पित्रोपशिक्षितो रामस्तथेति कुरुनन्दन
॥ अथ चतुर्दशोऽध्यायः ॥
श्रीशुक उवाच—
पित्रोपशिक्षितो रामस्तथेति कुरुनन्दन ।
संवत्सरं तीर्थचर्यां चरित्वाऽऽश्रममाव्रजत् ॥ १ ॥
पदरत्नावली
हर्यवतारो भार्गवरामस् तथेत्युक्त्वा, अयोग्यजनान् मोहयन् इति शेषः । तदुक्तम् ‘अपापमपि देवेशं पितरः संन्यवारयन् । अजानन्तोऽस्य माहात्म्यं मोहितास्तस्य मायया । मोहयन् मायया लोकं चक्रे चापचितिं वधे । पुण्यपापादिनिर्मातुः कुतः पापादिसङ्गतिः’ इति चरित्वा कृत्वा ॥ १ ॥
सत्यधर्मीया
संवत्सरमेकं चरित्वा कृत्वाऽऽश्रमं, स्वमश्रमं यथा भवति तथेति वा ॥ १ ॥
छलारी
पित्रा रामस्य महात्म्यमजानता जमदग्निनोपशिक्षितः पूर्वोक्तरीत्या शिक्षितः । पापरहितोऽपि हर्यवतारो भार्गवरामः । तथेत्युक्त्वा । अयोग्यजनं मोहयन्नेवेति शेषः । स्वेच्छयैव तीर्थयात्रारूपं प्रायश्चित्तं चरित्वा स्वाश्रममावृजदिति ॥ तदुक्तम्–
अपापमपि देवेशं पितरः संन्यवारयन् ।
अजानन्तोऽस्य माहात्म्यं मोहितास्तस्य मायया ।
मोहयन्मायया लोकं चक्रे चापचितिं वधे ।
पुण्यपापादिनिर्मातुः कुतः पापादिसङ्गतिरिति चेति ॥ १ ॥
कदाचिद् रेणुका याता गङ्गायां पद्ममालिनम् ।
गन्धर्वराजं क्रीडन्तमप्सरोभिरपश्यत ॥ २ ॥
पदरत्नावली
याता, गङ्गामिति शेषः ॥ २ ॥
सत्यधर्मीया
याता सती । पद्मानां मालाऽस्यास्तीति स तथा । तमप्सरोभिः क्रीडन्तमपश्यतापश्यत् ॥ २ ॥
छलारी
रेणुका तत्पत्नी याता । गङ्गां प्रतीति शेषः । गङ्गायां क्रीडन्तं क्रीडां कुर्वन्तमित्यन्वयः ॥ २ ॥
विलोकयन्ती क्रीडन्तमुदकार्थं नदीं गता ।
होमवेलां न सस्मार किञ्चिच्चित्ररथस्पृहा ॥ ३ ॥
पदरत्नावली
किञ्चिद् ईषच्चित्ररथे स्पृहावती जाता ॥ ३ ॥
सत्यधर्मीया
क्रीडन्तं गन्धर्वराजमुदकार्थं नदीं गता विलोकयन्ती होमवेलां न सस्मार । तन्नाम स्वयमेव मूलकृदाह ॥ किञ्चिच्चित्ररथस्पृहेति ॥ ३ ॥
छलारी
किञ्चिदीषच्चित्ररथे गन्धर्वराजे स्पृहा यस्याः सा ॥ ३ ॥
विरोधोद्धार—होमवेलामिति ॥ अत्र रेणुकायास्तन्महात्म्ये पार्वत्यंशत्वमुच्यते । तदा तस्याश्चित्ररथगन्धर्व-स्पृहोक्तावनर्थप्रसङ्गेन विरोधोऽतोऽस्यार्थान्तरमुच्यते । चित्रं हि लोकविलक्षणमुच्यते । अतस्त्र्यक्षत्वादिलोकवैलक्षण्येन चित्र आश्चर्यरूपो रथो देहो यस्य स चित्ररथो रुद्रः । शरीरं रथमेव चेति श्रुतेः । तस्मिन् स्पृहा कामना यस्याः सा अप्सरोगन्धर्वक्रीडादर्शनेन स्वभर्तृरुद्रा-सक्तचित्ताऽभूदिति भावः । अतः किञ्चित्कालं होमवेलां न सस्मारेत्यर्थः । यद्वा । रथस्त्वश्वतरीयुक्तश्चित्र इत्यभिधीयते इत्युक्तेः । स चासौ रथश्चेति कर्मधारयस् तस्मिन् रथे स्पृहा । क्षत्रकुल एव वैभवादेतादृशरथप्राप्तिर्न तु विप्रकुले । एवं लक्षणा वासना यस्याः सा । अथवा । न किञ्चित्स्वल्पमपि चित्ररथे गन्धर्वे स्पृहावती आसीत् । किन्तु होमवेलां सस्मारेत्यर्थः । किंवा । चित्रारतिर्यस्य स चित्ररो रुद्रस्तस्मिंस्तिष्ठतीति चित्र रथा तथाविधा स्पृहा यस्याः सा । पृषोदरादित्वात्सलोपः । उत वा । चित्रः शबलवर्णमेष्यो वाहनं यस्य तस्मिन्नग्नौ चित्रस्तन्त्रसारोक्त-दिशाऽनेकवर्णो गरुडो रथो वाहनं यस्य तस्मिन्विष्णौ वा स्पृहा भक्तिर्यस्याः सा रेणुका होमवेलां किञ्चित्स्वल्पं न सस्मार किन्तु पूर्णं सस्मारेति । अन्यथा तत्काले गमनायोगादिति ॥ ३ ॥
इति श्रीभागवतटिप्पण्यां चतुर्दशोऽध्यायः ॥ ९-१४ ॥
इति श्रीभागवते पाङ्घरी श्रीनिवासाचार्यकृतविरोधोद्धारे नवमः स्कन्धः समाप्तः ॥ ९ ॥
कालात्ययं तं विलोक्य मुनेः शापविशङ्किता ।
आगत्य कलशं तस्थौ पुरोधाय कृताञ्जलिः ॥ ४ ॥
पदरत्नावली
कलशं पुरोधाय भर्तुरग्रे निधाय तत्रैव कृताञ्जलिस्तस्थौ ॥ ४ ॥
सत्यधर्मीया
कालात्ययं तं विलोक्याङ्गस्मृतिमती मुनेः शापविशङ्किता सती कलशं गृहे पुरो निधाय तस्थौ ॥ ४ ॥
छलारी
कालात्ययं होमकालातिक्रमम् । कलशं पुरोधाय भर्तुरग्रे निधाय ॥ ४ ॥
व्यभिचारं मुनिर्ज्ञात्वा पत्न्नयाः प्रकुपितोऽब्रवीत् ।
घ्नतैनां पुत्रकाः पापामित्युक्तास्तां न चक्रिरे ॥ ५ ॥
पदरत्नावली
घ्नत हतां कुरुते । तां हतिम् ॥ ५ ॥
सत्यधर्मीया
व्यभिचारं किञ्चिच्चित्ररथस्पृहेत्युक्तम् । मनसा चित्ररथस्पृहारूपम् । हे पुत्रका एनां पापां घ्नतेत्यब्रवीदिति पित्रोक्तास्तां हिंसां न चक्रिरे । तन्नेति पाठे हननमिति वा तद्वचनं वेत्यर्थः ॥ ५ ॥
छलारी
घ्नत हतां कुरुत । व्यभिचारमानसां ताम् । मातृहत्याम् ॥ ५ ॥
रामः सञ्जोदितः पित्रा भ्रातॄन् मात्रा सहावधीत् ।
प्रभावज्ञो मुनेः सम्यक् समाधेस्तपसश्च सः ॥ ६ ॥
दुर्घटभावदीपिका
रामः परशुरामः पित्रा जमदग्निना सञ्चोदितः सम्प्रेरितः सन् मात्रा सह भ्रातॄनवधीत् । सत्यवतीसुतो जमदग्निर्मात्रादीनां वधेन प्रीतः सन् वरेण परशुरामं छन्दयामास तोषयामास । रामः परशुरामोऽपि हतानां मात्रादीनां जीवितं वधे विषयेस्मृतिं च वरं वव्रे अशक्यं वरं कथं वव्र इत्यत आह ॥ प्रभावज्ञो इति ॥ स रामो यतो मुनेर्जमदग्निमुनेः समाधेस्तपसश्च सम्यक् प्रभावमो मृतजीवनाद्यनुकूलप्रभावज्ञोऽतो जीवनादि वरं वव्र इत्यन्वयः । ततो राममात्रादयः कुशलिनः सन्तो निद्रापाये निद्रापगम इवाञ्जसोत्तस्थुः । ननु परशुरामः पापहेतुमात्रादिवधं कथं कृतवादित्यत आह ॥ पितुरिति ॥ रामो यतः पितुर्जमदग्नेस्तपसो वीर्यं भ्रात्रादिवधनिमित्तकपापाश्लेषहेतुतपःसामर्थ्यं विद्वानतः सुहृद्वधं मात्रादीनां वदं चक्र इति । एतेन पितुर्विद्वांस्तपोवीर्यं रामश्चक्रे सुहृद्वधमित्येतत्सरामो यतो मुनेः समाधेस्तपसश्च प्रभावज्ञोऽतो मात्रा सह भ्रातृनवधीदित्यनेन पुनरुक्तमिति दूषणं परिहृतम् । प्रभावज्ञो मुनेरित्यस्य भ्रातृन्मात्रा सहानवधीदित्यनेनान्वयमनङ्गीकृत्य वव्रे हतानां रामोऽपीत्यननोन्वय स्योक्तत्वात् ॥ ६,७,८ ॥
सत्यधर्मीया
भ्रातॄन् मात्रा सहावधीत् । तेषां च वधः स्वाज्ञोल्लङ्घनान्मुनिना ज्ञापित इति ज्ञेयम् । माता गरीयसी मातरित्यादेः कथं रामो मातरं तातबोधितो घातयामसेत्यत आह ॥ प्रभावज्ञो मुनेः पितुरिति । समाधेस्तपसश्च प्रभावज्ञ इत्यन्वेति ॥ ६ ॥
छलारी
आज्ञातिलङ्घिनां भ्रातॄणां मातुश्च वधे सञ्चोदितः सन्मुनेः समाधेस्तपसश्च प्रभवाज्ञः । यदि न हन्यां तर्हि मामपि शपेत् । यदि तु हन्यां तर्हि मयि सन्तुष्टः संस्तानपि जीवितुं समर्थ इति जानन्नित्यर्थः ॥ ६ ॥
वरेण छन्दयामास प्रीतः सत्यवतीसुतः ।
वव्रे हतानां रामोऽपि जीवितं चास्मृतिं वधे ॥ ७ ॥
तात्पर्यम्
— ‘जामदग्न्यो वरं वव्रेऽनन्तशक्तिरपि स्वयम् । पितुर्मान्यत्वसिद्ध्यर्थं लोके लोकेश्वरः प्रभुः । अपापमपि देवेशं पितरः संन्यवर्तयन् । अजानन्तोऽस्य माहात्म्यं मोहितास्तस्य मायया । मोहयन्मायया लोकं चक्रे चापचितिं वधे । पुण्यपापादिनिर्मातुः कुतः पापादिसङ्गतिः’ इति च ॥८॥
पदरत्नावली
मुनेः समाधेस् तपसश्च सम्यक् प्रभावज्ञः । ’प्रतापमाहात्म्ययोः प्रभावः स्यात्’ इत्यभिधानम् ॥ छन्दयामास वशीचकार । वशाभिप्राययोश्छन्दः’ इत्यभिधानम् । वधे अस्मृतिं वयं रामेण हता इति स्मृतिशून्यत्वलक्षणं वरं च ॥ ७ ॥
सत्यधर्मीया
वरेण छन्दयामासेति श्लोके साक्षादधोक्षजस्य वरवरणं पितरं प्रत्युच्यते । तदसम्भवि भगवतीत्यतः प्रमाणेन तदर्थमाह ॥ जामदग्न्य इति ॥ प्रभुर्लोकेश्वरः स्वयमनन्तशक्तिर्भगवान् सन्नपि वरं वव्रे । पितुर्जमदग्नेर्लोके मान्यतासिद्ध्यर्थमपापं स्वभावतो देवेशं पितरो जमदग्निमुख्या न्यवारयन् । अस्य रामस्य माहात्म्यमजानतः । अज्ञाने च निमित्तमाह ॥ तस्य रामस्यैव मायया मोहिता इति ॥ अपचितिं प्रायश्चित्तम् । पुण्यपापादिनिर्मातुस्तद्घटयितुः । पापमकार्षीः । तीर्थसंसेवया चांहो जहि । पित्रोपशिक्षितो रामः संवत्सरं तीर्थचर्यां चरित्वेत्यादितात्पर्यमनेनोक्तं वेदितव्यम् । यद्यपि तत्तत्पद्यांशशङ्काशमनायमानीयस्तत्तदंशः शंसनीयस्तथाऽपि स्कान्दसन्दानसन्दर्भानुसारेणोदाहरणमिति ज्ञेयम् । अतो यथायोग्यं योज्यमिति नासङ्गतिः ॥ अथ पद्यार्थः । सत्यवत्याः सुतो जमदग्निः प्रीतः स्वाज्ञानवज्ञानसन्तुष्टश्छन्दयामास वरं वरयेत्याज्ञापयामास । यं स रामोऽपि हतानां मातृभ्रातॄणां जीवितं वव्रे । तथा वधे स्वकृतवधविषये चास्मृतिम् अस्मानयमहन्निति स्मृत्यभावं वरं वव्रे ॥ ७ ॥
छलारी
