विरूपः केतुमाञ्छम्भुरम्बरीषसुतास्त्रयः
॥ अथ सप्तमोऽध्यायः ॥
श्रीशुक उवाच—
विरूपः केतुमाञ्छम्भुरम्बरीषसुतास्त्रयः ।
विरूपात् पृषदश्वोऽभूत् तत्पुत्रस्तु रथीतरः ॥ १ ॥
सत्यधर्मीया
तनयेष्वित्युक्तास्ते कियन्त इत्यत आह ॥ विरूप इति ॥ विरूपः केतुमान् शम्भुरिति अम्बरीषसुतास्त्रयः । तत्पुत्रः पृषदश्वसुतः । रथीतरस्तन्नामा ॥ १ ॥
छलारी
मनुपौत्रस्याम्बरीषस्य वंशमाह ॥ विरूप इति ॥ इतिशब्दोऽध्याहारार्थः । तन्तवे सन्तानाय । अङ्गिरो नामा मुनी रथीतरेणार्थितः सन् । रथीतरभार्यायां जनयामासेति ज्ञेयम् ॥ १,२ ॥
रथीतरस्याप्रजस्य भार्यायां तन्तवेऽर्थितः ।
अङ्गिरा जनयामास ब्रह्मवर्चस्विनः सुतान् ॥ २ ॥
पदरत्नावली
तन्तवे सन्तानाय ॥ २ ॥
सत्यधर्मीया
अप्रजस्य प्रजारहितस्य । गतम् । भार्यायां तन्तवे सन्तानार्थं तेनैवार्थितोऽङ्गिरा ब्रह्मवर्चस्विनः सुतान् जनयामास । वर्चो येषामस्ति ते वर्चस्विनः । अस्माया मेधास्रजो विनिः । ब्रह्मणो वर्चस्विनो ब्रह्मवर्चस्विनः ॥ २ ॥
एते क्षत्रप्रसूता वै पुनश्चाङ्गिरसः स्मृताः ।
रथीतराणां प्रवराः क्षत्रोपेता द्विजातयः ॥ ३ ॥
पदरत्नावली
अङ्गिरस उत्पत्तिनिमित्तत्वान् नाम्ना अङ्गिरसः । रथीतराणां रथीतर-सन्ततिजातानाम् ॥ ३ ॥
सत्यधर्मीया
क्षत्रक्षेत्रप्रसूताः पुनश्च त एवाङ्गिरसा अङ्गिरसोऽपत्यानि । आङ्गिरसा एते क्षेत्रप्रसूता इति च पठन्ति ॥ ३ ॥
छलारी
येऽङ्गिरसा जनितास्ते रथीतरस्य क्षेत्रप्रसूतत्वेन रथीतरगोत्राः सन्तोऽङ्गिरसो वीर्येण प्रसूतत्वादाङ्गिरसश्च स्मृताः । रथीतराणां रथीतरसन्ततिजातानां प्रवराः प्रमुखा अतः क्षत्रोपेताः क्षत्रियत्वोपेता ब्राह्मणा इत्यर्थः । उभयधर्मोपेता इति यावत् ॥ ३ ॥
क्षुवतस्तु मनोर्जज्ञे इक्ष्वाकुर्घ्राणतः सुतः ।
तस्य पुत्रशतं ज्येष्ठा विकुक्षिनिमिदण्डकाः ॥ ४ ॥
पदरत्नावली
एकवंशं समाप्य अन्यवंशं वक्तुं प्रारभते– क्षुवत इति ॥ क्षुतं कुर्वतो मनोर्घ्राणत इक्ष्वाकुर्जज्ञे ॥ ४ ॥
सत्यधर्मीया
तुशब्दो वंशान्तरकथारम्भसूचकः । मनोः श्राद्धदेवस्य । क्षुवतः क्षुतं कुर्वतो घ्राणतस्तदिन्द्रियात् । इक्ष्वाकुः सुतो जज्ञे । तस्येक्ष्वाकोः पुत्रशतं जज्ञे । तत्र विकुक्षि-निमिदण्डका ज्येष्ठा आर्याः । दक्षस्यैकस्यैव प्रचेतसश्चतुराननजत्ववच्छ्रद्धायां जनयामास पुत्रानिक्ष्वाक्वित्यादिनोक्तस्य श्राद्धदेवाच्छ्रद्धायां, क्षुवतो घोणायां च जन्मतः सम्भवात् । अथवा जीवद्वयतायाः सम्भवाद्दशेति निर्देशस्योपपत्तिर्यथाकथञ्चिदेकस्यानौन्येनापि सम्भवतीति वौपचारिकश्रद्धापुत्रत्वेन वा छत्रिन्यायेन वा सम्भवान्न पूर्वोत्तरविरोध इति ज्ञेयम् ॥ ४ ॥
छलारी
तदेवं मनोर्दशपुत्रादिषु वृषध्रः कविश्च विरक्तत्वान्न वंशप्रवर्तकौ । करूशादीनां सप्तानां वंशास्तारतम्यक्रमेणोक्ताः । इदानीमतिविततमिक्ष्वाकोर्वंशमाह ॥ क्षुवतस्त्वित्यादिना यावत्सोमवंशप्रस्तावः । क्षुतं कुर्वतो मनोर्घ्राणत ईक्ष्वाकुर्जज्ञे । यद्यपि मनोः सकाशाच्छ्रद्धायां नवैव पुत्रा जाताः । तथाऽपि श्रद्धायां जनयामास दशपुत्रान् स आत्मवानिति पूर्वोक्तं छत्रि-न्यायेनेति द्रष्टव्यम् । बहुत्वाभिप्रायेणेत्यप्याहुः । तस्येक्ष्वाकोः पुत्रशतमभूत् । तत्र विकुक्ष्यादय-स्त्रयो ज्येष्ठाः ॥ ४ ॥
तेषां पुरस्तादभवन् आर्यावर्ते नृपा नृप ।
पञ्चविंशति पश्चाच्च त्रयो मध्येऽपरेऽन्यतः ॥ ५ ॥
पदरत्नावली
आसमुद्रात् पुरस्तात्तु आसमुद्राच्च पश्चिमात् । तयोरेवान्तरं गिर्योरार्यावर्तं प्रचक्षते । इत्येवंविध आर्यावर्ते पुरस्तात् पूर्वदिक्पालास् तेषां विकुक्ष्यादीनां मध्ये पञ्चविंशतिनृपाः पश्चात् पश्चिमदिक्पालाः पञ्चविंशतिनृपा अभूवन् । मध्ये विन्ध्यहिमवत्पर्वतयोर्मध्ये त्रयः पालकाः । अपरे च ये त्रिपञ्चाशदवशिष्टाः सप्तचत्वारिंशन्नृपास् ते अन्यतः दक्षिणत उत्तरतः पालका अभूवन् इत्यन्वयः ॥ ५ ॥
सत्यधर्मीया
तेषां शतसुतानां मध्ये । आर्यावर्ते आसमुद्रात् पुरस्तात्तु आसमुद्राच्च पश्चिमात् । तयोरवान्तरं गिर्योरार्यावर्तं प्रचक्षत इति वचनादार्यावर्तशब्दार्थो ज्ञेयः । पञ्चविंशति तत्सङ्ख्याः । हे नृप । नृपाः पूर्वदिगधिपा अभवन् । पश्चात्पश्चिमदिग्भागे पञ्चविंशतिनृपा अभवन् । विन्ध्यहिमवन्मध्ये । त्रयोऽभूवन् । अन्यतो दक्षिणोत्तरदिग्भागयोः परे शिष्टाः सप्तचत्वारिंशत्सङ्ख्याका नृपा अभवन्निति योजना ॥ ५ ॥
छलारी
आर्यावर्तः पुण्यभूमिर्मध्यं विन्ध्यहिमालयोरित्युक्तार्यावर्तदेशे पुरस्तान्मण्डल-विभागे पञ्चविंशतिनृपा अभूवन् । हे नृप तथैव पश्चाच्च पञ्चविंशतिनृपा अभूवन् । मध्ये तु ज्येष्ठास्त्रयोऽपराऽवशिष्टाः सप्तचत्वारिंशन्नृपाः । अन्यतोऽन्यत्र दक्षिणोत्तरादिषु नृपा अभूवन् ॥५॥
स एकदाऽष्टकाश्राद्ध इक्ष्वाकुः सुतमादिशत् ।
मांसमानीयतां मेध्यं विकुक्षे गच्छ मा चिरम् ॥ ६ ॥
सत्यधर्मीया
स इक्ष्वाकुः । मेध्यं शुद्धम् ॥ ६ ॥
छलारी
विकुक्षिरेव शशादेति विश्रुत इति वक्ष्यति । तत्र हेतुमाह ॥ स एक-देत्यादिना । अष्टकाश्राद्धो षण्णवतिश्राद्धान्तर्भूत इत्यर्थः । मेध्यं पवित्रम् ॥ ६ ॥
तथेति सवनं गत्वा मृगान् हत्वा क्रियार्हणान् ।
श्रान्तो बुभुक्षितो वीरः शशमाददपस्मृतिः ॥ ७ ॥
सत्यधर्मीया
अपस्मृतिर् विवेकरहितः ॥ ७ ॥
सत्यधर्मीया
क्रियार्हणान् क्रियायामर्हणं योग्यता येषां ते तथा तान् । अपस्मृतिर्भुक्तं चेन्मया नोपयुक्तं भवेत् शिष्टं वशिष्ठाद्युपभुक्तय इत्यङ्गस्मरणरहितः । शशं पशुविशेषम् । शशो गन्धरसे लोध्रे पशौ च पुरुषान्तर इति विश्वः । तत्कालातिसुखरूपं बुभुक्षाक्षयादिति भावं कटाक्षयति शशमिति शंशनेनेति ज्ञेयम् । आदद् अभक्षयत् ॥ ७ ॥
छलारी
बुभुक्षितः क्षुधितः क्रियार्हकान् । आदद् अभक्षयत् । अद भक्षण इति धातोः । अपस्मृतिर्विवेकरहितः ॥ ७ ॥
शेषं निवेदयामास पित्रे तेन च तद्गुरुः ।
चोदितः प्रोक्षणायाह दुष्टमेतदकर्मकम् ॥ ८ ॥
पदरत्नावली
तद्गुरुर्वसिष्ठः प्रोक्षणाय श्राद्धोपचितसंस्काराय । अकर्मकं कर्मायोग्यम्
॥ ८ ॥
सत्यधर्मीया
शेषं स्वभुक्तोच्छिष्टम् । तद्गुरुरिक्ष्वाकुशिक्षको वसिष्ठः । प्रोक्षणाय शङ्खजलसेचनपूर्वकं देवनिवेदनाय चोदित इक्ष्वाकुप्रेरित एतन्मांसं दृष्टम् । तद्दौष्ट्यं स्पष्टयति ॥ अकर्मकमिति ॥ अष्टकादिकर्मयोग्यं नेति वा । कर्मणा विप्रसमर्पणरूपेण कं येन तदिति कर्मकं नेति वेत्याह ॥ ८ ॥
छलारी
तद्गुरुर्वसिष्ठः प्रोक्षणाय श्राद्धोपचितसंस्काराय । अकर्मकं कर्मायोग्यम् ॥ ८ ॥
ज्ञात्वा पुत्रस्य तत्कर्म गुरुणाऽभिहितं नृपः ।
देशान्निस्सारयामास सुतं त्यक्तविधिं रुषा ॥ ९ ॥
पदरत्नावली
त्यक्तविधिमाचारशून्यम् ॥ ९ ॥
सत्यधर्मीया
गुरुणा ज्ञानदृष्ट्या विषयीकृत्याभिहितं कर्म पुत्रस्येति ज्ञात्वा तं विकुक्षिं सुतं देशाद्रुषा निस्सारयामास बहिष्कृतवान् ॥ ९ ॥
छलारी
तत्कर्म मांसभक्षणरूपं कर्म । त्यक्तविधिम् आचारशून्यम् ॥ ९ ॥
स तु विप्रेण संवादं जापकेन समाचरन् ।
त्यक्त्वा कलेवरं योगी स तेनावाप यत्परम् ॥ १० ॥
पदरत्नावली
नाम्ना जापकेन विप्रेण संवादं तत्त्वविषयं समाचरन् तेन संवादजनितेन ज्ञानेन योगी ज्ञानी । कालान्तर इति शेषः । कालान्तरे कलेवरं शरीरं त्यक्त्वा स विकुक्षिर् यत्परं ब्रह्म तदवाप । अशासदीजे स हरिं यज्ञैः पुष्कलदक्षिणैः, इति केचित् पठन्ति । शास-दीजे हरिं यज्ञैः शशाद इति विश्रुतः, इत्यन्ये । शशमत्तीति शशादः । पुष्कलदक्षिणैः पूर्णदक्षिणैः
॥ १० ॥
दुर्घटभावदीपिका
स विकुक्षिस्तु जापकेन विप्रेण संवादं समाचरन्कुर्वन् । तेन संवादनिरतेन ब्रह्माज्ञानेन स योगी विकुक्षिः कालान्तरे कलेवरं त्यक्त्वा यत्परं ब्रह्म तदवापेति । एतेन पितर्युपरत इत्युत्तरवाक्ये पितुर्मरणानन्तरमागत्य पृथिवीशासनं कृतमिति वक्ष्यमाणत्वात् । कलेवरं त्यक्त्वा परं ब्रह्मावापेत्यनुपपन्नमिति दूषणं परिहृतम् । कालान्तर इति शेषपूरणेन पितुर्मरणानन्तरमागत्य पृथिवीशासनं कृत्वा योगसामर्थ्येन कलेवरं त्यकत्वा परं ब्रह्मावापेत्यर्थ इत्युक्तत्वात् ॥ १० ॥
सत्यधर्मीया
जापको नाम्ना कर्मणाऽपि तेन विप्रेण संवादं वासुदेवविषयं समाचर-न्कुर्वाणस्तेन संवादेन योगी ज्ञानाद्युपायवान्परं यद्ब्रह्म तदवाप । उक्तं च मोक्षधर्मे । भीष्मः ।
इक्ष्वाकोः सूर्यपुत्रस्य यद्वृत्तं ब्राह्मणस्य च ।
कालस्य मृत्योश्च तथा यद्वृत्तं तन्निबोध मे ।
षडङ्गविन्महाप्राज्ञः पैप्पलादिः सकौशिक इत्यारभ्योपाख्यानसमाप्तिपर्यन्तेन ग्रन्थेनेति । श्रीधरो वसिष्ठ इति विशिष्टज्ञ इव कथं व्याचक्रे वा न जानीमः ॥ १० ॥
छलारी
तत इक्ष्वाकुणा किमकारीत्यत आह ॥ स इति ॥ इक्ष्वाकुर्नाम्ना जापकेन विप्रेण ऋषिणा । यद्वा । जापकेन वसिष्ठेन संवादं तत्त्वविषयं समाचरन् । तेन संवाद-जनितज्ञानेन यत्परं ब्रह्म तदवापेत्यन्वयः ॥ १० ॥
पितर्युपरतेऽभ्येत्य पृथिवीशासनं कृतम् ।
शासन्नीजे हरिं यज्ञैः शशाद इति विश्रुतः ॥ ११ ॥
सत्यधर्मीया
स च पुनरागत्य गां जुगोपेति वदति ॥ पितरीति ॥ उपरते मृते यज्ञैर्हरिमीजे आराधयामास । कर्मशर्मैतदित्याह ॥ शशाद इतीति ॥ ११ ॥
छलारी
पुनर्विकुक्षिणा किमकारीति तत्राह ॥ पितरीति ॥ पितरीक्ष्वाकुनृपौ मृते सति । अभ्येत्य । देशान्तरादिति शेषः ॥ ११ ॥
पुरञ्जयस्तस्य सुत इन्द्रवाह इतीरितः ।
ककुत्स्थ इति वाप्युक्तः शृणु नामानि कर्मभिः ॥ १२ ॥
पदरत्नावली
तस्य विकुक्षेः । इन्द्रो वाहो वाहनं यस्य स तथा । कर्मभिर् विक्रम-लक्षणैः पुरञ्जय इन्द्रवाहः ककुत्स्थ इति नामान्यवाप्तानि ॥ ११ ॥
दुर्घटभावदीपिका
तस्य विकुक्षेः सुतः पुरञ्जय इन्द्रवाह इति । नामभ्यामीरितः ककुस्थ इति नाम्ना चाप्युक्तः । यैः कर्मभिः पुरञ्जय इन्द्रवाहः ककुस्थ इति नामानि प्राप्तानि तानि कर्माणि शृृण्विति । एतेन यैरित्यादि शेषपूरणेन नामप्राप्तिहेतुभूतकर्माणि शृृण्वित्यर्थ उक्तः ॥ १२ ॥
सत्यधर्मीया
तस्य विकुक्षेः पुरञ्जय इन्द्रवाहः ककुत्स्थ इति । कर्मभिस्तन्निमित्तानि त्रीणि । शृृणु यथाऽऽप्तानि तच्छृणु । स्वस्य विवक्षाऽस्तीति ध्वनितवानिति ज्ञेयम् ॥ १२ ॥
छलारी
तस्य विकुक्षेः सुतोऽभूत् । स च पुरञ्जय इत्युक्त इन्द्रवाह इतीरितः । ककुस्थ इति चाप्युक्तः । यैः कर्मभिः पुरञ्जय इन्द्रवाहः ककुस्थ इति नामानि प्राप्तानि तानि कर्माणि शृृणु
॥ १२ ॥
कृतान्त आसीत् समरे देवानां सह दानवैः ।
पार्ष्णिग्राहो वृतो वीरो देवैर्दैत्यपराजितैः ॥ १३ ॥
पदरत्नावली
पार्ष्णिग्राहो वृतो देवैः साहाय्यत्वेन स्वीकृतः ।
सत्यधर्मीया
तन्नामप्रयोजकानि कर्माणि सप्तभिः श्लोकैराह ॥ कृतान्त इति ॥ कृतयुगान्ते कृतान्तो यमगमक इति वा । पार्ष्णिं गृह्णातीति स तथा । सहाय इति यावत् । वृतस्तत्त्वेन याचितः । याचने निमित्तं तत्राप्येतद्याचने चाह । दैत्यपराजितैर्देवैर्वीर इति ॥१३॥
छलारी
तान्येवाह ॥ कृतान्त इत्यादिना ॥ कृतयुगस्य अन्त इत्यर्थः । वीरः पुरञ्जयः पार्ष्णिग्राहः सहायो वृतो देवैः सहाय्यत्वेन स्वीकृत इत्यर्थः ॥ १३ ॥
वचनाद्देवदेवस्य विष्णोर्विश्वात्मनः प्रभोः ।
वाहनत्वे वृतस्तस्य बभूवेन्द्रो महावृषः ॥ १४ ॥
सत्यधर्मीया
वाहनत्वे त्वं वासव वाहश्चेदाहवमहं कुर्यामित्युक्त इन्द्रो महावृषो बभूव । कथमहं वाहः स्यामिति किञ्चित्सङ्कुचितचित्तम् । हे हरिहय भववाह इति हरिवचनात्तत्त्व-मापेत्यर्थादाह । देवदेवस्य विश्वात्मनः प्रभोर् विष्णोर्वचनाद्बभूवेति । विश्वानि समस्तानि । विश्वं समस्तजगतोरिति विश्वः । आत्मानः शरीराणि नानाविधहीनमीनादीनि यस्य तस्य मम निर्ममस्यापि तत्तत्समयतत्तद्दाक्षिण्येन हीनजनिस्तव वासव का कथेत्यनेन ध्वन्यते । वेदबोधितं वृषभवाहककुत्स्थादिनामेति तदनुसारेण वृषभतादियाचनं च हरिप्रेरणयैव । दैत्याश्च नन्दिवहप्रिया अहमपि तज्जातिजातवाहः स्यामिति युक्त्या चेति ज्ञेयम् ॥ १४ ॥
