१० दशमोऽध्यायः

कुशस्य चातिथिस्तस्मान्निषधस्तत्सुतो नभः

॥ अथ दशमोऽध्यायः ॥

श्रीशुक उवाच—

कुशस्य चातिथिस्तस्मान्निषधस्तत्सुतो नभः ।

पुण्डरीकोऽथ तत्पुत्रः क्षेमधन्वाऽभवत् ततः ॥ १ ॥

पदरत्नावली

अथ श्रीरामपुत्रस्य कुशस्य सन्ततिमनुकामति– कुशस्येति ॥ चशब्दः सन्ततेरविच्छेदं सूचयति ॥ १ ॥

सत्यधर्मीया

तत्सुतो निषधसुतस्तत्पुत्रो नभपुत्रः । ततः पुण्डरीकात् ॥ १ ॥

छलारी

द्वौ पुत्रौ कुशलवश्चेति । तत्र कुशस्य वंशमाह ॥ कुशस्येति ॥ अतिथिः पुत्रोऽभवत् । अथ तस्मान्नभात् पुण्डरीकः । ततः क्षेमधन्वनः सकाशात् । देवानीक इत्युत्तरेणान्वयः ॥ १ ॥

देवानीकस्ततोऽहीनः पारिपात्रश्च तत्सुतः ।

ततो बलस्थलस्तस्माद् वज्रनाभोऽर्कसम्भवः ॥ २ ॥

सत्यधर्मीया

ततः क्षेमधन्वनोऽहीनो वा हीनो वा न नः किञ्चिद्धीनम् । अत्र सेतुबन्धनादिकथा बहुपुराणविरोधेन विवृताऽस्माभी रामायणविवरणे विलोकनीया विस्तरदरतोऽत्र न प्रदर्शितेति ज्ञेयम् । तत्सुतः पारिपात्रो वा पारियात्रो वा । तस्माद्बलस्थलाद्वज्रनाभः स चार्कसम्भवः सूर्यांश इत्यर्थः । यद्वा ततो वज्रनाभादर्कसम्भवोऽभूत् । अर्कस्य तन्नामकस्य सम्भव इति वा । न नामकरणामन्त्रणभोजनाभोजना यूयं वयं चेति न मन्दस्मितं तनुत ॥ २ ॥

छलारी

वज्रनाभ इत्यनन्तरं तस्मादिति शेषः । तस्माद्वज्रनाभादर्कसम्भवाख्यः ॥ २ ॥

खगणस्तत्सुतस्तस्माद् विधृतश्चाभवत् सुतः ।

ततो हिरण्यनाभोऽभूद् योगाचार्यस्तु जैमिनेः ॥ ३ ॥

शिष्यः सकलमध्यात्मं याज्ञवल्क्योऽध्यगाद् यतः ।

योगं महोदयमृषिर्हृदयग्रन्थिभेदनम् ॥ ४ ॥

पदरत्नावली

अध्यात्मं परमात्मविषयकं योगं भगवत्प्रीत्युपायं शास्त्रम् । महानुदयो मोक्षलक्षणो यस्मात् स तथा । एतदेव विशिनष्टि– हृदयेति । हृदयग्रन्थिरज्ञानं तस्य भेदनं येन तम् । ऋषिर्ज्ञानी ॥ ४ ॥

सत्यधर्मीया

तत्सुतः खगणस्तस्मात्खगणाद्विधृतस्ततो विधृतात् । योगाचार्यो योगशास्त्ररचयिता । जैमिनेः शिष्यो, यतो हिरण्यनाभात्सकलमध्यात्मं परमात्मविषयकं महोदयं महानुदय उच्छ्रयो येन तम् । हृदयग्रन्थिरज्ञानं तस्य भेदनं येन तम् । योगं भगवत्प्रीत्युपायसमयमृषिर्ज्ञान्ययमध्यगात् ॥ ३,४ ॥