सत्यवतीसुतः सत्यवत्या गाधिराजपुत्र्याः सुतो जमदग्निः स्ववचनकारिणं स्वपुत्रं रामं वरेणाच्छादयामास । वरं वरयेति रामं प्रत्युवाच । प्रभू रामोऽपि पितुर्मान्यत्वसिद्ध्यर्थं स्वेन महतां मात्रादीनां जीवितं जीवनरूपवरम् । वधेऽस्मृतिरूपवरं च वयं रामेण हता इति स्मरणशून्यत्वलक्षणं वरं च वव्रे प्रार्थयामासेति । तदुक्तम् । जामदग्नेर्वरं वव्रेऽनन्तशक्तिरपि स्वयम् । पितुर्मान्यत्वसिद्ध्यर्थं लोके लोकेश्वरः प्रभुरिति ॥ ७ ॥
उत्तस्थुस्ते कुशलिनो निद्रापाय इवाञ्जसा ।
पितुर्विद्वांस्तपोवीर्यं रामश्चक्रे सुहृद्वधम् ॥ ८ ॥
पदरत्नावली
रामेण एते वसुमदादयो जीवन्ति चेज्जीवन्तु नो चेन्म्रियन्तामिति मत्वा सुहृद्वधो नाकारि । किन्तु स्वसार्वज्ञमीश्वरत्वेन दोषाभावं च प्रकटयितुमिति भावेनेत्याह– पितुरिति ॥ ‘वीर्यं पराक्रमे रेतस्यन्नमाहात्म्ययोरपि’ इति यादवः । पितुस्तपोमाहात्म्यं जानता कृतमिति भावः । साक्षान्नारायणावतारस्य निरवद्यस्य सकलगुणाकरस्य भार्गवरामस्य क्षत्रहत्यादिदोषमार्जनाय तीर्थसेवा मातृभ्रातृवधात् स्वाज्ञाकारित्वेन प्रसन्नात् पितुवरदानमित्यादिकं कथं घटत इतीत्थं शङ्का जामदग्न्यो वरं वत्रेऽनन्तशक्तिरपि स्वयम् । पितुर्मान्यत्वसिद्ध्यर्थं लोके लोकेश्वरः प्रभुः’ । इत्यादिमानेन परिहर्तव्या ॥ ८ ॥
सत्यधर्मीया
निद्रापाये निद्राया अपायेऽतिक्रमे जाग्रतो जना इव कुशलिनः । सा च ते च ते । उत्तस्थुः । पितुस्तपोवीर्यं विद्वानिति रामः सुहृद्वधं चक्रे ॥ ८ ॥
छलारी
ते वसुमदादयो निद्रापाये निद्रापगमे यथा तिष्ठन्ति तथोत्तस्थुः । ननु रामोऽत्यन्तनिन्दितं मात्रादिवधं कथं चकारेत्यत आह ॥ पितुर्विद्वान् इति ॥ ८ ॥
येऽर्जुनस्य सुता राजन् स्मरन्तः स्म पितुर्वधम् ।
रामवीर्यपराभूता लेभिरे शर्म न क्वचित् ॥ ९ ॥
सत्यधर्मीया
का कथा कार्तवीर्यपुर्यामवर्ततेत्यत आह ॥ य इति ॥ येऽर्जुनस्य सुता दशसहस्रसङ्ख्या पितुर्वधं स्मरन्तः । रामवीर्यपराभूता इत्यनेन समक्षसमरासमर्था इति सूचयति । क्वचिदपि शर्म न लेभिरे ॥ ९ ॥
छलारी
सर्वक्षत्रियवधे कारणं वक्तुमाह ॥ येऽर्जुनस्य सुता इत्यादिना । शर्म सुखं न लेभिरे ॥ ९ ॥
एकदाऽऽश्रमतो रामे सभ्रातरि वनं गते ।
वैरं सिषाधयिषवो लब्धच्छिद्रा उपागमन् ॥ १० ॥
पदरत्नावली
लब्धच्छिद्रा लब्धावसराः ॥ १० ॥
सत्यधर्मीया
सभ्रातरि सभ्रातृके वनं गते सति । नद्यृतश्चेति सामान्यतः समासान्तविधेरनित्यतया न कबिति ज्ञेयम् । यद्यपि द्विमातेति ऋक् परव्याकृतौ समाधान एतस्मिन् शक्ये वक्तुम् । मातृमातृकयोर्भेदेनोपादानात् कबपि विभाष्यत इति गत्यन्तरं प्रदर्शितमिति ज्ञेयम् । कथमुत्तरा मातरित्यस्येदमुत्तरमनुसन्धेयम् । वैरं तत्कार्यं सिषाधयिषवः साधयितुमिच्छवो लब्धछिद्रा लब्धावसराः ॥ १० ॥
छलारी
वैरं पितृहन्तू रामस्य पितृहननं कारयितव्यमित्येवं रूपं द्वेषं सिषाधयिषवः साधयितुमिच्छवो लब्धछिद्रा लब्धावसराः ॥ १० ॥
दृष्ट्वाऽग्न्यागार आसीनमावेशितधियं मुनिम् ।
भगवत्युत्तमश्लोके जघ्नुस्ते पापनिश्चयाः ॥ ११ ॥
पदरत्नावली
अग्न्यागारेऽग्निहोत्रगृहे । आवेशितधियं विपयादाहृत्य भगवत्येव निवेशितबुद्धिम् ॥ ११ ॥
सत्यधर्मीया
अग्न्यागारमग्नेरग्निहोत्रस्यागारं गृहम् । विद्यादगारमागारमापगामपगामपीति द्विरूपकोशः । उत्तमश्लोके भगवत्यावेशितधियं जघ्नुः । ये शर्म न लेभिरे ते पापनिश्चया जघ्नुः । स ज्ञानी चेदपि चेतो हरेर्जानन् तूष्णीकोऽभवदिति ज्ञेयम् । अन्यथा मृतपुत्राद्युत्थापनादिकार्यं न स्यादिति भावः ॥ ११ ॥
छलारी
अग्न्यागारेऽग्निहोत्रगृहे । भगवत्येवावेशिता धीर्यस्य तम् ॥ ११ ॥
याचामानाः कृपणया राममात्राऽतिदारुणाः ।
प्रसह्य शिर उत्कृत्य जग्मुस्ते क्षत्रबन्धवः ॥ १२ ॥
पदरत्नावली
क्षत्रबन्धवः क्षत्रियाभासाः ॥ १२ ॥
सत्यधर्मीया
राममात्रा रेणुकया प्रसह्य बलात्कृत्य क्षत्रबन्धवस्तदाभासाः ॥ १२ ॥
छलारी
क्षत्रबन्धवाः क्षत्रियाभासाः । उत्कृत्य छित्वा निन्युः । जमदग्नेः शिर इति शेषः ॥ १२ ॥
रेणुका दुःखशोकार्ता निघ्नन्त्यात्मानमात्मना ।
राम रामेति तातेति विचुक्रोशोच्चकैः सती ॥ १३ ॥
पदरत्नावली
आत्मना यत्नेनात्मानम् उदरवक्षःपुरःसरम् । ‘आत्मा जीवे धृतौ देहे स्वभावे परमात्मनि ॥ यत्नेऽर्केऽग्नौ मतौ वाते’ इति यादवः ॥ १३ ॥
सत्यधर्मीया
आत्मानमुरःपुरःसरमम् आत्मना करादिना उच्चकैरुच्चैः ॥ १३ ॥
छलारी
शोकः प्रलाप आत्मना देहैकदेशेन । हस्तेनेति यावत् । आत्मानं देहवक्षसीत्यर्थः ॥ १३ ॥
तदुपश्रुत्य दूरस्था हा रामेत्यार्तवत्स्वरम् ।
त्वरयाऽऽश्रममासाद्य ददृशुः पितरं हतम् ॥ १४ ॥
पदरत्नावली
दूरस्थाः सुता इति शेषः ॥ १४ ॥
सत्यधर्मीया
तदाक्रोशनम् । आर्तवदिति स्वार्थे वतिः । आर्तमार्तिः । भावे क्तः । आर्तिमत्स्वरं वा । ददृशुः सर्वे कुमाराः ॥ १४ ॥
छलारी
दूरस्थाः । सुता इति शेषः । तस्या मातुः स्वरमित्यन्वयः ॥ १४ ॥
ते दुःखरोषामर्षार्तिशोकवेगविमोहिताः ।
हा तात साधो धर्मिष्ठ त्यक्तवाऽस्मान् स्वर्गतो भवान् ॥ १५ ॥
सत्यधर्मीया
दुःखादीनां वेगेन विमोहिताः ॥ १५ ॥
दुर्घटभावदीपिका
ते जमदग्निसुता दुःखरोषामर्षार्तिशोकवेगविमोहिताः स्वपितृमरणनिमित्तकं दुःखशोकानिमित्त-कोरस्ताडनादिकममर्षोऽसहनमार्तिश्चिन्ताशोकवेगाश्चिन्तादिनिमित्तकदुःखातिशय इत्येतैर्विमोहिता इति । तेन दुःखेत्यादीनां पुनरुक्तिरिति शङ्कानवकाशः ॥ १५ ॥
छलारी
कण्ठादीनां शोषणमार्तिराधिर्दुःखादीनां वेगेनातिशयेन विमोहिताः ॥ १५ ॥
विलप्यैवं पितुर्देहं निधाय भ्रातृषु स्वयम् ।
प्रगृह्य परशुं रामः क्षत्रान्ताय मनो दधे ॥ १६ ॥
पदरत्नावली
क्षत्रान्ताय विशेषेण क्षत्रियकुलनाशाय ॥ १६ ॥
सत्यधर्मीया
एवं विलप्य तात्पर्यं तूक्तं स्मर्तव्यम् । क्षत्रान्ताय तन्नाशं कर्तुं मनो दधे ॥१६॥
छलारी
क्षत्रान्ताय क्षत्रकुलनाशाय मनो दधे जगाम च ॥ १६ ॥
गत्वा माहिष्मतीं रामो ब्रह्मघ्नविहतश्रियम् ।
तस्यां स शीर्षभी राज्ञां मध्ये चक्रे महागिरिम् ॥ १७ ॥
पदरत्नावली
ब्रह्मघ्नैर्जुनसुतैर्विहता नष्टा श्रीयस्यास्ताम् । शीर्षभिस् तस्यां प्रविश्य मध्ये माहिष्मतीमध्ये ॥ १७ ॥
सत्यधर्मीया
ब्रह्मघ्नैः कार्तवीर्यजैस्तन्निमित्तमिति यावत् । विहता श्रीः शोभा यस्याः सा ताम् । गत्वा तस्याम् । राज्ञां, यद्यपि तरतमभावेन भावी राजैक एव । तथाऽपि योग्यता तत्सुतेष्वस्तीति राज्ञामित्युक्तिरिति ज्ञेयम् । परितः पुर्यविद्यमानावन्तरावनीश्वरान् हत्त्वा हित्वा देहं शिरोमात्रमानीय तैः सहैतेषां च शीर्षभिर्मध्ये महागिरिं चक्र इति वा ॥ १७ ॥
छलारी
ब्रह्मघ्नैरर्जुनसुतैर्विहता श्रीर्यस्यास्तां माहिष्मतीं पुरीं गत्वा तस्यां स रामो तेषां शीर्षभिर्माहिष्मतीं मध्ये महान्तं गिरिं चक्रे ॥ १७ ॥
तद्रक्तेन नदीं घोरामब्रह्मण्यभयावहाम् ।
हेतुं कृत्वा पितृवधं क्षत्रेऽमङ्गलकारिणि ॥ १८ ॥
पदरत्नावली
अब्रह्मण्यानां ब्राह्मणद्वेषिणां भयङ्करां नदीम्, चक्र इति पूर्वेणान्वयः । सर्वक्षत्रियवधे निमित्तमाह-हेतुमिति ॥ क्षत्रियसमूहेऽमङ्गलकारिणि अन्यायवर्तिनि सति ॥ १८ ॥
सत्यधर्मीया
तद्रक्तेनोद्रिक्तेन घोरां नदीं चक्रे । केषां घोरेत्यत आह । अब्रह्मण्याश्च ब्राह्मणद्वेषिणस्तेषां भयावहम् । क्षत्रे तदेकदेशेऽमङ्गलकारिणि सति पितुर्वधं हेतुं निमित्तं कृत्वेति ॥ १८ ॥
छलारी
अब्रह्मण्यानां द्वेषिणां भयकारिणां नदीं चक्र इति पूर्वेणान्वयः । तथाऽपि सर्वक्षत्रियवधे किं कारणं तदाह ॥ हेतुं कृत्वेति । क्षत्रियसमूहेऽमङ्गलकारिण्यन्यायवर्तिनी सती ॥१८॥
त्रिः सप्तकृत्वः पृथिवीं कृत्वा निःक्षत्रियां विभुः ।
स्यमन्तपञ्चके चक्रे शोणितोदान् ह्रदान् नव ॥ १९ ॥
पदरत्नावली
स्यमन्तपञ्चके कुरुक्षेत्रे । शोणितान्येवोदकानि येषु ते तथा तान् । हृदान् जलैरगाधप्रदेशान् ॥ १९ ॥
सत्यधर्मीया
शमन्तपञ्चके कुरुक्षेत्रे शोणितोदान् शोणितान्येवोदानि येषु ते । तान्नव ह्रदांश्चक्रे ॥ १९ ॥
छलारी
स्यमन्तपञ्चके कुरुक्षेत्रे । नव नवसङ्ख्याकान् शोणितान्येवोदान्युदकानि येषु तथा तान्ह्रदान् चक्रे ॥ १९ ॥
पितुः कायेन सन्धाय शिर आधाय बर्हिषि ।
सर्वदेवमयं देवमात्मनमयजन्मखैः ॥ २० ॥
पदरत्नावली
शिरः कायेन सन्धाय । बर्हिषि यज्ञ आदाय । दर्भबन्धनविशेषे वा । सर्वदेवमयं सर्वदेवोत्तमम् ॥ २० ॥
सत्यधर्मीया
पितुरिति कायपदेन शिरःपदेनाप्यन्वेति । बर्हिष्यास्तृतदर्भेषु सर्वदेवमयं तत्प्रधानमात्मानं परमात्मानं स्वयमेव वा । मखैरयजत् ॥ २० ॥
छलारी
