भगवानात्मनाऽऽत्मानं राम उत्तमकल्पकैः
॥ अथ नवमोऽध्यायः ॥
श्रीशुक उवाच—
भगवानात्मनाऽऽत्मानं राम उत्तमकल्पकैः ।
सर्वदेवमयं देवमीज आचार्यवान् मखैः ॥ १ ॥
पदरत्नावली
आचार्यवानित्यनेन गुरुकुलवासित्वं शिक्षितत्वं च सूचयति । ‘आचार्यवान् पुरुषो वेद’ इति श्रुतेः ॥ १ ॥
सत्यधर्मीया
आचार्यवान्वसिष्ठविशिष्ट उत्तमकल्पकैर्मुख्यकल्पजल्पितदक्षिणादियुक्तैः । देवो न वासुदेवात्स्वामिनोऽन्य इत्याह ॥ आत्मानमिति ॥ १ ॥
छलारी
आत्मना मनसाऽऽत्मानं स्वस्वरूपं परमात्मानम् । ध्यायन्निति शेषः । उत्तमकल्पकैर्बहुदक्षिणोपेतैः सर्वदेवप्रधानम् । आचार्यवानित्यनेन शिक्षितत्वं गुरुकुलवासित्वं च सूचयति । आचार्यवान्पुरुषो वेदेति श्रुतेः ॥ १ ॥
होत्रेऽददाद् दिशं प्राचीं ब्रह्मणो दक्षिणां विभुः ।
अध्वर्यवे प्रतीचीं च उदीचीं सामगाय सः ॥ २ ॥
सत्यधर्मीया
कल्पकानल्पतां जल्पति ॥ होत्र इत्यादिना । दद दाने । अददाद् दत्तवान् ॥ २ ॥
छलारी
प्राचीं दिशं तत्र विद्यमानां भूमिम् ॥ २ ॥
आचार्याय ददौ शेषा यावती भूस्तदन्तरा ।
मन्यमान इदं कृत्स्नं ब्राह्मणोऽर्हति निःस्पृहः ॥ ३ ॥
सत्यधर्मीया
तदन्तरा तासां दिशां मध्ये यावती भूः, शेषा चतुर्भ्यो दत्तावशिष्टा तामाचार्याय ददौ । निःस्पृहो ब्राह्मणः स्वयमनाकाङ्क्षन् इदं कृत्स्नं दिगादिकमर्हति ॥ ३ ॥
छलारी
तदन्तरा तासां दिशां मध्ये । कोणेष्विति यावत् । इदं कृत्स्नम् । प्रतिगृहीतुमिति शेषः । निस्पृहो यदृच्छालाभसन्तुष्ट इत्यर्थः ॥ ३ ॥
इत्यदात् स्वमलङ्कारं वासोभ्यामवशेषितः ।
तथा राज्ञ्यपि वैदेही सौमङ्गल्यावशेषिता ॥ ४ ॥
पदरत्नावली
सौमङ्गल्यं मङ्गलसूत्रमेवावशेषितं यस्याः सा तथा ॥ ४ ॥
सत्यधर्मीया
इति मन्यमानः स्वमलङ्कारमदात् । वासोभ्यां परिधानोत्तरीयाभ्यामवशेषितः शिष्टः । राज्ञी राजमहिषी वैदेही सीता च सौमङ्गल्यं गलमङ्गलसूत्रमवशेषितं यस्याः सा ॥ ४ ॥
छलारी
सीताऽपि स्वमलङ्कारं स्त्रीभ्यः । अददादित्यनुषङ्गः । कथम्भूता । सौमाङ्गल्यं मङ्गलसूत्रमेवावशेषितं यस्याः सा तथा ॥ ४ ॥
ते तु ब्राह्मणदेवस्य वात्सल्यं वीक्ष्य सज्जनाः ।
प्रीताः क्लिन्नधियस्तस्मै प्रत्यर्प्येदं बभाषिरे ॥ ५ ॥
पदरत्नावली
ब्राह्मणा देवाः पूज्या इति भावो यस्य स तथा तस्य । वात्सल्यं स्नेहपारवश्यम् । भक्त्या क्लिन्न धियो द्रवच्चित्ताः । प्रत्यर्प्य दत्तं पुनर्दत्वा ॥ ५ ॥
सत्यधर्मीया
ब्राह्मणा देवाः पूज्या यस्य स तस्य वात्सल्यं वीक्ष्य सज्जना होत्राद्याः प्रीताः क्लिन्नधियस्तस्मै रामाय प्रत्यर्प्य समर्प्येदं बभाषिरे ॥ ५ ॥
छलारी
ब्राह्मणा देवाः पूज्या यस्य भक्त्या क्लिन्नधियो द्रवच्चित्ताः ॥ ५ ॥
**ब्राह्मणा ऊचुः— **
अप्रत्तं नस्त्वया किन्नु भगवन् भुवनेश्वर ।
यतोऽन्तर्हृदि संविश्य तमो हंसि स्वरोचिषा ॥ ६ ॥
पदरत्नावली
हे भगवन् त्वमस्माकं हृदि हृदयस्यान्तः स्वरोचिषा स्वविषयकज्ञानमुत्पाद्य तमोऽज्ञानं हंसि नाशयसि यतोऽतस्त्वया नोऽप्रदत्तं किन्नु ? न किमपि । अत इदं भूदानादिकमधिकं न भवति । ज्ञानधनस्यानश्वरत्वाद् अहार्यत्वाच्च । भवतो भूपालत्वात् तत्कर्म तवैव योग्यम् । तस्मिन् कर्मण्यनधिकारिणो वयम् । तस्मात् प्रत्यर्पणेन दत्तापहारकलङ्कपङ्कलेपो न भवति भवत इति स्वीकृत्य तद्रक्षणं कर्तव्यमिति भावः ॥ ६ ॥
दुर्घटभावदीपिका
हे भगवन्भुवनेश्वर राम त्वया नोऽस्मभ्यमप्रत्तमादत्तं किं न सर्वं त्वद्दत्तमेवेत्येतन्नु निश्चितमतस्त्वद्दत्तराज्यसमर्पणं युक्तमेव । ननु मम पूज्यत्वमेव कुतो येन मददत्तस्य कस्याप्यभावात् । मद्दत्तं राज्यं समर्पणीयं स्यादित्यत आह ॥ यत इति ॥ यतः कारणात् हृदि हृदयस्यान्तः संविश्य स्वरोचिषा स्वविषयकज्ञानमुत्पाद्य तमोऽज्ञानं हंसि । अतस्तव गुरुत्वात्पूजाऽवश्यं कर्तव्येति । एतेनाप्रत्तं न इत्येतद्यतोऽन्तर्हृदीत्येतच्चासङ्गीतमिति दूषणं परिहृतम् । अप्रत्तं न इत्यनेन मत्पूजार्थं मया यद्दत्तं न भवति तदेव देयम् । मद्दत्तराज्यं कथं दीयत इत्याशङ्कापरिहारोऽतस्त्वद्दत्तराज्यसमर्पणं युक्तमेवेति शेषपूरणेन क्रियते । यतोऽन्तर्हृदीत्यनेनातस्तव गुरुत्वात्पूजाऽवश्यं कर्तव्येति शेषपूरणेन पूज्यत्वमुपपाद्यत इत्यूरीकरणात् ॥ ६ ॥
सत्यधर्मीया
नोऽस्मभ्यं त्वयाऽप्रत्तमदत्तं किन्नु सर्वमपि दत्तमेव । एतदपेक्षया दुर्लभं भगवंस्त्वयाऽदायि कियदिदमिति विज्ञापयन्ति ॥ यत इति ॥ हृदि संविश्यान्तस्तमोऽज्ञानं स्वरोचिषा त्वद्दत्तज्ञानेन हंसि । अत्र नश्वरताधियं रासीति यावत् । त्वं तु भूपालो वयं तु त्वत्पाल्या नानयाऽवन्या कृत्यमस्माकमिति तस्मै प्रत्यार्पयन्निति भावः ॥ ६ ॥
छलारी
स्वरोचिषा स्वविषयकज्ञानं दत्वेत्यर्थः । तमो हंस्यज्ञाननिवृत्तिद्वारा मोक्षं प्रदासीत्यर्थः । तव सर्वपुरुषार्थोत्तममोक्षप्रदातृत्त्वात्त्वया सर्वाभीष्टमपि दत्तमेवेति भावः ॥ ६ ॥
नमो ब्रह्मण्यदेवाय रामायाकुण्ठमेधसे ।
उत्तमश्लोकधुर्याय न्यस्ततन्वेऽर्पिताङ्घ्रये ॥ ७ ॥
पदरत्नावली
न्यस्ततन्वे भगवति समर्पितस्वरूपाय भक्ताय, अर्पितौ अङ्घ्री येन तस्मै । न्यस्तदण्डार्पिताङ्घ्रये इति पाठे न्यस्तमनोवाक्कायदण्डा विरक्ता योगिनः, तेष्वर्पितोऽङ्घ्रिर्ज्ञानलक्षणा गतिर्येन स तथा तस्मै । अघि गताविति धातुः । उत्तमश्लोकानां ब्रह्मादीनां धुरं भारं वहतीति उत्तमश्लोकधुर्यस्तम्मै ॥ ७ ॥
दुर्घटभावदीपिका
न्यस्ततन्वार्पिताङ्घ्रय इत्यस्य समर्पितदेहाय भक्तायार्पितपादायेत्यर्थः । अयं भावः । यो भगवते स्वदेहमर्पयति तस्य भगवत्प्राप्तिर्भवतीति । एतेन न्यस्ततन्व इत्यनेन देहसमर्पणोक्त्या पादसमर्पणस्यापि प्राप्तत्वादर्पिताङ्घ्रय इत्येतव्द्यर्थमिति दूषणस्यानवकाशः । न्यस्ततन्व इत्यनेन भक्तकर्तृकदेहसमर्पणमुच्यते । अर्पिताङ्घ्रय इत्यनेन भगवत्कर्तृकपादसमर्पणमुच्यत इत्यभ्युपगमात् ॥७॥