छलारी
इन्द्रो विष्णोर्वचनान्महावृषो बभूवेत्यन्वयः । इन्द्रो, यदि मम वाहनं स्यात्तर्हि दैत्यान्हनिष्यामीति राज्ञा वाहनत्वेन प्रार्थितः सन् लज्जया तदनङ्गीकुर्वन्विष्णोर्वचनात्पुरंजयस्य वाहनत्वाय महावृषो बभूवेति भावः ॥ १४ ॥
स सन्नद्धो धनुर्दिव्यमादाय विशिखान् शितान् ।
स्तूयमानस्तमारुह्य युयुत्सुः ककुदि स्थितः ॥ १५ ॥
पदरत्नावली
शितान् निशितान्, विशिखान् शरान् । ककुदि वृषभस्कन्धे स्थितः
॥ १४ ॥
सत्यधर्मीया
शितान्निशितान्विशिखान् बाणान् । गतम् । ककुदि ककुद्वत्ककुदं श्रेष्ठे वृषाङ्गे राजलक्ष्मणीति विश्वात्तत्स्कन्धे स्थित उपविष्टः ॥ १५ ॥
छलारी
सः पुरञ्जयः शितान्निशितान्विशिखान् शरान् । तं पृथं, ककुदि स्थितो वृषभस्योर्ध्वभूतो भुजः ककुदित्युच्यते । तत्रोपविष्ट इत्यर्थः ॥ १५ ॥
तेजसा व्यापितो विष्णोः पुरुषस्य परात्मनः ।
प्रतीच्यां दिशि दैत्यानां न्यरुणत् त्रिदशैः पुरम् ॥ १६ ॥
सत्यधर्मीया
विष्णोस्तेजसा व्यापितः पूरितः । दैत्यानां पुरं त्रिदशैः सह प्रतीच्यां दिशि न्यरुणद्रुरोध ॥ १६ ॥
छलारी
परमात्मनः पुरुषस्य परमपुरुषस्य विष्णोस्तेजसा व्यापितो हरिस्तस्य बल-पूर्त्यर्थं व्यंजयामासेत्यर्थः । न्यरुणद्रुरोध ॥ १६ ॥
तैस्तस्य ह्यभवद् राजन् सङ्ग्रामो रोमहर्षणः ।
यमाय भल्लैरनयद् दैत्यान् ये युयुधुर्मृधे ॥ १७ ॥
पदरत्नावली
तस्य पुरञ्जयस्य, इषूणां पातः सम्पातो धारा, तस्याऽभिमुखं प्रत्यवस्थानं, स्वमालयं स्वगृहं च विसृज्य हित्वा दुद्रुवुः ॥ १७ ॥
सत्यधर्मीया
भल्लैर्यमाय युयुधुस्तान्मृधेऽनयत् ॥ १७ ॥
छलारी
भल्लैर्बाणविशेषैः । यमस्य लोकमिति शेषः । तान् । अनयदित्यन्वयः ॥१७॥
तस्येषुपाताभिमुखं युगान्ताग्निमिवोल्बणम् ।
विसृज्य दुद्रुवुर्दैत्या हन्यमानाः स्वमालयम् ॥ १८ ॥
सत्यधर्मीया
युगान्ताग्निमिवोल्बणमिषुपाताभिमुखम् । हन्यमाना दैत्याः स्वमालयं विसृज्य दुद्रुवुः । पुरमिति पुरोदीर्यात्रालयमिति वचनेन तत्र स्थितौ आ लयो निश्चयान्नाशो येन तमित्यप्यर्थं कटाक्षयतीति मन्तव्यम् ॥ १८ ॥
छलारी
तस्य पुरंजयस्येषूणां पातः सम्पातो धारातस्य पातस्याभिमुखं प्रत्यवस्थानं विसृज्य । युगान्ताग्निं प्रलयाग्निम् ॥ १८ ॥
जित्वा पुरं धनं सर्वं सश्रीकं वज्रपाणये ।
प्रत्ययच्छत् स राजर्षिरिति नामभिराहुतः ॥ १९ ॥
पदरत्नावली
स राजर्षिः पुरं जित्वा सश्रीकं गजतुरगादिश्रीसहितं सर्वं पुरधनं वज्रपाणये प्रत्ययच्छद् दत्तवान् । स राजर्षिर् दैत्यपुरजयात् पुरञ्जय इति, वृषभरूपेन्द्रस्य अस्य वाहनत्वाद् इन्द्रवाह इति, वृषभ ककुदि स्थितत्वात् ककुत्स्थ इति नामभिराहूतः ॥ १८ ॥
सत्यधर्मीया
पुरं जित्वेति पुरञ्जयाह्वयम् । इन्द्रस्यैव वृषभत्वादिन्द्रवाहस्तत्रापि ककु-त्स्थत्वात्ककुत्स्थ इति नामत्रयमिति ज्ञेयम् । सर्वमयच्छदिति पाठो नाच्छः । सश्रीकमिति च सश्रीकः । प्रत्ययच्छद्दत्तवान् । पाघ्राध्मेति यच्छादेशः । इति नामभिस्त्रिभिराहूतः ॥ १९ ॥
छलारी
पुरं जित्वा । सश्रीकं गजतुरगादिश्रीसहितं सर्वंधनं प्रत्ययच्छद्दत्तवान् । स राजर्षिर्दैत्यपुरञ्जयात्पुरञ्जय इति नाम्नाऽऽहूतः । वृषरूपेन्द्रस्य वाहनत्वादिन्द्रवाह इति नाम्नाऽऽहूतः । वृषभककुदि स्थितत्वात्ककुस्थ इति नाम्नाऽऽहूतः ॥ १९ ॥
पुरञ्जयस्य पुत्रोऽभूदनेनास्तत्सुतः पृथुः ।
विश्वगन्धिस्ततश्चन्द्रो युवनाश्वस्तु तत्सुतः ॥ २० ॥
सत्यधर्मीया
अनेना नाम्ना । वस्तुतस्तु न विद्यते एनः पापं यस्य स इति नामा-र्न्वर्थकं च ज्ञेयम् । तत्सुतोऽनेनस्तनयः । ततः पृथोः । तत इत्युत्तरत्राप्यन्वेति । ततो विश्वगन्धेश्चन्द्रः ॥ २० ॥
छलारी
अनेन तन्नामकस्ततः पृथोर्विश्वगन्धिस्ततो विश्वगन्धेश्चण्डः । तत्सुतश्चण्डसुतो युवनाश्वः ॥ २० ॥
शावस्तिस्तत्सुतो येन शावस्ती निर्मिता पुरी ।
बृहदश्वस्तु शावस्तेस्ततः कुवलयाश्वकः ॥ २१ ॥
सत्यधर्मीया
तत्सुतो युवनाश्वसुतः । शावस्तिर्येन शावस्तिना । शावस्ती नाम्नी पुरी निर्मिता । ततो बृहदश्वात् ॥ २१ ॥
छलारी
शावस्तिस्तत्सुतो युवनाश्वसुतो, येन शावस्तिना ॥ २१ ॥
यः प्रियार्थं मुकुन्दस्य धुन्धुनामासुरं बली ।
सुतानामेकविंशत्या सहस्रैरहनद् वृतः ॥ २२ ॥
सत्यधर्मीया
यः कुवलयाश्वकः । उदङ्कस्य मुनेः प्रियार्थम् । प्रीत्यै नाम्ना धुन्धुमसुरं सुतानामेकविंशत्या सहस्रैर्वृतः सन्नहनदहन् । अत्रैकविंशतिसहस्रसुतोक्तिश्च मोक्षधर्मे शतसुतानां कथमिति चेत् । सत्यम् । तच्छतं तत्सहस्रमिति श्रुतेेः शतशब्दो बहुवाची सन्नेतत्सङ्ख्यो ज्ञेय इति न विरोधः ॥ २२ ॥
छलारी
सः कुवलयाश्वक एव । धुन्धुनामासुरं हतवान् ॥ २२ ॥
धुन्धुमार इति ख्यातस्तत्सुतास्ते प्रजज्वलुः ।
धुन्धोर्मुखाग्निना सर्वे त्रय एवावशेषिताः ॥ २३ ॥
सत्यधर्मीया
एतद्धुन्धुमारार्थको वामनावतारे साक्षाद्द्वाभ्यां समग्रजगव्द्यापनमेकेन समुद्रान्तस्तन्निमज्जनमेतन्मुखेन मारणमिति च कथाविशेषोऽपि भगवतोक्तो ज्ञेयः । अतो धुन्धुमार इति च ख्यातः । कर्मशर्मैतत् । धुन्धोर्मुखाग्निना ते तत्सुताः प्रजज्वलुर्दग्धाः । एकविंशत्सहस्रमध्ये त्रय एवावशेषिता उर्वरिताः ॥ २३ ॥
छलारी
तत्सुताः कुवलयाश्वकसुता धुन्धोर्मुखाग्निना प्रज्वलिता दग्धा इत्यर्थः । इतीत्यस्य त्रय एवावशेषिता इत्यन्वयः ॥ २३ ॥
दृढाश्वः कपिलाश्वश्च भद्राश्व इति भारत ।
दृढाश्वपुत्रो हर्यश्वो निकुम्भस्तत्सुतः स्मृतः ॥ २४ ॥
सत्यधर्मीया
तेषां शिष्टानां नाम स्पष्टयति ॥ दृढाश्व इत्यादिना । तत्सुतो हर्यश्वसुतः
॥ २४ ॥
बर्हणाश्वो निकुम्भस्य कृशाश्वोऽथास्य सेनजित् ।
युवनाश्वोऽभवत् तस्य सोऽनपत्यो वनं गतः ॥ २५ ॥
सत्यधर्मीया
अस्य कृशाश्वस्य । तस्य सेनजितः । स युवनाश्वः । वनं गतः । अत्र निमित्तमनपत्य इति ॥ २५ ॥
छलारी
अथ तस्माद्बर्हिणाश्वात्कृशाश्वः । अस्य कृशाश्वस्य ॥ २५ ॥
भार्याशतेन निर्विण्ण ऋषयोऽस्य कृपालवः ।
इष्टिं स्म वर्तयाञ्चक्रुरैन्द्रीं ते सुसमाहिताः ॥ २६ ॥
सत्यधर्मीया
भार्याशतेन । शतेऽपि सतीनां सुतो न जात इति निर्विण्णः । ऐन्द्रीमिन्द्रसम्बधिनीमिष्टिं वर्तयाञ्चक्रुः । वर्तयां चक्रुरिति द्वे पदे ॥ २६ ॥
छलारी
भार्याशतेन निर्विण्णः सन् । वनं गत इति पूर्वेण सम्बन्धः । अस्य पुत्रोत्पत्त्यर्थमिति शेषः । ऐन्द्रीमिन्द्रदैवत्यामिष्टिं वर्तयांचक्रुः प्रवर्तयामासुः ॥ २६ ॥
राजा तद्यज्ञसदनं प्रविष्टो निशि तर्षितः ।
दृष्ट्वा शयानान् विप्रांस्तान् पपौ मन्त्रजलं स्वयम् ॥ २७ ॥
पदरत्नावली
तर्षित उदन्यया युतो भार्यायै देयं मन्त्रपूतं जलं स्वयं पपौ ॥ २६ ॥
सत्यधर्मीया
निशि रात्रौ तर्षितस्तृष्णायुतो मन्त्रजलं भार्यायै देयं मन्त्रपूतं पानीयं स्वयं पपावपिबत् ॥ २७ ॥
छलारी
राजा युवनाश्वो तर्षित उदन्यायुतः । पत्न्यैै देयं मन्त्रपूतं जलं स्वयं पपौ
॥ २७ ॥
उत्थितास्ते निशाम्याथ व्युदकं कलशं प्रभो ।
पप्रच्छुः कस्य कर्मेदं पीतं पुंसवनं जलम् ॥ २८ ॥
पदरत्नावली
निशाम्य दृष्ट्वा । व्युदकं जलरहितम् । पुंसवनं पुत्रोत्पत्यर्थ-मभिमन्त्रितम् ॥ २७ ॥ ईश्वरप्रहितेन दैवप्रेरितेन ॥ २८ ॥
सत्यधर्मीया
प्रभो हे परीक्षित् । व्युदकं विगतमुदकं यस्मात्तं कलशं पप्रच्छुः । पुंसवनं जलं पीतं किल कस्येदं कर्मेति पृष्टवन्तो लोकदृष्ट्या ॥ २८ ॥
छलारी
निशाम्य दृष्ट्वा । व्युदकं जलरहितम् । पुंसवनं पुत्रदम् ॥ २८ ॥
राज्ञा पीतं विदित्वाऽथ ईश्वरप्रहितेन ते ।
ईश्वराय नमश्चक्रुरहो दैवबलं बलम् ॥ २९ ॥
पदरत्नावली
ईश्वरप्रहितेन दैवप्रेरितेन ॥ २८ ॥
सत्यधर्मीया
ईश्वरप्रहितेन प्रेरितेन राज्ञा युवनाश्वेन । दैवबलमेव बलमहो विचित्र-मितीश्वराय नमश्चक्रुः ॥ २९ ॥
छलारी
ईश्वरप्रहितेन दैवप्रेरितेन । दैवबलमेव मुख्यं बलं पुरुषबलं तु न किञ्चन न किञ्चिदिति वदन्त ईश्वराय नमश्चक्रुरित्यन्वयः ॥ २९ ॥
ततः काल उपावृत्ते कुक्षिं निर्भिद्य दक्षिणम् ।
युवनाश्वस्य तनयश्चक्रवर्ती जजान ह ॥ ३० ॥
सत्यधर्मीया
ततः काले दशमे मासि जायत इति श्रौते समये उपावृत्ते आयाते युवनाश्वस्य दक्षिणं कुक्षिं कुक्षेर्दक्षिणभागं पिचण्डकुक्षी जठरोदरतुन्दमित्यमरः । निर्भिद्य भित्वा चक्रवर्ती तनयः सुतो जजानाजायत । हेत्याश्चर्ये ॥ ३० ॥
छलारी
जजान अजनि ॥ ३० ॥
कं धास्यति कुमारोऽयं स्तन्यो रोरूयते भृशम् ।
मान्धातर्वत्स मा रोदीरितीन्द्रो देशिनीमदात् ॥ ३१ ॥
पदरत्नावली
स्तन्यः स्तनपानेच्छुरयं बालो भृशं रोरूयते पुनः पुनरत्यन्तं रौति । कं धास्यति कस्य स्त्रीजनस्य स्तन धास्यति पास्यति । धेट् पाने इति धातोः । इति मत्वा इन्द्रो हे वत्स मा रोदीः रोदनं मा कार्षीरित्युक्त्वा देशिनीमङ्गुष्ठानन्तरामङ्गुलीमदाद् अतो मान्धातेति नाम ॥ ३० ॥
दुर्घटभावदीपिका
अत्रेयं योजना । स्तन्यः स्तन्यापेक्षावानयं कुमारो भृशं रोरूयते कं कस्य स्त्रीजनस्य स्तनं धास्यति वास्यतीति विचार्येन्द्रो हे वत्स मान्धातर्धाता पाता भव मा रोदीरित्युक्त्वा देशिनीमदाद्धेतोर्मान्धातारिति सम्बोध्यो जातस्तस्य बालस्य मान्धतेति नामा-भवदिति यावदिति । एतेन कं धास्यतीत्यादिकमनन्वितमिति दूषणं परिहृतम् । विचार्येत्यादीनां शेषमङ्गीकृत्येति मान्धातरित्यस्यावृत्तिं चाभ्युपेत्य धातरित्यर्थवशात्सम्बोधनप्रथमैकवचनान्तत्वं स्वीकृत्यान्वयस्योक्तत्वात् ॥ ३१ ॥
सत्यधर्मीया
भृशं स्तन्यः स्तनापेक्षावान् पयःपानार्थं रोरूयतेऽतिशयेन रौति । अयं कुमारः कं धास्यति । स्त्रीजनस्य कस्य कस्य स्तनं धास्यति । धेट् पाने । पास्यति । इति ऋषिषु चिन्तयत्सु सत्सु । अध्वराराधित इन्द्रो हे वत्स मान्धातः पोत मा रोदीः । पदद्वयम् । रोदनं मा कार्षीरिति वदन्निन्द्रो देशिनीं तर्जनीम् । तर्जनी स्यात्प्रदेशिनीत्यमरः । अदादास्ये स्थापयामास । तेन मान्धातेत्यभिधानं तस्याभूदिति भावः ॥ ३१ ॥
छलारी
स्तन्यः स्तनपानेच्छुरयं बालो भृशं रोरूयते पुनः पुनरत्यन्तं रोदनं करोति । कं धास्यति कस्य स्त्रीजनस्य स्तनं धास्यति पास्यति । धेट् पान इति धातोः । इति दुःखितै-र्ऋषिभिरुक्ते सति तस्यामिष्ट्यामाराधित इन्द्रः । हे वत्स मा रोदी रोदनं मा कार्षीरित्युक्त्वा । मान्धातर्वत्स पानाभावे पानं कुर्विति ब्रुवन् । देशिनीं तर्जनीमदात् । अतो मान्धातेति नामाभूत्
॥ ३१ ॥
न ममार पिता तस्य विप्रदेवप्रसादतः ।
युवनाश्वोऽथ तत्रैव तपसा सिद्धिमन्वगात् ॥ ३२ ॥
पदरत्नावली
तस्य मान्धातुः पिता युवनाश्वः । तत्र सत्रसदने । ३१ ॥
सत्यधर्मीया
विप्राः प्रार्थयितारो देवाश्च तत्प्रार्थितास्तेषां प्रसादतः । ततो मान्धा-तृपिता न ममार न मृतः । अथ कुक्षिभेदानन्तरं तत्रैव सत्रसदन एव तपसा सिद्धिमन्वगात्
॥ ३२ ॥
छलारी
तस्य मान्धातुः पिता युवनाश्वो भिन्नकुक्षिरपि न ममार । किं त्वथ कालान्तरे । तत्र यज्ञसदने तपसा सिद्धिमन्वगान्ममारेत्यर्थः ॥ ३२ ॥
त्रसद्दस्युरितीन्द्रोऽङ्ग विदधे नाम तस्य वै ।
यस्मात् त्रसन्ति ह्युद्विग्ना दस्यवो रावणादयः ॥ ३३ ॥
सत्यधर्मीया
तस्य मान्धातुः । त्रसद्दस्युरितीन्द्रो नाम विदधे । मूलकृन्नाममूलं निर्वचनं स्वयमाह ॥ यस्मादिति ॥ उद्विग्ना विह्वलाः । रावणादयो विश्रवसोऽपत्यं रावणः । विश्रवसो विश्रवणरवणाविति रवणादेशे णिच् । रावण इति भवति । त्रसन्ति भीता भवन्तीति । त्रसन्तो दस्यवो यस्मात्स त्रसद्दस्युः । वाल्मीकिरामायणे रावणमान्धात्रोः साम्योक्तिः कादाचित्की । वस्तुतस्तु सदातनो मान्धातृत्रासो रावणस्येति न विरोधः । अतद्गुणसंविज्ञानो बहुव्रीहिर्वा । क्वचित्त्रसदस्युरित्येकदकारकः पाठो दृश्यते तस्य पृषोदरादिलोप इति ज्ञेयम् ॥ ३३ ॥
छलारी
मान्धातुर्महिमानमाह ॥ त्रसद्दस्युरित्यादिना ॥ हे अङ्ग राजन् ॥ ३३ ॥
यौवनाश्वोऽथ मान्धाता चक्रवर्त्यवनीं प्रभुः ।
