१३ त्रयोदशोऽध्यायः

ऐलस्य चोर्वशीगर्भात् षडासन्नात्मजा नृप

॥ अथ त्रयोदशोऽध्यायः ॥

ऐलस्य चोर्वशीगर्भात् षडासन्नात्मजा नृप ।

आयुः श्रुतायुः सत्यायू रयोऽथ विजयो जयः ॥ १ ॥

पदरत्नावली

ब्रह्मणोऽत्रिः । अत्रेः सोमः । सोमाद् बुधः । बुधात् पुरूरवाः । तस्य पुत्रानाह– ऐलस्य चेति । पुरूरवस इत्यर्थः ॥ १ ॥

सत्यधर्मीया

ऐलस्य पुरूरवस ऊर्वशीगर्भादायुप्रसवानन्तरिकादात्मजाः षट् आसन् । अन्यथा ऐलपुत्रा बभूवुस्ते सप्तदेवसुतोपमा इति भारतविरोधापत्तेः । चकारोऽनुक्तैकपुत्रसमुच्चयार्थः । स चायुर्धामनामा वसुः । विश्वायुश्चैव धर्मात्मा श्रुतायुश्च तथापरः । दृढायुश्च वनायुश्च शतायुश्चोर्वशीसुता इति हरिवंशशंसितसुतान्यतमोऽत्र गृहीतस्तद्गृहीतेतरः स्वीकार्यः । नाम्नां व्यत्यासस्तु न द्वन्द्वताभ्युपगमाप्रतिद्वन्द्वः । सत्यायुरय इत्यत्र ढ्रलोपदीर्घाभाश्छान्दस इति केचित् । केचित्तु सत्यायूरय इति पठन्ति । परन्तु बहुलकोशेषु न दृश्यते स पाठः । वस्तुतस्तु सत्यायुरय इति पाठेऽपि सत्यायुना सहितश्चासौ रयश्चेत्युत्तरपदलोपसमासे न काऽप्यनुपपत्तिरिति ज्ञेयम् । इति शब्दस्याध्याहृतजय इति षट् इत्यन्वयः । आसन्नः पूर्वमूर्वश्याः स्वसमीपे निवेदितश्च सः । षट् चान्य आसन्नश्चायुरेकश्चेति षडासन्नास्ते च ते आत्मजाश्च । आसन्निति पूर्वश्लोकादावृत्तमनुमतवचनकं सदन्वेतीति सूच्यते ॥ १ ॥

छलारी

ब्रह्मणोऽत्रिः । अत्रेः सोमः । सोमाद्बुधः । बुधात्पुरूरवाः । तस्य पुत्रानाह ॥ ऐलस्य चेति । पुरूरवस इत्यर्थः । सत्यायूरय इत्यत्र ढ्रलोप इति दीर्घः । जय इत्यनन्तरमितिशब्दोऽध्याहार्यः ॥ १ ॥

श्रुतायोर्वसुमान् पुत्रः सत्यायोश्च श्रुतञ्जयः ।

रयस्याद्भुत एकस्तु जयस्य तनयोऽमितः ॥ २ ॥

पदरत्नावली

आयोर्वंशमुत्तरत्र वक्ष्यन् क्रमेण श्रुतायुप्रभृतीनां पञ्चानां वंशमाह– श्रुतायोरिति ॥ २ ॥

सत्यधर्मीया

आयोरायतो वंश इति तमुत्तरत्र शंसयिष्यन्सूचीकटाहन्यायेन द्वितीयस्य श्रुतायोरन्वयमाह ॥ श्रुतायोरिति । सत्यायोस्तृतीयस्य रयस्याद्भुत एकस्त्विति पाठेऽद्भुत इत्याश्चर्य एक एको नाम्नाऽऽसीदित्यर्थः । अथवाऽद्भुत इत्येक आसीदित्यर्थः । रयस्य सुत एकश्चेत्येकमुखः पाठः । अमितो नाम्ना ॥ २ ॥

छलारी

आयोर्वंशमुत्तरत्र वक्ष्यन् क्रमेण श्रुतायुप्रभृतीनां पञ्चानां वंशमाह ॥ श्रुतायोरित्यादिना । जयस्यामितोऽमितसंज्ञः ॥ २ ॥

भीमस्तु विजयस्याथ काञ्चनो होत्रकस्ततः ।

तस्य जह्नुः सुतो गङ्गां गण्डूषीकृत्य योऽपिबत् ॥ ३ ॥

सत्यधर्मीया

अथेत्यवान्तरवंशसूचने । ततो भीमात् ततः काञ्चनात् । तस्य होत्रकस्य जह्नुः सुतः । यतः गङ्गां भागीरथीं गण्डूषीकृत्याचम्यापिबत् । अनन्तरं तत्याज । अतः सा जान्हवी नाम्नाऽभवदिति पूरयितव्यम् । यथोक्तं हरिवंशे ।

सौहित्रिर्योऽभवज्जह्नुः केशिन्या गर्भसम्भवः ।

आजह्रे यो महत्सत्रं सर्वमेधं महामखम् ।

पतिलोभेन यं गङ्गा पतित्वेऽभिससार ह ।

नेच्छतः प्लावयामास तस्य गङ्गामतत्सदः ।

स तया प्लावितं दृष्ट्वा यज्ञवाटं समन्ततः ।

सौहित्रिरवदद् गङ्गां क्रुद्धो भरतसत्तम ।

एष ते त्रिषु लोकेषु सङ्क्षिप्यापः पिबाम्यहम् ।

अस्य गङ्गे बले यस्य सद्यः फलमवाप्नुहि ।

राजर्षिणा ततः पीतां गङ्गां दृष्ट्वा महर्षयः ।

उपनिन्युर्महाभागां दुहितृत्वेन जाह्नवीमित्यादि ॥ ३ ॥

छलारी

अथ भीमस्य । ततः काञ्चनात् । यो जह्नुर्भगीरथप्रार्थनेन गङ्गाया भूमिं प्रत्यागमनकाले गङ्गां गण्डूषीकृत्याचम्यापिबत् ॥ ३ ॥

जह्नोस्तु पूरुस्तत्पुत्रो बलाकश्चात्मजोऽजकः ।

ततः कुशः कुशस्यापि कुशाम्बुस्तनयो वसुः ॥ ४ ॥

कुशनाभश्च चत्वारो गाधिरासीत् कुशाम्बुजः ॥ ५ ॥

सत्यधर्मीया

तस्य पूरोस्तस्य बलाकस्य । ततोऽजकात् कुशः । कुशाम्बुस्तनयो नाम्ना वसुः कुशनाभश्चेति चत्वारः । गाधिः कुशाम्बुज आसीत् । एतन्नामद्वैविध्यं रामायणश्रीविष्णुपुराणादितोऽवसीयते । एषः कुशाम्बुः शक्रतुल्यः पुत्रो भवेदिति तपश्चकार । तं चोग्रतपसमवलोक्य मा भवत्वन्योऽस्मत्तुल्यवीर्य इत्यात्मनैवेन्द्रः पुत्रत्वमगात्स गाधिर्नाम कौशिकोऽभूदित्यादि विष्णुपुराणे । बलवान्कुशनामसुतस्त्वासीदित्यादि रामायणे । तथा गाधिर्गाधीति वाऽभिधाद्वयं तत्सुतस्यापीति ज्ञेयम् । गाधिनस्तनयस्त्वासीद्गाधिरित्येष विश्रुतः । गाधेः पुत्रो महातेजाः कुशनाभ इत्यादि रामायणोक्तेः । हरिवंशे च ।

