११ एकादशोऽध्यायः

निमिरिक्ष्वाकुतनयो वसिष्ठमवृतर्त्विजम्

॥ अथ एकादशोऽध्यायः ॥

श्रीशुक उवाच—

निमिरिक्ष्वाकुतनयो वसिष्ठमवृतर्त्विजम् ।

आरभ्य सत्रं सोऽप्याह शक्रेण प्राग् वृतोऽस्मि भोः ॥ १ ॥

पदरत्नावली

अवृत वव्रे । स वसिष्ठोऽपि ॥ १ ॥

सत्यधर्मीया

इक्ष्वाकुकुमारस्य निमेः साक्षात्सुतो नेति शंसंस्तदुपयुक्तामाख्यायिकां तथा प्रकारान्तरेण सुतसम्पत्तिं च वदति कैश्चित् श्लोकैः । वसिष्ठं पुरोधसमृत्विजमवृत वव्रे । सत्रमारभ्य सम्भारान्सम्भृत्येति यावत् । अनेन सम्प्रति प्रतिरोद्धुं तदयुक्ततां सूचयति । भो विभो शक्रेण प्रागहमृत्विक्त्वे वृतोऽस्मि नेदानीं मदागमनस्यावसर इति भावः ॥ १ ॥

छलारी

इक्ष्वाकोर्ज्येष्ठपुत्रविकुक्षेर्वंशपरिकरं निरूप्य द्वितीयपुत्रस्य निमेरौरसपुत्रो नाभूदिति दर्शयन् आख्यायिकामाह ॥ निमिरित्यादिना । निमिः सत्रमारभ्य वसिष्ठम् ऋत्विजमवृत वव्रे । सोऽपि वसिष्ठोऽपि वृतोऽस्मि ऋत्विक्त्वेन स्वीकृतोऽस्मि ॥ १ ॥

तं निर्वर्त्यागमिष्यामि तावन्मां प्रतिपालय ।

तूष्णीमासीद् गृहपतिः सोऽपीन्द्रस्याकरोन्मखम् ॥ २ ॥

पदरत्नावली

तं शक्रस्य यागं निर्वर्त्य समाप्य । प्रतिपालय प्रतीक्षस्व । गृहपतिर् निमिः ॥ २ ॥

दुर्घटभावदीपिका

तावन्मां प्रतिपालयेत्यस्य तावन्मां प्रतिक्षस्वेत्यर्थः । एतेन तावन्मां प्रतिक्षस्वेति वक्तव्ये तावन्मां प्रतिपालयेति कथनमनुपपन्नमिति चोद्यं निरस्तम् । धातूनामनेकार्थत्वात्प्रतिपालयेत्यस्य प्रतीक्षस्वेत्यर्थ इत्युक्तत्वात् ॥ २ ॥

इति श्रीभागवतटिप्पण्यामेकादशोऽध्यायः ॥ ९-११ ॥

सत्यधर्मीया

तं शतक्रतुं निर्वर्त्य निष्पाद्य तावत्तत्कालपर्यन्तं मां प्रतिपालय मन्मार्गं निरीक्षस्वेति यावत् । इत्यब्रवीदित्यूह्यम् । तच्छ्रुत्वा च गृहपतिर् गृहेण कलत्रमात्रेण सहितश्चासौ पतिश्च गृहस्य तन्मात्रस्य पतिरिति वा । अनेनापुत्रत्वाज्ज्वरोत्तप्तः पुरोहितश्च शापवश इति तूष्णीमासीत् । कारय ममेदानीमेवेत्यथवा तमुदवास्यायाहि तावत्तव मार्गं पश्यामीति वा नोवाच । शोककोपवश इति तात्पर्यमिति केचित् । गृहपतिः सत्रवान् । गृहपतिर्गृहस्थः स्यादन्त्याधाने च सत्रिणीति विश्वः । स वसिष्ठः ॥ २ ॥

छलारी

तत्र शक्रयागं निर्वर्त्य समाप्य तावत्पर्यन्तं मां प्रतिपालय प्रतीक्षस्व । गृहपतिर्निमिः ॥ २ ॥

निमिश्चलमिदं विद्वान्सत्रमारभतात्मवान् ।

ऋत्विग्भिरपरैस्तावद् यावत् तन्नागमद् गुरुः ॥ ३ ॥

पदरत्नावली

सन्तत्रायन्त इति, सच्च त्रायत, इति वा सत्रं ब्रह्म, तद्विदां मध्ये विद्वांस्तेषां संशयच्छेता । अपरैर्वसिष्ठव्यतिरिक्तैः ॥ ३ ॥