सप्तद्वीपवतीमेकः शशासाच्युततेजसा ॥ ३४ ॥
सत्यधर्मीया
युवनाश्वस्यापत्यं यौवनाश्वः । अच्युतस्य स्वाविष्टस्य हरेस्तेजसा सामर्थ्येन ॥ ३४ ॥
छलारी
अच्युततेजसाऽच्युतस्य प्रतिष्ठाविभूतिरूपस्य तेजसा प्रकाशेनाच्युतं च तत्तेजश्च तेनेति वा ॥ ३४ ॥
ईजे च यज्ञं क्रतुभिरात्मविद् भूरिदक्षिणैः ।
सर्वदेवमयं देवं सर्वात्मकमतीन्द्रियम् ॥ ३५ ॥
पदरत्नावली
यज्ञं श्रीहरिं सर्वदेवमयं सर्वदेवप्रधानं सर्वात्मकं मन्त्रतन्त्रद्रव्यादि-सर्वव्यापिनम् ॥ ३४ ॥
सत्यधर्मीया
यज्ञं तन्नामकं हरिमात्मवित्परमात्मज्ञानी भूरिदक्षिणैर्भूरि दक्षिणा येषां तैर्भूरि सुवर्णं दक्षिणा येषामिति वा । सर्वदेवमयं तत्प्रधानम् । मयं प्रधानमिति बृहद्भाष्योक्तेः । सर्वेषामात्मनां कं यस्मात्तम् । अतीन्द्रियं विना स्वप्रसादमिन्द्रियागोचरम् ॥ ३५ ॥
छलारी
यज्ञं यज्ञनामकं श्रीहरिम् । सर्वदेवमयं सर्वदेवप्रधानम् । सर्वात्मकं मन्त्रतन्त्रद्रव्यादिसर्वपदार्थव्यापिनम् ॥ ३५ ॥
द्रव्यं मन्त्रो विधिर्यज्ञो यजमानस्तथार्त्विजः ।
धर्मो देशश्च कालश्च सर्वमेतद् यदात्मकम् ॥ ३६ ॥
पदरत्नावली
एतदेव स्पष्टयति– द्रव्यमिति ॥ य आत्मा व्यापी यस्य तद् यदात्मकं यत्स्वामिकम् ॥ ३५ ॥
सत्यधर्मीया
एतद्द्रव्यादिकं सर्वं यदात्मकं यत्स्वामिकं तमीज इत्यन्वयः ॥ ३६ ॥
छलारी
तस्यानुसन्धानप्रकारमाह ॥ द्रव्यमिति ॥ विधिर् विधानम् । यज्ञो यज्ञपुरुषो यदात्मकं यदधीनसत्तात्मकम् । इत्यनुसन्धानं कृतवानिति शेषः ॥ ३६ ॥
यावत् सूर्य उदेति स्म यावच्चन्द्रः प्रतिष्ठति ।
सर्वं तद् यौवनाश्वस्य मान्धातुः क्षेत्रमुच्यते ॥ ३७ ॥
सत्यधर्मीया
प्रतिष्ठति अस्तमेति । क्षेत्रं भूः ॥ ३७ ॥
छलारी
यावत्सूर्य उदेति यावति प्रदेशे सूर्यप्रकाशो भवति । चन्द्रः प्रतिष्ठति । प्रकाशेनेति शेषः ॥ ३७ ॥
शशबिन्दोर्दुहितरि बिन्दुमत्यामधान्नृपः ।
पुरुकुत्समम्बरीषं मुचकुन्दं च योगिनम् ।
तेषां स्वसारः पञ्चाशत् सौभरीं वव्रिरे पतिम् ॥ ३८ ॥
सत्यधर्मीया
नृपो मान्धाता शशबिन्दोर्दुहितरि स्वभार्यायाम् । शशबिन्दुरित्यनेन सोऽपि प्रसिद्ध इति तत्कुलशुद्धिमभ्यधत्तेति ज्ञेयम् । अम्बरीषं पुरुकुत्सं मुचकुन्दं चेत्यधात् । तेषां त्रयाणां स्वसारो भगिन्यः पञ्चाशत्सङ्ख्याकाः सौभरिं नाम्ना ऋषिं पतिं वव्रिरे ॥ ३८ ॥
छलारी
बिन्दुमत्यां भार्यायां नृपो मान्धाताऽधाज्जनयामास । तेषां स्वसारः मान्धातुः कन्याः ॥ ३८ ॥
यमुनान्तर्जले मग्नस्तप्यमानः परंतपः ।
निर्वृतिं मीनराजस्य वीक्ष्य मैथुनधर्मिणः ॥ ३९ ॥
पदरत्नावली
निर्वृतिम् आनन्दम् ॥ ३९ ॥
सत्यधर्मीया
स तापसः क्व, क्व च ताः कन्यास्तासामस्य च सङ्गमः कथं, तत्रापि सर्वाः कथमेकं नाथं वव्रिरे, बभ्राम च खेददवैषयिके सुखे कथं, मुनिरेकश्च कथं तासां रतिमतीवावहदिति सर्वस्योत्तरमीरयति ॥ यमुनान्तर्जल इत्यादिना ॥ परं तपस्तप्यमान आचरन् । मैथुनं धर्मो व्यापारः सोऽस्यास्तीति मैथुनधर्मी । इन्नन्तः । मैथुनधर्मण इति पाठे धर्मादनिच्केवलादित्यनिजन्तः । मीनराजस्य मीनानां राजा मीनराजः । राजाहस्सखिभ्य इति टच् । निर्वृतिं महानन्दं वीक्ष्य तच्चेष्टोपर्यूहेन ज्ञात्वा तदानन्दस्य तदनुभवमात्रवेद्यत्वात् ॥३९॥
छलारी
ननु महातापसस्य सौभरेः कुतो विवाहप्रसङ्गः । कथं वा जराझर्झरं राजकन्या वव्रिरे इति तत्राह ॥ यमुनान्तर्जल इत्यादिना ॥ निर्वृतिं परमानन्दम् ॥ ३९ ॥
जातस्पृहो नृपं विप्रः कन्यामेकामयाचत ।
सोऽप्याह गृह्यतां ब्रह्मन् कामं कन्यां स्वयम्वरे ॥ ४० ॥
सत्यधर्मीया
जातोत्पन्ना स्पृहाऽऽकाङ्क्षा यस्य स तथा । नृपं मान्धातारम् । सोऽपि राजाऽपि । नेत्युक्तौ कुप्यति मह्यमोमित्युक्तौ कामिन्यसम्मतिरिति मतिमान्पर्यायेणामुमभिनिवेशं शंसयितुमाह । कन्या स्वयंवरे कामं गृह्यतां त्वयेत्याहेति ॥ ४० ॥
छलारी
नृपं मान्धातारम् । सोऽपि मान्धाता स्वयंवरे कामं कन्या गृह्यतामित्याह ॥ सोऽपीति ॥ ४० ॥
स विचिन्त्याप्रियः स्त्रीणां जरठोऽयमसम्मतः ।
वलीपलित एजत्क इत्यहं प्रत्युदाहृतः ॥ ४१ ॥
पदरत्नावली
सः सौभरिरयं मुनिः स्त्रीणामसम्मतो जरठ एजत् कम्पमानं कं शिरो यस्य स तथा, वलीभिर्लम्बमाननाडीभिर्युक्तानि पलितानि शुक्ललोमानि यस्य स तथा अप्रिय इति मत्वा राज्ञाऽहं प्रत्युदाहृतो निराकृतः । स्वयम्वरे गृह्यतामिति प्रोक्तोऽतस्तथाऽऽत्मानं साधयिष्य इत्युत्तरेणान्वयः ॥ ४१ ॥
सत्यधर्मीया
जरठ इति कामं कामिन्यकामित इतीदमपदेशेन नेत्यभिप्रायवान्प्रभुरयमिति विदित्वा स इत्थमतनोदित्याह ॥ स इत्यादिना ॥ वलीपलितो वलीभिर्लम्बमानधमनीभिः सहितानि पलितानि श्वेतलोमानि यस्य सः । पलितं शैलजे तापे पाण्डुकेशे च कर्दम इति विश्वः । एजत्कम्पमानं कं शिरो यस्य स जरठो वृद्ध इति स्त्रीणामप्रियः । धवीभवनायोग्य इत्य-सम्मतोऽयमिति विचिन्त्य राज्ञेति चाहं प्रत्युदाहृतो मुखतोऽप्रत्याख्यानं प्रत्याख्यानं चार्थत इति प्रत्युदाहृत इति विचिन्त्येत्यप्यन्वेति । यमसम्मतोऽवकाशदानेन तेन नेतुं सम्मत इति वेति यमस्य सम्मतः ॥ ४१ ॥
छलारी
सः सौभरिः ‘अयं मुनिः स्त्रीणामसम्मतो जरठः वृद्ध एजत्क एजत्कम्पमानं कं शिरो यस्य स तथा । वलीपलितो वलीभिर्लम्बमानचर्मभिर्युक्तः पलितः शुक्लकेशयुक्तश्चात एव स्त्रीणामप्रियः । इति विचिन्त्यानेनाहं प्रत्युदाहृतो निराकृतः स्वयंवरे गृह्यतामिति प्रोक्तोऽ-तस्तथाऽऽत्मानं साधयिष्य इत्युत्तरेणान्वयः ॥ ४१ ॥
साधयिष्ये तथाऽऽत्मानं सुरस्त्रीणामभीप्सितम् ।
किं पुनर्मनुजस्त्रीणामिति व्यवसितः प्रभुः ॥ ४२ ॥
दुर्घटभावदीपिका
व्यवसित इत्येतदुपलक्षणम् । कृतवांश्चेत्यपि द्रष्टव्यम् । एतेनात्मानं सुरस्त्रीणामभीप्सितं साधयिष्ये किं पुनर्मनुजस्त्रीणामिति व्यवसितः कृतवांश्चेति वक्तव्यमिति व्यवसित इति व्यवसायमात्रकथनमनुपपन्नमिति दूषणं परास्तम् । व्यवसित इत्यस्य लक्षणया न केवलं व्यवसायं प्राप्तः किन्तु कृतवांश्चेत्यर्थस्योक्तत्वात् ॥ ४२ ॥
सत्यधर्मीया
आत्मानं मां तथा साधयिष्य इत्यन्वयः । तथेत्युक्तमुत्कोचयति ॥ सुरस्त्रीणामिति ॥ सुरस्त्रीणामभीप्सितं कामितं मनुजस्त्रीणां तु किमिति व्यवसितो निश्चयवान् । दुर्बलनिश्चयमात्रेण कथमबलालाभ इत्यतः प्रभुरिति । तथा कर्तुं समर्थः । प्राभवादिति वा प्रभुः
॥ ४२ ॥
छलारी
यथेत्यस्य प्रपञ्चः । सुरस्त्रीणामपीप्सितमितीति व्यवसितः । तथा कृत-वांश्चेत्यपि ग्राह्यम् ॥ ४२ ॥
मुनिः प्रवेशितः क्षत्त्रा कन्यान्तःपुरमृद्धिमत् ।
वृतश्च राजकन्याभिरेकः पञ्चाशता वरः ॥ ४३ ॥
पदरत्नावली
क्षत्रा द्वारपालकेन कन्यान्तःपुरं प्रवेशितः पञ्चाशता राजकन्याभिरेको वरः वृत इति शेषः ॥ ४३ ॥
सत्यधर्मीया
क्षत्रा ऋद्धिमत्कन्यान्तःपुरं प्रवेशितः । क्षत्ता स्यात्सारथौ द्वाःस्थे वैश्यायामपि शूद्रज इत्यमरात्सारथिर्द्वाःस्थो वा । पञ्चाशता राजकन्याभिरेको वरः पतिर्वृत इति शेषः ॥ ४३ ॥
छलारी
क्षत्त्रा द्वारपालकेन कन्याऽन्तःपुरं प्रवेशितः । पञ्चाशता पञ्चाशत्सङ्ख्याकाभिः राजकन्याभिः स एक एव वरो वृतः । स्वीकृतोऽभूदिति शेषः ॥ ४३ ॥
तासां कलिरभूद् भूयांस्तदर्थेऽपोह्य सौहृदम् ।
ममानुरूपो नायं व इति तद्गतचेतसाम् ॥ ४४ ॥
पदरत्नावली
कलिः कलहस् तदर्थे मुनिपरिणयनार्थे । सौहृदं सुहृद्भावम् अपोह्य परित्यज्य । तद्गतचेतसां मुनिसंलग्नचेतसाम् ॥ ४४ ॥
सत्यधर्मीया
तदर्थे मुनिपरिणयनरूपेऽर्थे । तद्गतचेतसां तद्गतं मुनिसंल्लग्नं चेतो यासां तासाम् । स्त्रीणां ममायमनुरूपो योग्यो वो युष्माकं नेति परस्परात्सौहार्दं सोहार्दमपोह्य परित्यज्य कलिः कलहोऽभूत् । भूयानित्यनेन विनैतद्विवाहं कलहस्योन्नहनमाह ॥ ४४ ॥
छलारी
भूयान् बहुलः कलिः कलहोऽभूत् । सौहृदं सुहृद्भावमपोह्य परित्यज्य ॥४४॥
स बह्वृचस्ताभिरवारणीयश्रिया विराजत्सपरिच्छदेषु ।
गृहेषु नानोपवनामलाम्भःप्रसूनसौगन्धिककाननेषु ॥ ४५ ॥
सत्यधर्मीया
स बह्वृचो ऋग्वेदी । अवारणीयश्रिया केनापि वारयितुमशक्या श्रीः सम्पत्तया । परिच्छदैः सहितानि राजन्ति च तानि सपरिच्छदानि च तेषु गृहेषु तथा नानोप-वनेषु । नानोपवनामलाम्भःप्रसूनयुक्तेषु सरस्सु । नानासौगन्धिकानां कल्हाराणां काननानि वनानि च तेषु रेम इत्यन्वयः ॥ ४५ ॥
छलारी
तस्य गार्हस्थ्यं वर्णयति ॥ स बह्वृच इत्यादिना ॥ बह्वृच इति मन्त्रसामर्थ्यमुक्तम् । ऋग्मन्त्रदृष्टा सः सौभरिस्ताभिः सह रेमे इत्युत्तरेणान्वयः । क्व रेमे । आवरणीयं यत्तपस्तस्य श्रिया सम्पदा । तपःसामर्थ्येनेति यावत् । अनर्घ्याः परिच्छदा येषु तेषु गृहेषु । तथा नानाविधेषूपवनेषु चामलान्यम्भांसि येषु तेषु सरःसु च । सौगन्धिकानां कल्हारपुष्पाणां काननेषु च रेमे ॥ ४५ ॥
महार्हशय्यासनवस्त्रभूषणस्नानानुलेपाभ्यवहारमाल्यकैः ।
स्वलङ्कृतस्त्रीपुरुषेषु नित्यदा रेमेऽनुगायद्द्विजवृन्दबन्दिषु ॥ ४६ ॥
पदरत्नावली
बह्वृच ऋमन्त्रद्रष्टा सौभरिर् गृहेषु ताभिः सह रेमे इत्यन्वयः । कीदृशेषु गृहेषु ? अवारणीयश्रिया अप्रतिघातलक्ष्म्या विराजन्ति शोभमानानि च तानि परिच्छदैरुपकरणैः सहितानि च विराजत्सपरिच्छदानि तेषु, अमलानि च तान्यम्भांसि च अमलाम्भांसि, प्रसूनानां सौगन्धिकानि, सौरभ्ययुतानि नानाविधोपवनानि च अमलाम्भोभिर्युतानि प्रसूनसौगन्धिकानि च काननानि येषां तानि तथा तेषु, द्विजानां पक्षिणां वृन्दानि द्विजवृन्दानि, अनुगायन्ति च तानि द्विजवृन्दान्येव वन्दिनो येषु तानि तथा तेषु ॥ ४५–४६ ॥
सत्यधर्मीया
महार्हशय्यासनादिसहितेषु स्वलङ्कृतस्त्रीपुरुषेषु गेहेषु द्विजानां पक्षिणां वृन्दानि निकुरम्बानि तान्येवानुगायन्तो बन्दिनो येषु तेषु काननेषु । जामातृतपसः साम्राज्यं दृष्टवतो मान्धातुः श्वशुरस्य निर्वेदो जातः ॥ ४६ ॥
छलारी
कथम्भूतेषु गृहादिषु । स्वलङ्कृताः स्त्रियः पुरुषाश्च येषु । पुनः कथम्भूतेषु । अनुगायन्तो द्विजः पक्षिणश्च भृंगाश्च वन्दिनश्च येषु । कथम्भूतः सौभरिः । महार्हशय्यादिभिः । उपलक्षित इति शेषः । रेमे इत्युपलक्षणम् । गार्हस्थ्योचितयावद्धर्मांश्चकारेत्यपि बोध्यम् । उत्तरत्र यद्गार्हस्थ्यं चेत्यनुवादात् ॥ ४६ ॥
यद्गार्हस्थ्यं तुं संवीक्ष्य सप्तद्वीपवतीपतिः ।
विस्मितः स्तम्भमजहात् सार्वभौमश्रियान्वितः ॥ ४७ ॥
पदरत्नावली
यद्गार्हस्थ्यं यस्य सौभरेर् गार्हस्थ्योचितयावद्धर्मानुष्ठानं महाभोगभाग्यं च संवीक्ष्य सप्तद्वीपवतीपतिर्मान्धाता श्वशुरः स्तम्भमहङ्कारनिमित्तकर्तव्याकरणरक्षणं जहावित्याह–यदिति ॥ ४७ ॥
सत्यधर्मीया
तेन कियन्मम गार्हस्थ्यमिति जहौ मोहमित्याह ॥ यदिति ॥ यस्य सौभरेर्गार्हस्थ्यं गृहस्थधर्मं वीक्ष्य सप्तद्वीपवती भूमिस्तस्याः पतिर्विस्मित इयत्तपः परिकल्पितमिति साश्चर्यः, सार्वभौमश्रिया सर्वभूमिपृथिवीभ्यामणत्रावित्यण् । अनुशतिकादित्वादुभयपदवृद्धिः । अन्वितोऽपि स्तम्भम् । अहमेव गार्हस्थ्यधर्म इति गर्वमजहात्तत्याज ॥ ४७ ॥
छलारी
यद्गार्हस्थ्यं यस्य सौभरेर्गार्हस्थ्यं पञ्चाशद्भार्याभिः सह गृहस्थधर्मानुष्ठानं महा-र्हशय्यादिमहाभोगसाधनं महाभोगं चेत्यर्थः । सप्तद्वीपवतीपतिर्मान्धाता श्वशुरः । स्तम्भं गर्वम् । अहमेव गार्हस्थ्ययावद्धर्मानुष्ठानवान्, अहमेव महार्हशय्यादिमहाभोगसाधनवान्, अहमेव महाभोग-वांश्च मत्समः कोऽपि नास्तीत्यहंकारमित्यर्थः । सार्वभौमश्रिया साम्राज्यलक्ष्म्याऽन्वितः समन्वितः
॥ ४७ ॥
एवं गृहेष्वभिरतो विषयान् विविधैः सुखैः ।
सेवमानो न चातुष्यदाज्यस्तोकैरिवानलः ॥ ४८ ॥
पदरत्नावली
आज्यस्तोकैर् घृतबिन्दुभिः ॥ ४८ ॥
सत्यधर्मीया
विषयान् शब्दादीन्सेवमानोऽसौ सौभरिर्विविधैः कायनिकायानुभूयमानैः सुखैरनलोऽग्निराज्यस्तोकैराज्यस्य स्तोकाः । स्तोकेऽल्पे चातक इति विश्वः । बिन्दुभिरिति यावत् । यथा न तुष्यति तथा नातुष्यदित्यन्वयः ॥ ४८ ॥