पुत्रत्वं कल्पयमास स देवेन्द्रः सुरोत्तमः ।

स गाधिरभवद्राजा मघवन्कौशिकः स्वयम् ।

पौरकुत्स्याभवद्भार्या गाधिस्तस्यामजायतेति ॥ ४,५ ॥

छलारी

तस्येत्यस्यानुकर्षः । तस्य बलाकस्याजक आत्मजः । कुशस्यापि कुशाम्बुरित्यादिचत्वारः सुताः । कुशाम्बुजो गाधिरित्येकस्य नामद्वयम् । कुशपुत्रात् । कुशनाभादिति शेषः । गाधिरासीत् । तदुक्तं सङ्ग्रहरामायणे बालकाण्डपञ्चमसर्गे । कुशनाभसुताद्भूयात्कुशपौत्रान्महाबलात् । गाधिनाम्नो निजं जन्म रामायाह स्म कौशिक इति ॥ ४,५ ॥

तस्य सत्यवतीं कन्यामृचीकोऽयाचत द्विजः ।

वरं विसदृशं मत्वा गाधिर्भार्गवमब्रवीत् ॥ ६ ॥

पदरत्नावली

कुशाम्बुजो गाधिरित्येकस्य नामद्वयं तत्र तावत् परशुरामावतारचरितं वक्तुं गाधेः कन्यावंशमाह– तस्य सत्यवतीमित्यादिना ॥ ५॥ भार्गवम् ऋचीकम् ॥ ६ ॥

सत्यधर्मीया

तस्य गाधिनः सत्यवतीं नाम्ना ऋचीको द्विजोऽयाचत । सर्वथा कन्यां न दास्यामीत्यवचने द्विजत्वं हेतुः । शापभयादिममेकमसाध्यमुपदेशमुपदिदेशेत्याह ॥ वरमिति । वार्धककार्कश्यादितो विसदृशं तनयाननुरूपम् ॥ ६ ॥

छलारी

गाधेः पुत्रो विश्वामित्रो ब्रह्मर्षिरभवदित्युत्तराध्याये वक्ष्यति गाधेरभून्महातेजा इत्यादिना । तत्र तावत्परशुरामावतारचरितं वक्तुं गाधेः कन्यावंशमाह ॥ तस्य सत्यवतीमित्यादिना । तस्य गाधेर्विसदृशमननुरूपं भार्गवम् ऋचीकम् । दक्षिणवामयोरेकतः श्यामः कर्णो येषां ते । सर्वस्मिन्नङ्गे, चन्द्रस्येव वर्चो येषां ते । शुल्कं मौल्यम् । न चेदपि पर्याप्तमस्मत्कन्यकायाम् । यतः कुशिकाः कौशिका वयम् इति । कुशिकान्वय इति पाठे यतः कुशिकान्वय इति प्रसिद्ध इति योजना ॥ ६-७ ॥

एकतः श्यामकर्णानां हयानां चन्द्रवर्चसाम् ।

सहस्त्रं दीयतां शुल्कं कन्यायाः कुशिकान्वयः ॥ ७ ॥

पदरत्नावली

यतः कुशिकानामन्वयो यस्य स तथा कुशिकान्वय इति प्रसिद्धः ॥ ७ ॥

सत्यधर्मीया

एकत एकस्मिन्भागे श्यामः कर्णो येषां ते तथा तेषां चन्द्रवर्चसां सर्वाङ्गीणचन्द्रकान्तीनां शुभ्राणामित्यर्थः । शुल्कं कन्यामूल्यम् । कुशिका वयमिति पाठे यतो वयं कुशिका अतो दुर्मिलोऽस्मदनुबन्धस्ततश्चैवं कुर्वित्यर्थः । कुशिकान्वय इति पाठे कुशिकानामन्वयः सम्बन्धो यस्य स एवं चेद्भविष्यसीत्यर्थः ॥ ७ ॥

इत्युक्तस्तन्मतं ज्ञात्वा गतः स वरुणान्तिकम् ।

आनीय दत्वा तानश्वानुपयेमे वराङ्गनाम् ॥ ८ ॥

पदरत्नावली

श्वश्वा भार्यामात्रा । उभयैर्ब्रह्मक्षत्रोभयजातियोग्यैः सात्विकराजसभेदभिन्नैर्मन्त्रैश्च श्रपयित्वा प्रपच्याभिमन्त्र्य तवेदं तव मातुरिदमिति निगद्य संस्थाप्य, स्नातुं गतः ॥ ८ ॥

सत्यधर्मीया

तन्मतं जरठ इति मामसाध्ये कर्मणि न्ययुङ्क्तायमिति ज्ञात्वा तानेकतः श्यामकर्णानानीय दत्वा वराङ्गनां सत्यवतीमुपयेमे ॥ ८ ॥

छलारी

तांस्तादृशान् । श्वस्रा भार्या मात्रा उभयैर्मन्त्रैः पक्तैर्बाह्मैर्मन्त्रैश्चरुं श्रपयित्वा प्रपच्याभिमन्त्र्य तवेदं तव मातुरिदमिति निगद्य संस्थाप्य । स्नातुं गतः ॥ ८ ॥

स ऋषिः प्रार्थितः पत्न््नया श्वश्र्वा चापत्यकाम्यया ।

श्रपयित्वोभयैर्मन्त्रैश्चरुं स्नातुं गतो मुनिः ॥ ९ ॥

तावत् सत्यवती मात्रा स्वचरुं याचिता सती ।

श्रेष्ठं मत्वाऽनयाऽयच्छन्मात्रे मातुरदत् स्वयम् ॥ १० ॥

पदरत्नावली

तावत् तदा गत्यन्तरा स्वभार्यापक्षपातेन आत्मीयचरुः पुरुभिर्मन्त्रैः श्रपितः स्यादिति तया मात्रा श्रेष्ठं गत्वा याचिता सत्यवती स्वचरुं मात्रे ददौ, मातुश्चरुं स्वयमदज् जघास । आडभावश्छान्दसः ॥ ९ ॥

दुर्घटभावदीपिका

एतेन ऋचीकभ्रान्तिप्रतिपन्नस्यार्थस्यानुवादः क्रियते । एतेन किं दुष्टान्प्रति घोरत्वमुच्यते किंवा निर्दुष्टान्प्रति । नाद्यः । दुष्टान्प्रति घोरत्वस्य सुखहेतुत्वेन दुःखहेतुत्वाभावात् । नः कष्टमकार्षीदित्यभिधानस्यायोगात् । न द्वितीयः । दृप्तं क्षत्रं भुवो भारमब्रह्मण्यमधार्मिकम् । रजस्तमोवृतमहन्फल्गुन्यपीत्युत्तरग्रन्थविरोधादिति दूषणं निरस्तम् । जमदग्निकृद्वचो केन भ्रान्त्या निर्दुष्टान्प्रति घोरत्वमुच्यत इत्यङ्गीकारात् । जमदग्नेर्भ्रान्त्योक्तिस्तु । रामराम महाबाहो भवान्पापमकार्षीदित्यादि वक्ष्यमाणवाक्यत्सिद्धा ॥ १० ॥

सत्यधर्मीया

पत्न्या सपत्न्या सत्यवत्या श्वश्व्रा गाधिभार्यया चापत्यकाम्यया पुत्रेच्छया वा तदिच्छत्येत्युभयत्रान्वयि वेदम् । उभयैर्ब्रह्मक्षत्रोभयजातियोग्यैः सात्त्विकै राजसैश्च मन्त्रैश्चरुं होमं श्रपयित्वा पक्वीकृत्य मुनिर्ऋचीकः । अमुनिरिति छेदे तवेदं तवेदमित्युक्त्वा गत इत्यर्थः सम्पद्यते । यथोक्तं हरिवंशे ।

उवाचाहूय तां भर्ता ऋचीको भार्गवस्तदा ।

उपयोज्यश्चरुरयं त्वया मात्रा त्वयं तव ।

तस्यां जनिष्यते पुत्रो दीप्तिमान्क्षत्रियर्षभः ।

तवापि पुत्रं कल्याणि धृतिमन्तं तपोधनम् ।

शमात्मकं द्विजश्रेष्ठं चरुरेष विधास्यति ॥ इति ।

चरुशब्देनोपलक्षणीयं वृक्षालिङ्गनं तथा तद्व्यत्यस्तिरपि ज्ञेया । उक्तमरण्यपर्वणि ।