सत्यधर्मीया
प्रत्युपकारस्त्वयमोङ्कार्य इति वदन्ति ॥ नम इति ॥ उत्तमश्लोकधुर्याय महायशस्विश्रेष्ठाय न्यस्ततन्वे न्यस्ता अस्मिन्नर्पिता तनूर्येन । तदुपलक्षितदारागारादयस्तस्मै । अर्पितौ समर्पितौ दत्ताविति यावत् । अङ्घ्री ज्ञानानन्दौ पादौ येन तस्मै ॥ ७ ॥
छलारी
ब्रह्मण्यश्चासौ देवश्चाकुण्ठमेधसेऽप्रतिहतज्ञानाय । उत्तमश्लोकानां ब्रह्मादीनां धुरं भारं वहतीति तथा न्यस्तदण्डैर्मुनिभिरर्पितचित्ते(?) न्यस्तावङ्घ्री यस्य तेष्वर्पितावङ्घ्री येनेति वा ॥ ७ ॥
श्रीशुक उवाच—
कदाचिल्लोकजिज्ञासुर्गूढा रात्र्यामलक्षितः ।
चरन् वचोऽशृणोद् रामो भार्यामुद्दिश्य कस्यचित् ॥ ८ ॥
पदरत्नावली
कस्यचित् पुंसो वचः ॥ ८ ॥
सत्यधर्मीया
लोकजिज्ञासुर्लोकं जिज्ञासुः । न लोकेति न षष्ठी । रात्र्यां गूढोऽलक्षितः कैरपि, कस्यचित्पुंसो, भार्यां स्वजायामुद्दिश्योक्तं वचश्चरन्रामोऽशृृणोत् ॥ ८ ॥
छलारी
लोकवृत्तान्तं जिज्ञासुः कस्यचित्पुंसो वचः ॥ ८ ॥
नाहं बिभर्मि त्वां दुष्टामसतीं परवेश्मगाम् ।
स्त्रैणो हि बिभृयात् सीतां रामो नाहं भजे पुनः ॥ ९ ॥
सत्यधर्मीया
तं प्रकारमाकारयन्नाह ॥ नेति ॥ अहं त्वां दुष्टां न बिभर्मि न पोषयामि । किं दौष्ट्यं दृष्टं त्वया मयीत्यत आह ॥ परवेश्मगामसतीमिति ॥ रामः परवेश्मगां सीतां हि यतः स्त्रैणोऽतो बिभृयाद् अहं न तथा स्त्रैण इति पुनस्त्वां न भजे । त्याग एव नैर्भर्यं न भोग इति पुनः पुनरित्यन्तोक्तिः ॥ ९ ॥
छलारी
परवेश्मगां स्वैरिणीम् ॥ ९ ॥
इति लोकाद् बहुमुखाद् दुराराध्यादसंविदः ।
श्रुत्वा भीतेन सा त्यक्ता प्राप्ता प्राचेतसाश्रमम् ॥ १० ॥
पदरत्नावली
बहुमुखाद् बहूनि अन्योन्यशिक्षानियतत्वेनानेकानि मुखानि प्रधानानि यस्य स तस्मात् । अत एव दुराराध्यात् समाधापयितुं दुःसाध्यात् । अत एवासंविदः प्रेक्षासंवादशून्यान् मर्यादारहिताद्वा लोकात् श्रुत्वा लोकापवादभीतेन रामेण त्यक्ता सा सीता प्रचेतसः प्रचेतसो वरुणस्यापत्यं वाल्मीकिस्तस्याश्रमं प्राप्ता ॥ १० ॥
दुर्घटभावदीपिका
लोकाद्बहुमुखादित्यस्य बहुभाषणाल्लोकादित्यर्थः । एतेन बहुलोकादित्यनेनैव पूर्णत्वात् । बहुमुखादिति मुखशब्दो व्यर्थ इति चोद्यं निराकृतम् । मुखशब्देन मुखकार्यभाषणं गृहीत्वा बहुमुखादित्यस्य बहुभाषणादित्यर्थ इत्युक्तत्वात् ॥ १० ॥
सत्यधर्मीया
लोकाद्बहुमुखाद्बहूनि मुखानि प्रधानानि यस्य स तस्मात् । संविद्रहितादित्यसंविदः सीतामातृवद्रक्षोरक्षितेति प्रेक्षाशून्यात् । दुराराध्यात् सबहुवासानर्हात् । यथोक्तं रामायणे ।
जयोऽथ मधुमत्तश्च काश्यपो मङ्गलः कुलः ।
सुराजः कालियो भद्रो दन्तवक्रः सुमागध इत्यादि ।
श्रुत्वा तदपवादतो भीतेन त्यक्ता सा सीता प्रचेतसो वरुणस्य पुत्रो वाल्मीकिस्तस्य आश्रमं प्राप्ता । उखादागतात्सिद्धार्थादेर्बहु अपवादं श्रुत्वेति वा । उखउखीत्यादिस्मरणात् ॥ १० ॥
छलारी
मुखशब्देन तत्कार्यं भाषणं ग्राह्यम् । तथा च बहुमुखादित्यस्य बहुभाषणादित्यर्थः । दुराराध्याद्दुष्टानां श्लाघ्यान्न विद्यते संविद्यस्य स तथा । अज्ञाल्लोकाल्लोकापवादभीतेन रामेण त्यक्ता सीता । प्रचेतसो वरुणस्यापत्यं वाल्मीकिस्तस्याश्रमं प्राप्ता ॥ १० ॥
अन्तर्वत्न्नर्यागते काले यमौ सा सुषुवे सुतौ ।
कुशो लव इति ख्यातौ तयोश्चक्रे क्रिया मुनिः ॥ ११ ॥
पदरत्नावली
अन्तर्वत्नी गर्भिणी । यमौ यमलौ । क्रियाः क्षत्रयोग्या जातकर्मादिकाः ॥ ११ ॥
सत्यधर्मीया
काले आगते दशमे मासीत्युक्तकालेऽन्तर्वर्त्नी । अन्तर्वत्पतिवतोर्नुगिति नुक् । यमौ यमलौ, कुशो लव इति, कुश इति लव इति ख्यातौ तयोर्मुनिः क्रिया नामकरणादीनि चक्रे ॥११॥
छलारी
अन्तर्वर्त्नी गर्भिणी । यमौ यमलौ । क्रियाः क्षत्रयोग्या जातकर्मादिक्रियाः । मुनिर्वाल्मीकिः ॥ ११ ॥
अङ्गदश्चक्रकेतुश्च लक्ष्मणस्यात्मजौ स्मृतौ ।
तक्षः पुष्कल इत्यास्तां भरतस्य महीपते ॥ १२ ॥
सत्यधर्मीया
अङ्गदश्चक्रकेतुश्चेति लक्ष्मणस्यात्मजौ तक्षः पुष्कल इति भरतस्य सुतावास्तामित्यन्वयः ॥ १२ ॥
छलारी
भरतस्यात्मजावास्ताम् ॥ १२ ॥
सुबाहुः श्रुतसेनश्च शत्रुघ्नस्य बभूवतुः ।
गन्धर्वान् कोटिशो जघ्ने भरतो विजये दिशाम् ।
तदीयं धनमानीय सर्वं राज्ञे न्यवेदयत् ॥ १३ ॥
पदरत्नावली
गन्धर्वान् गन्धर्वजन्मनोऽसुरान् ॥ १३ ॥
सत्यधर्मीया
शत्रुघ्नस्य सकाशाद्बभूवतुरुत्पन्नौ । कोटिशस्त्रिकोटिसङ्ख्याकान् कोटित्रयं स निजघान तथाऽसुराणां गन्धर्वजन्मेत्याचार्योक्तेस्ते चासुरा इति ज्ञेयम् । तदीयं गन्धर्वसम्बन्धिराज्ञे रामाय ॥ १३ ॥
छलारी
शत्रुघ्नस्यात्मजौ । राज्ञे रामभूपाय । कोटिशः कोटिसङ्ख्याकान् गन्धर्वान् गन्धर्वजन्मनोऽसुरान् । तदुक्तम् । कोटित्रयं स निजघान तथाऽसुराणां गन्धर्वजन्म भरतेन सतां च धर्ममिति ॥ १३ ॥
शत्रुघ्नश्च मधोः पुत्रं लवणं नाम राक्षसम् ।
हत्वा मधुवनं चक्रे मधुरां नाम वै पुरीम् ॥ १४ ॥
सत्यधर्मीया
मधुवनं मधुरां पुरीं चक्रे ॥ १४ ॥
छलारी
मधुरां तन्नामपुरीं च ॥ १४ ॥
मुनौ निक्षिप्य तनयौ सीता भर्त्रा विवासिता ।
ध्यायन्ती रामचरणौ विवरं प्रविवेश ह ॥ १५ ॥
पदरत्नावली
मुनौ वाल्मीकौ । विवरं भूबिलम् ॥ १५ ॥
सत्यधर्मीया
विवरं भूविवरं लोकदृष्ट्या ॥ १५ ॥
छलारी
मुनौ वाल्मीकिमुनौ । भर्त्रा रामेण विवसिता प्रवासिता । त्यक्तेति यावत् । विवरं भूबिलम् ॥ १५ ॥
तच्छ्रुत्वा भगवान् रामो रुन्धन्नपि धिया शुचः ।