पितुः शिरः । आनीयेति शेषः । कायेन सन्धाय सन्धितं देहं बर्हिषि वेदिकामध्ये दर्भसमूहे आधाय मखैर्मखसाधनैः स्रुक्स्रुवादिभिराज्यादिभिश्चायजदन्त्येष्टिं चकारेति भावः ॥ २० ॥
ददौ प्राचीं दिशं होत्रे ब्रह्मणे दक्षिणां दिशम् ।
अध्वर्यवे प्रतीचीं वा उद्गात्र उत्तरां दिशम् ॥ २१ ॥
सत्यधर्मीया
होत्रे प्राचीं दिशं ददाविति सर्वत्रान्वेति । ब्रह्मणे दक्षिणां दिशमध्वर्यवे प्रतीचीं दिशमित्यन्वेति । उद्गात्रे उत्तरां दिशमिति । ननु यदि दिशमिति वक्तव्यमवश्यं तर्हि पुनरेकवारं प्रतीचीं दिशमित्यपि वक्तव्यम् । न वक्तव्यं चेद्ददावितिवदेकवारमेव वक्तव्यम् अनुवृत्त्याऽप्यन्वयसम्भवादिति चेत् । सत्यम् । शङ्का निरातङ्का । तथाऽपि निर्मत्सरः शृृणोषि चेत्किञ्चिदुच्यते । प्रतीचीत्वप्राचीत्वोदीचीत्वदक्षिणात्वादयस्त्वव्यवस्थिता इति ध्वननमेवात्र दिक्शब्दानिबन्धनफलमिति तत्त्यागसम्भवात् । यथोक्तं तत्त्वनिर्णयटीकायाम् । अस्माकं प्राच्या एवान्येषां प्रतीचीत्वात् । मैवम् । दिक्स्वरूपमधिकृत्यैतदुच्यते उत प्राच्यादिशब्दवाच्यत्वम् । नाद्यः । स्वरूपस्य व्यवस्थितत्वात् । न द्वितीयः । सम्बन्धिशब्दत्वात् । न हि पितापुत्रादिशब्दा अव्यवस्थिता इत्येतावता पित्रादिस्वरूपं तच्छब्दवाच्यत्वं वा वास्तवं भवतीति ॥ २१ ॥
छलारी
ऊद्गात्रे सामगाय ॥ २१ ॥
अन्येभ्योऽवान्तरदिशः काश्यपाय च मध्यतः ।
आर्यावर्तमुपद्रष्ट्रे सदस्येभ्यस्ततः परम् ॥ २२ ॥
पदरत्नावली
उपद्रष्टे न्यूनातिरिक्तकर्मसाक्षिणे । परम् अवशिष्टम् ॥ २२ ॥
सत्यधर्मीया
अन्येभ्यो नेष्ट्रादिभ्योऽवान्तरदिशो मध्यतो मध्यमामुपद्रष्ट्रे न्यूनाधिकभावेन भवेद् यथा तथा कर्मसाक्षिणे । ततो दिगवान्तरदिङ्मध्यार्यावर्तभिन्नमन्यत् ॥ २२ ॥
छलारी
उपद्रष्टे्र न्यूनातिरिक्तकर्मसाक्षिणे । आर्यावर्तं तन्नामकदेशविशेषम् । परमवशिष्टम् ॥ २२ ॥
ततश्चावभृथस्नानविधूताशेषकिल्बिषः ।
सरस्वत्यां ब्रह्मनद्यां रेजे व्यभ्र इवांशुमान् ॥ २३ ॥
पदरत्नावली
विधूताशेषकिल्बिषत्वमौपचारिकं लोकशिक्षार्थत्वात् । नाम्ना सरस्वत्यां ब्रह्मनद्यां ब्रह्माधिष्ठितायां वेदमय्यां नद्याम्, अवभृथस्नानेन विधूतमशेषाणां जनानां किल्विषं येन सः, विगतान्यभ्राणि यस्मादसौ व्यभ्रो मेघच्छायानिर्मुक्तो ऽंशुमानादित्य इव रेज इत्यन्वयः । अनेनावभृथस्नानेन जनस्याशेषतः किल्विषं विध्वस्तं भवतीति दर्शनाय निर्दोषेण रामेणावभृथस्नानमकारीति सूचितं भवति ॥ २३ ॥
सत्यधर्मीया
अवभृथस्नानेन विधूतमशेषाणामविशेषेण मज्जनवज्जनानां किल्बिषं येन सः । ब्रह्मनद्यामेवं भगवत्सान्निध्ययुतायां सरस्वत्यां नाम्ना । व्यभ्रो विगतान्यभ्राणि मेघा यस्मादसौ व्यभ्रः । सोंऽशुमान् सूर्यः स इव रेजे ॥ २३ ॥
छलारी
ब्रह्मनद्यां ब्रह्माधिष्ठितत्वेन ब्रह्मनदीति प्रसिद्धायां सरस्वत्यामवभृथस्नानेन जनस्याशेषतः किल्बिषं यस्य स तथा । व्यभ्रो मेघच्छाययांऽशुमानिवादित्य इव रेजे इत्यन्वयः । अनेनावभृथस्नानेन जनस्याशेषतः किल्बिषं विध्वस्तं भवतीति निदर्शनाय निर्दोषेण रामेणावभृथस्नानमकारीति सूचितं भवति ॥ २३ ॥
स्वदेहं जमदग्निस्तु लब्ध्वा संज्ञानलक्षणम् ।
ऋषीणां मण्डले सोऽभूत् सप्तमो रामपूजितः ॥ २४ ॥
पदरत्नावली
जमदग्निस्तु संज्ञानलक्षणज्योतिर्मयलक्षणं स्वयोग्यदेहं लब्ध्वा सप्तर्षीणां मण्डले सप्तमः, ऋषिरिति शेषः, अभूदित्यन्वयः ॥२४॥
सत्यधर्मीया
संज्ञानलक्षणं संज्ञानं स्मृतिस्तदेव लक्षणं यस्य तदिति । केऽपि संज्ञानं ज्योतीरूपमिति निरूपयन्ति । स्वदेहं लब्ध्वा रामपूजितो ऋषीणां मध्ये सप्तमो ऋषिरभवत् ॥ २४ ॥
छलारी
जमदग्निस्तु संज्ञानलक्षणं ज्योतिर्मयलक्षणं स्वयोग्यदेहं लब्ध्वा सप्तर्षीणां मण्डले सप्तमऋषिरभवत् ॥ २४ ॥
जामदग्न्योऽपि भगवान् रामः कमललोचनः ।
आगामिन्यन्तरे राजन् वर्तयिष्यति वै बृहत् ॥ २५ ॥
पदरत्नावली
आगामिन्यन्तरे भविष्यन्मन्वन्तरेऽष्टमे सावर्णिमन्वन्तरे बृहद्ब्रह्म वेदमुत्सन्नं वर्तयिष्यति । वेदप्रवर्तको भविष्यतीत्यर्थः ॥ २५ ॥
सत्यधर्मीया
जामदग्न्योऽपि भगवान् राम आगामिन्यष्टमे सावर्णिमन्वन्तरे बृहद्ब्रह्म वेदमुत्सन्नं वर्तयिष्यति प्रवर्तयिष्यति । तत्प्रवर्तको भविष्यतीति भावः ॥ २५ ॥
छलारी
आगामिन्यन्तरे भविष्यन्मवन्तरेऽष्टमे सावर्णिमन्वन्तरे बृहद्ब्रह्म वेदलक्षणं वर्तयिष्यति । वेदप्रवर्तकेषु सप्तर्षिष्वेकतमो भविष्यतीत्यर्थः ॥ २५ ॥
आस्तेऽद्यापि महेन्द्राद्रौ न्यस्तदण्डः प्रशान्तधीः ।
उपगीयमानचरितः सिद्धगन्धर्वचारणैः ॥ २६ ॥
सत्यधर्मीया
महेन्द्रो माहेन्द्रगिरिर्न्यस्तदण्डस्त्यक्तेतरबहिःशिक्षः । किञ्च प्रशान्तधीः प्रशान्तस्य हरेर्धीर्येन सः । भगवदवगमक इति यावत् । अद्याप्यास्ते ॥ २६ ॥
छलारी
महेन्द्रादौ देवसमूहे न्यस्तदण्डस्त्यक्तदण्डः प्रशान्तधीः । शान्तकोप इति यावत् ॥ २६ ॥
एवं भृगुषु विश्वात्मा भगवान् हरिरीश्वरः ।
अवतीर्य परं भारं भुवोऽहन् बहुशो नृपान् ॥ २७ ॥
दुर्घटभावदीपिका
हरिरवतीर्य भुवः परममुत्कृष्टं यथा भवति भारं भारभूतान्नृपान्बहुशोऽहन्निति । एतेन भारभूतानिति वक्तव्यम् । भारमिति वचनमुपपन्नमिति दूषणं निरस्तम् । भारमिति द्वितीयैकवचनं द्वितीयाबहुवचनादेश इत्यभ्युपगम्य भार शब्देन भारभूतत्वं गृहीत्वा भारमित्यस्य भारभूतानित्यर्थ इत्युक्तत्वात् ॥ २७ ॥
इति श्रीभागवतटिप्पण्यां चतुर्दशोऽध्यायः ॥ ९-१४ ॥
पदरत्नावली
भुवः परं भारं केवलं भारभूतान् नृपान् अहन् संहृतवान् ॥ २७ ॥
सत्यधर्मीया
समग्रस्य तात्पर्यं स्वयं मूलकृदेव लपति ॥ एवमिति ॥ परं भारं तद्रूपान्नृपांस्तदपसदान्बहुशस्त्रिःसप्तकृत्वोऽहन् हतवान् । किं कुर्यात्तैः स्वदुःखे दत्त इत्यतोऽप्याह ॥ बहुश इति ॥ पूर्णसुखोऽपि ॥ २७ ॥
छलारी
भृगुषु भृगुवंशेऽवतीर्यावतारं कृत्वा भुवो भारं केवलं भारभूतान्नृपान् अहन्संहृतवान् ॥ २७ ॥
गाधेरभून्महातेजाः समिद्ध इव पावकः ।
तपसा क्षात्रमुत्सृज्य यो लेभे ब्रह्मवर्चसम् ॥ २८ ॥
पदरत्नावली
महातेजा विश्वामित्रः ॥ २८ ॥
विश्वामित्रस्य चैवासन् पुत्रा एकशतं नृप ।
मध्यमस्तु मधुच्छन्दा माधुच्छन्दस एव ते ॥ २९ ॥
पदरत्नावली
तस्य विश्वामित्रस्यैकशतं पुत्रा आसन् । तेषामेकोत्तरशतपुत्राणां मध्ये यो मध्यमः स त मधुच्छन्दा नाम । तेन मधुच्छन्दसा संयुक्ता ये पञ्चाशत्पुत्रास् ते मधुच्छन्दसः सकाशात् कनिष्ठा माधुच्छन्दसनामानो भवन्ति नान्ये । तस्य ह विश्वामित्रस्यैकशतं पुत्रा आसुः । पञ्चाशदेव ज्यायांसो मधुच्छन्दसः पञ्चाशत् कनीयांसस्तथा ज्यायांसो न ते कुशलं मेनिरे । (ऐ.ब्रा, ७-३.१८) इत्यादि ब्राह्मणं चेममेवार्थं वक्ति ॥ २९ ॥
सत्यधर्मीया
द्वितीयचरुप्रभवप्रभावमाह ॥ गाधेरिति । तपसा तल्लब्धवरैश्च क्षात्रमुत्सृज्य क्षत्रत्वं त्यक्त्वा ब्रह्मवर्चसं ब्राह्मणत्वमनेन लक्ष्यते लेभे प्राप । यथोक्तम् । वरेण विप्रत्वमवाप योऽसाविति ।
स तु वव्रे वरं राजन् ब्राह्मणः स्यामहं त्विति ।
तथेति चावदद् ब्रह्मा सर्वलोकपितामहः ॥ इति गदापर्वणि ।
इति स्तुता वेदमाता प्राह गम्भीरया गिरा ।
विश्वामित्र ब्राह्मणोऽसि द्विजत्वं दत्तवत्यहम् ।
वसिष्ठसाम्यं भविता ममोपासनया मुने ।
ऋर्षिर्मम भव त्वं हि तस्माच्छ्रेष्ठो न संशयः । इति कावेरीमाहात्म्ये ।
ब्रह्मर्षे स्वागतं तेऽस्तु तपसाऽस्मि सुतोषितः ।
ब्राह्मण्यं तपसोऽग्रेण प्राप्तवानसि कौशिक । इति रामायणे चतुराननवचनम् ।
प्रतिगृह्य ततो धर्मस्तथैवोष्णं तथा नवम् ।
भुक्त्वा प्रीतोऽस्मि विप्रेति तमुक्त्वा स मुनिं गतः ।
क्षत्रभावादपगतो ब्राह्मणत्वमुपागतः ।
धर्मस्य वचनात्तत्र विश्वामित्रस्तथाऽभवत् ॥ इत्याद्युद्योगपर्वणि ।
च्यवनाद्वरदानेन रुचिकस्य स्वसम्भवात् ।
क्षत्रवादादपगतो ब्राह्मणत्वमुपागतः ।
स्वस्यैव तपसा चापि ब्राह्मण्यं समवाप्तवान् । इति शान्तिपर्वणि ।
ततः प्रसादितो देवैर्वसिष्ठो जपतां वरः ।
सख्यं चकार ब्रह्मर्ष इदमस्त्विति चाब्रवीत् ।