छलारी

स्वगणस्तत्सुतोऽर्कसम्भवसुतः । तस्मात्स्वगणात् । विधृतः सुतोऽभवत् । ततो विधृतस्य सकाशात् । हिरण्यनाभोऽभूत् । कथम्भूतः । जैमिनेः शिष्यो योगस्याध्यात्मयोगस्याचार्य उपदेशकर्ता । योगशास्त्रप्रवर्तक इत्यर्थः । यतो हिरण्यनाभाद्याज्ञवल्क्यो ऋषिः । सकलमध्यात्मं परमात्मविषयं योगम् । अध्यगादित्यनुषङ्गः । महान्त उदयाः सिद्धयो यस्मात्तम् । हृदयग्रन्थेरज्ञानस्य भेदकम् ॥ ३,४ ॥

पुष्यो हिरण्यनाभस्य ध्रुवसन्धिस्ततोऽभवत् ।

सुदर्शनोऽथाग्निवर्णः शीघ्रस्तस्य मरुत् सुतः ॥ ५ ॥

पदरत्नावली

तस्याग्निवर्णस्य शीघ्रः । तस्य सुतो मरुत् ॥ ५ ॥

सत्यधर्मीया

पुष्यो हिरण्यनाभसकाशादभवत् । ततः पुष्यात् । अथ ध्रुवसन्ध्यनन्तरं तस्मादिति यावत् । सुदर्शनोऽथाग्निवर्णस्तत्सुत इति यावत् । तस्याग्निवर्णस्य शीघ्रस्तस्य सुतो मरुत् ॥ ५ ॥

छलारी

ततो हिरण्यानाभात् । अथेत्यस्य च पूर्वत्रोत्तरत्र च सम्बन्धः । अथ ध्रुवसन्धेः सुदर्शनः । अथ सुदर्शनादग्निवर्णः । अथाग्निवर्णाच्छीघ्रः । तस्य शीघ्रस्य मरुत्तन्नामा सुतोऽभवत् ॥ ५ ॥

योऽसावास्ते योगसिद्धः कलापग्राममास्थितः ।

कलेरन्ते सूर्यवंशं नष्टं भावयिता पुनः ॥ ६ ॥

सत्यधर्मीया

योऽसौ मरुद्योगसिद्धः कलापग्राममास्थितः सन् कलेर्युगस्यान्ते नष्टमुत्सन्नं सूर्यवंशं पुनर्भावयिता ॥ ६ ॥

छलारी

मरुतं विशिनष्टि ॥ योऽसाविति ॥ योगेन सिद्धो योगीत्यर्थः । कलापग्राममास्थितः सन् सूर्यवंशं भावयिता भविष्यति ॥ ६ ॥

तस्मात् तु सुश्रुतस्तस्य सन्धिस्तस्यापि मर्षणः ।

महस्वांस्तत्सुतस्तस्माद् विश्वसाह्वानजायत ॥ ७ ॥

पदरत्नावली

तस्मान्मरुतः ॥ ७ ॥

तस्मात्सुश्रुत इत्यस्य तस्मान्मरुत उक्त विशिष्टः सुश्रुतः सुश्रुतनामकोऽजायतेति । एतेन तुशब्दो व्यर्थ इति दूषणस्यानवकाशः । सुश्रुतस्य गुणवैशिष्ट्यं वक्तुं तुशब्दः प्रत्युक्त इत्यभ्युपगमात् ॥ ७ ॥

इति श्रीभागवतटिप्पण्यां दशमोऽध्यायः ॥ ९-१० ॥

सत्यधर्मीया

तस्मान्मरुतः । तस्य सुश्रुतस्य । तस्यापि सन्धेरपि मर्षणो नाम्ना । तत्सुतो मर्षणसुतस्तस्मान्महस्वतः ॥ ७ ॥