आलिङ्गेतां पृथग्वृक्षौ साऽश्वत्थं त्वमुदुम्बरम् ।

आलिङ्गने चरौ चैव चक्रतुस्ते विपर्ययम् ॥ इति ॥ ९ ॥

तावत्तदा गत्यन्तरा स्वचरुं स्वार्थं क्लृप्तमनया स्वमात्रा श्रेष्ठं मत्वा किञ्चिदपि स्वभार्यापक्षपातेन स चरुः पुरुभिर्मन्त्रैः श्रपितः स्यादिति मात्रे स्वचरुमयच्छत् । मातुः स्वयमदाज् जघास । मातुः सम्बन्धितया दत्तं च परस्परदानेनास्य चरोः फलाधायकतेति ज्ञायते च हरिवंशोपरि । तथा हि ।

चरुमादाय यत्नेन सा तु मात्रे न्यवेदयत् ।

माता तु तस्य दैवेन दुहित्रे स्वं चरुं ददौ ॥ इति ॥ १० ॥

छलारी

तावत्तदा भार्यायां भर्तुः स्नेहात्पुत्रीयं चरुं श्रेष्ठं मत्वाऽनया मात्रा स्वमात्रा याचिता सत्यवती स्वचरुं मात्रे ददौ । मातुश्चरुं स्वयमदाद्भक्षितवती । आडभावश् छान्दसः ॥ १० ॥

तद् विज्ञाय मुनिः प्राह पत्नीं कष्टमकारषीः ।

घोरो दण्डधरः पुत्रो भ्राता ते ब्रह्मवित्तमः ॥ ११ ॥

पदरत्नावली

कष्टं जुगुप्सितम् । तव पुत्रो घोरो दण्डधरः सर्वसंहारको भविष्यति । ते भ्राता ब्रह्मवित्तमो भविष्यति ॥ ११ ॥

सत्यधर्मीया

वनादागतस्तत् पत्नीश्वश्रूभ्यां कृतं विनिमयं विज्ञाय तपःशक्त्या । यथोक्तं तत्रैव । तामृचीकस्ततो दृष्ट्वा योगेनाभ्यनुसृत्य चेति । नः कष्टमसम्मतत्वात् । तत्किं कष्टमित्यत आचष्टे ॥ घोरो दण्डधरः पुत्र इति । ते भ्राता श्वश्रुसुतः ॥ ११ ॥

छलारी

कष्टं जुगुप्सितम् । तदेवाह । ते पुत्रो घोरो दण्डधरः सर्वसंहारको भविष्यति । भ्राता ब्रह्मवित्तमो भविष्यतीति ॥ ११ ॥

प्रसादितः सत्यवत्या मैवं भूदिति भार्गवः ।

अथ तर्हि भवेत् पौत्रो जमदग्निस्ततोऽभवत् ॥ १२ ॥

पदरत्नावली

सा चा सत्यवती कौशिकीनामिका नदी, बभूवेति शेषः ॥ १२ ॥

सत्यधर्मीया

एवं मा न भूदिति सत्यवत्या प्रसादित उत्तरमाहेत्यप्याह ॥ मैवं भूदिति भार्गव इति । एवं त्वल्लपितानुकूलं मा सर्वथा पुत्रपौत्रादिपारम्पर्येण तद्भून्न भवेत् । माङि लुङ् सर्वलकारापवाद इत्युक्तेर्न भवेदित्यर्थः । तर्हि ममार्थना निरर्थकेत्यत एवं व्यवस्थया तव दुरवस्थानिस्तार इति दारान्प्रत्युदाहरति ॥ अथेति । पौत्रो घोरो भवेत् । तत एवमुक्त्यनन्तरं जमदग्निरभवत्पुत्र इति शेषः । न च चरोर्मन्त्रैर्नातन्त्री भवतः कथमित्यवस्था जातेत्यतस्तपः सामर्थ्यमृषेरेव विनियमनमपर्यवसायि बभूवेति न सत्यवतीयाञ्चाया व्यभिचारो न च व्यभिचारश्चरोरिति मन्तव्यम् । यथोक्तं हरिवंशे ।

इच्छन् लोकानपि मुने सृजेथाः किं पुनः सुतम् ।

शमात्मकमृजुं त्वं मे पुत्रं दातुमिहार्हसि ।

काममेवंविधः पौत्रो मम स्यात्तव च प्रभो ।

यद्यन्यथा न शक्यं वै कर्तुमेतद्द्विजोत्तम ।

ततः प्रसादमकरोत्स तस्यास्तपसो बलात् ।

भद्रे नास्ति विशेषो मे पौत्रे वा वरवर्णिनि ।

ततः सत्यवती पुत्रं जनयामास भार्गवम् ।

तपस्यभिरतं दान्तं जमदग्निं शमात्मकम् ।

भृगोश्चरुविपर्यासे रौद्रवैष्णवयोः पुरा ।

जगत्यां वैष्णवेशे तु जमदग्निरजायतेति ॥ १२ ॥

छलारी

घोरो दण्डधरः पुत्रो मा भूदिति प्रसादितो भार्गव आह ॥ अथ तर्हीति । ते पौत्रो घोरो भविष्यतीति । पुत्रस्तु ब्रह्मज्ञानी भविष्यतीत्यर्थः । न चैतावता वरस्य वैयर्थ्यम् । परंपरया जनकत्वादिति हृदयम् । ततो भार्गवात्सत्यवत्यां जमदग्निः पुत्रोऽभवदित्यर्थः ॥ १२ ॥

सा चाभूत् सुमहापुण्या कौशिकी लोकपावनी ।

रेणोः सुतां रेणुकां वै जमदग्निरुवाह याम् ॥ १३ ॥

सत्यधर्मीया

सा च सत्यवत्यपि नाम्ना कौशिकी नदीति शेषः । यथोक्तं तत्रैव । कौशिकीति समाख्याता प्रवृत्तेयं महानदीति । रेणोरिक्ष्वाकुकुलभवस्य राज्ञः सुतां नाम्ना रेणुकां तस्या एव कामलीति नाम च । यथोक्तम् । इक्ष्वाकुवंशप्रभवो रेणुर्नाम नराधिपः । तस्य कन्या महाभागा कामली नाम रेणुका । रेणुकायां तु कामल्यामित्यादि । अत एव न कामलेयो जघानामुं हैहयं क्षत्रपुङ्गवमिति पद्मपुराणविरोध इति ज्ञेयम् । यां जमदग्निरुवाह तस्यामित्युत्तरेणान्वयः ॥ १३ ॥

छलारी

सा च सत्यवती कौशिकी नामिका नद्यभूत् । यामुवाह ॥ १२ ॥

तस्यां वै भार्गवऋषेः सुता वसुमदादयः ।

यवीयान् जज्ञ एतेषां राम इत्यभिविश्रुतः ॥ १४ ॥

पदरत्नावली

भार्गवऋषेर्जमदग्नेः । वसुमानेवादिर्येषां ते वसुमदादयः । यवीयान् कनिष्ठः ॥ १४ ॥

सत्यधर्मीया

भार्गवर्षेर्जमदग्नेर्वसुमानेवादिर्येषां ते । यवीयान्कनिष्ठः ॥ १४ ॥

छलारी

तस्यां भार्गवर्षेर्जमदग्नेर्वसुमदादयः । अभवन्निति शेषः । एतेषां निर्धारणे षष्ठी ॥ १४ ॥