स्मरंस्तस्या गुणांस्तांस्तान् नाशक्नोद् रोद्धुमीश्वरः ॥ १६ ॥
तात्पर्यम्
–‘नित्यपूर्णसुखज्ञप्तिस्वरूपोऽसौ यतो विभुः ।
अतोऽस्य राम इत्याख्या तस्य दुःखं कुतोऽण्वपि ।
तथाऽपि लोकशिक्षार्थमदुःखो दुःखवर्तिवत् ।
अन्तर्हितां लोकदृष्ट्या सीतामासीत्स्मरन्निव ।
ज्ञापनार्थं पुनर्नित्यसम्बन्धं स्वात्मनः श्रिया ।
अयोध्याया विनिर्गच्छन्सर्वलोकस्य चेश्वरः ।
प्रत्यक्षं तु श्रिया सार्धं जगामानादिरव्ययः’ ॥ १६ ॥
पदरत्नावली
अपिपदेन लोकशिक्षार्थं सम्भावित एव न त्वनुभूत इत्याह ॥ १६ ॥
सत्यधर्मीया
ननु न रामो नरः किन्तु नारायणस्तस्य शोकः कथं कथं च तन्निरोधोपरोधश्च रुन्धन्नपि धिया शुचो, नाशक्नोदित्युच्यत इत्यतः प्रमाणेन तदभिप्रायं प्राहुः ॥ नित्येति ॥ रमेर्डो ऽन्तरावर्तिन आङो योग्यतया रे आनन्दे माङ्माने मे ज्ञाने चान्वय इति दर्शयितुं पूर्णेति । सुखज्ञाप्तिविशेषणमिति मन्तव्यम् । यतोऽसौ विभुरत एतस्माद्राम इत्याख्या नाम तस्य तत्प्रवृत्तिनिमित्तकरामनामकस्याण्वपि दुःखं कुतो न कुतोऽपि कारणाद्भवेत् । ननु पूर्णसुखज्ञप्त्योर्निमित्ततयोक्तेस्तदनुरोधेन तस्य दुःखं कुतोऽमतिरितीरयितव्यमिति चेत् । सत्यम् । मूले दुःखस्यैवात्युत्कटमुट्टङ्कना तन्मात्रोक्तौ प्रकृतनिर्वाह इत्यवचनौचित्यात् । किन्न हर्षोत्कर्षो लपने किञ्चालपने वोद्यमस्तव दृश्यते । दृश्यते च न समाधिरनेन तव जात इति । ओति चेत् । तर्हि क्षमणीयं त्वया दुःखपदावर्तनमात्रम् । ॐ, दुःखं तु प्रसिद्धमेकम् । पुनर्दुरशोभनं दुरशोभनदुष्टयोरित्यभिधानादशोभनं खं संवेदनमज्ञानमिति यावत् । तदपि क्वेति । इतो विकासय मुखम् । खं पुरे संवेदन इति विश्वः । तर्ह्येवं नटनं कुत आटीकत ईश्वर इति तत्राह ॥ तथाऽपीति ॥ अदुःखोऽपदुःखवर्ती दुःखवर्तिवल्लोकदृष्ट्याऽन्तर्हितां न तु स्वदृष्ट्या सीतां स्मरन्निवासीत् । स्वात्मनः स्वस्य स्वदेहस्य वा श्रिया नित्यसम्बन्ध इति ज्ञापनार्थम् । अयोध्याया नगर्या विनिर्गच्छन्नीश्वरः सर्वलोकस्य पामरजनस्य प्रत्यक्षम् । तुनाऽमरादयो व्यावर्तिताः । ते जानन्तीति तात्पर्यम्
। अनादिर्न विद्यत आदिरुत्पत्तिर्यस्य सः । अव्ययो न विद्यते व्ययो नाशो यस्य स तथा । अथ मूलार्थप्रथनम् । तत्तद्विवरप्रवेशनम् । शुचः शोकान् रुन्धन्नपि तन्निरोधं कुर्वन्नपि । तांस्तानिति पदमेकम् । तस्याः सीतायास्तांस्तान् गुणान्स्मरन् रोद्धुं नाशक्नोदिति धिया मन्दमत्या निमित्तेन न तु वास्तविकं तत्र हेतुरीश्वर इति धिया रुन्धन्नपि ईश्वर इति नाशक्नोत्तदिवेति वा ॥ १६ ॥
छलारी
ततो रामः किं कृतवानित्यत आह ॥ तच्छ्रुत्वेति ॥ सर्वेश्वरो भगवान् रामः । तत्सीताभूविवरं प्रविवेशेत्येतच्छ्रुत्वाऽदुःखोऽपि भार्यायामत्यन्तासक्तिर्न कार्येति लोकशिक्षार्थमसुरजनमोहनार्थं च धिया मनसा शुचः शोकान् रुन्धन्निरोधं कुर्वन्नपि सीतायास्तांस्तान्पातिव्रत्यादिसीतागुणान्स्मरन्निव दृश्यमानः शुचः शोकान्निरोद्धुं नाशक्नोदिति दर्शयामास । यदि रामस्याल्पदुःखमपि स्यात्तर्हि तस्य भगवत्त्वं न स्यात् । रामत्वं न स्यात् । सर्वेश्वरत्वं न स्यादिति बाधकतर्कत्रयप्रदर्शनार्थं भगवतानित्यादिविशेषणत्रयं प्रायुयोजि । नित्यसुखपूर्णज्ञप्तिस्वरूपोऽसौ यतो विभुरतोऽस्य राम इत्याख्या तस्य दुःखं कुतोऽण्वपीत्यादाविति ॥ १६ ॥
स्त्रीपुम्प्रसङ्ग एतादृक् सर्वत्र त्रासमावहः ।
अपीश्वराणां किमुत ग्राम्यस्य गृहमेधिनः ॥ १७ ॥
सत्यधर्मीया
स्त्रीपुंप्रसङ्ग पुंसां प्रसङ्गः प्रकृष्टः सम्बन्धः । स्त्रीभिः पुंसां प्रसङ्गः स्त्रीपुंप्रसङ्गः । अतो नाचतुरनिपाताभावाचतुरतेति ज्ञेयम् । सर्वत्रात्रोत्तरत्र च । त्रासं भयमावहः प्रापयिता । ईश्वराणां समर्थानां रुद्रादीनामपि ग्राम्यस्य सुरतस्याश्लीलस्य वा । ग्राम्यो जनेऽन्यवद्ग्राम्यमश्लीले रतबन्धयोरिति विश्वः । गृहमेधिनो गृहस्थस्य किमुत किमु वाच्यो भयावह इत्यर्थः । त्रासमावह इत्यलुगार्ष इति केचित् । सर्वत्रापि भयावाह इत्यभयावहः पाठः । त्रासस्य मा ज्ञानं तदावह इति वा ॥ १७ ॥
छलारी
स्त्रीपुरुषयोरत्यन्तासक्तिर्महतामप्युक्तरीत्या क्लेशकरा किमन्येषामतस्तत्रात्यन्तासक्तिर्न कार्येत्याशयेनाह ॥ स्त्रीपुंप्रसङ्ग इति ॥ स्त्रीपुंसोः प्रसङ्गो ऽत्यन्तासक्तिः सर्वत्रैव । इह लोके यक्ष्मादिभयावहः परलोके नरकादिभयावहः । किमुत ग्राम्यस्य कर्मरतस्य गृहमेधिनो गृहस्थस्येत्यर्थः ॥ १७ ॥
तत ऊर्ध्वं ब्रह्मचर्यं धारयन्नजुहोत् प्रभुः ।
त्रयोदशाब्दसाहस्त्रमग्निहोत्रमखण्डितम् ॥ १८ ॥
तात्पर्यम्
–नक्षत्रमासगणितं त्रयोदशसहस्रकम् ।
ब्रह्मलोकसमं चक्रे समस्तं क्षितिमण्डलम् ॥
रामो रामो राम इति सर्वेषामभवत्तदा ।
सर्वो राममयो लोको यदा रामस्त्वपालयत् ॥ इति स्कान्दे ।
पदरत्नावली
ततो ऽस्या भूमिनिवेशानन्तरम् अखण्डितमग्निहोत्रमजुहोत् । पूवर्ं क्वचित् खण्डितमित्यर्थो नैव । किन्तु ततः पूर्वं च । ब्रह्मचर्यं धारयन्नित्यस्याप्यूर्ध्वरेतस्त्वं नार्थः । किन्तु ब्रह्मणा लक्ष्म्या सीतया सह चर्यं चरणं धारयन् कुर्वन्नेवेत्यर्थः । ‘मम योनिर्महद्ब्रह्म’ इति श्रुतेः । अन्यथा त्रयोदशसहस्रमित्युक्तिरसङ्गता स्यात् । सर्वात्मना राज्यभरणस्य तावत्त्वात् । तस्मात् क्षितिमण्डलं त्रयोदशसहस्रमब्दं ब्रह्मलोकसमं कृत्वेति बोध्यम् । तदुक्तं ‘नक्षत्रमासगणितं त्रयोदशसहस्रकम् । ब्रह्मलोकसमं चक्रे समस्तं क्षितिमण्डलम्’ इति ॥ १८ ॥
सत्यधर्मीया