सत्यधर्मीया

निमिरिदं कलेवरं चलमस्थिरमिति विद्वानात्मवान्मनस्वी प्रयत्नवानीश्वरासक्तिमानिति वा । अपरैर्ऋत्विग्भिर्यावद्गुरुर्नागमत्तावन्मध्य एव सत्रमारभतारब्धवान् । सत्रविदां विद्वानिति पाठेऽपि सत्रज्ञानिनां मध्ये विद्वान् । गुरुर्यावन्नागच्छत्तावन्मध्य एव सत्रमारभतेत्यन्वयः । सत्रविदां यथा यज्ञाङ्गभङ्गो न भवेत्तथा तज्ज्ञानिनां मध्ये विद्वान्निमिरित्यर्थो वा । पण्डितमानिन इत्युत्तरानुरूप्यात् ॥ ३ ॥

छलारी

सन्तस्त्रायन्त इति सत्त्रं परं ब्रह्म तद्विदां मध्ये विद्वांस्तेषां संशयच्छेत्तेत्यर्थः । आत्मवान्मनोजयवान् । अपरैर्वसिष्ठव्यतिरिक्तैः । यावता कालेन गुरुर्वसिष्ठः ॥ ३ ॥

शिष्यव्यतिक्रमं वीक्ष्य निर्वर्त्य गुरुरागतः ।

अशपत् पततां देहो निमेः पण्डितमानिनः ॥ ४ ॥

सत्यधर्मीया

मखं निर्वर्त्यागतो गुरुः शिष्यव्यतिक्रमं स्वमतिक्रम्य ऋत्विगन्तरमुखेन मखारम्भलक्षणमपराधमिति यावत् । पण्डितमानिनो निमेर्देहः पततामित्यशपत् ॥ ४ ॥

छलारी

निर्वर्त्येन्द्रयागं समाप्य । आगतो गुरुः शिष्यस्य निमेर्व्यतिक्रमं सत्रारम्भणरूपमपराधमित्यर्थः । पूर्वमेव गुरुप्रार्थनायाः कृतत्वात् ॥ ४ ॥

निमिः प्रतिददौ शापं गुरवेऽधर्मवर्तिने ।

तवापि पततां देहो लोभाद्धर्ममजानतः ॥ ५ ॥

पदरत्नावली

तावन्नागमदित्यादिना गुर्वपेक्षाया नियतत्वदर्शनात् तत्प्रतिसन्धानमगणय्य शिष्याय शापदानमधर्म इति कृत्वाऽधर्मवर्तिन इत्युक्तम् । लोभात् पौरोहित्यविषयात् ॥ ५ ॥

सत्यधर्मीया

निमिरधर्मवर्तिने आवश्यकीं क्रियामुपेक्ष्य गत इति तथा निरपराधाय मह्यं शापमुपयुयोजेति चाधर्मवर्ती तस्मै । लोभादिन्द्रार्त्विज्यागच्छद्धनलोभाद्धर्मं मदुपकृतिरूपमजानतस्तवापि देहः पततामिति प्रतिशापं ददौ ॥ ५ ॥

छलारी

निर्निमित्तं शापदानमधर्म इत्याशयेनाधर्मवर्तिन इत्युक्तम् । लोभात्पौरोहित्यविषयात् ॥ ५ ॥

इत्युत्ससर्ज तं देहं निमिरध्यात्मकोविदः ।

मित्रावरुणयोर्जज्ञे ऊर्वश्यां प्रपितामहः ॥ ६ ॥

पदरत्नावली

वसिष्ठो निमिशापेन्देहोत्सर्जनानन्तरं कुत्रोत्पन्नम् इति तत्राह– मित्रावरुणयोरिति ॥ यो मित्रावरुणयोर्वश्यां जज्ञे स मम प्रपितामहो वसिष्ठः । तद्देहं तस्य निमेर्देहं गन्धवस्तुषु गन्धवासिततैलेषु हरिद्रादिद्रव्यविशेषेषु निधाय ॥६॥

सत्यधर्मीया

इति परस्परशापानन्तरं तं देहं विससर्ज । अध्यात्मकोविदोऽपि भगवज्ज्ञानिकुशलो वसिष्ठोऽपि देहं विससर्ज । तदनन्तरं मित्रश्च वरुणश्च देवताद्वन्द्वे चेत्यानङ् । ऊर्वश्यां दृष्टायां स्कन्ने रेतसि कुम्भ उम्भिते तयोः सकाशाज्जज्ञे ।

