अथातः श्रूयतां राजन् वंशः सोमस्य पावनः
॥ अथ द्वादशोऽध्यायः ॥
श्रीशुक उवाच—
अथातः श्रूयतां राजन् वंशः सोमस्य पावनः ।
यस्मिन्नैलादयो भूपाः कीर्त्यन्ते पुण्यकीर्तयः ॥ १ ॥
पदरत्नावली
अथ सूर्यवंशकथनानन्तरम् । यतः पुण्यश्लोकराजवंशज्ञानं पुरुषार्थसाधनमत इति हेत्वर्थः । गुणविशिष्टपुरुषज्ञानमन्तरेण वंशज्ञानेन कथं पुरुषार्थः स्यादित्यतः क्षिप्रप्रवृत्यर्थं तद्वंश्यान् संक्षिप्याह– यस्मिन्निति ॥ ऐलादयः बुधादिलायां जातः पुरूरवा ऐलः स एवादिर्येषां ते ॥१॥
सत्यधर्मीया
कृष्णाद्युत्कृष्टपुरुषावतारतच्चरितादियुततया अतिश्रवणीयसोमवंशशंसनं प्रतिश्रुत्य तदुपयुक्तां काञ्चित्कथां कथयति ॥ अथेति ॥ अतो वक्ष्यमाणैतद्धेतोः । अतः सूर्यवंशशंसनानन्तरं पावयतीतरानिति स तथा । यस्मिन्वंशे ऐलादयः । मूलभूत इत्यैलोक्तिः । पुरस्तात् । पुण्यकीर्तयश्च कीर्त्यन्तेऽतः पावनः स वंशः श्रूयताम् ॥ १ ॥
छलारी
एवं सूर्यवंशपरिकरं निरूप्यासमाप्तिसोमवंशमाह ॥ अथात इति ॥ अथ सूर्यवंशकथनानन्तरं पुण्यश्लोकराजवंशज्ञानं पुरुषार्थसाधनमतस्तस्मात्सोमवंशः श्रूयताम् । ऐलादयः । बुधादिलायां जातः पुरूरवा ऐलः स एवादिर्येषां ते ॥ १ ॥
सहस्रशिरसः पुंसो नाभिह्रदसरोरुहात् ।
जातस्यासीत् सुतो धातुरत्रिः पितृसमो गुणैः ॥ २ ॥
सत्यधर्मीया
सहस्रशिरसः । सशस्रशीर्षा पुरुष इत्यादेः । पुंसः पुरुषरूपिणो नाभिह्रदसरोरुहान्नाभिह्रद एव सरस्तद्रुहात्कमलाज्जातस्य धातुर्विधातुर्गुणैः पितृसमोऽत्रिः पुत्र आसीत् ॥२॥
छलारी
पुंसोऽण्डान्तर्गर्भोदके शयानस्य पुरुषनामकस्य हरेरित्यर्थः । नाभिह्रदसरोरुहाज्जातस्य धातुः ॥ २ ॥
तस्य दृग्भ्योऽभवत् पुत्रः सोमोऽमृतमयः किल ।
विप्रौषध्यम्बुगर्भाणां ब्रह्मणा कल्पितः पतिः ॥ ३ ॥
पदरत्नावली
तस्यात्रेर्दृभ्य आनन्दाश्रुभ्य इयमेव वार्ता सर्वत्र, सर्वैरेवं सम्भावितोऽयं सोम इति वा किलेत्युक्तम् । ‘वार्ता सम्भाव्ययोः किल’ इत्यमरः । यः सोमो विप्राणामोषधीनाम् अम्बुगर्भाणां कुमुदादीनां ब्रह्मणा पितामहेन पतिः पतित्वेन कल्पितः ॥ ३ ॥
सत्यधर्मीया
तस्यात्रेर्दृग्भ्यो नेत्रानन्दाश्रुभ्यः । अनसूया तथैवार्त्रर्जज्ञे पुत्रानकल्मषान् । ‘दत्तं दुर्वाससं सोममात्मेशब्रह्मसम्भवान्’ इत्युक्तेः । भार्यासाम्मुख्येन तत्दृग्भ्यां सह पितृदृग्भ्यां चेति दृग्भ्य इत्यक्तिरित्यपि केऽपि वर्णयन्ति । अमृतमयोऽमृतं माययति गमयति बहिः किरणद्वारेति स तथा । किलेति तदुद्भूत्यद्भुततां सूचयति । विप्रौषध्युडुगर्भाणामौषध्यम्बुगर्भाणामित्युभावपि सुभावौ पाठौ । विप्रा ब्राह्मणाः सोमो वै राजा ब्राह्मणानाम् ‘ओषधयः संवदन्ते सोमेन सह राज्ञा’ इत्यादेः । ओषधयश्चोडव उडूनिव नक्षत्राणि । उड वास्त्रियामित्यमरः । गर्भाश्च तदीयगर्भोदकाश्च तेषामम्बुगर्भाणां कुमुदादीनां ब्रह्मणा पितामहेन पतिः कल्पितः ॥ ३ ॥
छलारी
तस्यात्रेर्दृग्भ्य आनन्दाश्रुभ्योऽत एवामृतमयः । किलेत्याश्चर्ये । अस्य वक्ष्यमाणदर्पकारणमाह । विप्रेति । यः सोमः विप्राणामोषधीनामम्बुगर्भादीनां कुमुदादीनां पतिः पतित्वेन कल्पितः ॥ ३ ॥
सोऽयजद् राजसूयेन विजित्य भुवनत्रयम् ।
पत्नीं बृहस्पतेर्दर्पात् तारां नामाहरद् बलात् ॥ ४ ॥
सत्यधर्मीया
स सोमो राजसूयेनायजत् । बृहस्पतेः पत्नीं नाम नाम्ना तारां बलाद्दर्पात्स्वयम्भुवा दत्तमिति दर्पादहरज्जहार ॥ ४ ॥
यदा स देवगुरुणा याचितोऽभीक्ष्णशो मदात् ।
नात्यजत् तत्कृते जज्ञे सुरदानवविग्रहः ॥ ५ ॥
पदरत्नावली
तत्कृते तारार्थम् ॥ ५ ॥
सत्यधर्मीया
यदाऽहरत्स सोमोऽभीक्ष्णशः पुरुवारं याचितोऽपि नात्यजत्तदा तत्कृते तारार्थं सुरदानवविग्रहः जज्ञे ॥ ५ ॥
छलारी
अभीक्ष्णशो बहुवारं तत्कृते तारार्थम् ॥ ५ ॥
शुक्रो बृहस्पतेर्द्वेषादग्रहीत् सासुरोडुपम् ।
हरो गुरुसुतस्नेहात् सर्वभूतगणावृतः ॥ ६ ॥
पदरत्नावली
असुरैः सह वर्तमानः सासुरः । उडूनांं नक्षत्राणां पतिर् उडुपः । शुक्रविशेषणं सासुर इति । सन्धिरार्षः । बृहस्पतेर्द्वेषाद् बृहस्पतिविषयकद्वेषात् । हरः स्मरहरो गुरुरङ्गिरास् तस्य सुतो बृहस्पतिरिति स्नेहात् तमग्रहीत् ॥ ६ ॥
सत्यधर्मीया
असुरैः सहितश्च स उडुपश्च तमग्रहीद्दधार । हरः स्मरहरो गुरुसुतस्नेहाद्गुरोरङ्गिरसः सुत इति स्नेहात्सर्वभूतगणैः प्रमथयूथेनावृतः परिवृतः ॥ ६ ॥
छलारी
सुराणां दानवानां च विग्रहे कारणमाह ॥ शुक्र इति ॥ बृहस्पतेर्द्वेषाद् बृहस्पतिविषयकद्वेषात् । उडुपमग्रहीत् । शरणागतं गुरुपत्नीसहितं सोमं शुक्रः सासुरः सन् जगृहे इत्यर्थः । सन्धिरार्षः । गुरोरङ्गिरसः सुतं बृहस्पतिमग्रहीत् । अङ्गिरसः सकाशात्प्राप्तविद्याधर इति प्रसिद्धिः ॥ ६ ॥
सर्वदेवगणोपेतो महेन्द्रो गुरुमन्वयात् ।
सुरासुरविनाशोऽभूत् समरस्तारकामयः ॥ ७ ॥
पदरत्नावली
सुरासुराणां विनाशो यस्मिन् स तथा । तारकामयः गुरुभार्या तारा, तारैव तारका । स्वार्थे कः । ताराप्रधानसमर इत्यर्थः ॥ ७ ॥
सत्यधर्मीया
सुराश्चासुराश्च सुरासुरं तस्य विनाशो यस्मिन्स तारकामयस्तारैव तारका । स्वार्थे कः । तत्प्रधानकस्तन्निमित्तक इति यावत् । समरो युद्धम् । ताराया अयं तारः स चासौ कामश्च तस्येदमिति पार्थ इत्यत्रेवाण् । तेन तदिच्छया या मौर्व्यो यानि यानानि वा यस्मिन्स इति वा । यः सर्वनामानिलयोर्मोर्वीयम् । यशो यानयोरिति विश्वः ॥ ७ ॥
छलारी
सुरासुराणां नाशो यस्मिन्स तथा । तारकामयो गुरोर्भार्या तारा तारैव तारका । स्वार्थे कप्रत्ययः । ताराप्रधानसमर इत्यर्थः ॥ ७ ॥
निवेदितोऽजोऽङ्गिरसा सोमं निर्भर्त्स्य विश्वकृत् ।
तारां स्वभर्त्रे प्रायच्छदन्तर्वत्नीं बृहस्पतिः ॥ ८ ॥
पदरत्नावली
अजो ब्रह्मा । बृहस्पतिस् तारामाहेति शेषः ॥ ८ ॥
सत्यधर्मीया
अजो ब्रह्माऽङ्गिरसा बृहस्पतिपित्रा निवेदितोऽयमन्यायस्त्वयि सति कथमिति ज्ञापितः । अन्तर्वत्नीं तारां स्वभर्त्रे बृहस्पतये प्रायच्छद्विततार ॥ ८ ॥
छलारी
अङ्गिरसा बृहस्पतिपित्रा निवेदितो विज्ञापितोऽजो ब्रह्मा बृहस्पतिस्तामन्तर्वत्नीं गर्भिणीमवैदबुध्यत ॥ ८ ॥
गर्भं त्यजाशु दुष्प्रज्ञे मत्क्षेत्रादाहितं परैः ।
नाहं त्वां भस्मसात् कुर्यां स्त्रियं सान्तानिके सति ॥ ९ ॥
पदरत्नावली
मत्क्षेत्राद् गर्भं त्यज । कुत इति तत्राह– आहित परैरिति । सान्तानिके पुत्रे ॥ ९ ॥
सत्यधर्मीया
हे दुष्प्रज्ञे परैराहितम् । यद्यप्येकश्चन्द्र इति परेणेति वाच्यम् । तथापि सुवासिन्यविश्वसनीया चेत्सन्देहसन्दोहास्पदमिति लौकिकीं धाटीमाटीकमानः परैरित्युवाचेति ज्ञेयम् । आहितं गर्भमाशु मत्क्षेत्रान्मत्स्वामिकात्त्वद्रूपात्त्यज स्रंसय । अहं स्त्रियं त्वां भस्मसान्न कुर्यां तत्रापि सान्तानिके सुते सति स्त्रीमात्रं न घातये । त्वां तु गर्भिणीं न भस्मसात्करोमीति किं वक्तव्यमिति भावः । हे सान्तानिके सन्तानं कुं कुत्सितं तत्सम्बन्धिनीति सान्तानिके दुःसन्तानवति । हे असति स्वैरिणि स्त्रियं स्त्रीति न भस्मसात्कुर्यामिति वा । त्यज त्यजेति पाठे यत्परैराहितं तन्मत्क्षेत्रान्मत्क्षेत्रमततीति तत्तथा सन्तानं त्यज त्यजेति बहु हेयतया द्विरुदाजहारेति ज्ञेयम् ॥ ९ ॥
दुर्घटभावदीपिका
मत्क्षेत्रादाहितं परैरित्यस्य मत्क्षेत्रान्मत्क्षेत्रे परैः परेणाहितमित्यर्थः । एतेन मत्क्षेत्र इति वक्तव्यं मत्क्षेत्रादिति वचनमनुपपन्नमिति दूषणं परास्तम् । मत्क्षेत्रादिनां पञ्चमी सप्तम्यादेश इत्यङ्गीकारात् । एतेनैव गर्भाधानकर्तुः परस्यैकत्वात्परेणेति वक्तव्यम् । परैरित्येतदयुक्तमिति दूषणं परिहृतम् । परैरिति तृतीयाबहुवचनं तृतीयैकवचनादेश इत्यूरीकरणात् ॥ ९ ॥
छलारी
बृहस्पतिराह ॥ त्यजेति ॥ मत्क्षेत्रादित्यव्यम् । मद्भार्यायां त्वयि निहितं गर्भमित्यर्थः । त्यज त्यजेत्याक्रोशाद्विरुक्तिः । गर्भिणीं न हन्यादित्युक्तेः । गर्भे सति न हन्यात् । गर्भे त्यक्ते मां हनिष्यतीति बिभ्यतीं प्रत्याह ॥ नाहमिति ॥ कुत इत्यत आह ॥ स्त्रियमिति ॥ हेतुगर्भमिदम् । हे सान्तानिके । दुष्टसन्तानयुक्ते । हे असति दुष्टे ॥ ९ ॥
तत्याज व्रीडिता तारा कुमारं कनकप्रभम् ।
तस्यां जज्ञे दस्युहन्ता कुमारः कनकप्रभः ॥ १० ॥
दुर्घटभावदीपिका
व्रीडिता तारा कनकप्रभं कुमारं तत्याज बुद्धिपूर्वकम् । सुषावेति यावत् । यः कनकप्रभः कुमारस्तस्यां जज्ञ इत्यस्य प्राप्तत्वात् । कनकप्रभः कुमारस्तस्यां जज्ञ इत्येतत्पुनरुक्तमिति दूषणं परिहृतम् । यत्तच्छब्दाध्याहारेण कनकप्रभः कुमारस्तस्यां जज्ञ इत्यस्यानुवादं कृत्वा दस्युहन्तृत्वं विधीयत इत्यङ्गीकारात् ॥ १० ॥
सत्यधर्मीया
कनकप्रभं कुमारं षण्मुखं सतीव गर्भं तत्याज । तस्यां तारायां दस्युहन्ता कनकप्रभः स्वर्णवर्णः कुमारो जज्ञे ॥ १० ॥
छलारी
तत्याज सुषुवे ॥ १० ॥
स्पृहामाङ्गिरसश्चक्रे कुमारे सोम एव च ।
ममायं न तवेत्युच्चैस्तस्मिन् विवदमानयोः ॥११॥
पदरत्नावली
तस्मिन् कुमारे विवदमानयोः सतोः ॥११॥
सत्यधर्मीया
आङ्गिरसो बृहस्पतिः सोमश्चन्द्रश्च स्पृहाञ्चक्र इति पृथगन्वयः । तयोर्विवदमानयोः । भासनेत्याद्यात्मनेपदम् । तस्मिन्निति पाठे पुत्रविषय इत्यर्थः । सतोः ॥ ११ ॥
छलारी
अङ्गिरसो बृहस्पतेः । सोम एवं सोमोऽपि तस्मिन्कुमारे विवदमानयोः सतोः ॥११॥
पप्रच्छुर्ऋषयो देवा नैवोचे व्रीडिता च सा ।
कुमारो मातरं प्राह कुपितोऽलीकलज्जया ॥ १२ ॥
पदरत्नावली
तारामिति शेषः । अलीकलज्जया अप्रियनिमित्तलज्जया ॥ १२ ॥
सत्यधर्मीया
ऋषयो देवाश्च पप्रच्छुः । सा व्रीडिता नैवोचे । अलीकलज्जया रहस्यं बहिः पततीत्यप्रियनिमित्तकलज्जया । अलीकमप्रियाकार्येति विश्वः । अकार्यमिति लज्जयेति वा ॥ १२ ॥
छलारी
पप्रच्छुः । तारामिति शेषः । अलीकलज्जयाऽनृतनिमित्तलज्जया ॥ १२ ॥
किं न वोचस्यसद्वृत्ते पितरं मे वदाशु वै ।