तत ऊर्ध्वमिति पद्ये त्रयोदशाब्दसाहस्रमग्निहोत्रमखण्डितमिति, द्वादशाब्दसहस्रं तु रामो राज्यं चकार हेति विष्णुपुराणे । तथा पाद्मे च । दशवर्षसहस्राणि दशवर्षशतानि चेत्येकत्रापरत्र च । एवं प्रशासतस्तस्य राघवस्य महेश्वरि । अत्ययाद्दशसाहस्रं रममाणस्य सीतयेत्युक्तेः । परस्परं च रामायणे च बहुवर्षसहस्राणीत्युक्तेश्च विरोध इत्यतः प्रमाणेन तत्प्रमाणं वदन्परिहरति ॥ नक्षत्रेति ॥ त्रयोदशाब्दसाहस्रसङ्ख्या तु नक्षत्रमासगणनेन मासस्य सप्तविंशतिदिनानि वा षड्विंशतिदिनानि वेति तैः । तथा पौर्णमीगणनेन मासानां तदात्म-संवत्सरैरेकादशसहस्राणीति, सङ्क्रमगणितसौरमानेन दशसाहस्रीति विवेकः । अथवा पद्मपुराणे दशसहस्रमिति पदस्य दश च संवत्सराश्च साहस्रं स्वार्थेऽण् । जात्येकवचनं च । भो पार्श्ववर्तिन् किमिति जघन्यं पक्षमाश्रितवन्तः प्रेक्षावन्तः कुतोऽणं समूहार्थे नाभ्युपगतवन्तः । समूहश्च यथा मानमानन्देनोररीकर्तुमुचितमिति चेत् । ओ कर्णाभ्यर्णमागच्छ जपामि । चित्तं स्थापय तदपवादके चित्तीत्यत्र समाधिस्तव भवतीति शतमानं भवतु भवतः शतमानेत्यनेन वाऽण् भवत्विति चेत् । क्रीतार्थे स विहितस्तेनेति साधुभिः साधूक्तमिति मतिमन् जोषमास्व । यद्वा सहस्त्रं परिमाणमस्येति साहस्त्रः सङ्घः । तदस्य परिमाणमित्यर्थे शतमानविंशतिकसहस्त्रवसनादणित्यणो विधानादिति सुधावाक्यार्थचन्द्रिकायाम् ।
ननु सहस्त्रशब्दात्तदस्य परिमाणमित्यर्थे प्राग्वतेष्ठञिति ठञि साहस्त्रिकमिति भाव्यम् । सङ्ख्याया अतिशदन्तायाः कन्निति तस्मिन्नेवार्थे कनष्ठञ्बाधकत्वात्तत्प्रसङ्गेन वर्षसहस्त्रकमिति भवितव्यं वर्षसाहस्त्रमिति तु कथमित्यतः शतमानेति तदस्य परिमाणमित्यर्थे प्राप्तठञ्कनोरपवादेनाणाविधानात्तस्मिन्सति वर्षसाहस्त्रमित्यस्योपपत्तेरित्याशयेनाह ॥ तदस्येति ॥ परिमाणमित्यर्थ इति । उपावित्यर्थः ॥ अणित्यणिति ॥ अणित्यतोऽनुवर्तमानस्याण इत्यर्थः ॥ विधानादिति ॥ सङ्ख्यायाः संज्ञासङ्घसूत्राध्ययनेष्विति सूत्रेण सङ्घेऽर्थे विधानादित्यर्थः । तथा च सहस्त्ररूपपरिमाणोपाधिके सङ्घरूपेऽर्थे सङ्ख्यावाचिनः सहस्त्रशब्दादुक्तसूत्रादण्प्रत्यये णित्वादादिवृद्धौ यस्येति चेत्यकारलोपे साहस्त्रमिति भवतीत्युक्तेस्तथाऽत्र ज्ञेयम् । सहस्त्रमपि साहस्त्रमिति द्विरूपकोशात्साहस्त्रमिति सहस्त्रपर्यायमिति वा ज्ञेयम् । मानान्तरोक्तत्रीणि सहस्त्राणि चेत्यर्थकतयैककण्ठ्यसम्भवात् । समस्तं क्षितिमण्डलं ब्रह्मलोकसमं चक्रे । सर्वेषां मुखे राम राम इति शब्दोऽभवदिति शेषः । यदा रामो राज्यमपालयत्तदा सर्वो लोको राममयो रामप्रधानकोऽभवदित्यप्यन्वयः ।
ततश्चायं श्लोकार्थः । ततो वैदेहीमहीविवरप्रवेशादूर्ध्वमनन्तरम् । लोकदृष्ट्योर्ध्वरेतस्त्वं धारयंस्तस्मादपत्नीकोऽप्यग्निहोत्रमाहरेदिति ब्राह्मणोक्तेः । काञ्चनीं सीतामित्यादिना रामायणाद्युक्तेश्चानध्वविधुरताविधुराणामिति मधुसूदनोऽन्वशिक्षयदिति ज्ञेयम् । सहस्त्रमेव साहस्त्रं त्रयोदशानामब्दानां साहस्त्रमखण्डितमग्निहोत्रमजुहोत् । मैथिलीप्रवेशानन्तरमनन्तः कियन्तं कालमवात्सीदयोध्यायां तया सहेति, ‘भूमिप्रवेशादूर्ध्वं सा रेमे सप्तशतं समा रामस्य दृश्या त्वन्येषामदृश्या जनकात्मजेत्यादिवचसा ज्ञेयम् । यदि ब्रह्मचर्यमदीधरदिदानीमेवेति प्रागपि स तादृश इत्यखण्डितता तस्याश्रयणीया हन्त तर्हि ब्रह्मचर्यमेव तद्यद्रात्रौ रत्या संयुज्यन्त इति षट्प्रश्नोपनिषदुक्तेरेवमोङ्कारेऽपि तदखण्डितता ज्ञेया । किञ्च सर्वे सुपर्वाणोऽपि चातुर्वर्ण्यभाजः का कथा काकुत्स्थस्य ब्रह्मचारित्वे ॥ १८ ॥
छलारी
रामः सीतया सह कियन्तं कालमखण्डितमग्निहोत्रं चकारेत्यत आह ॥ तत ऊर्ध्वमिति ॥ प्रभू रामः । देव्या सहेति शेषः । नक्षत्रमानेन त्रयोदशाब्दसहस्रं राज्यम् । कुर्वन्निति शेषः । अखण्डितमग्निहोत्रमजुहोत् । तदुक्तमेतत्तात्पर्ये । ‘नक्षत्रमासगणितं त्रयोदशसहस्रकम् । ब्रह्मलोकसमं चक्रे समस्तं क्षितिमण्डलम्’ इति । अतो द्वादशसाहस्रं रामो राज्यं चकारेति विष्णुपुराणविरोधो नास्ति । तस्य सौरमासाभिप्रायेण प्रवृत्तत्वादिति द्रष्टव्यम् । कथम्भूतः । तत ऊर्ध्वं सीताया भूमिप्रवेशानन्तरम् । सप्तशतवर्षाण्यज्ञानिनां ब्रह्मचर्यमूर्ध्वरेतस्त्वरूपं व्रतं धारयन्निव दृश्यमानः । तदुक्तम् ॥ ‘भूमिप्रदेशादूर्ध्वं सा रेमे सप्तशतं समा’ इति । ‘रामेण दृश्या त्वन्येषामदृश्या जनकात्मजा’ इति च ॥ १८ ॥
स्मरतां हृदि विन्यस्य बुद्धं पद्ममिवांशुकैः ।
स्वपादपल्लवं राम आत्मज्योतिरगात् ततः ॥ १९ ॥
पदरत्नावली
ततोऽयोध्याया अगाद्, वैकुण्ठमिति शेषः । अंशुकैः सूर्यकिरणैर् बुद्धं विकसितं पद्ममिव शोभमानं स्वपादपल्लवं स्मरतां पुंसां हृदि विन्यस्य निधिवन्निधाय । आत्मज्योतिः स्वप्रकाशः ॥ १९ ॥
सत्यधर्मीया
अंशुकैरेकदेवोदिततत्किरणैर्दिवाकरैश्चोद्बुद्धं प्रफुल्लं पद्ममिवेत्यभूतोपमा, माहात्म्यातिमहत्त्वलाभात् । को ब्रह्मात्माऽनिलार्केषु । अंशुर्लेशे रवौ रश्माविति विश्वौ । तथा स्मरतां भक्तानां स्वपादपल्लवं हृदि विन्यस्यात्मज्योतिः स्वप्रकाशः । ततो विधातृप्रार्थनानन्तरं ततोऽयोध्याया अगात् । आत्मज्योतिः स्वस्वरूपमगात् प्रविष्टोऽभूदिति यावत् । यद्वा स्मरणमपि न यादृक् तादृक् च स्याच्चरणपल्लवस्थापने किन्तु तदेवरूपमिति निरूपयति ॥ स्मरतामिति ॥ हृदि मनसि स्मरतां रुद्रतां विन्यस्य तदभिमानमिदमिति स्वयमनुसन्धाय स्मरतां स्थिरस्मृत्यभिमतिमदिति च चिन्तने चञ्चलं स्मरणं भवति तादृशस्मृतिमता । यथोक्तं छान्दोग्योपनिषत्तद्भाष्ययोः । स्मरो वाव आकाशाद्भूयान् । तस्याश्च वै सदाशिवः स्थिरस्मृत्यभिमानी स सममेव रतेः स्मर इति चिन्तयतामित्यर्थः । स्मरतां विधिविधित आगत आकारयितुं स्मरतां सदाशिवतां हृदि विन्यस्य निक्षिप्य तदालापलालनायात्मज्योतिरगादित्यावृत्त्याऽन्वये कथाविशेषो ज्ञापितो भवतीति वा । एकान्ते तु यदा रामश्चक्रे रुद्रेण संविदमित्यादेः । चिन्तयतामित्यादिकमनिबन्धानो निबन्धानः स्मरतामिति मतिमद्भिरेवमपि योजना कार्येति व्यासोऽनुजज्ञ इति ज्ञेयम् । आत्मज्योतिारात्मनो ज्योतिर्ज्ञानं येन तदिति । पल्लवोऽस्त्रीत्यमरः ॥ १९ ॥