यमाहुर्वासुदेवांशं हैहयानां कुलान्तकम् ।

त्रिःसप्तकृत्वो य इमां चक्रे निःक्षत्रियां महीम् ॥ १५ ॥

सत्यधर्मीया

यं वासुदेवांशं साक्षादधोक्षजं पद्मनाभांशम् । एतन्नानावताराणां निधानं बीजमव्ययमिति वचनात् । आहुः । हैहयानां यत्कुलं तदन्तकम् । हेहयानामिति सुपठम् । तद्राजस्य बहुषु तेनैवास्त्रियामिति तद्राजा । ञो लुक्बहुष्वित्युक्तेः । न वृत्तविच्छित्तिश्च । अथवा हैहयशब्द एवायमखण्डस्तेन तद्राजलोपो न जायत इति च हैहयानामिति पाठः । अस्त्रियामित्युक्तेः । हैहयानां प्रजानामिति वा । त्रिःसप्तकृत्व एकविंशतिवारम् ॥ १५ ॥

छलारी

यं रामं वासुदेवांशं वासुदेवः पद्मनाभो यस्यांशमाहुः । एतन्नानावताराणां निदानं बीजमव्ययमित्युक्तेः । त्रिसप्तिकृत्व एकविंशतिवारमित्यर्थः ॥ १५ ॥

दृप्तं क्षत्रं भुवो भारमब्रह्मण्यमधार्मिकम् ।

रजस्तमोधृतमहन् फल्गुन्यपि कृतेंऽहसि ॥ १६ ॥

पदरत्नावली

क्षत्रवधे मुख्यं कारणमाह– दृप्तमिति । रजस्तमोभ्यां तत्प्रयोज्यरागद्वेषाभ्यां वृतम् । अहन् हतवान् । फल्गुन्यल्पे । अंहस्यपराधे ॥ १५ ॥

सत्यधर्मीया

दृप्तमहङ्कृतं भारं तद्रूपं तत्प्रयोजकं दृप्तत्वादिकं रजस्तमोधृतं रजस्तमसी तत्प्रयोज्यरागद्वेषौ धृते येन । वृतपाठोऽपि वृतोऽस्माभिः । तदर्थश्च स्फुटः । अंहसि तदपराधे फल्गुन्यल्पेऽप्यहन्हतवान् ॥ १६ ॥

छलारी

क्षत्रवधे मुख्यकारणमाह ॥ दृप्तमिति । भुवो भारभूतं क्षत्रं दुष्टक्षत्रियसमूहं रजस्तमोभ्यां रागद्वेषाभ्यां वृतमहन्हतवान् । फल्गुन्यल्पेंऽहसि अपराधे ॥ १६ ॥

राजोवाच —

किं तदंहो भगवतो राजन्यैरजितात्मभिः ।

कृतं येन कुलं नष्टं क्षत्रियाणामभीक्ष्णशः ॥ १७ ॥

पदरत्नावली

अभीक्ष्णशोऽनेकवारम् ॥ १६ ॥

सत्यधर्मीया

तनीयस्येनसि कृते कृतमनेनानेन सांहननं हैहयानामिति श्रुतवान्परीक्षित् परीक्षणीयं तदंह इति पृच्छति ॥ किमिति । अजितात्मभिरजितोऽवशीकृत आत्मा मनो येषां ते तैरभीक्ष्णशः पुरुवारम् ॥ १७ ॥

छलारी

राजन्यैः क्षत्रियैरजितात्मभिरजितमनस्कैः । येनापराधेनाभीक्ष्णशो बहुवारम् ॥१७॥

श्रीशुक उवाच —

हैहयानामधिपतिरर्जुनः क्षत्रियर्षभः ।

दत्तं नारायणस्यांशमाराध्य परिकर्मभिः ॥ १८ ॥

पदरत्नावली

दत्तं दत्तात्रेयम् । परिकर्मभिः परिचर्याभिराराध्य ॥ १७ ॥

बाहून् दशशतं लेभे दुर्धर्षत्वमरातिषु ।

अव्याहतेन्द्रियौजश्रीतेजोवीर्ययशोबलम् ॥ १९ ॥

पदरत्नावली

अरातिषु शत्रुषु दुर्धर्षत्वमप्रधृष्यत्वं वरं तथा अव्याहतानि यानीन्द्रियाणि तेषामोजोऽवष्टम्भशक्तिश्च श्रीः शरीरकान्तिश्च तेजः प्रभावश्च वीर्यमस्त्रादिलभ्यं च यशः कीर्तिश्च बलं शौर्यं च लेभ इत्यन्वयः ॥ द्वन्द्वैकवद्भावोऽयम् ॥ १८ ॥

सत्यधर्मीया

अर्जुनः कार्तवीर्यार्जुनो दत्तं दत्तात्रेयमत्रिपुत्रम् । आत्मेशब्रह्मसम्भवानित्युक्ते- र्नारायणस्यात्मनोंऽशं साक्षात्कलाम् । परिकर्मभिः परिचर्याभिराराध्य बाहून्दशशतं सहस्रसङ्ख्याकान् लेभे । अरातिष्वमित्रेषु दुर्धर्षत्वमप्रधृष्यतां च तथाऽव्याहतानि चेन्द्रियाणि यानि तेषामोजोऽवष्टम्भ-नसामर्थ्यमर्थादव्याहतताऽपीन्द्रियेष्वर्थनालभ्येति सूचितम् । श्रीः शोभा च सम्पद्वा तेजश्च शरीरकान्तिः प्रभावो वा वीर्यमस्त्रादिलभ्यं यशः कीर्तिश्चैतैः सहितं च तद्बलं च शारीरं सामर्थ्यं च लेभ इत्यन्वयः । योकारं प्रत्यन्तरासहायपुस्तकन्यस्तं विलोक्याजश्रीरौत्पत्तिश्रीरिति व्याख्यातम् । अनिर्वाहात्परन्तु न लग्नम् । औत्पत्तिकत्वे सम्पद आराधनसाधनसाध्यगणगणनौचित्यादिति चिन्तयन्ति । प्रत्यन्तरेषु यौजः श्रीतेज इत्यादि दृश्यते पाठो व्याकृतवन्तश्च केचित् ॥ १८,१९ ॥

छलारी

कार्तवीर्यार्जुनेन कृतमपराधं वक्तुं तस्य दर्पहेतुमैश्वर्यादिकमाह ॥ हैहयानामित्यादिना । दत्तं दत्तात्रेयनामकम् । परिकर्मभिर्हरिपरिचर्यारूपकर्मभिः । अरातिषु शत्रुषु दुर्धर्षत्वं वरं च लेभे । अव्याहतान्युभयविधेन्द्रियाणि च । ओजोऽवष्टम्भशक्तिश्च । श्रीः शरीरकान्तिश्च । तेजो वीर्यादिकं च । लेभ इत्यनुषङ्गः । द्वन्द्वैकवद्भावोऽयम् ॥ १८,१९ ॥

योगेश्वरत्वमैश्वर्यं गुणा यत्राणिमादयः ।

चचाराव्याहतगतिर्लोकेषु पवनो यथा ॥ २० ॥

पदरत्नावली

योगेश्वरत्वं योगसामथ्यरूपमैश्वर्यम् । यत्र यस्मिनैश्वर्येऽणिमादयो गुणा अन्तर्भूतास्तादृशमैश्वर्यं लेभ इत्यर्थः । अव्याहतगतिश्चचारेत्यन्वयः ॥ १९ ॥

सत्यधर्मीया

विष्णोर्दत्तात्रेयनाम्नः प्रसादाद्योगवीर्यवानिति वचनाद् यत्र यस्मिन्योगेश्वरत्वे ऐश्वर्यमणिमादयश्च स्वत एव सम्पद्यन्ते सम्पन्नैतद्योगेश्वरत्वं लेभ इत्यन्वयः । स पवनो वायुर्यथा तथाऽव्याहतगतिरप्रतिहतगतिश्चचार भूमाविति शेषः ॥ २० ॥

