०८ अष्टमोऽध्यायः

हरितो रोहितादासीच्चम्पस्तस्माद् विनिर्मिता

॥ अथ अष्टमोऽध्यायः ॥

श्रीशुक उवाच—

हरितो रोहितादासीच्चम्पस्तस्माद् विनिर्मिता ।

चम्पापुरी सुदेवोऽतो विजयो यस्य चात्मजः ॥ १ ॥

पदरत्नावली

तस्मात् हरिताच्चम्पः । तस्माच्चम्पान्निर्मिता पुरी चम्पा नाम । अतश्चम्पात् । यस्य सुदेवस्य ॥ १ ॥

सत्यधर्मीया

रोहिताद्धरितस्तन्नामा । तस्माद्धरितात् । तस्मादित्यावर्तते । तस्मा-च्चम्पादत एतस्माच्चम्पादिति वा । चम्पापुरी तन्नाम्नी नगरी विनिर्मिता । सुदेवः । यस्य सुदेवस्यात्मजो विजयः ॥ १ ॥

छलारी

हरिश्चन्द्रस्य वंशं कथयति ॥ हरित इति ॥ रोहिताद्धरिश्चन्द्रपुत्रात् । तस्मा-द्धरितात् । चम्प आसीत् । तस्माच्चम्पात् । चम्पापुरी निर्मिता । अतश्चम्पात्सुदेवः । यस्य सुदेवस्य ॥ १ ॥

तरुकस्तत्सुतस्तस्माद् वृकस्तस्यापि बाहुकः ।

सोऽरिभिर्हृतराज्यस्तु सभार्यो वनमाविशत् ॥ २ ॥

पदरत्नावली

स बाहुकः ॥ २ ॥

सत्यधर्मीया

तत्सुतो विजयजस्तरुकः । तस्माद्वृकस्तस्य वृकस्य बाहुकः ॥ २ ॥

छलारी

तत्सुतो विजयसुतः । स बाहुकः ॥ २ ॥

वृद्धं तं पञ्चतां प्राप्तं महिष्यनुमरिष्यती ।

और्वेण जानताऽऽत्मानं प्रजावन्तं निवारिता ॥ ३ ॥

पदरत्नावली

अनुमरिष्यती सहगमनं कर्तुमिच्छन्ती । प्रजावन्तं पुत्रवन्तं तस्या आत्मानं देहं जानता । इयमन्तर्वत्नीति यावत् । ज्ञानिनौर्वेण ऋषिणा निवारिता ॥ ३ ॥

सत्यधर्मीया

तं वृद्धं पञ्चताम् । प्रपञ्चितं प्राक् । मृतिं प्राप्तं गतम् । महिषी शीर्षाभि-षिक्ता अनु तमनु मरिष्यती मरणं कर्तुमिच्छती । आत्मानं देहं प्रजावन्तं जानता ज्ञानवता । इयं गर्भिणीति ज्ञानिनेत्यर्थः । और्वेण तन्नामकेन मुनिना वारिता निवारिता ॥३॥

छलारी

अनुमरिष्यती सहगमनं कर्तुमिच्छती । प्रजावन्तं पुत्रवन्तं तस्या आत्मानं देहं जानता । ज्ञानिनौर्वेण ऋषिणा निवारिता ॥ ३ ॥

आज्ञायास्यै सपत्नीभिर्गरो दत्तोऽत्र साहसः ।

सह तेनैव सञ्जातः सगराख्यो महायशाः ॥ ४ ॥

पदरत्नावली

अत्र गर्भे पुत्रमाज्ञाय सपत्नीभिरस्यै बाहुकपत्न्यै, सहसा हन्तीति साहसो गरो दत्त इत्यन्वयः । तेन विषेण सह सञ्जातोऽतः सगराख्यः ॥ ४ ॥

दुर्घटभावदीपिका— साहस इत्यस्य साहसा परलोकं गमयितेत्यर्थः । सहसेति शब्दो-पृपदण्यन्तात्सृगतावित्यस्माड्डु प्रत्यये टि लोपे छान्दसे सेत्यस्य लोपे सेति हस्वस्य दीर्घे साहसेति रूपं निष्पन्नमित्यभ्युपगमात् ॥ ४ ॥

सत्यधर्मीया

गरः । गरं विषे च करणे गरमिति विश्वः । सया हिंसया सह वर्तत इति सहसः स एव साहसः । तत्क्षणे मारक इति यावत् । कवयितुश्च हसस्य हासस्याभावो अहसः दुःखं तन्मात्रेण सहितस्तत्काले न तु हिंसक इत्यान्तरङ्गिको भाव इति ज्ञेयम् । कार्यानुकूल्या-दिति तेन सपत्नीदत्तगरेण सहैव सञ्जात इति सगर इत्याख्या नाम यस्य स तथा ॥ ४ ॥

छलारी

आज्ञाय गर्भे पुत्रं सम्यक् ज्ञात्वाऽस्यैव बाहुकभार्यायै सहसा हन्तीति साहसस्तेन विषेण सह संजातोऽत एव सगराख्यः ॥ ४ ॥

सगरश्चक्रवर्त्यासीत् सागरो यत्सुतैः कृतः ।

यस्तालजङ्घान् यवनाञ्छकान् हैहयबर्बरान् ॥ ५ ॥

पदरत्नावली

यस्य स्यादाज्ञया पृथ्वी चक्रवर्ती स ईर्यते इत्युक्तेश् चक्रवर्ती । सगरपुत्राः सागरास्तैः कृतत्वात् सागर समुद्रः । सगरस्य प्रभावमाह– य इति ॥ तालजङ्घादयो द्वीपान्तर-वासिनो दुष्टयवना निर्देश्याः ॥ ५ ॥

सत्यधर्मीया

यस्य स्यादाज्ञया पृथिवी चक्रवर्ती स इत्युक्तेश्चक्रवर्ती । यत्सुतैः कृत इत्यब्धिः सागरस्तच्छब्दवाच्यः । सगरस्येमे सागरास्तेषामयं सागर इति निरुक्तिः सूचिता । येन मुख्येन प्रयोजकेन सुतैः करणैः कृत इति सगरस्यायं सागर इति वा । प्राक् स सूक्ष्मोऽभूदिमे स्थूलं कृतवन्त इति भावः । यः सगरः । दुर्यवनादिभेदमाह नामतस्तालजङ्घानित्यादिना ॥५॥

छलारी

सागरः समुद्रः पूर्वं सूक्ष्मो यत्सुतैः स्थूलः कृतः । सगरस्य प्रभावमाह ॥ य इति ॥ तालजङ्घादयो दुष्टा यवनाः । म्लेंछविशेषाः ॥ ५ ॥

नावधीद् गुरुवाक्येन चक्रे विकृतवेषिणः ।

मुण्डान् श्मश्रुधरान् कांश्चिन्मुक्तकेशार्धमुण्डितान् ॥ ६ ॥

पदरत्नावली

पामरान् मा वधीरिति गुरोर्वाक्येन ॥ ६ ॥

सत्यधर्मीया

गुरुरौर्वः । विकृतवेषिणश्चक्रे । तमेव वेषमाह ॥ मुण्डानित्यादिना किमेभिर्दुर्बलैश्चिह्नमात्रं कृत्वा त्यज राजन्निति गुरुवाक्येनेति भावः ॥ ६ ॥

छलारी

गुरुवाक्येनौर्ववचनेन । कांश्चिदहत्वैव विकृतवेषिणश्चक्रे । तदेवाह । मुण्डान् श्मश्रुधरानिति । अर्धप्रदेशे युक्तकेशान् अर्धमुण्डितांश्चेति ॥ ६ ॥

अनन्तर्वाससः कांश्चिदबहिर्वाससोऽपरान् ।

सोऽश्वमेधैरयजत् सर्ववेदसुरात्मकम् ॥ ७ ॥

पदरत्नावली

अनन्तर्वाससोऽन्तर्वस्त्रशून्यान् । अबहिर्वाससः । बहिरुत्तरीयरहितान् । सर्ववेदसुरात्मकं सर्ववेदप्रतिपाद्यं, सर्वदेवस्वामिनं च ॥ ७ ॥

सत्यधर्मीया

अनन्तर्वाससोऽन्तर्वस्त्रहीनान् । तथा बहिर्वाससो बहिरौत्तरीयरहितान् चक्र इत्यन्वयः । अद्यापि तत्तद्देशे ते ते, तथा वर्तध्वमित्याज्ञप्तास्तथैव वर्तन्त इति भावः । सर्ववेदसुरात्मकं वेदप्रतिपाद्यं देवस्वामिनं च ॥ ७ ॥

छलारी

अनन्तर्वाससोऽन्तःपरिधानवस्त्रशून्यान् । नग्नानिति यावत् । अबहिर्वासस आवरणवस्त्ररहितान् । सः सगरो सर्ववेदसुरात्मकं सर्वे वेदाः सर्वे सुराश्चात्मा देहः प्रतिमा यस्य तमात्मानं सर्वस्वामिनम् ॥ ७ ॥

और्वोपदिष्टयोगेन हरिमात्मानमीश्वरम् ।

तस्योत्सृष्टं पशुं यज्ञे जहाराश्वं पुरन्दरः ॥ ८ ॥

पदरत्नावली

उत्सृष्टं मन्त्रयित्वा भूप्रदक्षिणार्थं प्रेषितम् ॥ ८ ॥

सत्यधर्मीया

आत्मानं विषविषमीकरणेनात्मनो अनाः प्राणा येन तमीश्वरं हरिमौर्वेप-दिष्टयोगेन वाऽश्वमेधैरयजदपूजयत् । पशुमश्वमुत्सृष्टं मन्त्रयित्वा देशप्रदक्षिणार्थं त्यक्तं यज्ञे तदर्थं पुरन्दरो जहार । अनेन शतमन्योः शतमन्युसङ्कल्पजो मन्युस्तेनायं हयापहार इति ध्वन्यते

॥ ८ ॥

छलारी

और्वोपदिष्टयोगेन ज्ञानेनायजत् । उत्सृष्टं भूप्रदक्षिणार्थं प्रेषितम् ॥ ८ ॥

सुमत्यास्तनया दृप्ताः पितुरादेशकारिणः ।

हयमन्वेषमाणास्ते समन्तान्न्यखनन् महीम् ॥ ९ ॥

पदरत्नावली

सगरस्य सुमतिः केशिनीति द्वे भार्ये । तत्र सुमतिर्गरुडस्य स्वसा, तस्याः षष्ठिसहस्रपुत्राणां प्रभावमाह– सुमत्या इति ॥ ९ ॥

सत्यधर्मीया

तस्य द्वे भार्ये । सुमतिरिति वनितासुतैकैका च केशिनीति । तत्र सुमत्या दृप्तास्तनयाः पितुः सगरस्यादेशकारिण आदेशमाज्ञां कुर्वन्तीति ते तथा हरिहयनीतं हयमन्वेष-माणा मार्गयन्तो महीं समन्तान्न्यखनन् खातवन्तः ॥ ९ ॥

छलारी

सगरस्य सुमतिः केशिनीति द्वे भार्ये । तत्र ज्येष्ठपत्न्याः षष्ठिसहस्रपुत्राणां प्रभावमाह ॥ सुमत्या इति ॥ दृप्ता उच्छृङ्खलाः ॥ ९ ॥

प्रागुदीच्यां दिशि हयं ददृशुः कपिलान्तिके ।

एष वाजिहरश्चोर आस्ते मीलितलोचनः ॥ १० ॥

सत्यधर्मीया

प्रागुदीच्यामीशान्यां कपिलस्य श्रीहरेरन्तिके मीलितलोचनः किमप्य-कुर्वन्निव मीलिते लोचने यस्य सः । तपश्चरणव्यपदेशेनास्त इति यावत् ॥ १० ॥

छलारी

प्रागुदीच्यामीशान्याम् ॥ १० ॥

हन्यतां हन्यतां पाप इति षष्ठिसहस्त्रिणः ।

उदायुधा अभिययुरुन्मिमेष तदा मुनिः ॥ ११ ॥

पदरत्नावली

षष्ठिसहस्रसङ्ख्या येषामस्तीति षष्ठिसहस्रिणः । इति ब्रुवन्त इति शेषः । उन्निमेषं नेत्रविकासं कृतवान् ॥ ११ ॥

सत्यधर्मीया

षष्टिसहस्त्रिणः षष्टिसहस्त्रं सङ्ख्यापरिच्छेदकं येषामस्ति ते तथा । यदोदायुधाः सन्तोऽभिययुस्तदा मुनिर्यावदुन्मिमेष नेत्रे विकासयामास ॥ ११ ॥

छलारी

षष्टिसहस्रसङ्ख्या येषामस्तीति षष्टिसहस्रिणः सुमत्यास्तनयाः । इति ब्रुवन्त इति शेषः । उन्मिमेष नेत्रं विकासं कृतवान् ॥ ११ ॥

स्वशरीराग्निना तावन्महेन्द्रहृतचेतसः ।

महद्व्यतिक्रमहता भस्मसादभवन् क्षणात् ॥ १२ ॥

पदरत्नावली

स्वशरीरस्थाग्निना तावत् क्षणाद् भस्मसादभवन्नित्यन्वयः । महेन्द्रेण हृतं चेतो येषां ते तथा मुग्धा इत्यर्थः । महतो व्यतिक्रमेण, चोरो हन्यतामित्यादिवचनलक्षण-स्वापराधेनैव हता नृपपुत्राः । न तु मुनिकोपदग्धा इत्यर्थः ॥ १२ ॥

सत्यधर्मीया

महेन्द्रहृतचेतसो महेन्द्रेण हृतं चेतो येषां ते तथा मोहं प्रापिता इत्यर्थः । महव्द्यतिक्रमहता महतो हरेर्व्यतिक्रमश्चोरोऽयं हन्यतां हन्यतामित्यादिदुरुक्तिलक्षणोऽपराधस्तेन हताः स्वशरीरस्थेनैवाग्निना तावत्क्षणाद्भस्मसाद्गतास् तदधीना अभवन् ॥ १२ ॥

छलारी

स्वशरीराग्निना क्षणाद्भस्मसादभवन्नित्यन्वयः । तावत्तत्काल एव । महेन्द्रेण हृतं चेतो येषां ते तथा मुग्धा इत्यर्थः । महद्व्यतिक्रमेण हन्यतामित्यादिवचनलक्षणस्वापराधेनैव हता न तु मुनिकोपदग्धा इत्यर्थः । केचित्तु कपिलस्य कोपाग्निना दग्धा इति वदन्ति ॥ १२ ॥

न साधुवादो मुनिकोपभर्जिता नृपेन्द्रपुत्रा इति सत्वधामनि ।

कथं तमो रोषमयं विभाव्यते जगत्पवित्रात्मनि खे रजो भुवः ॥१३॥

पदरत्नावली

केचित्तु कपिलस्य कोपाग्निना दग्धा इति वदन्ति । तन्निराकरोति– न साधुवाद इति ॥ नृपेन्द्रपुत्रा मुनिकोपभर्जिता इत्ययं साधवादो न भवति असम्भवात् । कथमिति तत्राह– सत्वधामनीति ॥ शुद्धस्फटिकविशदज्ञानमूृर्तौ श्रीकपिलदेवे रोषमयं तमः कथं विभाव्यते सम्भाव्यते? न कथमपि । किञ्च जगत्पवित्रीकरणसमर्थस्वभावे । ‘आत्मा जीवे धृतौ देहे स्वभावे परमात्मनि’ इति यादवः । असम्भावनायां दृष्टान्तः– खे रज इति ॥ न साधुवाद इत्यतो नञस् तन्त्रान्वयः । न इवार्थे । ‘चक्रं न वृत्तम्’ इत्यादिवेदे दृष्टत्वात् । न यथा भुवो रजः पार्थिवो धूलिः खे सम्भावितस् तथा क्रोधो माधवेऽसम्भावित इति भावः ॥१३॥

सत्यधर्मीया

यद्यप्यतीतपद्ये तत्सदवद्यत्वेन विवरं वितरितं मया तत्प्रत्तचित्तानां कश्चिदविपश्चिदनवधानमानसः सोऽपि कपिलकोपोपतापिता नृपसुता इति मनुयात्तनुयाच्च स्वं सैनसमिति तदुद्दिधीर्षुर्ऋषिः स्वयमेव विशदमुपदिशति ॥ नेति ॥ मुनिः कपिलस्तत्कोप-लक्षणाशुशुक्षणिस्तेन भर्जिता नृपेन्द्रस्य सगरस्य पुत्राः षष्टिसहस्त्रमिति साधुवादस्तत्स्वरूप-वेदितृवादो न भवति । कुत इत्यत आह ॥ सत्त्वधामनि बलज्ञानसमाहारमूर्ताविति ॥ रोषमयं तमो रोषप्रापकमज्ञानं कथं विभाव्यतां रोषस्य मय आगमनं येन तत्तम इति । अयं साधुवादो नेत्यन्वयः । अरोषमराणां दोषाणामुषो दाहो यथा भवति तथाऽयं विभाव्यते । तस्मिन्सत्त्वधामनि तमः कथं विभाव्यत इति वा । निमित्तान्तरमप्याह ॥ जगत्पवित्रात्म-नीति ॥ जगत्पवित्रयतीति स तथा । आत्मा स्वभावो यस्य तस्मिन् । न साधुवाद इत्यत आवृत्तो नञ् इवार्थे मुनिकोपभर्जिता इवेति साधुवाद वा तदन्वयः । वस्तुतस्तु स्वपापभर्जिता नैतत्कोपत इति तदर्थः । चक्रं न वृत्तमिति यथा । यद्वा खे भुवस्तत्सम्बन्धि रजो धूलिर्न यथाऽसम्बद्धं तथा क्रोधो माधवेऽसम्भावित इति । ननु नेति प्रतिषेधार्थो भाषायाम् । उभयमन्वध्यायम् । नेन्द्रं देवममंसतेति प्रतिषेधार्थीयः पुरस्तादुपचारस्तस्य यत्प्रतिषेध इति । दुर्मदासो न सुरायामित्युपमार्थो य उपरिष्टादुपचारस्तस्य येनोपमीयत इति यास्कनिरुक्तेः पूर्वतनस्य नेत्यस्य भाषायां प्रतिषेधार्थता । परतः प्रयुज्यमानस्य तत्पदार्थप्रतियोगिकसादृश्य-प्रतिषेधोभयार्थता भाषायामिति ज्ञायते । तत्कथं नैरङ्कुश्येन यत्रकुत्रत्यस्य सम्बन्धमङ्गी-कृत्येवार्थकता वर्ण्यत इति चेत् । सत्यम् । भोसयुथ्यछन्दस्त्वेन यथा स्वच्छन्दमन्वयसम्भवात् । यथोक्तं कर्मनिर्णयगतार्भको न कुमारक इत्यृग्भाष्ये कुमारक इवेति तट्टीकायां च मा भूत्स्थितशब्दाध्याहार इति प्रकारान्तरेण व्याचष्टे ॥ कुमारक इवेति ॥ शिशुरिव । यद्यपि परं नेति पदमिवार्थे प्रसिद्धं तथाऽपि क्वचित्पूर्वस्यापि भवति । सर्वे विधयश्छन्दसि विकल्प्यन्त इति वचनात् । अस्मिन्पक्षे न वाऽधिष्ठानवचनेन पूर्वपरित्यागोऽर्थात्सिद्ध इति । एतेनैव वयो-नवसनीरूपपक्षिणो वसतीर्यद्वत् सहवत्सा धेनुर्धेनुर्न न धेनुरिवेत्यादि ऋग्भाष्यादिटीका-टिप्पणादिकमुक्तव्याकर्तव्यगतिकम् । भक्तिपादीयखलेनपर्षान्प्रतिहन्मि भूरि किंमानिन्दन्ति शत्रवोऽनिन्द्रा इत्यनुव्याख्याव्याख्यासुधावाक्यार्थचन्द्रिका तु सम्भवदन्वयं नञमुत्तरं गृहीत्वा टीकोक्तं क्वचित्पदमिव च प्रसिद्धमुपजीव्य प्रवृत्तेति नैतद्विसंवादिनीति ज्ञेयम् । भोः पर, न तु तनुतरं तव मनः । यद्व्याचकार तावकीनो माधवोऽष्टमाष्टकपञ्चमाध्यायद्वितीयवर्गगता अत्रसन्रथ-स्पृशो नाश्वा रथे नियुक्ता अश्वा इव । ते यथा पलायन्त इति ।

तत्सादृश्यमभावश्च तदन्यत्वं तदल्पता ।

अप्राशस्त्यं विरोधश्च नञर्थाः षट् प्रकीर्तिताः ।

इति कारिका न भाषा भाषा विवेक्री नपूर्वत्रोत्तरत्रेति च विवेक्री किन्तूदास्त इति यथा-यथमन्वयार्थौ सम्भवत इति काऽत्र कथन्ता । लुप्तोपमा वा । केचित्तु तमःशब्दस्य तमोगुण-वाचकतामभ्युपेत्य तत्र ‘काम एष क्रोध एष रजोगुणसमुद्भव’ इति गीताविरोधमुद्भाव्य तद्रजो-गुणाभिरञ्जिततमोगुणरञ्जिताङ्गीकरणेन तमपनिन्युः । तत्रान्यथा महापाप्मत्वात्मतायास्तमः-कार्यभूताया अनिरूपणीयता स्यादिति युक्तिरुपन्यस्ता तैरिति ज्ञेयम् ॥ १३ ॥

छलारी

तन्निराकरोति ॥ नेति ॥ कुत इत्यत आह ॥ सत्त्वधामनीति ॥ सत्त्वं निर्दोषत्वं तस्य धामन्याश्रये । सत्त्वादिगुणशून्ये भगवति । रोषमयं क्रोधमयं तमस्तमोगुणकार्यं कथं विभाव्यते सम्भाव्यते । असम्भावनायां दृष्टान्तो भुवो रजः कथं खे सम्भाव्यत इति । ननु तमो रोषमयमिति क्रोधस्य तमोगुणजन्यत्वमित्युच्यते । तदयुक्तम् । ‘काम एषः क्रोध एष रजोगुणसमुद्भवः’ इति गीतायां रजोगुणजन्यत्वोक्तेस्तद्विरोधादिति चेन्न । क्रोधस्य रजोगुण-प्रविष्टतमोगुणजन्यत्वाङ्गीकारात् ॥ १३ ॥

यस्येरिता साङ्ख्यमयी दृढेह नौर्यया मुमुक्षुस्तरते दुरत्ययम् ।

भवार्णवं मृत्युपथं विपश्चितः परात्मभूतस्य कथं पृथङ्मतिः ॥ १४ ॥

पदरत्नावली

इतोऽपि तमोगुणकार्यस्य कोपस्य हरावनवसर इत्याशयेनाह– यस्येति ॥ इह जगति सदनुग्रहाय यस्य येनेरिता ग्रन्थरूपेण कथिता, दृढा अपेक्षितफलदानाय समर्था अन्यत्र नूतनत्वेन बलिष्ठा, साङ्ख्यमयी शुद्धज्ञानमयी नौस्तरी । यया ज्ञाननावा मुमुक्षुर् मृत्युपश्च मृत्योर्मार्गं दुरत्ययं ज्ञाननावमन्तरेणात्येतुमशक्यं भवार्णवं तरते तस्य परमात्मभूतस्य साक्षा-न्नारायणावतारस्य विपश्चितः शुद्धज्ञानवतः श्रीकपिलस्य, पृथङ्मती रोषरूषिता मतिः कथं सम्भाव्यते इत्यन्वयः ॥ १४ ॥

सत्यधर्मीया

कैमुत्येनाज्ञानहैन्यमाह ॥ यस्येति ॥ यस्य येनेरिता साङ्ख्यमयी शुद्धात्मतत्त्वविज्ञानप्रापिकेति । तथा ग्रन्थरूपिणी सैवेह दृढा नौस्तरिः । यया मुमुक्षुरधिकारी दुरत्यय मेतामतिहायातार्यं भवार्णवं संसारसागरं मृत्युमार्गं तरते तरति । तस्य विपश्चितो ज्ञानात्मकस्य परात्मभूतस्य सकलजीवस्वामिनः पृथङ्मतिर्मतेः सुमतेः पृथग्भूता मतिरमतिः कथं विभाव्यते । तमोऽमतिरिति वाऽवदन्वदंश्च पृथङ् मतिरिति भिन्ना यन्न मतिर्विभौ भावयितुं योग्या कथा का दुर्मतिर्न विभाव्येति ध्वनयामास । एवं धर्मानित्यादेर् यो मुमुक्षुर्मृत्युपथं भवार्णवम् । हे य यतस्त्वं तर ते इयं दृढा नौः कदाऽपि न मग्ना भग्ना वा भवती तरी या इतरास्तर्यः कदाचि-दत्ययं नाशं स्वविशरणेनाशरणे सत्यदुर्दत्तवत्यः । इयं न तथेति दृढेत्यनेन सूचयति । यो यातरि च दातरीति रत्नकोशो विश्वोऽप्येवम् । यातेर्डः ॥ १४ ॥

छलारी

इतोऽपि तमोगुणकार्यस्य कोपस्य हरावनवसर इत्याशयेनाह ॥ यस्येति ॥ येन कपिलेन हरिणा साङ्ख्यमयी ज्ञानमयी । नौर्यया ईरिता ग्रन्थरूपेण कथिता साङ्ख्यशास्त्रं कृतमित्यर्थः । दृढाऽपेक्षितफलदानाय समर्था । अन्यत्र नूतनत्वेन बलिष्ठा । यया ज्ञाननावा मुमुक्षुर्मृत्युपथं मृत्योर्मार्गं दुरत्ययं ज्ञाननावमन्तरेणात्येतुमशक्यं भवार्णवं तरते तस्य परमात्म-भूतस्य साक्षान्नारायणावतारस्य विपश्चितः शुद्धज्ञानवतः श्रीकपिलस्य पृथङ्मती रोषरूपितामतिः कथं सम्भाव्यत इत्यन्वयः ॥ १४ ॥

योऽसमञ्जस इत्युक्तः स केशिन्या नृपात्मजः ।

तस्य पुत्रोंऽशुमान् नाम्ना पितामहहिते रतः ॥ १५ ॥

पदरत्नावली

हे नृप, योऽसमञ्जस इत्युक्तः स केशिन्याः सगरभार्याया आत्मजः । पितामहः सगरः ॥ १५ ॥

सत्यधर्मीया

हे नृप केशिन्या आत्मजो यः सोऽसमञ्जस इत्युक्तः । तस्यैवासमञ्जेति नामान्तरम् । तस्यासमञ्जस्य पुत्रोंऽशुमान्नाम्ना । पितामहस्य सगरस्य ॥ १५ ॥

छलारी

तदेवं सुमत्याः पुत्रेषु मृतेषु सुकेशिन्याः पौत्रेणांशुमताऽश्वः समानीतः पितृव्योद्धरणयत्नश्च कृत इति दर्शयितुमुपोद्घातमाह ॥ योऽसमंजस इति ॥ यः केवल-मज्ञैरसमंजस इत्युक्तः । वस्तुतस्तु समंजस एवेति ज्ञापयितुमित्युक्त इत्युक्तम् । स तु सगरभार्यायाः सुकेशिन्या आत्मजः । पितामहः सगरः ॥ १५ ॥

असमञ्जस आत्मानं दर्शयन्नसमञ्जसम् ।

जातिस्मरः पुरा सङ्गाद् योगी योगाद् विचालितः ॥ १६ ॥

पदरत्नावली

पुरा पूर्वजन्मनि, योगी योगाभ्यासनिपुणोऽसमञ्जसः सङ्गाद् हेतोर् योगा-दीश्वरोपासनालक्षणाद् । विचालितो हि यस्मात्, तस्मात् पूर्वजातिं स्मरतीति जातिस्मरः । आत्मानम् असमञ्जसम् असमचेतःसङ्गतमनतिरमणीयं दर्शयन्, सङ्गं जहाविति शेषः ॥ १६ ॥

सत्यधर्मीया

इत्युक्त इत्यनेन ध्वनितं तत्समञ्जसत्वमञ्जसाऽऽह ॥ असमञ्जस इति ॥ असमञ्जसमसमीचीनं दुराचारमिति यावत् । दर्शयन्नज्ञानिनाम् । तथा प्रदर्शने निमित्तं दर्शयति ॥ जातिस्मर इति ॥ पुरा योगी योगाभ्यासनिपुणः सङ्गादङ्गनादिसङ्गाद्योगाद्भगव-दुपासनालक्षणाद्विचालितः । योगभ्रष्टोऽभिजायत इत्यादेः । अन्यथाकृत इत्यर्थः । तथाऽपि तद्योगमाहात्म्येन स्मरतीति स्मरो जातेः स्मरो जातिस्मरः । जातेः स्मरः स्मरणं यस्येति वा तम् ॥ १६ ॥

छलारी

पुरा पूर्वजन्मनि योगाभ्यासनिपुणोऽसमंजसः सङ्गाद्धेतोः । योगादीश्वरो-पासनालक्षणाद्विचालितो हि यस्मात्तस्माज्जातिस्मर इदानीं पूर्वजातिस्मृतिमान्सन् आत्मान-मसमंजसम् असमीचीनम् । नृशंसमिति यावत् । दर्शयन् । सङ्गं जहाविति शेषः ॥ १६ ॥

आचरन् गर्हितं लोके ज्ञातीनां कर्म विप्रियम् ।

सरय्वां क्रीडतो बालान् प्रास्यदुद्वेजयञ्जनम् ॥ १७ ॥

पदरत्नावली

असमञ्जसत्वं दर्शयति– आचरन्निति ॥ किं तज्ज्ञातीनां विप्रियं कर्मेति तत्राह– सरय्वामिति ॥ जनमुद्वैजयन् कम्पयन्, तीरे क्रीडतो बालान् सरय्वां नद्यां प्रास्यत् प्राक्षिपदित्यन्वयः ॥ १७ ॥

सत्यधर्मीया

गर्हितं गर्हितत्वेन प्रतीयमानं ज्ञातीनामपि विप्रियं विरुद्धं सोढुमशक्यमिति यावत् । आचरन् । तदाचरितं चरितमेवंरूपमिति निरूपयति ॥ सरय्वामिति ॥ जनं स्वं परं च पामरमित्यान्तरङ्गिको भावः । गतम् । उद्वेजयन्भीषयन् क्रीडतो बालान्प्रास्यच्चिक्षेप ॥१७॥

छलारी

असमञ्जसत्वं दर्शयति ॥ आचरन्निति ॥ ज्ञातीनां विप्रियमप्रियं लोकैर्गर्हितं कर्माचरन् जनमुद्वेजयन्भीषयन् बालान् सरय्वां प्रास्यत् ॥ १७ ॥

एवंवृत्तः परित्यक्तः पित्रा स्नेहमपोह्य वै ।

योगैश्वर्येण बालांस्तान् दर्शयित्वा ततो ययौ ॥ १८ ॥

पदरत्नावली

ततः किमभूदिति तत्राह– एवमिति ॥ एवं वृत्तं कर्म यस्य सः । योगैश्वर्येण युष्मद्बाला एते इति तान् नदीजलमग्नान् बालान् दर्शयित्वा ततः स्थानाद् ययावित्यन्वयः ॥ १८ ॥

सत्यधर्मीया

एवं वृत्तमाचारो यस्य स तथा । स्नेहमपोह्य परित्यक्तो योगैश्वर्येण योगसम्पदा तान्स्वेन स्वरय्वां क्षिप्तान्बालान्दर्शयित्वा तान्प्रत्येते युष्मद्बाला इति दर्शयित्वा ततस्तत्स्थानाद्ययौ । अततः सञ्चरतो बालानित्यप्यन्वयः ॥ १८ ॥