न त्वां तु भस्मसात् कुर्यामात्मावद्यविगूहीनीम् ॥ १३ ॥
पदरत्नावली
न वोचसि न कथयसि । असद्वृत्ते दुराचारे, अमङ्गलस्वरूपे वा । ‘वृत्तं स्वरूपे चरिते वृत्तं छन्दोविधासु च’ इत्यभिधानम् । आत्मावद्यस्य स्वदोषस्य विगूहिनीमाच्छादनकरीम् । आत्मावद्यविगूहिनीमित्यनेन भस्मीकरण्यायोग्यत्वे सूचितेऽपि मातृशब्दवाच्यत्वात् त्वां भस्मसान्न कुर्यामिति सूचितम् ॥ १३ ॥
सत्यधर्मीया
हे असद्वृत्ते दुराचारे । किन्न वोचसि । छान्दसम् । न वदसि पितरमन्यतरमाशु वद । उच समवाय इति शन्विकरणस्थोचधातोर्गणकार्यस्यानित्यत्वानुशासनाद्बहुलमेतन्निदर्शनमिति, शप्रत्यये किम् उचसि समवायं समाहारं मैत्रावरुणिवदृक्षरजोवच्चन्द्रस्य बृहस्पतेश्च करोषि किं न वा नैवम् । सोमसामानाधिकरण्याभावाद्बृहस्पतेः । अतो मे पितरमन्यतरं वदेति वा । यावत्तावदित्यध्याहार्यौ । अवद्यविगूहिनीं स्वपापं गूहयतीति सा तथा तां त्वां यावद्भस्मसान्न कुर्यां तावत्तत्त्वं वद ॥ १३ ॥
छलारी
असद्वृत्ते दुराचारे । न वोचसि न कथयसि । न वोचसीति छान्दसम् । आत्मावद्यस्य स्वदोषस्य निगूहिनीमाच्छादनकरीम् । आत्मावद्यनिगूहिनीमित्यनेन भस्मीकरणयोग्यत्वे सूचितेऽपि मातृशब्दवाच्यत्वात्त्वां न भस्मीकरोमीति सूचिता ॥ १३ ॥
ब्रह्मा तं तु विनिर्भर्त्स्य क्षेप्तारं मातुरन्तिके ।
तामाहूय समप्राक्षीद् रह एव तु सान्त्वया ॥ १४ ॥
पदरत्नावली
सान्त्वया वाचा ॥ १४ ॥
सत्यधर्मीया
ब्रह्मा तं तु कुमारं निर्भर्त्स्य रे जाल्म किं जल्पसीति भर्त्सयित्वा । तत्र निमित्तमाह ॥ अन्तिके स्वसमीप इति । मातुर्मातरं क्षेप्तारं तिरस्कुर्वन्तम् । सान्त्वया वाचैव तां तारां रह एकान्ते आहूय समप्राक्षीत्पप्रच्छ ॥ १४ ॥
छलारी
मातुः क्षेप्तारं निन्दकं समप्राक्षीत्प्रश्नं चकार । रह एकान्ते सान्त्वया समाधानवाचा ॥ १४ ॥
सोमस्येत्याह शनकैः सोमस्तं तावदग्रहीत् ।
तस्यात्मयोनिरकृत बुध इत्यभिधां नृप ॥ १५ ॥
पदरत्नावली
तारा जनकं वक्तीत्याह– सोमस्येति ॥ तं कुमारम् । आत्मा परमात्मा योनिर्जनको यस्य स तथा ॥१५॥
सत्यधर्मीया
यावच्छनकैरिति लज्जया सोमस्येत्याह तावत्सोमस्तं सुतमग्रहीदुपादत्त । आत्मा योनिः कारणं यस्य सः । बुध इत्यभिधामकृत ॥ १५ ॥
छलारी
तं कुमारम् । आत्मयोनिर्ब्रह्मा ॥ १५ ॥
बुद्ध्या गम्भीरया येन पुत्रेणापोडुराण् मुदम् ।
ततः पुरूरवा जज्ञे इलायां य उदाहृतः ॥ १६ ॥
पदरत्नावली
बुध इति नामकरणे निमित्तमाह– बुद्ध्येति ॥ ततो बुधात् । उदाहृतो द्वितीयाध्याये ॥ १६ ।
सत्यधर्मीया
न नामेदं तक्रविकलस्य क्षीरसागरभट्टेति नामवदित्याह । गम्भीरया गहनया बुद्ध्याति । येन पुत्रेणोडुराड् ऋक्षाध्यक्षो मुदमाप । ततस्तस्माद्बुधादिलायाम् । य उदाहृत इत्युदाहरणं तस्या एव सुद्युम्नत्वेन पुमवस्थाव्यवस्थयाऽभवदिति पूर्वोक्तस्मारणार्थमिति ज्ञेयम् । यद्वा पुरूरवा उदाहृतस्तस्येत्युत्तरेणान्वयः ॥ १६ ॥
छलारी
बुध इति नामकरणनिमित्तमाह ॥ बुद्ध्येति ॥ येन पुत्रेण । ततो बुधात् । उदाहृतो द्वितीयाध्याये ॥ १६ ॥
तस्य रूपगुणौदार्यशीलद्रविणविक्रमान् ।
श्रुत्वोर्वशीन्द्रभवने गीयमानान् सुरर्षिणा ॥ १७ ॥
सत्यधर्मीया
सुरर्षिणा नारदेन ॥ १७ ॥
छलारी
पुरूरवसः सकाशादुर्वश्यां प्रमुखाः षट् पुत्रा जाता इति वक्तुमुपोद्घातमाह ॥ तस्येत्यादिना ॥ १७ ॥
तदन्तिकमुपेयाय देवी स्मरशरार्दिता ।
मित्रावरुणयोः शापादापन्ना नरलोकताम् ॥ १८ ॥
पदरत्नावली
आगमने कारणान्तरमाह– मित्रेति ॥ १८ ॥
सत्यधर्मीया
तदन्तिकं पुरूरवसः समीपमुपेयाय प्रापत् । स्वयमेवागमने कारणमाह । स्मरस्य मन्मथस्य शरैरर्दितोपद्रुतेति । स्मरो नारदोक्तगुणविषयकस्थिरस्मरणं मनः स एव शरस्तेनार्दितेति वा । यथोक्तं छान्दोग्यभाष्ये । अस्थिरस्मरणं चित्तं स्थिरस्मरणं स्मर इति । मानुषी मानुषं प्रत्यागतेति नाद्भुतमित्यत आह ॥ देवीति ॥ देवोपभोग्येति देवीति तथा । तर्हि किमित्यापदियमापत्तस्या इत्यत आह ॥ मित्रावरुणयोरिति ॥ यद्यपि शाप उभाभ्यां न दत्तः किन्त्वेकेन मित्रेण । यथोक्तं रामायणे ।
तां तु मित्रः सुसङ्क्रुद्ध ऊर्वशीमिदमब्रवीत् ।
मयाऽभिमन्त्रिता पूर्वं कस्मात्त्वमवसर्जिता ॥
पतिमन्यं वृतवती किमर्थं दुष्टचारिणि ।
अनेन दुष्कृतेन त्वं मत्क्रोधकलुषीकृता ।
मनुष्यलोकमास्थाय कञ्चित्कालं निवत्स्यसि ।
बुधस्य पुत्रो राजर्षिः काशिराजः पुरूरवाः ।
तमभ्यागच्छ दुर्बद्धे स ते भर्ता भविष्यतीति । तथाऽपि
तमेव कालं मित्रोऽपि वरुणत्वमकारयत् ।
क्षीरोदेन सहोपेतः पूज्यमानः सुरेश्वरैः । इति
तत्रैवोक्तेर्वरुणत्वं मित्रस्येति मित्रावरुणयोरित्युक्तिः ।
मित्रश्च वरुणश्चैव दीक्षितौ प्रेक्ष्य चोर्वशीम् ।
रेतः सिषिचतुस्सद्यस्तत्कुम्भे न्यदधुस्तदा ।
तां शप्तवन्तौ मनुजभोग्या भूम्यां भवेति तौ । इति । माधवः वेदव्याख्यायां पुराणान्तरमुदजहार तत उभयोरिति सम्भवति । किञ्च ब्रह्मशापोऽप्युपलक्षणीयः । यथोक्तं हरिवंशे ।
देवानुत्सृज्य सम्प्राप्ता तन्मे ब्रूहि बहुश्रुत ।
ब्रह्मशापाभिभूता सा मानुषं समुपस्थितेति ।
अतः सम्भवति मित्रावरुणयोः शापेनेतीति मन्तव्यम् । नरलोकतां मनुष्यसङ्गयोग्यशरीरवत्ताम् ॥ १८ ॥
छलारी
ननु देवी कुतो मनुष्यान्तिकमागतेति तत्राह ॥ मित्रावरुणयोरिति ॥ १८ ॥
निशाम्य पुरुषश्रेष्ठं कन्दर्पमिव रूपिणम् ।
धृतिं विहाय ललना उपतस्थे तदन्तिकम् ॥ १९ ॥
दुर्घटभावदीपिका
निशम्येत्यस्य निशाम्य दृष्ट्वेत्यर्थः । एतेन तस्य रूपगुणौदार्येति श्लोके उर्वशीपुरूरवसो रूपगुणौदार्यादिकं श्रुत्वा तदन्तिकमुपेयायेत्युक्तत्वान्निशम्योपतस्थ इत्येतत्पुनरुक्तामिति दूषणं निरस्तम् । निशम्येति हस्वश् छान्दस इत्यङ्गीकृत्य निशाम्येत्यर्थकत्वमङ्गीकृत्य तदन्तिकमुपतस्थ इत्यनेन तस्यातिसमीपमुपतस्थ इत्युच्यत इत्यभ्युपगमात् ॥ १९ ॥
इति श्रीभागवतटिप्पण्यां द्वादशोऽध्यायः ॥ ९-१२ ॥
सत्यधर्मीया
रूपिणं रूपवन्तं धृतिं स्थगनम् । एतेन पुरूरसः पुरुपारवश्यं नार्या द्योत्यते । तदन्तिके उपतस्थे ॥ १९ ॥
छलारी
उपतस्थे तस्थौ ॥ १९ ॥
स तां विलोक्य नृपतिर्हर्षेणोत्फुल्ललोचनः ।
उवाच श्लक्ष्णया वाचा देवीं हृष्टतनूरुहः ॥ २० ॥
पदरत्नावली
श्लक्ष्णया मधुरया ॥ २० ॥
सत्यधर्मीया
देवीमिति स्वप्राप्त्ययोग्यतां ध्वनयति ॥ २० ॥
छलारी
श्लक्ष्णया मधुरया ॥ २० ॥
राजोवाच—
स्वागतं ते वरारोहे आस्यतां करवाम किम् ।
संरमस्व मया साकं रतिर्नौ शाश्वतीः समाः ॥ २१ ॥
पदरत्नावली
नौ अवयोः शाश्वतीः समा बहून् संवत्सरान् । रतिः सुरतक्रीडाऽस्तु ॥ २१ ॥
सत्यधर्मीया
हे वरारोहे वरावुत्तमावारोहौ ऊरू यस्याः सा तत्सम्बुद्धिः । ते स्वागतं सुस्वागतमास्यतां त्वया । वयं किं करवाम किं कुर्मः । मया साकं संरमस्व । नौ आवयोः शाश्वतीः समा रतिः सुरतक्रीडासक्तिरस्त्वित्युवाचेत्यतीतेनान्वयः । करवाम इति बहुवचनेन मया नाविति वचनेन वाऽङ्गस्मरणं न नरवरस्येति ध्वन्यते । इतरत्प्रयोजनं त्वदीप्सितं चेन्मदादिभिः कर्तुं शक्यमिति वा करवाम किमिति । उत्तरत्र स्वकामनानुसारेण स्वतन्मात्रपर्यवसन्नं कार्यं तदिति मया नावित्युक्तिरिति ज्ञेयम् ॥ २१ ॥
छलारी
नावावयोः शाश्वतीर्बह्वीः समाः संवत्सरान् । रतिरस्तु ॥ २१ ॥
ऊर्वश्युवाच —
कस्यास्त्वयि न सज्जेत मनो दृष्टिश्च सुन्दर ।
यदङ्गान्न रमा याति स दृष्टो हरिराश्रयः ॥ २२ ॥
पदरत्नावली
मनोहरत्वे निमित्तमाह– यदङ्गादिति । रमा यस्य हरेरङ्गान्न याति न च्यवते नित्याश्रितवक्षःस्थत्वात्, स हरिस्तवाश्रयो दृष्ट इत्यन्वयः । लक्ष्मीकान्तस्य सन्निधिपात्रत्वाद् इत्यर्थः ॥ २२ ॥
सत्यधर्मीया
सुन्दर हे पुरूरवो यदङ्गाद्यस्य हरेरङ्गादुरोरूपाद्रमा न याति क्वापि तत्सौन्दर्यलुब्धा नापगच्छति स हरिस्तव दृष्ट आश्रयो यतोऽतः कस्या मनो दृष्टिश्च त्वयि न सज्जेत । अनेन यन्न रमा रमणमतिहायान्यत्र गन्तुमलमलङ्घ्यस्तदनुग्रहपात्रं त्वं मन्मात्रेणेति सूचयतीति वर्णयन्ति । यदङ्गात् । ल्यब्लोपनिमित्ता पञ्चमी । यदङ्गं निशाम्य मनो दृष्टिश्च कस्यास्त्वयि न सज्जेत सज्जेतैव । तत्र तन्त्रं सुन्दरेति । मन एवातो नर नरोत्तम नृपत्नीरित्यृग्भाष्ये तथा व्याकृतत्वात् । आयाति वैवश्येन । निराश्रया न शोभन्ते पण्डिता वनिता लता इत्युक्तेस्तत्राश्रयाभावान्मदाश्रयणमिति किं न स्यादित्यत आह । स हरिरिन्द्र आश्रयो दृष्टः सर्वप्रत्यक्षसिद्धः । तदपेक्षया सद्यः सौन्दर्यं त्वयीति कस्याः । शिष्टं यथावत् । हे नर नरोत्तर त्वयि माया मदाकर्षणशक्तिरतिप्रशस्ता । अतः स भगवान् अहरिरिन्द्रो नेत्यहरिस्तदिन्द्रभिन्न इन्द्रसदृश आश्रयो दृष्टः । नारदेन दर्शित इत्यन्तर्णीतण्यर्थो दृष्टशब्द इति वा । माया शक्तिविशेषे स्यात्प्रकृतौ कपटेऽपि चेति शब्दार्णवः । अतिशब्दः प्रशंसायामित्यव्ययविश्वः । यदङ्गान्तरमासाद्य च्यवते हा रिरंसयेति पाङ्क्तः पाठः । तत्रार्थः । अङ्गान्तरमासाद्य मध्यदेहं वक्ष इति यावत् । प्राप्य रिरंसया रन्तुमिच्छया कस्या मनश्च्यवते न च्यवते । हा निश्चयः । यद्यतोऽङ्गान्तरं गोत्रभिद्गात्रादिकमासाद्यापि रिरंसया मनश्च्यवते प्रच्युत्य ततो नागादिति यावत् । ततः कस्या अन्यस्य मनो न सज्जेत दृष्टिश्च न सज्जेतेति वा ॥ २२ ॥
छलारी
अतो मम मनोदृष्टिश्च । यस्य तवाङ्गान्तरं वक्षमासाद्य रिरंसया रन्तुमिच्छया । स्फुटं नेत्यनुवर्तते । न च्यवते नापयाति । तस्मादहं त्वया सह रंस इत्युत्तरेणान्वयः । पाठान्तरम् । यदङ्गान्न रामा याति सदृष्टो हरिराश्रयः । मनोहरत्वे निमित्तमाह ॥ यदङ्गादिति ॥ रमा यस्य हरेरङ्गान्न याति नान्यत्र वर्तते । नित्याश्रितवक्षस्थलत्वात् । स हरिस्तवाश्रयो दृष्ट इत्यन्वयः । लक्ष्मी तत्सन्निधिपात्रत्वादित्यर्थः ॥ २२ ॥