इति रामायणे वसिष्ठवचः । अस्मन्मतेऽनुगतसामान्याभावात्क्षत्रत्वापगमोऽप्ययं सम्भवी । विस्तरस्तु मासेन शूद्रो भवति ब्राह्मणो रसविक्रयादित्याद्युदाहृत्य सुधायामुदितोऽनुसन्धेयः । तमृत्विज ऊचुस्त्वमेव नोऽस्यान्हः संस्थमधिगच्छेत्यथ हैनं शुनःशेपोऽञ्जःसर्वं ददर्श । तमेताभिश्चतसृभिरभिसुषाव यच्चिद्धि त्वं गृहे गृह इत्यथैनं द्रोणकलशमभ्यवनिनायोच्छिष्टं चम्वोर्भरेत्येतयर्चाऽथ हास्मिन्नन्वारब्धे पूर्वाभिश्चतसृभिः सस्वाहाकाराभिर्जुहुवाञ्चकार । अथैनमवभृथमभ्यवनिनाय त्वन्नोऽग्ने वरुणस्य विद्वानित्येताभ्यामथैनमत ऊर्ध्वमग्निमाहवनीयमुपस्थापयाञ्चकार । शुनश्चिच्छेपं निन्दितं सहस्रादित्यथ ह शुनःशेपो विश्वामित्रस्याङ्कमाससाद । सहोवाचाजीगर्तः । सौयवसिषे पुनर्मे पुत्रं देहीति । नेति होवाच विश्वामित्रो देवा वा इमं मह्यमरासतेति स ह देवरातो वैश्वामित्र आस । तस्यैते कापिलेयबाभ्रवाः स होवाचाजीगर्तः । सौयवसिस्त्वमेहि विह्वयावहै इति । स होवाचाजीगर्तः । सौयवसिराङ्गिरसो जन्मनास्याजीगर्तिः श्रुतः कविः । ऋषे पैतामहात्तन्तोर्मापगाः पुनरेहि मामिति । स होवाच शुनःशेपो दर्शुस्त्वा शासहस्तन्नयच्छूद्रे ह लप्सता । गवां त्रीणि शतानि त्वमवृणीथा मदङ्गिर इति । स होवाचाजीगर्तः । सौयवसिस्तद्वै मा गात तपति पापं कर्म मया कृतम् । तदहं निह्नवे तुभ्यं प्रतियन्तु शतं गवामिति । स होवाच शुनःशेपो यः सकृत्पापं कर्म कुर्यात्कुर्यादेनत्तत्तोऽपरम् । नापगाः शौद्रीयान्न्यायादसन्धेयं त्वया कृतमित्यसन्धेयमिति ह विश्वामित्र उपपाद । स होवाच विश्वामित्रो भीम एव सौयवसिः शासेन विशिशासिषुः । अस्थान्मैतस्य पुत्रो भूर्ममैवोपेहि पुत्रतामिति । स होवाच शुनःशेपः स वै यथा नोज्ञपया राजपुत्र तथा वद । यथैवाङ्गिरसः सन्नुपेयां तव पुत्रतामिति । स होवाच विश्वामित्रो ज्येष्ठो मे त्वं पुत्राणां स्थास्तव श्रेष्ठा प्रजा स्यात् । उपेया दैवं मे दायं तेन वै त्वोपमन्त्रय इति । स होवाच शुनःशेपः संज्ञानानेषु वै ब्रूयात्सौहार्दाय मे श्रियै यथाहं भरत ऋषभोपेयां तव पुत्रतामिति ।
अथ ह विश्वामित्रः पुत्रानामन्त्रयामास समधुच्छन्दाः श्रृणोत ऋषभो रेणुरष्टकः । एके च भ्रातरः स्थासौ ज्येष्ठ्याय कल्पध्वमिति । तस्य ह विश्वामित्रस्यैकशतं पुत्रा आसुः । पञ्चाशदेव ज्यायांसो मधुच्छन्दसः पञ्चाशत्कनीयांसस्तथा ज्यायांसो न ते कुशलं मेनिरे । ताननुव्याजहार तान्वः प्रजा भक्षीष्टेति । त एतेऽन्ध्राः पुण्ड्राः शबराः पुलिन्दा मूतिबा इत्युदन्त्या बहवो भवन्ति । विश्वामित्रा दस्यूनां भूयिष्ठाः । स होवाच मधुश्छन्दाः । पञ्चाशता सार्धं यन्नः पिता सञ्जानीते तस्मिंस्तिष्ठामहे वयम् । पुरस्त्वा सर्वे कुर्महे त्वामन्वञ्चो वयं स्मसीति । अथ ह विश्वामित्रः प्रतीतः पुत्रांस्तुष्टाव । ते वै पुत्राः पशुमन्तो वीरमन्तो भविष्यथ ये मानं मेऽनुगृह्णन्तो वीरवन्तमकर्त मा । पुर एता वीरवन्तो देवरातेन गाथिनाः । सर्वै राध्यास्तत्पुत्रा एष वः सद्विवाचनम् । एष वः कुशिका वीरो देवरातस्तमन्वित । युष्मांश्चिद्दायं म उपेता विद्यां यामु च विद्मसि । ते सम्यञ्चो वैश्वामित्राः सर्वे साकं सरातयः । देवराताय तस्थिरे धृत्यै श्रैष्ठ्याय गाथिनाः । अधीयत देवरातो ऋक्थयोरुभयोर्ऋषिः । जह्नूनां चाधिपत्ये दैवे वेदे च गाथिनाम् । तदेतत्परऋक् शतगाथं शौनःशेपमाख्यानं तद्धोता राज्ञेऽभिषिक्तायाचष्टे हिरण्यकशिपावासीन आचष्टे । हिरण्यकशिपावासीनः प्रतिगृणाति । यशो वै हिरण्यं यशसैवेनं तत्सममध्वर्योरोमित्यृचः प्रतिगर एवं तथेति गाथाया ओमिति वै दैवं तथेति मानुषं दैवेन चैतैन तन्मानुषेण च पापादेनसः प्रमुञ्चति तस्माद्यो राजा विजिती स्यादप्ययजमान आख्यापयतैवैतच्छौनःशेपमाख्यानं न हास्मिन्नल्पं च नैनः परिशिष्यते सहस्रमाख्यात्रे दद्याच्छतं प्रतिगरित्र एते चैवासने श्वेतश्चाश्वतरीरथो होतुः पुत्रकामा हाख्यापयेरन् लभन्ते ह पुत्रान् लभन्ते ह पुत्रान् ॥
अत्रोपयुक्ततदुपयुक्तसप्तमपञ्चकतृतीयाध्यायगतखण्डद्विकार्थः । एवं दन्धनीकृतबन्धनः शुनः शेपोऽचरत्किम् । परत इत्यत ईरयति ॥ तमृत्विज इति ॥ तमुक्तरीत्या मुक्तमृत्विजो विश्वामित्रादय ऊचुः । तद्वचनमेव विवेचयति वेदपुरुषः ॥ त्वमेवेति ॥ हे शुनःशेप त्वमेव नोऽस्माकमस्यान्होऽभिषेचनायाभिधावतः संस्थं समाप्तिमधिगच्छ प्राप्नुहि । हरिश्चन्द्रहस्ततोऽनुष्ठापयेति यावत् । अथ तदृत्विगुक्त्यनन्तरं शुनःशेप एतं यागम् अञ्जःसवम् । अञ्जः सम्यक् सवः सोमाभिषवो यस्मिन् योगे तं तादृशमनङ्गभङ्गं ददर्श प्रेक्षितवान् । निश्चिकायेति यावत् । तं सोमं यच्छिद्धीत्यादि-भिश्चतुसृभिर्ऋग्भिः सहस्वाहाकारैः सोममुच्छिष्टं चम्वोर्भरेत्येतयर्चा तं द्रोणकलशं प्रत्यवनिनाय नीत्वाऽपूरयत् । भरेत्युक्तेः । अथ भरणानन्तरम् अस्मिन् होमेऽन्वारब्धे पूर्वाभिश्चतुसृभिर्ऋग्भिः सोमं सहस्वाहाकाराभिर्जुहवाञ्चकार ।
यत्र ग्रावेति सूक्तं नवर्चम् । तत्र यच्चिद्धीति पञ्चमीमारभ्य चतुसृभिरभिषवः । उच्छिष्टमित्यादिकं नवमी तया द्रोणकलशपूरणम् । यत्र ग्रावेत्यादिभिश्चतुसृभिर्होम इत्येवं कृत्स्नस्य सूक्तस्य विनियोगः । अथ होमानन्तरमेनमवभृथं तत्साधनं सर्वं तत्स्थलं प्रति नीतवान् त्वन्नो अग्ने वरुणस्येत्यादिकाभ्यामृग्भ्यां तद्यागं कृतवान् ॥ अथेति ॥ मङ्गलसूचकं कार्यान्तरस्येति ज्ञेयम् । तत ऊर्ध्वमित्यूर्ध्वमित्यन्यथा न वक्तव्यं स्यात् । तत ऊर्ध्वं तदुपर्येनमाहवनीयमग्निमुपस्थापयाञ्चकार । तन्मन्त्रः । शुनश्चिच्छेपं निन्दितं सहस्रादिति चतुर्थे मण्डलेऽपि वेत्यादिऋग्भाष्योक्तेः । हरिश्चन्द्रमुपस्थाने प्रेरयदिति यावत् । असाङ्कर्येण पशुविनियोगशंसनादञ्जःसवोजमिति ज्ञेयम् । विश्वामित्राजीगर्तयोः संवादं दर्शयति । अथ हेति । अथाभिषेचनीयसमाप्त्यनन्तरं हरिश्चन्द्रसहितेषु ऋत्विक्षु विस्मृतेषु कथा काचिदत्र पूरणीया । अजीगर्तोऽप्राक्षीत्प्रेक्षावतः । शुनःशेपः किं कुमारो ममोत क्रेतुरथवा कस्यचिदपरस्येति । तत्र सभास्तारास्तदिच्छयेत्युत्तरमाहुः । तदुपश्रुत्य शुनःशेपः किं चर्चयेति स्वसम्मतविश्वामित्रपुत्रत्वः ॥ अथ तदनन्तरमिति ॥ विश्वामित्रस्याङ्कमुत्सङ्गमाससाद । अथानन्तरं सौयवसिरजीगर्तः शुनःशेपपिता क्रतुर्जातः साङ्गो ऽङ्गरोगविकलश्च हरिश्चन्द्रोऽतो मे मम । हे ऋषे विश्वामित्र पुत्रं देहीति स उवाच ह । स विश्वामित्रो हरीच्छयाऽयमायातः पोतोऽत एनं न वितरामि । तं किञ्च देवा इमं मह्यमरासत ददुः । ममायं जात इति । वैश्वामित्रो देवैरातत्वाद्देवरातश्चेति नामद्वन्द्वनिरुक्तिर्ज्ञेया । आस । यथा द्रौणेरुलूकेन कृतमप्यास बोधकमित्येतत्सुधाभिधानाद्विभक्तिप्रतिरूपकमव्ययं वा । यदिदमुपासत इति तलवकारश्रीटिप्पणानुसारेणासगतीत्यादिधात्वन्तरस्य रूपं वेति ज्ञेयम् । विवृतं चास्माभिरपि प्राक्ततोऽनुसन्धेयम् । तस्य शुनःशेपस्य कापिलेयाः कपिलगोत्रोत्पन्ना उत्पन्नाश्च तथा बभ्रुगोत्रे ते बान्धवा आसासुः । अथ विश्वामित्रेण निराकृतोऽजीगर्तः शुनःशेप त्वमिह विश्वामित्रोत्सङ्गसङ्गं विहाय गेहं प्रत्येवागच्छ जननीजनकश्चेत्यावां त्वां विह्वयावहै आकरवावहै । इत्युक्तावप्यत्यक्ततदङ्कं तूष्णीकं निरीक्ष्य कयाचिद्गाथया पुनः शुनःशेपं पिता प्राह । स हेति । त्वमाङ्गिरसोऽङ्गिरगोत्रोत्पन्नो जन्मनाऽऽजीगर्तिरजीगर्तस्य ममापत्यमसि । जन्मनेत्युभयान्वयि वा । कविर्विद्वानिति श्रुतः प्रख्यातश्च । अतो ऋषे त्वं पैतामहात्प्रजापतिसम्बन्धिनस्तन्तोः सन्तानान् मापगा अपगत उपगतोऽन्वयान्तरान्वयम् । मा भूः पुनर्मा मामेहि आगच्छेति गीतं पित्रा श्रुत्वा स्वयमपि गाथयोत्तरं वक्ति । स हेति । सदस्यास्तदितरे लोकाश्च यत्क्रूरं कर्म शूद्रेष्वत्यन्तनीचेष्वपि नालप्सत न लब्धवन्तः । तत्किमित्यतस्तावदेकमुक्त्वा मूकयति । शासहस्तं शासो मद्विशसनसाधनमसिः स हस्ते यस्य तम् । त्वा त्वामदर्शुर्दृष्टवन्तः । हे अङ्गिरो मन्मन्निमित्तं मन् मूलतयेति यावत् । गवां त्रीणि शतानि क्रयसमये शतं शतं रज्जुसमासज्जनक्षणे विशसनासिविशानीकरणे शतमेवं त्रीणि शतान्यवृथा वृतवानसीति नाशायोद्यतस्य तव नाशायोग्येत्यूच इति सुतोक्तः । सौयवसिरजीगर्त उवाच तां गाथामाह ॥ तद्वा इति । हे तात पितः । अनुक्रोशप्रदर्शनम् । मया यत्पापं कर्म कृतं तन्मा मां तपति दहति तन्निह्नवे परिहरणं कथमित्यतः कथयति ॥ तुभ्यमिति । गवां शता । जसो डादेशः । शतानि तुभ्यं प्रतियन्तु त्रीणि शतानि त्वमेव गृहाण गृहीतो न ते भ्रातरौ द्वे शते इति भावः । इति पित्र्युक्त्यनन्तरं शुनःशेपः पुनर्गाथान्तरेणाह । य इति । यः कश्चित्पुमान्सकृदेकवारं पापकं पापं कुर्यात्ततः कृताद्दुष्कृतादपरमितस्ततोऽपि नीचं मन्मातृहत्येदानीं प्रवृत्तस्य पुनः कुटुम्बनिकुरुम्बनिवृत्तिप्रवर्तनं भवेदिति कुर्यादेव । अभ्यस्तत्यागस्य दुःसाध्यत्वात् । तथा हि कस्त्यक्षति सिद्धविद्यामित्यादेः । शौद्रीयान्न्यायाद्दुर्जननीतेर्नापगायतोऽतस्त्वया कृतं पापं पुनरसन्धेयं प्रतिसन्धानायोग्यमिति सुतः । अथ विश्वामित्रो वक्ति । असन्धेयमप्रतिसन्धानयोग्यं तव पापमिति शुनःशेपेनोक्तं तदसन्धेयत्वं विश्वामित्र उपपादकयुक्त्योपपादितवान् । तदुपपादनार्थमेवेमां गाथामचकथत् । असौ सौयवसिः सूयवसप्रसूतोऽजीगर्तो भीम एव भयकारणमेव शासेन खड्गेन विशिशासिषुर्विशासनं कर्तुकामोऽस्थात्स्थितोऽभूत् । अत एतस्य पुत्रो मा भूः । ममैव पुत्रतामुपेहीति शुनःशेपं विश्वामित्र उवाच । अथ तयोरुक्तिप्रत्युक्ती वक्ति । स होवाच शुनःशेप इति । विश्वामित्रेणैवमुक्तः शुनःशेपो गाथया गाधितनयाय कथयति । स वा इति । हे राजपुत्र । अनेन सन्नपि क्षत्रियस्तपसा सम्पादितब्राह्मणत्व इति तन्माहात्म्यं सूच्यत इति ज्ञेयम् । त्वं यथा जात्यन्तरतां यातो यातोऽहं पित्रन्तरपुत्रतामिति सूचययितुं वैवमुक्तिः । राजजातीयः सन्नथ येन प्रकारेण नोऽस्मान् अभिर्ज्ञपय । आ सम्यग्ज्ञपय ज्ञायते । तथैवाहमाङ्गिरसः सन्नपि तव पुत्रतामुपेयां पुत्रत्वं तथा वद । यथा त्वं ब्राह्मणत्वं सम्पादितवांस्तथा मामप्याङ्गिरसं वैश्वामित्रं वादय जनैरिति हृदयम् । विश्वामित्रोऽप्यथ गाथया कथयति । हे शुनःशेप त्वं मम पुत्राणां तन्मध्ये ज्येष्ठः स्याः । नैकपर्याप्तं मदाप्तं श्रैष्ठ्यमित्याह । तवेति । प्रजासन्ततिरपि श्रेष्ठा स्याद् देवैर्दत्तमिति दैवं दायमपत्यत्वरूपं त्वमुपेयाः प्राप्नुहि । तेन वै पुत्रत्वेनैव त्वा त्वामुपमन्त्रये व्यवहराणि । शुनःशेपः स्वाभिप्रेतं तन्मुखतो वादयितुं गाथामाह । स होवाचेति । संज्ञानानेषु मां पुत्रं जानत्सु तवेतरसुतेषु सर्वे मां ब्रूयात् । ज्येष्ठत्वेन व्यवहरत् । ज्येष्ठं पिता कनिष्ठं मातेति द्वयोर्द्वयोः प्रीतिपात्रत्वोक्तेस्तथैव स्वस्य निर्गतिकतयैवं दशापन्नेति क्लिष्टो ज्यैष्ठ्यं वृतवानिति भावः । कानिष्ठ्यं चेत्पितृसौमनस्यं न प्राप्यत इति हृदयम् । इयदनर्थस्य तन्मूलत्वाच्च । तच्च मे मम सौहार्द्याय भ्रातृभिः स्नेहातिशयाय । यकारोऽधिकोऽधिकतां स्नेहस्य बोधयति । श्रियै सम्पदे च सम्पद्यते । हे भरतर्षभ भरतवंशजोत्तंस विश्वामित्रैवं चेत्तव पुत्रतामुपेयां तथैतान् सुतान्प्रति वदेति तात्पर्यम्
। अथ विश्वामित्रः पुत्रानामन्त्रयामास । आगतांस्तांस्तन्मध्ये यश्च मधुश्छन्दा नाम यश्चर्षभो यश्च रेणुर्यश्चाष्टक एतदादयः श्रुणोत मद्वाणीं शृृणुत । एकेन यूयं भ्रातरः स्थ ते सर्वेऽस्मै शुनःशेपाय ज्यैष्ठ्याय युष्मज्ज्यैष्ठाय कल्पध्वमभिमानं त्यक्त्वा तज्ज्यैष्ठ्यं वृणुत । एकेन च भ्रातर इत्येकसारल्येनानुदाहरन्नुदाहरन्नेकेचनास्मा इति वैरल्येन वेदपुरुषः केषाञ्चिदनोङ्करणज्ञानं च विश्वामित्रस्यास्तीति भावमाविर्भावयामासेति ज्ञेयम् ।
तत्र पुत्राः कियन्तस्ते च किमवदन्नित्यत आह । एकशतं पुत्रा आसुः । गता मधुश्छन्दास्तु मध्यमस्ततो ज्यायांसः कनीयांसश्चेत्याहत्यैकशतम् । तत्तत्र ज्यायांसो ये ते पितुर्वचनं कुशलं स्वेष्टदं न मेनिरे । ताननुलक्ष्य विश्वामित्रो व्याजहार शापरूपं वचनं व्याहरणं ज्ञेयम् । वः प्रजाः पुत्राद्या अन्तानन्तो येषामस्ति ते देहास्तांश्छ्वादीनिति यावत् । भक्षीष्ठ भक्षन्ताम् । त एत एवं शप्ता अन्ध्राः पुण्ड्राः शबलाः पुलिन्दा मूतिबा इति पञ्चविधा उदन्त्या जातितोऽत्यन्तमन्ते भवाश् चण्डाला इति यावत् । बहवः पुनरवान्तरभेदवन्तश्च दस्यूनां तस्कराणां मध्ये भूयिष्ठा अतिशयेन भूयांसो भूयिष्ठा वैश्वामित्रा भवन्तीति ज्येष्ठपुत्रवृत्तमुक्त्वा मधुश्छन्दसा सहितैकपञ्चाशत्सुतवृत्तं गाथया दर्शयति । स हेति । समधुश्छन्दाः पञ्चाशताः कनीयसा सार्धं साकं सुतत्वाविशेषादेते पितुराज्ञावज्ञातारः किंवा नेति सन्दिहानं पितरं प्रयत्नगौरवं कुत इति यथा भवेदाकर्णनं तस्य तथा पारोक्ष्येण शुनःशेपं प्रतीत्युक्त्वा तोषयन्ति । यन्न इति । नः पिता यत्सञ्जानीते सम्यग्जानाति तस्मिन्वयं तिष्ठामहे शुनःशेप त्वां पुरस्तात्कुर्महे । ज्येष्ठं त्वा त्वां कृत्वा च सर्वे वयम् । अनेन द्विर्वचनेन संशयं व्यनाशयदिति ज्ञेयम् । अन्वञ्चोऽनुगच्छन्तः स्मसि भवाम इति । श्रुतेतरसुतवृत्तः किं विश्वामित्रश्चकारेत्यत आह ॥ अथेति । एतदेकपञ्चाशत्सुतशंसनानन्तरं प्रतीतो विश्वासं प्राप्तः सन्पुत्रांस्तुष्टावास्तौषीत् । तां प्रथमां गाथां कथयति । ये यूयं मे नानमनुगृह्णन्तः स्वीकुर्वन्त आज्ञां मां वीरवन्तं स्वधर्मशूरसूनुमन्तमकर्त कृतवन्तस्ते पुत्राः पशुमन्तः । पशवो हि देवास्तद्वत्त्वं च तत्सौमनस्येनेति ज्ञेयम् । पशुर्भगवान्वा । पालनात्सुखरूपत्वात्पशुनामा जनार्दन इति छान्दोग्यभाष्योक्तेः । प्रसिद्धपशुमत्त्वमित्यप्यर्थः । वीरवन्तः पुत्रवन्तो वीरवत्तममित्यत्रेव वीर्यवन्त इति वा । भविष्यथ ।
अथ द्वितीयामाह ॥ पुर इति ॥ पुरो युष्मत्पुरत एत्रा गन्त्रा देवरातेन सह गाथिनाः । गाथिशब्दो गाधिशब्दपर्यायः । थकारस्थाने धकारो धकारस्थाने थकारश्चाधस्मान्नो ददिर्भवेत्यादौ बहुलमुपलब्ध इति गाधिपौत्रा वीरवन्तः सर्वेऽपि सर्वैः राध्या आराध्याः पूज्याश्च भविष्यथ एषः शुनःशेपो वः सद्विवाचनं सन्मार्गोपदेशं करिष्यतीति । सन्मार्गवचनरूप एवेति । तृतीयामाह ॥ एष व इति ॥ हे कुशिका वो युष्माकमेषः शुनःशेपो वीरो विविधमीरयतीति स तथा नियन्ता । ज्येष्ठ इति यावत् । यो देवरातस्तमन्वित अनुगता भवत । मे मदीयं दायं युष्मांश्चोपेतं प्राप्स्यति । चकारात्तं देवरातं च । यामु च यामपि काञ्चन विद्यां वयं विद्मसि जानीमः साऽपि युष्मानपि । आ सम्यगुपेतेत्यन्वयः । चतुर्थीयं गाथा । ते सम्यञ्च इति । हे वैश्वामित्रा मम पुत्रा गाथिना गाधिपौत्रास्ते वयं सर्वेऽपि सम्यञ्चः समीचीनमनस्का ये च देवरातेन साकं सार्धं सरातयः । रातिर्मैत्र्यं तेन सहिताः । शूररातय इत्यृग्भाष्ये चैव मित्राणीत्युक्तेः । रातिर्देयस्वापतेयदानम् । तेन सहिता इति वा । एतादृशाः सन्तो देवराताय । चतुर्थी षष्ठ्यर्थे । षष्ठ्यर्थे चतुर्थी वाच्या । या खर्वेण पिबति तस्यैव खर्व इति वैदिकोक्तेः । मम कायसूनव इति च । यथा देवरातस्य धृत्यै ततः स्वपोषणाय तच्छ्रैष्ठ्याय च तस्थिरे स्थिताः । अतः सम्यञ्चो वयम् । समवप्रविभ्य इत्यन्यतमोपपादकत्वाभावश्छान्दसमात्मनेपदम् । पञ्चमीमाह । अधीयत इति । इक्स्मरण इति स्मरणात् । स्मृतिकारैरधीयते स्मर्यते । किं तदित्यत आह । देवरात इति । उभयोरजीगर्तविश्वामित्रयोस्तत्सम्बन्धिऋक्थयोर्धनयोर्ऋषिर्द्रष्टा तद्योग्य इति यावत् । द्वामुष्यायणत्वात् । जह्नूनामजीगर्तमूलपुरुषजह्नुवंशसम्भवाः सर्वेऽपि जह्नवस्तेषां चाधिपत्ये स्वाम्ये । तथा दैवे देवसम्बन्धिनि कर्मणि । तथा वेदे मन्त्रे च तथा गाथिनां गाधिसम्बन्धिनां चाधिपत्य इत्यादिकमादिवद् अयं योग्य इति । उक्तमुपाख्यानमुपसंहरति । तदेतदिति । कस्य नूनं निधारयेत्यन्ताः सप्तनवतिसङ्ख्या ऋचः । हं नः सहमित्यादिकास् तिस्रः । एवमृचां शतम् । परशब्द श्राध्किवार्चा । शर्वोक्तऋक्शतात्परः । एकत्रिंशत् सङ्ख्यायन्वित्याद्या गाथा यस्मिन्सन्ति तत्परऋक्शतगाथम् । तथा च शुनःशेपदृष्टम् (९७) सप्तनवतिसङ्ख्याः । मधुश्छन्दोदृष्टास्तिस्रो ब्राह्मणोक्ता एकत्रिंशद्गाथाश्च यस्मिन्सन्ति तत्परऋक्शतगाथं शौनःशेपम् ।
हरिश्चन्द्रो ह वैधस इत्यादिकं शुनःशेपविषयं सर्वमाख्यानं तद्धोता अभिषिक्ताथ राजसूयक्रत्वङ्गाभिषेचनीये कर्मणि तस्मै राज्ञे आचष्टेऽकथयत् । तत्रेत्थम्भवितव्यमुभाभ्यामित्याह । हिरण्यकशिपाविति । हिरण्यकशिपौ तत्तन्तुनिर्मितकशिपौ आसीन आचष्टे । अध्वर्युरपि हिरण्यकशिपावासीनो वक्ष्यमाणं प्रतिगरं ब्रूयात् । यस्माद्धिरण्यं यशोहेतुत्वाद्यद्यशस्तत एनं राजानं यशसा समृद्धयति समृद्धं यशस्विनं करोत्यतस्तत्रोपवेश आवश्यक इति भावः । प्रतिगरं गृणाति । होत्रुक्ताथा एकैकशो ऋचोऽन्तेऽध्वर्योरोमिति प्रतिगरो भवति । तत्तदृगवसितावध्वर्युः कुर्यादोङ्कारोच्चारमिति भावः ।
