां दास्यति तस्मा एतां व्यत्यस्य विनिमयेन दत्वा यथाकाममिच्छानुसृति वयसा तदीयेन वर्त इति ॥३७॥
छलारी
कामानां भोगैरिति शेषः । अत एव ममानुग्रहः कर्तव्य इत्याह ॥ व्यत्यस्येति ॥ यो मह्यं स्वयं यस्तारुण्यमभिधास्यति तस्मिन्नेतां जरां व्यत्यस्य संक्रमय्य तद्वयसा यथाकामं भुञ्जे । इति प्रार्थयामासेति शेषः । तर्हि तथाऽस्त्विति लब्धव्यवस्थितिरभूदिति ज्ञेयम् ॥ ३७ ॥
श्रीशुक उवाच—
इति लब्धव्यवस्थानः पुत्रं ज्येष्ठमवोचत ।
यदो तात प्रतीच्छेमां जरां देहि निजं वयः ॥ ३८ ॥
पदरत्नावली
तर्हि तथास्त्विति लब्धव्यवस्थानो लब्धं जराया व्यवस्थानं येन स ययातिर्ज्येष्ठं पुत्रमुवाच । प्रतीच्छ गृहाण ॥ ३८ ॥
सत्यधर्मीया
एवमर्थितः कविरोञ्चकारेत्यर्थमितिना सूचयति । यथोक्तम्– नाहं मिथ्या ब्रवीम्येतज्जरां प्राप्नोषि भूमिप । जरामेनां त्वमन्यस्मै सङ्क्रामय यदीच्छसीति । भारते आदिपर्वणि । इत्यनुग्रहमनसोशनसा लब्धं व्यवस्थानं येन स तथा । ज्येष्ठं पुत्रमिदमुवाच । प्रतीच्छ गृहाण ॥ ३८ ॥
छलारी
इति लब्धव्यवस्थानो जराया व्यवस्थितिर्येन सः । प्रतीच्छ गृहाण ॥ ३८ ॥
मातामहकृतां वत्स न तृप्तो विषयेष्वहम् ।
वयसा भवदीयेन रंस्ये कतिपयाः समाः ॥ ३९ ॥
पदरत्नावली
मातामहेन शुक्रेण कृताम् । रस्ये सुरतमनुभवामि ॥ ३९ ॥
सत्यधर्मीया
त्वन्मातामहविहितोऽयं घातस्तात यतस्ततस्त्वमेवैतद्गृहीत्वा वितर तव वय इत्यवयति ॥ मातामहेति । प्रान्तपर्यन्तं नेत्याह । रंस्ये कतिपयाः समाः संवत्सरानिति ॥ ३९ ॥
छलारी
मातामहकृतां शुक्रकृताम् । जरामिति पूर्वेणान्वयः ॥ ३९ ॥
यदुरुवाच —
नोत्सहे जरया स्थातुमन्तरा प्राप्तया तव ।
अविदित्वा सुखं ग्राम्यं वैतृष्ण्यं नैति पूरुषः ॥ ४० ॥
पदरत्नावली
अन्तरा मध्ये प्राप्तया । पूरुषो ग्राम्यं सुखमविदित्वा अननुभूय वैतृष्ण्यं वैराग्यं नैत्यतो जरया स्थातुं नि नोत्सहे ॥ ४० ॥
सत्यधर्मीया
अन्तरा मध्ये । पूरुषो ग्राम्यं सुखमविदित्वा वैतृष्ण्यं वितृष्णतां नैत्यतो जरया स्थातुं नोत्सहे ॥ ४० ॥
छलारी
अन्तरा प्राप्तया मध्ये प्राप्तया । कुतो नोत्सह इति तत्राह ॥ अविदित्वेति ॥ अविदित्वाऽननुभूय । वैतृष्ण्यं वैराग्यम् ॥ ४० ॥
तुर्वसुश्चोदितः पित्रा द्रुह्युश्चानुश्च भारत ।
प्रत्याचख्युरधर्मज्ञा ह्यनित्ये नित्यबुद्धयः ॥ ४१ ॥
पदरत्नावली
प्रत्याचख्युर् निराकृतवन्तः । अनित्ये क्षणभङ्गुरे ॥ ४१ ॥
सत्यधर्मीया
अधर्मज्ञा जीवतोर्वाक्यकरणादिकर्मज्ञानहीना अनित्ये क्षणक्षयिष्णुनि शरीरे वयसि वा । यदुतुर्वसुद्रुह्यानूनामनाज्ञाकारिणां क्रमात्स सन्ततिराज्यानर्हतात्मा म्लेञ्छराजतात्मा दाशदेशेशतात्मा च बालकबाल्यमृत्यात्मा चेति चतुर्णां शापो भूपं प्रति उक्त आदिपर्वणि ज्ञेयः ॥ ४१ ॥