छलारी

ततः किमभूदिति तत्राह ॥ एवमिति ॥ एवंविधं वृत्तं कर्म यस्य सः । योगैश्वर्येण युष्मद्बाला एत इति तान्नदीजलमग्नान्दर्शयित्वा । ततः स्थानाद्ययावित्यर्थः ॥ १८ ॥

अयोध्यावासिनः सर्वे बालकान् पुनरागतान् ।

दृष्ट्वा विसिस्मिरे राजन् राजा चाप्यन्वतप्यत ॥ १९ ॥

पदरत्नावली

विसिस्मिरे विस्मयं चक्रुः । अथासमञ्जसे गते राजा चान्वतप्यत पश्चात्तापं प्राप्त इत्यन्वयः ॥ १९ ॥

सत्यधर्मीया

विसिस्मिरे विस्मिता अभवन् । अथासमञ्जसे गते सति राजा सगरो योगित्यागेनान्वतप्यत पश्चात्तप्तो बभूव ॥ १९ ॥

छलारी

विसिस्मिरे विस्मयं चक्रुः । अथासमंजसे गते । राजा सगरोऽन्वतप्यत पश्चात्तापं प्राप्त इत्यन्वयः ॥ १९ ॥

अंशुमांश्चोदितो राज्ञा तुरङ्गान्वेषणे ययौ ।

पितृव्यखातानुपथं भस्मापि ददृशे हयम् ॥ २० ॥

पदरत्नावली

पितरि गतेंऽशुमता किमकारीति तत्राह– अंशुमानिति ॥ पितृव्या असमञ्जससहोदरास्तैः खातमनु यः पन्थास्तं ययौ । पितृव्याणां शरीरभस्म, हयमपि ददृशे इत्यन्वयः । भस्मान्ति इति पाठे भस्मसमीपे हयं दृष्टवानित्यर्थः ॥ २० ॥

सत्यधर्मीया

पितरि प्रोषितेंऽशुमान् किं पितृमार्गमनुवव्राजाथवा पितामहनिघ्नो वर्तत इत्यत आह ॥ अंशुमानिति ॥ राजा सगरेण चोदितः प्रेरितश्चोदितो बोधित इति वा । पितृव्याः षष्टिसहस्त्रसङ्ख्यास्तातमात्रन्तरजास्तैर्यत्खातं पन्थानमनुसृत्यानुपथम् । खातमनु यः पन्थास्तमनुययौ । भस्म पितृव्यशरीरसम्बन्धि हयमपि ददृशेऽपश्यत् ॥ २० ॥

छलारी

पितरि गतेंऽशुमता किमकारीति तत्राह ॥ अंशुमानिति ॥ पितृव्या असमञ्जस-भ्रातरस्तेषां खातानुपथं तमनुययौ । पितृव्याणां शरीरंभस्मरहयमपि ददर्शेत्यन्वयः ॥ २० ॥

तत्रासीनं मुनिं वीक्ष्य कपिलाख्यमधोक्षजम् ।

अस्तौत् समाहितमनाः प्राञ्जलिः प्रणतो महान् ॥ २१ ॥

पदरत्नावली

अस्तौत् स्तुतवान् ॥ २१ ॥

सत्यधर्मीया

तत्र भस्माश्वसहितप्रदेशे कपिलाख्यं कपिलमित्येवालपन् लपंश्च कपिलाख्यमिति श्रौतत्वं नाम्नोऽध्वनयत् । तथा च गीताभाष्यप्रमेयदीपिकाटिप्पणेषु । सिद्धानां कपिलो मुनिः सुखरूपः । पाल्यते लीयते जगदनेनेति कपिलः । प्रीतिः सुखं कमानन्द इत्यभिधानात् । प्राणो ब्रह्म कं ब्रह्म खं ब्रह्मेति च । ऋषिं प्रसूतं कपिलं यस्तमग्रे ज्ञानैर्बिभर्ति जायमानं च पश्येत् । सुखादनन्तात्पालनाल्लापनाच्च यं वै देवं कपिलमुदाहरन्तीति बाभ्रव्य-शाखायाम् । सिद्धानां कपिलो मुनिरिति कपिलशब्दं व्याचष्टे ॥ सुखेति ॥ सुखरूप इति कः । पाल्यते जगदनेनेति पिः । लीयते जगदनेनेति लः । लीङ् श्लेषण इत्यस्माड्डः । ला आदान इत्यतो वा कः । ततः कर्मधारयः । कशब्दस्य सुखवाचित्वेऽभिधानं प्रयोगं च पठति ॥ प्रीतिरिति ॥ समग्रार्थे श्रुतिमाह ॥ ऋषिमिति ॥ तं भगवन्तमृषिं कपिलं च पश्येत् । कथमृषिः सर्वज्ञत्वादित्युच्यते । यः प्रसूतं पूर्वकल्पेषु जातं जायमानं वर्तमानं चैवमागामि च जगज्ज्ञानैर्बिभर्ति जानातीति यावत् । कथं कपिल इत्यत उक्तं सुखादिति । यच्छब्दद्वयस्य तमित्यनेनान्वयः । सुखरूप इत्यनन्तरं भाष्ये कपिल इति निर्देशघटनाय शेषमाह ॥ इति क इति ॥ किर् औणादिकः । ततश्चातो लोप इटि चेत्याकारलोप इति भावः । यद्यपि पाल्यत इति भाष्ये पाल रक्षण इति धातुर्गृहीतः । पा रक्षण इत्येतत्तस्यार्थानुवाद इति भावेन पा रक्षण इत्यतः किरित्युक्तमिति केचित् । वस्तुतस्तु पा रक्षण इत्यस्य णाविति वर्तमाने पातेर्लुग्वक्तव्य इति णिचि परतो लुगागमे कर्मणि यकि च पाल्यत इति रूपमिति भावेनैवमुक्तम् । लीङ् श्लेषण इत्यत्र श्लेषणं स्वस्वकारणेषु मेलनं स्वोदरसंश्लिष्टतापादनमित्यर्थः । अस्माद्धातोर्विभाषा लीयते-रित्यात्वेऽर्तिह्रीत्यनेन पुगागमे ल्युटि लापनादिति भाष्ये रूपम् । क्वचिद्भाष्ये लापानादिति पाठस्तत्र दीर्घत्वं छान्दसमित्याहुः । ला आदान नपुंसकलिङ्गो निर्दिष्ट इति सुखं रूपमिति कमित्येवानुवादः कर्तव्यः । तथाऽपि कं सुखं स्वरूपत्वेनास्यास्तीत्यर्श आदिभ्य इति मत्वर्थीयाच्प्रत्यये क इति रूपमिति द्योतयितुं भाष्ये सुखमिति वक्तव्ये सुखरूप इति पुल्लिङ्गप्रयोग इति तदनुसारेणैव क इति पुल्लिङ्गोऽनूदितः । कं ब्रह्मेति श्रुतौ कशब्दः सुखविशिष्टाभिधानादेव चेति सूत्रे सुखार्थो व्याख्यात इति प्रकृतसिद्धिः । समग्रार्थो कपिल-शब्दस्योक्त इति शेषः । चशब्दसमुच्चेयमाह ॥ आगामि चेति ॥ कथमनेन सार्वज्ञ्यलाभ इत्यत उक्तं जानातीति ॥ यावदिति ॥ यच्छब्दद्वयस्य, यो ज्ञानैर्बिभर्ति यं च पश्येदिति यच्छब्द-द्वयमिति । सुखरूप इत्यनन्तरमित्यारभ्य यच्छब्दद्वयमितिपर्यन्तं सुमतीन्द्रतीर्थटिप्पणवाक्यम् । तत्र काचन चर्चायते ।

यद्यपि ते सुमतीन्द्राश्चैवमेव भान्ति नामतो नार्थात् ।

बृहदारण्यकभाष्यादिकमपि नालोकि यैर्न चालोचि ॥ १ ॥

गुर्वर्थदीपिकाकृद्द्रोहो द्रोहोऽपि भावबोधेभ्यः ।

लघुरप्यलघुः फलतो महदिह दत्तं महद्भ्यो यत् ॥ २ ॥

यद्विषमपि पीयूषतया मतमिति मृतिहृन्न जातु जायेत ।

रूपं यत्त्वनुरूपं पदमिति गदितं न सन्धितं स्यात्तैः ।

लोके साक्षिणि कोशे मत्वर्थे सत्यचीतिके सार्थे ॥ ४ ॥

कपिलेयैरवलेपाल्लेखोलेखेड्वचस्यहो

ऊहो नवमेऽर्थैरनवमे कथामात्रं प्रथायते ।

परिश्रमो विश्रमायामत्सराणां भवेत्सताम् ॥ ५ ॥

तथा हि । बृहदारण्यकभाष्ये संसाराप्लुतानां मुक्तानां कानि सुखानि लोका रोचमानानि कानि । लोका लीनं सुखं क इत्युक्तं कं नाम क्षीयतेऽत्र यदिति । स्वतः कशब्दस्य पुल्लिङ्गतोक्तेति कपिल इति गीताभाष्यप्रमेयदीपिकायां सुखरूप इति क इत्यत्रार्शआद्यच्प्रत्यय-कल्पनेनावक्रे वक्रतां प्रदर्श्य न समाधिर्विधेयः । न च नच विधेयः । तत्रैव लीनं संसारदशायां तदनन्तरमभिव्यक्तं यत्सुखं तत्रैव क इति कशब्दपुल्लिङ्गता लीनं सुखं क इत्युक्तमित्यंशेन शंसिता न च सदाऽभिव्यक्तसुखमुखविग्रहे सम्भवति भगवति लीनतालाप इति न तदुदाहरण-धरणिरियमिति । अहो आयुष्मंस्तनुषे शेमुषीमुपर्येव न मनुषे उत्तरग्रन्थे त्वद्धृदयग्रन्थिमालोच्य लोकोऽनुयोक्ता भवेदिति । तथा हि । कं नाम क्षीयतेऽत्र यदित्यंशे । अत्र संसारे यत्क्षीयते स्थीयते तत्सुखं कमित्युक्तमित्युक्तेः किं कंसारेः संसारोऽस्ति येन तत्र कमिति नपुंसक-लिङ्गकशब्दवाच्यं सुखमपि सुखेनाङ्गीकर्तुमुचितं स्यादिति । तत्र तं प्रति त्वया वक्तव्ये न विवक्षानुसारेण षण्डसार्थाङ्गनाभामित्यादिशब्दवद्विशेषणस्यावश्यं सामान्यपरतोररीकार्येत्यनेन त्वां त्वं समाधत्स्व । निरवकाशेन प्रकाशनाच्च छान्दोग्यभाष्ये । तथा हि । क इत्यानन्द उद्दिष्ट उश इच्छा प्रकीर्तितेति । तर्हि गीताभाष्ये कमानन्दः कं ब्रह्मेत्युदाहरणं न मनोहरमिति न च वाच्यम् । पुल्लिङ्गनपुंसकलिङ्गपदयोरैकार्थ्यनिर्भर्येणैव तथोक्तेरिति सम्भवत्वात् । रूपशब्दः सुखरूपं यस्येति सुखस्य तदात्मकतामावेदयन्न सहेत टीकोक्तस्य क इत्यस्य । अर्श आद्यजन्तताश्रयणमित्युपर्येव ज्ञायते । न हि बहुव्रीहिस्तत्रेति वक्तुरुत्कण्ठां कुण्ठयति सुखरूप इति स्वयं नपुंसको भवन् रूपशब्दः । किञ्च विशेषशब्दाश्च सामान्यवाचका अपि भविष्य-न्तीत्याचार्याः सूचितवन्तः सूचितचेतसो गीतातात्पर्ये । दुःखं तु मानसं ज्ञेयमायासो बाह्यमुच्यते । विशेषस्य विवक्षायामन्यथा सर्वमेव त्विति । बृहदारण्यकछान्दोग्यभाष्यादिकं मनसि निधाय किञ्चित्पिधाय चेक्षापरीक्षायै सर्वविदष्टीकाकारपादाः सुखरूप इति क इतीति करणेन कशब्दवाच्यतायां सुखरूपत्वं हेतुत्वेन न्यरूपयन्निति टीकैवाच्प्रत्ययव्याकृतिं बबाध इति श्रुतिरपि केवलं सुखादनन्तादिति गदन्ती सान्दोलयति शिर इति गदनीयमेव जगदुरिति दिक् । महान्गुणतः प्रणतः प्रह्वः कृतनमनोऽस्तौत्तुष्टाव ॥ २१ ॥

छलारी

तत्र हयसमीपे । महान्बुद्धिमान् अंशुमान् ॥ २१ ॥

**अंशुमानुवाच— **

न पश्यति त्वां परमात्मनोऽजनो न बुद्ध्यतेऽद्यापि समाधियुक्तिभिः ।

कुतोऽपरे तस्य मनःशरीरविसर्गसृष्टावयवप्रकाशाः ॥ २२ ॥

पदरत्नावली

स्तुतिर्द्वेधा विद्यमानगुणविषया अविद्यमानगुणविषया च । तत्र द्वितीयाऽपि विद्वदविद्वद्विषयभेदेन द्विविधा । उभयस्या अपि स्तुतिफलं न लभ्यते । विदुष आत्मन्यविद्यमानगुणकथनेन ह्रिया स्तोतरि द्वेषसम्भवाद् विदुषोऽज्ञानेन मुखविकासादिसम्भवेऽपि स्तोतुः स्तुतिफलप्रदानशक्तिसामग््रयभावात्, अतः प्रथमैव श्रेयसीति भावेन स्तौति– न पश्यतीति ॥ अजनोऽजो विरिञ्चो यस्य परमात्मनोंऽशं त्वां न पश्यति अनन्तत्वेन साक्षा-दपरोक्षीकर्तुं न शक्नोति । तर्हि परोक्षतो जानाति किम् ? नेत्याह– नेति ॥ समाधियुक्ति-भिरेकाग्रीकृतचित्तयोगैरद्यापि न बुद्ध्यते । सम्यङ् न जानातीत्यन्वयः । ‘पश्यन्तोऽपि न पश्यन्ति मेरो रूपं विपश्चितः’ इतिवत् । न यस्य तत्त्वमिति पाठे, परमात्मनो यस्य तव तत्त्वं न बुद्ध्यत इति न, किन्तु बुद्ध्यते, तथापि सम्यङ् न जानातीत्यर्थः । ‘कश्छन्दसां योगमावेद धीरः को धिष्ण्यां प्रतिवाचं पपाद’ इति श्रुतेः । नयस्य नीतिरूपस्य परमात्मनस्तव तत्त्वं न बुद्ध्यते इति वा । एकस्य ज्ञानाभावेऽप्यन्यस्य तत्सम्भवः किं न स्यात् तथा दृष्टत्वादित्या-शङ्क्य इतरविषयोऽयं न्यायो न परमात्मविषय इति भावेनाह– कुत इति ॥ अपरे । विरिञ्चादितरे, समाधियुक्तिरहिताः कुतो हेतोः पश्यन्ति जानन्ति ? दर्शनादिसद्भावे न किमपि लिङ्गमित्यर्थः । अनेन चोद्यं कथं परिहृतमिति तत्राह– तस्येति ॥ तस्य विरिञ्चस्य मनसः शरीराच्च विसर्गः विशिष्टा सृष्टिर्येषां मरीच्यादीनां ते मनःशरीरविसर्गस् तैः सृष्टेषु शरीरावयवेषु श्रोत्रादिषु प्रकाशो अभिमानित्वेन स्थितिलक्षणो येषां दिक्सूर्यादीनां ते मनःशरीरविसर्गसृष्टावयव-प्रकाशाः । अनेन इन्द्रादयो मरीच्यादय उभयेऽपि प्रत्युक्ताः । अत्र जनो न पश्यति न बुध्यते इत्यङ्गीकारे कुतोऽपरे इत्येतद् गतार्थत्वेनासङ्गतं स्यादतोऽजन इति पदच्छेदेन विरिञ्च एव ग्राह्यः

॥ २२ ॥

सत्यधर्मीया

न जानन्तोऽप्यवजानन्तो वयमनन्तो त्वया अव्या इत्याशयेनांशुमानीशांशं कपिलमुपश्लोकयति षड्भिः श्लोकैः । अजनो जनो जननं स आद्विष्णोर्यस्य सोऽजो ब्रह्मा यस्य परमात्मनो हरेरंशमिति शेषः । त्वां तत्त्वेन न पश्यति साकल्येन नापरोक्षीकरोति । परोक्ष-तस्तर्हि स साकल्येन जानाति किमित्यतो नेत्याह ॥ अद्यापीति ॥ समाधियुक्तिभिर्न बुध्यते समाधयः प्राणायामादयस्तैर्युक्तिभिस्तर्कैः समाधीनां युक्तयो योगास्तैरिति वा । करणैर्न बुध्यते परोक्षतः साकल्येन न जानाति । तस्य चतुरास्यस्य मनः शरीरविसर्गसृष्टाः । मनश्च शरीरं च ताभ्यां विविधः सर्गो येषां ते तैर्मरीच्यादिभिः सृष्टा वयं तदपरे अर्वाचीना अधुनातनाः कुतो हेतोः पश्येम । खस्वरूपं निरूपयति ॥ अप्रकाशा इति ॥ न विद्यते प्रकाशो मानमुभयविधं तद्वदेषां ते तथा । अवयवप्रकाशा मनःशरीरेभ्यो विसृष्टाः स्वयं च ते सृष्टाः स्त्रष्ट्रोत्पादिता येऽवयवाः प्रतीकास्तत्र प्रकाशो विषयस्फोरणादिरूपो येषां ते परे इन्द्रादय इति वा । न यस्य तत्त्वं परमात्मनो जन इति पाठे यस्यापरेतस्य मृत्यूपलक्षितदोषरहितस्यात्मनः सर्वस्वामिनस्तव तत्त्वं स्वरूपं न जनोऽपामरः प्रबुध्यते । ननु रमा चेत्सामस्त्येन जानीयात्त्वमित्यतो न सापि पटुरिति प्राह ॥ अदिति ॥ याऽपि समाधियुक्तिभिः करणैर्या रमया परं तत्त्वं नापि न प्राप्तं न ज्ञातमिति यावत् । आत्मनो विषये इदमद् आश्चर्यम् । कुतो न कुतोऽपि । कुतूहलावहमिति वा । अद्भुतपदव्याकृत्यवसरेऽदित्याश्चर्यार्थकमव्ययमिति भान्वाद्युक्तेर्नाद्भुतव्याकरणमिति मन्तव्यम् । हे अपरेतस्यापगतरेतोविकार । रेतसि भवो रेतस्यस्तस्मादपगतस्तदविकृतदेह इति यावत् । मनःशरीरविसर्गसृष्टावयवप्रकाशा मनःसृष्टा रुद्रचन्द्राद्याः शरीरसृष्टो विराट् शरीरसृष्टो ब्रह्मा विसर्गः पाय्वादितत्सृष्टा दक्षाद्यास्ते चावयवप्रकाशा इतरे तत्त्वेशाश्च । अद्यापि समाधियुक्तिभिर्न पश्यन्ति । यश्च भगवान्नपश्यति । पश्यतीति पश्यो जीवस्तद्वदाचरति पश्यति । यदा पश्यः पश्यत इति व्याख्यावसरे पश्यतीति पश्यो जीव इति टीकोक्तेः । जीवविलक्षण इति यावत् । तत्त्वं जनो न बुध्यत इति कुतः कुतोऽवक्तव्यमवचनेऽपि ज्ञायत इति विवृण्वन्ति ॥ २२ ॥

छलारी

अजनोऽजो विरिञ्चः । यस्य परमात्मनः । अंश इति शेषः । त्वां न पश्यति साकल्येनापरोक्षीकर्तुं न शक्नोति । अथवा । परम् आत्मन इति पदद्वयम् । आत्मनः स्वात्मनः परमुत्तमम् । त्वामित्यन्वयः । तर्हि परोक्षतो जानाति किं, नेत्याह ॥ नेति ॥ समाधि-युक्तिभिर्ध्यानयोगैरद्यापि त्वां न बुद्ध्यते न जानातीत्यन्वयः । ‘पश्यन्तोऽपि न पश्यन्ति मेरो रूपं विपश्चित’ इतिवत् । अपरेऽर्वाचीनास्तु कुतस्त्वां पश्येयुः । अर्वाचीनत्वे हेतुस् तस्य मनः शरीरविसर्गसृष्टा इति । तस्य विरिञ्चस्य मनसः शरीराच्च विसर्गो विसृष्टा सृष्टिर्येषां मरीच्यादीनां ते तथोक्तास्तैस्तत्रापि वयमप्रकाशा अज्ञाः । कुतस्त्वामपश्याम इत्यर्थः ॥ २२ ॥

ये देहभाजस्त्रिगुणप्रधाना गुणान् विपश्यन्त्युत वा तमश्च ।

यन्मायया मोहितचेतसस्ते विदुः स्वसंस्थं न बहिःप्रकाशाः ॥ २३ ॥

पदरत्नावली

ये देहभाजः शरीरिणस्ते त्रिगुणप्रधानाः सत्त्वप्रधाना रजःप्रधानास्तमःप्रधाना इति त्रिविधाः । तत्र रजःप्रधाना राजसा मानुषास् त्रिगुणप्रधाना धर्मार्थकामपरायणा गुणान् स्वगदीनेव पश्यन्ति, न मोक्षम् । तमःप्रधानास्तामसा असुरा यस्य हरेर्मायया बन्धकशक्त्या मोहितचेतसो ऽन्यथाज्ञानपूर्णबुद्धयस् तमो वा अन्धतम एव विशिष्टं पश्यन्ति अनुभवन्ति । अत्र निमित्तमाह- त इति ॥ ते स्वसंस्थं स्वहृदिस्थं विष्णुं न विदुरिति यत् तस्मादिति शेषः । तर्हि तेऽचेतनाः किं ? नेत्याह– बहिरिति ॥ बहिर्देहादावेव प्रकाशो येषां ते तथा अनात्मज्ञानिन इत्यर्थः । ‘आत्मैव महय्यः’ इति श्रुतेः । ज्ञानाश्रयत्वेन चेतनत्वेऽपि यथार्थज्ञानं नास्तीति भावः ॥ २३ ॥

दुर्घटभावदीपिका

ये देहभाजस्ते त्रिगुणप्रधानाः । देहभाजां मध्ये केचन सत्त्वगुणप्रधाना केचन रजोगुणप्रधाना केचन तमोगुणप्रधानाः । ये सत्त्वगुणप्रधानास्ते भगवति । उत शब्द एवार्थे । अज्ञानवाचकेन तमः शब्देन दोषान्तरं लभ्यते । तमो वाऽज्ञानादि दोषानेव विपश्यन्ति । ये रजोगुणप्रधानास्ते भगवति ज्ञानादि गुणानज्ञानादि दोषांश्च विपश्यन्ति । ननु सत्त्वगुणप्रधानैरिव तमोगुणरजोगुणप्रधानैरप्यनपेक्षितशरीरपीडादिना शरीरनियमनादौ स्वातन्त्र्या-योगात्स्वस्वशरीरनियामकः स्वतन्त्रो ज्ञानादि गुणसम्पन्नोऽज्ञानादि दोषरहितः स्वस्वदेहस्थितो भगवानङ्गीकर्तव्य एवातस्तद्गुणप्रधाना रजोगुणप्रधानाश्च भगवान्ज्ञानादि गुणैरेव युक्तो नत्व-ज्ञानादिदोषैरिति न पश्यन्तीति कथमुक्तमित्यत आह ॥ यन्माययेति ॥ ते तमोगुणप्रधाना रजोगुणप्रधानाश्च यन्मायया भगवतो मायया मोहितचेतसस्तं स्वसंस्थं स्वदेहे स्थितं भगवन्तं न विदुः । ननु देहस्थितभगवत्ज्ञानाभावे भगवान्दोषीति कथं ज्ञानं स्यादित्यत आह ॥ बहिः प्रकाशा इति ॥ बहिःस्थितभगवत्ज्ञाना इति ॥ २३ ॥

सत्यधर्मीया

गुणानुगुणाचरणानधिकारिण आह ॥ य इति ॥ ये देहभाजः शरीरिणस्ते त्रिगुणप्रधानास्त्रयो गुणाः प्रधानानि कारणीभूतानि येषां ते रजः प्रकृतयो मानुषा आवर्तन्ते । त्रिगुणप्रधाना इति । त्रयो गुणा धर्मार्थकामास्ते एव प्रधानं मुख्यप्रयोजनं येषां त इति तदर्थः । ते च गुणानप्रधानफलस्वर्गादीनेव विपश्यन्ति जानन्ति अनुभवन्ति न मोक्षं ते लभन्त इति यावत् । ये यद्यस्मान्मायया तव बन्धकशक्त्या योग्यतां निमित्तीकृत्य बध्नन्त्यामोहितचेतसो मोहितमतयस्तस्मिंस्तत्त्वं विषयीकुर्वच्चेतो येषां ते तथा स्वसंस्थं त्वां न विदुः । किञ्च बहिःप्रकाशा देहादावेवाहज्ञानिनः । मिथ्याज्ञानिन इति यावत् । उत तस्मात्तमोऽन्धन्तम एव विपश्यन्ति । यन्मायया आमोहितचेतस इति तामसपक्षे आ सम्यगिति, राजसपक्षे आ ईष-दिति । उत्तरत्र प्रध्वस्तमायेत्याद्युक्तिस्वारस्याद्विवेको ज्ञेयः ॥ २३ ॥

छलारी

तर्हि केऽपि न पश्यन्ति किमित्यतः केचिदेव पश्यन्तीत्याह ॥ ये देहभाज इति ॥ ये देहभाजः शरीरिणस्ते त्रिगुणप्रधानाः सत्त्वप्रधाना रजःप्रधानास्तमःप्रधाना इति त्रिविधाः । तत्र रजःप्रधाना राजसा मानुषा गुणान्स्वर्गादीनेव विपश्यन्त्यनुभवन्ति । न मोक्षम् । अन्यथाज्ञानपूर्णबुद्धयस्तमःप्रधानास्तामसा असुरा यस्य हरेर्मायया बन्धकशक्त्या मोहितचेतस-स्तम एवान्धन्तम एव विपश्यन्त्यनुभवन्ति । अत्र निमित्तमाह ॥ त इति ॥ ते स्वसंस्थं हृदिस्थं विष्णुं न विदुरिति । यस्मात्तस्मादिति शेषः । तर्ह्यचेतनाः किं ते, नेत्याह ॥ बहिरिति ॥ बहिर्देहादावेव प्रकाशो येषां ते तथा । अनात्मज्ञानिन इत्यर्थः । ज्ञानाश्रयत्वेन चेतनत्वेऽपि न परतत्त्वज्ञानिन इति भावः । ये सत्त्वप्रधाना सात्त्विका देवादयस्ते त्वामेव विपश्यन्तीति योज्यम् ॥ २३ ॥

तं त्वामहं ज्ञानघनस्वभावं प्रध्वस्तमायामयभेदमोहैः ।

सनन्दनाद्यैर्मुनिभिर्विभाव्यं कथं विमूढः परिभावयामि ॥ २४ ॥

पदरत्नावली

ये सत्त्वप्रधानाः सात्विकप्रकृतयस् तैः सनन्दनाद्यैर्मुनिभिर्विभाव्यम् उपास्यं तं तत्तद्योग्येभ्यस्ततत्तत्फलदातारं त्वामहं कथं परिभावयामि चिन्तयामि ? चिन्तने काऽनु-पपत्तिरिति तत्राह– विमूढ इति ॥ सामान्यज्ञाते वस्तुनि विशेषजिज्ञासा सञ्जाघटीति । मम तु तदेव नास्त्यतस्त्वद्विषयज्ञानाभाव एवानुपपत्तिरित्यर्थः । सनन्दनादीनामपि देहभाक्त्वाविशेषात् तत्परिभावना कथं स्यादिति तत्राह– प्रध्वस्तेति ॥ प्रध्वस्तो मायामयः प्रकृतिहेतुको भेदमोह अनात्मन्यात्मत्वमोहो यैस्ते तथा तैः, निरस्तमिथ्याज्ञानैरित्यर्थः । अनेन देहभाक्त्वेऽपि विशेषोऽस्तीति दर्शितम् । ‘कार्यते ह्यवशः कर्म सर्वैः प्रकृतिजैर्गुणैः’ इति स्मृतिः ॥ २४ ॥

सत्यधर्मीया

राजसास्तामसाश्च बहुलास्तरतमयेति तान्निरूप्योत्तमानां रीतिमीरयति ॥ तं त्वामिति ॥ अहं तं त्वां कथं परिभावयामि चिन्तयामि । महमुत्सवरूपं त्वा त्वामिति । किं परिभावितः कीदृशोऽहमित्यतस्तदाह ॥ ज्ञानघनस्वभावमिति ॥ ज्ञानपूर्णतया ज्ञानघनः स्वभावः स्वरूपं यस्य तम् । ज्ञानघनो ज्ञानात्मा चासौ स्वाख्यो भावो नित्यसत्तश्च स वा तम् । मायामयो मायिको मिथ्याभूत इति यावत् । स चासौ भेदश्च अपारमार्थिको भेदो जगतो जगन्नाथस्येति तद्विषयको यो मोहो मिथ्यामत्युपदेशप्राप्तः स प्रध्वस्तो यैस्ते तैः । मायामयो भेदो यस्य प्रपञ्चस्य स इति यो मोहो वैचित्यं स प्रध्वस्तो यैरिति वा । मायाया प्रकृति-रूपायाऽमयो रोगस्तेन प्राप्तो भेदस्य प्रपञ्चरूपस्य मोहोऽज्ञनं स प्रध्वस्तो यैरिति वा । मोह-मिच्छेति मूर्छायामविद्यायां च सूरय इति विश्वः । सनन्दनाद्यैः सनन्दन एवाद्यो येषां ते मुनयः परमहंसास्तैर्विभाव्यं चिन्त्यम् । ननु सनकादिः स न कस्मात्पूर्वं गृहीतो गृहीतश्च तदनन्तरजः सनन्दन इति चेत् । सत्यम् । अगाधमेधाव्यसि । शङ्का चेयं निरातङ्का । परन्तु गुर्वनुकम्पायाः किमकम्प्यम् । सनकादय इत्युक्तौ केवलं परमहंसा विभावका न संसारे सन्तः सन्त इति भायात्तच्चानिष्टम् । दृष्टेर्वसिष्ठादीनां तन्निविष्टानां विभावकताया अतस्तेऽपि ग्राह्या आदिपदेनेति वचनमेवमिति । न तथोक्तावप्यादिपदेनैते ग्रहीतुं शक्या इति वाच्यम् । सजातीयग्रहस्यैव न्याय्यत्वात् । इत्थं वदंश्च सनन्दनादयः सनकाद्या नन्दनैः सहिताः सनन्दनाः सांसारिका मुनयो वसिष्ठाद्या इत्यप्यर्थान्तरसङ्ग्रहः सुग्रह इति सूचयामासेति ज्ञेयम् । अहं तु न तदन्यतम इति कथं कथय त्वां परिभावयामीत्याह ॥ विमूढ इति ॥ न चात्रातीव कर्तव्यं दोषदृष्टिपरं मनः । दोषो ह्यविद्यमानोऽपि तत्पराणां प्रदृश्यत इति सुधाभिधानान् न शङ्कस्वेति वाच्यम् । क्षणमेकं विलम्बोऽवलम्बनीयो दया विधेया विनेयोपरि । ओ स्वच्छन्दं पृच्छ । ॐ धन्योऽस्मि । अधिकार्यवधिं विधिसर्वं धीकृत्य कुत उक्तिनेति शङ्कितुं शक्यमिति चेत् । सत्यम् । सा च पिशाची क्व नाम नावतार्या । तथाऽपि मन्त्रयामः । अस्य योगित्वाद्योगिपुरस्कृतिरिति वा नन्दनस्तत्पुत्रो विधाता चासावाद्यश्च तेन सहितैर्नन्दनेष्वाद्यस्तेन सहितैरिति वा मुनिभिरिति भावेनाप्येवमुक्तिरिति जोषमास्व । किञ्च विमूढ इति मौढ्यं किंहेतुकमित्यतोऽप्याह ॥ सनन्दनाद्यैरिति ॥ नन्दनेन तन्नाम्ना नन्दनवनेन सहितं सौवर्गभाग्यं तदेवाद्यं येषां भोगानां तैर्विमूढस्तत्कामनया मूढतम इति ॥ २४ ॥