छलारी
गृहेषु । बहुवचनमाद्यर्थे । गृहादिषु सुखैः सुखसाधनैर्न चातुष्यदलम्बुद्धिं न प्राप । आज्यस्तोकैर्घृतबिन्दुभिः ॥ ४८ ॥
स कदाचिदुपासीन आत्मापह्नवमात्मना ।
ददर्श बह्वृचाचार्यो मीनसङ्गसमुत्थितम् ॥ ४९ ॥
पदरत्नावली
आत्मना स्वेनैव आत्मापह्नवं स्वस्वरूपनाशं, तपसस्तिरस्कारं वा
॥ ४९ ॥
सत्यधर्मीया
स मीनसङ्गसमुत्थितं कदाचिदात्मना स्वेनैवात्मापह्नवं नाशं मनसा मार्गात्स्खलनम् । अपलाप इति यावत् । अपह्नवे ज्ञोऽत्यन्तापह्नवे लिङ् वक्तव्य इति सूत्र-वार्तिकयोरपह्नवशब्दो निह्नवार्थकः स चापलापः । अपलापस्तु निह्वव इत्यमरः । केचिदमरेऽ-पलापस्त्वपह्नव इति पठन्ति । तदा तु न क्लेशः । चन्द्रालोके चापह्नवालङ्कारषट्कप्रस्तावे व्याजाद्यैर्निह्नुतपदैर्निह्नवोऽपह्नव इत्येकार्थौ । ददर्शानुसन्दधे ॥ ४९ ॥
छलारी
इदानीं तस्यानुतापप्रकारमाह ॥ स कदाचिदित्यादिना ॥ बह्वृचानामाचार्यो ऋग्मन्त्रव्याख्याकृदित्यर्थः । आत्मनो मनसः । मनोदोषादिति यावत् । आत्मापह्नवमात्मनो नाशम् । तपोहानिमिति यावत् । ददर्श ॥ ४९ ॥
अहो इमं पश्यत मे विनाशं तपस्विनः सच्चरितव्रतस्य ।
अन्तर्जले वारिचरप्रसङ्गात् प्रस्रावितं ब्रह्म चिरं धृतं यत् ॥ ५० ॥
पदरत्नावली
यच्चिरं धृतं ब्रह्म तपस् तत् प्रस्रावितं च्युतं नष्टमित्यर्थः । ब्रह्म वेद तपस्तत्त्वम् इत्यभिधानम् । तत्त्वमनारोपितरूपं ज्ञानमेव प्रस्रावितं प्रतिबद्धमिति वा ॥ ५० ॥
सत्यधर्मीया
मनसाऽनुसंहितं बहिराविष्करोति ॥ अहो इति ॥ ओदिति प्रगृह्यसंज्ञायां प्रकृतिभावः । इमं सर्वसाक्षिसिद्धम् । तपस्विनः सच्चरितव्रतस्य । सन्ति चरितानि व्रतानि यस्य सद्भिश्चरितानि तानि यस्येति वा यस्य विनाशं पश्यत । जले तत्राप्यन्तर्वारिचरस्य नीरचारिणो मीनस्य प्रसङ्गात्तद्व्यापारविशेषविलोकनरूपाद्विनाशोऽत्र विस्रवणं तच्च विशेषणं तपसि ज्ञेयम् । चिरं धृतमपरोक्षीकृत्य मनसि स्थापितं यद्ब्रह्म श्रीहर्यात्मकं तत्त्वं विस्रावितं जवनिकान्तर्वर्ति-पदार्थवत्परोक्षजातमहो आश्चर्यम् । वारिचरप्रसङ्गात्समुद्रशायिप्रसङ्गाच्चिरं धृतं तद्विषयत्वेन क्लृप्तं ब्रह्म वेदादिकं यत् तद्विस्रावितमतद्विषयजातमिति वा । ब्रह्म तत्त्वं तपो वेद इति विश्वः । ‘मम योनिरप्स्वन्तः समुद्रे’ इति श्रुतेः ॥ ५० ॥
छलारी
सच्चरितं सदाचारः । तस्मिन्नियमयुक्तस्येत्यर्थः । अथवा । संश्चासौ (चरित) व्रतश्चेति विग्रहः । तस्य । यद्वा । चरितानि सत्कर्माणि वैष्णवव्रतानि च यस्य । यच्चिरं ब्रह्मतपस्तत्प्रस्रावितं च्युतं नष्टमित्यर्थः । ब्रह्म वेदतपस्वित्यभिधानम् ॥ ५० ॥
**सङ्गं त्यजेत मिथुनव्रजिनान्मुमुक्षुः **
सर्वात्मना न विसृजेद् बहिरिन्द्रियाणि ।
एकश्चरन् रहसि चित्तमनन्त ईशे
युञ्जीत तद्रतिषु साधुषु चेत् प्रसङ्गः ॥ ५१ ॥
पदरत्नावली
‘लोकसङ्ग्रहमेवापि संपश्यन् कर्तुमर्हसि’ इति वाक्यार्थमनुसन्दधान आह– सङ्गमिति ॥ मिथुनवृजिनात् स्त्रीपुरुषसङ्गोद्भूतपापान्मुमुक्षः सङ्गं त्यजेत् । इन्द्रियाणि बहिः शब्दादिविषयेषु न विसृजेन् न प्रयुञ्जीत एकाकी चरन् रहसि एकान्ते अनन्ते ईशे चित्तं युञ्जीत । चेद् यदि प्रसङ्गोऽपेक्षितस्तर्हि तस्मिन् हरौ रतिर्येषां ते तद्रतयस्तेषु साधुषु निर्मत्सरजनेषु स्यान्नान्यत्रेत्यन्वयः ॥ ५१ ॥
सत्यधर्मीया
अपरोक्षतो जानन् लक्षीकृत्येमं पश्यतेति स्वयं सविनाशं संशयित्वाऽ-न्येनापि सज्जनेन तत्संसज्जनेन भवितव्यमिति परोक्षतः शिक्षयति ॥ सङ्गमिति ॥ मिथुनव्रजिनाद्व्यवायधर्मात्यासक्तिजनितादेनसः । वृजिनं व्रजिनं दुःखमितीर्यत इति बृहदारण्यक-भाष्योक्तेर्व्रजिनेति संयुक्तो व्रकारः । न च छन्दस्त्वेन न छन्दश्छेददोषो वृजिनेत्येव वाच्यमिति । शिवस्तुतौ ‘न किञ्चन व्रजिनमस्त्यभस्मीभवत्’ इत्यत्राप्येतद्गतेस्त्वयाऽपि चिन्तनीयत्वात् । व्रजधातूपरि रूपस्य सुनीरूपत्वात् । मुमुक्षुः सङ्गं त्यजेत त्यजेत् । तत्त्यागः कथमित्यतः कथयति ॥ सर्वात्मनेति ॥ बहिः शब्दादिविषयेष्विन्द्रियाणि न विसृजेत् । एकश्चरन्सञ्चरन् एवं जानन्वा । ईशे लक्ष्म्यध्यक्षेऽनन्तेऽपरिच्छिन्ने चित्तं युञ्जीत । यदि प्रसङ्गोऽपि त्वयाङ्गीकार्यस्तर्हि कार्योऽत्रेत्याह ॥ तद्रतिष्विति ॥ तद्रतिषु साधुषु । कार्यः स चैक इति प्रागभिहितैकत्वा-विरोधी मत्यैक्यविवक्षयेति हृदयम् ॥ ५१ ॥
छलारी
मिथुनवृजिनात्स्त्रीपुरुषसङ्गोद्भूतात्पापान्मुमुक्षुः सङ्गं त्यजेत । बहिः शब्दादिषु । एक एव तपश्चरन् । एकस्तपो द्विरध्यायीत्युक्तेः । प्रसङ्गश्चेद्यदि प्रसङ्गोऽपेक्षितस्तर्हि तस्मिन्हरौ रतिर्येषां ते तद्रतयस्तेषु साधुषु प्रसङ्गः स्यादित्यर्थः ॥ ५१ ॥
एकस्तपस्व्यहमथाम्भसि मत्स्यसङ्गात्
पञ्चाशताऽथ सुतपञ्चसहस्रसङ्गः ।
**नान्तं व्रजाम्युभयकृत्यमनोरथानां **
मायागुणैर्हृतमतिर्विषयेऽर्थभावः ॥ ५२ ॥
पदरत्नावली
अहमेक एव तपस्वी अथाम्भसि मङ्गलजले मत्स्यसङ्गान्मत्स्यानां मिथः स्नेहं दृष्ट्वा अथानन्तरं पञ्चाशता स्त्रीभिः सह सुरतप्रसङ्गेन सुतपञ्चसहस्रसङ्ग आसम् । अथो-भयकृत्यं पुत्राणां विवाहादिः कन्यकानां प्रदानादिरित्युभयं कर्तव्यं तत्र ये मनोरथास्तेषाम् । उभयेन स्त्रीपुरुषद्वयेन यत् कृत्यं तत्र विद्यमानानां मनोरथानां वा । उभयस्मिन् इह लोके परलोके च यत् कृत्यं तद्विषयमनोरथानां वा अन्तमवसानं न व्रजामि । तत्रेदं निमित्तमाह– मायेति ॥ मायागुणैर् भगवदिच्छासहकृतप्रकृतिगुणैः । विषये शब्दादौ । अर्थ इति पुरुषार्थ इति भावो बुद्धिर्यस्य सः । मङ्गलानन्तरारम्भप्रश्नकार्त्स्न्येष्वथो अथ इत्यमरः ॥ ५२ ॥
सत्यधर्मीया
स्ववृत्तान्तं स्वयमेवाह ॥ एक इति ॥ एकोऽहं तपस्वी । अम्भसि जले मत्स्यसङ्गात्तं वीक्ष्य स्थितस्य पञ्चाशता सतीभिः सङ्गः । अथानन्तरं पञ्चाशता तत्समसङ्ख्येन शरीरेण सङ्गः । केवलं पञ्चाशतेत्युक्तिस्वारस्यान्मानानननिभालनेनापि कलेवरग्रहः ।
सौभरिस्तु महायोगी पञ्चाशज्जन्मसंसृतिम् ।
विज्ञाय दिव्यज्ञानेन भाविजन्मफलं पुनः ॥
एकदैव तपःसिद्धो राहुमुक्त इवोडुराडिति वचनात् । अथ सुतपञ्चसहस्रसङ्गः । उभय-कृत्यमनोरथानाम् । उपनयनपरस्परपरिणयनाद्युभयकृत्यमनोरथानाम् । अनन्तमवसानं न व्रजामि । तत्र तन्त्रमाह ॥ मायागुणैरिति ॥ भगवदिच्छासहकृतप्रकृतिगुणैर्हृतमतिरपहृतधीरर्थ इति पुरुषार्थ इति भावोऽभिप्रायो यस्य सः । स च न हरौ किन्त्वत्रेत्याह ॥ विषय इति ॥ अन्ततो गत्वा विषयात्मके तत्प्राये शब्दादौ । विस्तृतं प्रागनुसन्धेयम् ॥ ५२ ॥
छलारी
वारिचरप्रसङ्गादित्युक्तदोषं प्रपञ्चयति ॥ एक इति ॥ अहमेक एव तपस्वी । अम्भसि मत्स्यसङ्गान्मत्स्यानां मिथः सङ्गं दृष्ट्वा । अथानन्तरम् । पञ्चाशत्स्त्रीभिः सह सुरतप्रसङ्गेन सुतपञ्चसहस्रसङ्गः । अर्श आदिभ्योऽच् । पञ्चसहस्रसुतसङ्गवानित्यर्थः । आसम् । अथवा । मम सुतपञ्चसहस्रसङ्गः । आसीदिति शेषः । प्रत्येकं तासु पुत्रशतं बभूवेति भावः । अथोभयकृत्यं पुत्राणां विवाहादिः कन्यानां प्रदानादिरित्युभयकृत्यानि । तत्र ये मनोरथा-स्तेषामन्तमवसानं न जानामि । तत्रेदं निमित्तमित्याह ॥ मायेति ॥ मायागुणैः प्रकृतिगुणैः सत्त्वादिकार्यैः रागादिभिरित्यर्थः । विषयेऽर्थभावः शब्दादौ पुरुषार्थबुद्धिः ॥ ५२ ॥
एवं वसन् गृहे कालं विरक्तो न्यासमाश्रितः ।
वनं जगामानुययुस्तत्पत्न्यः पतिदेवताः ॥ ५३ ॥
पदरत्नावली
एवं विरज्य किमकार्षीदिति तत्राह– एवमिति ॥ न्यासं वित्तगृहादि-सर्वविषयत्यागलक्षणम् ॥ ५३ ॥
सत्यधर्मीया
एवं निर्विण्णः किमतनोन्मुनिरित्यत आह ॥ एवमिति ॥ न्यासं सर्वविषयत्यागं न तु यतित्वम् । तत्पत्न्योऽनुययुरित्युत्तरप्रातिकूल्यापत्तेः ॥ ५३ ॥
छलारी
एवं विरज्य किमकार्षीदिति तत्राह ॥ एवमिति ॥ कालं बहुकालम् । कालाध्वनोरत्यन्तसंयोगे द्वितीया । न्यासं वित्तगृहादिसङ्गत्यागलक्षणम् ॥ ५३ ॥
तत्र तप्त्वा तपस्तीक्ष्णमात्मकर्शनमात्मवित् ।
सहैवाग्निभिरात्मानं युयोज परमात्मनि ॥ ५४ ॥
पदरत्नावली
आत्मकर्शनं देहस्य कृशत्वापादकम् । अग्निभिः सहात्मानं देहं युयोज । देहं दग्ध्वा आत्मानं परमात्मनि युयोज । हरिसायुज्यलक्षणं मोक्षमाप्तवानित्यर्थः ॥ ५४ ॥
दुर्घटभावदीपिका
आत्मवित्परमात्मज्ञानी । सः सौभरिस्तत्र वने तीक्ष्णमत एवात्मकर्शनं देहस्य कार्श्यत्वापादकं तपस्तप्त्वाऽऽत्मानमन्तःकरणं परमात्मन्येव युयोज । आत्मनं देह-मग्निभिर्युयोज ददाहेति यावदित्येतद्धि प्रसिद्धमिति । एतेनाग्निभिर्देहं ददाहेति वक्तव्यमिति दूषणं पराकृतम् । आत्मानं युयुजेत्यनयोरावृत्तिमङ्गीकृत्याग्निभिर्देहं ददाहेत्यर्थस्योक्तत्वात् । एतेनैव सहेत्येतव्द्यर्थमिति दूषणं परिहृतम् । सहेत्येकं पदं न भवति किन्तु सः हेति पदद्वयमिति स्वीकृत्यार्थस्योक्तत्वात् ॥ ५४ ॥
॥ इति श्रीभागवतटिप्पण्यां सप्तमोऽध्यायः ॥ ९-७ ॥
सत्यधर्मीया
तत्र वने आत्मकर्शनं शरीरशोषकं, विषयोपभुक्त्यासक्त्या नरकादि-पतिष्यदात्मनः कर्शनं ततः कर्षकमुत्तारकं तप इति यावदिति वा । अग्निभिः पञ्चाश-द्देहानुष्ठितेष्टिसम्बन्धिभिः सहात्मानं देहं युयोज । दाहानन्तरमात्मानमित्यावर्तते । स्वमात्मनि श्रीहरौ च युयोज । तत्सायुज्यं युक्तोऽभवदिति भावः । क्वचित् षष्ठिसङ्ख्या सौभरिदेहानां श्रूयते । सा चात्रानवधारणेन पञ्चाशतेत्युक्तेरविरुद्धेति ज्ञेयम् ॥ ५४ ॥
छलारी
आत्मकर्शनं देहस्य कृशत्वापादकम् । सहैवेत्यत्र सः ह एवेति पदच्छेदः । आत्मानमित्यस्यावृत्तिः । सः सौभरिरात्मानमन्तःकरणं परमात्मनि युयोज । आत्मानं देहं श्रौताग्निभिर्युयोज । ददाहेति यावत् । इत्येतद्ध प्रसिद्धम् ॥ ५४ ॥
ताः स्वपत्युर्महाराज निरीक्ष्याध्यात्मिकीं गतिम् ।
अन्वीयुस्तत्प्रभावेण शान्तमग्निमिवार्चिषः ॥ ५५ ॥
पदरत्नावली
अधिकश्चासावात्मा च अध्यात्मा तस्य सर्वाधिकात्मनो हरेः सम्बन्धिन गतिम् ॥ ५५ ॥
सत्यधर्मीया
तास्तत्पत्न्यः स्वपत्युः स्वपतेराध्यात्मिकीमध्यात्मनः सर्वाधिकात्मनो भगवतः सम्बन्धिनीं गतिं निरीक्ष्य तत्प्रभावेण तत्तपःशक्त्या । तत्प्रभावेनेति पाठे पातिव्रत्य-प्रभावेनेत्यर्थः । शान्तमग्निं तस्यार्चिषो विष्फुलिङ्गा यथाऽन्तर्निलीना भवन्ति तथाऽन्वीयुरन्व-गच्छन् । ताश्च पत्युरित्यत्युन्नतः पाठः । हे स्व स्वामिन्निति तमीयुरिति वा । पतिः समास इति न घिसंज्ञा तदभावप्रयोजककार्षता चेति ज्ञेयम् ॥ ५५ ॥
छलारी
अधिकश्चासावात्मा च अध्यात्मा हरिस्तत्सम्बन्धिनीं गतिं ज्ञानम् । ज्ञानपूर्वकरमणमिति यावत् ॥ ५५ ॥
मान्धातृपुत्रप्रवरो योऽम्बरीषः प्रकीर्तितः ।
मातामहेन प्रवृतो युवनाश्वस्तु तत्सुतः ॥ ५६ ॥
पदरत्नावली
मातामहेन मातुः पित्रा शशबिन्दुना । तस्याम्बरीषस्य सुतः ॥ ५६ ॥
सत्यधर्मीया
कन्यास्थितिमत्याश्चर्यावहामादावुदाहृत्य मान्धातृपुत्रत्रिकमध्ये मध्यम-स्याम्बरीषस्य सूचीकटाहन्यायेनान्वयमाह ॥ मान्धात्रिति ॥ प्रवरपदपरवशाः प्रवरत्वा-दौत्सुक्यातिशयेन मध्यमस्यापि वंश आदावप्युच्यत इत्यप्यवतारयन्ति । पुरुकुत्साम्बरीष-मुच-कुन्दाभिधेषु मातामहेन शशबिन्दुना प्रवृतः प्रगृहीतः । पुत्रतया तत्सुतोऽम्बरीषसुतः । पितामहेनेति पठित्वा मान्धात्रा पौत्र एव पुत्रत्वेन तन्माहात्म्यवेदित्रा कृत इत्यपि योजयन्ति । मान्धातृप्रवरास्तत्प्रवर्ग्यादिति स्वारस्यादिति युक्तिमपि वदन्ति । दुर्ज्ञेयं प्रमेयमिति वयं न निर्णयाय प्रभवामः । मान्धाता प्रवरः श्रेष्ठो येषां ते तथा ॥ ५६ ॥
छलारी
एवं मान्धातृराजकन्यास्थितिमुक्त्वा तत्सुतेषु पुरुकुत्साम्बरीषमुचकुन्देषु पुरुकुत्सस्य ज्येष्ठत्वेऽपि सूचीकटाहन्यायेनाम्बरीषस्य वंशमाह ॥ मान्धात्रिति ॥ मातामहेन शशबिन्दुना । युवनाश्वस्तत्सुतस्तस्याम्बरीषस्य सुतः ॥ ५६ ॥
हरितस्तस्य पुत्रोऽभून्मान्धातृप्रवरा इमे ।
नर्मदा भ्रातृभिर्दत्ता पुरुकुत्साय चोरगैः ॥ ५७ ॥