भगवन्निमिशापेन विदेहत्वमुपागमम् ।

मित्रावरुणजं तेज आविश त्वं महायशः ।

एतस्मिन्नेव काले तूर्वशी परमाप्सरा ।

यदृच्छया तमुद्देशमागता सखिभिर्वृता ।

ऊर्वश्या एवमुक्तस्तु रेतस्तन्महदद्भुतम् ।

ज्वलदग्निसमप्रख्यं तस्मिन्कुम्भे व्यवासृजत् ।

यः स कुम्भो रघुश्रेष्ठ तेजःपूर्णो महात्मनोः ।

तस्मिंस्तेजोमयौ विप्रौ सम्भूतावृषिसत्तमौ ।

पूर्वं समभवत्तत्रागस्त्यो भगवानृषिः ।

नाहं सुतस्तवेत्युक्त्वा मित्रं तस्मादपाक्रमत् ।

कस्यचित्त्वथ कालस्य मित्रावरुणसम्भवः ।

वसिष्ठस्तेजसा युक्तो जज्ञ इक्ष्वाकुदैवतम् ॥

इत्यादिरामायणोक्तेः । ऋग्वेदे पञ्चमाष्टकतृतीयाध्यायपञ्चविंशतिवर्गे च । उतासि मैत्रावरुणो वशिष्ठोर्वश्या ब्रह्मन् मनसोऽधिजातो द्रप्सं स्कन्नं ब्रह्मणा दैव्येन विश्वेदेवाः पुष्करे त्वाददन्त । स प्रकेत उभयस्य प्रविद्वांत्सहस्रदान उत वा सदानः । यमेन ततं परिधिं वयिष्यन्नप्सरसः परिजज्ञे वसिष्ठः । सत्रे ह जाताविषिता नमोभिः कुम्भे रेतः सिषिचतुः समानमिति श्रूयते । तस्या अर्थः । उतापि च । हे वसिष्ठ मैत्रावरुणयोः पुत्रोऽसि । हे ब्रह्मन् ऊर्वश्या अप्सरसो ममायं पुत्रः स्यादिति सङ्कल्पाद्द्रप्सं रेतो मित्रावरुणयोरूर्वशीदर्शनात्स्कन्नमासीत् । ततो जातोऽसि । तथा च वक्ष्यते । सत्रे ह जातावित्यृचि । एवं जातत्वात्त्वां दैवेन देवसम्बन्धिना तदुत्तमेन ब्रह्मणा हिरण्यगर्भेण प्राप्तवर इति विश्वेदेवाः पुष्करे । आददन्ताधारयन्त । तथा चादितेर्मित्रावरुणौ जज्ञाते इति प्रकृत्य पठ्यते ।