छलारी

तर्हि तवापि सात्त्विकत्वाद् ध्यानेन त्वं मां ज्ञास्यसीति तत्राह ॥ तं त्वामिति ॥ सनन्दनाद्यैर्मुनिभिर्विभाव्यमुपास्यं ज्ञानघनस्वभावं ज्ञानादिगुणस्वरूपं तं तत्तद्योग्ये-भ्यस्तत्तत्फलदातारं त्वामहं कथं परिभावयामि चिन्तयामि । चिन्तने काऽनुपपत्तिरिति तत्राह ॥ विमूढ इति ॥ सामान्यतो ज्ञाते वस्तुनि विशेषजिज्ञासा संजाघटीति । मम तु तदेव नास्ति । अतस्तद्विषयज्ञानाभाव एवानुपपत्तिरित्यर्थः । सनन्दनादीनामपि देहभात्क्वाविशेषात्परिभावना कथं स्यादिति तत्राह ॥ प्रध्वस्तेति ॥ प्रध्वस्तो मायामयः प्रकृतिहेतुको भेदमोहोऽनात्मन्यात्ममोहो यैस्ते तथा तैर्निरस्तमिथ्याज्ञानैरित्यर्थः । कार्यते ह्यवशः कर्म सर्वप्रकृतिजैर्गुणैरिति स्मृतिः

॥ २४ ॥

प्रशान्तमायागुणकर्मलिङ्गमनामरूपं सदसद्विमुक्तम् ।

ज्ञानोपदेशाय गृहीतलिङ्गं नमामहे त्वां पुरुषं पुराणम् ॥ २५ ॥

पदरत्नावली

त्वां नमामह इत्यन्वयः । त्वामिति के इति तत्राह- पुरुषमिति ॥ तर्हि देवदत्तवच्चिरन्तनः कश्चिदयं स्यादिति नेत्याह– अनामरूपमिति ॥ प्राकृतनामरूपरहितम् । तत् कुत इति तत्राह– प्रशान्तेति ॥ प्रशान्तानि उपरतानि मायागुणाः सत्त्वादयः कर्माणि तन्निमित्तव्यापारा लिङ्गशरीरं च यस्य स तथा । अतत्कारणत्वेन मृद्वदभिन्नत्वे एतत् कथं घटत इति तत्राह– सदिति ॥ सतो ब्रह्मणः । असतः परमाण्वादेर् विमुक्तं भिन्नम् । ‘रुग्मवर्णं कर्तारमीशं पुरुषं ब्रह्मयोनिम्’ इति श्रुतेः । शरीरवत्वेन नामरूपदर्शनात् तदभावकथनं कथमिति तत्राह– ज्ञानेति ॥ लोकानुग्रहार्थं शरीरग्रहणं न तु कर्मनिमित्तम् । अत एव नित्यदुःखाभावः

॥ २५ ॥

सत्यधर्मीया

नम इति प्रह्वत्वार्हणं तव मया कार्यमित्याह ॥ प्रशान्तेति ॥ वयं त्वां नमामहे नमामः । प्रशान्तमायागुणाः प्रशान्तान्यप्रादुर्भूतानि माया प्रकृतिर्गुणाः सत्त्वाद्याः प्रयोजकाः कर्माणि लिङ्गं शरीरं चेति तत्प्रयोज्यानि यस्मिन्स तम् । सदसद्विमुक्तं मूर्तामूर्त-विलक्षणम् । ननु शरीररहितश्चेन्न सृष्ट्यादि सम्भवेदित्यतोऽकर्मनिर्मितमिच्छोपात्तं शरीरमस्ति ततस्तदुपपत्तिरित्याह ॥ गृहीतलिङ्गमिति ॥ तद्ग्रहणे हेतुमाह ॥ ज्ञानोपदेशायेति ॥ ज्ञानं तज्जनकं साङ्ख्यशास्त्रम् । तस्योपदेशार्थं पुराणं प्रातिस्विकशरीराणकं चिरन्तनमाद्यमिति वा पुरुषं पूर्णषड्गुणमिति ॥ २५ ॥

छलारी

मूढत्वान्नमनमात्रं करिष्यामीत्याह ॥ प्रशान्तेति ॥ हे स्वामिन् । त्वां केवलं नमामह इत्यन्वयः । सदसद्भ्यां पुण्यपापाभ्यां विमुक्तम् । कर्मबन्धाभावेऽपि शिक्षार्थं तपः कुर्वाणमिति भावः । अनामरूपं प्राकृतनामरूपरहितम् । तत्कुत इति तत्राह ॥ प्रशान्तेति ॥ प्रशान्तान्युपरतानि मायागुणाः सत्त्वादयः कर्माणि तन्निमित्तव्यापारा लिङ्गशरीरं यस्य स तथा । शरीरत्वेन नामरूपदर्शनात्तदभावकथनं कथमिति तत्राह ॥ ज्ञानेति ॥ लोकानुग्रहार्थं शरीरग्रहणं न तु कर्मनिमित्तम् ॥ २५ ॥

यन्मायारचिते लोके वस्तुबुद्ध्या गृहादिषु ।

भ्रमन्ति कामलोभेर्ष्यामोहविभ्रान्तचेतसः ॥ २६ ॥

पदरत्नावली

त्रिविधानां जीवानां स्वभावाभिभवो नास्तीति दर्शनाय मानुषस्वभावमाह– यन्मायेति ॥ यस्य हरेर्मायया प्रकृत्या इच्छया वा रचिते निर्मिते लोके भूम्यादौ रचितगृहादिषु वस्तुबुद्धयाऽनश्वराणीति मनसा भ्रमन्ति परिवर्तन्ते । मानुषा इति शेषः । निमित्तमाह– कामेति ॥ कामो विषयाभिलाषः लोभो धमोदिविषयार्थत्यागानिच्छा, ईर्ष्या अक्षमा, मोहो वैचित्यम् । एतैर्विभ्रान्तं चेतो येषां ते तथा ॥ २६ ॥

सत्यधर्मीया

त्रिविधानामपि न स्वभावाभिभव इत्याह ॥ यदिति ॥ यस्य भगवतो मायेच्छा तया रचिते लोके उत्तमाश्चालोके लोकातीते श्रीपतौ वस्तुबुध्या वस्तुशक्तं ब्रह्मेति बुध्द्या गृहादिषु गृहीणी गृहमुच्यत इत्यादेः । कामलोभेर्ष्यामोहैर्विभ्रान्तं भ्रान्तविरुद्धमभ्रान्तं चेतो येषां ते तथा सन्तो भ्रमन्त्यटन्ति । मध्यमास्तु यन्माया प्रकृतिस्तया रचिते लोके गृहादिषूक्तरूपेषु वस्तुबुद्ध्याऽनश्वरताधिया कामलोभेर्ष्याभिर्मोहो यस्य तत्किञ्चिद्विभ्रान्तमभ्रमं च चेतो येषां ते । मध्यमा मिश्रमतयो विमिश्रगतयोऽपि चेत्युक्तेः । भ्रमन्ति । इतरेऽपि हरीच्छारचिते तेनैव सत्ये लोके । अवस्तुबुद्ध्येदं सर्वं मिथ्येति मत्या कामलोभेर्ष्यामोहविभ्रान्तचेतसः सन्तो गृहादिषु भ्रमन्ति ॥ २६ ॥

छलारी

त्रिविधानां जीवानां स्वभावाभिभवो नास्तीति दर्शनाय मानुषस्वभावमाह ॥ यन्माययेति ॥ यस्य हरेर्मायया प्रकृत्येच्छया रचिते निर्मिते लोके भूम्यादौ रचितगृहादिषु वस्तुबुद्ध्याऽनश्वराणीति बुद्ध्या भ्रमन्ति परिवर्तन्ते । प्राणिन इति शेषः । अत्र निमित्तमाह ॥ कामेति ॥ कामादिभिर्विभ्रान्तं चेतो येषां ते तथा ॥ २६ ॥

अद्य नः सर्वभूतात्मन् कामकर्मेन्द्रियाशयः ।

मोहपाशो दृढश्छिन्नो भगवंस्तव दर्शनात् ॥ २७ ॥

पदरत्नावली

उपसंहरति– ओति ॥ अद्य नोऽस्माकं पुत्रादिषु दृढो मोहपाशोऽ-ज्ञानहेतुकः स्नेहपाशच्छिन्न इत्यर्थः । कामकर्मेन्द्रियेष्वाशेत इति कामकर्मेन्द्रियाशयः ॥ २७ ॥

सत्यधर्मीया

लोकरीतिमीरयित्वेदानीं स्वस्थितिमुक्त्वोपसंहरति ॥ ओति ॥ काम-कर्मेन्द्रियाशयः कामकर्मेन्द्रियेष्वाशेते । अधिकरणे शेतेरित्यच् । तेष्वेव विद्यमानो यो मोहपाशः पुत्रमित्रकलत्रादिस्नेहपाशो दृढो विना त्वदिच्छामच्छेद्यः । हे भगवन् तव दर्शनाच्छिन्नः । दृढमिति पाठे दृढं छिन्नः । पुनरनुज्जृम्भणं यथा तथा छिन्न इत्यर्थः । सर्वभूतात्मन्सर्वजग-द्व्यापिन् । अनेन पुत्रादावपि परमात्मा सन्निहित इत्यनुसन्धानेन ममतामादधानां न दुष्यतीति ध्वन्यते ॥ २७ ॥

छलारी

उपसंहरति ॥ ओति ॥ अद्य नोऽस्माकं पुत्रादिषु दृढो मोहपाशोऽज्ञानहैतुकः स्नेहपाशश् छिन्न इत्यर्थः । कामकर्मेन्द्रियाण्येवाशयो यस्य तन्निमित्तक इत्यर्थः । कामादीनामाश्रय इति वा । त्वत्प्रसादेन कृतार्थोऽस्मीत्यर्थः ॥ २७ ॥

श्रीशुक उवाच—

इत्थं गीतानुभावस्तं भगवान् कपिलो मुनिः ।

अंशुमन्तमुवाचेदमनुगृह्य धिया नृप ॥ २८ ॥

सत्यधर्मीया

धियाऽनुगृह्य मनःपूर्वकमनुग्रहं कृत्वा ॥ २८ ॥

छलारी

अनुगृह्यानुग्रहं कृत्वा । धियाऽन्तःकरणपूर्वकमित्यर्थः ॥ २८ ॥

श्रीभगवानुवाच—

अश्वोऽयं नीयतां वत्स पितामहपशुस्तव ।

इमे च पितरा दग्धा गङ्गाम्भोऽर्हन्ति नेतरत् ॥ २९ ॥

पदरत्नावली

अर्हन्ति अपेक्षन्ते ॥ २९ ॥

सत्यधर्मीया

तव पितामहपशुर्हयो नीयताम् । अर्हन्ति अपेक्षन्ते ॥ २९ ॥

छलारी

कथम्भूतोऽश्वः । पितामहस्य सगरस्य याज्ञीयपशुभूतः । अश्वं लब्ध्वाऽपि पितृविषये साकांक्षं प्रत्याह ॥ इमे चेति । अर्हन्ति अपेक्षन्ते ॥ २९ ॥

तं परिक्रम्य शिरसा प्रसाद्य हयमानयत् ।

सगरस्तेन पशुना क्रतुशेषं समापयत् ॥ ३० ॥

सत्यधर्मीया

तं परिक्रम्य प्रदक्षणीकृत्य शिरसा प्रसाद्य । अंशुमता नीतेन पशुना यज्ञशेषं समापयत्समापितवान् ॥ ३० ॥

छलारी

तं परिक्रम्य तस्य प्रदक्षणीकृत्वेत्यर्थः । शिरसा प्रणम्येति शेषः ॥ ३० ॥

राज्यमंशुमते न्यस्य निःस्पृहो मुक्तबन्धनः ।

और्वोपदिष्टमार्गेण लेभे गतिमनुत्तमाम् ॥ ३१ ॥

सत्यधर्मीया

अंशुमते राज्यं न्यस्य निःस्पृहो विषयस्पृहाहीनो मुक्तबन्धनस्त्यक्त-संसारबन्धन और्वोपदिष्टमार्गेणानुत्तमां गतिं लेभे ॥ ३१ ॥

छलारी

लेभे । सगर इति शेषः ॥ ३१ ॥

अंशुमांश्च तपस्तेपे गङ्गागमनकाम्यया ।

कालं महान्तं नाशक्नोत् ततः कालेन संस्थितः ॥ ३२ ॥

पदरत्नावली

महदपराधपङ्कप्रक्षालनेनात्मजनोद्धाराय महान्तं कालं तपस्तेप इत्यन्वयः । कालेन संस्थितो मृतः ॥ ३२ ॥

सत्यधर्मीया

गङ्गागमनकाम्यया गङ्गाया जाह्नव्या आगमनविषयिणी काम्या गतम् । तया महान्तं बहुकालं तपस्तेपे कृतवान् । तथाऽपि नाशक्नोन्न शशाक । कालेन संस्थितो मृतः

॥ ३२ ॥

छलारी

महान्तं कालं तपस्तेप इत्यन्वयः । नाशक्नोत् । गङ्गामानेतुमिति शेषः । ततः कालेन संस्थितः कालमृत्युना संस्थितो ग्रस्तो मृतोऽभूदित्यर्थः ॥ ३२ ॥

दिलीपस्तत्सुतस् तद्वदशक्तः कालमेयिवान् ।

भगीरथस्तस्य पुत्रस्तेपे स सुमहत्तपः ॥ ३३ ॥

पदरत्नावली

कालमेयिवान् मरणं प्राप्तः ॥ ३३ ॥

सत्यधर्मीया

कालं यममेयिवान्प्राप्तवान् । मृत इति यावत् । तस्य दीलीपस्य नृपस्य

॥ ३३ ॥

छलारी

तद्धत् तपस्तेप इति शेषः । अशक्तः । गङ्गामानेतुमिति शेषः । काल-मेयिवान्मरणं प्राप्तः । तेपे कृतवान् ॥ ३३ ॥

दर्शयामास तं देवी प्रसन्ना वरदाऽस्मि ते ।

इत्युक्तः स्वमभिप्रायं शशंसावनतो भृशम् ॥ ३४ ॥

पदरत्नावली

प्रसन्ना देवी ते वरदाऽस्मीति निगद्य स्वात्मानं तमुद्दिश्य प्रदर्शयामास

॥ ३४ ॥

सत्यधर्मीया

अहं प्रसन्ना वरदा च तेऽस्मीति तं भगीरथं नृपमात्मानं दर्शयामास । यस्मिन्नियत्यपि न देवी दर्शयामासात्मानमित्यस्मिते स्मितरहिते दुःखित इति यावत् । सति यथापूर्वमुर्वरितम् । स्वमभिप्रायं स्वपितृगात्रभस्मपवित्रीकरणरूपं शशंसोचे ॥ ३४ ॥

छलारी

तं प्रत्यात्मानं दर्शयामास । वरदाऽस्मीति गङ्गोक्तः सन् स्वाभिप्रायं पूर्वजोद्धारणे शशंस ॥ ३४ ॥

गङ्गोवाच —

को विधारयिता वेगं पतन्त्या मे महीतले ।

अन्यथा भूतलं भित्वा नृप यास्ये रसातलम् ॥ ३५ ॥

सत्यधर्मीया

महीपते महीतले पतन्त्या मम वेगं विधारयिता कः । स्वत एव पत तवेयत्कुत इत्यत आह ॥ अन्यथेति ॥ अनागमन एवमागमने च तवोभयथा नाभीष्टसिद्धिरिति भावः ॥ ३५ ॥

छलारी

पतन्त्या । गगनादिति शेषः । मे वेगं विधारयिता धारयिष्यति । अन्यथा धारकाभावे ॥ ३५ ॥

किं चाहं दुर्गतिं यास्ये नरा मय्यामृजन्त्यघम् ।

मृजामि तदघं क्रूरं राजंस्तत्र विविच्यताम् ॥ ३६ ॥

पदरत्नावली

किञ्च रसातलप्रवेशलक्षणानर्थ एव न, अन्योऽप्यतीत्याशयेनाह– किञ्चेति ॥ कुतो नरकप्राप्तिरिति तत्राह- नरा इति ॥ पापिनो नराः स्नानादिना मय्यघमामृजन्ति शोधयन्ति । पापं निक्षिप्य स्वयं शुद्धा भवन्ति । हे राजन् तदघं मृजामि शोधयामि । क्वेति शेषः । क्व निक्षिप्य शुद्धा भवामि ? अत्र अस्मिन्नर्थे विविच्यतां नराणामघसंहर्ता मदघसंहर्ता क इति विवेकः क्रियतामित्यन्वयः ॥ ३६ ॥

सत्यधर्मीया

न केवलं रसातलं यास्येऽपि तु ममायमेको भावी विभव इत्याह ॥ किञ्चेति ॥ नरा मय्यघं स्वेषां विसृज्य स्नानादिनाऽऽत्मानमामृजन्ति शोधयन्ति तत्क्रूरं तैर्मुक्तमघं मृजामि मार्जयामि । तत्रोभयविषये विविच्यतां त्वया विवेकः क्रियताम् । पामरनरपापापहन्त्र्या मम दुर्गतिमतिहाय पापपरिहारोपायो धर्ता चायमिति निश्चयश्च क्रियतामिति यावत् । रसातलगमने च तवाभीप्सितमपि न सेत्स्यतीत्याह ॥ नरा इति ॥ नराः पितृव्याः कथमघं मृजन्त्यहं च कथं तदघं मृजामि । विचिन्त्यतामित्युचितोऽपि पाठः ॥ ३६ ॥

छलारी

किञ्च न केवलं रसातलप्रवेशलक्षणानर्थ एवान्योऽप्यस्तीत्याशयेनाह ॥ किञ्चेति ॥ कुतो नरकप्राप्तिरिति तत्राह ॥ नरा इति ॥ पापिनो जनाः स्नानादिना मय्यघमामृजन्ति शोधयन्ति । पापं निक्षिप्य स्वयं शुद्धा भवन्ति । हे राजन् तदघं मृजामि शोधयामि । क्वेति शेषः । क्व निक्षिप्य शुद्धा भवाम्यत्रास्मिन्नर्थे विविच्यताम् । नराणामघहाऽहं मदघसंहर्ता क इति विवेकः क्रियतामित्यन्वयः । तत्रोपायो विचिन्त्यताम् ॥ ३६ ॥

राजोवाच —

साधवो निराशिषः शान्ता ब्रह्मिष्ठा लोकपावनाः ।

हरन्त्यघं तेऽङ्गसङ्गाद् ये प्राप्ताः स्वहृदा हरिम् ॥ ३७ ॥

पदरत्नावली

उत्तरमाह– साधव इति ॥ शमदमादिलक्षणसम्पन्नाः साधवोऽत एव निराशिषः स्वर्गादिसुखलक्षणाशारहिताः । कुत इति तत्राह– ब्रह्मिष्ठा इति ॥ इष्ठन् प्रत्ययान्तं चैतत् । ब्रह्मिणः पूर्णा भगवद्भक्त्येति शेषः । अमी अतिशयेन ब्रह्मज्ञानसम्पन्ना इति यावत् । ब्रह्मण्येव स्थिता ब्रह्मिष्ठा इत्ययं छान्दस इति केचित् । तथात्वे ब्रह्मस्था इति स्यात् । न हि छान्दसता स्वच्छन्देनाङ्गीकार्या । तस्मादयमिष्ठन्नन्तस्तमनुसृत्यैवं कृतम् । लोकपावना एवंविधा ये स्वहृदा हरिप्राप्तास्ते अङ्गसङ्गात् पादप्रक्षालनादिना हस्ताद्यङ्गसम्बन्धात् पापिनामघं हरन्तीति शेषः । तेषां स्वहृदि स्थितहरिसान्निध्यात् पापं नास्त्येव । तत्र किं वक्तव्यमनवरतं पद्मनाभ-सरोजनिवासाया इत्यर्थः ॥ ३७ ॥

सत्यधर्मीया

यद्यपि क्रमप्राप्तं विधारयितेति प्रागुत्तरयितव्यम् । तथाऽपि गङ्गागमन-मनोरोधकतया स्वपित्रनुद्धृत्यास्वव्याकुलताहेतुरुत्तर इति तमेवोत्तरयति ॥ साधव इति ॥ निराशिषो निर्गता आशीर्भ्य ईशेतराशीभ्यस्ते तथा । शान्ता अक्रूरा लोकपावना लोका-न्पावयन्तीति ते तथा । अनायासेनेतरपावनकर्तारस्त इत्यप्याह । लोकेन स्वावलोकनेनैव पावयन्तीति ते तथेति । ‘दर्शनादेव साधव’ इत्यादेः । ‘पृथिव्यां यानि तीर्थानि तानि तीर्थानि सागरे । सागरे सर्वतीर्थानि पदे विप्रस्य दक्षिण’ इत्यादि स्मरन्ति । तेषामेष महिमा कुत इत्यत आह ॥ ब्रह्मिष्ठा इति ॥ ब्रह्म येषामस्ति ज्ञातृतासम्बन्धेन ते ब्रह्मिणः । व्रीह्यादित्वादिनिः । ब्रह्मोपास्तिसम्पन्ना अतिशयेन तथा ये ते ब्रह्मिष्ठाः । इष्टन् टिलोपः । मन्त्रवच्छ्रेष्ठा वा । तदेव विवृणोति ये हृदा हरिं प्राप्ता इति । तत्रापीष्टमित्यनेन प्रकटित इति ज्ञेयम् । अङ्गसङ्गा-त्स्नानादेस्तेऽघं हरन्ति । क्रियाप्रबन्धे लट् । हरिष्यन्ति । द्वितीयेऽङ्गसङ्गाद्धरिष्यन्तीति किमुतेति योज्यम् । अहं तु हरिचरणमात्रस्पृक् ते तु हृदा हरिं प्राप्ता महान्त इति न दुर्घटं मदघविघटनं तेषामिति स्वस्तटिनी स्वस्थाऽभूदिति भावः स्वहृदेति पदलब्ध इति ज्ञेयम् ॥ ३७ ॥

छलारी

उत्तरमाह ॥ साधव इति ॥ शमदमादिसम्पन्नाः साधवोऽत एव निराशिषः स्वर्गादिसुखलक्षणाशारहिताः । कुत इति तत्राह ॥ ब्रह्मिष्ठा इति ॥ एवंविधा ये स्वहृदा हरिं प्राप्तास्ते ज्ञानिनोऽङ्गसङ्गात्पादप्रक्षालनादिना जातादङ्गसम्बन्धात्पापिनामघं हरन्ति । तेषां स्वहृदि स्थितहरिसान्निध्यात्पापं नास्त्येव । तत्र किं वक्तव्यम् । अनवरतं नलिननाभपादसरोज-निवासाया इत्यर्थः । अथवा । साधवोऽङ्गसङ्गात्स्नानादिना स्वशरीरसम्बन्धात्ते तवाघं पापं हरन्ति हरिष्यन्ति ॥ ३७ ॥

धारयिष्यति ते वेगं रुद्रस्त्वात्मा शरीरिणाम् ।

यस्मिन्नोतमिदं प्रोतं विश्वं शाटीव तन्तुषु ॥ ३८ ॥

पदरत्नावली

द्वितीयं प्रश्नं परिहृत्य प्रथमं परिहरति- धारयिष्यतीति ॥ आत्मा स्वामी । शाटी कन्था, गुणितद्विपुटिका वा ॥ ३८ ॥

सत्यधर्मीया

आदिमोत्तरेण तामनुमोदयति । रुद्रस्ते तव वेगं धारयिष्यतीति धारणेऽसाधारणं कारणमाह । तु यतः शरीरिणां देहवाहानामहङ्काराभिमतिमानिति स्वामी । तदेवात्मानं निदर्शनपूर्वकं दर्शयति । यस्मिन्हराविदं विश्वं स्थावरं सर्वं तन्तुषु शाटीव कन्था यथा तथा ओतं प्रोतं तत्त्वेन वर्तते । तदाधारमिति यावत् । अतो धारयिष्यति । श्रुतसदाशिव-क्षिप्रप्रसादत्वक इति झटिति तन्नाम जग्राहेत्यपि मन्तव्यम् । अत्राशु तुष्यतीति बहुस्थल उक्तेरिवान्यत्राप्युक्तेः ॥ ३८ ॥

छलारी

द्वितीयं प्रश्नं परिहृत्य प्रथमं परिहरति ॥ धारयिष्यतीति ॥ आत्मा स्वामी । शाटी कंथापटलस्तन्तुष्विव यथा तथोक्तः प्रोतस्तथेदं विश्वं यस्मिन्नोतं प्रोतमित्यर्थः ॥ ३८ ॥

श्रीशुक उवाच—

इत्युक्त्वा स नृपो देवीं तपसाऽतोषयच्छिवम् ।

कालेनाल्पीयसा चापि तस्येशः समतुष्यत ॥ ३९ ॥

सत्यधर्मीया

शिवं तपसाऽतोषयत्सन्तोषोन्मुखमचीकरत् । शिवमित्यावृत्तम् । शिवं मङ्गलं क्षेमो यथा तथेति स पितृपितामहवदयं नेति बोधयतीति बोध्यम् । अल्पीयसेति कालपदतपःपदाभ्यामन्वेति । अतुष्यतातुष्यत् । यद्यपि नृपश्चेदपि तपस्येव रतो न रतोऽ-मित्रत्रासनादाविति नेत्यप्याह ॥ चापीति ॥ धानुष्कोऽपि स चापि शिवोऽप्यतुष्यतेत्यन्वेति च

॥ ३९ ॥

छलारी

अल्पीयसाऽल्पीयेन ॥ ३९ ॥

तथेति राज्ञाऽभिहितः सर्वलोकहितः शिवः ।

दधारावहितो गङ्गां पादपूतजलां हरेः ॥ ४० ॥

पदरत्नावली

राज्ञाऽभिहितः सर्वलोकहितः शिवस् तथेति गङ्गामवहितः समाधानचित्तः सन् स्वयमपि स्वोद्धारार्थं हरेः पादपूतजलां तां दधारेत्यन्वयः ॥ ४० ॥

सत्यधर्मीया

इति गङ्गागीतप्रकारेण राज्ञाऽभिहितः शिवस्तथेति आ अभिहितं यस्य स सन् सर्वलोकहितः सर्वेभ्यो लोकेभ्यो हितं येन स तथा गङ्गामवहितः सङ्कल्पिताल्पव्यत्यासे प्रत्यवायमिति सावधानमानसः शिवः शिवोऽभूदित्यादेः । स्वयमपि स्वोद्धारार्थं चादीधरदित्याह ॥ हरेः पादपूतजलामिति ॥ ४० ॥

छलारी

राज्ञा भगीरथेनाभिहितः । तथेत्यङ्गीकृत्येति शेषः ॥ ४० ॥

भगीरथोऽपि राजर्षिर्निन्ये भुवनपावनीम् ।

यत्र स्वपितृणां देहा भस्मीभूताः स्म शेरते ॥ ४१ ॥

सत्यधर्मीया

पितॄणां भस्मीभूता देहाः शेरते तद्वद्वर्तन्ते यत्र तत्र निन्ये । निन्य इत्यनेन कृपापारवश्यमापगाया ध्वन्यते ॥ ४१ ॥

छलारी

शेरते सन्तीत्यर्थः ॥ ४१ ॥

रथेन वायुवेगेन प्रयान्तमनुधावती ।

देशान् पुनन्ती निर्दग्धानसिञ्चत् सगरात्मजान् ॥ ४२ ॥

पदरत्नावली

प्रयान्तं भगीरथम् अनुधावती पृष्ठत आयान्ती ॥ ४२ ॥

सत्यधर्मीया

अनुधावती पृष्ठतोऽनुगच्छन्ती मध्येध्वसम्बद्धान्देशान्पुनन्ती सगरात्मजां-स्तद्भस्म असिञ्चत् ॥ ४२ ॥

छलारी

प्रयान्तं भगीरथमनुधावती पृष्ठत आयान्ती । आसिञ्चत्प्लावयामास ॥ ४२ ॥

यज्जलस्पर्शमात्रेण ब्रह्मदण्डहता अपि ।

सगरात्मजा दिवं जग्मुः केवलं देहभस्मभिः ॥ ४३ ॥

पदरत्नावली

यज्जलस्पर्शनं तच्च केवलं देहभस्मभिरेव न साक्षात् । अतस्तन्माहात्म्यं किं वर्णनीयमित्यध्याहृत्य योजनीयम् ॥ ४३ ॥

दुर्घटभावदीपिका

देहभस्मभिरित्यस्य देहभस्मनामित्यर्थः । एतेन भस्मभिरित्येतदन्वित-मिति दूषणं निरस्तम् । भस्मभिरिति तृतीयाबहुवचनं षष्ठीबहुवचनादेश इत्यङ्गीकृत्य यज्जलस्पर्श-मात्रेणेत्यनेनान्वय इत्यङ्गीकारात् ॥ ४३ ॥

सत्यधर्मीया

यस्या जलं तस्य स्पर्शमात्रेण ब्रह्मणः परब्रह्मणः कपिलस्य दण्डोऽ-श्वचोरोऽयमित्यादि स्वकृतापचारस्तेन हता अपि सगरात्मजा इति वर्णाधिक्यं वर्णनीयसुरतरङ्गिणी महामहत्त्वसूचकम् । केवलं देहभस्मभिस्तद्द्वारा दिवं स्वर्गं जग्मुः ॥ ४३ ॥

छलारी

ब्रह्मदण्डेन कपिलरूपभगवदपराधरूपदण्डेन हताऽपि । यस्या जलस्पर्शमात्रेण दिवं जग्मुः । यज्जलस्पर्शनं तच्च केवलं देहभस्मभिरेव न साक्षात् । अतस्तन्माहात्म्यं किं वर्णनीयमित्यध्याहृत्य योजनीयम् । यद्वा । देहभस्मभिरित्यस्य विभक्तिविपरिणामेन भस्माना-मित्यर्थः ॥ ४३ ॥

भस्मीभूताङ्गसङ्गेन स्वर्याताः सगरात्मजाः ।

किं पुनः श्रद्धया देवीं ये सेवन्ते धृतव्रताः ॥ ४४ ॥

पदरत्नावली

उक्तं किञ्चिदनूद्य गङ्गामाहात्म्यं हरिमहत्वोन्नायकमपीत्युत्तरत्र विविच्याह– भस्मीभूतेति ॥ भस्मीभूताङ्गस्य स्वधुन्याः सङ्गेन ॥ ४४ ॥

सत्यधर्मीया

किञ्चिदनूद्य तन्माहात्म्यं हरिमहत्त्वोन्नायकमिति विविच्याह ॥ भस्मी-भूतेति ॥ धृतव्रता ये भक्त्या देवीं सेवन्ते ते गच्छेयुरिति पुनः किं किं वक्तव्यमित्यर्थः ॥४४॥