एतावुरणकौ राजन् न्यस्तौ रक्षस्व मानद ।
संरंस्ये भवता साकं श्लाघ्यः स्त्रीणां वरः स्मृतः ॥ २३ ॥
पदरत्नावली
उरणकौ मेषौ न्यस्तौ निक्षेपकल्पनया स्थापितौ । तस्माद् रक्षस्व । संरंस्ये सम्यक् त्वया रतिं करिष्ये । अस्माकमियमेव व्रतक्लप्तिरित्याह– श्लाघ्य इति ॥ यः श्लाघ्यः कमनीयः स एव स्त्रीणां वरः पतिः स्मृतः ॥ २३ ॥
सत्यधर्मीया
उरणकौ मेषौ न्यस्तौ विक्षेपरूपतया स्थापितौ । रक्षस्व । मानद मानप्रद ।
मा नद न मयेदं भवतीति न शब्दं कुर्विति वा । भवता साकं संरंस्ये । स्त्रीणां यः श्लाघ्यः स वरः स्मृतः ॥ २३ ॥
छलारी
केनचिद्व्याजेन जिगिमिषोस्तस्य समयबन्धप्रकारमाह ॥ एताविति ॥ द्वाभ्याम् । उरणकौ मेषौ न्यस्तौ निक्षेपकल्पनया स्थापितौ । संरस्ये त्वया सह रतिं करिष्ये । अस्माकमियमेव व्रतक्लृप्तिरित्याह ॥ श्लाघ्य इति । यः श्लाघ्यः कमनीयः स एव स्त्रीणां वरः पतिः स्मृतः । अतो विजातीयत्वं न दोष इति भावः ॥ २३ ॥
घृतं मे वीर भक्ष्यं स्यान्नेक्षे त्वाऽन्यत्र मैथुनात् ।
विवाससं तत् तथेति प्रतिपेदे महामनाः ॥ २४ ॥
पदरत्नावली
समयं बध्नाति- नेक्ष इति ॥ मैथुनादन्यत्र सुरतसमयमन्तरेण त्वं विवाससं नग्नं नेक्षे न पश्यामि अन्यथेतो गमिष्यामीति शेषः । पुरूरवा उत्तरमाह- तत् तथेतीति । तत् तयोक्तं त्रयमपि तथेति प्रतिपेदे अभ्युपगतवान् ॥ २४ ॥
सत्यधर्मीया
एतावत्तु तावता भवताऽऽवश्यं कार्यमिति समयबन्धं विदधाति ॥ घृतमिति ॥ सद्यस्तप्तं भक्ष्यं स्यात् । मैथुनाद् अन्यत्र तदन्यस्मिन्काले विवाससं वस्त्रहीनं नेक्षे । यदीक्षे कदाचित्तर्हि त्वां नेक्षे गच्छेयमिति तात्पर्यम्
। तत्तयोक्तं त्रयमपि प्रतिपेदेऽनुमेने ॥ २४ ॥
छलारी
मैथुनादन्यत्र सुरतसमयमन्तरेण विवासं नग्नं त्वां नेक्षे न पश्यामि । अन्यथेतः । गमिष्यामीति शेषः । पुरूरवा उत्तरमाह ॥ तत्तथेति ॥ प्रतिपेदेऽङ्गीकृतवान् ॥ २४ ॥
राजोवाच—
अहो रूपमहो भावं नरलोकविमोहनम् ।
को न सेवेत मनुजो देवीं त्वां स्वयमागताम् ॥ २५ ॥
पदरत्नावली
तस्येङ्गितं हर्षोल्लासं दर्शयति– अहो इति ॥ भावं शृृङ्गारादिकम् । न रीयन्त इति नरा अमरास्तेषां लोकः समूहस् तमपि विमोहयतीति नरलोकविमोहनम् । एवंविधां त्वाम् ॥ २५ ॥
सत्यधर्मीया
भावं शृृङ्गारादिकं वीक्ष्य स्वयमागतामप्रार्थनयाताम् । सु अत्यन्तमयमाऽऽयुगैकाकिनीति यावत् । सा च साऽऽगता च तामिति वा ॥ २५ ॥
छलारी
तस्येङ्गितं हर्षोल्लासं दर्शयति ॥ अहो इति ॥ अहो आश्चर्यकरं तव रूपम् । अहो आश्चर्यकरं तव भावं शृृङ्गारादिभावं च । दृष्ट्वेति शेषः । को न सेवेतेत्यन्वयः ॥ २५ ॥
शुक उवाच—
तया स पुरुषश्रेष्ठो रमयन्त्या यथार्हतः ।
रेमे सुरविहारेषु कामं चैत्ररथादिषु ॥ २६ ॥
पदरत्नावली
सुराणां विहारो येषु ते तथा तेषु चैत्ररथादिषु चित्ररथवनमादिर्येषां तेषु नन्दनादिषु ॥ अस्योद्यानं चैत्ररथम्, इत्यमरः ॥ २६ ॥
सत्यधर्मीया
यथार्हतः कालाद्यानुकूल्येन । सुरविहारेषु सुराणां विहारो लीलाभ्रमणं सञ्चारो वा यत्र येषु । विहारो भ्रमणे स्कन्दे लीलायामिति विश्वः । कामं स्वेच्छानुसारं चैत्ररथं धनदवनमादिर्येषां तेषु नन्दनादिषु चित्ररथेन निर्वृत्तम् । तेन निर्वृत्तमित्यण् । अस्योद्यानं चैत्ररथमित्यमरः । सुरविहारेषु नन्दनादिष्विति शेषः । चैत्ररथादिषु चैत्रा एव चैत्रा अश्वतरीययुता रथाः क्षत्रियमुख्यचिन्हभूताः क्षत्रियत्वावगतेश्चोत्तरत्र चैत्ररथेन लिङ्गादिति सूत्ररथस्त्वश्वतरीयुक्तश्चित्र इत्यभिधीयत इति मानाभ्यां तथाऽवगतेः । तै रथाश्वगमनं तदेवादिर्येषां गजादिगमनादीनां तेषु रेमे । नन्दनाद्यनिबध्यानुबन्धेनायमप्यर्थ विशेषो बोध्यः ॥ २६ ॥
छलारी
यथार्हतो राजयोग्यभोगसाधनद्रव्येण सुराणां विहारो येषु तथा तेषु चैत्ररथादिषूद्यानादिवनेषु ॥२६॥
रममाणस्तया देव्या पद्मकिञ्जल्कगन्धया ।
तन्मुखामोदमुषितो मुमुदेऽब्दगणान् बहून् ॥ २७ ॥
सत्यधर्मीया
किञ्चल्कस्य गन्धः पद्मानां किञ्जल्कगन्धो यस्याः सेति विग्रहः । पद्मपदार्थस्य किञ्जल्कपदार्थे योग्यतयाऽन्वयः । त्रिलोकनाथवत् । अन्यथोपमानाच्चेतीत्वप्राप्तौ किञ्जल्कगन्ध्येति स्यात् । एवं चेत्केवलगन्धपदसमसनाभावात्तदप्राप्तिः । अस्पृष्टदोषगन्धायेत्यादिवदिति ज्ञेयम् । किञ्जल्कः केसरोऽस्त्रियामित्यमरः । तन्मुखामोदेन मुषितो वञ्चितः ॥ २७ ॥
छलारी
पद्मकिंजल्कगन्ध इव गन्धो यस्यास्तन्मुखामोदमुषितः प्रलोभितः सन् ॥ २७ ॥
अपश्यन्नुर्वशीमिन्द्रो गन्धर्वान् समचोदयत् ।
उर्वशीरहितं मह्यमास्थानं नातिशोभते ॥ २८ ॥
पदरत्नावली
मह्यं क्लुप्त ममास्थानं सभा । एवं मत्वा गन्धर्वान् । समचोदयत् ॥ २८ ॥
सत्यधर्मीया
मह्यं ममास्थानं सभा नातिशोभते नातिभासते ॥ २८ ॥
छलारी
मह्यं ममास्थानं सभा नैव शोभते । अतस्तां विचार्यानयेति समचोदयत् ॥ २८ ॥
त उपेत्य महारात्रौ तमसि प्रत्युपस्थिते ।
उर्वश्या उरणौ जह्रुर्न्यस्तौ राजनि जायया ॥ २९ ॥
पदरत्नावली
जायया उर्वश्या ॥ २९ ॥
सत्यधर्मीया
ते गन्धर्वा महारात्रौ मध्यरात्रे । महानिशा द्वे घटिके रात्रौ मध्यमयामयोरिति स्मृतिः । तमस्यन्धकारे जायया तद्धर्मिण्या राजनि न्यस्तावूर्वश्या उरणकौ जह्नुरपाहरन् ॥ २९ ॥
छलारी
महारात्रौ मध्यरात्रौ । राजनि राज्ञि । जाययोर्वश्या ॥ २९ ॥
निशम्याक्रन्दितं देवी पुत्रयोर्नीयमानयोः ।
हताऽस्म्यहं कुनाथेन नपुंसा वीरमानिना ॥ ३० ॥
पदरत्नावली
नपुंसा नपुंसकेन निर्वीर्येणेत्यर्थः ॥ ३० ॥
सत्यधर्मीया
पुत्रयोस्तत्त्वेन त्रातयोराक्रन्दितं निशम्य श्रुत्वा । अनेन कृतसङ्केतनिकेतावेतौ नीतवन्त इति ध्वन्यते । नपुंसा निर्वीर्येण कुनाथेन कुत्सितेन पत्या वीरमानिनाऽहं हताऽस्मि ॥ ३० ॥
छलारी
पुत्रयोः पुत्रवत्पालितयोर्जिगमिषयोः । तस्याः परुषोक्तिमाह ॥ हताऽस्मीति ॥ नपुंसा नपुंसकेन ॥ ३० ॥
यद्विस्रम्भादहं नष्टा हृतापत्या च दस्युभिः ।
यः शेते निशि सन्त्रस्तो यथा नारी दिवा पुमान् ॥ ३१ ॥
पदरत्नावली
हृतापत्या हृतपुत्रा । यथा नारी निशि सन्त्रस्ता सती शेते तथा त्वमपि रात्रौ सन्त्रस्तः सन् शेषे । अथ त्वं दिवैव पुरुषः रात्रौ षण्ढतुल्य इत्यर्थः ॥ ३१ ॥
सत्यधर्मीया
यद्विस्रम्भाद्यस्मिन्विस्रम्भो विश्वासस्तस्मात् । विस्रम्भः केलिकलहे विश्वासे प्रणये वध इति विश्वः । नष्टेन्द्रादर्शनं गता । इदानीं हृतापत्येति नष्टा तत्प्रायेत्यप्यन्वयः । अनेन पत्या तत्त्वेन वृतेन यद्विस्रम्भान्नारदवचोविश्वासादिहाहृता च दस्युभिश्चोरैर्हृतेऽपत्ये यस्याः सा चाभवमिति नष्टेति वा । यथा नारी निशि सन्त्रस्ता भीता सती शेते तथा त्वं दिवा च पुमान्निभीतचरण एव तात्पर्यं स्वानुभूततत्कत्वात्तस्याः ॥ ३१ ॥
छलारी
विस्रम्भाद्यस्मिन्विश्वासाद्यथा नारी निशि सन्त्रस्ता सती शेते । तथा त्वमपि रात्रौ सन्त्रस्तः सन् शेषे । अथ त्वं दिवैव पुमान् रात्रौ षण्ढतुल्य इत्यर्थः ॥ ३१ ॥
इति वाक्सायकैर्विद्धः प्रतोदैरिव कुञ्जरः ।
निशि निस्त्रिंशमादाय विवस्त्रोऽभ्यद्रवद् रुषा ॥ ३२ ॥
पदरत्नावली
इत्येवं वाक्सायकैर् वचनबाणैः । विद्धस्ताडितः । प्रतोदैरङ्कुशैः । कुञ्जेषु रन्तुं शीलमस्येति कुञ्जरः । निस्त्रिंशं खड्गम् ॥ ३२ ॥
ते विसृज्योरणौ तत्र प्राद्योतन्त स्वविद्युता ।
आदाय मेषावायान्तं नग्नमैक्षत सा पतिम् ॥ ३३ ॥
पदरत्नावली
तत्र तस्मिन् समये ते गन्धर्वा उरणौ तत्र विसृज्य स्वविद्युता स्वशरीरप्रकाशेन प्राद्योतन्त तत्प्रान्तं स्वान् नग्नं चैनं प्रकाशितवन्तः ॥ ३३ ॥
सत्यधर्मीया
प्रतोदैरङ्कुशैः कुञ्जरो नखमुखकुञ्जेषु रो वक्तव्य इति मत्वर्थे रः । कुञ्जौ दंष्ट्रे अस्य स्त इति, कुञ्जेषु रमत इति रमेर्डो वा । गजो यथा तथा वाक्सायकैर्विद्धो विवस्त्रो दिगम्बरं च प्रकाशितवन्तः कृतकृत्यत्वात् । मेषौ च नैकदा गन्धर्वैरन्धकारे नीतौ किन्तु पूर्वमेकोऽनन्तरमेक इति ज्ञेयम् । यथोक्तं हरिवंशे ।
निशायामथ चागत्य मेषमेकं जहार सः ।
गन्धर्वागमनं ज्ञात्वा शापं तं च यशस्विनी ।
राजानमब्रवीत्तत्र पुत्रो मेऽह्रियतेति सा ।
एवमुक्तो विनिश्चित्य नग्नो नैवोदतिष्ठत ।
नग्नं मां द्रक्ष्यते देवी समयो वितथो भवेत् ।
ततो भूयस्तु गन्धर्वा द्वितीयं मेषमाददुरिति ।
तस्याः पुरूरवःसमीपे वासदिनान्यपि हरिवंशोक्तानि ज्ञेयानि ॥ तथा हि ।
तया सहावसद्राजा दर्शवर्षाणि पञ्च च ।
पञ्चषट्सप्तचाष्टौ च दश चाष्टौ च भारत । इमां गणानां स्वयमेव क्रोडीकृत्य विवृणोति । वर्षाण्येकोनषष्ठिं तु तद्भक्त्या शापमोहितेति । १०५=१५५=२०६=२६७=३३८=४११०=५१ ॥ ५१८=५९ ॥ इत्येकोनषष्ठिसंवत्सरा ज्ञेयाः । न च माधवोदाहृतपुराणे-
इति सा समयं कृत्वा रमयामास तं नृपम् ।
चतुरब्दे गते रात्रौ देवैरुरणकद्वयं हृतम् ।
इत्युक्तिः कथमिति शङ्क्यम् । इन्द्रसभायां तदनिभालनदिनमारभ्य गन्धर्वैर्नालीकलोचनानयनालोचनकालश्चतुरब्द आत्मातश्चतुरब्दे गते मेषमोषणसमयस्तैरुपलब्ध इति तन्मात्रपरं तदित्युपपत्तेः । अथवा मानान्तरविवक्षया मानान्तरे चतुरब्द्युक्तिः । मानवमानवरणेन हरिवंश इति संशयोत्तारसम्भवादिति प्रसङ्गसङ्गदनम् ॥ ३३ ॥
छलारी
प्रतोदैरङ्कुशैः । निस्त्रिंशं खड्गम् । स्वविद्युता स्वप्रकाशेन । प्रद्योतन्त दीप्तिमकुर्वत ॥ ३३ ॥
ऐलोऽपि शयने जायामपश्यन् विमना अभूत् ।
तच्चितो विक्लवः शोचन् बभ्रामोन्मत्तवन्महीम् ॥ ३४ ॥
पदरत्नावली
ऐल इलापुत्रः पुरूरवा बभ्राम पर्यटनं कृतवान् । भ्रम अनवस्थाने, इति धातुः ॥ ३४ ॥
सत्यधर्मीया
तच्चित्तो महीं बभ्राम चचार । गन्धर्वैर्विद्युदप्यथ ।
उत्पादिताऽतिमहती यया तद्भवनं महत् ।
प्रकाशितं वै सहसा गन्धर्वैर्नग्नमैक्षत ।
नग्नं दृष्ट्वा तिरोभूता साऽप्सरा कामचारिणी ।
तिरोभूता तु तां दृष्ट्वा गन्धर्वा ह्यगमन् दिवम् ।