होतृप्रयुक्तगाथायास्तु तथेति ब्रूयात्स एव प्रतिगरः प्रणवः क्व प्रणेतव्यस्तथेति क्वेत्यतो व्यवस्थामाह । ओमितीति । देवैरङ्गीक्रियमाणार्थे तथेति च मानुषं तदङ्गीकारे उभाभ्यां भाविफलमाह । दैवेनेति । एनं यजमानं दैवेन प्रणवेन मानुषेण तथेत्यनेन च प्रतिगरेण पापादैहिकादेनसः पारत्रिकदुःखवन्नरकादेः साधनात्प्रमुञ्चति मोचयति । क्रतुमानेवं भवतु भवति चाक्रतुः कथमित्यतः कथयति । यस्मादुपाख्यानं पापापनोदकं तस्माद्यो राजा विजिती विजितं च विजयस्तद्वान् स्यात् । सो यजमानोऽप्ययाजी सन्नप्येतच्छौनःशेपाख्यानमाख्यायैतैव स्वपुरतो नादयेत् । तथा सति तस्मिन्नेतदाख्यानं श्रुतवति क्षितिपतावल्पं स्वल्पमेन ऐहिकपारत्रिकफलोपलम्भकं पापं न परिशिष्यतेऽवशिष्टं भवति । विना दक्षिणां नार्थसिद्धिरिति तामाह । सहस्रमिति । आख्यात्रे होत्रे सहस्रं गवां दद्यात्प्रतिगरित्रे चाध्वर्यवे शतं दद्यात् । एत आसने होत्रध्वर्युभ्यामुपविष्टे हिरण्यकशिपुरूपे ताभ्यामेव दद्यात् । अश्वतरीरथश्चित्र इत्यर्थः । यथोक्तम् । क्षत्रियत्वावगतिसूत्रभाष्ये रथस्त्वश्वतरीयुक्तश्चित्र इत्यभिधीयत इत्यादि । तस्यैव क्षत्रमुख्यचिह्नत्वात् । श्वेतः श्वेतं रूप्यमिति विश्वात् श्वेतमस्त्यत्रेति श्वेतो रजतालङ्कृत इति यावत् । स च होतुर्देय इत्यर्थः । अक्रतुः कृतो राज्ञः कल्पोऽभिहितः । इदानीं पुत्रकामानां तदवाप्तिमाह । पुत्रकामा इति । ह प्रसिद्धौ । पुत्रकामाय तेऽपि आख्यापयेरन् । शौनःशेपमाख्यानं ब्राह्मणमुखाच्छृणुयुः । पुत्रान् लभन्ते ह लभन्ते । हेति प्रसिद्धौ । अध्यायान्तेऽभ्यासस्तु मानिको भवन्सर्वाध्यायोक्तार्थनिर्धारकः । यथोक्तं भाष्ये । प्रथमे द्वितीयेऽध्याये चावधारणार्थं सर्वस्याप्युक्तस्याध्यायमूलतः । द्विरुक्तिं कुर्वते प्राज्ञा अध्यायान्ते विनिर्णय इति वाराहसंहितायाम् । सर्वाध्यायार्थावधारणार्थाऽध्यायान्ते द्विरुक्तिः । उक्तं च गारुडे । अध्यायान्ते द्विरुक्तिः स्याद्वेदे वा वैदिकेऽपि वा । विचारो यत्र सज्जेत पूर्वोक्तस्यावधारणे । अनुक्तानां प्रमाणानां स्वीकारश्च कृतो भवेत् । विनिन्द्य चेतरान्मार्गान्सम्पूर्णफलता तथेतीति ।
ललितं कलितार्थं नो पदं परिमितः पदम् ।
विवृतं तत्कविवृतमस्तु हृत्प्रियमस्तु च ।
एकशतं मधुश्छन्दसा सहैकोत्तरशतं पुत्रा मध्यमत्वान्मधुश्छन्दसस्तेन सहिता इति ते माधुश्छन्दसा तन्नाम पित्रा कृतम् । पुत्रा अवापुरिति भावः ॥ २८,२९ ॥
छलारी
तदेव गाधेः कन्यावंशं निरूप्य प्रकृतमाह ॥ गाधेरभूदिति ॥ महातेजो विश्वामित्रः क्षात्रं क्षत्रियत्वं ब्रह्मवर्चसं ब्राह्मणत्वम् । तस्य विश्वामित्रस्यैकशतं पुत्रा आसन् । तेषामेकोत्तरशतानां पुत्राणां मध्ये मध्यमः स तु मधुच्छन्दो नाम । स तु मधुच्छन्दसा युक्ता ये पञ्चाशत्पुत्रास्ते मधुच्छन्दसः सकाशात्कनिष्ठा मधुच्छन्दस नामानो भवन्ति नान्ये । तस्य विश्वामित्रस्यैकशतपुत्रार्थमासुरित्यादि ब्राह्मणं चेममेवार्थं वक्ति ॥ २८,२९ ॥
पुत्रं कृत्वा शुनःशेपं देवरातं च भार्गवम् ।
आजीगर्तं सुतानाह ज्येष्ठ एष प्रकल्प्यताम् ॥ ३० ॥
पदरत्नावली
‘शुनःशेपस्य माहात्म्यमुपरिष्टात् प्रचक्षते’ इत्युक्तं प्रपञ्चयितुमाह– पुत्रं कृत्वेति ॥ अत्र काचित् किंवदन्ती मम पुत्रो भवेति विश्वामित्रेणोक्तोऽयमाजीगर्तः शुनःशेपोऽहं त्वत्पुत्राणां ज्येष्ठश्चेत् तव पुत्रः स्यां तत्रापि मध्यमो न स्यां, नापि कनिष्ठ इति विश्वामित्रमाह । तदैवमस्त्विति विश्वामित्रः शुनःशेपं पुत्रं कृत्वाऽन्यानौरसान् पुत्रान् अब्रवीत् । एषः शुनःशेपो युष्माकं ज्येष्ठः प्रकल्प्यताम् । भवद्भिरिति शेष इति । शुनःशेपशब्दं शृण्वतां शुनीजातीयोऽयं किमित्यन्यथाप्रतीतिं निवारयति– भार्गवमिति ॥ भृगुवंशोद्भवं तथा आजीगर्तम् अजीगतस्य मुनेरपत्यम् । तर्हि विश्वामित्रस्य पुत्रत्वे का सङ्गतिरित्यतः– देवरातमिति ॥ विश्वामित्राय देवैः रातं दत्तमिति ॥ ३० ॥
सत्यधर्मीया
पुत्रं स्वत एव स्वोत्सङ्गसङ्गिनं देवरातं च भार्गवं तद्गोत्रमाजीगर्तमजीगर्तगोत्रजं सुतान् ज्यायः ॥ ३० ॥
छलारी
शुनःशेपस्य माहात्म्यमुपरिष्टात्प्रचक्षत इत्युक्तं प्रपञ्चयितुमाह– पुत्रं कृत्वेति । अत्र किं वदन्ति । मम पुत्रो भवेति विश्वामित्रेणोक्तः शुनःशेपो विश्वामित्रं प्रत्याह । अहमजीगर्तस्य मुनेर्मध्यमः पुत्रः । अतोऽहं पितृभ्यां ममतां विहाय विक्रीतः । हे विश्वामित्र । त्वत्पुत्राणामहं श्रेष्ठश्चेत्तव पुत्रः स्यामित्युक्तो विश्वामित्रस्तस्मिन्कृपया शुनःशेपं ज्येष्ठपुत्रं कृत्वा सुतानाह ॥ ज्येष्ठ एषः प्रकल्प्यतामिति ॥ देवैर्विश्वामित्राय दत्तवान् । देवरातशब्दवाच्यं भार्गवं भृगुवंशोत्पन्नमजीगर्तमजीगर्तापत्यमेषः शुनःशेपो युष्माकं ज्येष्ठः प्रकल्प्यताम् । भवद्भिरिति शेषः ॥ ३० ॥
यो वै हरिश्चन्द्रमखे विक्रीतः पुरुषः पशुः ।
स्तुत्वा देवान् प्रजेशादीन् मुमुचे पाशबन्धनात् ॥ ३१ ॥
पदरत्नावली
अनेन विशेषणत्रयेण ज्येष्ठत्वकल्पनायां वैशिष्ट्यमुक्त्वा वैशिष्टयान्तरं चाह– य इति । यः शुनःशेपः हरिश्चन्द्रयज्ञे अजीगर्तेन रोहिताय विक्रीतः पुरुषाख्यः पशुरभूत् पश्चात् प्रजेशादीन् ब्रह्मादिदेवान् स्तुत्वा तत्प्रसादात् पाशबन्धनात् संसाराख्यपाशबन्धनाद् यूपसम्बन्धिरज्जुबन्धनाच्च आत्मानं मुमुचे मोचयामास । कस्य नूनं कतम स्यामृतानां मनामहे चारु देवस्य नाम’ इत्यारभ्य ‘अस्मे रयिं निधापय’ इत्यन्तवेदवाक्येन स्तुत्वा । ऋग्भाष्ये एतासामृचामर्थ अचार्यैरेव विस्तरेणोक्त इति चास्माभिः प्रपञ्चयते ॥ ३१ ॥
सत्यधर्मीया
क्वत्यः क्लृप्तश्च किं कार्य इत्यतः कथयति ॥ य इति ॥ हरिश्चन्द्रस्य राज्ञो यज्ञे ब्रह्मादीनुषोऽन्तान् बन्धनात्तत्त्रिकात् ॥ ३१ ॥
छलारी
अनेन विशेषणत्रयेण ज्येष्ठत्वकल्पनायां वैशेष्यान्तरमाह ॥ य इति द्वाभ्याम् । यः शुनःशेपो हरिश्चन्द्रयज्ञेऽजीगर्तेन पित्रा रोहिताय विक्रीतः पुरुषाख्यः पशुरभूत् । पश्चात्प्रजेशादीन् ब्रह्मादिदेवान्स्तुत्वा तत्प्रसादात्पाशबन्धनान्मुमुचे मोचयामास ॥ ३१ ॥
यो रातो देवयजने देवैर्गाधिसुताय सः ।
देवरात इति ख्यातः शुनःशेपस्तु भार्गवः ॥ ३२ ॥
पदरत्नावली
देवरातशब्दनिर्वचनेन विश्वामित्रस्य तत्संबन्धमाह– य इति ॥ देवानां यजनं यस्मिन् तस्मिन् यज्ञे यस्माद् यो देवै रातो रक्षितस्तैरेव गाधिसुताय विश्वामित्राय रातो दत्तस् तस्मात् स देवरात इति ख्यातः प्रसिद्ध इत्यतोऽयं भार्गवः ॥ ३२ ॥
सत्यधर्मीया
देवताभिवितरणादेवंनामा स इत्याह ॥ य इति ॥ पितृस्थापितनामाह ॥ शुनःशेप इति ॥ ३२ ॥
छलारी
देवानां यजनं यस्मिंस्तस्मिन्यज्ञे । यो देवै रातस्त्रातस्तैरेव विश्वामित्राय रातो दत्तः । यो भार्गवोऽपि गाधिवंशे देवरात इति ख्यातः ॥ ३२ ॥
ये मधुच्छन्दसो ज्येष्ठाः कुशलं मेनिरे न तत् ।
अशपत् तान् मुनिः क्रुद्धो म्लेञ्छा भवत दुर्जनाः ॥ ३३ ॥
पदरत्नावली
शुनःशेफो ज्येष्ठत्वेन कल्प्यतामिति विश्वामित्रेणोक्ता ये पञ्चाशत्पुत्रा मधुच्छन्दसो जन्मना ज्येष्ठास्ते शुनःशेफस्य ज्येष्ठत्वं स्वात्मनः कनिष्ठत्वं यत् तत् कुशलं साधु न मेनिरे ततः किमभूदिति तत्राह– अशपदिति ॥ ३३ ॥
सत्यधर्मीया
मधुश्छन्दसस्तत्सकाशान् म्लेञ्छा आन्ध्रादयो दुर्जना दुष्टप्रजाश्च ॥ ३३ ॥
छलारी
शुनःशेपो ज्येष्ठत्वेन कल्प्यतामिति विश्वामित्रेणोक्ता ये पञ्चाशत्पुत्रा मधुच्छन्दसो ज्येष्ठास्ते शुनःशेपज्येष्ठत्वम् । स्वात्मानं कनिष्ठमिति यावत् । तत्कुशलं साधु । न मेनिरे । मध्यमत्वस्यानर्थावहत्वं दृष्ट्वा तं न कृतवन्त इत्यर्थः । ततः किमभूदिति तत्राह ॥ अशपदिति ॥ मुनिर्विश्वामित्रः ॥ ३३ ॥
स होवाच मधुच्छन्दाः सार्धं पञ्चाशता ततः ।
यन्नो भवान् सञ्जानीते तस्मिंस्तिष्ठामहे वयम् ॥ ३४ ॥
पदरत्नावली
तेषां म्लेञ्छभावेन शुनःशेफस्य किमायातमिति तत्राह– स हेति । हेत्यनेन ब्राह्मणमनुकरोति । स मधुच्छन्दाः पञ्चाशता पञ्चाशत्संख्याकैः कनिष्ठैः सार्धं पितरमुवाच ह । ततस्तातः भवान् नोऽस्माकं यत् सञ्जानीते आज्ञापयति तस्मिन् आज्ञप्ते शुनःशेफस्य ज्यैष्ठ्ये अस्माकं कनिष्ठये सर्वे वयमविचारेण तिष्ठामहे । तदेवं निश्चित्य वर्तामह इति यावत् । ‘प्रकाशनस्थेयाख्ययोश्च’ इति सूत्राद् आत्मनेपदता ॥ ३४ ॥
सत्यधर्मीया
पञ्चाशता पञ्चाशतेतरेण । श्रुतौ यद्यपि शुनःशेपं प्रत्युक्तिरिति श्रूयते । गौरवं पित्र्यमिति बोधयितुमत्रापरोक्ष्येण वाणीति प्रवीणैर्ज्ञेयम् । तस्मिन् पित्रनुशिष्टे मार्गे वयं तिष्ठामहे । प्रकाशनस्थेयाख्ययोश्चेति सूत्रादात्मनेपदता । तदेवं निश्चित्य वर्तामहे । स्वाशयकरणतुष्ट आशास्त आशिषः । हे पितः । तिष्ठामेति वा ॥ ३४ ॥
छलारी