छलारी

योगेश्वरत्वं योगसामर्थ्यरूपमैश्वर्यं यत्र यस्मिन्नैश्वर्येऽणिमादयो गुणा अन्तर्भूतास्तादृशमैश्वर्यं लेभ इत्यर्थः ॥ २० ॥

स्त्रीरत्नैरावृतः क्रीडन् रेवाम्भसि मदोत्कटः ।

वैजयन्तीं स्त्रजं बिभ्रद् रुरोध सरितं भुजैः ॥ २१ ॥

पदरत्नावली

रेवाया नर्मदाया अम्भसि क्रीडन् जलक्रीडां कुर्वन् सरितं नर्मदां रुरोध प्रवाह स्तम्भनं कृतवान् ॥ २० ॥

सत्यधर्मीया

रेवाम्भसि नर्मदोदके । रेवा तु नर्मदा सोमोद्भवा मेखलकन्यकेत्यमरः । नर्मदातोयमाश्रित्येत्यादिरामायणेन नैव संवाद्यम् । सरितं नदीं भुजै रुरोध प्रवाहोपहतिं चक्र इति भावः ॥ २१ ॥

छलारी

रेवाया नर्मदाया अम्भसि क्रीडन् जलक्रीडां कुर्वन्सरितं नर्मदां रुरोध प्रवाहस्तंभनं कृतवान् ॥ २१ ॥

विप्लावितं स्वशिबिरं प्रतिस्त्रोतःसरिज्जलैः ।

नामृष्यत् तस्य तद्वीर्यं वीरमानी दशाननः ॥ २२ ॥

पदरत्नावली

दशाननो दिग्विजयावसरे माहिष्मतीपुर्याः समीपे नर्मदायां सदाशिवपूजामाचरन् कार्तवीर्याजुनेन प्रवाहस्यावरोधात् प्रतिस्रोतःसरिज्जलैः प्रतिगमनं स्रोतः प्रवाहो येषां तानि प्रतिस्रोतांसि, प्रतिस्रोतांसि च तानि सरिज्जलानि च प्रतिस्रोतःसरिज्जलानि, तैर्विप्लावितं प्रवाहवेगेन नीतं स्वशिबिरम्, वीक्ष्येति शेषः । स्रोतोऽम्बुनिर्गमद्वारे इन्द्रियेषु जलसृतौ’ इत्यभिधानम् ॥ २१ ॥

सत्यधर्मीया

प्रतिस्रोतःसरिज्जलैरुपरि प्रसरत्सरिद्वारिभिर्बाह्वपवाहितत्वात्प्रवाहस्य शिबिरं विप्लावितं श्रुत्वा वीरमानी तत्त्वेनाभिमानवान्दशाननो नामृष्यन्न सेहे । यथोक्तं रामायणे ।

तमद्भुततमं दृष्ट्वा राक्षसौ शुकसारणौ ।

सन्निवृत्तावुपागम्य रावणं तमथोचतुः ॥ इत्यादि ।

शिबिरं तदादिसदाशिवसपर्योपयुक्तपुष्पोपहारादिकं चाम्बुपप्लुतं दृष्ट्वा । तथा हि रामायणे पुष्पोपहारं सकलं रावणस्य जहार ह । रावणोऽर्धसमाप्तं तमुत्सृज्य नियमं तदा । इति । असहने हेतुर्वीरमानीति ॥ २२ ॥

छलारी

रावणो दिग्विजये माहिष्मतीपुर्याः समीपे नर्मदायां देवपूजां कुर्वन् कार्तवीर्यार्जुनेन प्रवाहस्यावरोधात्प्रतिस्रोतः सरिज्जलैः । प्रतिस्रोतः प्रतिगमनं येषां सरिज्जलानां तथा तैर्विप्लावितं स्वशिबिरमालक्ष्य तद्वीर्यं नामृष्यन् न सेहे ॥ २२ ॥

गृहीतो लीलया स्त्रीणां समक्षं कृतकिल्बिषः ।

माहिष्मत्यां सन्निरुद्धो मुक्तो येन कपिर्यथा ॥ २३ ॥

पदरत्नावली

यथा केनचित् कपिबद्धो पुनर्मुक्तश्च भवति, तथाऽयं दशमुखः कृतकिल्बिषः । क्रीडन्तमभिभावयितुं प्रवृत्तोऽत एवापराधाद् येनार्जुनेन माहिष्मत्यां सन्निरुद्धोऽथ पुलस्त्यप्रार्थनया मुक्तश्च ॥ २२ ॥

सत्यधर्मीया

स्त्रीणां समक्षमिति बह्वक्षमताहेतुरिवात्यवमानहेतुरिति ज्ञेयम् । माहिष्मत्यां तन्नगर्यां येन कार्तवीर्येण यथा कपिस्तथा सन्निरुद्धो मुक्तश्च । पुलस्त्यप्रार्थितोऽमुचदिति हृदयम् । ततः पुत्रकृतस्नेहात्कम्पमानो महाधृतिः । माहिष्मतीपतिं द्रष्टुमाजगामेत्यारभ्य पुलस्त्याज्ञां प्रगृह्याथ पार्थिवेन्द्रो मुमोच वेत्यन्तेन रामायणोक्तेः । कपिर्यथा तथा निरुद्धो मुक्तो मानपूर्वकं मुक्त इत्यर्थः । इदमप्यवादीदादिकविः । प्रपूज्य दिव्याभरणस्रगम्बरैरित्यादिना । कपिर्वाली यथाऽमुचत्तथा येन मुक्त इति वा ॥ २३ ॥

छलारी

कृतकिल्बिषः क्रीडन्तमभिभावितुं प्रवृत्तोऽत एवापराधात्कार्तवीर्यार्जुनेन गृहीतो रावणो माहिष्मत्यां पुर्यां कपिर्यथा कपिरिव सन्निरुद्धश्च येनावज्ञया मुक्तश्च ॥ २३ ॥

स एकदा तु मृगयां विचरन् विजने वने ।

यदृच्छयाऽऽश्रमपदं जमदग्नेरुपाविशत् ॥ २४ ॥

सत्यधर्मीया

यदृच्छया हरीच्छया ॥ २४ ॥

छलारी

इदानीं श्रीरामस्य कार्तवीर्यार्जुनकृतमपराधं दर्शयन्नाह ॥ स एकदेत्यादिना ॥ २४ ॥

तस्मै स नरदेवाय मुनिरर्हणमाहरत् ।

ससैन्यामात्यवाहाय हविर्धान्या तपोधनः ॥ २५ ॥

पदरत्नावली

हविर्घान्या कामधेन्वा ॥ २४ ॥

सत्यधर्मीया

हविर्धान्या कामधेन्वा ॥ २५ ॥

छलारी

नरवीराय कार्तवीर्यार्जुनभूपाय हविर्धान्या कामधेन्वा । अर्हणम् आतिथ्यादि ॥ २५ ॥

स वीरस्तस्य तद् दृष्ट्वा आत्मैश्वर्यातिशायनम् । (वि.पाठो ऽतिशायिनम्)

तन्नाद्रियन्नग्निहोत्रीं साभिलाषः स हैहयः ॥ २६ ॥

पदरत्नावली

आत्मनः स्वस्य ऐश्वर्यमतिशायिनम् अतीत्य वर्तमानं तस्य जमदग्नेस्तदैश्वर्यं दृष्ट्वा तद् आत्मैश्वर्यम् । नाद्रियन् नादरं कुर्वन्, अग्निहोत्रीं कामधेनंु प्रति साभिलाषः सन् हविर्धानीं धेनुं हर्तुं नेतुं नरान् भृत्यान् अयोजयन्नियुक्तवान् । तत्र निमित्तमाह– दर्पादिति ॥ २५-२६ ॥