अपश्यन्नूर्वशीं तत्र विललाप सुदुःखितः ।
चचार पृथिवीं सर्वां मार्गमाणस्ततः । इति हरिवंशे ॥ ३४ ॥
छलारी
ऐल इलापुत्रः पुरूरवा बभ्राम । भ्रम अनवस्थान इति धातुः । पर्यटनं कृतवान् । विह्वल उद्विग्नः ॥ ३४ ॥
स तां वीक्ष्य कुरुक्षेत्रे सरस्वत्यां च तत्सखीः ।
पश्यन् प्रहृष्टवदनः प्राह सूक्तं पुरूरवाः ॥ ३५ ॥
पदरत्नावली
पुरूरवाः सरस्वत्यां नद्यां तामुर्वशीं पञ्च तत्सखीश्च वीक्ष्य सूक्तं प्राह इत्यन्वयः ॥ ३५ ॥
सत्यधर्मीया
तां च कुरुक्षेत्रे सरस्वत्याम् । तदित्यव्ययम् । लिङ्गविशिष्टपरिभाषा नित्या वा । तन्नामश्रुतिविवृत्यवसरे वक्ष्यामः । वीक्ष्य ताश्च पश्यन्नित्यन्वयः । अतो नातिरेकः । पश्यन्नित्यस्य पश्य इति केचित् । सम्भवति वीक्षेत्यनेनैकान्वये पश्यन्नित्यधिकमेव । चशब्दश्च सुश्लिष्ट इति चेत् । अगाधमेधोऽसि । पुरुविवरं रासि विवरणस्य । सत्यम् । पश्यतीति पश्यो जीवस्तद्वान् अर्शआद्यचि पश्यस्तद्वदाचरन्विक्लवस्तच्चित्त उन्मत्तवदिति । अनङ्गबाधया निरङ्गस्मरण एतर्हि तु तदवलोकेन जीववानिव जात इत्यतः प्रहृष्टवदन इति संलग्नमित्यवेहि ।
तत्रापि प्लक्षतीर्थे पुष्करिण्यां हिमवत्यां समाप्लुताम् । क्रीडन्तीमप्सरोभिश्च पञ्चभिः सह शोभनाम् । तां क्रीडन्तीं ततो दृष्ट्वेति हरिवंशोक्तेर्विशेषो ज्ञेयः । हिमवतीति नामवती पुष्करिणीति न सरस्वत्यामित्युक्तिबाधेति बोध्यम् । पुरूरवाः सखीः प्रति तया प्रदर्शितश्च । इदं सूक्तं प्राह । यथोक्तं तत्रैव-
ऊर्वशीताः सखीः प्राह स एष पुरुषोत्तमः ।
तस्मिन्नहमवात्सं वै दर्शयामास तं नृपम् ।
समाविग्नास्ततः सर्वे पुनरेव नराधिपः ।
जाये हे तिष्ठ मनसि घोरे वचसि तिष्ठ हे ।
एवामादीनि सूक्तानि परस्परमभाषतामिति ॥ ३५ ॥
पुरूरसव ऊर्वश्या भाषणप्रतिभाषणम् ।
सूक्तेषूक्तानि सूक्तानि कुर्मोऽर्थान्मन्दसन्दृशे ॥ १ ॥
ततश्चेदमष्टमाष्टकपञ्चमाध्यायप्रारम्भः । प्राक्तनो वर्गश्चोरवर्ग इति सम्प्रदायोऽध्यापकानाम् । ऐलोर्वशीतिहासोऽत्र वैशद्याय प्रवर्ण्यत इत्यादीत्युर्वश्यैलसंवादमिममेषोऽप्यसूचयदित्यन्तानुक्रमणिका । तथा च वाजसनेयकम् । ऊर्वशी हाप्सरा पुरूरवसमैलं चकमतं ह विन्दमानोवाच त्रिः स्ममाहो वैतसेन दण्डो हतादकामांस्मेत्यारभ्य तथेति तस्मै हविरासुस्तंहा यं ज्ञात्वाभिपरोवाद ह ये जाये मनसेत्यादीत्यन्तं विवरणरूपम् । अत्र सूक्ते प्रथमा ऋक् । हये जाय इति पुरूरवो वचनम् । हय इति हेत्यर्थे निपातः । अरतिवितरणात्सम्प्रति क्रूरे । मनसा मनःपूर्वकमस्मद्धितदात्री सती तिष्ठ । स्थितौ मम तवास्था कुत इत्यतो वक्ति ॥ वचांसीति ॥ वचांसि कथं मिश्रा । शसोडादेशः । मिश्राणि भाषणप्रतिभाषणरूपाणि मिलित्वा नु क्षिप्रम् । अद्य वा । कृणवावहै करवावहै । क्रि विहिंसाकरणयोश्च । धिन्विकृण्वोरचेत्युप्रत्ययः । समयेनेयता मया कृतानि किं मत्तः परं कार्यमित्यत आह ॥ नाविति ॥ नौ आवयोर्मन्त्रा एकान्तवार्ता एते वक्तुमुत्कण्ठा विषया अनुदितासो ऽनुदिता अनाख्याताः । च नेति निपातसमुदायश्चार्थे । परस्मिन्नहन् । उत्तरपुरुदिनेषु तथा परतरेऽहनि चरमेऽहनि च नापिति वा । अत एते मयः सुखनामैतत् । तिस्त्रो देवीर्मयो भुव इत्यृग्भाष्यटीकाटिप्पणीषु, तथा मयः कृणोषीति भाष्ये च सुखमातनोति भुवः सुखाश्रयीभूताः । मीङ्हिंसायामित्यस्मादसुन्प्रत्यये गुणायादेशयोश्च निष्पन्नस्य मयःशब्दस्य मीनाति हिनस्ति दुःखमिति व्युत्पत्त्या मयः सुखं कमिति शिवभातेत्यादिविंशतिसुखनामसु पाठात् । यद्वै सुखं तन्मय इति श्रुत्यन्तरादित्युक्तेर्नाकरन् । अत एतानि कृणवावहा इति ॥ १ ॥
अथ द्वितीया । किमेता वाचेत्यूर्वशी शंसति । एता एतया । टाडादेशः । वाचा फलानुपलम्भिकया किं कृणवावा किं करवाव । अहं तु प्राक्रामिषं त्वामतिक्रम्यागतास्मि । अतिक्रमे निदर्शनं दर्शयति । उषसामग्रिये वेति । बहूनामुषसां मध्येऽग्रे भवा । अग्राद्धस्तस्येयादेशः । पूर्वोषा गतातिथिर्यथा पुनर्नायाति तथाऽहमपीतो गता नागच्छामि । तस्माद्धे पुरूरवस्त्वं पुनरस्मात्सकाशादस्तं ग्रहं परेहि परागच्छ । त्वां प्रत्यागतं कथं न सत्करोषीत्यतोऽहमेवं दुरापेत्याह । अहं वात इव दुरापनेति । वातो यथा न धार्यस्तथाऽहं दुरापना दुष्प्रापाऽस्मि । अतः परेहि ॥ २ ॥
अथ तृतीया । इषुर्न श्रिय इति । तान्तस्तामस्तं पाहीति निरस्तो वक्ति । इषुधेर्निषङ्गान्निः सृत इषुरसना युजन्तः । असनायै अरिनिरसनाय न भवति । श्रिये विजयजनितसम्पदे न । रहोऽपि त्वद्विरहकातर्यादियं दशा शशिमुखि ममेति भावः । रंहिर्मानसिकवेगवानप्यहं गोषा वैरिसम्बन्धिनीनां गवां सम्भक्ता । जित्वा ता आनीतास्त्वमेतां त्वमेतां गृहाणेति विभाजको न भवामि । तथा शतसास्तच्छतं तत्सहस्रमित्यादेः शतस्याहिततोपहृतधनस्य विभाजकोऽपि नाभवम् । किञ्चावीरे स्वामिरहित इव नष्टे इतरैर्दृष्टेऽपि जने कर्मणि मन्निर्वाह्ये सति हे सति न विद विद्युतन् न विद्योतते न शक्तिर्व्यक्ती भवति । उतापि धुनयः परान्कम्पयितारो मद्भटा उरा । सप्तम्या डादेशः । उरौ महति रणे मायुं मीयते प्रक्षिप्यत इति मायुःशब्दः कृवापाजीत्युण् । सिंहनादात्मकमिति यावत् । न चितयन्त न व्यजानन् । राजचिन्तया तेऽपि ज्ञानहीना जाता इति भावः । चिति संविज्ज्ञानेऽस्माण्णिचि संज्ञापूर्वकविधेरनित्यतया लघूपधगुणाभावश्छान्दसो लुङ् । अविरे स्वेतरवीररहिते क्रतौ । स क्रतुर्ज्ञानरूपत्वादित्युक्तेर्हराविषुः शरवत्तन्मयो भवेदित्यादेर्मम मनोरूपी बाणो रंहिर्वेगवान्न । हराविति सामान्योक्तं किञ्चिद्विविच्य वक्ति । इषुधेर्जङ्घाद्वन्द्वस्य । खजतूणीनिभवरजङ्घेत्युक्तेः । तद्विषय इति यावत् । उपमानवाचिपदेनोपमेयग्रहणं च विज्ये बिभर्षि धनुषी इत्यादिविलोकयितारो लोका आलङ्कारिकाः पश्यतः पश्य नीलोत्पलद्वन्द्वान्निः सरन्ति शिताः शरा इत्यादिकं च कथमिति न कथेयुः । असनेति ङसोडादेशः । नेत्युपमानेऽसनाऽसनस्य । असनबन्धूकेत्यमरः । असनसमसमवस्त्रान्तस्येत्यर्थः । यथोक्तं द्वादशस्तोत्रे । ‘असनोत्फुल्लसुपुष्पकसमवर्णावरणान्ते’ इति । स क्रतुः कीदृश इत्यतो वाऽहं कीदृश इत्यतो वाऽऽह । यो गोषा वेदसम्भक्ता गावो वाचस्तदात्मकत्वाद्वेदग्रहः । वेदविभक्ता शतसा अपरिमितलोकानां तत्तद्योग्यतामनुसृत्य सम्पत् सम्भक्ताऽहमपि गोषाः प्राग्भगवद्गतचित्तत्वाद्भगवद्गतेन्द्रियसर्वस्व इति स तथा । अशान्तगोभिर्विशतां तमिस्रमित्यादेः । उरा । उरस्सु स्थाने डा । यच्छ्रिये लक्ष्मै रातं तदपि न विद विद्युतन् न प्रकाशते । ‘स्मरणीयमुरो विष्णोरिन्दिरावासमीशतुः’ इति तदवश्यं स्मरणीयतयोक्तेः । धुनयः कम्पितारोऽन्तश्शत्रवो मायुं मम मरणं न चितयन्त नास्मरन् । जीवन्मृतो न मृत इत्येव वस्तुतस्त्वेवमवस्थित्यपेक्षया सैवावस्था वरेति तात्पर्यम्
। तात्पर्यमेवं सर्वत्राप्यध्यात्मविषय आनेतुं शक्यं तथाऽपि विस्तरदरत आदरे सत्यप्युपरम्यत इति ज्ञेयम् । मीञ् हिंसायामिति स्मरणात् । तस्मादुणादयो बहुलमित्युणि वृद्धावायादेशे रूपं ज्ञेयम् ॥ ३ ॥
अथ चतुर्थी । इदमुत्तरं चेति द्वे ऊर्वशीवचने । तत्र प्रथमेन प्रथमतः कृतमुषसं प्रति पारोक्ष्येण सुदती वदति ॥ सा व स्विति । हे उषः सेयमूर्वशी वसु वसनमशनं वा वयोऽभ्यञ्जनेन मासृण्यादिसम्पादनम् । वसु वृद्धौषधाख्यान्नधनेषु यौक्त्रेंशुक इति विश्वः । वसु वस्त्रं वयोऽन्नं वा । श्वशुराय पुरूरवपित्रे दधती प्रयच्छती गृहे यदि स्थिता पतिं पुरूरवसं वष्टि कामयते तदा गृहाच्छ्वशुराशनमन्दिरादन्ति समीपे यदस्तं यत्र स्वपतिः स्वपिति तद्गृहं ननक्षे व्याप्नोति । अनेन स्मरशरवशता द्योत्यते । यस्मिन्ग्रहे चाकन्काङ्क्षत्यूर्वशी । आवः कुत्स इति ऋग्भाष्ये चाकन्नुक्तः कर्म यतः स्वतन्त्रेत्युक्तेः स्वतन्त्र इत्यर्थः । अत एव पुल्लिङ्गं चोपपन्नमिति ज्ञेयम् । करोतेः शत्रन्तस्येदमिति टीकाटिप्पणे । कृञो लटः शत्रादेशे बहुलं छन्दसीति शयः श्लौ श्लाविति द्वित्वम् अभ्यासकार्ये दीर्घोकित इत्यत्र योगविभागादभ्यासाकार्ये दीर्घे छान्दसे ऋकारलोपे निष्पन्नाच्चाकशब्दात्सौ नञा निर्दिष्टमनित्यमिति नाभ्यस्ताच्छतुरिति निषेधस्य प्रवृत्तौ उगिदचामिति नुमि हल्ङयाभ्य इति सुलोपे संयोगान्तलोपे च चाकन्निति । प्रथमपक्षे चकतृप्तावस्माण्यन्ताच्छत्रृप्रत्यये छन्दस्युभयथेत्यार्धधातुकत्वाण्णिलोपः शबभावश्च । यद्वा कमुकान्तावस्माल्लगन्ताल्लङि सिप्यभ्यासस्य नुमभावश्छान्दसो दीर्घोकित इति दीर्घत्वम् । सिलोपे च मोनो धातोरिति मकारस्य नकारे चाकन्निति ज्ञेयम् । दिवानक्तमहनि रात्रौ च वैतसेन शेपो वैतस इति पुंस्प्रजनस्येति निरुक्तम् । पुंस्प्रजनेन श्नथिता ताडिता च भवति ॥ ४ ॥
पञ्चमीमाह । त्रिःस्ममाह इति । हे पुरूरवस्त्वं मा मामह्वोऽहनि वैतसेन पुंप्रजनेन त्रिस्त्रिवारम् । द्वित्रिचतुर्भ्यः स्तुच् । श्नथयः स्म अश्नथयः । कृत्वोर्थप्रयोग इति कालवाचिनोहःशब्दादधिकरणे षष्ठी । उत अपि च स्मेति पूरणे । अव्यत्यै सपत्नीभिः सह पर्यायेण पतिमागच्छति या साऽव्यती तस्यै मे मह्यं पृणासि पूरयसि । एवं बुद्ध्या हे पुरूरवस्ते केतं निकेतमन्वायमन्वगमम् । यदा तदा हे वीर त्वं मे तन्वः शरीरस्य राजा रञ्जक आसीः । इतः परमुपरमस्वेति भावः । व्यतयो देवा न सन्ति यस्यां स्थल्यां साऽव्यतिस्तस्यै मानुषसभायाम् । ङेङर्थादेशः । विद्यमानं केतं व्यतीं रवीविपदिति श्रुतिकृत्यवसरे विशेषेणाधिकत्वात्तु व्यतयो देवताः स्मृता इति कर्मनिर्णयभाष्योक्तेः । अथवाऽव्यत्यै शापहेतुपापापनोदार्थं व्यतीति पापमुद्दिष्टं तस्य पातो यतो भवेत् । व्यतीपातमिति व्यतीपातपदनिर्वचनपरपुराणवचने व्यतीति पापाभिधानमित्यभिधानात् । विशेषेणातिरत्ययो यस्याः सा न भवतीत्यव्यती तस्यै वा । जातिशब्दव्याकृत्यवसरे उपसर्गाश्चासन्निधाने ससाधनां क्रियामाहुः प्राचार्यः प्रान्ते वासीति ततोऽतिरत्ययवाचक इति तत्त्वनिर्णयटीकोक्तेः ॥ ५ ॥