पदरत्नावली
मान्धाता प्रवरो येषां ते तथा । भ्रातृभिरुरगैः पुरुकुत्साय मान्धातृज्येष्ठ-पुत्राय नर्मदा तन्नामिका नागकन्या दत्ता ॥ ५७ ॥
सत्यधर्मीया
पुरुकुत्सस्य वंशं शंसति ॥ नर्मदेति ॥ शर्मणा नर्मदा भ्रातृभिरुरगैः पुरुकुत्साय दत्ता । अनेन पिता तस्यास्तदानीं नासीदिति सन्नप्यजागलस्तनायित इति वा वनगो वा हंसो वेति ध्वनितम् । इमे यौवनाश्वाम्बरीषहरितानां मान्धातृगोत्रस्य प्रवरा अवान्तर-विशेष-प्रवर्तकाः । पितामहेन मान्धात्रा सहार्षेयवरणे प्रवृत्तो मान्धाता प्रवरो येषां त इमेऽम्बरीष-यौवनाश्वहरिता यथाऽऽहाश्वलायनः । हरितकुत्सपिङ्गधर्मभैमगवानामङ्गिरसाम्बरीषयौवनाश्वाश्चेति । मान्धातारं ह्येके पठन्तीत्याङ्गिरसं मान्धात्राम्बरीषयौवनाश्वेतीति इति व्याकुर्वन्ति ॥ ५७ ॥
छलारी
तस्य युवनाश्वस्य मान्धाता प्रवरो येषां ते तथा । पुरुकुत्सवंशं कथयिष्यन् आदौ तावत्तस्य विवाहप्रभवं चाह ॥ नर्मदेति ॥ भ्रातृभिरुरुगैः । पुरुकुत्साय मान्धातृ-ज्येष्ठपुत्राय । नर्मदा तन्नामिका नागकन्या ॥ ५७ ॥
तया रसातलं नीतो भुजगेन्द्रप्रयुक्तया ।
गन्धर्वान् सोऽवधीत् तत्र वध्य्रश्वान् विष्णुशक्तिधृक् ॥ ५८ ॥
पदरत्नावली
भुजगेन्द्रप्रेरितया नर्मदया रसातलं नीतः स पुरुकुत्सस्तत्र रसातले वध््रयश्वान् वध््रयश्वनामकदुष्टगन्धर्वान् । गन्धर्वजातत्वाद् गन्धर्वनामकान् । वध्रयो वधार्हा अश्वा येषां ते तथा तान् इति वा अवधीदित्यन्वयः ॥ ५८ ॥
सत्यधर्मीया
तया नर्मदया रसातलम् । श्वशुरालयम् । भुजगेन्द्रा भ्रातरस्तैः प्रयुक्ता प्रेरिता तया नीतः । माययाऽऽनयनमनेन द्योत्यते । नयनप्रयोजनमाह । स वध्य्रश्वान्नाम्ना गन्धर्वान् । तदुपद्रवदांस्तत्रावधीज् जघान । वध्रयो वधार्हा वैरिणामश्वा येषामिति विग्रहः । वध्यानिति परधृतः पाठस्तत्प्रकृतपराक्रमाननुगुणो घातकौन्नत्यानावह इत्युपेक्ष्यः । वैरिणा-मित्यपूरणे स एव दोषः । वृष्णो वध्रिः प्रतिमानमित्यृग्भाष्यटीकाटिप्पणीषु निरुक्तो वध्रिशब्दः । वध्रिर्वधयोग्योऽथ नीच इति । वधेः कर्मणि रिप्रत्यये वधयोग्यो वधहता इत्यस्मात्कर्मण्यौणादिके रिप्रत्यये वध्रिरितीति । अथवा नीचा न्यग्भावमधःस्थत्वादाप्ता वध्रय इति वा । अथवा रूढ्या नीचो वेति टीकोक्तेः । नीचावयव इत्यत्र नीचस्थान इति तत्रैव व्याकृतेः । वधिश्छिन्नमुष्क इति वेदनिघण्टुकोक्तेर्वध्रयस्तथाविधा अश्वाः परपुरगमने निश्शब्दीभवने तथाकृता येषामिति वा । यथोक्तमेतदृग्व्याख्यापरभाष्ये वध्रिश्छिन्नमुष्क इति । अथवा वध्री बद्धा अश्वा येषां ते तथा तान् । दौष्ट्यात्तस्य च तथाकरणे गुणरूपत्वात् । नध्रीवध्रीवरत्रा स्यादित्यमरः । बन्धनरज्जुः । विष्णुशक्तिधृक् । तद्दत्तशक्त्याऽऽयुधयुक्तो वा । विशेषसन्निधानयुत इति वा । तत्तेज उत्तेजित इति यावत् ॥ ५८ ॥
छलारी
भुजगेन्द्रैर्भ्रातृभिः प्रयुक्तया तया नर्मदया रसातलं नीतः । सः पुरुकुत्सस्तत्र रसातले । वध्रयश्वान् वध्रयश्वनामकगन्धर्वान्दुष्टान् । गन्धर्वजातत्वाद्गन्धर्वनामकान् । अवधीत् । विष्णुशक्त्याख्यायुधधृक् । अथवा । विष्णुसामर्थ्यधृक् । विष्णुस्तत्र विशेषेण संनिहित इत्यर्थः
॥ ५८ ॥
नागाल्लब्धवरः सर्पादभयं स्मरतामिमम् ।
त्रसद्दस्युः पौरुकुत्सो योऽनरण्यस्य देहकृत् ॥ ५९ ॥
पदरत्नावली
स च पुरुकुत्सो नागाद् भुजगेन्द्रात् किं लब्धवानिति तत्राह– सर्पादिति ॥ इमं गन्धर्ववधलक्षणं पुरुकुत्सविक्रमं स्मरतां पुंसां सर्पादभयं भूयादिति लब्धवरोऽभूदित्यर्थः । पुरुकुत्सस्यापत्यं पौरुकुत्सो यस्त्रसद्दस्युः सोऽनरण्यस्य तन्नामकस्य राज्ञो देहकृत् पिता ॥५९॥
सत्यधर्मीया
गन्धर्वगन्धेनानुबन्धेन च सुकृतं तिष्ठतु तुष्टैराशीविषैः किमैहिकं लब्धवानित्यतो लोकोपकृत्येदं वव्र इत्याह ॥ नागाल्लब्धवर इति ॥ इमं स्वविजयं स्मरतां जनानां सर्पात् । तद्दंशनादिति यावत् । अभयं भयाभाव इति लब्धो वरो येन सः । इतिशब्दा-ध्याहारेणान्वये नैकदेशान्वयदोष इति ज्ञेयम् । नागान्नागेभ्यो लब्धोऽलब्धः । अडभावश्छान्दसः । वरः श्रेष्ठः । सर्पादभयं भयाभावम् । नागात्स्वभार्यादिसर्पेभ्य इति वा । याचितो वरस्तैरप्योङ्-कृतस्तथाऽपि नानुभवपथमगात्स इति नेत्यप्याह । सर्पादभयं स्मरतामिति प्रसक्तं जनम् । सर्पादभयं सर्पाणामदोऽदनं दंशनमिति वा महाजगरनिगरणं वा तद्भयं नागान्नागच्छत् । इयदेव न फलमित्यप्याह ॥ नेति ॥ ना स्मरन्नरः । अं नारायणमनन्तरम् इं स्वापेक्षितं मोक्षं चागात् । इं काममिति गतम् । सर्पादित्यावृत्तिमात्रेणाभिमतसिद्धौ यन्नागादिति पुनराह तेनायमर्थः सूचित इति ज्ञेयम् । पौरकुत्सः पुरकुत्सकुमारो यस्त्रसद्दस्युः । अनरण्यस्य तन्नामकस्य राज्ञो देहकृत्तातः
॥ ५९ ॥
छलारी
स च पुरुकुत्सो नागाद्भुजगेन्द्राल्लब्धवरोऽभूत् । वरमाह ॥ इमं स्मरतां सर्पादभयं भूयादिति ॥ इमं गन्धर्ववधलक्षणं पुरुकुत्सविक्रमम् । पुरुकुत्सवंशमाह ॥ त्रस-द्दस्युरिति ॥ पुरुकुत्सस्यापत्यं पौरुकुत्सः । यस्त्रसद्दस्युः । अनरण्यस्य देहकृत्पिता । अनरण्यस्त्रसद्दस्युपुत्र इत्यर्थः ॥ ५९ ॥
हर्यश्वस्तत्सुतस्तस्मादरुणोऽथ त्रिबन्धुरः ।
तस्य सत्यव्रतः पुत्रस्त्रिशङ्कुरिति विश्रुतः ॥ ६० ॥
पदरत्नावली
अथाऽरुणात् त्रिबन्धुरः सुतः । तस्य त्रिबन्धुरस्य सुतः सत्यव्रतस् त्रिशङ्कुरिति नामद्वयेन विश्रुत इत्यर्थः । ६० ॥
सत्यधर्मीया
तत्सुतोऽनरण्यसुतः । तस्माद्धर्यश्वात् । अथ त्रिबन्धुरोऽरुणसुतः । तस्य त्रिबन्धुरस्य । सत्यव्रतः पुत्रः स एव त्रिशङ्कुः । त्रयः शङ्कवः कीललक्षणा दोषा यस्य सः । यथोक्तं हरिवंशे । पितुश्चापरितोषेण गुरोर्दोग्ध्रीवधेन च । अप्रौक्षितोपयोगाच्च त्रिविधस्ते व्यतिक्रम इति विश्रुतः प्रसिद्धः ॥ ६० ॥
छलारी
अथारुणात् । तस्य त्रिबन्धुरस्य सुतः सत्यव्रतः स एव त्रिशङ्कुरिति विश्रुतः
॥ ६० ॥
प्राप्तश्चण्डालतां शापाद् गुरोः कौशिकतेजसा ।
सशरीरो गतः स्वर्गमद्यापि दिवि दृश्यते ॥ ६१ ॥
पदरत्नावली
गुरोर्वसिष्ठस्य शापात् । कौशिकस्य विश्वामित्रस्य तेजसा प्रभावेण सशरीरो मानुषशरीरसहितः । स्वर्गं गतो ऽद्यापि दिवि दृश्यते मनुजैरिति शेषः ॥ ६१ ॥
सत्यधर्मीया
गुरोर्वसिष्ठस्य परिणीयमानकन्यापहाररुष्टस्य शापाच्चण्डालतां प्राप्तः । अनेनानेककर्मणा चण्डालस्त्वं भवेति शापस्वरूपं सूचितं भवति । यद्वा गुरुर्गुरुपुत्रसङ्घः । यथोक्तं बालकाण्डे वाल्मीकीये । गुरुपुत्रास्तु तच्छ्रुत्वा वाक्यं घोराभिसंहितम् । शेपुः परमसङ्क्रुद्धाश्चण्डालत्वं गमिष्यसीत्यादि । कौशिकस्य कुशिककुमारस्य विश्वामित्रस्य तेजसा प्रभावेन सशरीरः स्वर्गं गतो दिव्यद्यापि दृश्यते । मनुजैरिति शेषः ॥ ६१ ॥
छलारी
त्रिशङ्कुर्गुरोः शापात्परिणीयमानविप्रकन्याप्रहरणात्क्रुद्धस्य मुनेर्वसिष्ठस्य शापादित्यर्थः कौशिकस्य विश्वामित्रस्य तेजसा प्रभावेन सशरीरो मानुषशरीरः स्वर्गं गतः । अद्यापि दिवि व्योमि्न दृश्यते । मनुष्यैरीति शेषः ॥ ६१ ॥
पतितोऽर्वाक्शिरा देवैस्तेनैव स्तम्भितो बलात् ।
त्रैशङ्कवो हरिश्चन्द्रो विश्वामित्रवसिष्ठयोः ॥ ६२ ॥
पदरत्नावली
स्वर्गं गतः कथं मानवैर्दृश्यत इति तत्राह– पातित इति ॥ तेन विश्वामित्रेण बलात् तपःशक्तेः । स्तम्भितः स्तम्भनं प्राप्तः । वैशङ्कवस् त्रिशङ्कोरपत्यं हरिश्चन्द्रः
॥ ६२ ॥
सत्यधर्मीया
स्वर्गगः कथं कथयाद्यापि दिवि दृश्यत इत्यत आह ॥ पातित इति ॥ देवैरर्वाक्शिरा अधःशिरस्कः पातितो बलात् । यथोक्तं रामायणे ।
अन्यमिन्द्रं करिष्यामि लोको वा स्यादनिन्द्रकः ।
दैवतान्यपि स क्रोधात्स्रष्टुं समुपचक्रम इत्यादि ।
तपोबलात् । स्तम्भितस्तत्रैव स्थितः । तत्रैवोक्तमदोऽपि ।
अर्वाक्शिरास्त्रिशङ्कुश्च तिष्ठत्वमरसन्निभः ।
अनुयास्यन्ति चैतानि ज्योतींषि नृपसत्तम ॥
कृतार्थं कीर्तिमन्तं च स्वर्गलोकं गतं यथा इति । त्रिशङ्कवोऽयं स्वर्गस्त्रै-शङ्कवः । त्रिशङ्कुकुमारो हरिश्चन्द्रः ॥ ६२ ॥
छलारी
स्वर्गं गतः कथं मानवैर्दृश्यते तत्राह ॥ पातित इति ॥ अर्वाक् शिरा अधः-कृतशिरास् तेन विश्वामित्रेण बलात्स्तंभितः स्तंभनं प्राप्तः । तथैव स्थित इति यावत् । त्रिशंकोर्वंशमाह ॥ त्रैशंकव इति ॥ हरिश्चन्द्रस्त्रैशङ्कवस्त्रिशङ्कोरपत्यम् ॥ ६२ ॥
यन्निमित्तमभूद् युद्धं पक्षिणोर्बहुवार्षिकम् ।
सोऽनपत्यो विषण्णात्मा नारदस्योपदेशतः ॥ ६३ ॥
पदरत्नावली
यो हरिश्चन्द्रो निमित्तं यस्य तद्यनिमित्तम् । पक्षिणोः सहायिनोर्वसिष्ठ-विश्वामित्रयोः । पक्षः पाश्चमरुत्साध्यसहायबलभित्तिषु इति यादवः । ‘नापुत्रस्य लोकोऽस्ति’ इति वाक्यार्थज्ञानाद् विषण्णमना अनपत्यः स हरिश्चन्द्रो नारदोपदेशात् ‘हे प्रभो मे पुत्रो जायताम्’ इति निवेद्य वरुणं शरणं यात इत्यन्वयः ॥ ६३ ॥
सत्यधर्मीया
यन्निमित्तं यो हरिश्चन्द्रो निमित्तं यस्य तत् । पक्षिणो राजसूये विश्वामित्रो दक्षिणाव्याजेन राजतः सर्वमुपजहार तेन परस्परं शापोपयाताडीबकजन्मनोर्विश्वामित्रवसिष्ठयो-र्बहुवार्षिकं वर्षस्या भविष्यतीत्युत्तरपदवृद्धिः । बहुवर्षेषु भवं बहुवार्षिकम् । प्रसिद्धा चेयं कथा भारते हरिवंशे । पूर्वमाडीबके युद्ध इत्यादौ । मार्काण्डेयपुराणे हरिश्चन्द्रोपाख्याने वसिष्ठः ।
तस्माद्दुरात्मा ब्रह्मर्षिर्यज्विनामवरोऽपि ताम् ।
उत्कोपोपहतो मूढः स बकत्वमवाप्स्यति ।
पक्षिण ऊचुः–
श्रुत्वा शापं महातेजा विश्वामित्रोऽथ कौशिकः ।
त्वमप्याडी भवस्वेति प्रतिशापमयच्छत ।
अन्योन्यशापात्तौ प्राप्तौ तिर्यक्त्वं परमे द्युती ।
वसिष्ठश्च महातेजा विश्वामित्रश्च कौशिकः ।
अन्यजातिसमायोगं गतामप्यमितौजसौ ।
युयुधाते सुसंरब्धौ महाबलपराक्रमौ ।
योजनानां सहस्त्रे द्वे प्रमाणे नाडिरुच्छ्रितः ।
षण्णवत्यधिकं ब्रह्म सहस्रत्रितयं बक इति ।
पक्षिणोः सहसहाययोः । पक्षः पार्श्वगरुत्साध्यसहायबलभित्तिष्विति यादवः । यन्निमित्तं यस्त्रिशङ्कुर्निमित्तं यस्य तमिति वेति प्राचीनाः । स हरिश्चन्द्रोऽनपत्यो न विद्यतेऽपत्यं यस्य सः । विषण्णात्मा खिन्नमनस्कः ॥ ६३ ॥
प्रथमः खण्डो
ऽत्र सप्तमपञ्चकतृतीयाध्यायः सर्वोऽप्येतन्मूलभूतः । तस्य खण्डार्थः । तथा हि । वैधसो विधेर्गोत्रापत्यं मरीचिर्मनसस्तस्येत्यादिना विधिसम्बन्धबोधनात् । स च वेधसस्तदभिधस्य नृपतेः पुत्र इति साक्षात्तत्पिता ऐक्ष्वाक इति गोत्रपुत्रतयेति वेद्यम् । स पुत्र आस । न चान्या कन्या कुतस्ते नोदूढेति मूढयति शङ्कितारं तस्य ह शतं जाया बभूवुरिति । जायाशब्दनिर्वचनं वेदः स्वयमेव पुरत आवेयदति । तस्य गृहे पर्वतनारदौ तन्नामानौ । मातुलः पर्वतस्तद्भागिनेयो नारद इति तौ ऊषतुः । एकदाऽऽगत्य निवासं चक्रतुः । तयोर्मध्ये स नारदं पप्रच्छ । वक्ष्यमाणयैकया गाथयाऽपृच्छत् । तामाह ॥ यन्विममिति ॥ तस्या अर्थः । ये विजानन्ति देवमानवादयः । ये च पश्वादयः । न ज्ञानहीनाः । एते विदोविदश्व सर्वे यद्यस्मात् । नु क्षिप्रं पुत्रमिच्छन्ति । पुत्रेण किञ्चित्फलं विन्दते लभते । पिता । यद्यपि ये विजानन्तीत्याद्यनुरोधेन विन्दन्ते तन्ममाचक्ष्वेति वक्तव्यं तथाऽपि स्वस्यापुत्रतया तत्फलाकलनमुत्सुकतयैकवचनमिति ज्ञेयम् ।
स नारदो दशभिर्वक्ष्यमाणाभिर्गाथाभिः प्रति भूपतिं प्रत्युवाच । तामाह ॥ ऋणमस्मि-न्निति ॥ पिता जीवतो जातस्य पोतस्य मुखं पश्येच्चेत्तदैवास्मिन् जाते पोते तातो ऋणं सोढुं पित्र्यादिऋणत्रिकं सन्नयति तं प्रापयति । पुत्रादिभिर्लौकिकं वैदिकं तु सत्रादिभिरवतारयति । एतच्च कर्म सम्पत्तिरित्युच्यते । आम्नातं च तद्वाजसनेयके । अथातः सम्पत्तिर्यदा प्रैष्यन्मन्यते अथ पुत्रमाह त्वं ब्रह्म त्वं यज्ञस्त्वं लोक इति । पितृवाक्यम् । स पुत्रः प्रत्याह । अहं ब्रह्माऽहं यज्ञोऽहं लोक इति पुत्रवचः । ब्रह्म वेदाध्ययनं मया कर्तव्यं कर्तव्याश्च यज्ञाः सम्पाद्या लोकाश्चेत्येतत्सर्वं त्वया सम्पाद्यमिति पितृवाक्यार्थः । तथा करोमीतीतरस्य । एवमृणं पुत्रे प्रतिनिधाय । तथा च श्रुतिः । सोऽस्यायमात्मा पुण्येभ्यः कर्मभ्यः प्रतिधीयत इत्यादिका । अथ चामृतत्वं मुक्तिं च गच्छति प्राप्नोति ॥ १ ॥