छलारी

तस्मान्मरुतः सुश्रुताख्यः । तस्य सन्धिः सन्धिनामकः ॥ ७ ॥

ततो बृहद्बलो यस्तु पित्रा ते समरे हतः ।

एते हीक्ष्वाकुभूपाला अतीताः शृण्वनागतान् ॥ ८ ॥

पदरत्नावली

समरे बृहद्बलो ते तव पित्रा अभिमन्युना हतः । अनागतानुत्पत्स्यमानान् । तस्येत्येतत् पूर्वोत्तरत्र सन्बन्धितव्यम् ॥ ८ ॥

सत्यधर्मीया

ततो विश्वसाहुषो बृहद्बलः । स क इत्यत आह । यस्ते पित्राऽभिमन्युना समरे हतः संहतः । इक्ष्वाकुभूपाला अतीताः । अनागतान्भविष्यतः शृृणु । अनेन स्वविवक्षां परीक्षितो ध्वनयति ॥ ८ ॥

छलारी

समरे बृहद्बलस्ते तव पित्राऽभिमन्युना हतः । ईक्ष्वाकुभूपालास्तद्वंशजन्यभूपा इत्यर्थः । अनागतानुत्पत्स्यमानान् ॥ ८ ॥

बृहद्बलस्य भविता पुत्रो नाम्ना बृहद्रणः ।

उरुक्षयः सुतस्तस्य वसुप्रीतिर्भविष्यति ॥ ९ ॥

सत्यधर्मीया

तस्य बृहद्रणस्य । तस्योरुक्षयस्य ॥ ९ ॥

छलारी

तस्येत्यनुवर्तते । तस्योरुक्षयस्य वत्सप्रीतः ॥ ९ ॥

प्रतिव्योमस्ततो भानुर्दिवार्को वाहिनीपतिः ।

सहदेवस्ततो भावी बृहदश्वोऽथ भानुमान् ॥ १० ॥

सत्यधर्मीया

ततो वसुप्रीतेस्ततः प्रतिव्योमनामकाद्भानुस्ततो दिवार्कस्ततो वाहिनीपतिस्ततः सहदेवस्ततः सहदेवाद्भावी भविष्यन्नित्यर्थः । शृृण्वनागतानित्युक्तत्वात्पुनरेवमवक्तव्यमिति केचित् । तन्न । भविता स्मर्तव्यो मध्ये मध्ये स्मारणार्थं तथोक्तिरिति । भावी तन्नामको वा । बृहदश्वोऽथानन्तरं भानुमान् ॥ १० ॥

छलारी

तस्येत्यनुवर्तते । तस्य प्रतिव्योमस्ततो भानुस्ततो दिवार्कस्ततो वाहिनीपतिस्ततः सहदेवः । भावीत्येतत्सर्वत्रानुवर्तते । ततो बृहदश्वः ॥ १० ॥

प्रतीकाश्वो भानुमतः सुप्रतीकोऽथ तत्सुतः ।

भविता मरुदेवोऽथ सुनक्षत्रोऽथ रुक्षकः ॥ ११ ॥

सत्यधर्मीया

तत्सुतः सुप्रतीकतोकोऽथ मरुदेवानन्तरं सुनक्षत्रो भविता । अथ रुक्षकः ॥ ११ ॥

छलारी

तत्सुतः सुप्रतीकसुतः मरुदेवः ॥ ११ ॥

तस्यान्तरिक्षस्तत्पुत्रः सुतपास्तदमित्रजित् ।

बृहद्भोजस्तु तस्यापि बर्हिस्तस्मात् कृतञ्जयः ॥ १२ ॥

पदरत्नावली

तस्य सुतपसः सुतोऽमित्रजित् ॥ १२॥

सत्यधर्मीया

तस्य रुक्षकस्य तत्पुत्रोऽन्तरिक्षसुतस्तत्तस्यामित्रजित्पुत्रस्तस्यामित्रजितस्तस्माद्बर्हेर्वा बर्हिषो वा कृतञ्जयः ॥ १२ ॥