हविर्धानीमृषेर्दर्पान्नरान् हर्तुमयोजयत् ।

तां ते माहिष्मतीं निन्युः सवत्सां क्रन्दतीं बलात् ॥ २७ ॥

दुर्घटभावदीपिका

अथ हविर्धान्या अपहारानन्तरं राजन्यर्जृने निर्याते सत्याश्रमे आश्रममागतःसन् तस्यार्जुनस्य तद्दौरात्म्यमाश्रमे श्रुत्वाऽऽहतोऽहिरिव चुक्रोधेति । एतेनाश्रम आगत इति वक्तव्यमाश्रम इति सप्तम्यन्तमनन्वितमिति दूषणं परास्तम् । आश्रम इत्यस्यावृत्तिमङ्गीकृत्यैकस्यार्थवशाद्वितीयान्तं चाङ्गी-कृत्यागत इत्यनेनान्वयमुक्त्वा द्वितीयस्याश्रम इति सप्तम्यन्तस्य श्रुत्वेत्यनेनान्वयस्योक्तत्वात् ॥२७॥

सत्यधर्मीया

स वीरः कार्तवीर्यस्तस्य जमदग्नेरात्मैश्वर्यातिशायनमात्मन ऐश्वर्यस्यातिशायनमतिक्रम्य वर्तनं दृष्ट्वा गोमात्रेण साङ्गोपाङ्गचतुरङ्गसेनासत्कारोपयुक्तं तदिति यावत् । तदात्मैश्वर्यं नाद्रियन् कियन्मदीयं तुच्छमिति तत्रादरं न कुर्वन् । अग्निहोत्रीयां गामुद्दिश्य साभिलाषः साशः स हैहयस्तामृषेर्हविर्धानीं हर्तुं नरान्दूतानयोजयन्नियुयोज । तत्र हेतुमाह ॥ दर्पादिति । ते दूतास्तां माहिष्मतीं निन्युः । तान्ते रुषौ ग्लानिमति, ऋषेरिति विपरिणतं सत्सप्तम्यन्तमेवान्वेति । सति सवत्सां क्रन्दतीं बलान्निन्युरिति वा । तदातिथ्यमनाद्रियत् । अन्यत्राभिलाषवतः पुरुषस्यान्यत्र न रुचिरिति प्रसिद्धमित्यन्नानादरणं गोगौरवादिति ज्ञेयमिति व्याकुर्वते ॥ २६,२७ ॥

छलारी

आत्मैश्वर्यातिशायिनमतीत्य वर्तमानम् । तस्य जमदग्नेस्तदैश्वर्यं दृष्ट्वा तत्तेन कृतमर्हणं नाद्रियन्ननादरं कुर्वन् अग्निहोत्रीयकामधेनुं प्रति साभिलाषोऽभूत् । सहैहयो हैहयदेशस्थैः सहितः । हविर्धानीं कामधेनुं नरान् भृत्यान्हर्तुं नेतुं माहिष्मतीं स्वपुरीम् ॥ २६,२७ ॥

अथ राजनि निर्याते राम आश्रम आगतः ।

श्रुत्वा तत् तस्य दौरात्म्यं चुक्रोधाहिरिवाहतः ॥ २८ ॥

सत्यधर्मीया

तस्यार्जुनस्य । आहतः पदाऽहिरिव चुक्रोध कोपं दर्शयामासेत्यर्थः । अत्र कपिलकोपविषये मानमानन्दतीर्थवर्यैरुदाहृतमिति न पराक्रान्तम् ॥ २८ ॥

छलारी

राजनि कार्तवीर्यार्जुननामके राज्ञि । आहतः । दण्डेनेति शेषः ॥ २८ ॥

परशुं योजयामास सतूणं चर्मकार्मुकम् ।

अन्वधावत दुर्धर्षो मृगेन्द्र इव यूथपम् ॥ २९ ॥

पदरत्नावली

योजयामास उत्तेजितं कृतवान् । कार्मुकम्, गृहीत्वेति शेषः । गजयूथपम् ॥ २८ ॥

दुर्घटभावदीपिका

परशुं योजयामासेत्यस्य परशुं हस्तेन योजयामासेत्यर्थः । परशुं हस्ते दधारेति भावः ॥ आत्मधामभिरित्यस्य परमात्मरूपाश्च तास्तेजोरूपाश्च ताभिरित्यर्थः ॥ २९ ॥

सत्यधर्मीया

सतूणं तूणाभ्यां सहितं चर्मकार्मुकं परशुं चेति योजयामास स्वसंयुक्तीकृतवान् धृतवानिति यावत् । अन्वधावत दुर्धर्ष इति पाठः सरलोऽप्रयासम् । सानुप्रासश्च दुर्मर्ष इति पाठोऽपि क्वाचित्कः सम्भवदर्थः । प्रथमपाठे, एकादशस्कन्धे तेजस्वी तपसा दीप्तो दुर्धर्ष इति श्लोकतात्पर्ये पराभवो धर्षणं स्यादवज्ञानमथाऽपि वा । न तत्सत्सु सदा कुर्यात्सहसा शपनं न चेति साद्गुण्य इत्युक्तेः परपराभवनाशक्य इत्यर्थः । योजयामासान्वधावत चेति योजना ॥ २९ ॥

छलारी

योजयामासोत्तेजितं कृतवान् । वैकुण्ठे योजयामासेति वा । कार्मुकं गृहीत्वेति शेषः । मृगेन्द्रः सिंहो यूथपं गजयूथपम् ॥ २९ ॥

तमापतन्तं भृगुवर्यमोजसा धनुर्धरं बाणपरश्वधायुधम् ।

ऐणेयचर्माम्बरमात्मधामभिर्युतं जटाभिर्ददृशे पुरीं नृपः ॥ ३० ॥

पदरत्नावली

ऐणेय चर्म कृष्णाजिनं तदेवाम्बरं यस्य स तथा तम् । आत्मनः स्वस्य धाम तेजो यासां ताः, ताभिर् जटाभिर्युक्तं तम् । पुरीम् आपतन्तम् ॥ २९ ॥

सत्यधर्मीया

एणस्य स्त्री एणी तस्या इदमित्यर्थे एण्या ढञिति ढञि एयादेशे चैणेयम् । ऐणेयमेण्याश्चर्माद्यमित्यमरः । कृष्णाजिनमेवाम्बरं वस्त्रं यस्य स आत्मस्वरूपभूतं धाम तेजो यासां ताभिर्जटाभिरात्मनो धामानि तेजांसि तैर्जटाभिश्च युताम् पुरीं प्रत्योजसाऽऽपतन्तं भृगुवर्यं नृपः कार्तवीर्यो ददृशे ॥ ३० ॥

छलारी

कृष्णाजिनं तदेव अम्बरं यस्य स तथा । अर्कवद्बालार्कवद्धाम तेजो यासां ताभिर्ददृशे ॥ ३० ॥

अचोदयद्धस्तिवरांश्च पत्तिभिर्गदासिबाणर्ष्टिशतघि्नशक्तिभिः ।

अक्षौहिणीः सप्तदशातिभीषणास्ता राम एको भगवानसूदयत् ॥ ३१ ॥

पदरत्नावली

अर्जुनो या अक्षौहिणीरचोदयत् ता राम एक एवासूदयदित्यन्वयः ॥ ३० ॥

सत्यधर्मीया

हस्तिवरान्गजराजांस्तत्सादिनो वा पत्तिभिः पदातिभिः । गदा चासिश्च बाणाश्चर्ष्ट्यश्च शतघ्नयश्च तैः सहिताः शक्तयो येषां ते तैरतिभीषयन्तीति तास्तथा । अत्यन्तं भीषणं याभिस्ताः सप्तदशाक्षौहिणीर् या अचोदयत्ता राम एक एवासूदयत् । भगवानित्येतदसङ्गतताप्रच्युत्या इति ज्ञेयम् ॥ ३१ ॥