छलारी

एतत्प्रपञ्चयति ॥ भस्मीभूतेति ॥ भस्मीभूतेनाङ्गेनाङ्गसम्बन्धास्थिजातेन यो गङ्गाजलसङ्गस्तेनेति ॥ ४४ ॥

न ह्येतत् परमाश्चर्यं स्वर्धुन्या यदिहोदितम् ।

अनन्तचरणाम्भोजप्रसूताया भवच्छिदः ॥ ४५ ॥

पदरत्नावली

श्रीनारायणचरणसङ्गलब्धमेवास्या माहात्म्यं नान्यतोऽतो नैतच् चित्र-मित्याह– न हीति ॥ इह सगरात्मजकथाप्रसङ्गेन गङ्गामाहात्म्यमुदितम् । अनन्तस्य त्रिविक्रमस्य वामपादेन जाताया अत एव । भवच्छिदः संसारछेत्र्या जन्मछेत्र्या वा । ‘भवो भद्रे हरे प्राप्तौ सत्तासंसारजन्मसु’ इत्यभिधानम् ॥ ४५ ॥

सत्यधर्मीया

हरिचरणसरोजसङ्गिनीयं हरति महच्च मलं न चित्रमेतदित्याह ॥ न हीति ॥ इहैतत्प्रस्तावे यदुदितं तन्माहात्म्यं न हि चित्रम् । तत्र तन्त्रमाह ॥ अनन्तेति ॥ भवच्छिदः संसार उत्पत्तिर्वा भवस्तच्छिदश् छेत्र्या अनन्तचरणाम्भोजाद्दक्षिणाङ्गुष्ठाद्वामाङ्गुष्ठाद्वा प्रसूताया उत्पन्नायाः । भवच्छिद इति गङ्गायामनुपपद्यमानमनन्तेति लुप्तषष्ठीकेनान्वेति । भव-च्छिदोऽनन्तस्य चरणाम्भोजप्रसूतायाः । अनन्तेति समस्तेऽपि भवच्छिद इत्यस्य दीप्तानलार्क-द्युतिमप्रमेयमित्यत्राप्रमेयत्वस्य द्युतावन्वय इवात्राप्यन्वये भवच्छिद्योऽनन्तस्तस्येति वा ॥४५॥

छलारी

श्रीनारायणचरणसङ्गलब्धमेवास्या माहात्म्यं नान्यतोऽतो नैतच्चित्रमित्याह ॥ न हीति ॥ इह सगरात्मजकथाप्रसङ्गेन गङ्गामाहात्म्यमुदितम् । अत एव भवच्छिदः संसारच्छेत्र्याः । जन्मच्छेत्र्या वा । अनन्तस्य त्रिविक्रमस्य वामपादेन जाताया इत्यर्थः ॥ ४५ ॥

यस्मिन्मनः सन्निवेश्य१ श्रद्धया मुनयोऽमलाः ।

त्रैगुण्यं दुस्त्यजं हित्वा सद्यो यातास्तदात्मताम् ॥ ४६ ॥

पदरत्नावली

संसारछेदनमाहात्म्यं श्रीहरिनिष्ठं गङ्गाया उपचार इत्याशयवानाह– संनिवेश्येति ॥ त्रैगुण्यं त्रिगुणसम्बन्धिसंसारम् । तदात्मतां तत्सायुज्यलक्षणां मुक्तिं तत्स्वामिकतां वा ॥ ४६ ॥

सत्यधर्मीया

यच्चरणसङ्गाद्गङ्गाया इयती महिमाऽनन्तस्य माहात्म्यं कियदिति वक्तव्य-मिति शुकः पारवश्येन वदति ॥ यस्मिन्निति ॥ हरौ मनः श्रद्धया सन्निवेश्य मुनयोऽमलाः सन्तो दुस्त्यजं त्रैगुण्यं गुणत्रयकार्यं संसारं हित्वा तदात्मतां तत्स्वामिकतां सायुज्यं तन्मनस्कतां वा सद्य एतत्कल्पे ब्रह्मणा सह दुर्मनोवृत्तिनिवृत्त्युत्तरमिति वा ॥ ४६ ॥

छलारी

संसारच्छेदनमाहात्म्यं श्रीहरिनिष्ठगङ्गाया उपचार इत्याशयवानाह ॥ सन्नि-वेश्येति ॥ त्रैगुण्यं त्रिगुणसम्बन्धिसंसारम् । तदात्मतां तत्सायुज्यलक्षणां मुक्तिम् ॥ ४६ ॥

श्रुतो भगीरथाज्जज्ञे तस्य नाभोऽपरोऽभवत् ।

सिन्धुद्वीपस्ततस्तस्मादयुतायुस्ततोऽभवत् ॥ ४७ ॥

पदरत्नावली

एवं भगीरथस्य गङ्गानयनादिमाहात्म्यमुक्त्वा तत्सन्ततिं कथयति– श्रुत इति ॥ तस्य श्रुतस्य नाभो नाभागो मानवादपरः सुतः ॥ ४७ ॥

सत्यधर्मीया

प्रसङ्गसङ्गत्याऽऽगतां गङ्गागमनकथां निरूप्य भगीरथसन्ततिमाह ॥ श्रुत इति ॥ तस्य श्रुतस्य । नाभ एकदेशविकृतस्यानन्यत्वान् नाभागोऽपरो मनुतनयादितरः । ततो नाभागात् । तस्मात्सिन्धुद्वीपादयुतायुः ॥ ४७ ॥

छलारी

एवं भगीरथस्य गङ्गाऽऽनयनादिमाहात्म्यमुक्त्वा तत्सन्ततिं कथयति ॥ श्रुत इति ॥ नाभो नाभागः । मनुपुत्रनाभागादपरस्तस्मात्सिन्धुद्वीपात्ततोऽयुतायोः सकाशात् ॥४७॥

ऋतुपर्णो नलसखो योऽश्वविद्यामयान्नलात् ।

दत्वाऽक्षहृदयं तस्मै सर्वकामस्तु तत्सुतः ॥ ४८ ॥

पदरत्नावली

ततोऽयुतायोर् ऋतुपर्णः । अयात् प्राप्तवान् । तत्सुत ऋतुपर्णसुतः

॥ ४७,४८ ॥

सत्यधर्मीया

ततोऽयुतायुतो ऋतुपर्णो नामतो नलसखो नलस्य सखा नलसखः । नलो बाहुकः सखा यस्येति वा । अत्र टजार्षः । कथं सख्यं तयोरित्यतोऽक्षहृदयमिति । पाशमर्म दत्वोपदिश्याश्वविद्यां तत्परीक्षाशास्त्रं नलादयादगच्छज्ज्ञानदीपं सम्पादितवान् । तत्सुतो ऋतुपर्णसुतः । तथोक्तमरण्यपर्वणि ।

विध्यक्षहृदयज्ञं मां सङ्ख्याने च विशारदम् ।

बाहुकस्तमुवाचाथ देहि विद्यामिमां मम ।

मत्तोऽपि चाश्वहृदयं गृहाण पुरुषर्षभेत्यादि ।

ऋतुपर्णकीर्तनं कलिमलकर्तनमिति माहात्म्यं कर्कोटकस्य नागस्य दमयन्त्या नलस्य च । ऋतुपर्णस्य राजर्षेः कीर्तनं कलिनाशनमिति वचनात् ॥ ४८ ॥

छलारी

नलराजसखो ऋतुपर्णो ऽभवदित्यनुषङ्गः । यो ऋतुपर्णस्तस्मै नलायाक्षहृदयं द्यूतविद्यां दत्वाऽश्वविद्यामयात् । तत्सुतो ऋतुपर्णसुतः ॥ ४८ ॥

ततः सुदासस्तत्पुत्रो मदयन्तीपतिर्नृपः ।

आहुर्मित्रसहं यं वै कल्माषाङ्घ्रिमुत क्वचित् ॥ ४९ ॥

पदरत्नावली

यं सुदासपुत्रम् ॥ ४९ ॥

सत्यधर्मीया

तत्पुत्रः सर्वकामकुमारो मदयन्ती नाम्ना भार्या तस्याः पतिः । उत्तरत्र पतिदुर्मतिच्युतिकर्त्रीति तत्पतिरित्युक्तिः । यं सुदासमेव मित्रसहमाहुः । ततस्तदनन्तरं क्वचित्कल्माषाङ्घ्रिनाम्ना सौदासश्चाभवत् । एवं नामत्रयवानभूत् ॥ ४९ ॥

छलारी

तत्पुत्रः सौदास इति शेषः । यं सुदासपुत्रम् । कल्माषाङ्घ्रिमुत कल्माषपादं चाहुः क्वचित्कदाचित् ॥ ४९ ॥

वसिष्ठशापाद् रक्षोऽभूदनपत्यः स्वकर्मणा ॥ ५० ॥

सत्यधर्मीया

स्वकर्मणा प्राचीनेनानपत्योऽपुत्रः स्वकर्मणेदानीमनुष्ठितेन वसिष्ठशापाद्रक्षो राक्षसोऽभूत् ॥ ५० ॥

राजोवाच —

किन्निमित्तो गुरोः शापः सौदासस्य महात्मनः ।

एतद् वेदितुमिच्छामः कथ्यतां न रहो यदि ॥ ५१ ॥

पदरत्नावली

न रहो गोप्यं न ॥ ५१ ॥

सत्यधर्मीया

किन्निमित्तः किं निमित्तं यस्य स तथा । महात्मन इति शप्तृशप्योभयान्वयि । यदि रहो गोप्यं न तर्हि कथ्यताम् ॥ ५१ ॥

छलारी

न रहो न रहस्यम् ॥ ५१ ॥

श्रीशुक उवाच—

सौदासो मृगयां किञ्चिच्चरन् रक्षो जघान ह ।

मुमोच(शुशोच)भ्रातरं सोऽथ गतः प्रतिचिकीर्षया ॥ ५२ ॥

पदरत्नावली

रक्षो राक्षसम् । मृतं भ्रातरम् । प्रतिचिकीर्षया भ्रातृहन्तृहननलक्षण-प्रतीकारेच्छया ॥ ५२ ॥

सत्यधर्मीया

मृगयां गतं किञ्चिद्रक्ष इत्यन्वयः । स द्वितीयस्तद्भ्राता । प्रतिचिकीर्षया प्रतिहतीच्छा तया, गतो राजगृहम् ॥ ५२ ॥

छलारी

कञ्चिद्रक्षः कञ्चिद्राक्षसं जघान । तस्य भ्रातरं मुमोच सः । भ्राता पलाय्य गतः । प्रतिचिकीर्षया भ्रातृहननप्रतिकरणेच्छया ॥ ५२ ॥

स चिन्तयन्नघं राज्ञः सूदरूपधरो गृहे ।

गुरवे भोक्तुकामाय पक्त्वा निन्ये नरामिषम् ॥ ५३ ॥

पदरत्नावली

सूदरूपधरः पाचकवेपधरः । नरामिषं नरमांसम् ॥ ५३ ॥

सत्यधर्मीया

अघं स्वभ्रातृघातरूपम् । सूदरूपस्य धरः । सूदस्तु, सूदवत्सूपकारे च व्यजनेऽपि चेति विश्वः । अनेन परिचितचरसूदाकारवानिति सूच्यते । भोक्तुकामाय गुरवे वसिष्ठाय नरामिषं मानुषमांसं पक्त्वा निन्ये ॥ ५३ ॥

छलारी

राज्ञः सौदासस्याघमनिष्टम् । पक्त्वा पाकं कृत्वाऽनिन्ये । परिवेषणार्थमिति शेषः ॥ ५३ ॥

परिवेष्यमाणं भगवान् विलोक्याभक्ष्यमञ्जसा ।

राजानमशपत् क्रुद्धो रक्षो ह्येवं भविष्यसि ॥ ५४ ॥

पदरत्नावली

अञ्जसा ज्ञानदृष्ट्या । एवंविधो रक्षः ॥ ५४ ॥

सत्यधर्मीया

अञ्जसा ज्ञानदृष्ट्येति सम्यक् तदसाम्भावित्यं निराकरोति भगवानिति । अभक्ष्यं भक्षणानर्हम् । एवं परिवेषकसूदवेषकरक्षोवत् ॥ ५४ ॥

छलारी

एवं विधो रक्षो राक्षसः भविष्यसि ॥ ५४ ॥

रक्षःकृतं तद् विदित्वा चक्रे द्वादशवार्षिकम् ।

सोऽप्यपोऽञ्जलिनाऽऽदाय गुरुं शप्तुं समुद्यतः ॥ ५५ ॥

पदरत्नावली

रक्षःकृतं राक्षसकृतम् ॥ ५५ ॥

सत्यधर्मीया

न च वचनं ततान नृपो न च मम वचनमन्यथयितुं शक्यं कृतवच्च प्रतिकर्तृरक्षोऽतोऽयं शापः किञ्चित्सङ्कोचनीय इति दयावानेवं कृतवान्गुरुरिति गृणाति ॥ रक्ष इति ॥ अभक्षतालक्षणक्षण एवैवमप्रेक्षा तु शापप्रदानेनोहिता कोपपारवश्येनेति ज्ञेयम् । अन्यथा शापं न दद्याद्भूपाय तापस इति भावः । ननु भारते आदिपर्वणि राज्ञा प्रेरित एव नरमांसं पक्त्वा स्थापयामासेति वचनमत्र तु रक्षःकृतं तद्विदित्वेति वचनमिति विसंवाद इति चेन्न । ‘विश्वामित्रस्ततो रक्ष आदिदेश नृपं प्रति । राक्षसः किङ्करो नाम विवेश नृपतिं तदा । रक्षसा तं गृहीतं त्वितु’ इति तत्रैवोक्तेराविष्टं रक्षो, रक्षः सूदवेषं चेति द्वे रक्षसी तत्कृतं ज्ञात्वेत्यर्थापनेन तस्यैककण्ठ््यसम्भवात् । राजा तु रक्षसाऽऽविष्टः सूदमाह गतव्यथः । अप्येनं नरमांसेन भोजयेति पुनः पुनः । तथेत्युक्त्वा ततः सूदः संस्थानं वध्यघातिनाम् । द्वादशवार्षिकं रक्षस्त्वं सोऽपि सौदासोऽप्यञ्जलिना । अप उदकमादाय गुरुं निरपराधिनम् । एवमुपरोधं कृतवानिति रुषा । शप्तुं शापं वितरितुं समुद्यतः ॥ ५५ ॥

छलारी

वसिष्ठो रक्षःकृतं राक्षसकृतम् । स्वशापमिति शेषः । द्वादशवार्षिकं चक्रे

॥ ५५ ॥

वारितो मदयन्त्याऽऽपो रुशतीः पादयोर्जहौ ।

दिशः खमवनीं सर्वां पश्यन् जीवमयीं नृपः ॥ ५६ ॥

पदरत्नावली

रुशतीः क्रूरा आपो मन्त्रितत्वात् । रुष रिष हिंसायामिति धातोः, हिंसयन्तीर्वा । रुश् शब्दे इति धातोः, हतं चिकीर्षाम इति शब्दयन्तीर्वा । ‘माघमासे रटन्त्यापः’ इति वचनात् ॥ ५६ ॥

सत्यधर्मीया

मदयन्त्या भार्यया वारितो वारा इतः स सन्नपि वारितो निवारितः । रुशतीर्मन्त्रितत्त्वाद्धिंसयतीः पादयोर्जहौ तत्याज । तत्र हेतुमाह ॥ दिश इति ॥ जीवमयीमिति यथायथं विपरिणतमन्वेति । रक्षः क्षपणेनेदृशी दशा सादिता सूदिताश्चेदुदकैर्जीवाः का वाऽवस्था भवेदिति स्वपादयोरेवासृजद्वारीति भावः ॥ ५६ ॥

छलारी

रुशतीः क्रूरा आपो मन्त्रितत्वात्स्वपादयोरेव जहौ नान्यत्र । तत्र हेतुः ॥ दिश इति ॥ दिशो जीवमयाः खं जीवमयं सर्वामवनिं जीवमयीमिति योज्यम् ॥ ५६ ॥

राक्षसं भावमापन्नः पादे कल्माषतां गतः ।

व्यवायकाले ददृशे वनौकौ दम्पती द्विजौ ॥ ५७ ॥

पदरत्नावली

कल्माषतां कल्माषवर्णवत्ताम् । कल्माषो कृष्णपाण्डुरः’ इति हलायुधः । व्यवायकाले । सुरतकाले । वनमोको निवासो ययोस्तौ वनौ कौ ॥ ५७ ॥

सत्यधर्मीया

कल्माषतां कालिमानम् । कल्माषो राक्षसे कृष्ण इति विश्वः । व्यवायकाले सुरतसमये । व्यवायः सुरते मृध्नीति विश्वः । वनौकोदम्पतीति सरलः पाठः । वनमोको भवनं ययोस्तौ च तौ दम्पती चेति तत्र पदमेकम् । वनौकाविति पाठे सकारान्त-स्याकारान्तताऽप्यस्तीति ज्ञेयम् । द्विरूपकोशादावेतत्सजातीयानां तमोरजःशिरआदीनां शब्दा-नामकारान्ततोक्तेः । एधोदकमिति विवृत्यवसरे तत्त्वसुबोधिन्यामेधशब्दपर्यायोऽयमेधशब्द इतीत्येवंजातीयकेषु धनुरादिशब्देषु गतेरुक्तेः । द्विजा च द्विजश्च द्विजौ पुमेकशेषः । एवं निर्दिशंश्छब्द एव पुंशेषः । अर्थतस्तु प्रस्तुतस्त्रीशेष इति ध्वनयामास ॥ ५७ ॥

छलारी

कल्माषतां कल्माषसमानवर्णताम् । तदेवं राक्षसत्वे कल्माषाङ्घ्रित्वे च कारणमुक्त्वा स्वकर्मणाऽनपत्य इति यदुक्तं तत्प्रपञ्चयति ॥ व्यवायकाल इति ॥ व्यवायकाले सुरतसमये वनमोको निवासो ययोस्तौ वनोकौ ॥ ५७ ॥

क्षुधार्तो जगृहे विप्रं तत्पत्न्याहाकृतार्थवत् ।

न भवान् राक्षसः साक्षादिक्ष्वाकूणां महारथः ॥ ५८ ॥

पदरत्नावली

द्विजपत्नी राक्षसस्य कृपाजननायवध्यत्वे चानेकानि कारणान्याह– न भवानित्यादिना ॥ ५८ ॥

दुर्घटभावदीपिका

तत्पत्न्याहाकृतार्थवदित्यस्याकृतार्थवदकृतार्थवत्यकृतार्था तत्पत्न्या-हेत्यर्थः । एतेन विप्रपत्न्याऽकृतार्थत्वादकृतार्थेति वक्तव्यम् । अकृतार्थवदित्यकृतार्थसाम्याभि-धानमयुक्तमिति दूषणस्यानवकाशः । अकृतार्थशब्दान्मतुप् प्रत्यये ङीप् प्रत्ययस्य छान्दसे लोपेऽकृतार्थवदिति रूपं निष्पन्नमिति स्वीकृत्याकृतार्थवदित्यस्याकृतार्थेत्यर्थस्योक्तत्वात् ॥५८॥

सत्यधर्मीया

तत्पत्नी द्विजपत्नी अकृतार्थवदकृतार्था । स्वार्थे गतेरर्थवत्त्वमिति मतु-ब्वद्वतिः । अरतिविरतिराह । साक्षाद्राक्षस आजनी न तज्जातिः ॥ ५८ ॥

छलारी

अकृतार्थवत् । यद्यपि लज्जा स्त्रीणां स्वभावतस्तथाऽपि तत्पत्नी लज्जां त्यक्त्वा लज्जारहिताऽकृतार्थपुरुषवद्राजानं प्रत्याहेत्यर्थः । यद्वा । अकृतार्थवदकृतार्थवती पत्या सुरतस्यासमाप्त-त्वादकृतार्थेत्यर्थः । अकृतार्थशब्दान्मन् प्रत्यये ङीप् प्रत्ययस्य छान्दसे लोपेऽकृतार्थवदिति रूपनिष्पत्तिः । राक्षसस्य कृपाजननायावध्यत्वे कारणान्याह ॥ न भवा-नित्यादिना ॥ इक्ष्वाकूणामिक्ष्वाकुवंशोत्पन्नानां मध्ये ॥ ५८ ॥

मदयन्त्याः पतिर्वीर नाधर्मं कर्तुमर्हसि ।

देहि मेऽपत्यकामायास्त्वकृतार्थं पतिं द्विजम् ॥ ५९ ॥

सत्यधर्मीया

मदयन्त्याः पतिः । अनेन स्त्रीसुखं जानासीति मत्पतिं त्यजेति त्याजन एतत्सुखस्य मम तव पत्न्या अपि सति त्वय्येतत्सुरतसुखविखण्डनं स्यादिति वा कटाक्षयतीति ज्ञेयम् । अपत्यकामायाः पुत्रापेक्षावत्या अकृतार्थमसुरतसमाप्तिं द्विजं पतिं देहि मा हिंसीतीति भावः ॥ ५९, ६० ॥

छलारी

अकृतार्थमसमाप्तरतिम् ॥ ५९ ॥

देहोऽयं मानुषो राजन् पुरुषस्याखिलार्थदः ।

तस्मादस्य वधो वीर सर्वार्थवध उच्यते ॥ ६० ॥

छलारी

अस्य मानुषदेहस्य ॥ ६० ॥

एष हि ब्राह्मणो विद्वान् तपःशीलगुणान्वितः ।

आरिराधयिषुर्ब्रह्म महापुरुषसंज्ञितम् ॥ ६१ ॥

सर्वभूतात्मभावेन भूतेष्वन्तर्हितं गुणैः ।

सोऽयं ब्रह्मर्षिवर्यस्ते राजर्षिप्रवराद् विभोः ॥ ६२ ॥

पदरत्नावली

सर्वभूतात्मभावेन सर्वभूतनियामकत्वेन, भूतेष्वन्तर्हितमदृश्यत्वेन स्थितम् । गुणैः पूर्णमिति शेषः ॥ ६१ ॥

दुर्घटभावदीपिका

सर्वभूतात्मभावेन सर्वभूतनियामकत्वेन सर्वभूतेष्वन्तर्हितमदृश्यतया स्थितम् । गुणैः पूर्णमिति । एतेन गुणैरित्येतदनन्वितमिति दूषणं परिहृतम् । पूर्णमित्यस्य विशेष्यमभ्युपेत्यान्वयस्योक्तत्वात् ॥ ६२ ॥

सत्यधर्मीया

भजने यानि निमित्तानि भीतिजनने भवन्ति त्यजनेन वा भवन्त्विति द्विजजाया राजानं प्रति प्राह ॥ एष इति ॥ महापुरुषसंज्ञितं ब्रह्म नारायणाख्यं सर्वभूता-नात्मभावेन स्वामित्वेन भूतेष्वन्तर्हितं गुणैरारिराधयिषुस्तत्तद्गुणकत्वेनाराधनं कर्तुमिच्छुर्विभो राजर्षिप्रवरत्वात् ॥ ६१,६२ ॥

छलारी

सर्वभूतानामात्मा स्वामीति भावेन भावनया आरिराधयिषुः । यद्वा । कथंभूतं ब्रह्म । सर्वभूतानात्मभावेनात्मत्वेनान्तर्नियामकत्वेन । भूतेष्वन्तर्हितमदृश्यत्वेन स्थितं गुणैः पूर्णमिति शेषः ॥ ६१,६२ ॥

कथमर्हति धर्मज्ञ वधं पितुरिवात्मजः ।

तस्य साधोरपापस्य भ्रूणस्य ब्रह्मवादिनः ॥ ६३ ॥

पदरत्नावली

भ्रूणस्य स्वयमेव पुत्रस्य । ब्रह्मवादिनः ब्रह्मज्ञानिनः षडङ्गवेदाध्यायिनो वा ॥ ६३ ॥

सत्यधर्मीया

आत्मजः सुतो भ्रूणस्य । भ्रूणोऽर्भके स्त्रैणगर्भ इत्यमरः । भ्रूणः स्त्रीगर्भ-योरिति भानुः । स्त्रैणगर्भो नाम स्वयमपत्यतयाऽधुना न जात इति स्वयमेव वर्तत इत्यर्थः । भ्रूणहत्यां वैते घ्नन्तीत्येतद्विवृतौ वेदवेदाङ्गविदो ब्राह्मणस्येत्युक्तेर्वेदवेदाङ्गज्ञानिन इति वा । ब्रह्मवादिनो वेदवादिनो ब्रह्मविषयको वादोऽस्यास्तीति ब्रह्म वदितुं शीलमस्यास्तीति वा द्वितीयव्याख्यानुसारेणार्थो ज्ञेयः ॥ ६३ ॥

छलारी

सवितुः सकाशादात्मज इव भ्रूणस्य स्वयमेव पुत्रस्य बभ्रोर्वधम् । यथाऽयोग्यवधमिवेत्यर्थः । सतां संमतो भवान्वधं ब्रह्मवधं कथं साधु मन्यत इत्यर्थः । क्षणमपि येन विना न जीविष्ये । सोऽयं यदि भक्ष्यः क्रियते तर्हि मृतकं यथा मृतप्रायं मां पूर्वं भक्षय । यद्वा मृतकं प्राणरहितं शरीरम् । प्राणमन्तरेण यथा न जीवति तथा पत्या विना न जीविष्य इत्यन्वयः । विलपन्त्या ब्राह्मण्या । एवं प्रार्थितेऽपीति शेषः ॥ ६३–६५ ॥

कथं वधं यथा बभ्व्रा मन्यते सम्मतो भवान् ।

यद्ययं क्रियते भक्ष्यस्तर्हि मां खाद पूर्वतः ॥ ६४ ॥

पदरत्नावली

बभ्व्राः सौरभेय्याः । ‘माहेयी सौरभेयी च बभ्रुः स्याद् वृषकाङ्क्षिणी’ इत्यभिधानम् ॥ ६४ ॥

सत्यधर्मीया

बभ्व्राः सौरभेय्याः । माहेयी सौरभेयी च बभ्रूः स्याद्वृषकाङ्क्षिणीति चाभिधानम् । सम्मतः सत्त्वेन भवान् । बभ्व्रा वधो यथा न विधातव्यस्तथा ब्राह्मणवधोऽपि स एवं कथं मन्यते । साध्विति जानीषे यदि । अयं सप्ततिर्भक्ष्यः क्रियते । तर्ह्ययमुपायं वा कुर्वादाविति वदति ॥ तर्हीति ॥ पूर्वतः पूर्वं मां खाद भक्षय ॥ ६४ ॥

न जीविष्ये विना येन क्षणं च मृतकं यथा ।

एवं करुणभाषिण्या विलपन्त्या अनाथवत् ॥ ६५ ॥

पदरत्नावली

येन पत्या । मृतकं प्राणरहितशरीरम् । प्राणमन्तरेण यथा मृतकं हेयं तथा मज्जीवनमनेन विनेति भावः ॥ ६५ ॥

सत्यधर्मीया

राजावा त्वज्जीवनापेक्षयाऽयमधिकः किमित्यत आह ॥ नेति ॥ येन पत्या विना न जीविष्ये । मृतकं गतजीवं कलेवरं यथा हेयं तथा मज्जीवनमनेन विनेति भावः

॥ ६५ ॥

व्याघ्रः पशुमिवाखादत् सौदासः शापमोहितः ।

ब्राह्मणी वीक्ष्य भर्तारं पुरुषादेन भक्षितम् ॥ ६६ ॥

सत्यधर्मीया

पुरुषादेन प्रस्तुतमनुसृत्येवमुक्तिः ॥ ६६ ॥

शोचन्त्यात्मानमुर्वीशमशपत् कुपिता सती ।

यस्मान्मे भक्षितः पाप कामार्तायाः पतिस्त्वया ॥ ६७ ॥

सत्यधर्मीया

आत्मानं हा विधेहि विधेहि मामपि मृतामिति स्वमुद्दिश्य शोचन्ती । तस्याः शापेन भूपस्य किं स्यादित्यतोऽभिधास्यति ॥ सतीति । पतिव्रतेति न तथोक्तं च्यावयितुं शक्यमिति द्योतयति । पाप तद्वान् ॥ ६७ ॥

छलारी

आत्मानं देहम् । ताडयन्ती सतीति शेषः ॥ ६७ ॥

तवापि मृत्युराधानादकृतप्रज्ञदर्शितः ।

एवं मित्रसहं शप्त्वा पतिलोकपरायणा ॥ ६८ ॥

पदरत्नावली

हे अकृतप्रज्ञ अशिक्षितबुद्धे, तव मृत्युरेवं गर्भाधानसमये दर्शितो भवेत् । आपातादतर्कितात् । कालादिति शेषः । मित्रसहं कल्माषपादम् ॥ ६८ ॥

सत्यधर्मीया

शापप्रकारमुपदर्शयति ॥ तवेति ॥ आधानाद्गर्भाधानमप्रापय्य स्थितस्य मृत्युः प्रदर्शितः । एतत्कार्यानुगुण्येन भवेदिति भावः । आपातादिति पाठे गर्भसन्दर्भकराद् ईषत्पातात्सम्यगपत्योत्पत्तिहेतुभूतात्प्रागेवेत्यर्थः । मित्रसहं सौदासम् ॥ ६८ ॥

छलारी

हे अकृतप्रज्ञ अशिक्षितबुद्धे । तवाधानाद्गर्भाधानात् । मृत्युः । दर्शितो भवेत् । मैथुनसमये तवाऽपि मृत्युर्भूयादिति यावत् । मित्रसहं कल्माषपादम् ॥ ६८ ॥

तदस्थीनि समिद्धेऽग्नौ प्रास्य भर्तुर्गतिं गता ।

विशापो द्वादशाब्दान्ते मैथुनाय समुद्यतः ॥ ६९ ॥

पदरत्नावली

प्रास्य निक्षिप्य ॥ ६९ ॥

सत्यधर्मीया

तस्य पत्युः । प्रास्यादौ क्षिप्त्वा । द्वादशाब्दान्ते विशापः शापहेतुकरक्षो-भावविकलः ॥ ६९ ॥

छलारी

प्रास्य निक्षिप्य । सहगमनं कृत्वा भर्तुर्गतिं गतेत्यर्थः । द्वादशाब्दान्ते विशापः सन् । तेनैव शरीरेण स्वगृहं गतः ॥ ६९ ॥

विज्ञाय ब्राह्मणीशापं महिष्या स निवारितः ।

तत ऊर्ध्वं स तत्याज स्त्रीसुखं कर्मणाऽप्रजाः ॥ ७० ॥

पदरत्नावली

ब्राह्मण्या शापं विज्ञाय स मित्रसहः स्त्रीसुखं स्त्रियं दूरीकृत्य कर्मणा मैथुन-लक्षणेन प्रजां सन्ततिं तत्याज ॥ ७० ॥

सत्यधर्मीया

कर्मणा तच्छापस्मरणरूपेण । स्त्रीसुखम् । अप्रजाः प्रजारहितोऽपि तत्याज । अप्रज इति पाठे प्रजायते पुत्रात्मना स्वयमिति प्रजः स नेत्यप्रज इत्यर्थः । प्रजामिति द्वितीयान्तपाठे प्रजां सन्ततिमुद्दिश्यं स्त्रीसुखं तत्याजेत्यर्थः ॥ ७० ॥