छलारी
रामः स्मरतां भक्तिपूर्वकं स्मरणं कुर्वतां सतां हृदि स्वपादपल्लवं विन्यस्य तेषां सर्वदा स्वपादपल्लवध्यानं दत्वेत्यर्थः । आत्मा ज्योतिः प्रकाशं निजं धाम वैकुण्ठाख्यमगात् । रामस्य परंधामगमनानन्तरं सर्वे ध्यानासक्ता बभुवुरिति भावः । कथम्भूतं स्वपादपल्लवम् । अंशुकैः किरणैः । सूर्यस्येति शेषः । बुद्धिविकसितं पद्ममिव शोभमानम् ॥ १९ ॥
नेदं यशो रघुपतेरिह विश्वमूर्ते-
र्लीलातनोरधिकशान्तविमुक्तधाम्नः ।
**रक्षोवधो जलधिबन्धनमस्त्रपाणेः **
किं तस्य शत्रुहनने कपयः सहायाः ॥ २० ॥
पदरत्नावली
रघुपतेरिदं यशो वक्ष्यमाणलक्षणं न । किं तन्निषेध्यमिति तत्राह– रक्ष इति ॥ राक्षसवधो यः, यच्च जलधिबन्धनं तद् इदमिति । नेदं विस्मयावहमित्यत्र हेतुमाह– विश्वमूर्तेरिति ॥ तत् सृष्ट्वा तदेवानुप्राविशत्’ इति श्रुतेः । किं प्रयोजनमुद्दिश्य रघुपतिनामरूपग्रहणमित्याशङ्क्य, न किमपीत्याशयेनाह– लीलातनोरिति ॥ लीलार्था तनुर्यस्य तस्य । शरीरग्रहणेन किमपि प्रयोजनं वर्तेत इत्यत आह– अधिकेति ॥ सर्वस्मादधिकं शान्तमानन्दपूर्णं नित्यमुक्तं धाम स्वरूपं यस्य स तथा तस्य, अस्त्रपाणेर्धनुष्पाणेः श्रीरामस्य कृपयः शत्रुहनने सहाया बलभूताः किम् ? नेत्यर्थः ॥ २० ॥
सत्यधर्मीया
स्वोपरि करुणां कुर्वन् रघुपतिर्लालयित्वालापमाप स्वसद्मेति सर्वदा रामनामस्मरणरतस्मरहरहरवपुरिति च शुकः । परवशाः काकुत्स्थकुलाद्वन्द्वं श्लोकद्वन्द्वेन शरणप्रार्थनपूर्वकमुपश्लोकयति ॥ नेदमिति ॥ इह जगति रघुपते रामस्यारघवोऽलघवो महान्तश्चतुर्मुखमुखास्तेषां पतिस्तस्येति वा । इदं वक्ष्यमाणं यश इदमित्यावर्तते । इ विस्मये निपातः । इ ददातीति तत् । आश्चर्यावहं न भवति । कुत इत्यत आह ॥ विश्वमूर्तेरिति ॥ व्याप्ततनोस्तर्हि देहमिमं कुतो दध्र इत्यत आह ॥ लीलातनोरिति ॥ किञ्चिद्वर्तेत प्रयोजनं देहेहायामित्यत आह ॥ अधिकशान्तविमुक्तधाम्न इति ॥ अधिकं शान्तं सुखपूर्णं विमुक्तं विनाऽन्याधीननित्यमुक्तां वारयति रमामिति ज्ञेयम् । स्वातन्त्र्येण नित्यमुक्तं धाम स्वरूपं यस्य स तस्य । न कोपोऽपि तस्येत्याह ॥ अधिकेति ॥ अधिकं शान्तः समाधानी स इति विमुक्तं त्यक्तं धाम गृहमयोध्यादिकं येन तस्येति वा । अनेन समुद्रोपरि प्रदर्शिता कोपमुद्रा नटनमात्रमिति सूचयति । किं तद्यश इत्यतः शंसति ॥ रक्षोवध इति । जलधिबन्धनमस्त्रपाणेः । ओ प्रहरणे चाप इति विश्वः । धनुष्पाणेस्तस्य रामस्य शत्रुहनने रावणादिमारणे च कपयः सहायाः पक्षभूताः किं नेत्यर्थः ॥ २० ॥
छलारी
सदा रामनामामृतपानतृप्तः शुकाचार्यो रामकथाकथनेन संजातभक्त्युद्रेकः पुनरिदानीं संक्षेपेण तत्कथाप्रशंसां कुर्वन् शरणं प्रार्थयते । नेदं यश इति द्वाभ्याम् । अस्त्रपाणेर्घनुष्पाणेः । अस्त्रं प्रहरणं चापमित्यभिधानम् । रघुपतेर्जलधिबन्धनं रक्षसां वध इतीदृशं यशः कविभिर्बहुधा वर्णितमप्यद्भुतं न भवति । तत्र हेतुः । विश्वस्मिन्प्रपंचे मूर्तिर्यस्येति । ‘तत्सृष्ट्वा तदेवानुप्राविशत्’ इति श्रुतेः । सृष्ट्यादिकर्तुरित्यर्थः । विश्वं मूर्तौ यस्येति वा । स्वोदरस्थाशेषप्रपञ्च इत्यर्थः । तस्य लीलार्था तनुर्यस्य तस्य । सर्वस्मादधिकं शान्तमानन्दपूर्णं नित्यमुक्तं धाम स्वरूपं यस्य तस्य रघुपतेः कपयः शत्रुहनने सहाया बलभूताः किं नेत्यर्थः ॥ २० ॥
**यस्यामलं नृपसदस्सु यशोऽधुनाऽपि **
गायन्त्यघघ्नमृषयो दिगिभेन्द्रपाते ।
तन्नाकपालवसुपालकिरीटजुष्टं
पादाम्बुजं रघुपतेः शरणं प्रपद्ये ॥ २१ ॥
पदरत्नावली
न केवलं नृपसभासु गायन्ति, अपि तु दिगिभेन्द्रपाते दिग्गजानां पातः सञ्चारो यस्मिन् देशे स तथा तस्मिन् लोकालोकप्रदेशेऽपीत्यनेन सर्वत्रेत्याह । नाकपाला इन्द्रादयः । वसुपालाः कुबेरादयः ॥२१।
दुर्घटभावदीपिका
दिगिभेन्द्रपात इत्यस्य दिग्गजेन्द्रसदृशरावणपात इत्यर्थः । एतेन रावणपात इति वक्तव्ये दिगिभेन्द्रपात इति कथनमनुपपन्नमिति दूषणं परिहृतम् ॥ २१ ॥
इति श्रीभागवतटिप्पण्यां नवमोऽध्यायः ॥ ९-९ ॥
सत्यधर्मीया
यस्यामलं निर्दुष्टं मुमुक्षुयोग्यं न केवलं स्वयममलं किन्तु कीर्तयदघघ्नं यशो दिग्व्याप्तां कीर्तिं, दिक्षु यानाद्यशः प्रोक्तमिति छान्दोग्यभाष्योक्तेः । नृपसदस्सु इनसभासु गायन्ति । ऋषयो ज्ञानिनः । दिगिभेन्द्रपाते दिगिभा ऐरावतादि सुप्रतीकान्तास्तेषां पातो यत्रेतरकार्यकारित्वेन धराधारणकारणमवस्थानं तन्त्रम् । सर्वत्रेति यावत् । यशःपदार्थलभ्यार्थविवरणमिदमिति ज्ञेयम् । नाकपाल इन्द्रो वसुपालः कुबेर एतत्किरीटजुष्टपादे आ स्वसीमि्न । आङ्सीमायामिति विश्वः । सा सीमा सामीप्यम् । अम्बुजा च कमला च अम्बुजश्च ब्रह्मा चाम्बुजौ । ‘अद्भ्यः सम्भूतो हिरण्यगर्भ इत्यष्टौ’ इति श्रुतेः । अनेन न रमातामरससम्भवाग्रहन्यौन्यमिति ज्ञेयम् । न च त्रिलोचनमोचनं कुत इति वाच्यम् । साक्षात्स्वस्यैव त्र्यक्षत्वात्तत्त्यागसम्भवात् । द्वयोरेतयोः पुरस्कृतिस्त्विन्द्रजिद्वधेन महानुपकारो रामेण कारित इति स्वस्य मुक्तावुपागच्छच्छरीरशेषात्मकलक्ष्मणेन कृत इति लङ्कापहारे खिद्यत्कुबेरमनस्समाधिर्जातस्तथा पुष्पकवांश्च जातश्चेति मित्रममित्रमिति नीत्येति ज्ञेया । अकपालो नेति नाकपालः कपाली फाललोचनश्च वसुपालस्तत्सख इति च कुबेरग्रह इति वेन्द्र इत्यनुदाहरन्नुदाहरंश्च नाकपालेति योजनामेतामनुमेने ग्रन्थकृदिति ज्ञेयम् । दिगिभेन्द्रपाते आकस्मिकमेतदाद्यापदि प्राप्तायामप्यधुना गायतीति वा । एतदादिकिरीटजुष्टं च तत्पादाम्बुजं शरणं प्रपद्य इति तु सर्वजनीनाऽपि योजना ज्ञेया । जुष्टमिति पृथक् पदपाठेऽपि नास्मत्कृतार्थतासाम्भावित्यमिति कृतार्था वयम् । आ अम्बुजौ यत्र स आम्बुजः पादश्चासावम्बुजश्च तं शरणं प्रपद्य इति । तज्जुष्टश्चासौ पादश्चासावम्बुजश्च तम् । विशेषणपरनिपातः कामचारित्वात्तद्भावस्याभ्यर्हितेति । आ अम्बुजा चाम्बुजश्चेति विग्रहं कुर्वतां नः पुमांस्त्रियेत्येकशेषं भणन्पाणिनिः पाणिं जग्राहेति ज्ञेयम् ॥ २१ ॥