छलारी
प्रत्याचख्युर्निराकृतवन्तः ॥ ४१ ॥
अपृच्छत् तनयं पूरुं वयसोनं गुणाधिकम् ।
न त्वमग्रजवद् वत्स मां प्रत्याख्यातुमर्हसि ॥ ४२ ॥
पदरत्नावली
वयसोनं कनिष्ठम् । मां मदाज्ञाम् । प्रत्याख्यातुं निराकर्तुम् ॥ ४२ ॥
सत्यधर्मीया
वयसोनं गुणैरधिकं च पूरुमपृच्छत् । तव वयो देहीत्यप्राक्षीत् । नानयमयं तनुयादिति मततद्गुणोऽपि ज्ञातचतुरस्थल्याज्ञाभङ्ग इति किञ्चिच्छङ्कितचेता मुखबन्धं तनुते ॥ न त्वमिति ॥ अग्रजा इवाग्रजवत् ॥ ४२ ॥
छलारी
अनित्ये यौवने वयसोनं कनिष्ठं मां मदाज्ञामित्यर्थः । प्रत्याख्यातुं निराकर्तुम् ॥४२॥
पूरुरुवाच —
को नु लोके मनुष्येन्द्र पितुरात्मकृतः पुमान् ।
प्रतिहर्तुं क्षमो यस्य प्रसादाद् विन्दते परम् ॥ ४३ ॥ (छ.पाटः-प्रतिकर्तुं)
पदरत्नावली
हर्तुम् । परं लोकम् ॥४३॥
हे मनुष्येन्द्र यस्य प्रसादात्परं नारायणं विन्दति प्राप्नोति । तस्यात्मकृतो देहकृतः पितुर्लोकेऽस्मिन् लोकेऽपि कः पुमान्प्रतिहन्तुं प्रतिकर्तुं क्षम इति । एतेनास्मिन् लोक इव परलोकेऽपि पितुः प्रतिकर्तुं क्षमः कोऽपि नास्ति । ततोऽस्मिन् लोक इति विशिष्यकथनं व्यर्थमिति दूषणं निरस्तम् । अपि शब्दाध्याहारेण लोक इत्यस्य न केवलं परलोके किंत्वस्मिन् लोकेऽपीत्यर्थ इत्यभ्युपगमात् । एतेनैव पितुर्निराकरणस्य बहुभिः क्रियमाणत्वात्पितुः प्रतिहर्तुं कः क्षम इति कथनमयुक्तमिति चोद्यमपि निरस्तम् । प्रतिहर्तुमित्यस्य निराकर्तुमित्यर्थ इत्यनभ्युपगमात् ॥ ४३ ॥
इति श्रीभागवतटिप्पण्यां पञ्चदशोऽध्यायः ॥ ९-१५ ॥
सत्यधर्मीया
गुणाधिकतास्थेमानं तन्वंस्तनुज आह ॥ को न्विति ॥ आत्मकृतः शरीरनिर्मातुः को नु पुमान्प्रतिहर्तुं नेति प्रतिव्याहर्तुं क्षमः शक्तः । न केवलं कलेवरमात्रनिर्मातृतैहिकी किन्तु यत्प्रसादेन परं हरिं विन्दते प्राप्नोति । यो जरां गृह्णाति तस्य राज्यं भवेदिति राजार्थना शुक्राज्ञा च तद्विषयेऽनुसन्धेया । यथोक्तं मात्स्ये । ययातिः । ‘राज्यभाक् सम्भवेद्ब्रह्मन् पुण्यभाक्कीर्तिभाक् तथा । यो दद्यात्तु वयः पुत्रस्तद्भवाननुमन्यताम्’ । वयो दास्यति यः पुत्रः स वै राजा भविष्यतीत्यादिना ॥ ४३ ॥
छलारी
आत्मकृतः शरीरकर्तुः । प्रतिकर्तुं निराकर्तुम् । परं ब्रह्म विन्दते जानाति, परलोकं विन्दते प्राप्नोतीति वा ॥ ४३ ॥
उत्तमश्चिन्तितं कुर्यात् प्रोक्तकारी तु मध्यमः ।
अधमोऽश्रद्धया कुर्यादकर्तोच्चरितं पितुः ॥ ४४ ॥
पदरत्नावली