अथ षष्ठी । पुरूरवो वचनम् ॥ या सुजूर्णिरिति । सुजूर्णिर्वेगवतीति यै तन्नाम्नी या श्रेणिर्या च सुम्न आधोहिनो वसवित्येतत्कर्मनिर्णयभाष्ये सुम्नं सुखमिति व्याख्यानात्सुम्ने सुखार्थमागता आपिर् या च हृदे हृदये भावे चक्षुस्तद्दर्शनी भावज्ञा नाम्ना चक्षुर् या च ग्रन्थिनी सन्दर्भं सन्दधती तदभिधा एवं पञ्चभिः सखीभिरेताभिः सह चरण्युश्चरणशीलोर्वशी ससार । ताश्च सख्योऽञ्जयः सालङ्कारा अरुणयोऽरुणवर्णा न सस्रुः प्रागिव न प्रापुः । व्यतिरेकं निदर्शनमाह ॥ धेनव इति । धेनवो नवप्रसवा गावो न इव । श्रिये श्रवणाय वत्सार्थं नुवन्ति शब्दं कुर्वन्ति । तथ नानवन्त नाशब्दयन् । यत्तु माधवोऽभ्यधात् । नकारः समुच्चये ताभिस्तिसृभिः सहाजगाम । द्वितीयव्याख्याने सुजवेति विशेष्यसमर्पकम् । प्रथमव्याख्यायां च ग्रन्थिनो सन्दर्भवती सोर्वशीति विशेष्यसमर्पकमिति । तच्चोभयथाऽपि तुच्छम् । भारतभारतीं नानुससार स इत्युपेक्ष्यः । तथा हि हरिवंशे ।
क्रीडन्तीमप्सरोभिश्च पञ्चभिः सह शोभनाम् ।
ऊर्वशीं ताः सखीः पञ्च प्राहैष पुरुषोत्तमः ॥
इत्यादि । समाविग्नास्ततः सर्वा इति प्राग्वदसरणे तथारणने च मानमिति मन्तव्यम् । राजा खिद्यतीति खेदेन वा समयोऽनया कृतो व्यतीतः कुतोऽत्र स्थेयमित्यनास्थया वा समात्यां समाविग्नतेति तात्पर्यम्
॥६॥
अथ सप्तमी ॥ समस्मिन्निति ॥ ऊर्वशीवचनम् । अस्मिन्पुरूरवसि जायमाने वर्धमाने ग्ना अप्सरसोऽपि समासत सङ्गता अभवन् । उतापि च । र्इम् एनम् । एमाशुमाशव इत्यृग्भाष्ये ईमेवेति वचनादवधारणार्थ इकारस्तस्य स्वगूर्ता एवेत्यन्वयो वा । स्वगूर्ताः स्वयमेवागच्छन्त्यो नद्यस्तासामाश्रयभूता अवर्धन् अवर्धयन् । किञ्च हे पुरूरवो यद्यस्मात्त्वा त्वां महे महते रणाय रमणीयाय सङ्ग्रामाय दस्युहत्याय च देवा अवर्धन् ॥ ७ ॥
अथैलवाक्यानि त्रीणि । अथाष्टमी । तत्रादितो द्वाभ्यामूर्वशीमन्याभिः सह स्तौति । स च यदास्विति । यद्यदा सहायभूतः पुरूरवा अत्कं स्वरूपं रूपनामात्क इति । जहतीषु परित्यजन्तीष्वमानुषीषु देवतासु मानुषः सन्निषेवेऽभिमुखं गच्छति तदा ता अप्सरसो मन् मत्तोऽप अपसृत्य । उपसर्गा हि धातुसम्बन्धेन तदर्थबोधहेतवः । केवलास्तु ससाधनक्रियावचना भवन्तीत्यतो व्यतीन्विशेषेणाधिकानित्युक्तमिति कर्मनिर्णयटीकादावुक्तेरपापसृत्येति युक्तम् । अत्रसन् । त्रसतिरत्र गतिकर्मा । गच्छन्ति । पलायने निदर्शनं तरसन्ती भुज्युर्नेति । तरसन्नामा मृगस्तस्य स्त्री तरसन्ती । भुज्युस्तद्भोगसाधनीभूतेति । यथा व्याधाद्भीता द्रवति । किञ्च रथस्पृशो रथे बद्धा अश्वानस्ते यथा पलायन्ते तथैता इति ॥ ८ ॥
अथ नवमी । यदासु मर्त इति । यद्यदा आस्वमृतासु देवयोनिषु मर्तो मनुष्यः पुरूरवा निःस्पृक् निःशेषं स्पृशन् क्षोणीभिर्वाग्भिः क्रतुभिश्च न कर्मभिश्च सम्पृक्ते सम्पर्कं करोति । ता अप्सरस आतय आड्य इव विद्यमानाः स्वाः । शरातिरातिरादिश्चेत्यमरः । पक्षिविशेषा इव तन्वः शरीराणि न शुम्भत नाशोभयन् न प्रकाशयन्तीति । अश्वासोऽश्वा न इव । क्रीलयः क्रीडन्त्यो दन्दशाना दन्तैरोष्ठं दंशतः । यथा चापल्येन धावन्तः स्वस्वरूपं न प्रकाशयन्ति यन्तुस्तथैता इति व्यथया कथयति । अज्यतिभ्यां चेतीण् । दन्दशाना इत्यप्सरसःपक्षेऽप्यन्वेति ॥ ९ ॥
अथ दशमी । विद्युन्नेति । अनयोर्वशीं स्तौति । योर्वशी निष्पन्नतटित इव पतन्तीदविद्योद् द्योतते । अप्या अप इत्यन्तरिक्षनाम । तत्सम्बन्धिनी काम्या काम्यानि । अस्मदिष्टानि । भौमानि तु भरेदिति किं वक्तव्यमिति भावः । मे मह्यं भरन्ती धारयन्ती ददातीति यावत् । यदा गतायास्तस्याः सकाशादपः कर्मप्राप्तयो नर्य नरेभ्योऽत्र मानवेभ्यः परत्र नरेभ्यो विनाशशून्यत्वेन देवेभ्यो हितरूपः सुजातः कोमलकलेवरः पुत्रो जनिष्टोऽजनिष्ट । तदेयमूर्वशी मम दीर्घमायुरत्र पुत्रपौत्रादिपरम्परया परत्र नित्यायुर्मोक्षं च । प्रतिरत व्यतारीत् । प्रजामनुप्रजायसे नद्रुतेमर्त्यामृतमिति हि मन्त्रः । शश्वत्पुत्रेणेत्यारभ्यात्यायन्नधरन्तम इति ब्राह्मणम् ॥ १० ॥
अथैकादशी । इत्था गोपीथ्याय । निपातितः । गतम् । स्वार्थे ष्यञ् । वृद्ध्यभावश्छान्दसः । पालनाय । विशेषानुक्तेः सर्वरक्षणाय । यद्वा गोपीथेषु भवो व्यापारः स च रक्षणलक्षण इति तस्मै । दिगादिर्यत् । यविष्ठयेत्यादिष्विवाधिक्ये वा यः । गौर्भूमिस्तस्याः पीथ्यं पीथं पालनं तस्मा इत्यप्यालपन्ति । जज्ञिषे जातोऽसि पुत्ररूपेण । आत्मा वै पुत्रनामासीति श्रुतेः । आदरात्तदेवादीरयति । हे पुरूरवो मे ममोदरे ओजो वीर्यं तदत्र रेतो दधाथ निहितवान् । तव्द्याप्तं फलोपलम्भकमिति यावत् । अस्तु तथाऽपि न कथयेति कथयति । अहं विदुषी भविष्यज्ज्ञा सस्मिन्सर्वस्मिन् । राजस इतिवत्सर्वशब्दस्य सादेशः । समशब्दस्य वा सर्वनामसंज्ञातः स्माआदयः समशब्दमलकारलोपोदेति । अहन्नहनि त्वां चाशासं शिक्षितवत्यस्मि । त्वं मे मम वचनं नाशृृणोः । किञ्च त्वमभुक् अपालयिता प्रतिश्रुतमपारयन्निति यावत् । वदासि हये जाय इत्यादिकम् । वदेर्लेट्यडागमः । अत्र वाजसनेयकम् । ऊर्वशी अप्सराः पुरूरवसमैलं चकमे तं हविन्दमानोवाच त्रिः स्म माऽन्हो वैतसेन दण्डेन हतेत्यादि ॥ ११ ॥
अथ द्वादशी । कदा सूनुरिति । पुरूरवा वदति । कदा कस्मिन्काले सूनुर्जातस्तवोदरतः सन्पितरं मामिच्छादिच्छेत् । लोटि शपि इषुगमियमाञ्छ इति छादेशः । लोटो डाटावित्यडागमः । कदा वा विजानत् । पितरं मामधिगच्छन् चक्रन् क्रन्दमानो भ्रमन्वा । बालानां स्वभावोऽयम् । अश्रु न वर्तयद्वर्तयेच्च । किञ्च कः किं प्रकारः सन्मनसाऽसौ दम्पती जायापती त्वां मां चेति वियूयोद्विश्लेषयेत् । यु मिश्रणामिश्रणयोः । यौतेश्छान्दसः शपः श्लुः । तुजादित्वादभ्यासदीर्घः । अद्याधुना यद्यदाऽग्निर्ज्वलनवदुज्वलन्निति गर्भः श्वशुरेषु दीदयन्मत्पित्राद्युत्तमगतिप्रापकत्वाद्दीप्यते । दीदेति दीप्तिकर्मेति नैरुक्तो धातुः ॥ १२ ॥
अथ त्रयोदशी । ऊर्वशीवचः प्रतिब्रवाणीति । हे पुरूरवास्त्वां प्रतिब्रवाणि प्रतिवच्मि । तदपत्यमश्रुबाष्पं वर्तयते वर्तयिष्यति । आध्ये आध्याते सति शिवायै कल्याणे समुपस्थिते सति चक्रन्रुदन्नश्रु अश्रूणि विमुञ्च न क्रन्दन्न । आह्वानं कुर्वदिव तदपत्यं ते तुभ्यं प्रहिनव प्रहिणोमि । तन्नेतरदित्याह । यदिति । अस्मे अस्मासु ते त्वत्तो निहितं त्वमस्तं गृहं परेहि गच्छ । हे मूर मूढ । रलयोर्लडयोस्तथा वबर्योश्चैक्यवड्डुढ्योस्तत्त्वान्मूढेत्युक्तिः । मा मां न ह्यापो मा प्राप्नोषि । हिनवेत्यत्र हिनोतेश्छन्दसि लुङ्लङ्लिट इति भविष्यदर्थे लङिति पोमादेशो गुणः । अन्त्यलोपश्छान्दसः । बहुलवचनादडभावः । आप आप्लृव्याप्तौ लिटि तिङा तिङो भवन्ति थलोणलिति माधवोऽलीलिखद्यद्यपि नाचिन्तयद्विसर्गमार्गम् । अतः स्थलो णसादेशश्छान्दसः ॥ १३ ॥
अथ चतुर्दशी । पुरूरवाः सुदेवो ओति । त्वया सह क्रीडावानयं देहोऽद्यात्रैव प्रपतेदपततु । अथवाऽनावृदनावृतः सन् परमां परावतं दूरादपि दूरदेशं गन्तवै । तुमर्थे तवैन्प्रत्ययः । गन्तुं महाप्रस्थानं तु तनोत्वद्य । अथवा शक्तिवियुक्तश्चेद्यत्र कुत्रापि गन्तुं निऋतेः क्षमानामैतत् । पृथिव्या उपतस्थे । पृष्टे शयीत शयनं कुर्यात् । अथाथवा वृकाः श्वापदो रभसासो बुभुक्षा वेगवन्तोऽद्युर्भक्षयन्तु । एतेन गच्छसि चेत्कान्त पन्थानः सन्तु ते शिवाः । ममापि जन्म तत्रैव भूयाद्यत्र गतो भवानित्यादिवद्विना विनाशं नाशनं शुनामिति मरणमर्थितवान्पार्थिव इति व्यज्यते । मा मृथा इत्युत्तरमत एव सुलग्नम् । अत्र च वाजसनेयकम् । सुदेवो द्यो द्वा बध्नीत प्रवापते तदेनं वृका वा श्वानो वाऽद्युरिति हैव तदुवाचेति । श्रुतौ वृकपदं श्वाद्युपलक्षणमिति ज्ञायते । खेदेनेदमनुमोदनं मोदिनीनाथस्येति ज्ञेयम् ॥ १४ ॥
अथ पञ्चदशी । तमितरा तरुणी प्रत्युवाच । हे पुरूरवस्त्वं मा प्रतप्तः पत न । पतेर्लुङि लृदित्वात्पुषाद्युतेत्यादिना च्लेरङ् । पतः पुमिति पुम् । अथ मा मृथा मृतिं नाप्नुहि । म्रियतेर्लुङि थासि ह्रस्वादङ्गादिति सिचो लोपः । तथा त्वा त्वमशिवासोऽमङ्गला वृकासो वृको मोक्षन् उ मैव भक्षयन्तु । ओर्लुङि लुङ्वनोर्घाश्लिति घश्लादेशः । मन्त्रे घसेति चेर्लुक् । गमहनेत्युपधालोपः । शासिवसीत्यादिना षत्वम् । खरि चेति चर्त्वक्षत्वे । बाहुलकादडभावः । मया चेयमुपचारिता न मनःपूर्वमपचार आचरितः कुत इयं तत्याज मामिति न राजन्कुतुकी भव भवताऽपि न किञ्चिद्दुश्चरितमाचरितमस्मत्स्वभाव एवायमित्यावेदयति ॥ नवा इति । स्त्रैणानि स्त्रीकृतानि सख्यानि न वै सन्ति न फलोपलम्भकानि भवन्ति । अतो न सन्त्येव । तत्र हेतुमाह ॥ एतेति । एता एतानि सख्यानि सालावृकाणां हृदयाणि तानि यथा विस्रब्धान्वत्सादीन् त्वत्स्याम इति कामयन्ते तद्वत् । अत्र वाजसनेयकम् । मैतदामृथा नवै स्त्रैणं सख्यमस्ति पुनर्गृहा निहीति हैनं तदुवाचेति । इत्यष्टमपञ्चमे तृतीयो वर्गः ॥ १५ ॥
अथ षोडशी । यद्विरूपेति । यद्यदा विरूपा मानवतनुसम्पर्कात्पतिसम्मत्या विविधरूपेति वा । मनुष्येषु मर्त्येष्वचरं तदा रात्रीरेकोनषष्ठिवर्षे दिनरात्रीश्चतस्त्रः शरदश्चतुः संवत्सरी वाऽवसम् । सुखातिशयेन दिनातिशयेप्येवमुक्तिस्तथा विपरीते विपर्ययस्योक्तिश्च प्रथमतात्पर्ये । अहस्तु मासशब्दोक्तं यत्र चिन्तायुतं व्रजेत् । एवं संवत्सराद्यं च विपरीते विपर्यय इति नाममहोदधाविति । अन्यथा वर्षाण्येकोनषष्ठि त्विति भारते विरोधापत्तेः । अद्यापि जनाभाणकं बहुसंवत्सरवासेऽपि दिनचतुष्टयं वासः कृत इति । रात्रीरित्यत्यन्तसंयोगे द्वितीया । घृतस्य स्तोकं सकृदेकवारमह्नोऽश्ना तावदेव तेनैव स्तोकेनेदं सम्प्रति ततृषाणा अतितृप्ता चरामि इदं क्षेत्रादिकं चरामि । आज्यस्य प्राज्यत्वेऽपि स्तोकमित्युक्तिर्लोकदृष्टिबाधाबाधार्थम् ॥ १६ ॥