द्वितीयामाह ॥ यावन्त इति ॥ पृथिव्यां यावन्तो भोगा ग्रामागारधान्यदिरूपा जातवेद-स्याग्नौ चतुर्विधान्नपचनादयोऽप्सु स्नानपानादयस्ततस्तेभ्यो भोगेभ्योऽपि पितुः पुत्रे भूयानति-महान् । भोग इत्येकवचनेन पृथिव्यादिसर्वभोगप्राप्तिसुखं पुत्रेण प्राप्यत इति ध्वनयति । तथा चाहुः । पुत्रान्नापरं सुखमिति ॥ २ ॥
तृतीयामाह ॥ शश्वदिति ॥ पितरः पितृपितामहप्रतितामहादयः । पितामहाद्यास्तु पितरो नाम कीर्तिता इत्यैतरेयभाष्योक्तेः । पुत्रेणोत्पन्नेन शश्वत्पुत्रोत्पत्तौ फलत्वेन शाश्वतिकं बहुलं तमोऽज्ञानमत्र लोकं च । परत्र तदत्यायन्नतिक्रान्ता भवन्ति । तथा च बोधायनः ।
पुदिति नरकस्याख्या दुःखं च नरकं विदुः ।
पुत्तस्त्राणात्ततः पुत्रमिहेच्छन्ति परत्र चेति ।
स्मृतिश्च । पुन्नाम्नो नरकात्त्राता पुत्र इत्यभिधीयत इति । तोषविशेषहेतुमाह । हि यस्मा-दिति । आत्मनः स्वस्मादात्मा स्वयमेव जज्ञ उत्पन्न इत्यर्थः । स्वयं स्वकीयं दुःखं परिहर्तुं यतते । तथाऽयं सुतोऽपि दुःखनाशक इति प्रेमपात्रमिति भावः । इरा अन्नमापो वा अन्नमिति श्रुतेः । इरा वारि तद्वत्युदन्वति । अतितारिणी पारयित्री नौकेव । यथा पोतो नदी-नदपत्यादिभ्यस्तारयति तथाऽयमपि पोतो दुःखात्तारयतीति भावः ॥ ३ ॥
चतुर्थीमाह ॥ किन्न्विति ॥ अत्र मलाजिनश्मश्रुतपःशब्दैः क्रमात्, मलं गार्हस्थ्यं शुक्लरक्तरूपमलसङ्कलनात् । अजिनं ब्रह्मचर्यं कृष्णाजिनसम्बन्धात् । श्मश्रूणीति क्षौरविरहि-तत्वात् । वानप्रस्थाश्रमस्तपः परमहंसाश्रमः । तथा च मलं गार्हस्थ्यम् । किन्नु किं सुखदम् । न किमपि सुखं करिष्यतीति । एवमुत्तरत्रापि । हे ब्रह्माणो विप्रक्षत्राद्याः सर्वे यूयं पुत्रमिच्छ-ध्वम् । अनेन किं मलमिति निषेध्यं गार्हस्थ्यम् अनपत्यगृहस्थसम्बन्धीति द्योत्यते । अन्यथा पुत्रमिच्छध्वमित्यनुज्ञावमाप्रसङ्गात् । व्यत्ययो बहुलमितीच्छध्वमिति पदव्यत्ययः । चान्द्रादिमते चात्मनेपदम् । तत्र ज्ञानिसम्मतिमाह । स वदावदो वाग्मी लोको ज्ञानी वै । इत्थमाहेति शेषः । वदावदो वाग्मीत्यमरः । सः वै । एवं प्रघट्टेन तेन कथ्यते न कथ्यते इत्यवदावदः । वदो वाच्यो निन्द्यो नेत्यवदो निन्दनानर्ह इत्यर्थ इति व्याकुर्वन्ति । लोको लोकप्रापक इति च । केचितु मलं पुत्रगात्रं पङ्किलं चेत्किम् । अजिनं चर्ममात्रं चेत्किम् । श्मश्रूणि देहं व्याप्य सन्तु चेत्किम् । तस्य जानुलग्नजम्बालस्य बालस्य लालनोत्थापनाङ्गालिङ्गनादौ तप आलोचनं किं कुतः । स वै यादृशस्तादृशो बालको लोको लोक्यो दृश्यो गद्गदवागपि वदावदो वाग्येव कुतो लोकोऽवलोकयति स्वर्गादिकं भगवन्तं वा स तथेत्यवश्यकं तत्साम्पादनमिति वर्णयन्ति । यत्र प्रष्टा हरिश्चन्द्र एक एवेति ब्रह्माण इच्छध्वमिति बहुवचनं कथमिति चेन्न । किं न सा सभा नोपविष्टाः शिष्टाः । नारदोऽपि किं न दीनजनमन्दारः । न चैकाधिकारिकं शास्त्रम् । तन्मुखेनेतरोपदेशस्य सम्भवात् ॥ ४ ॥
पञ्चमीं प्रपञ्चयति ॥ अन्नमिति ॥ अन्नं प्राणस्तदेव स्थापकत्वात् । हेति सर्वत्र प्रसिद्धिद्योतकः । वासो वस्त्रं शरणं गृहरूपं शीतातपवारकत्वात् । हिरण्यं कटकमुकुटादिरूपं दृश्यताहेतुत्वात्प्रियम् । पशवो गवाश्वम् । विवाहाः कृष्यादिनिर्वाहकत्वेन वाहकत्वेन च विवाहाः । जाया सखा तत्तुला । स्त्र्यपत्यं चेत्कथमित्यतः कथयति । दुहिता पुत्री कृपणं दैन्यदेति । तथा च स्मर्यते । सम्भवे स्वजनदुःखकारिका सम्प्रदानसमयेऽर्थहारिका । यौवने च बहुदोषकारिका दारिका हृदयदारिका पितुरिति ।
न हि निन्दानयेन पुमपत्यात्यौन्नेये तात्पर्यम्
। अथवा दुहिताऽकृपणं कार्पण्याभावप्रापिकेति साऽपि प्रार्थनीया । तथा च ‘पुत्राच्छतगुणं पुत्री यदि पात्रे प्रदीयते’ । ‘कन्योदिता बत कुलद्वयतारिणीति’ इत्यादि सङ्गच्छते । इयता तातेन पोतः प्रार्थ्य इत्याह । हि यतः पुत्रः परमे व्योमन्स्वर्गादिस्थाने । तत्प्राप्ताविति यावत् । ज्योतिर्नामैकदेशे नामग्रहणम् । विस्तृतं चैतत्सुधायां ज्योतिरिति व्याख्यावसरे । महाभाष्येऽपि प्रविश पीण्डीमित्यादिना पदे पदैकदेशं वाक्ये वाक्यैकदेशं प्रयुञ्जानो न दुष्यतीत्युक्तेर्ज्योतिःशब्दो ज्योतिष्टोमनामा । ज्योतिष्टोमसमानः । यद्वा परमे व्योमन् आकाशस्तल्लिङ्गादित्यादेर्हरौ तत्प्राप्तिविषये ज्योतिर्ज्ञानरूप इत्यपेक्ष्य इत्यर्थ इति । अमृतत्वं च गच्छतीति प्रागुक्तं सल्लग्नम् ॥ ५ ॥
षष्ठीं स्पष्टयति ॥ पतिरिति ॥ पत्युर्भार्यायाश्चाकारद्वयम् । पुरुषाकार एको रेतोरूपेण गर्भाकार एकः । जायाकारः पतिं प्रति भार्याया गर्भरूपापत्याकारं प्रति मातृत्वाकार इति । पतिर्जायां प्रविशत्यतः स भाविपुत्राकारस्य च मातरं गर्भो भूत्वा प्रविशति । तस्यां स्वभार्यायां पुनर्नवो नूतनतनुर्भूत्वा दशमे मासि । मासीति स्वतन्त्रशब्दो वा पद्दन्नित्यादेशरूपो वा न नः काचित्क्षतिः । माश्चन्द्रमसि मासे चेति धनञ्जयोक्तेः । जायते । आत्मा वै पुत्रनामा-सीदित्यादेः । यथा पुनर्नवो वृष्ट्या एधते तथा वर्धमानः पुनर्नवो भूत्वेत्यावृत्त्या विशेषो ज्ञेयः । यथोक्तं सङ्ग्रहरामायणे । तर्पितः सकलो लोकः पुनर्नव इवाबभाविति । बिले गणजलित्यप-भ्रष्टभाषया । पुनर्नवा तु शोथघ्नीत्यमरः ॥ ६ ॥
सप्तमीमाह ॥ तज्जायेति ॥ यद्यतोऽस्यां भार्यायां पुनः स्वयं जायते तत्तस्मात् । जाया जायतेऽस्यामिति व्युत्पत्त्या जाया तच्छब्दवाच्या भवति । किञ्चैषा योषा भूत्याभूतिशब्दवाच्या भवत्यस्यां पतिः पुत्ररूपेणेति भूतिः । रोतोरूपेणाभवत्यस्यां स इत्याभूतिश्च । सर्वत्रापि सम्भावकमाह ॥ बीजमिति ॥ एतदेतस्यां बीजं रेतो निधीयते निक्षिप्यतेऽतो जाया-भूत्याभूत्यादयः शब्दा उक्ता युक्ताः ॥ ७ ॥
अष्टमीं स्पष्टयति ॥ देवाश्चेति ॥ एतामेतस्यां देवाश्च ऋषयश्च महत्तेजस्तेजोरूपं समभरन्नपूरयन् । तत्सम्पत्त्यनन्तरं देवाश्च ऋषयश्च मनुष्यान्प्रत्यब्रुवन् । तद्वचनमाह ॥ पुनर्जननीति ॥ पुत्ररूपेण पुनर्जातानां वो युष्माकमेषा जननीति ॥ ८ ॥
नवमीमाह ॥ नापुत्रस्येति ॥ अपुत्रस्य लोके न नास्तीति यत्तत्सर्वे पशवोऽपि विदुः किं पुनर्नराः । लोकस् तज्जन्यं सुखं लोकसुखं न जानन्तो ये तेऽपि विदुः । पुत्रसौख्यमात्रं तत्केनोह्यत इत्यत आह ॥ तस्मात्त्विति ॥ मातरं स्वजननीं स्वसारं स्वभगिनीं चाधिरोहति । अपत्योत्पादनार्थमिति शेषः । अन्यथैवं पारवश्यप्रवृत्तिर्न स्यादिति भावः । तुशब्दः पशुजाता-वपि न केचनेत्थम्भावा इति विशेषसूचकः । इदमेकस्मिन्नश्वे मातृष्वस्राद्युपर्युत्सृष्टे पुरुवारमगमनं गमनं चेतरतुरङ्गीषु बहुशः साक्षिसिद्धमिति न चित्रयितव्यं चेतः ॥ ९ ॥
दशमीं दर्शयति । एष पन्था इति । पुत्रिणः पुत्रवन्तः । प्राशस्त्यं मतुबर्थः । ते विशोकाः शोकविकला देवादयो यं पन्थानं मार्गमाक्रमन्ते प्राप्नुवन्ति । एषः पन्थाः सुतसौख्यानुभवमार्गः । उरुगाय उरुभिः शास्त्रज्ञैर्महद्भिर्गीयत इत्युरुगायः गै शब्दे आदेचः । आतो युक्चिण्कृतोरिति युगागमः । तद्गीतः सुसेवः सुष्टु सेवनीय इति सुसेवः सुखकृत् । पृथुप्रगामा सुसेवः । सुसेवकृत् सुसेवं यस्माद्भवति तत्तथोक्त इत्यृग्यभाष्यटीकायां शोभनं सेवमिति षेवृ सेवायामित्यस्मा-त्कर्मण्यका- रप्रत्यये धात्वादेः षस्य छान्दसे शतरि च निष्पन्नस्य सेवशब्दस्य सर्वसेव्यसुख-परत्वमिति भाव इति टिप्पणीषु । तमज्ञा अपि पशवः । गोमहिष्यादयो वयांसि पक्षिणश्च सम्पशयन्ति जानते । तस्माज्ज्ञानादेव ते पश्वादयो मात्रा अप्यतत्कृतियोग्या अपि मिथुनी-भवन्ति । रत्यै संयुज्यन्ते पुत्रगार्ध्यादिति भावः । श्रुतिः स्वयं नारदभारतीं निगमयति ॥ इति ह स्मा आख्यायेति । अवस्थित इति शेषः स्मै प्रसिद्धौ ।
॥ इति प्रथमः खण्डः ॥
॥ अथ द्वितीयः खण्डः ॥
अथैनमित्यारभ्य तेन त्वा यजा इत्यन्तं नारदवचनम् । तथेत्यारभ्य तेन त्वा यजा इत्यन्तं राज्ञो वचनम् । तथेतीति वरुणस्य । हे वरुण पुत्रो जायताम् । यदि जातस्तेन सुतेन । एवं किमर्थमूच इति चेत् । बहुबुद्धिमानसि । तत्रापि त्वं न निद्रित इति भवेरनुयोक्ता । अनादिवेद-सिद्धप्रमेये शङ्कैव नाङ्कूरणीया । अथाऽपि तुष्यतु भवान्प्रेष्यः । हरिरेतोमयत्वात्तोयस्य वरुणस्य च तद्वरत्वादपत्यादेश्च तत्कारणकत्वादेवमुक्तिरिति युक्तिमवेहि । तर्ह्यत्रैव पुत्रार्थं मित्रा-वरुणादिदेवताराधनोक्तिः कथमिति चेत् । तर्ह्युक्तं स्मरेत्युत्तरम् । तथेति वरुणेनोक्ते सति तस्य रोहितो नाम्ना पुत्रो जातः ॥ १,२ ॥
सुतो जातोऽनेन मां यजस्वेति । स वरुणोऽब्रवीत् । हरिश्चन्द्रमेत्येति शेषः । वेदे च यथेन्द्रशत्रुः स्वरतोऽपराधादितिवत् । मामनेनेति प्रयोक्तव्ये माऽनेनेत्यानुपूर्व्याऽनेन मा न यजेति भाविकार्यं सूचितमिति मन्तव्यम् । अत्र निर्दशः नु अस्त्विति च्छेदः । त्वा यजा इति राजवचनम् । तथेतीति वरुणवचः ॥ ३ ॥
स ह निर्दश आसेति ब्राह्मणब्राह्मीवरुण इति शेषः । इति राजा तथेति वरुणः । एवं तत्र तत्रानुसन्धेयम् ॥ ४ ॥
अज्ञताजनिषत । मन्त्रे घसह्वरण शवृदहाद्वृच्कृगमिजनिभ्यो लेः । मन्त्रग्रहणं ब्राह्मणोप-लक्षणार्थम् । अज्ञत वाऽस्य दन्ता इति वैदिककौमुद्योक्तेः । तन्मनोरमायां चाजनिषतेत्युक्तेः । लुङ् प्रथमपुरुषबहुवचनम् । अजनि अज्ञाताम् अज्ञतेति रूपम् । अस्य सुतस्य यजस्व माऽने-नेति यदाऽस्य पशोर्दन्ताः पतन्ति । अथ स मेध्यो भवेदिति प्रत्याहेत्यन्वयः ॥ ५ ॥
अपत्सत पतिता अपत्त अपत्साताम् अपत्सत वा । अस्य पशोर्निपतिता दन्ता मां यजस्वेत्याह सः । अस्य पशोः पुनर्दन्ता जायन्ते । अथ तदनन्तरं स पशुः शुचिः ॥ ६ ॥
पुनर्जाता दन्ता इत्यादिकं सोऽब्रवीत् । सन्नाहो धनुरभ्यासादिस्तत्सहितः सान्नाहुकः ॥७॥
हे तत तात सुत । मह्यं त्वामयं वरुणोऽददाद् दत्तवान् । हन्त खेदे ॥ ८ ॥
स प्राणप्रेप्सुर्नेत्युक्त्वा धनुराधायारण्यमुपातस्थौ संवत्सरमरण्ये चचार ॥ ९ ॥
॥ इति द्वितीयः खण्डः ॥
॥ अथ तृतीयः खण्डः ॥
वेदपुरुषस्तद्ग्रहणं स्वयं वेदयति ॥ तस्येति ॥ तत्पितृग्रहणम् । आगन्तुं कृतनिश्चय इत्येवमुक्तिः । तमिन्द्रः पुरुषरूपेण पुरुषाकारेण प्रशस्तरूपेण । प्रशंसायां रूपप्रत्ययः । एत्य पर्युवाचेत्यन्वयो वा । अपपरी वर्जन इत्युक्तेर्निषेधपूर्वमभाषतेत्यर्थः । यद्वोत्तरत एव निषेधस्य स्पष्टं प्रतीतेः पर्येत्येत्यखण्डं पदम् । तद्वचनप्रकारमाह ॥ नानेति ॥ अनाश्रान्ताय तीर्थयात्रादिकायक्लेशरहिताय । शुश्रुमेति साम्प्रदायिकतामाह । अयं जनो नृषद्वर उक्तं गुर्वादिना कुर्वाणो नृषत्, वरोऽनुक्तकारीत्यभिधानम् । नृषु सीदतीति नृषद्वा । नृषद्वरसदित्येतत्काठक-भाष्यव्याख्यानात् । स मनुष्यवरः सन्नपि पापस्तद्वान् । सदेरिति ष्वरच् । सदिरप्रतेरिति षत्वम् । नृषद्वरस्तु जम्बाल इत्यमरश्च । नृषद्वरो जम्बालानिकोपद्रवयुक्तो मार्गः । नृषद्वरस्तु जम्बाल इति विश्वः । अत एव पापः क्लेशिष्टः । अहं त्वजनः सहायरहित इत्यत आह ॥ इन्द्र इदिति ॥ चरतः पुंस इन्द्र इद् इन्द्र एव सखा रक्षक इति चरैव चरैवेति मां ब्राह्मणोऽपरोक्षज्ञानी कश्चिदवोचदिति प्रथमे वत्सरे पर्येत्योवाचेत्यन्वयः । अनेन सम्प्रदाय-प्रवर्तकोऽपि तेनोपदिष्ट इति ज्ञेयम् । अजनेऽरण्य इति वा ॥ १ ॥