चिन्तितम्, पितुरिति शेषः । उच्चरितं पुरीषरूपः ॥ ४४ ॥
सत्यधर्मीया
प्रागेव परस्परं न वित्तवार्तोऽहम् । नो चेद्विना त्वदाज्ञां प्रार्थनयाऽनया जरा राजन्ग्रहीतुं शक्येति पश्चात्तापमर्थादुपदर्शयन् वक्ति ॥ उत्तम इति ॥ अश्रद्धयाऽविश्वासेन । उक्तावप्यकर्ता पितुर् उच्चरितं शर्धरूपः । अकर्तारश्च स्वज्येष्ठा इति पितृसमास्तानिदमपदेशेन निनिन्द कथं पुरुज्ञः पूरुरिति शङ्कां तेषां समेषां सम्पादितशापत्वान्न तन्निन्दने नाहं प्रत्यवेयामिति पुरुभावरूपविशेषसूचकस्तुः पराचकारेति ज्ञेयम् ॥ ४४ ॥
छलारी
चिन्तितम् । पितुरिति सम्बन्धः । उच्चरितं पुरीषप्रायः ॥ ४४ ॥
इति प्रमुदितः पूरुः प्रत्यगृह्णाज्जरां पितुः ।
सोऽपि तद्वयसा कामान् यथावज्जुजुषे नृपः ॥ ४५ ॥
पदरत्नावली
जुजुषे बुभुजे ॥ ४५ ॥
सत्यधर्मीया
प्रमुदितः पितृसेवोपयुक्तं वयो जातमिति जातसन्तोषः । सङ्क्रमणं तु शुक्रस्मरणबलतः । यथोक्तं तत्रैव । सङ्क्रामयिष्यसि जरां यथेष्ठं नहुषात्मज । मामनुध्याय भावेनेति । सोऽपि ययातिरपि जुजुषे असेवत ॥ ४५ ॥
छलारी
इत्युक्त्वा सोऽपि ययातिरपि जुजुषे बुभुजे ॥ ४५ ॥
सप्तद्विपपतिः सम्यक् पितृवत् पालयन् प्रजाः ।
यथोपजोषं विषयान् जुजोषाऽव्याहतेन्द्रियः ॥ ४६ ॥
पदरत्नावली
यथोपजोषं यथासुखम् । अव्याहतेन्द्रियो ऽप्रतिहतेन्द्रियपाटवशक्तिः ॥ ४६ ॥
सत्यधर्मीया
यथोपजुषं स्वप्रीत्यनुसारेण ॥ ४६ ॥
छलारी
पितृवन्नहुषवत् । अप्रतिहतेन्द्रियपाटवशक्तिर्ययातिर्यथोपजोषं यथा सुखम् ॥ ४६ ॥
देवयान्यप्यनुदिनं मनोवाग्देहवस्तुभिः ।
प्रेयसः परमां प्रीतिमुवाह प्रेयसी रहः ॥ ४७ ॥
पदरत्नावली
प्रेयसः भर्तुः ॥ ४७ ॥
सत्यधर्मीया
वस्तुभिस् तत्प्रीतिपदार्थैः प्रेयसो भर्तुः ॥ ४७ ॥
छलारी
प्रेयसः पत्युः । प्रेयसी परमप्रिया ॥ ४७ ॥
अयजद् यज्ञपुरुषं क्रतुभिर्भूरिदक्षिणैः ।
सर्वदेवमयं देवं सर्ववेदमयं हरिम् ॥ ४८ ॥
पदरत्नावली
मयट् प्राधान्यार्थः । सर्वदेवप्रधानं सर्ववेदवेद्यं च हरिमयजत् ॥ १८ ॥
सत्यधर्मीया
भूरिदक्षिणैर्बहु दक्षिणा येषां तैः । भूरि सुवर्णमेव दक्षिणा येषां त इति वा । भूरिर्ब्रह्माच्युतेशेषु भूरिप्राज्यसुवर्णयोरिति विश्वः । सर्वदेवप्रधानमिति सर्वदेवमयं सर्ववेदवेद्यं च हरिमयजत् ॥ ४८ ॥
छलारी
मयट् प्राधान्यार्थः ॥ ४८ ॥
यस्मिन्निदं विरचितं व्योम्नीव जलदावलिः ।
नानेव भाति नाभाति स्वप्नमायामनोरथः ॥ ४९ ॥
पदरत्नावली
स्वप्नमायामनोरथवदनित्यम्, अस्वतन्त्रं चेति शेषः ॥ ४९ ॥
सत्यधर्मीया