अथ सप्तदशी ॥ अन्तरिक्षप्राप्तमिति । स्वतेजसाऽन्तरिक्षं पुरयन्त्री वृषणाकक्ष्यप्रेतिवत् । प्रपूरण इति धातुः । तथा रजसो रञ्जकस्य मन्मनोहरस्मयोदकादेर्विमानीं निर्मात्रीमूर्वशीं वशिष्ठः समानां मध्ये वसतामतिशयेनातिशयिता वसिष्ठ इव ममतां स्त्रीममतामुचथ्यभार्यां समाधातुं कुशल इति वा । उपशिक्षामि शिक्षित्वा वशं नयामि । सुकृतस्य सुकर्मणो रातिर्दाता पुरूरवाश्च त्वा त्वामुपतिष्ठादुपतिष्ठन्मे हृदयं तप्यते । अतो निस्वेतेति राजोवाच । हृदयं हृद्यं सदमप्रतीत्यप्यर्थः ॥ १७ ॥
अथाष्टादशी । ऊर्वशीवाक्यम् । ऐल त्वा त्वामिमे देवा मृत्युबन्धस्तमाकाङ्क्षन्निति तद्बन्धुत्वम् । यथा र्इं यथैतद्भवसि भविष्यसि प्रजाः प्रकर्षेण जायमानास्त्वं ते सम्बन्धिनो यष्टव्यतया देवान्हविषा यजासि यजसि । स्वर्गे स्वर्ग एव त्वमपि मादयासेऽस्माभिः सहेत्याहुरित्यर्थः । अतो हित्वा त्वं मदभिलाषं सुखीभवेति पुरूरवसं प्रत्युवाचेति तात्पर्यम्
। इत्यष्टमपञ्चमे चतुर्थो वर्गः ॥ १८ ॥
छलारी
पुरुरवाः सरस्वत्यां तन्नामिकायां नद्यामुर्वशीं वीक्ष्य पञ्च तत्सखींश्च पश्यन्सूक्तं प्राह ॥ अहो जायेति । सूत्रोक्तप्रकारेणेत्यर्थः ॥ ३५ ॥
अहो जाये तिष्ठ तिष्ठ घोरे न त्यक्तुमर्हसि ।
मन्त्रा अद्याप्यनिर्वृत्ता वचांसि कृणवावहै ॥ ३६ ॥
पदरत्नावली
किं तत्सूक्तमित्यतोऽर्थतस्तत् प्रतिगृह्णाति– अहो जाये तिष्ठेति ॥ ‘अहो जाये मनसा’ इत्यारभ्य हविषा यजाति स्वर्ग उ त्वमपि मादयासे’ इत्यन्तमुत्तरप्रत्युत्तरात्मकं सूक्तमुर्वशीवशीकरणाभिप्रायेण प्राहेत्यर्थः । ततश्चेदम् ऋग्वेदेऽष्टमाष्टकपञ्चमाध्याये प्रथमसूक्तम्– ‘हये जाये मनसा तिष्ठ घोरे वचांसि मिश्रा कृणवाव है नु । न नौ मन्त्रा अनुदितास एते मयस्करन् परतरे च नाहन्’ इति । हये अहो जाये मनसा तिष्ठ मनःपूर्वकं पूर्ववत् तिष्ठ, मां त्यक्तुं नार्हसीति शेषः । हे घोरे सुरतशौण्डे, अये परतरे अहन् अहनि उत्तरोत्तरदिवसे मयः सुखं करन् च न कुर्वन्त्येव । एते नौ आवयोः सुरतमन्त्रा करुणोक्तिपूर्वकाः, नु अद्याप्यनुदितासो ऽनिवृत्ता अपरिसमाप्ता इति यस्मादतो नैतदुचितमतो मिश्राणि सलापलक्षणानि वचांसि कृणवाव है करवावहै ॥ ३६ ॥
सत्यधर्मीया
प्रायो मताभिप्रायः स्याच्छ्लोकोऽपि नेति नेति नो । श्रुत्यर्थः श्रुतिमात्रेणाथाऽति किञ्चिद्विविच्यते । ह ये अहो इति । तिष्ठ न त्यक्तुमर्हसीति मनसा तिष्ठेति सूचितादरप्रदर्शकम् । वञ्चसीति न वृता कथा इति प्रथयितुं मन्त्रा इति गुप्तभाषणानीत्यर्थः । वचांसि कृणवावहै इत्यनुवादः । अद्यप्यनिर्वृत्ताऽसमाप्ता इति स्वास्थां तच्छ्रवणे सूचयति । घोरे खेदकत्वान् मत्प्राणसङ्कट इत्यर्थः ॥ ३६ ॥
छलारी
किं तत्सूक्तमित्यतोऽर्थतस्तत्प्रतिगृह्णाति ॥ अहो जाये तिष्ठेति । अहो जाये तिष्ठ मनःपूर्वकं पूर्ववत्तिष्ठ मां त्यक्तुं नार्हसि । तिष्ठ तिष्ठेत्यादराद्विरुक्तिः । हे घोरे सुरतशौण्डे । नौ मन्त्राः सुरतमन्त्रा अनिर्वृत्ता अथाऽपि अपरिसमाप्ता इत्यर्थः । वचांसि कृणवावहै करवावहै ॥ ३६ ॥
सुदेवोऽयं पतत्यत्र देवि दूरं हृतस्त्वया ।
खादन्त्येन वृका गृध्रस्त्वत्प्रसादस्य नास्पदम् ॥ ३७ ॥
पदरत्नावली
सारसङ्ग्रहाभिप्रायेण मध्ये काश्चनर्चो विहाय सुदेवोऽद्य प्रपतेदित्येतामृचमर्थत उदाहरति- सुदेव इति ॥ सुदेवो अद्य प्रपतेदनावृत् परावतं परमां गन्त वा उ । अधा शयीत निर्ऋतेरुपस्थेऽधैनं वृका रभसासो अद्युर् इति । हे देवि योऽहं परावतं परवन्तम्, दीर्घश्छान्दसः । दूरं देशं हृतस् त्वया सह परमां रतिं गन्तवै उ गन्तुमेव । तुमुन्नथें तवैन् प्रत्ययः । तस्य मे अयं सुदेवः समीचीनज्ञानलक्षणगतिसाधनं शरीरम् अत्र कुरुक्षेत्रे अस्यामवस्थायां वा प्रपतेत् प्रपतिष्यति । कुतः ? अनावृद् आधाररहितः । अथ पतनानन्तरं निर्ऋतेभूमेरुपस्थे पृष्ठे शयीत । अथ निर्जीवमेनं शरीरं रभसासः भक्षणसम्भ्रमाकुला वृका अद्युः खादन्ति । पतित्वा शयित्वाऽपि कथञ्चित् सप्राण चेद् वृका इन्द्रियाणि खादन्ति इति ॥ ३७ ॥
सत्यधर्मीया
समयो न गमनीय एतदुपयोगिनीः काश्चिदृच इति फलिताभिलपनेन कमललपना तुष्टा तिष्ठेदिति मतिस्ता विहाय सुदेवोऽद्य प्रपतेदित्येतामृचमर्थतो राजा विराजयति ॥ सुदेव इति ॥ हे देवि लीलाशालिनि । अनेन मार्जारक्रीडामूषकप्राणसङ्कटाभाणकं ध्वन्यते । परावतमित्यवधिर्न निरूपित इति दूरमित्युक्तिः । हृत इत्यनेन पारवश्यं द्योतयति । त्वयेत्यनेन कारणान्तरं वा काकतालीयं वा वारयति । वृकास इत्युपलक्षणमिति गृध्रा इति सूचयति प्रायेण । त एव शवरुचयः ।
गोवर्धनसितच्छत्रदण्डवद्भासते च कः ।
गृध्रा इत्युत्तरं यस्य प्रश्नस्य तदिहोत्तरम् ॥
इति नीतिकारः । को गोवर्धनसितछत्रस्य दण्डवद्भासते शवभुजश्च क इति प्रश्नद्वयम् । तत्र केशवस्य श्रीकृष्णस्य भुज इत्येकम् । शवभुजः क इति द्वितीयस्य गृध्रा इति यस्य प्रश्नस्योत्तरं तदिह द्वितीयप्रश्न उत्तरमिति तदर्थः । तत्र हेतुः । त्वत्प्रसादस्य नास्पदमिति । आस्पदं प्रतिष्ठायामिति निपातितः शब्दः ॥ ३७ ॥
छलारी
सारसङ्ग्रहेण मध्ये काश्चन ऋचो विहाय सुदेवो यं पतत्यत्रेत्येनाम् ऋचमर्थत उदाहरति ॥ सुदेव इति । हे देवि । सुदेवः क्रीडादिसाधनो मम देहः । अत्र कुरुक्षेत्रे पतति पतेत् । हे देवि । त्वयाऽयं देहो दूरं हृतो दूरेऽपहृतस्त्वत्प्रसादस्य नास्पदमनास्पदम् । एनं देहं वृकाः खादन्ति ॥३७॥
ऊर्वश्युवाच—
मा मृथा पुरुषोऽसि त्वं मा स्म त्वाऽद्युर्वृका इमे ।
क्वापि सख्यं न वै स्त्रीणां वृकाणां हृदयं यथा ॥ ३८ ॥
पदरत्नावली
हये जायेति पुरूरवस वचनम्, अस्य ऊर्वश्या उत्तरम्- ‘किमेता वाचा कृणवा तवाहं प्राक्रमिषमुषसामग्रियेव । पुरूरवः पुनरस्तं परेहि दुरापना वात इवाहमस्मि’ इति । तव एता एतया वाचा फलानुपलम्भिकया किं कृणवे किं कुर्वः । किं निमित्तमिति तत्राह– अहमिति । अहमुषसामग्रियेव प्राक्रमिषमतिक्रम्यागतास्मि । यथा प्रथमोषसो ऽतिक्रान्तत्वात् पश्चात्तनानामुषसां योगो न घटते तथाऽऽवयोरपीत्यर्थः । तर्ह्यहं किं करोमीति तत्राह– पुरूरव इति । हे पुरूरवः पुनः पश्चाद् अस्तं गृहं परेहि परागच्छ । किमर्थं पश्चाद्गमनमिति तत्राह– दुरापनेति । यथा वातो वायुर्ग्रहीतुमशक्यस् तथाऽहमपि दुरापना दुर्ग्रहेत्यर्थः । इति मृदुवचनोत्तरेणायं गृहं न यातीत्यभिसन्धाय कठिणोत्तरेण निवर्तयिष्यामीति मत्वा पुरूरवो मा मृथा मा प्रतप्तो मा त्वा वृकासो अशिवास उक्षन् । न वै स्त्रैणानि सख्यानि सन्ति सालावृकाणां हृदयान्येता’ इत्येतदर्थम् उत्तरत्वेनोर्वशी वक्ति– मा मृथा इति । हे पुरूरवस् त्वं मा मृथा मरणं मा प्राप्नुहि । गूढाक्षेपं करोति– पुरुष इति । पुरुषत्वेन बलिष्ठत्वात् तव कामनिमित्तमरणं न युक्तम् । अबलायाश्चेदबलत्वेन कथञ्चित् सम्भावितं स्यादित्यर्थः । अनेनार्थतः मा प्रपप्त इत्येतद् विवृतं भवति । प्रपप्त इति पततेयङलुङन्तं रूपम् । कामपारवश्येन भृशं पतितो मा भूः । अभ्यासस्य दीर्घाभावश्छान्दसः । इमे अशिवासो ऽशिवा अशुद्धिहेतवो वृकासो वृकास् त्वा त्वां मोक्षन्, उक्षतिरत्र भक्षणार्थः, मा स्माऽद्युर्न लालाजलेन प्रोक्षयित्वा भक्षयेयुरित्यर्थः । स्त्रैणानि स्त्रीसम्बन्धीनि सख्यानि ददाति प्रतिगृह्णाति गुह्यमाख्याति पृच्छति । भुङ्क्ते भोजयते चैव षडि्वधं स्नेहलक्षणम्’ इति स्नेहलक्षणानि न वै सन्ति क्वापि सदातनानि न भवन्ति ॥ तत्र हेतुमाह– एतेति । मूलश्लोके यथेत्यनेन सालावृकाणामिति लुप्तोपममिति सूचयति । हृदयमिति । जातावेकवचनम् । यथा सालावृकाणां हृदयानि निर्दयानि, एता एतान्यपि स्त्रीणां हृदयानि तथेत्यर्थः ॥३८॥
सत्यधर्मीया
पुरुषोऽसीति नाबलाबलाक्रिया युक्ता युक्तं स्तम्भनं तत्र त्वं शक्त इति सूचयति । इमे वृका रभसास इति सूचयितुमिम इत्युक्तिः । अद्युरिति उक्षन्नित्यदधातो रूपमिति निरूपयति । श्रुतौ पदं तु अशिवास उ इति क्षन्निति रूपं निरूपितमस्माभिः श्रुतिविवृत्यवसरेऽवसेयम् । प्रथमाष्टकषष्ठाध्यायतृतीयवर्गेऽक्षन्नमी मदं त र्ह्यवप्रिया अधूषतेति चोक्तेर्वृकासोऽपि त्वां मोक्षन् उक्षतिरत्र भक्षणार्थः । मास्माद्युर्न लालाजलेन प्रोक्षयित्वा भक्षयेयुरिति प्राचीनव्याकरणं दुरध्यापकमूर्ध्वध्वंसो भवतु तन्मुखश्रुतपदपाठादित इति ते निर्लिप्ता इति मन्तव्यम् । न भवत्येव वृकाणां तदादीनां यथा हृदयं निर्दयं तथैतासां हृदयमिति सख्यं सख्यं नेत्युक्तिः ॥३८॥
छलारी
हे पुरूरवाः । त्वं मां मृथा म्रियस्व पुरुषोऽसि । अतो धैर्यमावहेति भावः । इमे वृकाः प्रसिद्धास्त्वां मा स्माद्युः । इदानीमुर्वशी पुरूरवसं प्रति हितमुपदिशति ॥ क्वापीति ॥ वृकाणां सालवृकाणां यथा हृदयं यथा कुटिलं तथा स्त्रीणामपि हृदयं कुटिलम् । अतः क्वापि सख्यं स्त्रीभिर्न कार्यमित्यर्थः ॥ ३८ ॥
स्त्रियो ह्यकरुणाः क्रूरा दुर्मर्षाः प्रियसाहसाः ।
घ्नन्त्यल्पार्थेऽपि विस्रब्धं पतिं भ्रातरमप्युत ॥ ३९ ॥
पदरत्नावली
एतेति सूक्तोक्तमेव विवृणोति– स्त्रिय इति । दुर्मर्षा अमर्षणशीलाः । प्रिये प्रेष्ठेऽपि साहस बलात्कारलक्षणं कर्म यासां तास्तथा । एतदेव विविच्य दर्शयति– घ्नन्तीति । अल्पार्थेऽपि अल्पप्रयोजनेऽपि । विस्रब्धं विश्वस्तम् ॥ ३९ ॥
सत्यधर्मीया