चरतः पुरुषस्य जञ्घे यथा पुष्पिण्यौ वृक्षशाखालते पुष्टेऽन्तः सारसहिते दृश्येते । तथा बलवत्यौ भवत आत्मा मध्यदेहश्च भूष्णुः । भूष्णुर्भविष्णुर्भवितेत्यमरः । वर्धिष्णुरिति यावत् । फलस्य विशरणस्य ग्रहो हि निग्रहः । स एव ग्रहिर्यस्य निगृहीताङ्गविशरणः । ञिफला विशरण इति स्मरणात् । न केवलं कलेवरपीवरतामात्रावाप्तिः किन्तु दुरितदुरितोऽपि भवतीत्याह ॥ शेर इति । अस्यैवं चरतः सर्वे पाप्मानः प्रथमे तीर्थयात्रार्थकमार्गे श्रमेणाटव्यटनघटितेनाङ्गश्रान्त्या शेरे भवन्ति । पुनश्च हता नष्टा भवन्ति हताः श्रमप्रतिहताः शेरे शेरते । अकार्यकारिणः शयना भवन्तीति वा । पूर्ववदुर्वरितम् ॥ २ ॥
एवं द्वितीये गाथापर्याये तृतीयमपि पर्यायमाह ॥ तृतीयमिति ॥ आसीनस्य चरण-मनाचरत एकत्रोपविष्टस्य भग ऐश्वर्यादिषट्कमास्तेऽनभिवृद्धः संस्तावानेवास्ते । न वर्धत इति यावत् । तिष्ठत उत्थितस्य भगः स्वयमूर्ध्वं तिष्ठति वृद्ध्युन्मुखो भवति । निपद्यमानस्य शयानस्य स्वयं शेते तत्प्राय इत्यभिप्रायः । यदाऽयं स्वपिति तदा चोरयन्ति चोरा इति भगभङ्ग इति भावः । चरतश्चेद्धनसमेधनार्थं व्रजतश्चेत्सोऽपि चराति चरति ॥ ३ ॥
चतुर्थमाह ॥ चतुर्थमिति ॥ निद्रा जागरणमुत्थानं चरणं चेति चतस्त्रोऽवस्थाः पुरुषस्य । ता एतच्चतुर्युगीरूपा आसुः । उत्तमत्वाच्चतुर्थी त्वयाऽनुष्ठेयेति । सञ्जिहानः शय्यां परित्यजन् । गतम् । इतरदवगतभागः ॥ ४ ॥
पञ्चमं प्रपञ्चयति ॥ पञ्चममिति ॥ चरन्नरः क्वचिन्महीरुहादौ मधु क्षौद्रं लभते क्वचित्स्वादु सुरसमुदुम्बरं जन्तुफलादिफलम् । तद्विश्वाससम्पत्त्यै सर्वजनीनं निदर्शनं दर्शयति । यो न तन्द्रयते न विलासयत्यलसतां तस्य सूर्यस्य श्रेमाणं श्रेष्ठत्वं जगद्वन्द्यत्वं पश्य, चरणेनैव रवे खे हीयन्महीयस्त्वमिति त्वं च चर ।
इन्द्रकृता तन्द्रेणोपदेशेन देशांश्चरतो रोहितस्य क्षेमे क्षेमे च हरिश्चन्द्रस्य राजर्षेर्हेतुभूतं सत्सङ्गमङ्गलमालपति ॥ षष्ठमिति ॥ चचार । सञ्चरन् अजीगर्तं नाम्ना सौयवसिं सूयवसस्य ऋषेः पुत्रस्तम् । अरण्ये उपेयाय प्राप्नोत् । तत्स्वरूपमाह । अशनया परीतं समाने लोप इति । मधुनि लिल्युः । गुहाशयामित्यादाविवैकयकारलोपो नकारह्रस्वश्च ज्ञेयाविति केचित् । तन्न । गौरवग्रासात् । एकपद्यपद्यायां नकारह्रस्वतामात्रं छान्दसमिति लघुता ज्ञेया । अन्नाद्यभावा-त्खिन्नम् ।
अथ का कथा वृत्तान्तयोरित्यतः कथयति ॥ तस्य हेति ॥ तदभिधामभिधास्यति ॥ शुनःपुच्छ इति ॥ शेफःशब्दपर्यायोऽयं शेपशब्दः । यथोक्तमृग्भाष्यटीकादौ । यद्वा शेप उतानृपं शेफजं चापि शेफः शब्दपर्यायोऽयं शेपशब्द इति । प्रहराम शेफमिति श्रुतेः । अदन्ता-वप्येताविति भानुः । शेपपुच्छेति वार्तिकात्क्वचित्फान्तोऽप्यदन्तः । तं पुत्रत्रिकवन्तमृषिम-तिरोहितस्वजीवनोपायरहितोपायो रोहित उवाच । हे ऋषे ते तुभ्यं शतं ददामि गवामिति शेषः । किं प्रतियच्छामि त इत्यस्यावकाशमनाददानः स्वयमेवाह रोहितः । येषां त्रयाणां पुत्राणां मध्ये एकेन सुतेनात्मानं मां निष्क्रीणै । वरुणाय दत्वाऽऽत्मानं मोचयामीति तात्पर्यम्
। सोऽजीगर्तो जीवनार्तो ज्येष्ठं शुनःपुच्छं निगृह्णान आकृष्य हस्ते गृह्णन् इमं मत्प्रेमपात्रं नो ददामि । एवं माता कनिष्ठं शुनोलाङ्गूलं नो एव सर्वात्मना न वितरामीति तन्निगृह्णानोवाच । तौ मातापितरौ मध्यमेऽनुभयप्रेमधामि्न शुनःशेपे दानं सम्पादयाञ्चक्रतुः । पदद्वयम् । अङ्गीचक्रतुः । स रोहितस्तस्याजीगर्तस्य शतं दत्वा स तं शुनःशेपं सा हिंसाऽस्य भविष्यन्ती तत्प्रसक्तिरस्तीति सः । सश्चासौ स च सतम् । पदमेकम् । सा तु हिंसायामिति विश्वः । अतो न तच्छब्दाति-रेकः । स रोहितः पितरं हरिश्चन्द्रं राजर्षिम् । यथाऽऽह पाणिनिः । प्रस्कण्वहरिश्चन्द्रावृषी इति ।
एत्य उवाच । तद्वचनं विवेचयन्नाह ॥ तत तातेति ॥ हन्त हर्षे । अनेन शुनःशेपे-नात्मानं मां निष्क्रीणै इति । स हरिश्चन्द्रो वरुणं राजानमुपससार । तदुपसरणप्रकारमाह ॥ अनेन त्वा त्वां यजामीति । अने मम मम कुमारस्य वा । अने प्राणप्रेप्सुरिति प्रागुक्तेः । प्राणत्राणविषये । नत्वा त्वां नमस्कृत्य यजा इति वा । एवं वरुणे । वरुणः कथं कृतवानित्यतः कथयति ॥ तथेतीति ॥ सङ्कल्पितादन्योऽयमिति न मनोविकल्पो ममापि त्वनीषत्तोष इति भाषते ॥ भूयानिति ॥ क्षत्रियात्तमपेक्ष्य ब्राह्मणो भूयान् श्रेष्ठः प्रीतिपात्रं तस्मै राज्ञे करणीयत्वेन राजसूयमुवाच । सोऽपि तमुपक्रम्य तस्य यज्ञस्य मध्ये क्रतुरभिषेचनीयो हय एकाहसोमयाग-स्तस्मिन्यज्ञो भगवांस्तद्विषयकं क्रतुं प्रोवाच तं विक्रीतमेतमत्र स्थितं शुनःशेपं पुरुषं पशुमालेभे । आलब्धुं निश्चयादेवमुक्तिः ॥ १५ ॥
॥ इति तृतीयः खण्डः ॥
॥ अथ चतुर्थः खण्डः ॥
हरिश्चन्द्राध्वराध्वर्य्वादीनाह ॥ तस्य हेति ॥ विश्वामित्रः । मित्रे चर्षाविति दीर्घः । तथा च ब्राह्मणम् । होताऽऽसीज्जमदग्निरध्वर्युर्ब्रह्मा वशिष्ठ उद्गाता सामोद्गानकृदयास्य उपाकृताय तस्मै । अभिषेचनीये सोमयागे जमदग्निस्तं पशुत्वेनोपाकृतवान् । कुशासंहितप्लक्षशाखया मन्त्रपुरःसरमुप-स्पर्शने स्वीकार उपाकरणं तथाकृतस्य नियोक्तारं तत उपरि रशनया बन्धनं नियोजनम् । तत्कर्ता हि नियोक्ता तं न विविदुर्न लेभिरे । अस्य च वेदविदितृत्वात्तस्य च कर्मणः क्रूरत्वा-न्नाध्वर्युजनो नियोजने मानसं नियुयोजेति यदा तदा स तस्य पिताऽजीगर्तः सौयवसिर्मह्यमपरं पुरा दत्तादितरच्छतम् । हे हरिश्चन्द्र तथा ऋत्विजो दत्त दिशत । अहमेनं शुनःशेपं नियो-क्ष्यामि । नियोजनं बन्धनं करिष्यामीति तेनोक्ते तस्मा अजीगर्ताय शतं गवां ददुः । सङ्गृहीत-गोशतस्तं शुनःशेपं निनियोज । युजेर्लिटि द्विर्भावाभावश्छान्दसः । तथा निनियोजेत्यत्रोपसर्गा-द्विर्भावोऽपीति केचित् । वस्तुतस्तु निकारमेकमुत्कृत्य दत्तेत्यनेन वोवाचेत्यनेन वाऽन्वये सम्भवति छान्दसता स्वच्छन्देनाङ्गीकार्या न । न चोत्कर्षोऽपि विना छान्दसतां न सतां सम्मत इति सा न कथं सम्मतेति वाच्यम् । सा च द्वयीं गतिमवलम्बते । लाक्षणिक्यलाक्षणिकी चेति तत्र द्वितीया तु जघन्या नान्या । छन्दसि परेऽपि व्यवहिताश्चेति लक्षणछन्दस्त्वोक्तेः । इम-मेवाभिप्रायं टीकाकारो दीदर्शयिषुरभाषत ऋग्भाष्यटीकायाम् । अलक्षणिकं छान्दसमिति बहुशः । न च कर्मनिर्णयभाष्ये प्रकर्षेण प्रकर्षेणातितरामिति द्वयोः प्रकारयोरर्थविशेषद्योतकतया व्याकरण-वदत्रापि नितरां नितरामित्यर्थकतया सार्थक्यस्य विलोक्यत्वादुत्कर्षो नोत्कर्षत इति वाच्यम् । वाक्यस्य भेत्तुमशक्यत्व एव तत् । यथोक्तम् । नियमेन मुष्टिहत्ययेत्यृग्भाष्यटीकयोरा-वृत्त्यैवोप-सर्गस्य क्रियावृत्तिर्भविष्यति ।
ननु येन वृत्राण्यरींश्च मुष्टिहत्ययाऽर्वता च निरुणधामहा इत्येकमेव वाक्यं कस्मान्न क्रियत इत्यत आह ॥ आवृत्त्यैवेति ॥ अत्र नीत्युपसर्गस्य त्रिधावृत्त्या रुधामाह इति क्रियायां धातो-रप्यावृत्तिरङ्गीकर्तव्यैव । उपसर्गाः क्रियायोग इति क्रियायोग एवोपसर्गत्वश्रवणात् । वाक्यभेदेन सम्यगन्वयसिद्धावभ्यासकल्पनानुपपत्तेः । प्रप्रवस्त्रिष्टुभमित्यादौ वाक्यस्य भेत्तुमशक्यत्वा-त्तत्कल्पनम् । आपञ्चभ्यः प्रयोक्तव्या उपसर्गा मनीषिभिरित्यपि विजातीयापेक्षमिति षष्ठाष्टके षष्ठेऽध्याये चतुर्थे वर्गे प्रप्रवस्त्रिष्टुभम् । तथा पञ्चमे द्वितीयाध्याये दशमवर्गे प्रप्रायमग्निर्भर-तस्येत्यादौ पदैक्यस्य दर्शनमिवात्र तत्प्रसक्तेरभावाच्च ।
अत विशसनप्रवृत्तिं शंसति ॥ तस्मा इति ॥ उपकरणनियोजने पूर्वमुक्ते आप्रीताय । एकादशसङ्ख्याभिराप्रीसंज्ञिताभिः प्रयाजयाज्याभिर्यद्यजनं तदाप्रीणनम् । तत्संस्कृताय तथोल्मुकेन त्रिःप्रदक्षिणीकरणं यत्तत्पर्यग्निकरणं चेति पर्यग्निकृतायाप्रीतिभिरितो ह्याप्रीतः परितोऽग्निः कृतोऽयं यस्य वेत्युभयत्र विग्रहो ज्ञेयः । तथाह्यनुक्रमणिका । समिद्धा आप्रिय इति । द्वितीयाष्टकेऽ-ध्याये । समिद्धोऽद्य राजसीत्यारभ्य स्वहाकृतीषु राजत इत्यन्ताष्टमनवमप्रवर्गाद्विकगता एकादश ऋच आप्रीया ज्ञेयाः । तत्सूक्तसंस्कारविशेषसहितायेति यावत् । आहत्य संस्कारचतुष्टय-वतस्तस्य शुनःशेपस्य तं विशसितारं हिंसितारं पुरुषं पुरुरुषं पूर्ववन्न विविदुः । यदाऽसाव-जीगर्तः सौयवसिर्मह्यमपरं गोशतं दत्ताहमेनं विशिष्यामीत्युवाचेति शेषः । तस्मा अजीगर्तायापरं शतं ददुः । स अशिं निशानो निशितं कुर्वाणः पुत्रमेधाय प्रापत् । अथ पितुरपि मारणोप-सरणानन्तरं शुनःशेप ईक्षाञ्चक्रे चित्त एवमालुलोच । तदेवावेदयति ॥ अमानुषमिवेति ॥ अमानुषं मनुष्या मानुषा मर्त्या इत्यमरादमानुषमजादिकमिव मा मां विशिष्यन्ति हिंसिष्यन्ति हन्त कष्टमिति । अत उत्तरं किं त्वं करिष्यसीत्यत आह ॥ अहमिति ॥ देवता उपधावाम्युपासे । इत्यालोच्य प्रजापतिं ब्रह्माणमुपससार । प्रथमतस्तदुपसरणे निमित्तं देवतानां प्रथमं मुख्यमिति । तामृचं प्रतीकयति । कस्य नूनं कथमस्यामृतानामितीति । विवृतेयं हरिहिरण्यगर्भादिविषये ऋग्भाष्यटीकादिष्विति विस्तरदरतो नेह व्याख्यायते । एवमुत्तरत्रापि । तं शुनःशेपमग्निर्देवानां मध्ये नेदिष्ठः । अन्तिकशब्दादतिशायने तमबिष्टनावितीष्टन्यन्तिकबाढयोर्नेद-साधाविति नेदादेशः । तावां नेदिष्ठमीमह इति ऋग्भाष्यटीकयोः । नेदिष्ठत्वं समीपत्वं तौ नेदिष्ठ क्षिप्रमिति व्याख्यातम् । यद्यप्ययं समीपमात्रबोधकस्तथाऽपि योग्यतयाऽतिक्षिप्रकारीत्यर्थक इति ज्ञेयम् । अतस्तमुपधावेत्युवाच । अत्रोत्तरत्र शक्तैरशक्तं सेवोक्तिस्तेषां तेषां भागस्य क्लृप्तेरिति ज्ञेयम् । सोऽग्निमुपससार । तां प्रतीकं सत्यृचम् । अग्नेर्वयं प्रथमस्यामृतानामितीति । सवितृ-शब्दनिरुक्तिं स्वयमेव वेदपुरुषो दर्शयति । प्रसवानामीशे प्रसूते सर्वसर्वाभीष्टमितीति । ईशे ईशो भवति । अभि त्वा देव सवितरित्येतेन तृचेन । तिसृणामृचां समाहारस्तृचम् । ऋक्पूरब्धू-रित्यप्रत्ययः । हे शुनःशेप त्वं वरुणाय राज्ञे नियुक्तो यूपे बद्धोऽस्यतस्तमुपास्वेति सवित्रो-क्तोऽतः सवितृविषयादभित्वा देव सवितरित्युक्तात् तृचात् । उत्तराभिरेकत्रिंशत्सङ्ख्याभिर्ऋग्भि-र्वसिष्वाहीत्यारभ्योक्तैरग्निर्बृहद्भानुरिति प्रथमाष्टकद्वितीयाध्यायवर्गीयसङ्ख्याभिर्वरुण उवाच । अग्निर्वै देवानां मुखं तत्स्थानीयः । द्वारभूत इति यावत् । तन्मुखत एव हविर्हरणात् । सर्वैः सुपर्वभिः । अत एव सुहृदयतमोऽतिप्रेमपात्रम् । तमग्निं नु क्षिप्रं प्रस्तुहि । अथानन्तरं त्वा उत्सृक्ष्याम इत्युक्तो वरुणेन सोऽग्निं प्रजापतिवचनात्स्तुतं पुनरपि तुष्टाव । अत एताभ्यः पूर्वोक्ताभ्यो ऋग्भ्य उत्तराभिर्द्वाविंशतिसङ्ख्याभी ऋग्भिर्वसिष्वाहीत्यादिकं दशर्चं सूक्तम् । अश्वं नत्वेति त्रयोदशर्चं सूक्तम् । तत्र त्यक्त्वात्यामवशिष्ठाभिः सूक्तद्वयगताभिरग्निस्तं विश्वान्देवा-न्स्तुहीत्याश्वासयति ॥ विश्वानिति ॥ समस्तान्देवानित्यर्थः । विश्वे सर्वे देवाः । पदद्वयम् । नायं गणवाची विश्वेदेवशब्दोऽखण्डः । अन्यथा नमो महद्भ्यो नमो युवभ्यो नम आशनेभ्यः । यजाम देवान् यदि शक्नुवामेत्येतन्नियोगायोगापत्तेः । इन्द्रो देवानां मध्ये ओजो दीप्तिर्बलं दाक्ष्यं प्रसह्यकरणं सहसुजनः सन् पारयिष्णुरुपक्रान्तसमाप्तिकृदिति वचनात्क्रमात्पदार्थो ज्ञेयः । तत्र तत्रादिशय इष्टन्तमप्प्रत्ययाभ्यां बोध्यत इति बोध्यम् । एतत्सर्वं रथादिदानसमर्थताहेतुः । स शुनःशेपो यच्चिद्धि सत्यसोमपा इति चैतेन सूक्तेन यच्चिद्धीत्यारभ्य तुवीमघेत्यन्तं सप्तर्चं सूक्तम् । उत्तरस्मिन्सूक्ते आव इन्द्रमित्यादिनः शचीभिरित्यन्तद्वाविंशत्यृचे सूक्ते पञ्चदशसङ्ख्याभि-र्ऋग्भिस्तुष्टाव । स्तूयमान इन्द्रस्तस्मै प्रीतियुक्तेन चेतसा हिरण्यरथं सुवर्णमयं स्यन्दनं ददौ । तुष्टेः कारणं प्राक् स्वप्रोक्तरोहितचरणाभ्यनुज्ञानात्तत्प्रतिनिधितेति ज्ञेयम् । सङ्कल्पं चक्र इति वदन्ति । तं रथमनुग्रहमैन्द्रमतन्द्रोवेत्य । एतया प्रागुक्तपञ्चदशसङ्ख्येभ्यो ऋग्भ्य उत्तरया शश्वदिन्द्रपोप्रुथुद्भिरित्यृचं मनसेत्यत्राप्यन्वेति मनसा प्रतीयाय जगाम । अश्विनौ स्तुह्यथ त्वोत्स्त्राक्ष्याम इतीन्द्रवचनम् । स एवमुक्तः । अतः शश्वदिन्द्र इत्यस्या उत्तरेणाश्विना इत्यारभ्य यदीय इत्यन्तेन ऋचेन । तं शुनःशेपमश्विना अश्विना ऊचतुरित्यत्र लोपः शाकल्यस्येति वलोपः । उषसं स्वयोषितमतो यदीयत इति तृचादुत्तरेण वस्त्र उषः प्रिय निधारयेत्यन्तेन तृचेन । तस्य तृचस्य तत्सम्बन्धिन्यामृचि एकैकस्यामेकैकः पाश इति ऋक्त्रिके उक्ते पाशत्रिकं त्रुटितम् । ततः स विपाशे विगतपाशः सन् मुमुचे मुक्तोऽभूत् । पाशो विमुमुचे विमुक्तोऽ-भूदित्यन्वयो वा । सामान्यतश्छिन्न इत्यर्थः । ऐक्ष्वाकस्य हरिश्चन्द्रस्योदरं कनीयोऽत्यल्पं भवत्यभवत् । क्रमेणाणु भवद्भवदभवत् । अन्यथा यागकरणायोगात् । उत्तमस्यामौषस्या-मन्तिमायामृच्युक्तायां विपाशो विमुमुचे ऐक्ष्वाकश्चागदो न विद्यते गदो रोगो यस्य स तथा । आ आस सम्यगभूत् । सङ्कल्पमात्रेणाल्पं भवदुदरं यथा पूर्वं तथाऽभूदिति भावः । अत एव भागवते मुक्तोदरो यजन् देवानित्युक्तिः ।