वसिष्ठस्तदनुज्ञातो मदयन्त्यां प्रजामधात् ।

सा वै सप्त समा गर्भमबिभ्रन्न व्यजायत ॥ ७१ ॥

पदरत्नावली

तर्ह्यस्य केन विधिना पुत्रो जात इति तत्राह– वसिष्ठ इति ॥ तेन सौदासेन अनुज्ञातः मद्भार्यायां पुत्रमुत्पादयेति । समाः संवत्सरान् ॥ ७१ ॥

सत्यधर्मीया

तदनुज्ञातस्तेन तद्भर्त्रा । सा मदयन्ती समाः सप्त संवत्सरान् गर्भमबिभ्रद् बभार । न व्यजायत न बहिः प्रादुर्भूतोऽभूत् ॥ ७१ ॥

छलारी

तेन सौदासेनानुज्ञातो मद्भार्यायां पुत्रमुत्पादयेति । सप्तसमाः सप्तसंवत्सरान् गर्भमबिभ्रद्दधाना न व्यजायत नाप्रासूत ॥ ७१ ॥

जघ्नेऽश्मनोदरं तस्मात् सोऽश्मकस्तेन कथ्यते ।

अश्मकान्मूलको जज्ञे यः स्त्रीभिः परिरक्षितः ॥ ७२ ॥

सत्यधर्मीया

ततः किं कृतवती सेत्यतो वक्ति ॥ जघ्न इति ॥ अश्मना पाषाणेनोदरं जघ्ने जघान । अनेन सा द्विजसती स्वकलेवरं शिलया ताडयन्ती न भवतु भवतः साक्षात्सन्ततिः प्रकारान्तरेणान्तर्वत्नी पत्नी जाता चेदप्यनया धाट्यै भवतु तवापत्यमिति मनसि कृतवती तथैवेश्वर एतद्गृहेश्वरीमप्रेरयदिति ध्वन्यते । आत्मानं शोचन्तीत्यस्य स्वोदरं दृषत्ताडनादिना देहमुद्दिश्य शोचन्तीति चार्थो ज्ञेयः । तेन हेतुनाऽयं जातः सुतोऽश्मकः कथ्यते । यो मूलकः स्त्रीभिः परिरक्षितः परशुरामतः स्वयं परित उपवेशनेन न कोऽप्यत्र पुरुष इति सम्भाषणादिना संरक्षितः ॥ ७२ ॥

छलारी

अतो वसिष्ठ एव तस्या उदरमश्मना पाषाणेन जघान । स उत्पन्नः सुतोऽश्मकः । स्त्रीभिः संवेष्ट्य परशुरामात्परिरक्षितोऽतो नारीकवच इत्युक्तः । परशुरामेण निःक्षत्रिये सति क्षत्रियवंशस्य मूलमभवदतो मूलक इति चाप्युक्तः ॥ ७२,७३ ॥

नारीकवच इत्युक्तो निःक्षत्रे मूलकोऽभवत् ।

ततो दशरथस्तस्मात् पुत्र ऐलबिलिः स्मृतः ॥ ७३ ॥

पदरत्नावली

निःक्षत्रे परशुरामेण दुष्टक्षत्रियसंहारे कृते सति, क्षत्रियवंशस्य मूलमभवदतो मूलक इति चाप्युक्तः ।

सत्यधर्मीया

अतो नारीकवच इति नामाऽयम् । नार्य एव कवचं यस्य सः निःक्षत्रे परशुरामे क्षत्रमात्राभावे सति कृते मूलं करोतीति करोतेर्डः । क्षत्रियकुलमूलं मूलकनाम-मूलमित्थमिति भावः । ततो मूलकाद्दशरथोऽयमितरो रामतातात् ॥ ७३ ॥

राजा विश्वसहो यस्य खट्वाङ्गश्चक्रवर्त्यभूत् ।

यो देवैरर्थितो दैत्यानवधीद् युधि दुर्जयान् ॥ ७४ ॥

पदरत्नावली

खट्वाङ्गो दैत्यान् निहत्य स्वपुरं गत्वाऽऽयुमुहूर्तावधिकं ज्ञात्वैवं मनः सन्दधे ॥ ७४ ॥

सत्यधर्मीया

यस्यैलबिलेर्विश्वसहः विश्वं सहत इति क्षमावानिति गुणनाम । खट्वाङ्ग इति तातस्थापितं नामेति विवेकश् चक्रवर्तीति गतम् । अर्थितः सहायार्थं याचितः ॥ ७४ ॥

छलारी

यस्यैलिबिलिनामकस्य । खट्वांगो राजाऽभूत् । तं विशिनष्टि ॥ विश्वसह इति ॥ अत्यन्तक्षमावानित्यर्थः । प्रसन्नैर्देवैर्वरं वृणीष्वेत्युक्ते खट्वाङ्गेनोक्तं तावन्ममायुः कथ्यतामिति । देवैश्चोक्तं मुहूर्तमात्रमिति । तत्ज्ञात्वा देवैर्दत्तविमानेन पुरमेत्य मनः सन्दधे । इदानीं खट्वाङ्गस्य स्वसाधुवृत्तानुस्मरणपूर्वकं भगवच्छरणागतिप्रकारं दर्शयति ॥ नम इत्यादिना तमहं प्रपद्य इत्यन्तेन ॥ ७४ ॥

राजा उवाच—

मुहूर्तमायुर्ज्ञात्वैत्य स्वपुरं सन्दधे मनः ।

न मे ब्रह्मकुलात् प्राणाः कुलदैवान्न चात्मजाः ॥ ७५ ॥

पदरत्नावली

कथं तदिति तत्राह–न म इति । कुलदैवाद् ब्राह्मणकुलान् मे प्राणादयो नातिवल्लभा इत्यन्वयः ॥ ७५ ॥

सत्यधर्मीया

आयुः स्वजीवितकालं मुहूर्तं तदवशिष्टं ज्ञात्वा स्वपुरमेत्य मनो दधे दधार । तत्प्रकारश्च ‘खट्वाङ्गो नाम राजर्षिर्ज्ञात्वेयत्तां तथाऽऽयुषः’ इति व्याकृत्यवसरे । अत्रेयमाख्यायिका देवैः सहायार्थं याचितः खट्वाङ्गो दितिजानजावजीघनत् । तदा ते दिविष-दस्तुष्टा वरं वरयेत्यवोचन् । तदा मेदिनीशो ममायुः कियद्वदेत्याह । ते चाहुर्मुहूर्तात्मकमिति । तदा तदवेत्य देवयानेन त्वरया पुरमागत्य भगवति मनः समाधाय परं पदं जगामेति द्वितीयप्रथमेऽनुसन्धेयः । चिन्तनप्रकारमाह ॥ नम इति । ब्रह्मकुलाद्ब्रह्मणकुलात्प्राणा नातिवल्लभा इत्युत्तरेणान्वयः । कुलदैवाच्छ्रीवासुदेवात् । आत्मजाः सुताः ॥ ७५ ॥

छलारी

कुलदैवतात् । ब्रह्मकुलाद् ब्राह्मणकुलात् ॥ ७५ ॥

न श्रियो न मही राज्यं न दाराश्चातिवल्लभाः ।

न बाल्येऽपि मतिर्मह्यमधर्मे रमते क्वचित् ॥ ७६ ॥

पदरत्नावली

मह्यं मम मतिः ॥ ७६ ॥

सत्यधर्मीया

श्रियः सम्पदो दारा भार्या लसत्सु सत्सु दन्तेषु नोदन्तश्चणकानां तेषु च सत्सु न रदा इति चणकाभाणकवन्नायुषि सति सति साधने मन इदानीं सति चेतसि न नायुरिति न किन्त्वहमाजनीनैतत्स्वभाव इति स्वस्वरूपं निरूपयति ॥ नेति ॥ अनेन विशेषसाधन-चिकीर्षयेयमुक्तिरिति सूच्यते । बाल्येऽपि मह्यं मम रमतेऽरमत ॥ ७६ ॥

छलारी

ते प्राणा नातिवल्लभा नातिप्रिया इति प्रत्येकं सम्बन्धः । मह्यं मम ॥७६॥

नापश्यमुत्तमश्लोकादन्यत् किञ्चन वस्त्वहम् ।

देवैः कामवरो दत्तो मह्यं त्रिभुवनेश्वरैः ॥ ७७ ॥

पदरत्नावली

वस्तु अप्रतिहतम् ॥ ७७ ॥

सत्यधर्मीया

वस्तु शक्तम् । अवस्त्वशक्तमुद्दिष्टं वस्तु शक्तमिति तात्पर्यान्तरात् । उद्गतं तमो यस्मात्स श्लोकः कीर्तिर्यस्य । उत्तमैर्ब्रह्मादिभिः श्लोक्यत इति स तथा तस्मात् । किञ्चनान्यन्नापश्यम् । देवैः कामवरो मह्यं दत्तः ॥ ७७ ॥

छलारी

किञ्चन वस्तूत्तमश्लोकादन्यद्भगवदनधीनं नापश्यम् । किन्तु भगवदधीन-मेवापश्यमित्यर्थः ॥ ७७ ॥

न वृणे ह्यवरं कर्म भूतभावनभावनाद् ।

येऽविक्षिप्तेन्द्रियधियो देवास्ते स्वहृदि स्थितम् ।

न विदन्ति प्रियं शश्वदात्मानं किमुतापरे ॥ ७८ ॥

पदरत्नावली

भूतभावनस्य भूतोत्पादकस्य हरेर्भावनाद् उपासनादन्यदवमं कर्म मोक्षसाधनत्वेन न वृणे । अविक्षिप्तेन्द्रियधियः । आत्मानं हरिम् ॥ ७८,७९ ॥

दुर्घटभावदीपिका

अहमवमं कामं (कर्म) न वृणे न स्वीकरोमि । भूतभावनभावनाद् भूतोत्पादकभगवद्ध्यानादन्यत्कर्म न वृणे न करोमीति । एतेन पूर्ववाक्ये देवैः कामवरो दत्त इत्युक्तत्वादवमं कामं न वृण इति वक्तव्यम् । अवमं कर्म न वृण इति कथनमसङ्गतम् । भूतभावनादित्येतदनन्वितमिति दूषणं परिहृतम् । काममन्यदिति पदयोः शेषमङ्गीकृत्य न वृण इत्यस्यावृत्तिं वृण इत्यस्य स्वीकारार्थत्वं करोमीत्यर्थं चाभ्युपगम्यावमं कामं न स्वीकरोमि । भूतभावनादन्यत्कर्म न करोमीत्यर्थस्योक्तत्वात् ॥ ७८ ॥

सत्यधर्मीया

हि यतः कर्मावरं नश्वरफलकमिति नीचम् । भूतभावनो भगवान् । भूतभावनस्य जगदुत्पादकस्य भावनादुपासनया न वृणे नेच्छामि । दुर्गमं भगवदवगमनमित्याह ॥ य इति ॥ अविक्षिप्तेन्द्रियधियः शश्वत्प्रियमात्मानं स्वामिनं हृदि संस्थितमपि न विदन्ति । अपरे मदादयो न विदाम इति किमुतेति योजना । इन्द्रियसहिता च सा धीश्चाविक्षिप्ताऽ-विषयविषयिणी सा येषां तथेति ॥ ७८ ॥

छलारी

अहं भूतभावनभावनाद्भूतोत्पादकभगवद्ध्यानादिकामादवममन्यकामं न वृणे न स्वीकरोमीति । विषयेष्वविक्षिप्तानीन्द्रियाणि धियश्च येषां ते देवा अप्यात्मानं श्रीहरिं न जानन्ति किमुतापरे मादृशाः ॥ ७८ ॥

अथेशमायारचितेषु सङ्गं गुणेषु गन्धर्वपुरोपमेषु ।

रूढं प्रकृत्याऽऽत्मनि विश्वभर्तुर्भावेन हित्वा तमहं प्रपद्ये ॥ ७९ ॥

पदरत्नावली

किमनेन बहुनोक्तेनापि, एवं मम सिद्धान्त इति सन्दधाति– अथेति ॥ अथाहं तं श्रीहरिं प्रपद्य इत्यन्वयः । किं कृत्वा ? ईशस्य हरेर्मायया विकृतैः पृथिव्यादिपञ्चभूतै रचितेषु गुणेषु देहेन्द्रियादिषु गन्धर्वपुरोपमेषु नश्वरेषु । आत्मनि मनसि । प्रकृत्या स्वत एव रूढं सङ्गं स्नेहलक्षणं पाशं हित्वा । त्यागे साधनमाह– विश्वभर्तुरिति ॥ भावेन भक्त्या

॥ ८० ॥

सत्यधर्मीया

मदनुष्ठेयकाष्ठेयमिति स्पष्टयति । अहमीशमायारचितेष्वीशेन मुख्यकर्त्रा मायया प्रकृत्या रचितेषु निर्मितेषु गुणेषु देहादिषु । स्थैर्यं न तेषामित्यनुरूपं निदर्शनं निरूपयति । गन्धर्वपुरोपमेषु, गन्धर्वपुरेणोपमा येषां ते तथा तेषु । प्रकृत्या स्वत आत्मन्य-चिन्मनसि रूढं सङ्गं स्नेहं हित्वा तद्धाननिदानमाह । विश्वभर्तुर्जगद्धारकस्य भावो भक्तिस्तेनेति, तं प्रपद्ये ॥ ७९ ॥

छलारी

किमनेन बहूक्तेनाथैवं मम सिद्धान्त इति भगवति मनः सन्दधाति ॥ अथेति ॥ अथ तस्मात्तं श्रीहरिं शरणं प्रपद्य इत्यन्वयः । किं कृत्वा । ईशस्य हरेर्माययेच्छया विकृतैः पृथिव्यादिपञ्चमहाभूतैः रचितेषु गन्धर्वपुरोपमेषु नश्वरेषु गुणेषु देहेन्द्रियादिषु । आत्मनि मनसि प्रकृत्या स्वत एव रूढं सङ्गं स्नेहपाशलक्षणं हित्वा । त्यागे साधनमाह ॥ विश्वभर्तुरिति ॥ भावेन भक्त्या ॥ ७९ ॥

इति व्यवसितो बुद्ध्या नारायणगृहीतया ।

हित्वाऽन्यभावमज्ञानं ततः स्वं भावमाश्रितः ॥ ८० ॥

पदरत्नावली

अज्ञानमज्ञाननिमित्तकम्, अन्यस्मिन् स्वतन्त्रतरे देहगेहादौ भावं विद्यमानं ममतादिरूपं सङ्गं हित्वा तं स्वं स्वतन्त्रं भावं नारायणाख्यं नित्यपदार्थमाश्रितः ॥ ८१ ॥

दुर्घटभावदीपिका

खङ्गाङ्गो नारायणगृहीतया नारायणदत्तया बुध्द्या । इति व्यवसित इति पूर्वोक्तप्रकारेण व्यवसितो व्यवसायं प्राप्तः सन् । अज्ञानं भावरूपाज्ञानविशिष्टमन्यभावं भगवद्व्यतिरिक्तब्रह्मादिरूपपदार्थं हित्वा यद्वस्तु तत्सर्वप्रमाणप्रसिद्धम् । परं सर्वोत्तमं सूक्ष्म-मतीन्द्रियशून्यं गुणैः शून्यं न भवति । गुणपूर्णमिति यावत् । शून्यकल्पितं शून्यनामक-मूलरूपादभिव्यक्तं वासुदेवेति शब्दवाच्यं ब्रह्मेति शब्दवाच्यमिति सात्त्वताः सात्त्विका गृणन्ति यं च भगवानिति गृणन्ति । ततः स्वं स्वतन्त्रं भावं नारायणाख्यपदार्थमाश्रित इत्येतद्धि प्रमाण-प्रसिद्धमिति । एतेन तत इत्येतव्द्यर्थमिति दूषणं निरस्तम् । तच्छब्दात्परस्य द्वितीया-यास्तसिलङ्गीकृत्य तत इत्यस्य तमित्यर्थस्योक्तत्वात् । एतेनैव वासुदेवादि शब्दवाच्यस्य भगवतः सत्यत्वेन मिथ्यात्वाभावाच्छून्यकल्पितमिति शून्यस्य कल्पितत्वाभिधानं चायुक्तमिति दूषणमपास्तम् । शमूनं कुरुते यस्माच्छून्यस्तस्माज्जनार्दन इति प्रमाणानुसारेण शून्य शब्देन शून्यनामकमूलरूपं भगवन्तं गृहीत्वा कल्पितशब्दस्याभिव्यक्त्यर्थकत्वं चाङ्गीकृत्य शून्यकल्पित-मित्यनेन वासुदेवादिशब्दवाच्यस्य भगवतः शून्यनामकभगवदवतारत्वमुच्यत इत्यभ्युपगमात्

॥ ८१ ॥

॥ इति श्रीभगवतटिप्पण्यामष्टमोऽध्यायः ॥ ९-८ ॥

सत्यधर्मीया

नारायणगृहीतया नारायणो गृहीतो विषयीकृतो यया सा तया बुद्ध्या अन्तर्णीतण्यर्थतया नारायणगृहीतया प्रापितयेति वा व्यवसितो विशेषेणावसितं निश्चयो यस्य सः । अज्ञानं तत्स्वरूपमाह ॥ अन्यभावमिति ॥ अन्यान्भावयति भगवत्त्वं नेति तत्तथा । अन्येनापि स्वतन्त्रेतरेण भावः सत्तेति येन तत्तथेति वा । अनिनां प्राणिनामभावः पृथगीश्वरेण येन तत्तथा तद्वा हित्वा ततस्त्यक्त्वा गामनन्तरं स्वं स्वतन्त्रं स्वशब्दवाच्यं भावं नित्यस्वतन्त्रसत्तामाश्रितः

॥ ८० ॥

छलारी

खट्वाङ्गो नारायणदत्तया बुद्ध्या । इति पूर्वोक्तप्रकारेण व्यवसितो व्यवसायं प्राप्तः सन् । अज्ञानमज्ञानादिनिमित्तकमन्यस्मिन् शरीरादौ भावं विद्यमानं ममतादिरूपं सङ्गं हित्वा तं स्वं स्वतन्त्रं भावं नारायणाख्यं पदार्थमाश्रितः ॥ ८० ॥

यत् तद् ब्रह्म परं सूक्ष्ममशून्यं शून्यकल्पितम् ।

भगवान् वासुदेवेति यं गृणन्ति हि सात्वताः ॥ ८१ ॥

पदरत्नावली

भावशब्दस्य लीलाद्यनेकार्थेषु वृत्तेरत्र विवक्षितः क इति तत्राह– यत् तदिति ॥ उत्तरलिङ्गविवक्षया यत् तदिति । वेदान्तिनो यं भावं परं ब्रह्मेति गृणन्ति, योगिनः सूक्ष्ममिन्द्रियगोचरमाकाशवदिति सङ्गिरन्ते, केचिदवैदिकाः शून्यनाम्ना कल्पितं जल्पन्ति । न तत् तत्त्वमित्याह– अशून्यमिति ॥ सात्वताः पञ्चरात्रिका यं भगवानिति ब्रह्मेति च । गृणन्ति तं भावमाश्रित इत्यन्वयः । हिशब्देनोक्तार्थस्य प्रमाणप्रसिद्धिं दर्शयति ‘ब्रह्मविदाप्नोति परम्’ तस्यान्ते सुषिरं सूक्ष्मं’ ब्रह्मेति परमात्मेति भगवानिति शब्द्यते’ ‘शमूनं कुरुते यस्माच्छून्य-स्तस्माज्जनार्दनः’ इत्यादेः शून्यं तत्त्वमबाध्यमिति च ॥ ८२,८३ ॥

सत्यधर्मीया

प्रस्तुतं प्राक् स्तुतं च वस्तु वस्तुतः किमिति मन्दसन्देहं तुदति ॥ यत्तदिति ॥ परमक्षरात्परतः परमिति परं, सूक्ष्ममिन्द्रियागोचरमणोरणीयो वा नेन्द्रियाणि । अणोरणीयानिति श्रुतेर् अन्योन्यं सकलगुणाविकलं शून्यकल्पितमिति इतरसुखोनन्यंत्वाच्छून्य-मिति कल्पितं पृथग्गुणराहित्याच्छून्यमिव कल्पितमिव । ‘शमूनं कुरुते यस्माच्छून्यं तस्मा-ज्जनार्दनः’ । शून्यतया कल्पितं पामरैरिति वा । शून्यं तत्त्वमविज्ञेयं मनोवाचामगोचरमिति । यत्तद्ब्रह्मेति ब्रह्मपदप्रतीक्षया नपुंसकनिर्देशः । सात्वताः पञ्चरात्रिकाः । भगवानिति वासुदेवेति यं गृणन्ति यच्च परमित्यादिप्रकारेण गृणन्ति च तं भावं श्रित इत इत्यन्वयः । तर्हि पूर्वं भाव इत्यभिहितं वस्त्वन्यदिदं चान्यदिति स्यादित्यतः पुनः भावपदं लक्षयित्वा पुल्लिङ्गयच्छब्देन स परामृश्यस्ततश्चैकमेव पुंनपुंसकलिङ्गपदाभ्यां मयोक्तमिति सङ्कलय्याहेति तात्पर्यमवधेयम् । ब्रह्मविदाप्नोति परम् । तस्यान्ते सुषिरं सूक्ष्मं, ब्रह्मेति परमात्मेति भगवानिति वासुदेवो वा इदमग्र आसीदित्यादिश्रुतिप्रसिद्धतामेतदर्थस्य हिराह । हरिं जगाम कायं त्यक्त्वेति यावत् ॥ ८१ ॥

छलारी

स्वं भावमेवाह ॥ यत्तदिति ॥ उत्तरलिङ्गविवक्षया यत्तदिति यद्वस्तु तत्सर्वं प्रमाणप्रसिद्धं परं सर्वोत्तमं सूक्ष्ममतीन्द्रियमशून्यं गुणैः शून्यं न भवति । पूर्णमिति यावत् । शून्यकल्पितं शून्यनामकमूलरूपादभिव्यक्तम् । वासुदेवेति शब्दवाच्यमिति । सात्वताः पञ्च-रात्रिकाः । गृणन्ति यं च ब्रह्मेति भगवानिति च गृणन्ति । हिशब्देनोक्तार्थस्य ‘शमूनं कुरुते यस्माच्छून्यस्तस्माज्जनार्दनः’ इत्यादिप्रमाणप्रसिद्धिं दर्शयतीति द्वयोरेकान्वयः ॥ ८१ ॥

शुक उवाच—

खट्वाङ्गाद् दीर्घबाहुश्च रघुस्तस्मात् पृथुश्रवाः ।

अजस्तस्मान्महाराजस्तस्माद् दशरथोऽभवत् ॥ ८२ ॥

सत्यधर्मीया

स्वात्मानं प्रत्येवैवमालोचनेनोवाचेति सूचयितुं पुनः शुक उवाचेति कविर्वदति ॥ शुक इति । तस्माद्दीर्घबाहोः । पृथुश्रवा इति रथध्वजान्वयि । दशरथो महाराजस्तस्मादजात् । प्राक् दशरथस्तु स्वायम्भुवः । यथोक्तं पद्मपुराणे ।

तस्याभूत्प्रथमं जन्म मनोः स्वायम्भुवस्य तु ।

रघूणामन्वये पूर्वं राजा दशरथोऽभवत् ।

द्वितीयं वसुदेवोऽभूद्वृष्णीनामन्वये मनुः ।

काले दशसहस्राब्दे ग्रामे शम्बलसंज्ञिते ।

विष्णुव्रतोऽभवदित्याद्युक्तेः । नन्वाचार्यैर्महाभारततात्पर्यनिर्णये स कश्यपो द्रागिति शूरात्स जातो बहुगोधनाढ्यो भूमौ यमाहुर्वसुदेव इत्यपीत्येकादशाध्याये वसुदेवस्य कश्यपत्वोक्तेर्विरोध इति चेन्न । वसुदेवो भवतु कश्यपः । स्वायम्भुवस्यावेशयुत इति समाध्युपपत्तेः । न च दशरथ प्राग्रूपानुक्तिरिह कथमिति शङ्क्यम् । स कश्यपस्यादितिगर्भजन्मनो विवस्वतस्तन्तुभवस्य भूभृतः । गृहे दशस्यन्दननामिनोऽभूदिति तृतीयाध्याये । अदित्यां गर्भस्य जन्माङ्कुरणं यस्मात्तस्य कश्यपस्य दशस्यन्दननामिनो गृह इत्यप्यन्वयने पद्मपुराणैककण्ठ्यस्याकुण्ठनात् । एतच्छ्लोकव्याकृतौ केचिद्दशरथं वैवस्वतमाहुः । तदुक्तं वामनपुराणे । भविष्यदन्तरे भूत्वा मनुर्वैवस्वतो भवात् ।

तव वंशे भवाम्यङ्ग रामो दाशरथिः स्वयम् ।

पुनर्दशरथो भूत्वा त्वमेवासि पिता मम ।

तद्दत्तपिण्डदानेन मुक्तिस्ते भविता ध्रुवमिति । यत्तूत्तरखण्डपद्मपुराणवचनं तद्वसुदेवसाह-चर्यादावेशपरमित्यप्याहुः । पद्मपुराणवचनं च यस्याभूत्प्रथमं जन्म मनोः स्वायम्भुवस्य च । रघूणामन्वये पूर्वं राजा दशरथो ह्यभूत् । द्वितीये वसुदेवोऽभूद्वृष्णीनामन्वये पुनरितीत्यवदन् । वामनवचनमेव मानसे निधाय विवस्वतस्तन्तुभवस्येति गोत्रापत्यतयाऽऽचार्या विवृतवन्त इति सावकाशमिति न वैवस्वतपक्षः सम्मत आचार्याणाम् । किञ्चांशावतारे नारायणपण्डिताचार्य-विरचिते ‘राजा दशरथः पूर्वं मनुः स्वायम्भुवः स्मृतः’ । उक्तं पद्मपुराणे च ‘ह्यवतारप्रसङ्गत’ इत्युक्तेश्च कश्यपोऽयमस्मिन्स्वायम्भुवस्यांशस्तथा विवस्वतश्चांश इति निर्गलो मार्ग इत्यलम्

॥ ८२ ॥

छलारी

पृथुश्रवा इति रघोर्विशेषणम् ॥ ८२ ॥

तस्यापि भगवानेष साक्षाद् ब्रह्ममयो हरिः ।

अंशांशेन चतुर्धाऽगात् पुत्रत्वं प्रार्थितः सुरैः ।

रामलक्ष्मणभरतशत्रुघ्नाश्चेति संज्ञया ॥ ८३ ॥

पदरत्नावली

ब्रह्ममयो वेदमुख्यार्थभूतः । स्वयमंशेन लक्ष्मणादिषु अंशांशेन ॥ ८४ ॥

सत्यधर्मीया

तस्य दशरथस्य । साक्षादित्युत्तरत्रत्यत्रिकव्यावर्तये । ब्रह्ममयस्तदभि-न्नोंऽशेन त्रिधा चेति चतुर्धा सुरैः प्रार्थितः पुत्रत्वमगात् । स्वच्छन्दप्रवृत्तेर्न छन्दप्रवृत्तिरिति रामलक्ष्मणभरतेत्युक्तिः सम्भवति ॥ ८३ ॥

छलारी

ब्रह्ममयो वेदमुख्यार्थभूतः पुरुषापरनामा पद्मनाभः स्वस्यांशेन वासुदेवादि-रूपांशेन तस्य दशरथस्य रामादिसंज्ञया चतुर्धा पुत्रत्वमगादित्यन्वयः । ‘इत्थं विचिन्त्य स तु वासुदेवनामा बभूव’ इत्युक्तेः । अण्डाद्बहिर्वासुदेवादिसर्वावताराणां मूलरूपाद्विश्लेष एतन्नानाव-ताराणां निधानं बीजमव्ययमित्युक्तेः । अण्डान्तर्वासुदेवादिरूपाणां पद्मनाभाद्विश्लेषस्तस्मिन्नेव संश्लेष इत्यवधेयम् । यथाऽण्डद्बहिर्नारायण आदौ वासुदेवादिरूपो वभूव । एवमण्डान्तः पद्मनाभोऽपि वासुदेवादिरूपेण चतुर्धा बभूव । स वासुदेवः प्रथमं रामो बभूव । सः सङ्कर्षणः शेषावतारे लक्ष्मणे प्राविशत् । स प्रद्युम्नश्चक्राभिमानिनि कामावतारे भरते प्राविशत् । सोऽनिरुद्धः शङ्खाभिमानिनि कामपुत्रेऽनिरुद्धावतारे शत्रुघ्ने प्राविशत् । चतुर्मूर्तेर्मुकुन्दस्य मूर्तिरेवाग्रतोऽभवत् । अन्येषु त्रिषु तिस्रोऽन्याः प्राविशन्निति सन्मतमिति । ननु पद्मनाभो वासुदेवादिरूपेण वभूवेत्यत्र किं प्रमाणमिति चेन्न । चतुर्मूर्तेर्मुकुन्दस्येति च नान्यथाऽनुपपत्तेरेव प्रमाणत्वादिति ॥ ८३ ॥

तस्यानुचरितं राजन् ऋषिभिस्तत्त्वदर्शिभिः ।

श्रुतं हि वर्णितं भूरि त्वया सीतापतेर्मुहुः ॥ ८४ ॥

पदरत्नावली

तत्त्वदर्शिभिर् ऋषिभिर्वर्णितं तस्य सीतापतेर्भूरि फलतो महत्तरमनुचरितम्

॥ ८५ ॥

सत्यधर्मीया

तत्त्वदर्शिभिरप्रमोषप्रमैर्ऋषिभिः प्रागगितैः । तस्य सीतापते रामस्यानु-चरितं भूरि बहुवारवर्णितं त्वया श्रुतं चेदपि मुहुः श्रुतं भूरिफलतो महदिति । अनु त्वच्छ्रुत-मनुसृत्याहमपि वर्णयामीति शेषः । अन्यथा गुर्वर्थ इत्युत्तरश्लोकानुत्थितिः स्यादिति ज्ञेयम् । चरितमिति पूर्तावपि यदन्वित्याह तेनामुमर्थं ध्वनयामासेति ज्ञेयम् ॥ ८४ ॥

छलारी

ऋषिभिर्वाल्मीकमुख्यैर्भूरि वर्णनं त्वया मुहुः श्रुतम् । तथाऽपि संक्षेपेण कथ्यमानं शृृणु ॥ ८४ ॥

**गुर्वर्थे त्यक्तराज्यो व्यचरदनुवनं पद्मपद्भ्यां प्रियायाः **

पाणिस्पर्शाक्षमाभ्यां मृजितपथिरुजो यो हरीन्द्रानुजाभ्याम् ।

**वैरूप्याच्छूर्पणख्याः प्रियविरहरुषाऽऽरोपितभ्रूविजृम्भः **

श्रुत्वाऽऽविर्बद्धसेतुः खलदवदहनः कोसलेन्द्रोऽवतीर्णः ॥ ८५ ॥

पदरत्नावली

त्वया पुनः पुनः श्रुतमपि सूत्रप्रायश्लोकेन सङ्क्षिप्य कथ्यमानं शृणु-ष्वेत्याशयेनाह– गुर्वर्थे इति ॥ गुर्वर्थे पित्रर्थे । पद्मपद्भयां पद्मोपमचरणाभ्याम् । मृजित-पथिरुजः मार्जितमार्गक्लेशः । हरीन्द्रानुजाभ्यां सुग्रीवलक्ष्मणाभ्याम् । वैरूप्यान् नासिकाच्छेद-लक्षणात् हेतोस्तया प्रलोभितेन रावणेन भार्याया अपहारात्, प्रियायाः सीताया जातो यो विरहस्तेनोद्भूतया रुषा आरोपितभ्रूविजृम्भ उन्नमितभ्रूभङ्गः । अत्र निमित्तमाह– श्रुत्वाऽऽविर् इति ॥ हनुमतो मुखेन लङ्कायां प्रियाया आविर् भावं श्रुत्वा । खला एव दवः खलदवः, तस्य खलदवस्य दाहे दहनेऽग्निः । ‘दवदावौ वनारण्यवह्न्योः’ इति यादवः । एवंविधो भगवान् कोसलेन्द्रनाम्ना भुव्यवतीर्ण इत्यन्वयः । अवतान्न इति केचित् पठन्ति ॥ ८६ ॥