पञ्चाशता पञ्चाशत्सङ्ख्याकैः कनिष्ठैः साकं सह मधुच्छन्दा उवाच । नोऽस्माकं ज्येष्ठत्वं कनिष्ठत्वं वा भवान्पिता सञ्जानीते आज्ञापयति । तस्मिन्विषये तिष्ठामह इति ॥ ३४ ॥
ज्येष्ठं मन्त्रदृशं चक्रुस् त्वामन्वञ्चो वयं स्म हि ।
विश्वामित्रः सुतानाह वीरवन्तो भविष्यथ ॥ ३५ ॥
पदरत्नावली
ते पुत्रा मन्त्रदृशं कस्य नूनं कतमस्यामृतानां मनामहे चारु देवस्य नाम’ इत्यादिऋग्वेदद्रष्टारं शुनःशेफं ज्येष्ठं चक्रुः । कथं चक्रुरिति तत्राह- त्वामिति । भो देवरात वयं त्वामन्वञ्चो ऽनुवर्तमानाः कनिष्ठाः स्म भवाम । हि प्रसिद्धम्, हेतौ वा । यस्माद् वयं त्वत्कनिष्ठा अभूम तस्मात् ते ज्येष्ठत्वे संशयो मा भूदिति । अथवा हे पितः वयं त्वामन्वञ्चो ऽनुवर्तमानाः स्म त्वदाज्ञाकारिण इत्यर्थः । सन्तुष्टः पिता के वरं प्रयच्छदिति तत्राह- विश्वामित्र इति । वीरवन्तः । पुत्रवन्तः कर्तव्ये विशिष्टप्रेरणावन्तो वा ॥ ३५ ।
सत्यधर्मीया
त्वामन्वञ्चो वयं स्म हीत्युक्त्वा मन्त्रदृशं ज्येष्ठं चक्रुः । सुतान्मधुश्छन्दस आदीन्यूयं वीरवन्तो भविष्यथेत्याह । जीवतोर्वाक्यकरणादृणसंशोधनेन च । गयायां पिण्डदानाच्च त्रिभिः पुत्रस्य पुत्रतेत्यादेः स्ववचनकरणतुष्ट आशास्त आशिष इति भावः ॥ ३५ ॥
छलारी
एवमुक्त्वेति शेषः । ये पुत्रा मन्त्रदृशं कस्य नूनमित्यादि ऋग्वेदद्रष्टारं शुनःशेपं ज्येष्ठं चक्रुः । कथं चक्रुरिति तत्राह ॥ त्वामन्वंच इति ॥ भो देवरात । वयं त्वामन्वंचोऽनुवर्तमानाः कनिष्ठाः स्म हि भवाम हि प्रसिद्धम् । प्रसन्नो विश्वामित्रः । कं वरं प्रायच्छदिति तत्राह ॥ विश्वामित्र इति । वीरवन्तः पुत्रवन्तः ॥ ३५ ॥
ये मानं मेऽनुगृह्णन्तो वीरवन्तमकर्त मा ।
एष वः कौशिका वीरो देवरातस्तमन्वित ॥ ३६ ॥
पदरत्नावली
कुतोऽयं वरो दत्त इति तत्राह- य इति । ये भवन्तो मे मानम् अनुगृह्णन्तः परिपालनलक्षणानुग्रहं कुर्वन्तः मा मां वीरवन्तमकर्त कृतवन्त इति यस्मात् तस्माद यूयं वीरवन्तो भविष्यथेति । वीरवन्तमकर्त मा’ इति ब्राह्मणवाक्यानुसारेण वेदतुल्यमिति प्रकाशयति । मां वीरवन्तं स्वधर्मशूरसूनुमन्तमकर्त अकुर्वन्त । ’जीवतो वाक्यकरणाद् ऋणसंशोधनेन च । गयायां पिण्डदानाच्च त्रिभिः पुत्रस्य पुत्रता’ इति स्मृतेः । स्ववचनकरणसन्तुष्टो विश्वामित्र एवमादिदेश । हे कौशिकाः कौशिकगोत्राः, एप देवरातो वो युष्मदीयः कौशिक एव यत एष वीरो मम पुत्रस्तमेनं युष्माकं ज्येष्ठम् अन्वित अनुवर्तध्वम् ॥ ३६ ॥
सत्यधर्मीया
श्रुतिमेव ग्रन्थकृत्पठति ॥ य इति । अनेन सर्वो वेदोदितोऽयमर्थो मया सङ्गृहीत इति द्योतयति ॥ ३६ ॥
छलारी
कुतोऽयं वरो दत्त इति तत्राह– य इति ॥ ये भवन्तो मे मानमनुगृण्हन्तः परिपालनलक्षणमनुग्रहं कृतवन्तो मा मां वीरवन्तं पुत्रवन्तमकर्त कृतवन्तः । हि यस्मात्तस्माद्यूयमपि वीरवन्तो भविष्यथेति । वीरवन्तमकर्तेति ब्राह्मणवाक्यानुसारेण वेदतुल्यमिति प्रकाशयति । हे कौशिकाः । एषो देवरातो वो युष्मदीयः कौशिक एव यत एषो वीरो मम पुत्रस्तमेनमन्वितानुवर्तध्वम् ॥ ३६ ॥
अन्ये चाष्टकहारीता जयक्रतुमदादयः ।
एवं कौशिकगोत्रं तद् वैश्वामित्रैः पृथग्विधम् ।
प्रवरान्तरमापन्नं तद्धीत्येवं प्रकल्पितम् ॥ ३७ ॥
पदरत्नावली
अन्ये चाष्टकादयोऽनुवर्तन्तामिति शेषः । उपसंहरति– एवमिति ॥ यत् कौशिकगोत्रं तद्- वैश्वामित्रैः पृथग्विधमभूत् । कथं तदिति तत्राह– प्रवरान्तरमिति । प्रवरान्तरमापन्नं हि यस्मात् तस्मादेव पृथग्विधं कल्पितं, हि प्रसिद्धमिति भावः । एवमत्रावगन्तव्यम्, एके शप्ता एकेऽनुगृहीता अन्यस्तु पुत्रत्वेन स्वीकृतः । इत्येवं कौशिकगोत्रं पृथग्विधं नानाप्रकारं जातम् । तच्च प्रवरान्तरमापन्नं प्राप्तं हि यस्मादेवं देवरातज्येष्ठत्वेन तत् प्रकल्पितम् । अत्र प्रवरो नाम तस्मिन्नेव वंशेऽवान्तरभेदो न तु वंशान्तरम् । तथा च स्मृतिः ‘एक एव ऋपिर्यावत्प्रवरेष्वनुवर्तते । तावत्समानगोत्रत्वं विना भृग्वङ्गिरोगणात्’ इति । अत एवाश्वलायनवौद्धायनादिभिः कौशिकानां देवरातप्रवरत्वमुक्तम् इति ॥३७॥
सत्यधर्मीया
अन्ये चाष्टकादयस्तमन्ववर्तन्तेति शेषः । तदविभक्तं कौशिकगोत्रं वैश्वामित्रैर्विश्वामित्रपुत्रैः पृथग्विधमेके च शप्ताः केचनानुगृहीता गृहीत एक इति पृथग्विधं नानाप्रकारं तत्कौशिकगोत्रम् । प्रवरो नामावान्तरभेदो न तु वंशान्तरता । तथा च स्मृतिः । एक एव ऋषिर्यो यत्प्रवरेष्वनुवर्तते । तावत्समानगोत्रत्वं विना भृग्वन्तिरोगणादिति । अत एवाश्वलायनबौधायनादिभिः कौशिकानां देवरातप्रवरत्वमुक्तमित्यवगन्तव्यमिति व्याचख्युः । इति हेतोरेवं प्रकल्पितमुपाधि-वशात्प्रवरान्तरतया त्याज्यगोत्रद्वयकत्वेन प्रकल्पितमभूत् ॥ ३७ ॥
छलारी
अन्ये चाष्टकादयस्तस्य सुता आसन् । उपसंहरति ॥ एवमिति ॥ एके शप्ता एकेऽनुगृहीता अन्यस्तु पुत्रत्वेन स्वीकृतः । इत्येवं कौशिकगोत्रं पृथग्विधं नानाप्रकारं जातं तच्च प्रवरान्तरमापन्नं प्राप्तं हि यस्मादेवं देवरातज्येष्ठत्वेन तत्प्रकल्पितम् । अत्र प्रवरो नाम तस्मिन्नेव वंशेऽवान्तरभेदः । न तु वंशान्तरम् । तथा च स्मृतिः । एक एव ऋषिर्यावत्प्रवरेष्वनुवर्तते । तावत्समानगोत्रत्वं विना भृग्वंगिरोगणादिति । अत एवाश्वलायनबौधायनादिभिः कौशिकानां देवरातप्रवरत्वमुक्तमित्यवगन्तव्यम् ॥ ३७ ॥
यः पुरूरवसः पुत्र आयुस्तस्याभवन् सुताः ।
नहुषः क्षत्रवृद्धश्च रजी रामश्च वीर्यवान् ।
अनेना इति राजेन्द्र क्षत्रवृद्धान्वयं शृणु ॥ ३८ ॥
पदरत्नावली
श्रुतायोः सन्ततिं विस्तृत्य पुरूरवसः पुत्रस्य प्रथमस्यायोवर्शं वर्णयति बादरायणिः– य इति । नहुषान्वयस्यैव राज्यार्हत्वात् क्षत्रवृद्धाद्यन्वयस्य तदनहत्वात् सुचीकटाहन्यायमनुसन्दधानः क्षत्रवृद्धाद्यन्वयं वक्ति-क्षत्रवृद्धान्वयमिति ॥ ३८ ॥
सत्यधर्मीया
श्रुतायोः श्रावयित्वाऽन्ववायमायोर्वंशं शुकः शंसति ॥ य इति ॥ तस्यायोर्नहुषः क्षत्रवृद्धो रजी रामश्चानेना इति सुता अभवन्नित्यन्वयः । आयोः पुत्रास्तथा पञ्च सर्वे वीरा महारथाः । स्वर्भानुतनयायां च प्रभायां जज्ञिरे नृप । नहुषः प्रथमं जज्ञे वृद्धशर्मा ततः परम् । रम्भो रजिरनेनाश्चेति हरिवंशशंसनात्क्षत्रवृद्धशर्मेति शर्मान्तरं तथा रामस्य रम्भेत्यभिधाभेदो ज्ञेयः । तत्रैव क्षत्रवृद्धस्य मे शृृण्वित्याद्युक्तेः । सूचीकटाहन्यायेन वृद्धान्वयं प्रशंसन् प्रतिृणोति ॥ क्षत्रवृद्धान्वयं शृृण्विति ॥ ३८ ॥
छलारी
श्रीकृष्णावतारप्रस्तावाय यस्य वंशे कृष्णावतारस्तद्वंशस्यातिविततत्वात् सूचीकटाहन्यायेन पुरूरवसः पुत्राणां श्रुतायुप्रभृतीनां पञ्चानां कनिष्ठानां वंशानुक्त्वेदानीं प्रथमस्यायोर्वंशमाह ॥ यः पुरूरवसः पुत्र इति । रजीराम इत्यत्र रजिः, राम इति पदच्छदोऽनेना इति । तस्य सुता अभवन्नित्यन्वयः । नहुषान्वयस्य राज्यार्हत्वात्क्षत्रवृद्धान्वयस्य तदनर्हत्वात्सूचीकटाहन्यायमनुसन्दधानः क्षत्रवृद्धान्वयं वक्ति ॥ क्षत्रवृद्धान्वयमिति ॥ ३८,३९ ॥
क्षत्रवृद्धसुतस्यासन् सुहोत्रस्यात्मजास्त्रयः ।
काश्यः कुशो गृत्समद इति गृत्समदादभूत् ॥ ३९ ॥
सत्यधर्मीया
क्षत्रवृद्धसुतस्य सुहोत्रस्येति सामानाधिकरण्यम् । काश्यः कुशो गृत्समद इति त्रयः पुत्रा आसन् ॥ ३९ ॥
शुनकः शौनको यस्य बह्वृचप्रवरो मुनिः ।
काश्यस्य काशिस्तत्पुत्रः सुराष्ट्रो दीर्घतमःपिता ॥ ४० ॥
सत्यधर्मीया
शुनकस्तस्य बह्वृचप्रवरो मुनिर्ऋग्वेदप्रवर्तकप्रवरः शौनकः । काश्यस्य काशिस्तत्पुत्रः । सुराष्ट्रो दीर्घतमसो ममतासुतेतरः पिता दीर्घतपःसुत इति हरिवंशकीर्तनात्तपसोऽन्ते सुमहतो जातो धन्वस्य धीमतः । पुनर्धन्वन्तरिर्देव इति निरुक्तेस्तत्रैव पाठ एव वा ॥ ४० ॥
छलारी
क्षत्रवृद्धसुतस्य सुहोत्रस्य काश्यः कुशो गृत्समद इति त्रय आत्मजाः सुता आसन्नित्यन्वयः । गृत्समदाच्छुनकः । अभूदिति सम्बन्धः । यस्य शुनकस्य बह्वचप्रवरो वेदवेतॄणां श्रेष्ठः । शौनको मुनिः सुतोऽभूत् काश्यस्य काशिनामा पुत्रोऽभूत् सुराष्ट्रस्तत्पुत्रोऽभूत् । कथम्भूतः । दीर्घतमसः पुत्रः पिता सुराष्ट्रस्य दीर्घतमाः सुत इति यावत् ॥ ४०,४१ ॥
धन्वन्तरिर्दीर्घतमस आयुर्वेदप्रवर्तकः ।
यज्ञभुग् वासुदेवांशः स्मृतिमात्रार्तिनाशनः ॥ ४१ ॥
सत्यधर्मीया