छलारी

तत्तस्मादमित्रजित् । तस्माद्बर्हिः । तस्मात्कृतंजयः ॥ १२ ॥

रणञ्जयस्तस्य सुतः सञ्जयो भविता ततः ।

तस्माच्छक्तोऽथ शुद्धोदो लाङ्गलस्तत्सुतः स्मृतः ॥ १३ ॥

सत्यधर्मीया

तस्य कृतञ्जयस्य । तस्य रणञ्जयस्य । तस्मात्सञ्जयादथ शक्तानन्तरं शुद्धोदस्तत्सुतो लाङ्गलः स्मृतः ॥ १३ ॥

छलारी

अथ शाक्यात् ॥ १३ ॥

ततः प्रसेनजित् तस्माद् क्षुद्रको भविता ततः ।

कुणको भविता तस्मात् सुरथस्तनयस्ततः ।

सुमित्रो नाम निष्ठान्तस्त्वेते बार्हद्बला नृपाः ॥ १४ ॥

पदरत्नावली

सुमित्रो नाम राजा निष्ठाया वंशावलेरन्तोऽवधिभूतः ॥ तत्र समाप्तो वंश इत्यर्थः ॥ १४ ॥

सत्यधर्मीया

ततो लाङ्गलात्तस्मात्प्रसेनजितस्ततः क्षुद्रकात्तस्मात्कुणकात्ततः सुरथात्सुमित्रोऽभवत् । स च निष्ठान्तो निष्ठाया वंशस्थितेरवधिभूतो, निरपत्य आसीदिति यावत् । बृहद्बलस्येमे गोत्रपुत्रा बार्हद्बला नृपाः ॥ १४ ॥

छलारी

तनयस्तनयनामकः । ततः सुमित्रः सुमित्रो नाम राजा । निष्ठाया वंशावलेरन्तोऽवधिभूतः । तत्र वंशः समाप्त इत्यर्थः । एतेन नृपा बार्हद्बला बृहद्बलोऽनागतानां मूलपुरुषस्तत्सम्बन्धिन इत्यर्थः ॥ १४ ॥

इक्ष्वाकूणामयं वंशः सुमित्रान्तो भविष्यति ।

यतस्तं प्राप्य राजानं संस्थां प्राप्स्यति वै कलौ ॥ १५ ॥

इति श्रीमद्भागवते नवमस्कन्धे दशमोऽध्यायः ।

पदरत्नावली

एतदेव विशदयति– इक्ष्वाकूणामिति ॥ सुमित्रोऽन्तोऽवसानं यस्य स तथा । तं सुमित्रनामकम् । संस्थां नाशम्, समाप्तिं वा । संस्था व्यवस्था प्रणिधिः समाप्याचारमन्त्रिषु इत्यभिधानम् ॥ १५ ॥

इति श्रीमद्भागवतटीकायां विजयध्वजतीर्थभिक्षुकृतायां नवमस्कन्धस्य दशमोऽध्यायः ॥

सत्यधर्मीया

निष्ठान्तपदं स्वयं व्याचष्टे ॥ इक्ष्वाकूणामिति ॥ तं सुमित्रम् । संस्थां संस्था व्यवस्थाप्रणिधिः समाप्याचारमन्त्रिष्वित्यभिधानम् ॥ १५ ॥

इति श्रीसत्यधर्मयतिकृतायां भागवतटिप्पण्यां नवमस्कन्धे दशमोऽध्यायः ।

छलारी

एतदेव विशदयति । इक्ष्वाकुसम्बन्धिनामयं वंशः सुमित्रान्तः सुमित्र एवान्तो यस्य स तथा भविष्यति । कुतः । यतस्तं सुमित्रनामकं प्राप्य संस्थां नाशं प्राप्स्यति । वंश इत्यनुवर्तते ॥ १५ ॥

इति श्रीछलारी शेषाचार्यकृतायां भागवतटिप्पण्यां नवमस्कन्धे दशमोऽध्यायः ।