तयोरादित्ययोः सत्रं दृष्ट्वाऽप्सरसमूर्वशीम् ।

रेतश्चस्कन्द तत्कुम्भे न्यपतद्वा सतीवरे ।

तेनैव तु मुहूर्तेन वीर्यवन्तौ तपस्विनौ ।

अगस्त्यश्च वसिष्ठश्च द्वावृषी सम्बभूवतुः ।

बहुधा पतितं रेतः कलशे च जलस्थले ।

जले वसिष्ठस्तु मुनिः सम्भूतो ह्यृषिसत्तमः ।

कुम्भे त्वगत्स्यः सम्भूतो जले मत्स्यो महाद्युतिः ।

उदियाय ततोऽगस्त्यः शम्यामात्रो महातपाः ।

मानेन सम्मितो यस्मात्तस्माच्छाम्य इहोच्यते ।

यद्वा कुम्भादृषिर्जातः कुम्भेनापि हि मीयते ।

कुम्भ इत्यभिधानं च परिमाणस्य दृश्यते ।

ततोऽप्सु गृह्यमाणासु वसिष्ठः पुष्करे स्थितः ।

सर्वतः पुष्करे तं हि विश्वेदेवा अधारयन् ॥ इति ।

माने शम्यास्त्रीयुगकीलकमित्यमरः । हिरण्यशम्यमित्यृग्भाष्ये तस्य शम्यायुगाणीत्युक्तेर्युगकीलकं तस्य मात्रा परिमाणं यस्य स इत्यर्थः । मात्रा मानमिति विश्वः । स वसिष्ठः प्रकेतः प्रकृष्टज्ञानः केतुः केतश्चित्तिश्चित्तं मतिः क्रतुर्मनीषा मायेति गीताभाष्योक्तेः । उभयं दिवमवनिं च प्रविद्वान्प्रकर्षेण जानन्सहस्रदानः सहस्रस्य दानो सोऽभवत् । यदा कदाचिद्यस्मै कस्मैचन सहस्रद इति विशेषः । क इत्यत आह । उत वाऽपि वा सदानो दानेन सहितः । निरुपसृष्टदानपदेन सर्वदानं सर्वदा चेति ज्ञेयम् । यमेन नियन्त्रा ततं व्याप्तं परिधिं वस्त्रं तद्वत्परिवीतं संसारप्रवाहं तत्प्रेरित इति यावत् । वयिष्यन्बध्नन्नप्सरस ऊर्वश्याः परिजज्ञे जातः । यमेन युग्मतया ततं व्याप्तं सर्वमिति स्वयं परिधिं संसारप्रवाहं वयन्बन्धानः सांसारिको भवन्निति व्याकुर्वते । सत्रे बहुकर्तृके यागे हेति पूरणे जातौ दीक्षितौ मित्रावरुणौ इषिता । डादेशः । इषितौ । नमोभिः परकृतस्तुतिशब्दैः कुम्भो वा सतीवरे कलशे समानमेकदैव रेतः सिषिचतुरसिञ्चतामिति प्रपितामहो वृद्धप्रपितामहो ममेति शेष इति केचित् । शेषे करणीये को विशेषो मत्पितुरित्यस्य त्याग इति मत्पितुरिति श्लिष्टः शेष इति ज्ञेयम् । (मम प्रपितामहो वशिष्ठ इति शुकाचार्यवचनं कथं युज्यते । वसिष्ठस्य प्रपितामहपितृत्वात् । तत्कथं वसिष्ठपुत्रः शक्तिः शक्तिपुत्रः पराशरः पराशरपुत्रो वेदव्यासो व्यासपुत्रः शुक एवं सति शुकं प्रति वसिष्ठस्य प्रपितामहपितृत्वमेव न प्रपितामहत्वम् । अत्र विशेषोऽस्ति । वसिष्ठस्य शक्त्यादयः शतपुत्राः पूर्वं राक्षसो भवेति शप्तकल्माषपादराजेन भक्षितास्तदा शक्तिभार्या गर्भिणी तद्गर्भमपि भक्षितुमुद्युक्तः कल्माषपादस्तदा वसिष्ठस्तद्गर्भं माधवस्तवराजस्तोत्रेण रक्षित्वा जातं पुत्रं स्वस्य पुत्राभावात्स्वपुत्रत्वेन जातकर्मादि कृत्वा स्वपुत्रमकरोत् । अतः शुकस्य पिता व्यासः पराशरः पितामहो वसिष्ठः प्रपितामह इत्युक्तं युक्तम् ॥ ६ ॥

छलारी

इत्युक्त्वा स्वदेहं विससर्ज । अध्यात्मकोविदस्तत्त्वज्ञानी वसिष्ठो निमिशापाद्देहम् । विससर्जेति शेषः । वसिष्ठो निमिशापेन देहोत्सर्जनानन्तरं कुत्रोत्पन्न इति तत्राह ॥ मित्रावरुणयोरिति ॥ देवताद्वन्द्वे चेति दीर्घः । अयं भावः । मित्रावरुणयोरूर्वशीदर्शनाद्रेतःस्कन्ने सति ताभ्यां कुम्भे विषिक्तं तस्माद्वसिष्ठो जज्ञ इति । तथा च श्रुतिः । कुम्भे रेचः सिषिचतुः समानमिति । प्रपितामहो मम वसिष्ठो वृद्धप्रपितामह इत्यर्थः । वेदव्यासस्य पितृत्वात्पराशरस्य पितामहत्वाच्छक्तेः प्रपितामहत्वाच्छुकस्य वसिष्ठो वृद्धप्रपितामह इति ज्ञातव्यम् ॥ ६ ॥

गन्धवस्तुषु तद्देहं निधाय मुनिसत्तमाः ।

समाप्ते सत्रयागेऽथ देवानूचुः समागतान् ॥ ७ ॥

पदरत्नावली

सत्रनामयागे ॥७॥

सत्यधर्मीया

गन्धवस्तुषु सुगन्धतैलादिषु तद्देहं निमिदेहं निधाय सत्रमपारयन् । सत्रयागे समाप्ते मुनिसत्तमा अध्वर्य्वादयः समागतानाहुत्याद्यर्थमाहूतानथ चागतान्देवानूचुः ॥ ७ ॥

छलारी

तद्देहं निमिदेहं गन्धवस्तुषु गन्धवासिततैलेषु ॥ ७ ॥

राज्ञो जीवतु देहोऽयं प्रसन्नाः प्रभवो यदि ।

तथेत्युक्ते निमिः प्राह मा भून्मे देहबन्धनम् ॥ ८ ॥

पदरत्नावली

देहलक्षणं बन्धनम् । किमिति देहबन्धो मा भूदिति तत्राह– यस्येति ॥ यस्य देहस्य योगं सम्बन्धम् । यस्य वियोगभयेन कातरा व्यग्रचित्ताः ॥८॥

सत्यधर्मीया

किमाहुरित्यत आह ॥ राज्ञ इति ॥ यदि प्रभवो यूयं प्रसन्नास्तर्हि राज्ञो निमेरयं रक्षितो देहो जीवतु सजीवो भवतु । तथेति देवैरुक्ते सति सजीवो निमिर्मम देहबन्धनं मा च भूदिति प्राह ॥ ८ ॥

छलारी

ऋषिसत्तमा ऊचुः । हे प्रभवः । यूयं यदि प्रसन्नास्तर्हि जीवत्विति । मुनिभिरुक्तेति शेषः । तथेत्युक्ते देहो निमिर्देहबन्धनं देहसम्बन्धः ॥ ८ ॥