दीर्घतपसो धन्व इति सुत इत्यध्याहर्तव्यम् । धन्वस्तु दीर्घतपसो विद्वान् धन्वन्तरिस्तत इति तत्रैवोक्तेः । दीर्घतपसस्तदपत्यस्य धन्वस्य धन्वन्तरिरायुर्वेदप्रवर्तकः । वासुदेवांशो यज्ञभुक् स्मृतिमात्रादार्तिनाशन इति भगवदितरताभ्रमभ्रंशार्थं जलधिजन्मन इदं जन्मान्तरं ज्ञेयम् । जनमेजयः । कथं धन्वन्तरिर्देवो मानुषेष्विह जज्ञिवान् । एतद्वेदितुमिच्छामि तन्मे ब्रूहि यथातथम् । वैशम्पायनः । धन्वन्तरेः सम्भवोऽयं श्रूयतां भरतर्षभ । स सम्भूतः समुद्रात्तु मथ्यमानेऽमृते पुरेत्यारभ्याब्जस्त्वमिति होवाचेत्यादिकं गर्भीकृत्य धन्वन्तरिस्त्वित्यन्तेन हरिवंशेनेतरद्विस्तरतो ज्ञेयम् ॥ ४१ ॥
छलारी
दीर्घतमसः सुत आयुर्वेदप्रवर्तको वैद्यशास्त्रप्रवर्तकः ॥ ४१ ॥
तत्पुत्रः केतुमान् यस्य जज्ञे भीमरथस्ततः ।
दिवोदासो द्युमांस्तस्मात् प्रतर्दन इति स्मृतः ॥ ४२ ॥
सत्यधर्मीया
तत्पुत्रो धन्वन्तरितनयस्ततो भीमरथात्तस्माद्दिवोदासात्प्रतर्दन इति स्मृतः सुतोऽभूत् ॥ ४२ ॥
स एव शत्रुजिद्वत्सो ऋतध्वज इतीरितः ।
तथा कुवलयाश्वेति प्रोक्तोऽलर्कादयस्ततः ॥ ४३ ॥
सत्यधर्मीया
स एव प्रतर्दन एव शत्रुजिद्वत्सो ऋतध्वजः कुवलयाश्वश्चेतीरितो नामान्येकस्यैवेमानीति व्याचख्युः । हरिवंशविरोधं सेहिरे त इति ज्ञेयम् । प्रतर्दनस्य पुत्रौ द्वौ वत्सगर्भौ सुविश्रुतौ । वत्सपुत्रो ह्यलर्क इत्युक्तेः । तत इत्यत्राप्यन्वेति । ततः प्रतर्दनाद्वत्सोऽभूत् । स एव वत्स इतीरित एव शत्रुजिदादिकुवलयाश्वेत्यन्तनामभिः प्रोक्त इत्यन्वयनेन तदविरोधो ज्ञेयः ॥४३॥
छलारी
ततः प्रतर्दनादिशब्दवाच्याद् द्युमतः सकाशादलर्कादयः सुता जाताः । द्युमतोऽनेकानि नामानि अभूवन्नित्याह ॥ प्रतर्दन इति स्मृत इति ॥ ४३ ॥
षष्ठिवर्षसहस्त्राणि षष्ठिवर्षशतानि च ।
नालर्कादपरो राजा बुभुजे मेदिनीं युवा ॥ ४४ ॥
पदरत्नावली
अलर्कं स्तौति– षष्ठिरिति । षट्शतोत्तरषष्ठिसहस्रवर्षाणीत्यर्थः । तथेत्यध्याहारः । अलर्कादपरो राजा युवा तथा न बुभुजे ॥ ४४ ॥
सत्यधर्मीया
ततो वत्सादलर्कात्पुरातनगीतश्लोकार्धेन स्वयमर्धं संयोज्य तन्महिमानमाह– व्यास इति शुको वक्ति । षष्ठिवर्षसहस्राणीति । यथोक्तं हरिवंशे । अलर्कं प्रति राजर्षिश्लोको गीतः पुरातनैः । षष्ठिवर्षसहस्राणि षष्ठिवर्षशतानि च । युवा रूपेण सम्पन्न आसीत्काशिकुलोद्वहः । लोपामुद्राप्रसादेन परमायुरवाप सः । तस्यासीत् सुमहद्राज्यं रूपयौवनशालिन इत्यादि । अलर्कादपरोऽन्यो युवा सन्नेव मेदिनीं न बुभुजे । गतम् ॥ ४४ ॥
छलारी
अलर्कं स्तौति ॥ षष्ठिरिति ॥ षट्सहस्रोत्तरषष्ठिसहस्रवर्षाणीत्यर्थः । तथेत्यध्याहारः । अलर्कादपरो राजा युवा तथा न बुभुजे ॥ ४४ ॥
अलर्कात् सन्ततिस्तस्मात् सुनीथोऽथ सुकेतनः ।
धर्मकेतुः सुतस्तस्मात् सत्यकेतुरजायत ॥ ४५ ॥
सत्यधर्मीया
सन्ततिः सुतः । अथ सुनीथात्तस्मात्सुकेतनाद्धर्मकेतोः ॥ ४५ ॥
छलारी
सन्नतिसंज्ञः । तस्मादित्यत्र पूर्वत्रोत्तरत्र च सम्बन्धः ॥ ४५ ॥
धृष्टकेतुस्ततस्तस्मात् सुकुमारः क्षितीश्वरः ।
वीतिहोत्रोऽस्य भर्गोऽतो भार्गभूमिरभून्नृपः ॥ ४६ ॥
सत्यधर्मीया
ततो धृष्टकेतोः सुकुमारो ऽस्य सुकुमारस्य अस्य भर्गस्य अतो भार्गभूमिः ॥ ४६ ॥
छलारी
ततः सत्यकेतोर्धृष्टकेतुः । तस्मादित्यस्योत्तरत्रापि सम्बन्धः । तस्मात्सुकुमाराद्वीतिहोत्रः ॥ ४६ ॥
इतीमे काश्यजा भूपाः क्षत्रवृद्धान्ववायिनः ।
रम्भस्य रभसः पुत्रो गम्भीरश्चक्रकस्ततः ॥ ४७ ॥
पदरत्नावली
इतीमे काश्यजाः काश्यस्य सन्तानजा भूपाः क्षत्रवृद्धस्यान्ववायो वंश एषामस्ति तथा । वंशोऽन्ववायः सन्तानः’ इत्यभिधानम् ॥ ४७ ॥
तस्य क्षेत्रे ब्रह्म जज्ञे शृणु वंशमनेनसः ।
शुद्धस्ततः शुचिस्तस्मात् त्रिककुद् धर्मसारथिः ॥ ४८ ॥
सत्यधर्मीया
क्षत्रवृद्धस्यान्वयो वंशः सोऽस्त्येषामिति ते तथा । कश्यपस्य सन्तानजा रामस्य रम्भस्य वा ततो रभसाद्गम्भीरश्चक्रकश्चेति द्वौ जातौ गम्भीरस्ततो गम्भीराच्चक्रक इति वा तस्येति सुलग्नमेतदर्थ इति ज्ञेयम् । तस्य चक्रकस्य क्षेत्रे कलत्रे ब्रह्म ब्राह्मणकुलम् । अनेनसो वंशं शृृणु । ततोऽनेनसस्तथा शुद्धात्तस्माच्छुचेस्तस्मात्त्रिककुदः ॥ ४७,४८ ॥
छलारी
काश्यस्य सन्तानजा भूपाः क्षत्रवृद्धस्यान्ववायो वंश एषामस्ति तथा । वंशोऽन्ववाय सन्तान इत्यभिधानम् । अल्पत्वात्क्षत्रवृद्धानुजस्य राभस्य वंशमाह ॥ रम्भस्येति । ततो गम्भीरस्ततश्चक्रकः । क्षेत्रे भार्यायां ब्रह्म ब्राह्मणकुलमायोः कनिष्ठपुत्रस्य । अनेनसो वंशमाह ॥ शृृणु वंशमिति ॥ ततोऽनेनसस्तस्मात्त्रिककुप् तस्माद्धर्मः सारथिर्यस्य स कृतकृत्यः ॥ ४७,४८ ॥
ततः शान्तरया जज्ञे कृतकृत्यः स आत्मवान् ।
रजेः पञ्चशतान्यासन् पुत्राणाममितौजसाम् ॥ ४९ ॥
सत्यधर्मीया
ततो धर्मसारथेः शान्तरयाः कृतकृत्यो जज्ञे । आत्मवान् स्वेनैव स्ववान् पुत्ररूपस्वरूपान्तररहित इत्यर्थः । रजेरायुस्तृतीयपुत्रस्य ॥ ४९ ॥
छलारी
यत आत्मज्ञानी । अतः पुत्रोत्पादनं न कृतवानित्यर्थः । आयोस्तृतीयपुत्रस्य रजेर्वंशमाह ॥ रजेरिति ॥ ४९ ॥
देवैरभ्यर्थितो दैत्यान् हत्वेन्द्रायाददाद् दिवम् ।
इन्द्रस्तस्मै पुनर्दत्वा गृहीत्वा चरणौ रजेः ॥ ५० ॥
आत्मानमर्थयामास प्रह्लादात् परिशङ्कितः ।
पितर्युपरते पुत्रा याचमानाय नो ददुः ॥ ५१ ॥
सत्यधर्मीया
रजये रजेश्चरणौ गृहीत्वाऽऽत्मानमर्थयामास । जीवयेति प्रह्लादात्परिशङ्कित इति चरणग्रहणनिमित्तम् । पितर्यग्रजौ याचमानायेन्द्राय त्रिविष्टपं नो ददुः ॥ ५०,५१ ॥
छलारी
तस्मै रजिनामकाय पुनर्दिवं दत्वाऽऽत्मानं स्वात्मानं स्वाधिपत्यं ददावित्यर्थः । प्रह्लादोऽसुरो बलवांश्च । अतस्तस्मात्परिशङ्कितो भीतः पितरि रजिनामके मृते सति याचमानायेन्द्राय स्वर्गं नो ददुरित्यन्वयः ॥ ५०-५१ ॥
त्रिविष्टपं महेन्द्राय यज्ञभागान् समाददुः ।
गुरुणा हूयमानेऽग्नौ बलभित् तनयान् रजेः ॥ ५२ ॥
सत्यधर्मीया
किञ्च यज्ञभागान्स्वयमाददुः स्वयं गृहीतवन्तः । यथोक्तं हरिवंशे । शक्रच्यावनप्रतिष्ठापने ेबदरीफलमात्रं तु पुरोडाशं विधत्स्व मे । ब्रह्मर्षे येन तिष्ठेयं तेजसाप्यायितः सदा । ब्रह्मन् कृशोऽहं विमना हृतराज्यो हृताशनः । हतौजा दुर्बलो मूढो रजिपुत्रैः कृतः प्रभो । बृहस्पतिः । तेषां च बुद्धिसम्मोहमकरोद्द्विजसत्तमः । नास्ति वादार्थं शास्त्रं च धर्मविद्वेषणं परम् । परमं तर्कशास्त्राणामसतां तन्मनोऽनुगमित्यारभ्य हतवीर्या इत्यन्तेन । गुरुणा बृहस्पतिनाऽग्नौ हूयमाने आभिचारिकमन्त्रैः । अनेन रणमारणासुशकता कौशिकस्य द्योत्यते ॥ ५२ ॥
छलारी
स्वयं यज्ञभागान्समाददुश्च । तेषां मतिभ्रंशाय गुरूणा बृहस्पतिनाऽभिचारकविधानेनाग्नौ हूयमाने सति बलभिद्बलारातिरिन्द्रो रजेस्तनयानवधीत् ॥ ५२ ॥
अवधीद् भ्रांशितान् मार्गान्न कश्चिदवशेषितः ।
प्रतिक्षत्रः क्षत्रवृद्धात् सञ्जयस्तत्सुतो जयः ॥ ५३ ॥
पदरत्नावली
क्षत्रवृद्धात् प्रतिक्षत्रोऽभूत् । अनेन क्षत्रवृद्धस्य द्वौ पुत्रौ सुहोत्रः प्रतिक्षत्रश्चेति । तत्र सुहोत्रवंशः प्राक् कथितः । इदानीं प्रतिक्षत्रस्य वंश उच्यत इत्युक्तं भवति ॥ ५३ ॥
इति श्रीमद्भागवतटीकायां विजयध्वजतीर्थभिक्षुकृतायां नवमस्कन्धस्य चतुर्दशोऽध्यायः ॥
सत्यधर्मीया
मार्गाद्भ्रंशितानुन्मादादिमत इति यावत् । कश्चिदपि पञ्चशतमध्ये । क्षत्रवृद्धस्य सन्तत्यन्तरं शंसति ॥ प्रतिक्षत्र इति ॥ तत्सुतः प्रतिक्षत्रपुत्रस्तत्सुतः सञ्जयसुतः ॥ ५३ ॥
छलारी
सिंहावलोकनन्यायेनाह ॥ प्रतिक्षत्रः क्षत्रवृद्धादिति । अनेन क्षत्रवृद्धस्य द्वौ पुत्रौ सहोत्रः प्रतिक्षेत्रश्चेति । तत्र सुहोत्रवंशः प्राक् प्रतिपादितः । इदानीं प्रतिक्षत्रस्य वंश उच्यत इत्युक्तं भवति । तत्सुत इत्यस्योभयत्र सम्बन्धः । सञ्जयस्तत्सुतः ॥ ५३ ॥
ततः कृतः कृतस्यापि जज्ञे वीर्यधनस्ततः ।
सहदेवस्ततोऽहीनो जयत्सेनस्तु तत्सुतः ॥ ५४ ॥
सत्यधर्मीया
ततो जयात्ततो वीर्यधनात्ततः सहदेवादहीनस्तत्सुतोऽहीनसूनुः ॥ ५४ ॥
छलारी
सहदेवस्तत इत्यत्र तत इत्यस्यावृत्तिः । ततः सहदेवादहीनः ॥ ५४ ॥
सङ्कृतिस्तस्य च जयः क्षत्रधर्मा महारथः ।
क्षत्रवृद्धान्वया भूपा इमे शृण्वथ नाहुषान् ॥ ५५ ॥
इति श्रीमद्भागवते नवमस्कन्धे चतुर्दशोऽध्यायः ।
सत्यधर्मीया
तस्य सङ्कृतिस्तस्य जयस्य महारथः क्षत्रधर्मा । इमे क्षत्रवृद्धान्वया भूपाः । अथ नाहुषान् शृृणु ॥ ५५ ॥
इति श्रीसत्यधर्मयतिकृतायां भागवतटिप्पण्यां नवमस्कन्धे चतुर्दशोऽध्यायः ।
छलारी
तस्य जयत्सेनस्य संकृतिस्तस्य च संकृतेर्जयः । तं विशिनष्टि ॥ क्षत्रधर्मा महारथ इति । नाहुषान् भूपान् ॥ ५५ ॥
इति श्रीछलारी शेषाचार्यकृतायां भागवतटिप्पण्यां नवमस्कन्धे चतुर्दशोऽध्यायः ।