छलारी
दिगिभेन्द्राणां दिग्गजेन्द्राणां दिग्गजेन्द्रसदृशरावणकुम्भकर्णादीनां पाते सति । श्रीरामेण रावणादिराक्षससंहारानन्तरमिति यावत् । नृपाणां युधिष्ठिरादीनां सदःसु ऋषयो मार्काण्डेयादयो यस्य गायन्ति । तदित्यव्ययम् । तस्य रघुपतेः पादाम्बुजं शरणं प्रपद्य इत्यन्वयः । यद्वा । न केवलं नृपसभासु गायन्त्यपि दिगिभेन्द्रपाते दिग्गजानां पातः सञ्चारो यस्मिन्देशे स तथा तस्मिन् । लोकालोकप्रदेशेऽपीत्यनेन सर्वत्रेत्याह । कथम्भूताः । नाकपाला इन्द्रादयो देवा वसुपाला वसुधापालाः । यद्वा । वसुपालाः कुबेरादयस्तेषां किरीटैर्जुष्टम् ॥ २१ ॥
स यैः स्पृष्टोऽभिदृष्टो वा संवित्तोऽनुगतोऽपि वा ।
कोसलास्ते ययुः स्थानं यत्र गच्छन्ति योगिनः ॥ २२ ॥
पदरत्नावली
यैः स्पृष्टो नमनादिना । दृष्टो वा चक्षुरादिना । उपलक्षणमेतत् श्रतो वा श्रोत्रादिना । संवित्तः सम्यग् ज्ञातो वा । अनुगतः पृष्ठतो यातो वा । कोसला अयोध्यावासिन इत्युपलक्षणम् , सर्वेऽपीति ग्राह्यम् । यत्र योगिनो भक्तिज्ञानयोगवन्तो गच्छन्ति तत् स्थानं ययुरित्यन्वयः ॥ २२ ॥
सत्यधर्मीया
यैः स रामः स्पृष्टो नमनादिना दृष्टश्चक्षुरादिना संवित्तः सम्यग्ज्ञातोऽनुगतोऽनुयातस्त इत्यावर्तते कोसलास्ते कोसला इव ते स्पर्शनादिकर्तारोऽपि यत्र योगिनो यद्भक्तिज्ञानादिमन्तो गच्छन्ति तत्स्थानं ययुः ।
खगा मृगास्तृणादयः पिपीलिकाश्च गर्दभाः ।
यदाऽसुरुत्तमा यतो नृवानरास्तु किं पुनः ॥ इत्यादेः ॥ २२ ॥
छलारी
स रामो यैः । भक्तिपूर्वकमिति शेषः । स्पृष्टो नमनादिना । दृष्टो वा चक्षुरादिना । उपलक्षणमेतत् । श्रुतो वा श्रोत्रादिना संवित्तः सम्यग्ज्ञातो वाऽनुगतः पृष्ठतो यातो वा । कोसला अयोध्यावासिनः । इत्युपलक्षणम् । सर्वेऽपीति ग्राह्यम् । यत्र योगिनो भक्तिज्ञानयोगवतो गच्छन्ति तत्स्थानं ययुरित्यन्वयः ॥ २२ ॥
पुरुषो रामचरितं श्रवणैरुपधारयन् ।
आनृशंस्यपरो राजन् कर्मबन्धैर्विमुच्यते ॥ २३ ॥
पदरत्नावली
पुरुषमात्रस्य श्रद्धया श्रवणमात्रेणाऽपि रामनाम्नः कर्मवन्धमोक्षः स्यादित्याशयेनाह– पुरुष इति ॥ आनृशंस्यपरः प्रमादाद् हिंसाकर्मपरोऽपि । अनेन ‘रामो रामो राम इति सर्वेषामभवत् तदा । सर्वो राममयो लोको यदा रामस्त्वपालयत् । इति मानमसूचि ॥ २३ ॥
सत्यधर्मीया
पुरुषोऽधिकारी श्रवणै रामचरितमुपधारयन् । द्वयोरपि श्रवणयोश्चरितनावीन्येन नवीनतया पुरुरूपतेति श्रवणैरिति बहुवचनं सम्भवति । आनृशंस्यपरो मनोवागादिभिरितरहिंसामनासादयन्कर्मर्बन्धकर्मभिर्विमुच्यते । न नृशंसो नृशंससमस्तस्य भाव आनृशंस्यं तत्परस्तदासक्तो भूत्वा । आनृशंसस्य भाव आनृशंस्यम् । तत्परोऽतिहिंसकोऽपीत्यपि व्याकुर्वते ॥ २३ ॥
छलारी
भक्त्या चरितं श्रोतुः फलमाह ॥ पुरुष इति ॥ श्रवणैः । बहुवचनमाद्यर्थे । श्रोत्रादिभिरित्यर्थः । उपधारयन् श्रोत्रेण श्रवणं, मनसा ध्यानं, वागिन्द्रियेण कथनमित्यादिरूपेण भक्तिपूर्वकं धारणं कुर्वन्नित्यर्थः । आनृशंस्यपरः प्रमादेनायोग्यकर्मकरोऽपि कर्मबन्धैर्दुष्कर्मलक्षणप्रतिबन्धैः । अथवा । कर्मजन्यनानायोनिबन्धैरित्यर्थः । तस्मात्तच्छ्रवणादिकमवश्यं कार्यमिति ॥२३॥
राजोवाच—
कथं स भगवान् रामो भ्रातॄन् वा स्वयमात्मनः ।
तस्मिन् वा तेऽन्ववर्तन्त प्रजाः पौरास्त ईश्वरे ॥ २४ ॥
पदरत्नावली
तत्रैव राजा पृच्छति- कथमिति ॥ स भगवान् भ्रात्रादिषु कथं केन भावेन रामो रमयितृत्वेनावर्तत । औरसवद् यथौरसः स्वदेहोत्पन्नः पुत्रः पित्रादौ कलभाषणादिना रतिप्रदत्वेन प्रवर्तते, तथाऽयमपि केन प्रकारेण रामो रतिप्रदः प्रजास्ववर्तत । किञ्च रामो बालवत् क्रीडावान् कथं केन भावेनेश्वरोऽयमिति सर्वजनबुद्धाववर्तत । इतीदं प्रश्नत्रयं परिहर्तव्यमिति शेषेणान्वयः ॥ २४ ॥
सत्यधर्मीया
श्रुतरामचरितोऽपि राजाऽजाततृप्तिः शुकं पृच्छति ॥ कथमिति ॥ स भगवान् रामः स्वयमवर्ततेति प्रथमः प्रश्नः । आत्मनः स्वस्य भ्रातॄन् प्रति कथमवर्तत । ते भ्रातरस्तस्मिन्कथमन्ववर्तन्तेति मिलित्वैक इति द्वितीयः । प्रजाः सर्वाः प्रति कथमवर्तत स रामः । ते च पौरजना ईश्वरे कथमन्ववर्तन्तेति तृतीयः । दूरस्था अपि प्रजा रामस्वामिकग्रामभवा इति पौरा इत्युच्यन्त इति केचित्सामान्यविशेषभावमाश्रित्य समादधुः । उत्तरयेति शेषः । कथं स भगवान् रामो भ्रातृबन्धुष्ववर्तत । प्रजास्वौरसवद्रामः कथं वा राम ईश्वर इति पाठोऽपि कोशेषु दृश्यते । तस्यार्थः स कथमवर्ततेत्येकः । भ्रातृबन्धुषु भ्रातृलक्ष्मणादिषु बन्धुषु तज्जामात्रादिषु भ्रातृरूपबन्धुष्विति वा कथमवर्ततेति द्वितीयः । प्रजासु कथमवर्तत ताश्च रामे कथमवर्तन्तेति तृतीयः । मया न ज्ञातमिति नाज्ञापयेति विज्ञापयति ॥ ईश्वर इति ॥ त्वमीश्वरो वक्तुं शक्त इत्यर्थः । अहं शक्तो यद्यपि त्वं तु नोपदेशार्ह इत्यतो न तथेत्याह ॥ औरसवदिति ॥ त्वत्पुत्रवदहं शिष्योऽत उत्तरं वदेति शेषः । प्रश्नत्रितयानुयानेन रामो रामो राम इति सङ्गच्छद्वचनं स्कान्दवचनं रामो रामो राम इतीति चानुचकारेति ज्ञेयम् । औरसवदात्मापत्यानीव ताः प्रजा अन्ववर्तन्त वा कथं वेति योजयन्ति ॥२४॥