सत्यधर्मीया

विदितसङ्क्षेपा हि प्रपञ्चं जिज्ञासवो भवन्तीत्येतत्स्मरणोद्धारणाय समग्रं रामचरितं सङ्गृह्णानः सूत्रप्रायश्लाकेन शुक आह ॥ गुर्वर्थ इति ॥ गुरुर्निषेकादिपरे पित्रादा-वित्यमरात्पितुर्दशरथार्थे तन्निमित्तं त्यक्तराज्य आचतुर्दशसमासमाप्तिपद्मपद्भ्यां पद्मवद्विद्यमानौ पादौ ताभ्यां कमलकोमलाभ्याम् । आदेशरूपो वा पदङ्घ्रिश्चरणोऽस्त्रियामित्युक्तः स्वतन्त्रशब्दो वेति ज्ञेयम् । अनुवनं व्यचरत् । अनुना नैकत्रावस्थितिरिति स्थितिं ध्वनयति । पदसौकुमार्य-सम्पदं दर्शयति । प्रियायाः सीतायाः पाणी हस्तौ तयोर्यः स्पर्शस्तस्मिन्नप्यक्षमौ असमर्थौ ताभ्यां क्षमम् । वाच्यवच्छक्तहितयोरिति विश्वः । तादृशाभ्यामपि मृजितपथरुजो यो वाटः पथश्चेति त्रिकाण्डशेषात्स्वतन्त्रोऽदन्तः पथशब्दः । पथान्मार्गाज्जाता या रुजा । टापं चैवेति टाबन्तः शब्दः । सा मृजिता मार्जिता येन सः । मृजितपथिरुज इति पाठः सरसः । यद्वा पथोऽस्या अस्तीति पथिनी सा च रुजा च सा मृजिता येन सः । सम्बन्धश्च जन्यतारूपः । हरीन्द्रो हनुमान्सुग्रीवो वा ताभ्यां सहितो व्यचरच्चचार । प्रियः स्वपतिरकम्पनस्तस्य विरहो रावण-मारणकृतो वियोगस्तज्जनिता या रुट् लङ्कात्यागे निमित्तभूता तया । तथा वैरूप्याद्गलमङ्गल-सूत्रादिविकलतायातं वैरूप्यं प्राप्यागतायाः शूर्पणख्याः । नखमुखात्संज्ञायामिति स्मरणात् । शूर्पणखाया इति यद्यपि वक्तव्यं तथाऽपि शूर्पनख्या इति वदन्कुम्भवदेव कर्णावस्येत्यतो नाम च कुम्भकर्ण इतिवच्छूर्पाकारनखवत्तानिमित्तकोऽयं शब्द इति ध्वनयामासेत्यवसेयम् । यथोक्तं तत्त्व-सुबोधिन्याम् । यदा तु शूर्पवन्नखानि यस्या इति योगमात्रं विवक्ष्यते न तु संज्ञातो संज्ञात्वान्न ङीष्निषेधो न वा णत्वं तेन राक्षस्यामपि शूर्पनखीति योगवृत्त्या भवतीत्याहुरिति । स्वाङ्गादिति । ईषू इति । यथोक्तमाचार्यैः । ‘व्यापादिते निजपतौ हि दशाननेन प्रामादिकेन विधिनाऽभिससार रामम्’ इति । वैरूप्यादित्यावृत्तं प्रथमान्तं सदन्वेति । वैरूप्यं घोणाकर्ण-च्छेदनेनातयतीति स तथा । यद्वा वैरूप्यात्तद्विरचय्य यो व्यचरदित्यन्वयः । आरोपितभ्रूविजृम्भ आरोपिते उत्तानीकृते भ्रुवौ तयोर्विजृम्भो विकासो यस्य सः । जृम्भो हर्षे विकासे चेति विश्वः । अत्र निमित्तमाविः श्रुत्वेति । हनुमतो मुखेनाविर्भावं स्थितिमिति यावत् । त्रस्ताब्धिरिति स्फुटार्थः पाठः । समुद्र इति शेषः । बद्धः सेतुर्येन सः । पूर्वः खलः स्वरस्तदुपलक्षिताद्दूषणेन स हि चतुर्दशसाहस्री चास्रपानाम् । सैव दवो वनम् । खला रावणाद्युच्छृङ्खलवृत्तयो राक्षसास्त एव दवो वनं वा तस्य दहनोऽग्निः । दवदावौ वनारण्यवन्ह्योरिति यादवः । दवदावौ वनारण्य-वह्नीत्यमरः । कोसलेन्द्रः कोसलदेशेशः सन्नवतीर्णः । भूमाविति शेषः । अवतान्न इति पाठोऽवतान्नः । योऽनुवनं जलमनु व्यचरत्स एवावतीर्ण इत्यन्वयेनापि नारायण एवायमिति भावो ध्वन्यते । दशाप्यवतारा एतेन सङ्गृहीता इति भाति । तथा हि । अनुवनं गुर्वर्थे सत्यव्रतोपरि निहितभाररूपप्रयोजनार्थं जलमनुसृत्यावतीर्णो यो व्यवहरदिति वा योऽनुवनं व्यचरत्स मत्स्योऽवतादिति वाऽन्वयः ॥ १ ॥ यो गुर्वर्थे मन्दरभारमुद्दिश्यानुवनं व्यचरत्कूर्मः । यथापूर्वमुर्वरितम् ॥ २ ॥ अनुवनं काननमनुसृत्य पाणिस्पर्शाक्षमाभ्यां पाणिस्पर्शे अक्षमा धरा ययोस्ताभ्यां पद्मपद्म्यां व्यचरत्स वराहः । पादसंवाहिका मही यस्येति भावः ॥ ३ ॥ गुरोः प्रल्हादपितुरर्थे निवृत्तौ तामुद्दिश्य योऽवतीर्णः स नृसिंहः ॥ ४ ॥ गुर्वर्थे गुरुर्बृहस्पतिस्तस्यार्थे । अवमानेनादृश्यतारूपनिवृत्तौ यस्त्यक्तराज्यस्तस्य । गुरोर्ज्येष्ठत्वात्पितृसमस्येन्द्रस्यार्थे । तस्मा इति यावत् । त्यक्तं बलितोऽपहृत्य दत्तं राज्यं येनेति वामनः ॥ ५ ॥ गुर्वर्थे पूज्यकश्यपार्थे त्यक्तराज्य इति जामदग्न्योऽत एव धरायाः काश्यपीत्यभिधा ॥ ६ ॥ प्रस्तुतस्तुतश्चैकः ॥७॥ गुर्वर्थे उग्रसेनार्थे त्यक्तराज्यो याः प्रिया अत्यक्तराज्योऽत्यक्तपङ्क्तयस्तासां पाणिस्पर्शाक्षमाभ्यां पद्मपद्भ्यामनुवनं मृजितपथिरुजो व्यचरद्यः स कृष्णः ॥ ८ ॥ यो वैरूप्याद्वैरूप्येण दिगम्बर-तयाऽततीति स तथा बुद्धः ॥ ९ ॥ यश्च हरीन्द्रो वाजिराजस्तस्यानु पश्चाद्भागे जायेते इति तौ ताभ्यां पद्मपद्भ्यां मृजितपथिरुजः । हरिर्भेकाश्वसिंहेत्यादिर्विश्वः । चतुष्ट्वात्पादानां कथं द्वयोरेव ग्रहणमित्यतोऽप्याह । पद्मपद्भ्यां पाणिस्पर्शाक्षमाभ्यां योग्यतया हरीन्द्रपदार्थान्वयः । पाणिस्पर्शमात्रेण न विद्यते क्ष्मा भूः स्पृश्यत्वेन ययोस्ताभ्यामुत्तानीकृताभ्यामिति यावत् । इति चतुर्भिः पादैः । यदाऽश्वस्य पाणिस्पर्शोऽसम्भावितस्तदा कशा दुर्दशा किं शंसनीयेति द्योत्यतेऽनेन कल्की ॥ १० ॥ सर्वमपि सर्वत्राभेदादन्वेत्युर्वरितमिति मन्तव्यम् । प्रियं कलत्रं तद्विरहरुषेत्यपि योजयन्ति ॥ ८५ ॥

छलारी

इदानीं संक्षेपविस्तराभ्यां च कथयन्ति मनीषिणः । बहुवारस्मृतेस्तस्य फलबाहुल्यकारणादित्युक्तेर्विस्तरतो रामकथां विवक्षुः प्रथमं तावत्संक्षेपतस्तां वर्णयन् स्वसंरक्षणं प्रार्थयते ॥ गुर्वर्थ इति ॥ सः कोसलेन्द्रो रामो नोऽस्मान् अवतात् । सः कः । यो गुर्वर्थे पितुः सत्यपालनार्थं त्यक्तराज्यः सन् पद्मवत्सुकुमाराभ्यां पद्भ्याम् । तदेवाह । प्रियायाः पाणिस्पर्शेऽक्षमाभ्यामसमर्थाभ्याम् । अतिकोमलाभ्यामिति यावत् । प्रतिवनं व्यचरन् । हरिरिन्द्रो हनुमान्सुग्रीवो वा । अनुजो लक्ष्मणस्ताभ्यां युक्तः । मृजितपथिरुजो मार्जितमार्गक्लेशः शूर्पनख्या वैरूप्याद्धेतोस्तया प्रलोभितेन रावणेन । भार्याया अपहारात्प्रियाया जातो यो विरहस्तेन जातया रुषाऽऽरोपितभ्रूविजृम्भणैव त्रस्तोऽब्धिर्यस्मात्सः । ततस्तद्विज्ञापनेन बद्धसेतुर्येन सः । खल एव दवो वनं तस्य दहनोऽग्निस्थानीयः । दवादावौ वनारण्यवन्ह्योरिति यादवः ॥ ८५ ॥

विश्वामित्राध्वरे येन मारीचाद्या निशाचराः ।

पश्यतो लक्ष्मणस्यैव हता नैर्ऋतपुङ्गवाः ॥ ८६ ॥

पदरत्नावली

एकपद्येन सुत्रवत् संक्षिप्य कथितं रामचरितमादित एव किञ्चित् प्रपञ्चयति– विश्वामित्रेति ॥ येनैव ॥ ८७ ॥

सत्यधर्मीया

तच्चरितं प्रपञ्चयति ॥ विश्वामित्रेति ॥ मारीचाद्या इति चातद्गुण-संविज्ञानो बहुव्रीहिः । लक्ष्मणस्य पश्यतः सतस्तमनादृत्य । नैऋतपुङ्गवा नैऋतः खरः श्रेष्ठो येषां ते तथा । निशाचरा येनैव हताः । अथवा कथाया ऐदंप्राथम्येणावचनान्मरीचाद्या इति तद्गुणसंविज्ञान इति ज्ञेयम् । अत एव यो लोकवीरसमितावित्याद्युक्तिर्युक्ता ॥ ८६ ॥

छलारी

एकपद्येनानेन सूत्रवत्संक्षिप्य कथितं रामचरितमादित एव किञ्चित्प्रपञ्चयति ॥ विश्वामित्रेति ॥ पश्यत एव लक्ष्मणस्य पश्यतोऽस्यानपेक्षयैव हता इत्यर्थः । नैर्ऋतपुंगवा राक्षसश्रेष्ठाः ॥ ८६ ॥

**यो लोकवीरसमितौ धनुरैशमुग्रं **

सीतास्वयंवरमुखे त्रिशतोपनेयम् ।

आदाय बालगजलील इवेक्षुयष्टिं

सज्जीकृतं नृप विकृष्य बभञ्ज मध्ये ॥ ८७ ॥

पदरत्नावली

लोके ये वीरास्तेषां समितौ सभायाम् । ऐशं शिवसम्बन्धि । त्रिशतैरनेकैः पुरुषैरुपनेयं समीपमानेतंु योग्यम् । सज्जीकृतं ज्यया सहितं कृतम् ॥ ८८ ॥

सत्यधर्मीया

लोके ये वीरास्तेषां समितौ सभायाम् । समितिः सङ्गरे साम्ये सभायां सङ्गमेऽपि चेति विश्वः । सीतास्वयंवरमुखे तत्प्रारम्भसमये । ईशस्येदमैशं शिवसम्बन्धि । उग्रं क्रूरं धनुः कार्मुकं त्रिशतोपनेयं बालगजलीलो लीला हि शृृङ्गारक्रिया बालगजस्येव सा यस्य सः । लीलां विदुः । शृृङ्गारभावप्रभवक्रियास्विति विश्वः । आदाय सज्जीकृतं ज्यासहितं कृत्वा विकृष्य मध्ये । लीलाऽस्तीति लीलः । बालगजश्चासौ लीलश्च लीलावद्बालगजः । इक्षुयष्टिमिव । यथेक्षु-दण्डं शतमन्युकुञ्जर इत्याचार्योक्तेः । बभञ्ज । अत्र त्रिशतोपनेयमिति ॥ रामायणे च नृणां शतानि पञ्चाशध्यायतानां महात्मनाम् । सङ्ग्रहे च वीरोत्तमैः पञ्चसहस्रसङ्ख्यैरिति । पाद्मे च । सैन्येनानीय भण्डिनेत्युक्तेर्विरोध इति चेन्न । मुख्यामुख्यकिङ्करधुरन्धरविवक्षया प्रवृत्तमिदम् । तत्र मुख्यामुख्यकिङ्करविवक्षया रामायणम् । सेनायां समवेतायां सैन्यास्त इत्युक्तेः सैनिकलोकमात्रपरं पाद्मवचनमिति समाध्युपपत्तेः । अनुक्तेरयुक्ततानावहकत्वात् । मञ्जूषामष्टचक्रान्तां समूहस्ते कथञ्चन । अष्टचक्रमञ्जूषया तयाऽभिगुप्तमिति चानधुनातनरामायणद्वन्द्वे सहा न सैवात्राचार्योक्तौ तथा भण्डिनेति पद्मपुराणे च सत्त्वान्मञ्जूषादिना सह त्रिशतोपनेयमिति योज्यम् । इक्षुयष्टिमिव बालगजलीलो रामो बभञ्जेति वा ॥ ८७ ॥

छलारी

लोके ये वीरास्तेषां समितौ सभायाम् । ऐशं रुद्रसम्बन्धित्रिशतैः पुरुषैरुपनीतं बालगजस्य लीलैव लीला यस्य स तथा । हे नृप ॥ ८७ ॥

जित्वात्मरूपगुणशीलवयोऽनुरूपां

सीताभिधां श्रियमुरस्यभिलब्धमानाम् ।

मार्गे व्रजन् भृगुपतेर्व्यनयत् प्ररूढं

दर्पं महीं कृतवतो हतराजबीजाम् ॥ ८८ ॥

पदरत्नावली

उरसि वक्षसि अभिलब्धमानाम् प्राप्तमानाम्, तत्र स्थितामित्यर्थः । आत्मनः स्वस्य रूपादिभिरनुरूपा या सीताभिधा श्रीलक्ष्मीस्तां जित्वा प्राप्य, स्वर्जित इतिवत्, मार्गे व्रजन् रामो हतराजबीजां निर्मूलितक्षत्रसन्ततिं महीं कृतवतो भृगुपतेः परशुरामस्य प्ररूढं दर्पम् उन्नतमदं व्यनयदपनीतवानित्यन्वयः ॥ ८९ ॥

सत्यधर्मीया

उरसि वक्षसि प्रतिलब्धमानां प्रतिलब्धो मानश्चित्तसमुन्नतिः सत्कार इति यावत् । यया तामात्मरूपगुणशीलवयोनुरूपामात्मनः स्वस्य रूपगुणशीलवयोभिरनुरूपां योग्यां सीताभिधां श्रियं जित्वा प्राप्य धनजिते स्वर्जित इत्यादिवत् । त्वम् उः असीति रुद्रं धनुर्विधूनने जित्वा च मार्गे व्रजन् प्ररूढं दर्पं निमित्तीकृत्य हतराजबीजा हतानि राज्ञां बीजानि यस्यां सा तां महीं कृतवतो भृगुपतेः स्वेन चाभेदं प्रदर्श्य पुनः पृथक् स्वं व्यनयन्नीतवान्सोऽवतात् । समेत्य चैक्यं जगतोऽभिपश्यतः । द्विधेव भूत्वा भृगुवर्य आत्मना रघूत्तमेनैक्यमगात्समक्षम् । प्रदाय रामाय धनुर्वरं तदेत्याद्याचार्योक्तेः । भृगुपतेः प्ररूढं दर्पं व्यनयदित्यन्वये तु शुद्धलौकिकं धाटीनटन-मितरमोहनायेति ज्ञेयम् ॥ ८८ ॥

छलारी

उरसि वक्षस्यभिलब्धमानां प्राप्तमानाम् । तत्र स्थितामित्यर्थः । आत्मनः स्वस्य रूपादिभिरनुरूपां सीताऽभिधां लक्ष्मीं जित्वा प्राप्य श्रीरामकृतधनुर्भङ्गमहानादश्रवण-क्षुभितस्य भृगुपतेः प्ररूढदर्पमपनीतवान् । कथं भूतस्य । हतराजबीजां निर्मूलितक्षत्रसन्ततिं महीं कृतवतः ॥ ८८ ॥

यः सत्यपाशपरिवीतपितुर्निदेशं

स्त्रैणस्य चापि शिरसा जगृहे सभार्यः ।

राज्यश्रियं प्रणयिनः सुहृदोऽधिवासं

त्यक्त्वा ययौ वनमसूनिव मुक्तसङ्गः ॥ ८९ ॥

पदरत्नावली

यो रामः सत्याख्यपाशेन परिवीतस्य परिवेष्टितस्य पितुर्निदेशमाज्ञां शिरसाऽपि पितृसम्भावनार्थं जगृह इत्यन्वयः । अपिर्जुगुप्सितार्थो वा । जुगुप्सायां किं निमित्त-मित्यत उक्तम्– स्त्रैणस्येति ॥ स्त्रीजितस्य । सभार्य इत्यनेन तस्या अपि बहुमानातिशयं सूचयति । असूनिवेत्यनेन राज्यलक्ष्म्यादीनामशक्यत्याज्यतां दर्शयति । मुक्तसङ्ग इत्यनेन ‘असङ्गो ह्ययं पुरुषः’ इति श्रुतिसिद्धनित्यासङ्गतां दर्शयति । अधिवासम् अयोध्याम् ॥९०॥

सत्यधर्मीया

यो मुक्तसङ्गो योगी । असून्प्राणानिव यथा सोऽसूंस्त्यजति तथा । सत्यपाशपरिवीतपितुः सत्यलक्षणो यः पाशस्तेन परिवीतश्चासौ पिता च तस्य । यद्वा पाशभिन्नः पाशसदृशो ह्यपाशः सतीरूपो यः पाशस्तेन बन्धकतया च सादृश्यम् । परिवीतश्चासौ पिता च तस्य । तत्स्वभावमावदेयति ॥ स्त्रैणस्येति । स्त्रीपुंसाभ्यां नञ्स्नञौ भवनादिति स्त्रीजितः स्त्रैणस्तस्य । एतादृशस्याप्यपिनोत्पथवर्तिनं पितरम् । घटात्कृत्य राज्यं कर्तुं शक्यमन्येनेति ध्वनयति । तथाऽपि सभार्यः शिरसा निदेशमाज्ञां जगृहे । तद्योग्यो नेत्येवं नेत्यप्याह । सभार्यः सभायामार्य इति । राज्यश्रियं प्रणयिनः स्नेहपात्राणि । अगोत्रजान्सुहृदो बन्धूनधिवासमयोध्यायां गृहं वा त्यक्त्वा वनं ययौ यः सोऽवतादित्यन्वयः । सदा मुक्तसङ्ग इति रामपक्षेऽप्यन्वयो ज्ञेयः ॥ ८९ ॥

छलारी

इदानीं गुर्वर्थ इति श्लोकं विवृण्वन्नाह ॥ य इति । कदाचित्कैकेय्या रक्षितेन राज्ञा त्वदपेक्षितं दास्यामीति प्रतिश्रुतम् । ततः श्रीरामस्य यौवराज्याभिषेकसमये भरतस्य राज्यं रामस्य वने वासः प्रार्थितस्तदा सत्यपाशेन परिवीतस्य परिवेष्टितस्य पितृर्निर्देशमाज्ञां शिरसा जगृहे । ततो राज्यश्रियं प्रणयिनः प्रीतिविषयान्सुहृदश्च त्यक्त्वा अधिवासमयोध्यां च त्यक्त्वा सभार्यो वनं ययौ । दुस्त्यजस्यापि हर्षेण त्यागे दृष्टान्तः । मुक्तसङ्गो योग्यसून्प्राणानिवेति ॥८९॥

रक्षःस्वसुर्व्यकृत रूपमशुद्धबुद्धे-

स्तस्याः खरत्रिशिरदूषणमुख्यबन्धून् ।

जघ्ने चतुर्दशसहस्रमवारणीय-

कोदण्डपाणिरटमान उवास कृच्छ्रम् ॥ ९० ॥

पदरत्नावली

रक्षस्वसुः शूर्पणख्या रूपं व्यकृत कर्णनासिकाच्छेदनलक्षणविकारं कारित-वान् । कृच्छ्रं लोकरीत्या यथा तथा अटमानः, वन इति शेषः ॥ ९१ ॥

सत्यधर्मीया

यो रक्षस्स्वसुः शूर्पणखायाः । अशुद्धबुद्धेरिति रक्षःपदेनाप्यन्वेति । अशुद्धबद्धे रक्षस इति । तृतीयादिभाषितपुंस्कं पुंवदित्युक्तेः सम्भवति । स्वसृविशेषणं वा त्वमट नः समीपे मेति । गच्छानुजं म इह नेत्याचार्योक्तेः । तस्या रूपं व्यकृत विकृतमुक्तरीत्याऽ-करोत् । खरश्चत्रिशिरश्च । अदन्तःशब्दः शिरोवाची । शिरोऽदन्त इत्यादेः । दूषणश्चैते मुख्य-बन्धवश्च तान् जघ्ने आजघ्ने । तथा च चतुर्दशसहस्रमाजघ्ने । अवारणीयो यो कोदण्डः । कोदण्डो भ्रूलतायां स्याद्देशभेदे च कार्मुक इति विश्वः । स पाणौ यस्य सः । अवारणीयमिति पाठे च चतुर्दशसहस्रपदेनान्वयः । कृच्छ्रं लोकरीत्या यथा तथा वा सोऽटमानोऽटन्वा ॥९०॥

छलारी

रक्षस्वसुः शूर्पनख्या रूपं व्यकृत कर्णनासिकाच्छेदनलक्षणविकारं कारितवान् । अन्यैरवारणीयं कोदण्डः पाणौ यस्येति हेतुगर्भम् । अटमानो वने सञ्चरन्सन् । आतपादिना क्षुधादिना च पीडितः सन् । कृच्छ्रमुवास । असुरजनमोहार्थं तथा दर्शयामासेति भावः ॥९०॥

सीताकथाश्रवणदीपितहृच्छयेन

सृष्टं विलोक्य नृपते दशकन्धरेण ।

जघ्ने कृतैणवपुषाऽऽश्रमतोऽपकृष्टो

मारीचमाशु विशिखेन यथाऽरिमुग्रः ॥ ९१ ॥

पदरत्नावली

शूर्पणखीमुखात् सीतायाः सौन्दर्यादिविषयकथायाः श्रवणेन दीपित प्रज्वलितो हृच्छयः कामो यस्य स तथा । तेन दशकन्धरेण रावणेन सृष्टं प्रतिपाद्य प्रेषितम् । त्यागो विहापितं दानमुत्सर्जनविसर्जने । विश्राणनं वितरणं स्पर्शनं प्रतिपादनम्’ इत्यमरः । कृतैणवपुषा विरचितमृगाकारेण आश्रमतः समीपे विचरन्तं विलोक्य सीतया अपकृष्ट उल्लिखितः । वशीकृत इति यावत् । आश्रमतोऽपकृष्टो दूरं नीतो रामो विशिखेन मारीचम् आशु जघ्न इत्यन्वयः । उग्रो नरसिंहो हिरण्यकशिपुनामानम् अरिं यथा । ’उग्रो जघ्ने वीर्याय स्वधावान्’ इति श्रुतिः । उग्रो रुद्रोऽन्धकाख्यं रिपुं वा । ‘उग्रः कपर्दी श्रीकण्ठः शितिकण्ठः कपालभृत्’ इत्यमरः ॥ ९२ ॥

सत्यधर्मीया

सीतायाः कथासौन्दर्यातिशयादिविषयिणी तस्याः श्रवणेन शूर्पणखामुखतो दीपित उज्वलितो हृच्छयो मन्मथो यस्य तेन दशकन्धरेण दश कन्धरा यस्य तेन रावणेन सृष्टं प्रेषितं विलोक्यकृतं च तदैणमेणस्य कृष्णस्य सारस्य सम्बन्धि । ऐणं तच्च तद्वपुर्यस्य तेनाश्रमतः स्वोटजादपवृष्टो दूरं नीत आशु विशिखेन बाणेन यथोग्रः कपर्द्यरिमन्धकं त्रिपुरं वा । उग्रो नरहरिररिं हिरण्यकशिपुं वा । उग्रो जज्ञे वीर्याय स्वधानाविति । उग्रं वीरमिति च श्रुतेः । उग्रः कपर्दीत्यमरः । अद्भतैणवपुषोपलक्षितमिति वा ॥ ९१ ॥

छलारी

शूर्पनखीमुखात्सीतायाः सौन्दर्यादिविषयकथाश्रवणेन दीपितः प्रज्वालितो हृच्छयः कामो यस्य स तथा । तेन दशकन्धरेण रावणेन सृष्टम् । प्रेषितमिति यावत् । अद्भुतैणवपुषा । स्वर्णरत्नविरचितत्वेनाद्भुतहरिणदेहेन । उपलक्षितमिति शेषः । एतादृशं मारीचं विलोक्य सीतया प्रेरितः सन् । आश्रमतोऽपकृष्टो दूरं नीतो रामो विशिखेन बाणेन मारीचमाशु जघ्न इत्यन्वयः । उग्रो नृसिंहो हिरण्यकशिपुनामानमरिं यथा । यद्वा । उग्रो रुद्रोऽन्धकाख्यं रिपुं यथा ॥ ९१ ॥

रक्षोधमेन वृकवद् विपिनेऽसमक्षं

वैदेहराजदुहितुर्यपयापितायाम् ।

**भ्रात्रा वने कृपणवत् प्रियया वियुक्तः **

स्त्रीसङ्गिनामिति रतिं प्रथयंश्चचार ॥ ९२ ॥

पदरत्नावली

निर्ऋत्यादिराक्षसविवक्षया रक्षोधमेन रावणेन विपिने वृकवत् स्थितेन, वृणोत्यावृणोत्यात्मानमिति वृकः । वेषान्तरेण स्थितेनेत्यर्थः । असमक्षमप्रत्यक्षं, रामस्येति शेषः । वैदेहराजदुहितरि सीतायामपयापितायामपनीतायाम्, अवने नियुक्तेन भ्रात्रा लक्ष्मणेन रहितायामिति शेषः । प्रियया सीतया वियुक्तः, लोकदृष्ट्येति शेषः । स्त्रीसङ्गिनां विटानां रतिमितीत्थं प्रथयन् प्रख्यापयन् चचार । अनेन विटजनशिक्षणार्थमेवं दर्शितमिति ज्ञायते, प्रथयन्नित्युक्तेः । किमर्थमेवं कल्पना तत्स्वभावानुभवात् किं न स्यादिति चेन्न– ‘नित्य-पूर्णसुखज्ञानस्वरूपोऽसौ यतो विभुः । अतोऽस्य राम इत्याख्या तस्य दुःखं कुतोऽण्वपि । तथापि लोकशिक्षार्थमदुःखो दुःखवर्तिवत् । अन्तर्हितां लोकदृष्ट्या सीतामासीत् । स्मरन्निव इति स्मृतिविरोधात् । प्रियया वियुक्तत्वदर्शनमपि लोकदृष्ट्यपेक्षयेति ज्ञातव्यम् । तत् कुतोऽवगत-मिति चेत् ‘ज्ञापनार्थं पुनर्नित्यसम्बन्धं स्वात्मनः श्रिया । अयोध्याया विनिर्गच्छन् सर्वलोकस्य चेश्वरः । प्रत्यक्षं तु श्रिया सार्धं जगामानादिरव्ययः । इति स्मृत्या ज्ञातव्यम् । एवमन्यत्रापि प्रमाणसामर्थ्यात् सर्वत्राप्यनुसन्धेयोऽन्यार्थ इति विशदं समस्तम् ॥ ९३ ॥

सत्यधर्मीया

रक्षोऽधमेन राक्षसापसदेन वृकवद्वृकेण तुल्यं वर्तत इति स तथा तेन । वृको यथाऽऽत्मानं भुवि लीनं कृत्वाऽवीन् हरति तद्वद्वेषान्तराच्छादितेनेत्यर्थः । विपिनेऽ-रण्येऽसमक्षम् । प्रतिपरसमनुभ्योक्ष्ण इत्यच् । स्वस्मिन्नसति वैदेहराजदुहितरि विदेह एव वैदेहः स चासौ राजा च तस्य दुहितरि पुत्र्यां सीतायाम् । अवने रक्षणविषये वियुक्तो विशेषेण योजितो यस्तेन भ्रात्रा लक्ष्मणेन च । वियुक्त इत्यावर्तते वियुज्यत इति वियुक् । सयुजा सखाया-वितिवत् । भावप्रधानश्च वियुक्ततो वियुक्तत्वात् । अपयापितायामपनीतायां प्रियया तया वियुक्तः कृपणवद्दीनमानव इव स्त्रीसङ्गिनां स्त्रैणानाम् । इति रतिं सत्यासक्तिं प्रथयन् प्रथ प्रख्यापने ख्यापयन् । भ्रात्रा सह वन इत्यपि सदावर्तते । वने चचार । मूलकृत्प्रथयन्निति कथयं-स्तत्तात्पर्यं सूचितवानिति न तात्पर्यमत्र पर्यनुयुक्तिपूर्वकं योजितं स्वावसरे योजयिष्यामः ॥९२॥

छलारी

रक्षोऽधमेन रावणेन रामस्यासमक्षमप्रत्यक्षमपि यापितायामपनीतायाम् । अवने पालने नियुक्तेन भ्रात्रा लक्ष्मणेन । रहितायामिति शेषः । प्रियया वियुक्तः । लोकदृष्ट्येति शेषः । भ्रात्रा लक्ष्मणेन सह । कृपणवद्वने चचार । किमभिप्रायः सन् इत्यनेन प्रकारेण स्त्रीसङ्गिनां विटानां गतिं प्रख्यापयन् । कथं भूतेन रक्षोधमेन । वृकवत्स्थितेन ॥ ९२ ॥