छलारी

अर्जुनो या अक्षौहिणीरचोदयद्रामस्ता असूदयद्धतवानित्यन्वयः । कथम्भूताः । अक्षौहिणीर्हस्त्यादिभिः सहिता गदादिभिश्च सहिताः ॥ ३१ ॥

यतो यतोऽसौ प्रहरन् परश्वधो मनोनिलौजाः परचक्रसूदनः ।

ततस्ततश्छिन्नभुजोरुकन्धरा निपेतुरुर्व्यां हतसूतवाहनाः ॥ ३२ ॥

पदरत्नावली

परेषां चक्रं सैन्यं सूदयतीति स तथा । चक्रं सैन्यरथाङ्गयारित्यभिधानम् । मनोवदनिलवदोजो वेगो यस्य स तथा । मनोवद्वेगोऽनिलवदवष्टम्भ इति वा । ओजोऽवष्टम्भबलयोः, इति यादवः ॥ ३१ ॥

दुर्घटभावदीपिका

मनोनिलौजा मनोवायुवद्वेगो यस्य स तथा । परचक्रसूदनः परसैन्यसंहारकोऽसौ परश्वधः परशु यतो यान् यान्प्रहरन् बभूव ततस्ततस्ते हतसूतवाहनाश् छिन्नभुजोरुकन्धराः सन्त उर्व्यां निपेतुरिति । एतेन यान्यानिति वक्तव्यम् । यतो यतस्ततस्तत इति वचनमनुपपन्नमिति दूषणस्यानवकाशः । यतो यत इति तसिर्द्वितीयायास्ततस्तत इति तसिः प्रथमाया इत्यभ्युपगमात् ॥ ३१ ॥

इति श्रीभागवतटिप्पण्यां त्रयोदशोऽध्यायः ॥ ९-१३ ॥

सत्यधर्मीया

यतो यतो यत्र यत्र परश्वधः परशुर्मनोनिलौजा मनश्चानिलौजा मनश्चानिलश्चेन्मिलितौ तयोरोजोऽवष्टम्भशक्तिर्बलं वा यस्य सः । अभूतोपमा । परचक्रं परसैन्यं सूदयतीति स तथा हरेश्चक्रमायुधत्वेन प्रसिद्धमत एतदपेक्षया किञ्चित्सामर्थ्यविशेषोऽधिकस्तत्र स्यादित्यतो वाऽऽह ॥ परचक्रसूदन इति । परस्य चक्रवत्सूदयतीति स तथेति प्रहरन् गत इति शेषः । ततस्ततस्तत्र तत्र हतसूतवाहनाः सन्तश्छिन्नभुजोरुकन्धरा उर्व्यां निपेतुः ॥ ३२ ॥

छलारी

परेषां चक्रं सैन्यं सूदयतीति तथा । चक्रं सैन्यरथांगयोरित्यभिधानम् । मनोवदनिलवदोजो वेगो यस्य स तथा । मनोवद्वेगोऽनिलवदवष्ठंभ इति वा । ओजोऽवष्ठम्भबलयोरिति यादवः । असौ रामो यतो यतो यत्र यत्र प्रहरन् शत्रुशिरः संहरन् परश्वधो यस्य स तथा । तादृशः सन् गतः, तत्र तत्र परेषां वीरा निपेतुरित्यन्वयः । कथम्भूताः । छिन्ना भुजा उरवः कन्धराश्च येषाम् । हताः सूता वाहनानि च येषाम् ॥ ३२ ॥

दृष्ट्वा स्वसैन्यं रुधिरौघकर्दमे रणाजिरे रामकुठारसायकैः ।

विवृक्णचर्मध्वजचापविग्रहं निपातितं हैहय आपतद् रुषा ॥ ३३ ॥

पदरत्नावली

विवृणा विच्छिन्ना चर्मध्वजचापविग्रहा यस्य तत् । विग्रहो देहः ॥ ३२ ॥

सत्यधर्मीया

रणाजिरे रणाङ्गणे रुधिरौघकर्दमे रक्तसङ्घपङ्के विवृक्णाश्छिन्ना चर्मध्वजचापविग्रहा यस्य तत् । पातितं दृष्ट्वा हैहयो रुषाऽऽपतत् ॥ ३३ ॥

छलारी

हैहयः कार्तवीर्यार्जुनो रुधिरोघो रक्तप्रवाहस्तेन युक्तकर्दमे निपातितं स्वसैन्यं दृष्ट्वा । आपतत् । कुठारसायकैर्विवृक्णचर्मादयो यस्य तद् विग्रहो देहः ॥ ३३ ॥

अथार्जुनः पञ्चशतेषु बाहुभिर्धनुष्षु बाणान् युगपत् स सन्दधे ।

रामाय रामोऽस्त्रभृतां समग्रणीस्तानेकबद्धेषुभिरच्छिनत् समम् ॥ ३४ ॥

पदरत्नावली

अथागत्यार्जुनः पञ्चशतेषु धनुष्षु इतरैः पञ्चशतैर्बहुभिर् बाणान् युगपदेकप्रयत्नेन सन्दधे । अस्त्रभृतां मध्ये समग्रणीरतिश्रेष्ठो रामः सम युगपदेकस्मिन् धनुषि बद्धेषुभिः सन्धितशरैस्तान् पञ्चशतशरान् अच्छिनदित्यन्वयः ॥ ३३ ॥

सत्यधर्मीया

पञ्चशतेषु धनुःषु बाहुभिरितरैस्तत्सङ्ख्यैर्युगपद्बाणान्सन्दधे । अस्त्रभृतां मध्ये समग्रणीरतिश्रेष्ठ एकस्मिन्नेव धनुषि बद्धाः सन्धिता इषवो बाणास्तैरेक एव । धाराविरामाभावात्तथा बद्धा इषवस्तैरिति वा समं युगपदच्छिनत् ॥ ३४ ॥

छलारी

स कार्तवीर्यार्जुनो बाहुभिर्गृहीतेषु पञ्चदशेषु धनुःषु तावद्भिर्बाहुभिस्तावतो बाणान् रामाय सन्दधे । एकधन्वा एकमेव धनुर्यस्य स तथा रामस्तानि धनूंषि समं सह तत्क्षणमेवाच्छिनत् ॥ ३४ ॥

पुनः स्वहस्तैरचलान् मृधेऽङ्घ्रिपानुत्क्षिप्य वेगादभिधावतो युधि ।

भुजान् कुठारेण कठोरनेमिना चिच्छेद रामः प्रसभं हसन्निव ॥ ३५ ॥

पदरत्नावली

पुनः रामः स्वहस्तेरचलान् गिरीन् अङ्घ्रिपान् वृक्षान् मृधे हननार्थम् उत्क्षिप्य युधि वेगादभिधावतोऽर्जुनस्य भुजान् कठोरनेमिना शितधारेण चिच्छेदेत्यन्वयः ॥ ३४ ॥

सत्यधर्मीया

स्वहस्तैरचलान्पर्वतान्पुनरङ्घ्रिपान्पादपानुत्क्षिप्य मृधे वेगादभिधावतो युधि । इतरस्मिञ्जने रणं त्यक्त्वा सति परीक्षके कठोरनेमिना निशितधारवता कुठारेण प्रसभं बलाद्धसन्निव लोकलोचनमपेक्ष्य द्विभुजस्य मम तव च सहस्रहस्तस्याननुरूपो रण इति हासः । अथवा नायासोऽस्यासेति द्योतयत्यनेनेति ज्ञेयम् । चिच्छेदाच्छिनत् ॥ ३५ ॥

छलारी

पुनः स्वहस्तैर्मृधे साधनभूतान् अचलान् अङ्घ्रिपान्वृक्षान् उत्क्षिप्य वेगादभिधावतोऽर्जुनस्य भुजान्कठोरनेमिना शितधारेण कुठारेण हसन्निवाच्छिनदित्यन्वयः ॥ ३५ ॥