कियद्भिः पदैस्तत्सम्पन्निरूपिता चेदपि नालमबलानामिति द्वाभ्यां श्लोकाभ्यां तदद्वन्द्वतामाह ॥ स्त्रिय इति ॥ अकरुणाः क्रूरा दुर्मुखाः । वैकल्पिको ङीबिति टाप् । प्रिये पत्यौ वा स्वेष्टविषये वा साहसं बलात्करो यासां ताः । साहसं तु बलात्कारे कृतकार्ये दमेऽपि चेति विश्वः । साहसो बलात्कार इति व्याख्या लेखकहस्तदोषतो वा विशेषानुशासनमूला वेति ज्ञेयम् । विश्रब्धं यं कञ्चन पतिमपि । उत भ्रातरं चेत्यन्वयः । अल्पार्थेऽपि प्रयोजनेऽपि घ्नन्ति नाशयन्ति ॥ ३९ ॥
छलारी
एतदेव विवृणोऽति ॥ स्त्रिय इति ॥ दुर्मर्षा अमर्षणयुक्ताः प्रिये प्रेष्टा अपि महासाहसो यासां तांस्तथा । एतदेव विविच्य दर्शयति ॥ घ्नन्तीति ॥ विस्रब्धं विश्वस्तम् ॥ ३९ ॥
विधायालीकविस्त्रम्भमज्ञेष्वत्यन्तसौख्यदाः ।
नवं नवमभीप्सन्त्यः पुंश्चल्यः स्वैरवृत्तयः ॥ ४० ॥
पदरत्नावली
अलीकविस्रम्भं कपटविश्वासं विधाय अज्ञेषु पुरुषेषु अत्यन्तसौख्यदा इव प्रतीयमाना नवं नवं पुरुषमभीप्सन्त्य इच्छन्त्यः । पुंश्चल्य इत्यस्य विवरणं स्वैरवृत्तय इति । घ्नन्तीति पूर्वेणान्वयः ॥ ४० ॥
सत्यधर्मीया
इयं परिणीततरुणीनां दशा दशा याऽस्मदादीनामितोऽपि वैचित्र्यमित्याह ॥ विधायेति । अलीकविश्रम्भं मिथ्याविश्वासं विधायाज्ञेष्वतदर्हेष्वत्यन्तसौख्यदा रत्यात्यन्तिकसुखप्रदा नवं नवं पुरुषमभीप्सन्त्यः कामबाधात्कामयन्त्यः । नवं नवमित्यनेन न जातुचिज्जातिविवेकेप्सा तासामस्तीति ध्वन्यते । अत एव पुंश्चल्यः । यद्वा नवं नवं धनादिकमभीप्सन्त्यः पुंश्चल्यो धनिकपुंमात्रगामिन्यो भ्रातृपित्रादिभिरप्रत्तेऽन्नदौ ताः किं कुर्युरित्यत आह ॥ स्वैरीति ॥ न विद्यते वृत्तिर्जीविका यासां तास्तथा स्वैः स्वकीयैः प्रत्ते चिताय तद्रुरुच इति भावः । स्वैरवृत्तयो ये पुमांसस्तत्र नवनवमभीप्सन्त्य इति वा । व्यख्यानव्याख्येयभाव इत्यादिकं त्वच्छिन्नम् ॥ ४० ॥
छलारी
अलीकविस्रंभं कपटविश्वासं विधायाज्ञेष्वत्यन्तसौख्यदा इव प्रतीयमाना नवं नवपुरुषमभीप्संत्य इच्छन्त्यः । पुंश्चल्य इत्यस्य विवरणं स्वैरवृत्तय इति । घ्नन्तीति पूर्वेणान्वयः ॥४०॥
संवत्सरान्तेऽपि भवानेकरात्रं मयेश्वर ।
वत्स्यत्यपत्यानि च ते भविष्यन्त्यपराणि भोः ।
अन्तर्वत्नीमुपालक्ष्य देवीं स प्रययौ पुरीम् ॥ ४१ ॥
पदरत्नावली
अथ तमेवं सान्त्वयति– संवत्सरान्त इति । भो ईश्वर पते भवान् मया सहैकरात्रं वत्स्यति, सुरतलीलामनुभविष्यतीत्यर्थः । तथाऽपराण्यपत्यानि भविष्यन्ति । अपराणीति वचनाद् अन्तर्वत्नीं गर्भिणीमुपालक्ष्य ज्ञात्वा ॥ ४१ ॥
सत्यधर्मीया
भो ईश्वर पते संवत्सरान्ते । अनेनेदानीमहमन्तर्वत्नीति द्योत्यते । एकरात्रं भवान्मया सह वत्स्यति । तेऽपराण्येतद्गर्भगार्भकेतराण्यपत्यानि च भविष्यन्ति ॥ ४१ ॥
छलारी
तं सांत्वयति ॥ वत्सरान्त इति । भो ईश्वर पते । भवान्मया सहैकरात्रं वत्स्यति वासं करिष्यति । सुरतलीला मञ्जु भविष्यतीत्यर्थः । तथाऽपराण्यपत्यानि भविष्यन्ति । अपराणीति वचनादन्तर्वत्नीं गर्भिणीमुपालक्ष्य ज्ञात्वा ॥ ४१ ॥
पुनस्तत्र गतोऽब्दान्ते ऊर्वशीं वीरमातरम् ।
उपलभ्य मुदा युक्तः समुवास तया निशाम् ॥ ४२ ॥
पदरत्नावली
समुवास सम्भोगलक्षणसुरतमनुभूतवान् ॥ ४२ ॥
सत्यधर्मीया
तत्र प्लक्षतीर्थे वीरमातरं पुमपत्यजननीं तया सह ॥ ४२ ॥
छलारी
तत्र कुरुक्षेत्रे वीरमातरं वक्ष्यमाणानामायुःश्रुतायुरित्यादिषट् पुत्राणां मातरमित्यर्थः । समुवास सम्भोगलक्षणसुरतमनुभूतवान् ॥ ४२ ॥
अथैनमुर्वशी प्राह कृपणं विरहातुरम् ।
गन्धर्वानुपधावेमांस्तुभ्यं दास्यन्ति मामिति ॥ ४३ ॥
पदरत्नावली
उपधाव शरणं गच्छ । धावु गतिशुद्ध्योरिति धातोः । त्रिकरणशुद्ध्या स्तुतिं कुर्वित्यर्थः । इति त्वा देवा इम आहुरैल यथेमेतद्भवसि मृत्युबन्धुः । प्रजा ते देवान् हविषा यजाति स्वर्ग उ त्वमपि मादयासे’ इति ॥४३॥
सत्यधर्मीया
अथ समयातिगमनानन्तरं विरहातुरं कृपणं दीनं पुरूरवसं प्रति प्राह । इमान् उरणहरणकृतस्तदादीन्यष्टव्यान्देवानुपधाव स्तुहि । ते च तुष्टा मां तुभ्यं दास्यन्त्यग्निस्थालीमग्निपात्रम् ॥ ४३ ॥
छलारी
उपधाव शरणं गच्छ । धावुगतिशुध्योरिति धातोः । त्रिकरणशुद्ध्या स्तुतिं कुर्वित्यर्थः । मां दास्यन्ति मत्सालोक्यं दास्यन्तीत्यभिप्रायः । अत एवोर्वशीलोकमिति वक्ष्यति ॥४३॥
तस्य संस्तुवतस्तुष्टा अग्निस्थालीं ददुर्नृप ।
ऊर्वशीं मन्यमानस्तां नाबुध्यत चरन् वने ॥ ४४ ॥
पदरत्नावली
अग्निस्थालीम् अग्निस्थापनयोग्यपात्रम् । अनेनाग्निना यज्ञं कृत्वोर्वशीं प्राप्स्यसीत्यभिप्रायेणाग्नियुक्तस्थालीं ददुः । स तु तां स्थालीमेवोर्वशीं मन्यमानः स्थाल्या युक्तो वने चरन्, नेयमुर्वशी किन्त्वग्निस्थालीत्यबुध्यत ॥ ४४ ॥
सत्यधर्मीया
तामूर्वशीमेव मन्यमानः स्थालीयमिति वने चरन्नाबुध्यत न व्यजानात् ॥४४॥
छलारी
अग्निस्थालीमग्निस्थापनयोग्यपात्रम् । अनेनाग्निना यज्ञं कृत्वोर्वशीं प्राप्स्यसीत्यभिप्रायेणाग्नियुक्तस्थालीं ददुः । स तु तां स्थालीमेवोर्वशीं मन्यमानः स्थाल्या युक्तो वने चरन् । नेयमुर्वशी किंत्वग्निस्थालीत्यबुध्यत ॥ ४४ ॥
स्थालीं न्यस्य वने गत्वा गृहानध्युषितो निशि ।
त्रेतायां सम्प्रवृत्तायां मनसि त्रय्यवर्तत ॥ ४५ ॥
पदरत्नावली
स पुरूरवा अग्निस्थालीं वने न्यस्य निक्षिप्य निशि गृहान् गत्वा तां निशामध्युषितोऽभूत् । अथ परस्मिन् दिवसे त्रेतायां संप्रवृत्तायां त्रेतायुगारम्भसमये जाते सति ऊर्वशी चिन्तयतस्तस्य राज्ञो मनसि अग्न्याधानादिसाङ्गयज्ञप्रकाशकवेदत्रयं प्रकाशितमभूदित्यर्थः ॥ ४५ ॥
सत्यधर्मीया
निशि वने स्थालीं न्यस्य गृहानध्युषितस्तत्रावात्सीदित्यर्थः । परस्मिन्दिने त्रेतायां युगे सम्प्रवृत्तायां युगारम्भतिथिः प्रवृत्तेत्यर्थः । ऊर्वशीं ध्यायतस्तस्य राज्ञो मनसि त्रयी । तात्कालिकतोकान्गृहीत्वा गतः सन् । यथोक्तं हरिवंशे– तानादाय कुमारांस्तु गमनायोपचक्रमे । सपुत्रस्तु गृहं ययावित्यादि । अग्न्याधानादिसाधनवेदत्रयमवर्तत प्रकाशितमभूत् ॥ ४५ ॥
छलारी
सः पुरूरवाः । अग्निस्थालीं वने न्यस्य क्षिप्य निशि गृहान् गत्वा तां निशामध्युषितोऽभूत् । अथ परस्मिन्दिवसे । त्रेतायां सम्प्रवृत्तायां त्रेतायुगारम्भसमये जाते सति । उर्वशीं चिन्तयतस्तस्य राज्ञो मनस्यग्न्याधानादिसांगयज्ञप्रकाशकवेदत्रयं प्रकाशितमभूदित्यर्थः ॥ ४५ ॥
स्थालीस्थानं गतोऽश्वत्थं शमीगर्भं विलक्ष्य सः ।
तेन द्वे अरणी कृत्वा ऊर्वशीलोककाम्यया ॥ ४६ ॥
पदरत्नावली
तदर्थं विचार्याग्निस्थालीप्रदानाभिप्रायं ज्ञात्वा अग्निस्थलीस्थानं गतः, तत्र स पुरूरवाः शमीगर्भं शमीवृक्षेणाधिष्ठितमश्वत्थं विलक्ष्य विशेषतो दृष्ट्वा स्थाली शमी जाताऽग्निस्त्वश्वत्थो जात इति विज्ञाय शमीगर्भमश्वत्थं छित्वा तेन शमीगर्भाश्वत्थेन द्वे अरणी कृत्वा उत्तराधरारणिभेदेन निधाय । उर्वशीलोकप्राप्तीच्छया ॥ ४६ ॥
सत्यधर्मीया
स्थालीस्थानं स्थाली यत्र स्थापिता तत्स्थानं शमीगर्भमश्वत्थमालक्ष्य शमी ह्यभूत्स्थाली वह्निस्त्वश्वत्थो जात इति विज्ञाय । तेन छिन्नेन शमीगर्भाश्वत्थेन द्वे अरणी कृत्वोर्वशी लोककाम्यया ॥ ४६ ॥
छलारी
तदर्थं विचार्याग्निस्थालीप्रदानेऽभिप्रायं ज्ञात्वाऽग्निस्थालीस्थानं गतः । तत्र सः पुरूरवाः शमीगर्भं शमीवृक्षेणाधिष्ठितमश्वत्थं विलक्ष्य विशेषतो दृष्ट्वा स्थाली शमी जाताऽग्निस्त्वश्वत्थो जात इति विज्ञाय शमीगर्भमश्वत्थं छित्वा तेन शमीगर्भाश्वत्थेन द्वेऽरणी कृत्वोत्तराधरारणिभेदेन निधाय । अरणिं ममन्थेति शेषः ॥ ४६ ॥
उर्वशीं मन्त्रतो ध्यायन्नधरारणिमुत्तराम् ।
आत्मानमुभयोर्मध्ये यत् तत् प्रजननं प्रभुः ॥ ४७ ॥
पदरत्नावली
मथनेऽनुसन्धानप्रकारमाह– उर्वशीमिति । ‘विद्यन्न या पतन्ती दविद्योद्भरन्ती मेम् अप्या काम्यानि । जनिष्टो अपो नर्यः सुजातः प्रोर्वशी तिरत दीर्घमायुः ।’ इति मन्त्राथत्वेनोर्वशीं ध्यायन्, उर्वशीमधरारणिमात्मानं पुरूरवनामकं स्वात्मानमुत्तरारणिं च चिन्तयन्, उभयोररण्योर्मध्ये यत् प्रजननं तच्च मनसा ध्यायन् अरणी, निर्ममन्थेति शेषः । प्रभुरित्यनेन सर्वध्यानादिसामर्थ्यं दर्शयति ॥ ४७ ॥
सत्यधर्मीया
उर्वशीमन्त्रतो जनिष्टोऽपोतर्य इत्यादिमन्त्रतः । प्रकृत्यऽन्तःपादमव्ययपर इति जनिष्टोऽप इत्यत्र प्रकृतिभावः । अनेन सुदेवोऽद्येति व्याख्यातम् । अधरारणिमूर्वशीमात्मानमुत्तरामुपरितनीमरणिमुभयोः स्वस्योर्वश्याश्चेत्युभयोर्मध्ये तत्प्रजननं च मनसा ध्यायन्ममन्थेति शेषः । प्रभुरिति मन्त्रतन्त्राद्यप्रच्युतिसामर्थ्यं दर्शयति ॥ ४७ ॥
छलारी
मथनेऽनुसन्धानप्रकारमाह ॥ उर्वशीमिति ॥ उर्वशीमधरारणिमात्मानं पुरूरवनामकं स्वात्मानमुत्तरारणिं च चिन्तयन् । उभयोररण्योर्मध्ये यत्प्रजननं प्रजननसाधनं सम्बन्धविशेषं तत्र मनसा ध्यायन् अरणिं ममन्थेति पूर्वेणान्वयः । प्रभुरित्यनेन सर्वध्यानादिसामर्थ्यं दर्शयति ॥ ४७ ॥
तस्य निर्मथनाज्जातो जातवेदा विभावसुः ।
त्रय्या स विद्यया राज्ञा पुत्रत्वे कल्पितस्त्रिवृत् ॥ ४८ ॥
पदरत्नावली
मथितमाह– तस्येति । तस्य राज्ञो निर्मथनाज्जातवेदा जात इति, तत्प्रभृति जातवेदा नामाऽग्नेरिति सूचितम् । स विभावसुरग्निस्त्रय्या विद्यया वेदत्रयसञ्जया प्रतिपाद्यो राज्ञा पुत्रत्वे कल्पित इत्यन्वयः । त्रिभिराहवनीयादिरूपैर्वर्तत इति त्रिवृत् । अध्यात्मविवक्षायाम् अकारोकारमकारसमाहारोङ्काररूपेण वर्तत इति त्रिवृत् ॥ ४८ ॥
सत्यधर्मीया