दग्ध्वाऽऽत्मकृत्यहतकृत्यमहन् कबन्धं

सख्यं विधाय कपिभिर्दयितागतिं तैः ।

बुद्ध्वाऽथ वालिनि हते प्लवगेन्द्रसैन्यै-

र्वेलामगात् स मनुजोऽजभवार्चिताङ्घ्रिः ॥ ९३ ॥

सत्यधर्मीया

दग्ध्वेति श्लोकः प्रक्षिप्त इति कैश्चिन्न व्याख्यातः कथासङ्ग्राहक इति गङ्गाजलमिलितेतरजलवन्निर्णयाभावेन व्याख्यास्यामः । आत्मकृत्यम् आत्मनः स्वस्य कृत्येन युद्धाख्यव्यापारेण हतेति सदावृत्तमन्वेति । हतं हतकृत्यं हतश्चासौ हतं गतम् । कृत्यं प्रेतकार्यं यस्य स तम् । मन्दचेष्टितमित्याचार्योक्तेर्गतव्यापारं गतासुमनन्तरं दग्ध्वा । आत्मकृत्ये सीतावन- रूपस्वकार्ये हतकृत्यमिति वा । अथ कबन्धमहन् हतवान् । कपिभिः सुग्रीवादिभिः सख्यं विधाय वालिनि स्वेन हते सति तैर्दयितागतिं हनुमदादिभिर्भार्यास्थितिं बुद्ध्वा ज्ञात्वा सैन्यैः सह वेलां नीरनिधितीरमगात् । अजभवार्चिताङ्घ्रिर्ब्रह्मरुद्रपूजितपादः स मनुजस्तत्त्वेनाविर्भूतोऽवतात् । स मनुजः काकुः । न मनुज इत्यर्थ इति वा । यो मनुजः स त्वमज हरे अर्चिताङ्घ्रिर्भवेति शुकः प्रार्थयतीत्यर्थ इति वर्णयन्ति ॥ ९३ ॥

छलारी

ततः किं चकारेत्यत आह ॥ दग्ध्वेति ॥ आत्मकृत्यं हतकृत्यं सीता-लक्ष्मणरूपं यदात्मकृत्यं तदर्थं हतकृत्यं रावणेन नष्टांशो यस्य व्यापारं मृतं जटायुषमित्यर्थः । दग्ध्वा दहनादिसंस्कारं कृत्वेत्यर्थः । कबन्धं तन्नामकं स्वग्रहणाय विस्तृतबाहुं राक्षसमहन् जघान । अथ सुग्रीवेण सख्यं विधाय । अथ वालिनि हते सति कपिभिर्हनुमदादिभिर्दयितागतिं बुद्ध्वेत्यन्वयः । मनुजो मनुजाकारः स रामः प्लवगेन्द्रसैन्यैः सह । वेलां समुद्रतीरमगादिति । अजभवाभ्यामर्चितावंङ्घ्री यस्य स तथा ॥ ९३ ॥

यद्रोषतीव्रपरिवृत्तकटाक्षपात-

सम्भ्रान्तनक्रमकरो भयगीर्णघोषः ।

**सिन्धुः शिस्यर्हणं परिगृह्य रूपी **

पादारविन्दमुपगम्य बभाष एतत् ॥ ९४ ॥

पदरत्नावली

इतोऽपि श्रीरामः साक्षान्नारायण एव न देवदत्ताद्यन्यतमः । तस्य प्रिय-वियोगादिना दुःखप्रकटनमसुरजनमोहनाय, मानुषावतारदेवताजनशिक्षणाय चेत्येतद् अत्रत्यैः श्लोकैरेव ज्ञातुं सुशकमित्याशयेन, अल्पमतीनामनितरसाधारणमाहात्म्यं प्रकटयति– यद्रोषेति ॥ यस्य रामस्य रोषेण तीव्रं यथा तथा परिवृत्तो यः कटाक्षस्तस्य पातेन लक्ष्यवेधवद् विषयीकरणेन सम्भ्रान्ता नक्राश्च मकराश्च यस्मिन् स तथा । भयेन गीर्णो नष्टो घोषो यस्मिन् स तथा । अत एव तूष्णीं स्थित इत्यर्थः । अर्हणम् अर्घ्यपाद्यादिपूजासाधनम् । रूपी करचरणादिविशिष्टा-वयवोपेतः ॥ ९५ ॥

सत्यधर्मीया

मनुज इति स्वजल्पनस्य कल्पनयाऽपार्थार्थस्याल्पमतयो दुर्गतयो भवेयुरिति दययाऽनेकैः श्लोकैस्तदभिप्रायं दर्शयितुमनितरसुरसाधारणगुणवर्णकैरुपश्लोकयति ॥ यद्रोषेति । यस्य रामस्य रोषेण दर्शितकोपेन तीव्रं यथा तथा परिवृत्तो भ्रामितो यः कटाक्षो नेत्रप्रान्तभागस्तस्य यः पातः । लक्ष्यतयेक्षणमिति यावत् । तेन सम्भ्रान्ता इतस्ततो भ्रमन्तो नक्रा अवहारा मकरास्तद्विशेषा यस्मिन्स तथा भयेन गीर्णः स्वस्मिन् गिलितो घोषो यस्य स सन् सिन्धुः रूपी साकारःशिरस्यर्हणं पूजाद्रव्यं परिगृह्य पादारविन्दं स्वाभिमन्यमानं जलजपुत्रीधा-त्रिजनकतानुबन्धेन । अद्भ्यः पृथिवी पद्भ्यां भूमिरिति श्रुतेः । तथा स्वाभिमन्यमानजलज-त्वानुबन्धेन स्वकलत्रगङ्गाजनकतानुबन्धेन च पादारविन्दोपगमनं दययेद्देव इति ज्ञेयम् । पादा-वेवारविन्दं तत् । एकवचनं लिङ्गसङ्ख्याविभेदेऽपि ह्युपमानोपमेययोर्विभक्तिः पुनरेकैवेत्या-लङ्कारिकोक्तेर्युक्तम् । उपगम्य प्राप्यैतद्वक्ष्यमाणं बभाषे । अत्र रात्रित्रयेऽप्यनुपगामिनमित्या-चार्योक्तत्त्वादिना पूर्वत्रोत्तरत्र च कथाविशेषोऽनुसन्धेयः ॥ ९४ ॥

छलारी

तत्र त्रिरात्रिवासेन प्रतीक्षितः सिन्धुर्यदा नोपस्थितः । तदा यस्य रोषतीव्रेण तीक्ष्णकोपेन परिवृतस्तिर्यग्भावं प्राप्तो यः कटाक्षस्तस्य पातेन सम्भ्रान्ता नक्रा मकराश्च यस्मिन्सः भयेन गीर्णो ग्रस्तः स्तम्भितो घोषो यस्मिन्सः । अर्हणं पूजासाधनम् । रूपी मूर्तिमान् ॥९४॥

तं त्वा वयं जडधियो न विदाम भूमन्

कूटस्थमादिपुरुषं जगतामधीशम् ।

**त्वं सत्त्वतः सुरगणान् रजसः प्रजेशान् **

मन्योश्च भूतपतयः स भवान् गुणेशः ॥ ९५ ॥

पदरत्नावली

जडवदचेतनवद् धीर्येषां ते तथा, ज्ञानपूर्वप्रवृत्तिशून्या इत्यर्थः । जडाधारा इत्यर्थोऽपि ग्राह्यः । अनेन तावदेवास्मत्तः प्रयोजनमिति सूचयति । वेदान्ते जगत्कारणस्य ब्रह्मत्वं निरणायि । रामस्य तदभावात् तत्त्वं कथमिति चेत् तदस्याप्यतीत्याह– त्वमिति ॥ यस्त्वं सत्त्वगुणात् सुरगणान् अस्राक्षीः रजोगुणात् प्रजेशान् मनुष्यानसृजः, मन्योस्तमोगुणाच्च भूतपतयः भूतपतीन् ब्रह्मराक्षसादिलक्षणसुरान् उदभावयः स परमाण्वादिमहत्तत्त्वान्तजगतः कर्ता भवान् नान्यः । गुणैः प्रवर्तमानस्य गुणनिमित्ताभिभवो नाशङ्कनीयः, गुणानां तदधीनत्वादित्या-शयेनाह– गुणेश इति ॥ क्रोधस्य तमःकार्यत्वात् तेन तल्लक्षयति ॥ ९६ ॥

सत्यधर्मीया

इयत्कालमालयाज्जल्पते कुतो नायात इत्यस्यावसरमनासादयानोऽब्धि-रब्धिशयनं स्वयमेव स्वाज्ञानं विज्ञापयति ॥ तं त्वेति ॥ हे भूमन् । भावभवित्रोरभेदात्पूर्ण । कूटस्थं निर्विकारं कूटवत्तिष्ठतीति कूटस्थः कूटं खं विदलं व्योमेति गीताभाष्योक्तेः । आदिपुरुषं पुरातनपुरुषं जगतः जगतां प्राणानां वा । जगत्प्राणसमीरणा इत्यमरः । अधीशमधीश्वरं यस्त्वं सत्त्वतः सुरगणानस्राक्षीः । रजसः प्रजेशान् मानवान् मन्योः । व्याकृतं च पदजातमाचार्यैः । रजसो मनुष्यांस्तार्तीयतोऽसुरगणानभितस्तथास्रा इति तमसो भूतपतीन् राक्षसादीन् । स भवानेवं गुणेश इति तं त्वां वयं न विदाम न विद्मः । जडधियो जडा मन्दा धीर्येषां ते तथा । जल एव धीर्येषामिति तस्यान्तरङ्गिको भावः ॥ ९५ ॥

छलारी

एतावत्पर्यन्तं त्वां न विदामो जडधियो मूर्खबुद्धयो न जानीम इत्यर्थः । इदानीं जानामीत्याह ॥ त्वमिति ॥ यस्त्वं सुरगणान्सात्विकान् । असृज इति शेषः । प्रजेशान् राजसान् रजसाऽस्राक्षीः । मन्योः क्रोधकारणात्तमोगुणाद्भूतपतयः । विभक्तिविपरिणामः । तामसानुत्पादयसि । गुणैः प्रवर्तमानस्य गुणनिर्मिता भावो नाशङ्कनीयः । गुणानां तदधीनत्वा-दित्याशयेनाह ॥ स भवान् गुणेश इति ॥ ९५ ॥

कामं प्रयाहि जहि विश्रवसोऽवमेहं

त्रैलोक्यरावणमवाप्नुहि वीर पत्नीम् ।

बध्नीहि सेतुमिह ते यशसो वितत्यै

गायन्ति दिग्विजयिनो यमुपेत्य भूपाः ॥ ९६ ॥

पदरत्नावली

यथाऽवमेहं विष्ठा शरीरान्निर्गता शुनामुपभोगाय भवति तथाऽयमपि विश्रवसो देहात् । निर्गतत्वेनावमेहस्थानीयस् त्वच्छरनिर्भिन्नहृदयः शुनामशनाय स्यादित्यतो विश्रवसोऽवमेहमित्युक्तम् । त्रैलोक्यस्य रोदनकारणत्वात् त्रैलोक्यरावणः । हे वीर इह मयि । वितत्यै विस्ताराय । यं सेतुम् ॥ ९७ ॥

सत्यधर्मीया

काममिच्छानुसारं प्रयाहि । विश्रवसो मुनेरवमेहं विष्टासमम् । तस्य सकाशादवमा नीचा ईहा चेष्टा यस्य स तम् । अतत्कुमारीभवनयोग्यं त्रैलोक्यरावणं त्रैलोक्यं रावयतीति स तं जहि । हे वीर पत्नीमाप्नुहि । इह मयि वितत्यै विस्ताराय । तत्कथं तद्विस्तर इत्यतः कथयति । यं सेतुमुपेत्य भूपा गायन्ति गास्यन्ति दिग्विजयिन इति प्रथमान्तं सद्भूपविशेषणम् । रामबिशेषणं च षष्ठ्यन्तं सद्भवति । तेन दिग्विजयिनोऽप्येतं सेतुं दुःसाधयतं गायन्तीति महामाहात्म्यलाभो ज्ञेयः । यद्यपि जलतरणं तव त्वदनुकम्पया च कपीनां च नासुसाधं तथाऽपि यशोर्थमेव कपीनां यातुं पुण्यहेतुं सेतुं कुर्विति प्रार्थना ममेति विज्ञापयामास पयोधिरिति भावः ॥ ९६ ॥

छलारी

विश्रवसोऽवमेहं पुरीषतुल्यम् । त्रैलोक्यं रावयत्याक्रन्दयतीति तथा तं जहि । यद्यपि जलं तव न प्रतिबन्धकम् । तथाऽपीह जले सेतुं बध्नीहि । किमर्थम् । ते यशसो वितत्यै । तदेवाह ॥ यमिति । यं सेतुमुपेत्य दुष्करं कर्मावेक्ष्य त्वद्यशो गायन्ति भूपास्तं सेतुमिति सम्बन्धः ॥ ९६ ॥

**बध्वोदधौ रघुपतिर्विविधाद्रिकूटैः **

सेतुं कपीन्द्रकरकम्पितभूरुहाङ्गैः ।

सुग्रीवनीलहनुमत्प्रमुखैरनेकै-

र्लङ्कां विभीषणदृशाऽऽविशदाशु दग्धाम् ॥ ९७ ॥

पदरत्नावली

विविधाद्रिकूटैर् नानाविधपर्वतशृृङ्गैः । कपीन्द्राणां करैः कम्पितानि भूरुहाणां वृक्षाणाम् अङ्गानि शाखोपशाखालक्षणानि येषु तानि तथा तैः ॥ ९८ ॥

सत्यधर्मीया

जलधिजल्पनं सम्मान्यविविधाद्रिकूटैर्नानाप्रकारपर्वतशृृङ्गैः कपीन्द्रकर-कम्पितानि कपीन्द्राश्च मध्येऽध्वन्यानीय दातारस्तेषां करैः कम्पितानि भूरुहाणां तरूणामङ्गानि शाखा येषां तानि तैः करणैरुदधौ समुद्रे सेतुं बद्ध्वा । सुग्रीवनीलहनुमत्प्रमुखैरनेकैः कपिभिः कर्तृभिर्बद्ध्वा बन्धयित्वा तत्रापि सामर्थ्यमेतस्यैव न तेषामिति ध्वनयितुं बद्ध्वेत्यणिजन्त-प्रयोगः । बिभीषणदृशा तद्बुध्द्या दग्धां हनुमता तां लङ्कामाशु शीघ्रमाविशत् । तत्समीपमापेति भावः । सुग्रीवनीलहनुमत्प्रमुखैरनेकैः सहाविशदित्यप्यन्वयो ज्ञेयः ॥ ९७ ॥

छलारी

तद्वाक्यमभिनन्द्य यत्कृतं तदाह ॥ बद्ध्वेति ॥ विविधैरद्रीणां कूटैः शृृङ्गैः सेतुं बद्ध्वा सीताऽन्वेषणे हनुमतैव दग्धां लङ्कां विभीषणदृशा बुद्ध्याऽऽविशत् । कथं भूतैः शृृङ्गैः । कपीन्द्राणां करैः कम्पितानि भूरुहाणाम् अङ्गानि शाखादीनि येषां तैः । सुग्रीवादयः प्रमुखा येषां तैरनीकैः ॥ ९७ ॥

सा वानरेन्द्रबलरुद्धविहारकोष्ठ-

सद्द्वारगोपुरसदोवलभीविटङ्का ।

निर्भज्यमानधिषणध्वजहेमकुम्भ-

शृङ्गाटका गजकुलैर्ह्रदिनीव घूर्णा ॥ ९८ ॥

पदरत्नावली

यदा सा लङ्का रामेणाविष्ठा तदा गजकुलैर्ह्रदिनीव घूर्णाऽभूदिति शेषः । विहरन्त्यस्मिन्निति विहारः क्रीडास्थानम् । कोष्ठमन्तर्ग्रहम् । सद्द्वारं सभाद्वारम्, प्रशस्तद्वारं वा । गोपुरं पुरद्वारम् । सदः सभास्थानम् । वलभी गृहाच्छादनान्तर्नाली, दारुभिः परितो निर्मिता गौपानसीति कीर्त्यते । विटङ्का पक्षिपेटिका । वानरेन्द्राणां बलेन सेनया रुद्धा आवरिता विहारादयो यस्याः सा तथा । आच्छादने स्याद् वलभी गृहाणां गोपानसी दारुषु वक्रसंस्था । नीध्रं वलीकं पटलान्तमाहुः कपोतपालीं च विटङ्कसंज्ञाम्’ इति हलायुधः । गोपानसी तु वलभी छादने वक्रदारुणि । कपोतपालिकाय तु विटङ्कं पुन्नपुंसकम्’ इत्यमरः । निर्भज्यमाना वानरेन्द्रबलेन निर्भिद्यमाना धिषणध्वजा गृहालङ्कारकेतवः हेमकुम्भाः सुवर्णकलशाः, शृङ्गाटका गृहमुखाग्रत उन्नतत्रिशूलाङ्कगृहैकदेशाः, यस्यां सा तथा । निर्भज्यमानानि धिषणध्वजोपरिस्थ-हेमकुम्भयुक्तानि शृङ्गाटकानि चतुष्पथानि यस्याः सा इति वा । ‘शृङ्गाटकं पथां श्लेषः संस्थानं तु चतुष्पथम्’ इति हलायुधः ॥ ९९ ॥

सत्यधर्मीया

यदा राम आविशत्तदा लङ्का कां कामवस्थामगादित्यतः कथयति ॥ सा इति ॥ गजकुलैः करिनिकरैर्ह्रदिनीव घूर्णा कम्पिताऽभूत् । वानरेन्द्राणां बलं सेना तेन रुद्धा निरुद्धा । सा वा साऽपि । नरेन्द्रो रामस्तस्य बलं सेना तेन रुद्धा इति वा । विहारा बुद्धसद्मानि विहारभ्रमणे स्कन्दे लीलायां सुगतालय इति विश्वः । काष्टा अन्तःसदनानि धान्यगृहादिर्वा । कोष्टोऽन्तर्गृहे कुसूल इति विश्वः । सद्वारं सदोद्वारं गोपुरं पुरद्वारं सदः सभास्थानं वलभी गोपानसी । मुन्दरीत्यपभ्रष्टभाषा । विटङ्का उल्लोचा यस्याः सा । आच्छादने स्याद्वलभी गृहाणां गोपानसी दारुषु वक्रसंस्था । नीप्रं वलीकम्पठलान्तमाहुः कपोतपालीं च विटङ्कसंज्ञामिति हलायुधः । गोपानसी तु वलभी छादने वक्रदारुणि । कपोतपालिकायां तु विटङ्कं पुन्नपुंसक-मित्यमरः । धिषणानां गृहाणां ध्वजा केतवो हेममयाः कुम्भास्तेऽपि गृहोपरि स्थापिताः । शृृङ्गाटकानि चतुष्पथाः । शृृङ्गाटकं भवेद्वारि चतुष्पथ इति विश्वः । निर्भज्यमानानि धिषण-ध्वजहेमकुम्भशृृङ्गाटकानि यस्याः सा ॥ ९८ ॥

छलारी

यदा सा लङ्का रामेणाविष्टा । तदा गजकुलैर्हृदिनीव घूर्णा प्रचलिता बभूव । कथं भूता । गृहाच्छदनान्तर्नालीदारुभिः परितो निर्मिता वानरेन्द्राणां बलैः सैन्यै रुद्धा आवरिता विहारादयो यस्याः सा तथा । निर्भज्यमानधिषणादयो यस्याः सा तथा विहारा नानाविध-क्रीडास्थानानि । कोष्ठं धान्यागारादि सद्द्वारं गृहादीनां प्रशस्तद्वारं गोपुरं पुरद्वारं सदः सभा वलीभिः प्रासादादिपुरोभागाच्छदनादीनि विटङ्का कपोतपेटिका । धिषणं धिष्ण्यं गृहवेदिकादि ध्वजस्तंभो हैमकुम्भा गृहालङ्कारहेमकलशाः शृृङ्गाटकं चतुष्पथं गोपानसी तु वलभीछादने वक्रदारुणि कपोतपालिकायां च विटङ्कं पुंनपुंसकमित्यमरः ॥ ९८ ॥

रक्षःपतिस्तदवलोक्य निकुम्भकुम्भ-

धूम्राक्षदुर्मुखसुरान्तनरान्तकादीन् ।

पुत्रान् प्रहस्तमतिकायविकम्पनादीन्

सर्वानुगान् समहिनोदथ कुम्भकर्णम् ॥ ९९ ॥

पदरत्नावली

तद्वानरेन्द्रबलकृतं कर्म । समहिनोत् प्राहिणोत् ॥ १००॥

सत्यधर्मीया

तद्वानरेन्द्रबलरोधनं नरेन्द्रबलरोधनं वा रक्षःपती रावणो विलोक्योच्चावचाः सर्वेऽपि रणे मरणमेष्यन्त्यविशेषादिति सूचयितुं कोऽपि क्रमोऽत्र न विवक्षित इति ज्ञेयम् । कुम्भकर्णसुतकुम्भनिकुम्भयोः स्वपुत्रत्वमपि सम्भावितमिति पुत्रानित्युक्तिः । प्रहस्तं सेनान्य-मतिकायविकम्पनादीन्पुत्रानित्यत्राप्यन्वेति । सर्वानुगान्समहिनोत्प्राहिणोत् । अथैतन्मरणानन्तरं कुम्भकर्णं च प्राहिणोत् । ओ किञ्चिच्छङ्कितुं कुतुक्यसीति भाति तव वदनोपरि । तर्ह्युक्तं स्मरेत्येकयोः श्रवसोर्वा पेषणमुत्तरमेव हि ॥ ९९ ॥

छलारी

रक्षःपतिः रावणः कुम्भनिकुम्भौ कुम्भकर्णसुतौ । धूम्राक्षादयो रावणसुताः । सुरान्तो देवान्तकः । आदिपदेन मेघनादः । अत्र क्रमो न विवक्षितः । समहिनोत् प्रेषयामास

॥ ९९ ॥

तां यातुधानपृतनामसिशूलचाप-

प्रासर्ष्टिशक्तिशरतोमरखड्गजुष्टाम् ।

सुग्रीवलक्ष्मणमरुत्सुतगन्धमाद-

नीलाङ्गदर्क्षपनसादिभिरन्वितोऽयात् ॥ १०० ॥

पदरत्नावली

या रावणेन प्रेरिता तां यातुधानपृतनां राक्षससेनाम् ॥ १०० ॥

सत्यधर्मीया

असिशूलचापप्रासर्ष्टिशक्तिशरतोमरखड्गजुष्टामसिऋष्टिखड्गा इति चन्द्रहास- विशेषा वा धर्तृभेदादुक्तिर्वेति ज्ञेयम् । व्याकृतचरमिदम् । गन्धमादो गन्धमादनो ऋक्षो हि जाम्बवान् । पृतनां सेनां प्रत्यगात् ॥ १०० ॥

छलारी

असिशूलादिभिर्दुर्गमां तां यातुधानपृतनां राक्षससेनां सुग्रीवादिभिरन्वितो श्रीरामोऽभ्यगात् । मरुत्सुतो हनुमान् ऋक्षो जाम्बवान् ॥ १०० ॥

तेऽनीकपा रघुपतेरभिपत्य सर्वे

द्वन्द्वं वरूथमिभपत्तिरथाश्वयोधम् ।

जघ्नुर्द्रुमैर्गिरिगदेषुभिरङ्गदाद्याः

सीताभिमर्शहतमङ्गलरावणेशम् ॥ १०१ ॥

पदरत्नावली

रघुपतेस्तेऽनीकपाः सेनानायका वरूथं रथगुप्तिमभिपत्य प्राप्य, इभाश्च पत्तयश्च रथाश्चाश्वाश्च योधाश्च यस्मिन् तदिभपत्तिरथाश्वयोधम्, द्वन्द्वं द्वाभ्यां द्वाभ्याम् इभादिभ्यां क्रियमाणं युद्धमभ्युपगम्य राक्षसबलं जघ्नुरित्यन्वयः । ‘रथगुप्तिर्वरूथो ना कूबरो ना युगन्धरः’ इति यादवः । सीताभिमर्शेन सीताया अपहारेण, हतं नष्टं मङ्गलं यस्य स तथा, स चासौ रावणश्च सीताभिमर्शहतमङ्गलरावणः, स एवेशो यस्य तत् तथा तत् ॥ १०१ ॥

सत्यधर्मीया

रघुपते रामस्य तेऽनीकपाः सेनान्यः सर्वे द्वन्द्वं द्वन्द्वश इभपत्तिरथाश्वयोधं वरूथं मण्डलाकारवेश्मरूपसैन्यमागत्य तत्प्रति निपत्य । वरूथो रथगुप्तिः स्याद्वरूथं चर्म-वेश्मनोरिति विश्वः । द्रुमैर्गिरिभिः स्वजात्युचितैः । गदेषुभिरिति तदाकृष्टैरिति ज्ञेयम् । अत एव तेन तद्धतप्रायनाथमित्याह ॥ सीतेति ॥ सीताया अभि अवज्ञया मर्शो ह्यभिमर्शस्तेन हतं नष्टं मङ्गलं जीवनहेतुः शुभं यस्य तत् । अङ्गदाद्या जघ्नुः ॥ १०१ ॥

छलारी

ते रघुपतेरनीकपाः सेनानायका अङ्गदाद्याः सर्वे द्वन्द्वं यथा भवति तथाऽभिपत्य शत्रुभिः सङ्गत्य । द्वन्द्वयुद्धं कृत्वेति यावत् । वरूथं सैन्यं गिरिभिः शत्रुभ्यो बलादाकृष्टैर्गदाद्यायुधैश्च जघ्नुः । यद्यपि वरूथिनीशब्दः सैन्यवाचकस्तथाऽपि वरूथशब्दो लक्षणया सैन्यवाचक इति ज्ञातव्यम् । कीदृशम् । इभाश्च पत्तयश्च रथाश्चाश्वाश्च तैः सहिताः । योद्धा सहायो । योद्धारो यस्मिंस्तत्तथोक्तम् । पुनः कीदृशम् । सीताया अभिमर्शेन हतं मङ्गलं यस्य सः रावणः स एव ईशो यस्य तत्तथोक्तम् ॥ १०१ ॥

रक्षःपतिः स्वबलनष्टिमवेक्ष्य रुष्ट

आरुह्य यानकमथाभिससार रामम् ।

**स्वः स्यन्दने द्युमति मातलिनोपनीते **

विभ्राजमानमहनन्निशितैः क्षुरप्रैः ॥ १०२ ॥

पदरत्नावली

रक्षःपती रावणः स्वबलस्य स्वसेनाया नष्टिं नाशमवेक्ष्य रुष्टः कुपितो यानकं पुष्पकविमानमारुह्य श्रीराममभिससार । स्वः स्वर्गान् मातलिनेन्द्रसारथिनोपनीते द्युमति तेजस्विनि स्यन्दने रथे विभ्राजमानं रामं क्षुरप्रैरर्धचन्द्रैरहनत् । ‘अर्धचन्द्रः क्षुरप्रः स्यात्’ इत्यभिधानम् ॥ १०३ ॥

सत्यधर्मीया

स्वबलस्य स्वसेनाया नष्टिं नाशम् । रुष्टः कुपितः । यानकं पुष्पकम् । केन निर्याने रामे निर्याणं यानेनानुचितमिति कुत्सयामास । स्वः स्वर्गान्मातलिनेन्द्रसुतेन द्युमति तेजस्विन्युपनीते स्यन्दने बिभ्राजमानं रामं स रावणो निशितैर्निशातैः क्षुरप्रैरर्धचन्द्रैः । गतम् । अहनदहन् ॥ १०२ ॥

छलारी

रक्षःपती रावणः स्वबलनष्टं स्वबलनाशनमवेक्ष्य यानकं पुष्पकविमानमारुह्य श्रीराममभिससार । स रामो द्युमति तेजोमति । स्वः स्वर्गादवतीर्णे स्यन्दने रथे मातलिनेन्द्र-सारथिनाऽऽनीते । विभ्राजमानं रामं क्षुरप्रैरर्धचन्द्रैः । अर्धचन्द्रः क्षुरप्रः स्यादित्यभिधानम् । अहनत् ॥ १०२ ॥

**रामस्तमाह पुरुषादपुरीष यन्नः **

कान्ताऽसमक्षमसताऽपहृता स्वयं ते ।

**त्यक्तत्रपस्य फलमद्य जुगुप्सितस्य **

इच्छामि काल इव कर्तुमलङ्घ्यवीर्यः ॥ १०३ ॥

पदरत्नावली

हे पुरुषादपुरीष राक्षसाधम । अपकृष्टं पुरीषं स्याद् विष्ठा निष्ठ्यूतमप्युत इत्यभिधानम् । असता अप्रशस्तकर्मणा त्वया कान्ता सीता नो ऽस्माकमसमक्षं यथा तथा वञ्चयित्वाऽपहृता । तस्मादद्य त्यक्तत्रपस्य निर्लज्जस्य जुगुप्सितस्याकार्यकरणान् निन्दितस्य ते कर्मणः फलं कर्तुमिच्छामि । तवाधुना तल्लङ्घनमशक्यमित्याशयेनाह– काल इति ॥ काल इवाऽलङ्घ्यवीर्योऽहम् । कालोऽन्तकः । ‘कालो मृत्यौ यमे इति यादवः । वीर्यं पराक्रमे रेतस्यन्नमाहात्म्ययोरपि इति च ॥ १०४ ॥

सत्यधर्मीया

हे पुरुषादपुरीष राक्षसापसद । अपकृष्टं पुरीषं स्यद्विष्ठा निष्ठ्यूतमप्युतेत्यभिधानम् । नोऽसमक्षं परोक्षतो नः कान्ता स्वयं साक्षात्तेऽसताऽसाधुनाऽपहृता । जुगुप्सितस्याकार्यकरणान्निन्दितस्य त्यक्तत्रपस्य गतलज्जस्य तस्य तेऽलङ्घ्यवीर्योऽहम् । काल इवेत्यलङ्घ्यवीर्यताहेतुः । मृत्युदेवतेव फलं कर्तुमिच्छामि । इतःपरं प्रणतः प्रशयिनीं प्रतिदातुमिच्छसि चेदपि सन्धिसमयोऽतीत इत्यभिसन्धिमसन्धिनिर्देशेन ध्वनयामासेति ज्ञेयम् । ओत्यनालस्यं सूचयति ॥ १०३ ॥

छलारी

हे पुरुषादपुरीष राक्षसाधम । अपकृष्टं पुरीषं स्यादित्यभिधानम् । यद्यस्मादसता दुष्टेन त्वया कान्ता सीताऽस्माकमसमक्षमप्रत्यक्षं यथा तथाऽपहृता । तत्तस्माज्जुगुप्सितस्य कर्मणः कर्तुस्तेऽद्य काल इवान्तक इव फलं यच्छामि प्रयच्छामि ॥ १०३ ॥

एवं क्षिपन् धनुषि सन्धितमुत्ससर्ज

बाणं स वज्रमिव तद्धृदयं बिभेद ।

सोऽसृग् वमन् दशमुखैर्न्यपतद् विमानाद् ।

हा हेति जल्पति जने सुकृतीव रक्षः ॥ १०४ ॥

पदरत्नावली

स रावणः सुकृती भुक्तपुण्यः, स्वर्गादिव ॥ १०५ ॥

सत्यधर्मीया

एवं क्षिपंस्तिरस्कुर्वन्धनुषि सन्धितं बाणमुत्ससर्जामुचत । स बाणो वज्रमिव तद्धृदयं रावणहृदयं बिभेद । स रक्षो रावणो दशमुखैरसृग्वमन् । उद्गिरन् जने स्वजने हाहेति जल्पति सति विमानात्सुकृती क्षीणे पुण्ये स्वर्गाद्यथा पतति तथा न्यपतत् । सुकृत्यल्पतया निन्दनीयसुकृतवान् ॥ १०४ ॥