यस्य योगं न वाञ्छन्ति वियोगभयकातराः ।

भजन्ति चरणाम्भोजं मुनयो हरिमेधसः ॥ ९ ॥

पदरत्नावली

हरिर् भक्तजनपापहरणशीला मेधा धारणावती धीर् यस्य स तथा तस्य । धीर्धारणावती मेधा इत्यमरः । हरिवत् सूर्यवत् प्रकाशमाना मेधा यस्येति वा, तस्य विष्णोः । मुनयो वाचंयमाः । तं देहं नावरुरुत्से स्वीकर्तुं नेच्छामि । दुःखं तीव्रवेदना । शोको मन्युः । मन्युशोकौ तु शुक् स्त्रियाम् इत्यमरः । भयं सञ्चलनम् ॥९॥

सत्यधर्मीया

वियोगभयकातरा यस्य देहस्य योगं सम्बन्धं न वाञ्छन्ति मुनयो हरिश्चासौ मेधाश्च ज्ञानात्मकस्य तस्य चरणाम्भोजं भजन्तीति वा । चरणाम्भोजं चरणयोरम्भोजा रमाऽम्भोजो विधिश्च यस्य तं हरिं भजन्ति । एधसोऽरणेर्हरिं निष्कृष्य वह्निं यथा तथा भजन्तीति वा । वातार्कवह्निषु हरिरिति वोपालितः ॥ ९ ॥

छलारी

यस्य देहस्य वियोगभयेन कातरा उद्विग्नाश्चंचलाश्चरणांभोजम् । हरेरेति शेषः । हरिमेधसस्तत्त्वज्ञानिनः ॥ ९ ॥

देहं नावरुरुत्सेऽहं दुःखशोकभयाश्रयम् ।

सर्वत्रास्य यतो मृत्युर्मत्स्यानामुदके यथा ॥ १० ॥

पदरत्नावली

नेतोऽपि देहग्रहणेच्छेत्याह- सर्वत्रेति ॥१०॥

सत्यधर्मीया

दुःखमन्तःस्था वेदना । शोकः बहिर्दृश्यमानं दुःखम् । दुःखं दुर्दुःखं खं सुखं तत्रापि दुरिति पूर्वं ग्रहणाद्दुःखं भूयिष्ठं सुखमल्पमिति ज्ञायते । दुर्दुःखमिति सम्प्रोक्तं सुखं खं चोच्यते बुधैरिति तात्पर्यान्तरात् । तस्यापि हेयत्वात् । शोकः केवलं दुःखं भयं येषामाश्रयो यत्रेति वा । यतः कारणादस्य देवस्य सर्वत्रापि मृत्युस्ततस्तमहं प्राप्य नावरुरुत्सेऽधोऽवरोहणं नेच्छामि । मत्स्यानां यथोदके मृत्युस्तथेति । सत्सु नानाविधेषु मीनोपादानं भाविस्वव्यापाराननुकूलता कोपेनेति मन्तव्यम् । तेषामनिमिषत्वात् ॥ १० ॥

छलारी

तं देहं नावरुरुत्से न स्वीकर्तुमिच्छामि । अस्य देहस्य सर्वत्र मनुष्यादिदेहेषु । उदके समुद्राद्युदके ॥ १० ॥

देवा ऊचुः—

विदेह उष्यतां कामं लोचनेषु शरीरिणाम् ।

उन्मेषणनिमेषाभ्यां लक्षितोऽध्यात्मसंस्थितः ॥ ११ ॥

पदरत्नावली

ओहस्यास्य वासः कथं घटते । अधिष्ठानाद्यभावादिति तत्राह- लोचनेष्विति ॥ लोचनेष्वस्य सद्भावः कथं जायत इति तत्राह– उन्मेषणेति ॥ किमस्य कर्मेति तत्राह– अध्यात्मेति ॥ अधिकश्चासावात्मा च हरिस्तत्र संस्थितः परमात्मोपासनायुक्त इत्यर्थः ॥११॥

सत्यधर्मीया

शरीरिणां देहधारिणां जनानां लोचनेषु नयनेषु विदेहे स्थूलशरीरे रहितः सन्नेवोष्यतां वसतु । स त्वेवमवसेय इत्याह ॥ उन्मेषणेति ॥ पक्ष्ममीलननिमीलनाभ्यां लक्षितो ज्ञातोऽध्यात्मसंस्थितोऽधिकश्चैवाप्तबन्धकत्वेन स चासावात्मा विलक्षणं शरीरम् । तत्र संस्थितः कलेवरं वर्जयित्वा केवलं व्यापारकरणस्यासम्भावितत्वादिति केचित् । भगवदुपासनायुक्त इत्यभियुक्ताः । एतदुपात्तशापस्य वसिष्ठस्य दशा का तदज्ञानेऽयमेतदपि नानुमन्येतेत्यत आहुः । अध्यात्मस्थितोऽवशिष्टं काममूर्वशीच्छां निमित्तीकृत्य विदेहो विलक्षणदेहः सन् लक्षितोऽयमपि विदेहे उष्यतामित्यन्वयः । अनेनाध्यात्मकोविदो मित्रावरुणयोर्जज्ञ इत्यनुसृतं पूर्ववचनमित्यपि वर्णयन्ति । तदेतदुभयाभयं देवा दत्वाऽगच्छन्निति भावः ॥ ११ ॥