छलारी
रामकथायां विशेषजिज्ञासया राजा पृच्छति ॥ कथमिति ॥ सः रामः स्वयं सीतया सह स्वगृहे कथमवर्ततेति प्रथमः प्रश्नः । स राम आत्मनः स्वस्य भ्रातॄन्प्रति कथमवर्ततेति द्वितीयप्रश्नः । ते भ्रातरः पौराः प्रजाश्चेश्वरे रामे कथमप्रावर्तन्तेति तृतीयप्रश्नः । यद्यपि पौराः प्रजाशब्दवाच्यास्तथाऽपि ब्राह्मणपरिव्राजकन्यायेन भेदोऽवगन्तव्यः । क्रयविक्रयं कृष्यादिकं कृत्वा वैश्यवृत्त्योपजीविनः पौराः । तदन्ये पुरस्थाः प्रजा इति विवेकः ॥ २४ ॥
श्रीशुक उवाच —
अथादिशद् दिग्विजये भ्रातॄंश्च त्रिदशेश्वरः ।
आत्मानं दर्शयन् स्वानां पुरीमैक्षत सानुगः ॥ २५ ॥
पदरत्नावली
प्रथमतृतीयप्रश्नौ परिहरति– अथेति ॥ अथ राज्याभिषेकानन्तरं भ्रात्रादौ स्वाज्ञाकारित्वेनावर्तत । त्रिदशेश्वर इत्यनेन मानवेश्वरत्वं किं वक्तव्यमित्यसूचि । तेन लोकानुकरणायेयं क्रीडेति कथितमित्यर्थः । द्वितीयं परिहरति-आत्मानमिति ॥ स्वात्मसंदर्शनेन जनस्यानन्दजनकत्वेन राम इति बुद्धिं जनयामासेति भावः । पुरीनिरीक्षण च स्वभक्तानुकम्पित्वप्रदर्शनाय ॥ २५ ॥
सत्यधर्मीया
प्रथमतृतीययोरुत्तरमीरयति ॥ अथेति ॥ अथाभिषेकानन्तरं भ्रातॄन्भरतशत्रुघ्नादीन् । लक्ष्मणप्रेषणस्याश्रवणाद्बहुवचनमाद्यर्थ इति प्रागुक्तबन्धवो ग्राह्याः । ताभ्यां सह तत्प्रेषणसम्भवात् । दिग्विजये आदिशत् । एतेन स्वयं विनेता ते च विनेया इत्युक्तमुत्तरमिति । लुप्तोपमेयम् । यथा त्रिदशेश्वर इन्द्रः स्वानां सुराणां यथा विनेता ते च यथा विनेयास्तथेति । त्रिदशेश्वरः सर्वसुपर्ववर्यो यस्तस्य कियदिदं दिग्विजयनमिति सूचयति वाऽनेनेति ज्ञेयम् । स्वानां प्रजानामात्मानं दर्शयन् स्वत्वं निमित्तीकृत्यात्मप्रदर्शनेन प्रजारञ्जनं जनस्य चात्मत्वेनानुसन्धानं ध्वनयामासेति ज्ञेयम् । यः सानुगः प्राक् चित्रकूटादिशृृङ्गगतः स इदानीं सानुगोऽनुगैः सहितः सन् पुरीमयोध्यामैक्षतापश्यत् । इदमपि दययेति पौरानुवर्तनं प्रकारान्तरेणेति ज्ञेयम् ॥ २५ ॥
छलारी
तत्र प्रथमं तावत्स रामो भ्रातॄन्प्रति कथं प्रावर्ततेति द्वितीयप्रश्नस्योत्तरमाह ॥ अथेति ॥ अथ राज्याभिषेकानन्तरं त्रिभुवनेश्वरो रामो दिग्विजयार्थं भातॄन् आदिशत् । तेऽपि तदाज्ञया दिग्विजयं चक्रुरिति शेषः । तृतीयप्रश्नस्योत्तरं वक्तुं किञ्चिदाह ॥ आत्मानमिति ॥ स्वानां स्वभक्तानामात्मानं दर्शयन्वृन्दावनादागत्य श्रीकृष्ण इव रामोऽपि वनादागत्य भक्तजनानुकम्पया पुरीमैक्षत । पुरीनिरीक्षणार्थं राजमार्गेण प्रतिवीथिं चचारेति भावः ॥ २५ ॥
आसिक्तमार्गां गन्धोदैः करिणां मदसीकरैः ।
स्वामिनं प्राप्तमालोक्य मत्तां वा सुतरामिव ॥ २६ ॥
पदरत्नावली
पुरीं वर्णयति– आसिक्तेति ॥ त्रिभिः । गन्धोदैश् चन्दनादिगन्धद्रव्यमिश्रजलैः । रावणादीन् निहत्य प्राप्तं स्वामिनमालोक्य, सुतरां हर्षेण मत्तामिव, करिणां मदसीकरैर् मदजलबिन्दुभिर्वा मत्तामिव, ऐक्षतेत्यनुषङ्गः ॥ २६ ॥
सत्यधर्मीया
गन्धोदैश्चन्दनाद्युदकैः करिणां गजानां मदसीकरैर्दानोदकबिन्दुभिः प्राप्तं स्वामिनं च सुतरां मत्तामिवैक्षतेत्यन्वयः । वासितरामिवेति न सरलः पाठः । वासितरां कामोन्मत्तां गामिवेत्यर्थ इत्यर्थोऽपि विरलः ॥ २६ ॥
छलारी
पुरीं वर्णयति आसिक्तेति त्रिभिः । वाशब्दः समुच्चये । गन्धोदैर्गजानां मदसीकरैश्च मदजलबिन्दुभिश्चासिक्तमार्गाम् । कथम्भूताम् । रावणादीन्निहत्य प्राप्तं स्वामिनमालोक्य सुतरां हर्षेण मत्तां कामिनीमिव स्थिताम् ॥ २६ ॥
प्रासादगोपुरसभाचैत्यदेवगृहादिषु ।
विन्यस्तहेमकलशैः पताकाभिश्च मण्डिताम् ॥ २७ ॥
पदरत्नावली
चैत्यं पाषाणादिभिर्बद्धं वृक्षमूलस्थलम् ॥ २७ ॥
सत्यधर्मीया
पताकाभिर्विन्यस्ताभिर्मण्डितामलङ्कृताम् ॥ २७ ॥
छलारी
चैत्यं पाषाणादिभिर्बद्धं वृक्षमूलस्थानम् । देवगृहो देवालयः ॥ २७ ॥
पूगैः सवृन्तै रम्भाभिः पालिकाभिः सुवाससाम् ।
आदर्शैरंशुकैः स्त्रग्भिः कृतकौतुकतोरणाम् ॥ २८ ॥
पदरत्नावली
सवृन्तैः फलस्तबकसहितैः पूगैः क्रमुकैः, रम्भाभिः कदलीस्तम्भैः, सुवाससां सीमन्तिनीन हस्तविन्यस्ताभिरादर्शैर् दर्पणैरंशुकैर्वस्त्रैः, स्रग्भिर् मालाभिश्च, कृतानि विरचितानि कौतुकानि मङ्गलानि येषां तानि तोरणानि यस्यां सा तथा ताम् ॥ २८ ॥
सत्यधर्मीया
सवृन्तं वृन्तं प्रसवबन्धनमित्यमरः । वृन्तं प्रसवबन्धे स्याद्घटीधाराकुचाग्रयोरिति विश्वः । पालिकादिभिः साङ्कुरशरावादिभिः सुवाससां योषितां हस्तविन्यस्ताभिरादशैर्दर्पणैरंशुकैर्वसनैः स्रग्भिर्मालाभिश्च कृतकौतुकतोरणां कृतं कौतुकं येषां तानि तोरणानि बहिर्द्वाराणि यस्यां सा ताम् ॥ २८ ॥
छलारी
सवृन्तैः फलस्तबकसहितैः पूगैः क्रमुकैः । कौशेयादिसुवाससां पताकाभिः । आदर्शैर्दर्पणैरंशुकैर्वस्त्रैः कृतानि विरचितानि कौतुकानि येषु तानि तोरणानि बहिर्द्वाराणि यस्यां सा तथा । तां पुरीम् । ऐक्षतेत्यनुषङ्गः ॥ २८ ॥
तमुपेयुस्तत्र तत्र पौरा अर्हणपाणयः ।
आशिषो युयुजुर्देव पाहीमां प्राक् त्वयोद्धृताम् ॥ २९ ॥
पदरत्नावली
प्राक् वराहावतारकाले त्वया पातालादुद्धृतां, भुवमिति शेषः ॥ २९॥
सत्यधर्मीया
एवमायान्तं राममर्हणपाणयः पौरास्तत्र तत्र वीथिषूपेयुः । आगतेषु वृद्धा आशिषश्च युयुजुः । तदेवमित्यावेदयति ॥ देवेति ॥ हे देव प्राग्वराहावतारे त्वयोद्धृतां महीमिति शेषः । पाहि रक्षेति ॥ २९ ॥
छलारी