माधवाराधनमेव मेधैर्विधातव्यं कुत इत्यत आह ॥ यस्मिन्निति ॥ यस्मिन्निदं विश्वं विरचितं व्योमि्न जलदावलिरिव नानेव भात्यपेक्षितमुपेक्षितं नाभाति स्वप्नमायामनोरथवदस्थिरम् । व्याख्यातचरमिदं पदत्रयम् ॥ ४९ ॥
छलारी
तस्य यजनकालेऽनुसन्धानप्रकारमाह ॥ यस्मिन्निति ॥ अस्य तमेवेत्युत्तरेणान्वयः । इदं सर्वं जगद्यस्मिन्हरौ विरचितं सम्बद्धम् । यदाश्रयतया तिष्ठतीत्यर्थः । तत्र दृष्टान्तः ॥ व्योम्नीवेति ॥ यथा मेघावलिराकाशश्च यथा तिष्ठति तथेत्यर्थः । ननु जगतो मिथ्यात्वात्कथं तदाश्रयतयाऽवस्थानमित्यत आह ॥ नानेवेति ॥ इवेत्यस्योत्तरत्रानुषङ्गः । नाना नानाविधं जगज्जीवानां सृष्टिकाले भाति प्रलयकाले न भाति । तत्र दृष्टान्तः ॥ स्वप्नमायामनोरथ इति ॥ स्वाप्नपदार्थः स्वप्नावस्थायां प्रतीयते सुप्तौ न प्रतीयते तद्वदित्यर्थः । एवमेव मायामनोरथ इवेति व्याख्येयम् । तदुभयं जगद्भगवान् । ईक्षत इति शेषः । तथा च जगतः सर्वदेश्वरेण दृश्यमानत्वान्न मिथ्यात्वमिति भावः ॥ तदुक्तम् । ‘क्वचिद्विभातं क्वच तत्तिरोहितमविद्धदृक् साक्ष्युभयं तदीक्षत’ इति । अन्यत्रापि । ‘न च मायाविना माया दृश्यते विश्वमीश्वरः। सदा पश्यति तेनेदं न मायेत्यवधार्यताम्’ इति । यद्वा । स्वप्नमायामनोरथ इवेदं जगदनित्यम् । अस्वतन्त्रं चेति शेषः । कुतः । अनित्यत्वविकारित्वपारतन्त्र्यादिरूपतः स्वाप्नादिसाम्यं जगतो न तु बोधनिवर्तत इत्युक्तेः ॥ ४९ ॥
तमेव हृदि विन्यस्य वासुदेवं गुहाशयम् ।
नारायणमणीयांसं निराशीरयजत् प्रभुः ॥ ५० ॥
पदरत्नावली
गुहाशयं हृदयगुहास्थितम् । निराशीर् विषयाभिलापरहितः ॥ ५० ॥
सत्यधर्मीया
गुहाशयं हृदयगुहानिहितं वासुदेवम् । गतम् । निराशीरितरविषयाभिलाषरहितः । श्लोकद्विकान्वयि ॥ ५० ॥
छलारी
गुहाशयं हृदयगुहास्थितम् । निराशीः फलेच्छारहितः ॥ ५० ॥
एवं वर्षसहस्त्राणि मनःषष्ठैर्मनःसुखम् ।
विदधानोऽपि नातृप्यत् सार्वभौमः कदिन्द्रियैः ॥ ५१ ॥
इति श्रीमद्भागवते नवमस्कन्धे पञ्चदशोऽध्यायः ।
पदरत्नावली
कदिन्द्रियैः कुत्सितेन्द्रियैः ॥ ५१ ॥
इति श्रीमद्भागवतटीकायां विजयध्वजतीर्थभिक्षुकृतायां नवमस्कन्धस्य पञ्चदशोऽध्यायः ॥
सत्यधर्मीया
मनःषष्ठैः कदिन्द्रियैः कुत्सितानि च तानीन्द्रियाणि च तैः । कोः कत्तत्पुरुषेऽचीति कदादेशः । मनःसुखं विदधानः सार्वभौमः । गतम् । नातृप्यत्तृप्तो नाभूत् ॥ ५१ ॥
इति श्रीसत्यधर्मयतिकृतायां भागवतटिप्पण्यां नवमस्कन्धे पञ्चदशोऽध्यायः ।
छलारी
मनः षष्ठैर् मनसा सह षट् सङ्ख्याकैः कदिन्द्रियैर्दुष्टेन्द्रियैः । मनःसुखं मनःप्रीतिम् । विदधानः कुर्वन् ॥ ५१ ॥
इति श्रीछलारी शेषाचार्यकृतायां भागवतटिप्पण्यां नवमस्कन्धे पञ्चदशोऽध्यायः ।