छलारी

निमिर्विदेहः सन् लोचनेषूष्यतां वसतु । एवं सति युष्माभिः प्रार्थितं जीवितमस्य भविष्यतीति भावः । कथं ज्ञायत इति तत्राह ॥ उन्मेषणेति ॥ उन्मेषणनिमेषणाभ्यां प्रवर्तकत्वेन लक्षितो ज्ञायमानः । किमस्य कर्मेति तत्राह ॥ अध्यात्मेति ॥ अधिकश्चासावात्मा च हरिस्तत्र संस्थितः परमात्मोपासनायुक्त इत्यर्थः ॥ ११ ॥

अराजकभयं नॄणां मन्यमाना महर्षयः ।

देहं ममन्थुश्च निमेः कुमारः समजायत ॥ १२ ॥

सत्यधर्मीया

राजाभावप्रयुक्तं भयम् ॥ १२ ॥

छलारी

मृतादपि निमेर्देहाद्वंशप्रवृत्तिं दर्शयति ॥ अराजकभयमिति ॥ १२ ॥

जननाज्जनकः सोऽभूद् वैदेहस्तु विदेहजः ।

मिथिलो मथनाज्जातो मिथिला येन निर्मिता ॥ १३ ॥

पदरत्नावली

नामनिर्वचनपूर्वकं जनकस्य वंशं कथयति- जननादित्यादिना ॥ मथनेन जननमस्येत्यस्मिन्नर्थे मिथिलेति निपातनम् । शवानां शयनमस्मिन्निति श्मशानमितिवत् । मिथिला पुरी ॥१३॥

सत्यधर्मीया

तस्य नामप्रवृत्तिनिमित्तं च कथयति ॥ जननादिति ॥ जननाज्जनको वैदेहो विदेहनिमिजत्वात् । मथनाज्जात इति मिथिलः । मिथिलादयश्चेत्यत्र मथ्यन्ते रिपवोऽत्रेति निमित्तान्तरम् । शब्दस्तूभयथापि निपातितः । येन मिथिला नगरी च निर्मिता व्यरचि ॥ १३ ॥

छलारी

अस्यान्वर्थानि त्रीणि नामान्याह ॥ जननादिति । सः कुमारोऽसाधारण्येन जननाज्जनको विदेहो निमिस्तद्देहजन्यत्वाद्वै देहः । मिथिला येन निर्मितेत्यनेन व्युत्पत्त्यनन्तरमर्थादुक्तम् ॥ १३ ॥

तस्मादुदावसुस्तस्य पुत्रोऽभून्नन्दिवर्धनः ।

ततः सुकेतुस्तस्यापि देवरातो महीपतिः ॥ १४ ॥

सत्यधर्मीया

तस्माज्जनेन लोकानामराजकभयभङ्गेन तस्माज्जनकात् । तस्योदावसोस्ततो नन्दिवर्धनात्तस्य सुकेतोर्देवरातः ॥ १४ ॥

छलारी

तस्मात्कुमारादुदावसुः । देवरातस्तन्नामा ॥ १४ ॥

तस्माद् बृहद्रथस्तस्य महावीर्यः सुधृत्पिता ।

सुधृतेर्धृष्टकेतुर्वै हर्यश्वोऽथ मरुस्ततः ॥ १५ ॥

पदरत्नावली

सुधृत्पिता सुधृतो जनकः ॥१५॥

सत्यधर्मीया

तस्माद्देवरातात्तस्य बृहद्रथस्य सुधृतः पिता महावीर्यो नाम्ना । अथ धृष्टकेतोर्हर्यश्वस्ततो हर्यश्वान्मरुः ॥ १५ ॥

छलारी

कथम्भूतः । महावीर्यः । सुधृत्पिता सुधृतो जनको महावीर्यात्सुधृन्नामकाज्जात इत्यर्थः । ततो धृष्ठकेतोर्हर्यश्वः ॥ १५ ॥

मरोः प्रतीन्धकस्तस्माज्जातः कृतरथो यतः ।

देवमीढस्तस्य सुतो विधृतोऽथ महाधृतिः ॥ १६ ॥

सत्यधर्मीया

तस्मात्प्रतीन्धकात् । यतः कृतरथात्तस्य देवमीढस्य विधृतोऽथ महाधृतिः ॥ १६ ॥

छलारी

यतः कृतरथाद्देवमीढो जातस्तस्य देवमीढस्य । अथ विधृतात् ॥ १६ ॥

कृतिरातस्ततस्तस्मान्महारोमाऽथ तत्सुतः ।

स्वर्णरोमा सुतस्तस्य ह्रस्वरोमा व्यजायत ॥ १७ ॥

सत्यधर्मीया

ततो महाधृतेस्तस्मात्कृतिरातात्तत्सुतो महारोमकुमारस्तस्य स्वर्णरोमनाम्नस्ततो ह्रस्वरोम्णः ॥ १७ ॥