पौराणां तस्मिन्प्रवृत्तिमाह ॥ तमुपेयुरिति ॥ प्राक् वराहावतारे त्वया पातालादुद्धृताम् । भूमिमिति शेषः । पाहीति शेषः । मङ्गलवचनानि युयुजुः ॥ २९ ॥
तं ताः प्रजा वीक्ष्य पतिं चिरागतं दिदृक्षयोत्सृज्य गृहान् स्त्रियो नराः ।
आरुह्य हर्म्याण्यरविन्दलोचनं नतृप्तनेत्राः कुसुमैरवाकिरन् ॥ ३० ॥
सत्यधर्मीया
स्त्रियो नराश्चेति प्रजाः । हर्म्याणि प्रासादान् । नतृप्तनेत्रा नसमासः ॥ ३० ॥
छलारी
प्रजानां तस्मिन्प्रवृत्तिमाह ॥ तमिति ॥ अनेन श्लोकद्वयेन पौराः प्रजाश्च कथं वर्तन्तेति तृतीयप्रश्नस्योत्तरमुक्तं भवति । नतृप्तनेत्रा नसमासोऽयम् ॥ ३० ॥
अथ प्रविष्टः स्वगृहं जुष्टं स्वैः पूर्वराजभिः ।
अनन्तगृहकोशाढ्यमनर्घ्योरुपरिच्छदम् ॥ ३१ ॥
सत्यधर्मीया
अनन्तगृहाणि चाम्बरचुम्बिमन्दिराणि चावान्तरागाराणि कोशाश्च धननिधानधामानि च तैराढ्यम् । अनन्तानि बहूनि गृहाणि तेषु कोशा ये तैराढ्यमिति वा । अनर्घ्या उरवो बहवः परिच्छदा यस्मिंस्तत् । पूर्वराजभिः पूर्वराजैः । पूर् व इति पदद्वयं पूः, व यथा प्रविष्टा तथा राजभिर्जुष्टं स्वगृहं प्रविष्ट इति वा ॥ ३१ ॥
छलारी
रामः स्वयं सीतया सह कथमवर्ततेति प्रथमप्रश्नस्योत्तरमाह ॥ अथेति ॥ स्वगृहं प्रविष्टः सन् तस्मिन् सीतया सह रेमे इति पञ्चमेनान्वयः । गृहं वर्णयति । जुष्टमित्यादिना भूषणैरित्यन्तेन । पूर्वराजभी रघ्वादिभिः । समासान्तविधेरनित्यत्वात् पूर्वराजभिरिति साधु । अनन्ता अपरिमिता गृहा अनन्तगृहा नवरत्नानां कोशाश्च तैराढ्यम् ॥ ३१ ॥
विद्रुमोदुम्बरद्वारैर्वैदूर्यस्तम्भपङ्क्तिभिः ।
स्थलैर्मारकतैः स्वच्छैर्भातं स्फटिकभित्तिभिः ॥ ३२ ॥
पदरत्नावली
विद्रुमैरुदुम्बरैस्तामैः कृतद्वारैः । तामं्र शुल्बमुदुम्वरम् इत्यभिधानम् । भातं शोभितम् ॥ ३२ ॥
सत्यधर्मीया
विद्रुमोदुम्बरद्वारैर्विद्रुमात्मकाश्च तदात्मकानि चैकशेषेण नपुंसकमनपुंसकेनेति तान्युदुम्बरा देहलयो द्वाराणि च तैः । उदुम्बरस्तु देहल्यां वृक्षजातौ तु पण्डके इति विश्वः । वैदूर्यस्तम्भपङ्क्तिभिः । वालवाये भवं वैदूर्यं विदूराज्जो वालवायो विदूरं स्याद्वैदूर्यं वालवायजमित्यमरः । मारकतैर्मरकतमणिखचितैः । भित्तय उत्तानदारुलग्नाः ॥ ३२ ॥
छलारी
विद्रुममया उदुम्बरा देहल्यो येषु द्वारेषु तैर्द्वारैः स्वच्छैर्मारकतैरिन्द्रनीलमणिमयैः स्थलैः स्फटिकभित्तिभिश्च भातम् ॥ ३२ ॥
चित्रस्रग्भिः पट्टिकाभिर्वासोमणिगणांशुभिः ।
मुक्ताफलैश्चिदुल्लासैः कान्तकामोपपत्तिभिः ॥ ३३ ॥
पदरत्नावली
पट्टिकाभिर्वितानैः ॥ ३३ ॥
धूपदीपैः सुरभिभिर्मण्डितैः पुष्पमण्डकैः ।
स्त्रीपुंभिः सुरसङ्काशैर्जुष्टं भूषणभूषणैः ॥ ३४ ॥
पदरत्नावली
भूषणानामपि भूषणभूतैः ॥ ३४ ॥
सत्यधर्मीया
पट्टिका वितानाः । वासोभिस्तत्र बद्धैर्वस्त्रैर्मणिगणानामंशवो दीप्तयस्तैश्चिदुल्लासैरिति योग्यसर्वान्वयि । चिता स्वज्ञानमात्रेणावलोकनमात्रेणेति यावत् । उल्लासो विलोकयितॄणां यैस्ते तानिति वा तैः । कान्तकामोपपत्तिभिः कान्तः श्रीकान्तो रामस्तस्य कामा इच्छाविषयास्तेषामुपपत्तिः सम्पत्तिर्यैस्तैश्चित्रेत्यादीकृत्य मण्डकान्तपदैर्मण्डितमित्यखण्डितमन्वेति । स्त्रीपुम्भिः स्त्रीभिः सहिताश्च ते पुमांसश्च तैः । सुरसङ्काशैरमरसमैर्भूषणभूषणैर्भूषाणानां भूषणं यैस्तैर्जुष्टम् ॥ ३३,३४ ॥
छलारी
वाससां देदीप्यमानसुवर्णवाससां मणिगणानां चांशुभिर्दीप्तिभिश्चिच्छुद्धचैतन्यं तद्वदुल्लासैरुज्वलैर्मुक्तामणिभिर्मण्डितम् । यद्वा । चिदिति व्यस्तं पदम् । चित्क्वचिद्वैदूर्यस्तम्भादिषु यथा शोभमुज्वलैर्मुक्ताफलैर्मण्डितमित्यर्थः । कान्ताः कमनीयाः कामोत्पत्तय उपभोगसाधनानि ताभिः । पुष्पसमूहैर्मण्डितैः स्त्रीपुंभिर्जुष्टम् । पुनः कथंभूतैः । भूषणानां भूषणभूतैः ॥ ३३,३४ ॥
तस्मिन् स भगवान् रामः स्त्रिग्धया प्रिययेष्टया ।
रेमे स्वारामचाराणामृषभः सीतया सह ॥ ३५ ॥
पदरत्नावली
स्वारामा शोभनोद्यानानि तत्र चारो सञ्चारो येषां देवादीनां ते स्वारामचाराः, तेषामृषभः । निरन्तरं चारुतरोद्यानेषु सञ्चरतामीश्वर इत्यनेनातीवसौख्यं सूचयति । अनेनापि सीतावियोगो नास्तीत्युक्तं भवति । किञ्च सीतया नित्यरमणात् स्वयं सुखरूपत्वात् प्रजानां सुखहेतुत्वात् सर्वजनचित्तनिलयत्वेन । राम इति भावः ॥ ३५ ॥
इति श्रीमद्भागवतटीकायां विजयध्वजतीर्थभिक्षुकृतायां नवमस्कन्धस्य नवमोऽध्यायः ॥
सत्यधर्मीया
तस्मिन्नगरे प्रीतिमत्या स्निग्धया भार्यया स्वयमपि तस्यां तथेत्याह । इष्टया स्वस्य प्रियया सीतया सह रेमे इति । तथापि ‘असङ्गो ह्ययं पुरुषः’ इति बोधयितुमेतदधिप इति वक्ति । स्वारामचाराणामत्यन्तवनसञ्चारिणां तपस्विनामिति यावत् । ऋषभः श्रेष्ठ इति ॥ ३५ ॥
छलारी
स्निग्धया स्वस्मिन्भक्तियुक्तया प्रियया भार्येच्छया इच्छानुसारिण्या सीतया सह रेमे । कथम्भूताः । स्वारामाः शोभनोद्यानानि तत्र चारः सञ्चारो येषां देवादीनां तेषाम् ऋषभः ॥ ३५ ॥
बुभुजे च यथाकामं कामं धर्ममपीडयन् ।
वर्षपूगान् बहून् नॄणामभिध्येयाङ्घ्रिपल्लवः ॥ ३६ ॥
इति श्रीमद्भागवते नवमस्कन्धे नवमोऽध्यायः ।
सत्यधर्मीया
धर्ममपीडयन्विहितमप्रतिहतं कुर्वन्नृणामभिध्येयोऽङ्घ्रिपल्लवो यस्य सः । कृत्यानां कर्तरि चेत्युक्तेर्युक्ता षष्ठी ॥ ३६ ॥
इति श्रीसत्यधर्मयतिकृतायां भागवतटिप्पण्यां
नवमस्कन्धे नवमोऽध्यायः ।
छलारी
निरन्तरमप्यनुरोधेषु सञ्चरतामीश्वर इत्यनेनातीवसौख्यं सूचयति । यथाकालं विहितकालमनतिक्रम्य कामान् बुभुजे । अन्यांस्त्रिवर्गान् । यद्वा । स्वभोगार्थमन्यान् जनान्नृणां नृभिरभिध्येयमङ्घ्रिपल्लवं यस्य ॥ ३६ ॥
इति श्रीछलारी शेषाचार्यकृतायां भागवतटिप्पण्यां नवमस्कन्धे नवमोऽध्यायः ॥ ९-९ ॥