छलारी

एवं क्षिपन्निन्दन्सबाणम् । सुकृती जनो रिक्तः क्षीणपुण्यःसन् स्वर्गादिव विमानात्पुष्पकान्न्यपतदिति ॥ १०४ ॥

ततो निष्क्रम्य लङ्काया यातुधान्यः सहस्त्रशः ।

मण्डोदर्या समं तस्मिन् प्ररुदन्त्य उपाद्रवान् ॥ १०५ ॥

सत्यधर्मीया

ततः पतिपातानन्तरम् । मण्डमन्दपाठावानन्ददौ । मन्दमल्पमुदरम् । मण्डं पिपीलिकामध्यमित्यभिधानात् । तद्वदुदरं यस्याः सा तया समं मिलित्वा तस्मिन् रणधरणीमण्डले ॥ १०५ ॥

छलारी

तस्मिन् रणाङ्गणे मण्डवत्पिपीलिकामध्यवदुदरं यस्याः सा तया रावणभार्यया सह ॥ मण्डं पिपीलिकामध्यमित्यभिधानम् ॥ १०५ ॥

स्वान् स्वान् बन्धून् परित्यज्य लक्ष्मणेषुभिरर्दितान् ।

रुरुदुः सुस्वरं दीना घ्नन्त्य आत्मानमात्मना ॥ १०६ ॥

पदरत्नावली

अर्दितान् हिंसिताम् । अर्द हिंसायाम् इति धातुः । आत्मानं देहम्, आत्मना देहैकदेशेन हस्तेनेति यावत् ॥ १०७ ॥

सत्यधर्मीया

शतं दुर्योधनादींस्ते धनञ्जयशरैर्हतानित्यादौ क्वचित्पुंव्यत्यासेनोक्तिरिति लक्ष्मणे-त्युक्तिरुपलक्षणीयो राम इति केचित् । लक्ष्मणं रामनाम येष्विषुषु ते लक्ष्मणेषवस्तैरिति वा । रामनामाङ्कितैः शरैरिति रामायणोक्तेः । लक्ष्मणं नामि्न चिन्हे च रामभ्रातरि लक्ष्मण इति विश्वः । तद्रूपं चिन्हं येष्विति वा । स्वान्स्वान्बन्धून्पतीन् । आत्मानमुरोरूपं देहमात्मना हस्तरूपशरीरैकदेशेन घ्नन्त्यस्ताडयन्त्यो रुरुदुः सुस्वरं श्रोतृकरुणाकरं दीनास्तप्ताः ॥ १०६ ॥

छलारी

लक्ष्मणेषुभिः । उपलक्षणमेतत् । रामेषुभिश्च । अर्दितान्हिंसितान् । अर्द हिंसायामिति धातोः । आत्मानं देहमात्मना देहेन । हस्तेनेति यावत् ॥ १०६ ॥

हा हताः स्म वयं नाथ लोकरावणरावण ।

कं यायाच्छरणं लङ्का त्वद्विहीना परार्दिता ॥ १०७ ॥

सत्यधर्मीया

लोकरावक तावकानामपि कामिन्यदीनां दशाननदशासादितेति लोकरावणेति पदेन सूचयति । लङ्का तदन्तस्थप्रजाः ॥ १०७ ॥

छलारी

लङ्का लङ्कास्थो जनाः परैः शत्रुभिरर्दिताः ॥ १०७ ॥

न वै वेद महाभाग भवान् कामवशं गतः ।

तेजोऽनुभावं सीताया येन नीतो दशामिमाम् ॥ १०८ ॥

पदरत्नावली

सीतायास्तेजसोऽनुभावं सामर्थ्यं येनानुभावेनेमां दशां नीतो गतो भवान् कामवशं गतो नैव वेद ॥ १०९ ॥

सत्यधर्मीया

सीतायास्तेजसोऽनुभावं सामर्थ्यं येनानुभावेनेमां दशां नीतो गतो भवान्कामवशं गतो न वेद ॥ १०८ ॥

छलारी

तेजोनुभावं तेजः सामर्थ्यं येन सीतासामर्थ्याज्ञानेन ॥ १०८ ॥

कृतैषा विधवा लङ्का वयं च कुलनन्दन ।

देहः कृतोऽयं गृध्राणामात्मा नरकहेतवे ॥ १०९ ॥

पदरत्नावली

वयं च विधवाः कृताः । देहो गृध्राणां जीवनाय कृतः । गृध्रप्राणरक्षणेनापि पुण्यं स्यादिति तत्राह– नरकहेतव इति ॥ आत्मा जीवो नरकदुःखानुभवार्थं कृतः ॥ ११० ॥

सत्यधर्मीया

विधवा पतितपतिका वयं च विधवाः कृताः । अयं देहो गृध्राणां भक्ष्यः कृतः । आत्मान्तर्गतो जीवश्च नरकदुःखानुभवार्थं कृत इत्यर्थः ॥ १०९ ॥

छलारी

लङ्का विधवा पतिरहिता वयं च विधवा भर्तृरहिताः । कृता इत्यनुषङ्गः । अयं देहो गृध्राणां प्राणरक्षाय कृतः । आत्मा जीवो नरकहेतवे नरकभोगाय ॥ १०९ ॥

श्रीशुक उवाच—

स्वानां विभीषणश्चक्रे कोसलेन्द्रानुमोदितः ।

पितृमेधविधानेन यदुक्तं साम्परायिकम् ॥ ११० ॥

पदरत्नावली

पितृमेधविधानेन शवदाहादिविधिना । साम्परायिकं परलोकसुखसाधनम् ॥ १११ ॥

सत्यधर्मीया

स्वानां ज्ञातीनाम् । ‘स्वमज्ञातिधनाख्यायाम्’ इति स्मरणात् । सर्वनामसंज्ञाभावात्स्वानामित्युपपद्यते । न च विभीषणः परमभागवतोऽवगतभ्रातृदौरात्म्यः कथं तदुत्तरक्रियामकरोदित्यत आह ॥ कोसलेन्द्रानुमोदित इति ॥ पितृमेधविधानेन मन्त्राग्न्यादिविधिना साम्परायिकं परत्र सुखघटकम् ॥ ११० ॥

छलारी

पितृमेधविधानेन शवदाहादिविधिना साम्परायिकं परलोकसुखसाधनमौर्ध्वदेहिकम् । ‘आत्मा जीवे तथा देहे स्वभावे परमात्मनि’ इति यादवः ॥ ११० ॥

ततो ददर्श भगवानशोकवनिकाश्रमे ।

क्षामां स्वविरहव्याधेः शिंशुपामूलमाश्रिताम् ॥ १११ ॥

पदरत्नावली

क्षामामित्यादिकमसुरमोहार्थम् ॥ ११२ ॥

सत्यधर्मीया

अशोकवनिकारूपाश्रमे क्षामां कृशां विरहव्याधेरिति रीतिर्लौकिकी । शिंशुपा कृष्णागरुतरुस्तन्मूलं चाश्रितां ददर्श । ततो हनुमदादिभिरानयनानन्तरम् । विस्तरस्तु हरिवंशाद्युक्तोऽनुसन्धेयः ॥ १११ ॥

छलारी

अशोकवनिकामशोकवनं तत्र गतश्चासावाश्रमश्चेति मध्यमपदलोपी समासः । तत्र स्थितम् । स्वविरहलक्षणव्याधिः क्षामां कृशाम् ॥ १११ ॥

रामः प्रियतमां भार्यां दीनां वीक्ष्यान्वकम्पत ।

आत्मसन्दर्शनाह्लादविकसन्मुखपङ्कजाम् ॥ ११२ ॥

सत्यधर्मीया

अन्वकम्पत दयामतनोत् ॥ ११२ ॥

छलारी

अन्वकंपतानुकंपामकरोत् ॥ ११२ ॥

आरोप्यारुरुहे यानं भ्रातृभ्यां हनुमद्युतः ।

विभीषणाय भगवान् दत्वा रक्षोगणेशताम् ॥ ११३ ॥

पदरत्नावली

भ्रातृभ्यां भरतशत्रुघ्नावनुसृत्य लक्ष्मणसुग्रीवाभ्यां, लक्ष्मणविभीषणाभ्यां वा । छत्रिन्यायेन वा ॥ ११४ ॥

सत्यधर्मीया

तां यानमारोप्य भ्रातृभ्याम् । ल्यब्लोपे पञ्चमी । तौ भरतशत्रुघ्नावनुसृत्य सुग्रीवलक्ष्मणाभ्यां स्वभ्राता वालिभ्राता चेति साम्मुग्ध्येन तथा स्वभ्राता रावणभ्राता चेति द्वयोर्ग्रहणाद्भ्रातृभ्यामित्युपपद्यते । छत्रिनीत्या वा । निमित्ते तृतीयैव वा । भ्रातृनिमित्तकं यानारोहणमित्यर्थः । क्रियार्थोपपदस्य च कर्मणि स्थानिन इति भ्रातरौ द्रष्टुमारुरुह इति चतुर्थी वा युद्धाय सन्नह्यतीतिवत् । पूर्वपक्षद्वन्द्वे हनुमद्युत इत्यस्माद्युत इत्युत्कृष्य भ्रातृभ्यां युत इत्यन्वेतव्यम् । वृद्धो येनेति निर्देशात्सहेत्यप्रयोगेऽपि लब्धसहेत्यन्वेतव्यं वेति मन्तव्यम् । हनुमद्युतः स्वयमारुरुहे ॥ ११३ ॥

छलारी

यानं पुष्पकमारोप्य । सीतामिति शेषः । भ्रातृभ्यां लक्ष्मणसुग्रीवाभ्याम् । लक्ष्मणविभीषणाभ्यां वा । छत्रिणो गच्छन्तीतिवत् । सहित इति शेषः ॥ ११३ ॥

लङ्कामायुश्च कल्पान्तं ययौ तीर्णव्रतः पुरीम् ।

अवकीर्यमाणः कुसुमैर्लोकपालार्पितैः पथि ॥ ११४ ॥

पदरत्नावली

तीर्णव्रतः पूर्णवनवासव्रतः ॥ ११५ ॥

सत्यधर्मीया

सत्यसन्धो राम इति सङ्कल्पितेन सहासं कल्पितमपि व्यतारीद्राम इत्याह । कल्पान्तमायुश्च दत्वा तीर्णव्रतः । चतुर्दशसंवत्सरात्मकं व्रतं तीर्णं येन स तथा । पुरीमयोध्याम् । अवकीर्यमायाकुसुमैरिति पाठे वकारेणाधिकेनावति (?) कीर्यमाण इत्यर्थविशेषं ध्वनयामास । लोकपालाः पौलोमीनाथादयः ॥ ११४ ॥

छलारी

तीर्णवनवासव्रतः । दिनकल्पान्तमायुश्च दत्वा । तेनापि सहैव ययौ ॥ ११४ ॥

उपगीयमानचरितः शतधृत्यादिभिर्मुदा ।

गोमूत्रयावकं श्रुत्वा भ्रातरं वल्कलाम्बरम् ॥ ११५ ॥

पदरत्नावली

शतधृत्यादिभिर् ब्रह्मादिभिः । गोमूत्रयावकं गोमूत्रपक्वयावान्नभोजिनम् । भ्रातरं भरतम् ॥ ११६ ॥

सत्यधर्मीया

शतधृतिर्ब्रह्मा । अनेन ब्रह्माद्यागमनकथा ग्रन्थान्तरस्था सङ्गृहीतेति ज्ञेयम् । गोमूत्रयावकं गोमूत्रपाचितयावान्नभोजिनं वल्कलाम्बरं तरुत्वाग्वस्त्रम् । गतम् ॥ ११५ ॥

छलारी

कथम्भूतः । शतधृत्यादिभिर्ब्रह्मादिभिरुपगीयमानचरितः । गोमूत्रयावकं गोमूत्रेण सह पक्तव्यान्नभोजिनम् । भ्रातरं वल्कलाम्बरं चीरवस्त्रम् ॥ ११५ ॥

महाकारुणिकोऽतप्यज्जटिलं स्थण्डिलेशयम् ।

भरतः प्राप्तमाकर्ण्य पौरामात्यपुरोहितैः ॥ ११६ ॥

सत्यधर्मीया

जटिलं स्थण्डिलेशयम् । सम्मर्ज्य मण्डलीकृतायामवनौ शेत इति स्थण्डिलेशयः । अधिकरणे शेतेरित्यच् । शयवासेति सप्तम्या अलुक् ॥ ११६ ॥

छलारी

अतप्यदन्तःकरणद्रवीभावं प्राप्तः । पौरामात्यपुरोहितैः सह ॥ ११६ ॥

पादुके शिरसि न्यस्य रामं प्रत्युद्यतोऽग्रजम् ।

नन्दिग्रामात् स्वशिबिराद् गीतवादित्रनिःस्वनैः ॥ ११७ ॥

सत्यधर्मीया

नन्दिग्रामात्तत्रापि न गृहवास इत्याह । स्वशिबिरात्पटकुटिकाया । निवेशः शिबिर इत्यमरः ॥ ११७ ॥

छलारी

स्वशिबिरात्स्वावासभूतान्नन्दिग्रामाद्रामं प्रति गन्तुमुद्यतः सन् । अभिययाविति शेषः । कथंभूतो । गीतादिभिर्घोषेणोच्चध्वनिना ॥ ११७ ॥

ब्रह्मघोषेण च मुहुः पठद्भिर्ब्रह्मवादिभिः ।

स्वर्णकक्ष्यैर्गजैश्चापि हैमैश्चित्रध्वजै रथैः ॥ ११८ ॥

पदरत्नावली

स्वर्णकक्ष्यैः सुवर्णमयी कक्ष्या उदरबन्धो येषां ते तथा तैः । हैमैर्हेमालङ्कृतैः । चित्रा नानावर्णा ध्वजा येषां तैः ॥ ११९ ॥

सत्यधर्मीया

स्वर्णकक्ष्यैः सुवर्णात्मिका कक्ष्या बन्धिका रज्जुः । कक्ष्या स्याद्गजबन्धिकेत्यमरः । अत्र कक्ष्येति रज्जुमात्रग्रहो गजेति पृथगुक्तेः । तद्वद्भिर्गजैर्हैमैर्हेमविकृतैः ॥ ११८ ॥

छलारी

ब्रह्म वेदपठद्भिर्वेदपारायणं कुर्वद्भिर्ब्राह्मणैश्च । युक्त इति शेषः । ब्रह्म वेद तपस्तत्त्वमित्यभिधानम् । पुनः कथं भूतः । स्वर्णकक्ष्यैः सुवर्णमयीकक्ष्या उदरबन्धं येषां ते तथा । तैर्गजैः । हैमैरित्यादीनि चत्वारिरथविशेषणानि । हैमैर्हेमालङ्कृतैश्चित्रा नानावर्णा ध्वजा येषां तैः ॥ ११८ ॥

सदश्वै रुक्मसन्नाहैर्भटैः पुरटवर्मभिः ।

श्रेणीभिर्वारमुख्याभिर्भृत्यैश्चागात् सदोद्यतैः ॥ ११९ ॥

पदरत्नावली

रुक्मसन्नाहैः स्वर्णनिर्मिताः सन्नाहाः कवचानि येषां तैः । पुरटवर्त्मभिः सुवर्णकवचैः । श्रेणीभिरङ्गरक्षकैः ॥ १२० ॥

सत्यधर्मीया

सन्तो साधवोऽश्वा येषां ते तै रथैः । पुरटवर्मभिः सुवर्णकवचैः श्रेणीभिरङ्गरक्षकैर्वारमुख्याभिर्वेश्याभिः ॥ ११९ ॥

छलारी

सदश्वैरुत्तमाश्वै रुक्मसन्नाहैः स्वर्णनिर्मिताः सन्नाहाः कवचादीनि येषां तैः पुरटवर्मभिः सुवर्णकवचैर्भटैः श्रेणीभिरंगरक्षकैरुपायनोद्वहैर्भृत्यैश्च युक्त इति पूर्वेणान्वयः ॥ ११९ ॥

पारमेष्ठ्यान्युपादाय भाण्डान्युच्चावचानि च ।

पादयोर्न्यपतत् प्रेम्णा प्रक्लिन्नहृदयेक्षणः ॥ १२० ॥

पदरत्नावली

पारमेष्ठ्यानि आगतेऽतिथौ ब्रह्मत्वानुसन्धानेन क्रियमाणार्घ्यपाद्याद्युपयुक्तानि उच्चावचान्यनेकविधानि भाण्डानि ॥ १२१ ॥

सत्यधर्मीया

पारमेष्ठ्यान्यागतेऽतिथौ ब्रह्मत्वाद्यनुसन्धानेन क्रियमाणपाद्यार्घ्याद्युपयुक्ताभ्युक्तानि भाण्डानि पात्राणि । भाण्डं पात्रामत्रेऽश्वभूषण इति विश्वः । तानि चोच्चावचान्यनेकप्रकाराणि क्लिन्नान्यार्द्राणि हृदयं चेक्षणे च यस्य सः ॥ १२० ॥

छलारी

पारमेष्ठ्यानि राजार्हाणि छत्रचामरादीनि । उच्चावचान्यनेकविधानि पण्यानि नारिकेलादीनि फलानीत्यर्थः । पुरतो न्यस्येति शेषः । प्रेम्णा प्रक्लिन्नं हृदयम् । प्रक्लिन्ने ईक्षणे नेत्रे यस्य स तथा न्यपतदित्यन्वयः । ‘रिक्तहस्तेन नोपेयाद्राजानं देवतां गुरुम्’ इत्युक्तेः ॥ १२० ॥

पादुके न्यस्य पुरतः प्राञ्जलिर्बाष्पलोचनः ।

तमाश्लिष्य दृढं दोर्भ्यां स्नापयन् नेत्रजैर्जलैः ॥ १२१ ॥

पदरत्नावली

ततस्तत्र येऽभवंस्तेभ्यो विप्रेभ्यो वसिष्ठादिभ्यः ॥ १२२ ॥

सत्यधर्मीया

पादुके रामस्य पुरतः पुरोभागे न्यस्य प्राञ्जलिर्बाष्पलोचनः पादयोर्न्यपतदित्यतीतेनान्वयः । स्नापयन् । गतम् । नेत्रजलैरानन्दबाष्पैः ॥ १२१ ॥

छलारी

ततः पादुके पुरतो न्यस्य । तस्थाविति शेषः । रामो नेत्रजैर्जलैः स्नापयन् आश्लिष्य । शुशुभ इति शेषः ॥ १२१ ॥

रामो लक्ष्मणसीताभ्यां विप्रेभ्यो योऽभवंस्ततः ।

तेभ्यः स्वयं नमश्चक्रे प्रजाभिश्च नमस्कृतः ॥ १२२ ॥

सत्यधर्मीया

लक्ष्मणसीताभ्यां सह तत्र येऽभवंस्तेभ्यो विप्रेभ्यो रामो नमश्चक्रे । प्रजाभिः स्वयं नमस्कृतः । अत्र सीतालक्ष्मणाभ्यामिति कथनीयम् । तथा गमनसमयसमयबन्धस्त्वेकमात्रविषयकस्तदुपरि निष्क्रमणनिष्कर्षः प्राग्लक्ष्मणस्य तदुपरि सीताया इति ग्रन्थान्तरवचनसङ्ग्रहाय वा लक्ष्मणस्य सीतापेक्षया चिरसमयसमीपवर्तिताद्योतनाय वैवमुक्तिरिति ज्ञेयम् । शय्यारूपो लक्ष्मण इति तत्सिद्ध्युत्तरं सापेक्ष्येत्यपेक्ष्य वा । यथोक्तं रामायणे । तस्मादपरितापः सन् त्वमप्यनुविधाय माम् । प्रति संहार यक्षिप्रमाभिषेचनिकीं क्रियाम् । अनुज्ञातस्तु भवता पूर्वमेवेत्यादि । अलक्ष्मणसीताभ्यामिति छेदो वा । अलक्ष्मणं कटकमुकुटादिचिन्हधारणाभावश्च सीता च ताभ्यां सहेति वा । अनेन रामस्य विप्रभक्त्यातिशय इव निःस्पृहता च द्योत्यत इति ज्ञेयम् ॥ १२२ ॥

छलारी

ततो रामः सीतालक्ष्मणाभ्यां सह । विप्रेभ्यो वसिष्ठादिभ्यो नमश्चक्रे । तत्र ये कुलवृद्धा अभवन् तेभ्योऽपि नमश्चक्रे ॥ १२२ ॥

धुन्वन्त उत्तरासङ्गं पतिं वीक्ष्य चिरागतम् ।

उत्तराः कोसला माल्यैः किरन्तो ननृतुर्मुदा ॥ १२३ ॥

पदरत्नावली

उत्तरासङ्गमुत्तरीयवस्त्रं, धुन्वन्तः कम्पयन्तः ॥ १२४ ॥

सत्यधर्मीया

उत्तरासङ्गमुत्तरीयं वसनं धुन्वन्त उत्क्षिपन्त उत्तराः कोसला दक्षिणोत्तरेति कोसलदेशभागविशेषौ । तत्रोत्तरकोसलदेशस्था एत इति वोत्तरा उत्तमा इति वाऽर्थः ॥ १२३ ॥

छलारी

उत्तरासङ्गमुत्तरीयवस्त्रं धुन्वन्तश्चालयन्त उत्तरा उत्तमाः कोसला अयोध्यापुरवासिनो माल्यैः पुष्पैः । माल्यं पुष्पे पुष्पदाम्नीत्यभिधानम् ॥ १२३ ॥

पादुके भरतोऽगृह्वाच्चामरव्यजनोत्तमे ।

विभीषणः ससुग्रीवः श्वेतच्छत्रं मरुत्सुतः ॥ १२४ ॥

सत्यधर्मीया

ससुग्रीवो विभीषणश्चामरव्यजनोत्तमे जगृहतुरित्यन्वयः । मरुत्सुतो हनुमान् श्वेतछत्रमगृह्णादित्यन्वेति ॥ १२४ ॥

छलारी

अयोध्याप्रवेशप्रकारमाह ॥ पादुकेति सार्धत्रिभिः ॥ १२४ ॥

धनुर्निषङ्गाञ्छत्रुघ्नः सीता तीर्थकमण्डलुम् ।

अबिभ्रदङ्गदः खड्गं हैमं चर्मर्क्षराण्नृप ॥ १२५ ॥

पदरत्नावली

निषङ्गं तूणीरम् । ऋक्षराट् जाम्बवान् ॥ १२६ ॥

सत्यधर्मीया

धनुश्च निषङ्गौ च तूणीरौ तान् । हैमं हेमत्सरुं चर्म ऋक्षराट् जाम्बवान् ॥१२५॥

छलारी

धनुर्निषङ्गान् धनुश्च निषङ्गौ च तान् । ऋक्षराट् जाम्बवान् । हैमं सुवर्णालङ्कृतं चर्म ॥ १२५ ॥

पुष्पकस्थैर्वृतस्त्वेभिः स्तूयमानश्च बन्दिभिः ।

विरेजे भगवान् राजन् गृहैरिन्दुरिवोदितः ॥ १२६ ॥

सत्यधर्मीया

बन्दिभिः स्तुतिपाठकैः ॥ १२६ ॥

छलारी

पुष्पकविमानस्थैरेभिर्वृतः सेवितः ॥ १२६ ॥

भ्रातृभिर्नन्दितः सोऽपि सोत्सवां प्राविशत् पुरीम् ।

प्रविश्य राजभवनं गुरुपत्नीश्च मातरम् ॥ १२७ ॥

सत्यधर्मीया

सोत्सवामुत्सवसहितां मातरं कौसल्यां तदनन्तरं गुरुपत्नीः पितृभार्याः सुमित्राकैकेय्याद्याः प्रत्यपूजयत् ॥ १२७ ॥

छलारी

भ्रात्रा भरतेन । मातरं मातृसमूहम् ॥ १२७ ॥

गुरून् वयस्यावरजान् पूजितः प्रत्यपूजयन् ।

वैदेही लक्ष्मणश्चैव यथायोग्यं प्रणेमतुः ॥ १२८ ॥

सत्यधर्मीया

गुरून् वसिष्ठाद्यवशिष्टान् । आशुशुक्षणिरक्षणार्थमग्न्यागारनिविष्टात् । पौरामात्यपुरोहितैरिति प्रागभिहितत्वात् । तद्दर्शनोत्तरमेव तन्नमनस्य न्याय्यत्वात्प्रत्यपूजयत् । वयस्याश्चावरजाः कनिष्ठाश्च तांस्तैः स्वयं पूजितः प्रत्यपूजयत् । कटाक्षविक्षेपादिना ॥ १२८ ॥

छलारी

गुरुन्वसिष्टादीन्ववन्दे । वयस्यावरजान्स्वावरजांश्च तैः पूजितः प्रत्यपूजयत् ॥१२८॥

पुत्रांस्तन्मातरस्तावत् प्राणांस्तन्व इवोत्थिताः ।

आरोप्याङ्केऽभिषिञ्चन्त्यो बाष्पौघैर्विजहुः शुचः ॥ १२९ ॥

पदरत्नावली

गत्वा आगतान् प्राणानवाप्य तन्वस् तनवो यथोत्थिता भवन्ति तथा । विरहशुचः ॥ १३० ॥

सत्यधर्मीया

प्राणान्प्राप्य तन्वः । स्त्रियां मूर्तिस्तनुस्तनूरित्यमरः । शरीराणि यथोत्थिता भवन्ति स्वान्पुत्रान् । रामं कौसल्या सुमित्रा लक्ष्मणं शत्रुघ्नं च कैकेयी च भरतमिति मातरः पुत्रानुत्थिता अङ्के आरोप्य बाष्पौघैरभिषिञ्चन्त्यः शुचो विरहशोकाञ्जहुस्तत्यजुः । अनेन नन्दिग्रामे सतोरपि भरतशत्रुघ्नयो रामेण सहैव मातृदर्शनग्रहणसङ्कल्प इति ध्वनितम् ॥ १२९ ॥

छलारी

गतान्प्राणान्प्राप्य । तन्वस्तनवो यथोत्थिता भवन्ति तथा । शुचो विरहशोकान् ॥ १२९ ॥

जटा निर्मुच्य विधिवत् कुलवृद्धैः समं गुरुः ।

अभ्यषिञ्चद् यथैवेन्द्रं चतुःसिन्धुजलादिभिः ॥ १३० ॥

पदरत्नावली

गुरुबृहस्पतियथेन्द्रमभ्यषिञ्चत्, तथा गुरुर्वसिष्ठो राममभ्यषिञ्चत् ॥ १३१ ॥

सत्यधर्मीया

गुरुर्वसिष्ठो विधिवद्यथाविधानं विधिवत्पुत्रत्वात्तद्वदेव स गुरुः । अनेन न कर्मछिद्रता चूतपल्लवकुशादिग्रहः ॥ १३० ॥

छलारी

गुरुर्बृहस्पतिरिन्द्रं यथेन्द्रमिव । गुरुर्वसिष्टो राममभ्यषिञ्चत् । आदिपदेन गङ्गादितीर्थजलं ग्राह्यम् ॥ १३० ॥

एवं कृतशिरस्नानः सुवासाः सदलंकृतः ।

स्वलंकृतैः सुवासोभिर्भ्रातृभिर्भार्यया बभौ ॥ १३१ ॥

सत्यधर्मीया

भार्यया च स्वलङ्कृतया ॥ १३१ ॥

छलारी

कृतशिरःस्नानः कृताभ्यङ्गस्नानः ॥ १३१ ॥

अग्रहीदासनं भ्रात्रा प्रणिपत्य प्रसादितः ।

प्रजाः स्वधर्मनिरता वर्णाश्रमगुणान्वितः ॥ १३२ ॥

पदरत्नावली

सिंहोपपदमासनम् । ग्रहणे हेतुमाह– भ्रात्रेति ॥ भ्रात्रा भरतेन ॥ १३३ ॥

सत्यधर्मीया

आसनं सिंहासनं प्रणिपत्य भ्रात्रा प्रसादित इति तद्ग्रहणे हेतुः ॥ १३२ ॥

छलारी

भ्रात्रा भरतेन प्रणिपत्य नमस्कृत्वा प्रसादितः प्रार्थित आसनं सिंहासनमग्रहीत् ॥ १३२ ॥

जुगोप पितृवद् रामो मेनिरे पितरं च तम् ।

त्रेतायां वर्तमानायां कालः कृतसमोऽभवत् ॥ १३३ ॥

सत्यधर्मीया

तं रामं च पितरं तत्समं प्रजा अप्यनुमेनिरे । त्रेतायां वर्तमानायामपि कृतसमः कृतयुगसमः ॥ १३३ ॥

छलारी

गुणो धर्मः वर्तमानायाम् ॥ १३३ ॥

रामे राजनि धर्मज्ञे सर्वभूतसुखावहे ।

वनानि नद्यो गिरयो वर्षाणि द्विपसिन्धवः ॥ १३४ ॥

पदरत्नावली

वर्षाणि खण्डाः ॥ १३५ ॥

सत्यधर्मीया

वर्षाणि खण्डाः ॥ १३४ ॥

छलारी

रामे राजनि भूपतौ च सति । वर्षाणि नवखण्डाः ॥ १३४ ॥

सर्वे कामदुघा आसन् प्रजानां भरतर्षभ ।

नाधिव्याधिजराक्षुत्तृङ्दुःखशोकभयक्लमाः ॥ १३५ ॥

सत्यधर्मीया

कामं दुहन्तीति कामन्दुघाः । दुहः कप्घश्चेति स्मरणात् । क्लमस्तन्द्री ॥१३५॥

छलारी

शोकः प्रलापः ॥ १३५ ॥

मृत्युश्चानिच्छतां नासीद् रामे राजन्यधोक्षजे ।

एकपत्निव्रतधरो राजर्षिचरितः शुचिः ॥ १३६ ॥

पदरत्नावली

अनिच्छताम्, मरणमिति शेषः ॥ १३७ ॥

सत्यधर्मीया

अनिच्छतां मृत्युर्नासीत् ॥ १३६ ॥

छलारी

एकपत्नीव्रतधरः परनारीसहोदर इति यावत् । राजर्षिचरितमिव चरितं यस्य स तथा ॥ १३६ ॥

स्वधर्मं गृहमेधीयं शिक्षयन् स्वयमाचरन् ।

प्रेम्णाऽनुवृत्या शीलेन प्रश्रयावनता सती ।

भिया ह्रिया च भावज्ञा भर्तुः सीताऽहरन्मनः ॥ १३७ ॥

पदरत्नावली

अनुवृत्या शुश्रूषया । शीलेन अनुकूलस्वभावेन । प्रश्रयेण विनयेनावनता ॥ १३८ ॥

इति श्रीमद्भागवतटीकायां विजयध्वजतीर्थभिक्षुकृतायां नवमस्कन्धस्याष्टमोऽध्यायः ॥

सत्यधर्मीया

स्वयं नारायणोऽपि सन् । भर्तुर्भावं मनो जानातीति स तथा । अभिप्रायं वा । मनोऽहरत्स्वानुकूलं कलयामासेति यावत् ॥ १३७ ॥

इति श्रीसत्यधर्मयतिकृतायां भागवतटिप्पण्यां नवमस्कन्धे अष्टमोऽध्यायः ।

छलारी

अनुवृत्त्या शुश्रूषया शीलेनानुकूलस्वभावेन प्रश्रयेण विनयेनावनता ॥ १३७ ॥

इति श्रीछलारी शेषाचार्यकृतायां भागवतटिप्पण्यां नवमस्कन्धे अष्टमोऽध्यायः ॥ ९-८ ॥