कृन्तबाहोः शिरस्तस्य गिरिशृङ्गमिवाहरत् ।

हते पितरि तत्पुत्रा अयुतं दुद्रुवुर्भयात् ॥ ३६ ॥

सत्यधर्मीया

कृन्ताश्छिन्ना बाहवो यस्य तस्य गिरिशृृङ्गमिव विद्यमानं शिरोऽहरज्जहार । पितरि कार्तवीर्ये हते सति तत्पुत्राः कार्तवीर्यजा अयुतं दशसहस्रसङ्ख्याका भयाद्रामसंहृतिभीतेर्दुद्रुवुः ॥ ३६ ॥

छलारी

कृत्ताश् छिन्ना बाहवो यस्य स तथा । तस्य पितरि कार्तवीर्यार्जुने ॥ ३६ ॥

अग्निहोत्रीमुपावृत्य सवत्सां परवीरहा ।

समुपेत्याश्रमं पित्रे परिक्लिष्टां समार्पयत् ॥ ३७ ॥

पदरत्नावली

उपावृत्य निवृत्यै । इतस्तत आकर्षणादिना परिक्लिष्टां केशोपेताम् ॥ ३६ ॥

सत्यधर्मीया

अग्निहोत्रीं तदुपयुक्तां परिक्लिष्टां मार्ग इतस्ततो भ्रामणेनोपावर्त्य स्वाश्रमं प्रति । उपावर्त्याश्रमं समुपेत्य पित्रे तां समार्पयत् । समर्पयदिति लेखकहस्तदोषोऽत्रेव बहुत्रेति ज्ञेयम् ॥३७॥

छलारी

उपावर्त्य परावृत्य । इतस्तत आकर्षणादिना परिक्लिष्टां क्लेशोपेतां समर्पयत् । अडभावश्छान्दसः ॥ ३७ ॥

स्वकर्म तत्कृतं रामः पित्रे भ्रातृभ्य एव च ।

वर्णयामास तच्छ्रुत्वा जमदग्निरभाषत ।

राम राम महाबाहो भवान् पापमकारषीत् ॥ ३८ ॥

पदरत्नावली

तत्कृतमर्जुनकृतम् ॥ ३७ ॥

सत्यधर्मीया

तद्वर्णयामास तच्छ्रुत्वेत्यन्वयनान्न तच्छब्दाधिक्यम् । स्वकर्म तत्कृतं कार्तवीर्यकृतं चेति वा । अकार्षीत् ॥ ३८ ॥

छलारी

तत्कृतमर्जुनकृतं च ॥ ३८ ॥

अवधीर्नरदेवं यत् सर्वदेवमयं वृथा ।

वयं हि ब्राह्मणास्तात क्षमयाऽर्हणतां गताः ॥ ३९ ॥

पदरत्नावली

अर्हणतां पूज्यताम् । यया क्षमया लोकगुरुर्ब्रह्मा पारमेष्ठ्यं सत्यलोकाधिपत्यमित्यर्थः ॥ ३९ ॥

सत्यधर्मीया

तत्किमित्यत आह । यत्सर्वदेवमयं सर्वसुपर्वसान्निध्योपेतं नरदेवं राजानं वृथा निष्प्रयोजनम् । तान्हत्वा तद्राज्यकरणाधिकारहीना वयमिति तात्पर्येणाह ॥ वयं हीति ॥ क्षमया शान्त्याऽर्हणतां माननीयतां गतास्ते च क्षमया भूम्यैवार्हणतां गता इति हृदयम् ॥ ३९ ॥

छलारी

सर्वदेवमयं सर्वदेवप्रचुरं नरदेवं कार्तवीर्यार्जुनरूपम् । अर्हणतां पूज्यताम् ॥ ३९ ॥

यथा लोकगुरुर्देवः पारमेष्ठ्यमगात् पदम् ।

क्षमया रोचते लक्ष्मीर् ब्राह्मी सौरी यथा प्रभा ।

क्षमिणामाशु भगवांस्तुष्यते हरिरीश्वरः ॥ ४० ॥

पदरत्नावली

यथा सौरी सुर्यसम्बन्धिनी प्रभा रोचते तथा ब्राह्मी ब्राह्मणसम्बन्धिनी लक्ष्मीः सद्विद्योपदेशादिजन्या शोभा प्रकाशते ॥ ४० ॥

सत्यधर्मीया

क्षमैव सर्वसम्पत्तिक्षमेति सदृष्टान्तमाचष्टे ॥ यथेति ॥ यथा क्षमया लोकगुरुः । गुरुर्ब्रह्माखिलस्येत्यादेः । पारमेष्ठ्यं पदं सत्यलोकस्वाम्यमधाद्दधार । ब्राह्मी ब्राह्मणसम्बन्धिनी लक्ष्मीः सम्पत्क्षमया क्षान्त्यैव रोचते । सूरसूरार्यमादित्येत्यमरात्सूरस्येयं सौरी प्रभा यथा तथा क्षमिणां शिखादिः ॥ ४० ॥

छलारी

यया क्षमया । लोकगुरुर्बह्मा पारमेष्ठ्यं पदम् । सत्यलोकाधिपत्यमिति यावत् । यथा सौरी सूर्यसम्बन्धिनी प्रभा रोचते । तथा ब्राह्मी ब्राह्मणसम्बन्धिनी लक्ष्मीः सद्विद्योपदेशादिजन्या शोभा ॥ ४० ॥

राज्ञो मूर्धावसिक्तस्य वधो ब्रह्मवधाद् गुरुः ।

तीर्थसंसेवया चांहो जह्यङ्गाच्युतचेतनः ॥ ४१ ॥

इति श्रीमद्भागवते नवमस्कन्धे त्रयोदशोऽध्यायः ।

पदरत्नावली

मूर्धावसिक्तस्य मूर्धाभिषिक्तस्य चक्रवर्तिनः । ब्रह्मवधाद् ब्राह्मणहननात् । अच्युते श्रीनारायणे चेतना बुद्धिर्यस्य स तथा ॥ ४१ ॥

इति श्रीमद्भागवतटीकायां विजयध्वजतीर्थभिक्षुकृतायां नवमस्कन्धस्य त्रयोदशोऽध्यायः ॥

सत्यधर्मीया

मूर्धावसिक्तस्य मूर्धाभिषिक्तस्य चक्रवर्तिन इति यावत् । वधो ब्रह्मवधाद्गुरुस्त-दपेक्षयाऽतिपापापादकः । यथोक्तमानुशासनिके शान्तिपर्वणि ।

दशसूनासमश्चक्री दशचक्रसमो ध्वजी ।

दशध्वजीसमो विप्रो दशविप्रसमो नृपः ॥ इति ।

अयमखण्डमण्डलाधीश इति गुरुरित्यनिदंमुद्रणादुदीरणमिति ज्ञेयम् । अङ्ग मदङ्गज । अच्युतचेतनस्तन्मनस्कः सन् तीर्थसंसेवया पुण्यतीर्थस्नानादिना तदंहस्तद्धननजनितपापं जहि नाशय । हन्तेर्ज इत्युक्तेः ॥ ४१ ॥

इति श्रीसत्यधर्मयतिकृतायां भागवतटिप्पण्यां नवमस्कन्धे त्रयोदशोऽध्यायः ।

छलारी

मूर्धावसिक्तस्य मूर्धाभिषिक्तस्य चक्रवर्तिन इत्यर्थः । तीर्थसेवया । चकाराद्यमनियमादिभिश्च । अच्युते नारायणे चेतना बुद्धिर्यस्य स तथा ॥ ४१ ॥

इति श्रीछलारी शेषाचार्यकृतायां भागवतटिप्पण्यां नवमस्कन्धे त्रयोदशोऽध्यायः ।