छलारी

ततो महाधृतेः कृतिरातोऽथानन्तरं तत्सुतः स्वर्णरोमाः । ह्रस्वरोमाख्यः सुतः ॥ १७ ॥

ततः सीरध्वजो जज्ञे यज्ञार्थं कर्षतो महीम् ।

सीता सीराग्रतो जाता तस्मात् सीरध्वजः स्मृतः ॥ १८ ॥

पदरत्नावली

सीताजननहेतुत्वेन सीरं ध्वजं गमकं ज्ञापकं यस्य स सीरध्वजः । ध्वज गताविति धातुः ॥१८॥

सत्यधर्मीया

जनकमिथिलविदेहनामानि कुलस्यैवेति विशेषनिरुक्तिं दर्शयति ॥ यज्ञार्थमिति ॥ सीरस्य लाङ्गलस्याग्रतस्तस्मात्सीरध्वजं चिन्हं ज्ञापकं यस्य स सीरध्वजः । ध्वजं चिन्ह इति विश्वः । ध्वजध्वजीति ध्वजिर्गत्यर्थः । सीता च सीरध्वजकन्यकेत्यादेः ॥ १८ ॥

छलारी

ततो ह्रस्वरोम्णः सीरध्वजो जज्ञे । सीरध्वजस्य जनकेति सांकेतिकं नाम । मिथिलाधिपतित्वान्मिथिलेति नाम । विदेहदेशाधिपतित्वाद्विदेह इति नामेति नामत्रयं प्रसिद्धिबलात्ज्ञेयम् । कर्षतः । सीरध्वजापरपर्यायस्य । जनकस्येति शेषः । तस्माद्धेतोर्जनकः सीरध्वजः । सीताजन्महेतुत्वेन सीरध्वजं गमकं ज्ञापकं यस्य स तथा सीरध्वज इति स्मृतः । ध्वज गताविति धातोः ॥ १८ ॥

कुशध्वजस्तस्य पुत्रस्ततो धर्मध्वजो नृप ।

धर्मध्वजस्य द्वौ पुत्रौ कृतध्वजमितध्वजौ ॥ १९ ॥

सत्यधर्मीया

तस्य सीरध्वजस्य ततः कुशध्वजाद्धर्मध्वजः ॥ १९ ॥

छलारी

तस्य सीरध्वजस्य ॥ १९ ॥

कृतध्वजात् केशिध्वजः खाण्डिक्यस्तु मितध्वजात् ।

कृतध्वजसुतो राजन्नात्मविद्याविशारदः ॥ २० ॥

सत्यधर्मीया

आत्मविद्याविशारदः कुशलः ॥ २० ॥

छलारी

कृतध्वजसुतः केशिध्वजः ॥ २० ॥

खाण्डिक्यः कर्मतत्त्वज्ञो भीतः केशिध्वजाद् गतः ।

भानुमांस्तस्य पुत्रोऽभूच्छतद्युम्नस्तु तत्सुतः ॥ २१ ॥

सत्यधर्मीया

केशिध्वजात्कृतध्वजजाद्भीतो, ज्ञानित्वाद्गतो वनम् । तस्य खाण्डिक्यस्य, तत्सुतो भानुमत्सुतः ॥ २१ ॥

छलारी

ततः केशिध्वजस्य । पण्डितत्वाद्देशान्तरं गतः । तस्य केशिध्वजस्य ॥ २१ ॥

शुचिस्तु तनयस्तस्मात् सनद्वाजस्ततोऽभवत् ।

ऊर्जकेतुः सनद्वाजादजोऽथ कुरुजित्सुतः ॥ २२ ॥

सत्यधर्मीया

तस्माच्छतद्युम्नात्तस्माच्छुचेस्तनयो नाम्ना । ततस्तनयनामकात्सनद्वाजोऽभवत् । तत इति वा तनयः पुत्रोऽभवत् । अन्यथा तनयस्तस्मात्सनद्वाजात्तत्त इत्येतदन्यतमे व्यर्थं स्यादिति ज्ञेयम् । अथोर्जकेतुसुतादजनामकात्कुरुजितः ॥ २२ ॥

छलारी

तत इत्यस्योत्तरत्र सम्बन्धः । तत ऊर्जकेतोरजः सुतः । अथाजस्य कुरुजिन्नामसुतः ॥ २२ ॥