तस्य तत्कर्तृकमथनात्तस्यारणिद्वन्द्वस्येति वा जातवेदा वाऽस्मीति । तृतीयपञ्चकषट्त्रिंशत्खण्डे । जातवेदस्यं शंसिति प्रजापतिः प्रजा असृजत ताः सृष्टाः पराच्य एवायं न व्यावर्तन्त ता अग्निना पर्यगच्छती अग्निमुपावर्तन्त तमेवाद्याप्युपावृताः सोऽब्रवीज्जाता वै प्रजा अनेनाविदमिति यदब्रवीज्जाता वै प्रजा अनेनाविदमिति तज्जातवेदस्यं समभवज्जातवेदसो जातवेदस्त्वं तथा विश्वरूपं करिणं जातवेदसमिति षट्प्रश्नटीकायां जातस्य सर्वस्य वेदितारं जातमिदं सर्वं चराचरं वेत्तीत्यादिना तन्निरुक्तिर्ज्ञेया । तद्ब्राह्मणखण्डखण्डखण्डस्यायमर्थः । जातवेदोदेवताकं सूक्तं जातवेदस्यं शंसतीति । प्रजापतिः प्रजा असृजतोत्पादयत् । ताः सृष्टाः प्रजाः पराच्यः पराङ्मुखा एवायन्नगच्छन् यदा न व्यावर्तन्त ता यत्रासते तत्रैवाग्निना पर्यगच्छत् । अग्निं प्राकाराकारं कृतवान् । ताः प्रजा अग्निमुपावर्तन्त तमेवाग्निमद्याप्युपावृतास्तदुल्लङ्घालवस्तन्मध्य एवावर्तन्त । स प्रजापतिर्जाता वै प्रजा अनेनाग्निनाऽविदमज्ञासिषम् । तस्यैवानुवादो यदब्रवीज्जाता वै प्रजा अनेन विदितमितीति हेतोस्तज्जातवेदस्यं तत्संज्ञमभवत् । प्रतिपाद्योऽग्निस्त्रिवृत्त्रिभिराहवनीयादित्रिरूपैर्वर्तत इति वा । त्रीण्येव रूपाणि वृणोतीति वा त्रिवृत्पुत्रत्वे कल्पितो नरकत्राणात्तत्वम् ॥ ४८ ॥
छलारी
तस्य राज्ञो निर्मथनाज्जातवेदा अग्निर्जातः । स विभावसुरग्निस्त्रय्या विद्यया वेदत्रयसंज्ञया प्रतिपाद्य त्रिवृत् त्रिभिराहवनीयादिरूपैर्वर्तत इति त्रिवृत् । त्रिरूपः सन् । राज्ञा पुरूरवसा । पुत्रत्वे कल्पित इत्यन्वयः । पुण्यलोकप्रापकत्वात् ॥ ४८ ॥
तेनायजत यज्ञेशं भगवन्तमधोक्षजम् ।
उर्वशीलोकमन्विच्छन् सर्वदेवमयं हरिम् ॥ ४९ ॥
पदरत्नावली
तेन त्रिवृताऽग्निना । उर्वशीसालोक्यम् । सर्वदेवमयं सर्वदेवोत्तमम् ॥ ४९ ॥
सत्यधर्मीया
तेन त्रिवृताऽग्निं यज्ञेशं भगवन्तमधोक्षजमूर्वशीलोकं तत्सालोक्यं सर्वदेवमयं हरिं सर्वसुपर्वप्रधानमयजत ॥ ४९ ॥
छलारी
तेनाग्निनोर्वशीसालोक्यं सर्वदेवमयं सर्वदेवप्रधानम् ॥ ४९ ॥
एक एव पुरा वेदः प्रणवः सर्ववाङ्मयः ।
देवो नारायणो नान्य एकोऽग्निर्वर्ण एव च ॥ ५० ॥
पदरत्नावली
पुरा कृतयुगे वेद एक एव मिश्रीभूत आसीत् । ‘अकारो वै सर्वा वाक्’ इति सर्ववाङ्मयः प्रणवोऽप्येकः ॥ ५० ॥
सत्यधर्मीया
पुरा कृते वेद एक एव राशीभूतः । अकारो वा सर्वा वागिति वेदोऽकारात्मा वर्ततेति वा । सर्ववाङ्मयः प्रणवः । तद्यथा सर्वाणि पर्णानि शङ्कुना सन्तृण्णान्येवमोरेण सर्वा वाक्सन्तृण्णेति श्रुतेः । देवो देवता । गतम् । अग्निरप्येऽकोविभक्तः । वर्णो ब्राह्मणादिरेकः ॥ ५० ॥
छलारी
त्रेतायुगे पुरूरवसः प्रकाशाद्वेदत्रयाभिव्यक्तिं वक्तुं कृतस्थितिं तावद्दर्शयति ॥ एक एवेति ॥ पुरा कृतयुगे एक एव वेदो मिश्रीभूत आसीत् । तस्य मूलवेद इत्याख्या । न ऋगादिनामानि । स वेदस्त्रेतायुगे त्रिधाऽभवत् । ततश्चतुर्धाऽभवत् । ते च वेदा ऋङ्निगदादिनामान उपवेदनामानश्च । द्वापरे तु भारतेन सह पञ्चधाऽभवन् । ते च ऋग्वेदयजुर्वेद इत्यादिनामानोऽवान्तरवेदनामानश्चेति । कलौ प्रायेणोत्सन्नाः । अत्राथर्वणभाष्यं प्रमाणम् । एको वेदः कृते ह्यासीत्त्रेतायां स त्रिधाऽभवत् । स एव पञ्चधा जातो द्वापरं प्राप्य वै युगम् । उत्सन्नः स कलिं प्राप्य वेदप्रायेण सर्वशः । नैव कृते सामादिनामानि तदा वेदस्य चाभवन्निति । वेदस्य मूलवेदादिनामकत्वे मूलवेदादुद्धृता उपवेदा उच्यन्ते । ततश्चावान्तरवेदा उद्धृता इति । ऋचः स ऋच उद्धृत्येति ऋग्भाष्यटीकावाक्यं प्रमाणमिति । ततश्च चतुर्धाऽभवदित्यत्र प्रागेव चतुर्धा विभक्तं वेदम् ऋङ्निगदादिरूपं वेदं व्यक्तीकृत्वेति तत्त्वप्रकाशिकावाक्यं प्रमाणामिति । सर्ववाङ्मयः सर्वासां वेदवाचां प्रधानभूतस्त्रिमात्रात्मप्रणवोऽपि ह्येक एव । न तु चतुर्मात्रप्रणवादिभेदभिन्नः । उक्तं चैकादशस्कन्धतात्पर्ये । प्रणवस्थानेकविधत्वं त्रिमात्रमादितः कृत्वा यावच्चानन्तमातृकाः । ‘प्रणवास्ते विभेदेनानन्ताः परिकीर्तिताः । एकमात्रोत्तराः सर्वे परं ब्रह्माभिधायका’ इति । एको नारायण एव देवतात्वेन पूज्यः । अन्ये ब्रह्माद्या मनुनामका न देवतया पूज्याः किन्तु विद्यात्वादिनैव पूज्याः । इदमप्युक्तमाथर्वणभाष्ये । ब्रह्मरुद्रेन्द्रपूर्वैस्तु नामभिः प्रोच्यते हरिः । देवतात्वेन चेज्यः स ब्रह्माद्या मनुनामकाः । वक्तृत्वेन पितृत्वेन कारित्वेनैव चादरात् । इज्यन्ते देवताः सर्वा न तु देवतया क्वचित् । अनन्ययाजिनस्ते तु तस्मात्कार्तयुगा जना इति । अग्निरप्येक एव । अग्निरिति प्रथमा सप्तम्यर्थे । सप्तसु प्रथमेति सूत्रात् । तथा च तस्मिन्काले एको हरिरेवाग्निः । अग्नौ । अग्निष्टोमादियज्ञेष्विति यावत् । ब्रह्मरुद्रेन्द्रादिनामभिरीज्य इति शेषः । न ब्रह्मादयः । न च कृतयुगे सर्वेषां ध्याननिष्ठत्वात्तत्र यज्ञादिकर्मसद्भावे प्रमाणाभाव इति वाच्यम् । अग्निष्टोमादिभिर्यज्ञैः सर्वदेवस्थितं हरिम् । यजन्ति तांश्च कारित्वाद्वसुस्तस्मात्तथाऽयजत् । पृथक् पृथक् च त्रेतायां यजन्ते देवतागणान् । यथा कृते तथा प्राज्ञास्त्रेतायां बहुधा तत इति । तथा पूज्यो यज्ञैः सोपचारैर्ध्येयो वेद्यश्च सर्वदेति । तथा । एवं वायोः पितरं विष्णुमेव यजन्ति देवैः सह ये कृते जनाः । तथा विष्णुं यजन्ते न तु कञ्चिदन्यमित्याथर्वणभाष्यादिस्थवर्णानामेव यज्ञादिकर्मसद्भावे प्रमाणत्वादिति । वर्णश्च समुदायैकवचनमेतत् । ब्राह्मणादिसमूहोऽपि ब्राह्मणादिसर्वजन इति यावत् । एक एव भगवन्निष्ठ एवाभूत् । कृते भागवताः सर्वे वेदाश्च पुरुषास्तथेत्युक्तेः । जनोऽखिलो विष्णुपरो बभूवेत्युक्तेश्च । न चेदं वचनं त्रेतायुगस्थजनपरमिति वाच्यम् । त्रेतायां वर्तमानायां कालः कृतसमोऽभवदित्युक्तेरित्युक्तम् ॥ ५० ॥
पुरूरवस एवासीत् त्रयी त्रेतामुखे नृप ।
अग्निना प्रजया राजा लोकं गान्धर्वमेयिवान् ॥ ५१ ॥
इति श्रीमद्भागवते नवमस्कन्धे द्वादशोऽध्यायः ।
पदरत्नावली
त्रयी त्रिप्रकारा । अत्राथर्वणभाष्यं मानम् ‘एको वेदः कृते ह्यासीत् त्रेतायां स त्रिधाऽभवत् । स एव पञ्चधा जातो द्वापरं प्राप्य वै युगम् । उत्सन्नः स कलिं प्राप्य वेदः प्रायेण सर्वशः । नैवम् ऋक्सामादिनामानि तदा वेदस्य चाभवन्’ इति । अग्निना प्रजया पुत्रत्वेन कल्पितेनामिना ॥ ५१ ॥
इति श्रीमद्भागवतटीकायां विजयध्वजतीर्थभिक्षुकृतायां नवमस्कन्धस्य द्वादशोऽध्यायः ॥
सत्यधर्मीया
पुरूरवसः सकाशादेव त्रेतामुखे तद्युगारम्भे त्रयी प्रकारत्रयोपेता श्रुतिराहवनीयाद्याह्वयेन प्रकारत्रयोपेतेनाग्निना प्रजया कृतेन तत्त्वेन गान्धर्वं लोकमेयिवान् । अनन्तरं च यज्ञेशमधोक्षजं हरिमित्याद्युक्तेर्गान्धारयन्वर्तते यद्गन्धर्वस्तेन केशव इति वचनात्सम्पादितभगवज्ज्ञानो मुक्तिमगादित्यपि वक्ति ॥ लोकमिति ॥ लोकं प्रकाशं ज्ञानमिति यावत् । एयिवाननन्तरं गान्धर्वं भगवल्लोकं चैयिवान् । एको वेदः कृते ह्यासीत्त्रेतायां स त्रिधाऽभवत् । स एव पञ्चधा जातो द्वापरं प्राप्य वै युगम् । उत्सन्नः स कलिं प्राप्य वेदः प्रायेण सर्वशः । नैवम् ऋक्सामादिनामानि तदा वेदस्य चाभवन्नित्यथर्वणभाष्यम् । ऋचः स ऋच उद्धृत्य ऋग्वेदं कृतवान्विभुः । यजूंषि निगदाच्चैव तथा सामानि सामतः । ऋग्वेदो यजुर्वेदः सामवेदोऽथर्वण इत्यादेरेतन्नामानश्चत्वारो वेदा आविर्भूता मुख्यतो भगवतः । राजा त्ववान्तरव्यञ्जक इति मन्तव्यमिति केचित् । चतुर्धाऽभवदित्यत्र प्रागेव चतुर्धा विभक्तं वेदमृङ्निगदादिरूपं व्यक्तीकृत्येति तत्त्वप्रकाशिका । सर्ववाङ्मयः प्रणवोऽप्येकः । अनन्तरं त्र्याद्यात्मतया विभक्तः । अनन्तमात्रान्तमुदाहरन्ति यं त्रिमात्रपूर्वं प्रणवोच्चयं बुधा इति मध्वविजयः । त्रिमात्रमादितः कृत्वा यावच्चानन्तमात्रकाः । प्रणवास्ते विभेदेन ह्यनन्ताः परिकीर्तिताः । एकमात्रोत्तराः सर्वे परब्रह्माभिधायका इत्येकादशतात्पर्ये । तदा कृते नारायण एक एव देवो देवता चेतीज्यः । इतरे तु विद्याद्यनुबन्धेनार्हणीया न तु देवतात्वेन ब्रह्मरुद्रेन्द्रपूर्वैस्तु नामभिः प्रोच्यते हरिः । देवतात्वेन चेज्यः स ब्रह्माद्या मनुनामकाः । वक्तृत्वेन पितृत्वेन कारित्वेनैव चादरात् । इज्यन्ते देवताः सर्वा न तु देवतया क्वचित् । अनन्ययाजिनस्ते तु तस्मात्कार्तयुगाजना इत्यथर्वणभाष्यम् । एकोऽग्निरेकस्मिन्नग्नौ तन्नामभिरिज्यो हरिः । न च कृतयुगे कृतध्यानाः सर्वेऽपीति नेज्या यदा तदा किमिज्यो हरिरितरे सुरा इज्या इति चिन्ता तदनन्तरं हरिरेवेज्य इत्युत्तरं च सम्भवतस्तदेव कथमित्यत्राग्निष्टोमादिभिर्यज्ञैः सर्वदेवस्थितं हरिम् । यजन्ति तांश्च कारित्वाद्वसुस्तस्मात्तथाऽयजत् । पृथक् पृथक्च त्रेतायां यजन्ते देवतागणान् । यथा कृते तथा प्राज्ञस्त्रेतायां बहुधा तत इति । पूज्यो यज्ञैस्सोपचारैर्ध्येयो वन्द्यश्च सर्वदेति । एवं वायोः पितरं विष्णुमेव यजन्ति देवैः सह ये कृते जनाः । तथा विष्णुं यजन्ते न तु कञ्चिदन्यमित्याथर्वणभाष्यम् । मुक्ता अपि यजन्ति का कथा कातर्युगजनानामित्यत्र कृष्णो मुक्तैरिज्यते वीतमोहैरित्याद्याचार्यवचनं च । वर्णश्चैक एव ब्राह्मणादिवर्णो भगवन्निष्ठः । कृते भागवताः सर्वे वेदाश्च पुरुषास्तथेति । जनोऽखिलो विष्णुपरो बभूवेति च । न रामराज्यस्थत्रेतायुगीयजनपरमिति कथमेतत्परमित्यत्र त्रेतायां वर्तमानायां कालः कृतसमोऽभवदित्यादिकानि च मानानि कृतचर्यायामनुसन्धेयानि । इति कृतयुगस्थितिमुक्त्वा त्रेतायुगस्थितिं दर्शयति पुरूरवस इतीत्यवतारयन्ति ॥ ५१ ॥
इति श्रीसत्यधर्मयतिकृतायां भागवतटिप्पण्यां नवमस्कन्धे द्वादशोऽध्यायः ।
छलारी
एवं कृतयुगस्थितिमुक्त्वा त्रेतायुगस्थितिं दर्शयति ॥ पुरूरवस इति ॥ मुखे त्रेतायुगोपक्रमकाले एकवेदस्त्रयी त्रित्वावच्छिन्नः । त्रिविध इत्यर्थः । पुरूरवसः सकाशात्ततश्चतुर्धाऽभवदित्यादि पूर्वोक्तरीत्या ज्ञातव्यम् । गन्धर्वप्रसादेन लब्धं लोकमुर्वशीलोकमग्निं प्रजया पुत्रत्वेन कल्पितोऽग्निना । एयिवान्प्राप्तः ॥ ५१ ॥
इति श्रीछलारी शेषाचार्यकृतायां भागवतटिप्पण्यां नवमस्कन्धे द्वादशोऽध्यायः ।