अरिष्टनेमिस्तस्यापि श्रुतायुस्तत्सुपार्श्वकः ।

ततश्चित्ररथो यस्य क्षेमापिर्मिथिलाधिपः ॥ २३ ॥

सत्यधर्मीया

तस्यारिष्टनेमेस्ततः श्रुतायोर्यस्य चित्ररथस्य क्षेमापिः ॥ २३ ॥

तस्माद्धेमरथस्तस्य सुतः सत्यरथस्ततः ।

आसीदुपगुरुस्तस्मादुपगुप्तोऽग्निसम्भवः ॥ २४ ॥

सत्यधर्मीया

तस्मात्क्षेमापेस्तस्य हेमरथस्य ततः सत्यरथात्तस्मादुपगुरोरुपगुप्तोऽग्निसम्भवोऽग्न्यंशः ॥ २४ ॥

छलारी

तस्य कुरुजितः । तस्येत्यस्योत्तरत्रापि सम्बन्धः । तस्यारिष्टनेमेः श्रुतायुः । तस्य सुपार्श्वकृत्तस्मादुपगुरोरुपगुप्तः । अस्योपगुप्तस्याग्निसम्भवः । तन्नामा सुतः ॥ २४ ॥

वैवस्वतोऽथ तत्पुत्रो युयुधो यत्सुभाषणः ।

श्रुतस्ततो जयस्तस्माद् विजयोऽस्माद् ऋतः सुतः ॥ २५ ॥

सत्यधर्मीया

तस्योपगुप्तस्य । तत्पुत्रो वैवस्वतसुतो युयुधः । यद्यतः सुभाषणो विजयोऽस्माज्जयात्ततो विजयस्य ॥ २५ ॥

छलारी

अथाग्निसम्भवाद्वैवस्वतः । युयुधानस्तत्पुत्रो वैवस्वतपुत्रः । सुभाषणः । तत्पुत्र इत्यनुवर्तते । युयुधानपुत्रः । ततः सुभाषणादस्माद्विजयाद्दृतनामा सुतः ॥ २५ ॥

शुनकस्तत्सुतो जज्ञे वीरहव्यो धृतिस्ततः ।

बहुलाश्वो धृतस्तस्य कृतिरस्य महावशी ॥ २६ ॥

सत्यधर्मीया

शुनकः सुत इत्यन्वयः । ततो वीरहव्यात्तस्य बहुलाश्वस्यास्य धृतेः ॥ २६ ॥

छलारी

शुनकस्तत्सुतो ऋतसुतो वीरहव्यस्तत्सुतः शुनकसुतः सन् जज्ञे । ततो वीरहव्याद्धृतः । महावशी तन्नामा सुतः ॥ २६ ॥

एते वै मिथिला राजन्नात्मविद्याविशारदाः ।

योगेश्वरप्रसादेन द्वन्द्वैर्मुक्ता गृहेष्वपि ॥ २७ ॥

इति श्रीमद्भागवते नवमस्कन्धे एकादशोऽध्यायः ।

पदरत्नावली

गृहेषु स्थिता अपि योगेश्वरस्य याज्ञवल्क्यस्य प्रसादेन जनकादयो द्वन्द्वैः शीतोष्णादिभावैर् मुक्ता आत्मारामा इत्यर्थः ॥२७॥

सत्यधर्मीया

योगेश्वरस्य याज्ञवल्क्यस्य प्रसादेन तत्त्वोपदेशमाहात्म्येन गृहेष्वपि सन्तो द्वन्द्वैः शीतोष्णादिभावैर्विमुक्ता आत्मारामा इति यावत् । मिथिलायां दह्यमानायां न मे दह्यति किञ्चनेत्यादिप्रसिद्धिः । शाण्डिल्यतत्त्वोक्तेर्व्यासो योगेश्वरस्तत्प्रसादेनेति वा । एवं हि तत्र विद्यमानेषु यतिषु भगवान्बादरायणः । जनकं तु निरीक्ष्यैव व्याजहार महीपतिमित्यारभ्याष्टादशाध्यायावसानमनुवर्णितमनुसन्धेयम् ॥ २७ ॥

इति श्रीसत्यधर्मयतिकृतायां भागवतटिप्पण्यां नवमस्कन्धे एकादशोऽध्यायः ।

छलारी

एते निमिदेहोत्पन्ना जनकादयो मिथिलाधिपतित्वेन तन्नामका आत्मविद्याविशारदा ब्रह्मविद्याविशारदा गृहेषु स्थिता अपि योगेश्वरा योगेश्वरो याज्ञवल्क्यस्तत्प्रसादेन द्वन्द्वैः शीतोष्णादिभावैर्मुक्ताः । द्वन्द्वैर्मुक्ता इत्यनेनैतत्कीर्तनादिकमत्यन्तसफलमिति सूचयति ॥ २७ ॥

इति श्रीछलारी शेषाचार्यकृतायां भागवतटिप्पण्यां नवमस्कन्धे एकादशोऽध्यायः ।