छलारी
पक्षिणोः पक्षस्थयोः सहायिनोर्वसिष्ठविश्वामित्रयोः । हरिश्चन्द्रं निमित्तीकृत्य यदर्थं युद्धमभूत् । तद्ग्रन्थान्तरादेव ज्ञेयम् । यो हरिश्चन्द्रः निमित्तं यस्य यद्यन्निमित्तमिति विग्रहः । श्रुतिप्रसिद्धं हरिश्चन्द्रचरितमाह ॥ सोऽनपत्य इत्यादिना । नापुत्रस्य लोकोऽस्तीति वाक्यार्थज्ञानात् । विषण्णमना अनपत्यः सः हरिश्चन्द्रो नारदोपदेशात् । हे प्रभो मम पुत्रो जायतामिति निवेद्य । वरुणं शरणम् इत्यन्वयः । तदेव विवृणोति ॥ यदीति ॥ हे महाराज यदि वीरः । पुत्रो जायेतेति शेषः । तेन पुत्रेण त्वां यजे ॥ ६३,६४ ॥
वरुणं शरणं यातः पुत्रो मे जायतां प्रभो ।
यदि वीरो महाराज तेनैव त्वां यजे इति ॥ ६४ ॥
पदरत्नावली
एतदेव विवृणोति– यदीति ॥ हे महाराज यदि वीरः पुत्रो जायेत तर्हि तेन पुत्रेण त्वां यजे, पुरुषपशुना त्वां यक्ष्य इति हरिश्चन्द्रेणोक्ते, वरुणेनापि तथास्त्वित्युक्ते, नाम्ना रोहितः पुत्रो जात इत्यन्वयः । ‘अथैनमुवाच वरुणं राजानमुपधाव पुत्रो मे जायतां तेन त्वा यजा इति तथेति स वरुणं राजानमुपससार पुत्रो मे जायतां तेन त्वा यजा इति तथेति तस्य पुत्रो जज्ञे रोहितो नाम’ इति ब्राह्मणं चैतमेवार्थमनुवदति ॥ ६४ ॥
सत्यधर्मीया
हे प्रभो वरुण मे पुत्रो जायताम् । यदि जातस्तेन सुतेन जातेन त्वां यजे । तमेव पशुं कृत्वेति यावत् । इत्येतदभिप्रायेण वरुणं शरणं यातः । अत्र सुतवीर्यं पितृदुर्गतिपरिहारकतामात्रेणेति ज्ञेयम् । श्व ईश्वरो वर्तत इति नीत्यैवोक्तिः । अनेन जातस्य पोतस्य तत्काल आलम्भने को लाभ इति च प्रत्युक्तम् ॥ ६४ ॥
तथेति वरुणेनोक्ते पुत्रो जातस्तु रोहितः ।
जातः सुतो ह्यनेनाङ्ग मां यजस्वेति सोऽब्रवीत् ॥ ६५ ॥
पदरत्नावली
अथ वरुण आगत्य हरिश्चन्द्रमवादीदित्याह– जात इति ॥ अङ्ग ते सुतो जातोऽनेन पुत्रेण मां यजस्वेति । स हरिश्चन्द्रो वक्तीत्याह– सोऽब्रवीदिति ॥ ‘तं होवाचाजनि वै ते पुत्रो यजस्व मानेनेति स होवाच यदा वै पशुर्निर्दशो भवत्यथ स मेध्यो भवति निर्दशोऽन्वस्त्वथ त्वा यजा इति तथेति’ इति । निर्दशो दशाहातिक्रान्तः ॥ ६५ ॥
सत्यधर्मीया
तथेति वरुणेनोक्ते सति रोहितो नाम्ना पुत्रो जातः । ततोऽङ्ग हे राजन् । सुतो जातः । अनेन मां यजस्वेति स वरुणोऽब्रवीत् । हरिश्चन्द्रमेत्येति शेषः ॥ ६५ ॥
छलारी
पुरुषपशुना त्वां यक्ष्य इति हरिश्चन्द्रेनोक्ते वरुणेनापि तथाऽस्त्वित्युक्ते । नाम्ना रोहितः पुत्रो जात इत्यन्वयः । अथ वरुण आगत्य हरिश्चन्द्रमवादीदित्याह ॥ जात इति ॥ हे अङ्ग ते सुतो जातोऽनेन पुत्रेण मां यजस्वेति हरिश्चन्द्रोक्तः सोऽब्रवीदिति ॥ ६५ ॥
यदा पशुर्निर्दशः स्यादथ मेध्यो भवेदिति ।
निर्दशे च समागत्य यजस्वेत्याह सोऽब्रवीत् ॥ ६६ ॥
पदरत्नावली
निर्दशे जाते ‘स ह निर्देश आस तं होवाच निर्दशो न्वभूद्यजस्व मानेनेति’ इति । यद् यदा पशोर्दन्ता जायेरन् अथ तदा पशुः शुचिः स्यादनन्तरं त्वां यक्ष्य इत्यब्रवीद् हरिश्चन्द्रः । स होवाच यदा वै पशोर्दन्ता जायन्तेऽथ स मेध्यो भवति दन्ता न्वस्य जायन्तामथ त्वा यजा इति तथेति’ इति ॥ ६६ ॥
सत्यधर्मीया
यदा पशुस्तत्त्वेन त्वां प्रति क्लृप्तो निर्दशो निर्गता दश तिथयो यस्य सः । सङ्ख्ययाव्ययेति बहुव्रीहौ । बहुव्रीहौ सङ्ख्येय इति डच् । अतिक्रान्तदशदिनश्चेत्स मेध्यो भवेदिति । पिता तथेति वरुणो निर्दशे जाते सति समागत्य स मां यजस्वेत्यब्रवीत् ॥ ६६ ॥
छलारी
निर्दशो निर्गतदशदिवसः । मेध्यः शुद्धः । पशोर्निर्दशे सतीत्याह । वरुण इति शेषः ॥ ६६ ॥
दन्ताः पशोर्यज्जायेरन्नथ मेध्यो भवेदिति ।
जाता दन्ता यजस्वेति स प्रत्याहाथ सोऽब्रवीत् ॥ ६७ ॥
पदरत्नावली
स वरुण एत्याह हरिश्चन्द्रम् अस्य दन्ता जाता अथ मां यजस्वेति । तस्य ह दन्ता जज्ञिरे तं होवाचाज्ञत वा अस्य दन्ता यजस्व माऽनेनेति’ इति । अज्ञत अजायन्त । यदास्य पुत्रस्य दन्ताः पतन्त्यथ स शुद्धो भवेदित्यब्रवीत् । ‘स होवाच यदा वै पशोर्दन्ताः पद्यन्तेऽथ स मेध्यो भवति दन्ता न्वस्य पद्यन्तामथ त्वा यजा इति तथेति । तस्य ह दन्ताः पेदिरे’ इति ॥ ६७ ॥
सत्यधर्मीया
यद्यदा पशोर्दन्ता जायेरंश्चेदथ स मेध्यो भवेदिति पुनर्जनकोऽब्रवीदिति शेषः । दन्ता जाता इति वचनमन्थरता कुत इति जाता दन्ता इत्युक्तिरिति ज्ञेयम् । स वरुणोऽब्रवीदित्यन्वयः ॥ ६७ ॥
छलारी
यद्यदि पशोर्दन्ता जायेरन् । अथ तदा पशुः शुचिः स्यात् । अनन्तरं त्वां यक्ष्य इत्यब्रवीत् ॥ ६७ ॥
यदा पतन्त्यस्य दन्ता अथ मेध्यो भवेदिति ।
पशोर्निपतिता दन्ता यजस्वेत्याह सोऽब्रवीत् ॥ ६८ ॥
पदरत्नावली
पुत्र पशोदन्ता निपतिता अथ मां यजस्वेति वरुण आह । ‘तं होवाचापत्स्यत वा अस्य दन्ता यजस्व माऽनेनेति’, इति । यदा पशोर्दन्ताः पुनर्जायन्ते अनन्तरं पशुः शुद्धः स्यादिति स हरिश्चन्द्रोऽब्रवीत् ‘स होवाच यदा वै पशोर्दन्ताः पुनर्जायन्तेऽथ स मेध्यो भवति दन्ता न्वस्य पुनर्जायन्तामथ त्वा यजा इति तथेति तस्य ह दन्ताः पुनर्जज्ञिरे’ इति ॥ ६८ ॥
सत्यधर्मीया
यदाऽस्य पशोर्दन्ताः पतन्त्यथ स मेध्यो भवेदिति प्रत्याहेत्यन्वयः । पशोर्निपतिता दन्ता मां यजस्वेत्याह सः ॥ ६८ ॥
छलारी
यदा पतन्ति । बालानामष्टवर्षानन्तरं सुप्रसिद्धमिति भावः ॥ ६८ ॥
यदा पशोः पुनर्दन्ता जायन्तेऽथ पशुः शुचिः ।
पुनर्जाता यजस्वेति स प्रत्याहाथ सोऽब्रवीत् ॥ ६९ ॥
पदरत्नावली
अस्य दन्ताः पुनर्जाता अथ मां यजस्वेति स वरुणो हरिश्चन्द्रमेत्याह । ‘तं होवाचाज्ञत वा अस्य पुनर्दन्ता यजस्व माऽनेनेति’ इति । यदा राजन्यः क्षत्रियः सान्नाहुकः सन्नाहयोग्यः शस्त्रास्त्रग्रहणयोग्यः कवचवानथ राजपशुः शुचिरिति स हरिश्चन्द्रोऽब्रवीत् । ‘स होवाच यदा वै क्षत्रियः सान्नाहुको भवत्यथ स मेध्यो भवति सन्नाहं नु प्राप्नोत्वथ त्वा यजा इति, तथेति । स ह सन्नाहं प्राप तं होवाच सन्नाहं तु प्राप्नोद् यजस्व माऽनेनेति’ इति
॥ ६९ ॥
सत्यधर्मीया
यदा पशोः पुनर्दन्ता जायन्ते । अथ तदनन्तरं स पशुः शुचिः शुद्धः । पुनर्जाता दन्ता इत्यादिकं सोऽब्रवीत् ॥ ६९ ॥
छलारी
पशोः पुरुषपशोः पुनर्जाता दन्ताः ॥ ६९ ॥
सान्नाहुको यदा राजन् राजन्योऽथ पशुः शुचिः ।
इति पुत्रानुरागेण स्नेहयन्त्रितचेतसा ।
कालं वञ्चयता तं तमुक्तो देवस्तमैक्षत ॥ ७० ॥
पदरत्नावली
ननु हरिश्चन्द्रः किमर्थं कालमक्षिपदिति तत्राह– इतीति ॥ स्नेहपाश-बद्धचेतसा दशाहादिलक्षणं तं तं कालं वञ्चयता हरिश्चन्द्रेणोक्तो वरुणदेवस्तं कालमैक्षत प्रत्याह चेत्यन्वयः । तथात्मयागकालमैक्षतेति वा ॥ ७० ॥
सत्यधर्मीया
राजन्निति वरुणसम्बुद्धिः । राजन्यो राज्ञ्यां राज्ञो जातः । अन्यस्यां जातस्तु राजनः । स चेत्सर्वानर्ह इति सूचयति । सूचयति च न ममतैवमुत्पद्येत राज्ञ इति । हरिश्चन्द्रोऽपि किमित्यवञ्चयद्वरुणमित्यत आह ॥ इतीति ॥ निर्दशेत्यारभ्य सान्नाहकः स्यादिति पर्यन्तम् । स्नेहयन्त्रितचेतसा स्नेहपाशबद्धमनसा राज्ञा तं कालं वञ्चयता । उक्तो देवो वरुणः पुत्रानुरागेण नृपशुर्मम भविष्यतीत्यतिरोहितस्नेहेन तं तं कालमैक्षत ॥ ७० ॥
छलारी
राजन् हे वरुण । यदा राजन्यः क्षत्रियः सन्नाहुकः सन्नाहस्य योग्यः शस्त्रास्त्रग्रहणयोग्यः । ननु हरिश्चन्द्रः किमर्थं कालमाक्षिपदिति तत्राह ॥ इतीति ॥ स्नेह-यन्त्रितचेतसा । जातेनेति शेषः । पुत्रानुरागेण युक्तेन दशाहादिलक्षणं तं कालं वञ्चयिता हरिश्चन्द्रेणोक्तो वरुणदेवस्तं कालमैक्षत प्रत्यैक्षत ॥ ७० ॥
रोहितस्तदभिज्ञाय पितुः कर्म चिकीर्षितम् ।
प्राणप्रेप्सुर्धनुष्पाणिररण्यं प्रत्यपद्यत ॥ ७१ ॥
पदरत्नावली
स तथेत्युक्त्वा पुत्रमामन्त्रयामास ततोऽयं वै मह्यं त्वामददाद्धन्त त्वयाऽहमिमं यजा इति स ह नेत्युक्त्वा धनुराधायारण्यमुपातस्थौ स संवत्सरमरण्ये चचार’ इति ब्राह्मणप्रसिद्धम् । पितृश्चिकीर्षितं तं वरुणमुद्दिश्यात्मयजनं कर्तुमिष्टं तत्कर्माऽभिज्ञाय प्राण-प्रेप्सुरात्मजीवनेच्छू रोहितो धनुरादाय वनं प्राप ॥ ७१ ॥
सत्यधर्मीया
पितुः सकाशात्पितुश्चिकीर्षितं कर्म स्वसंहाररूपमभिज्ञाय मन्त्रिमुखेन ज्ञात्वा प्राणप्रेप्सुः प्राणान्प्रेप्सुरिच्छुः । न लोकेति षष्ठीनिषेधात् । धनुष्पाणिः । सन्नाहन्नु प्राप्नोदित्युक्तेः । अरण्यं वनं प्रापद्यताप ॥ ७१ ॥
छलारी
पितुः पित्रा चिकीर्षितमात्मना पशुना वरुणयजनरूपं कर्माभिज्ञाय प्राण-प्रेप्सुरात्मजीवनेच्छुः रोहितो धनुरादाय वनं प्राप ॥ ७१ ॥
पितरं वरुणग्रस्तं श्रुत्वा जातमहोदरम् ।
रोहितो ग्राममेयाय तमिन्द्रः प्रत्यषेधत ॥ ७२ ॥
पदरत्नावली
तदनन्तरं पितरं वरुणग्रस्तमित्यारभ्य प्रदाय समवन्दतेत्यन्तेन ग्रन्थेन ‘अथ हैक्ष्वाकं वरुणो जग्राह तस्य होदरं जज्ञे, इत्यादिब्राह्मणप्रसिद्धोऽर्थोऽनूद्यते ।
अथ हैवाकं वरुणो जग्राह, तस्य होदरं जज्ञे, तद् ह रोहितः शुश्राव, सोऽरण्याद् ग्राम मेयाय तमिन्द्रः पुरुषरूपेण पर्येत्योवाच नानाश्रान्ताय श्रीरस्तीति रोहित शुश्रुम । पापो नृषद्वरो जन इन्द्र इच्चरतः सखा चरैवेति चरैवेति वै मा ब्राह्मणोऽवोचदिति ह ।
एयाय आजगाम । प्रशंसायां रूपप्रत्ययविधानात्, प्रश्स्तपुरुषरूपो विप्र इति यावत् । इन्द्रो वृद्धविप्रो भूत्वा तं रोहितमेत्य पर्युवाच । ‘अपपरी वजने’ इति सूत्रान्निषेध-पूर्वमभाषतेत्यर्थः ॥ ७२ ॥
सत्यधर्मीया
जातमहोदरं जातं महदुदरं यस्य तम् । अनेन केवलमुदरं जज्ञ इति व्याकृत इति ज्ञेयम् । यद्वा तस्य होदरमित्यस्यां श्रुतौ तस्य ह उ उदरमिति छेदः । श्लोके तदर्थो महदिति । एयायायातुमुद्यतोऽभूत् । तमागच्छन्तमिन्द्रः पुरुषरूपेण पर्युवाचेत्यस्यार्थः प्रत्यषेधतेति ॥ ७२ ॥
छलारी
स्वगमनेन वरुणग्रस्तमत एव जातमहोदराख्यरोगं श्रुत्वा । एयाय ग्रामं प्रति जगाम । इन्द्रो वृद्धविप्रो भूत्वा तं रोहितमेत्य प्रत्यषेधत ग्रामं प्रति गन्तव्यमित्युक्तवानित्यर्थः
॥ ७२ ॥
भूमेः पर्यटनं पुण्यं तीर्थक्षेत्रनिषेवणैः ।
रोहितायाऽदिशच्छक्रः सोऽप्यरण्येऽचरत् समाम् ॥ ७३ ॥
पदरत्नावली
तत्र युक्तिमाह– भो रोहित नानाश्रान्ताय पुण्यतीर्थक्षेत्रनिषेवणेन नाना-विधेन श्रान्तस्य जनस्य श्रीरैहिकामुष्मिकसम्पदस्तीति, नृषद्वरो ऽनुक्तकारी गुर्वाद्युक्तमकुर्वाणः स्तम्भवत् तिष्ठन् चर्मकार इव वा जनः पापः क्लेशिष्ट इति शुश्रुम । नृषद्वरोऽनुक्तकारी चर्मकृच्च प्रकीर्तितः, इत्यभिधानम् । तर्हि सञ्चरमाणस्य एकाकिनश्चोरादिभयं स्यादिति नाशङ्कनीयम् । चरतः पुंस इन्द्र इद् इन्द्र एव सखा भवत्यतश् चरैव चरैव त्वमटनं कुरुष्वैवं कश्चिद् ब्राह्मणो मामवोचत् । इन्द्रेणोपदिष्टो रोहितः किं चकारेति तत्राह– सोऽपीति ॥ समाः संवत्सरम्
॥ ७३ ॥
सत्यधर्मीया
क्षेत्रतीर्थनिषेवणैर्भूमेः पर्यटनं पुण्यं तत्प्रापकमादिशदुपदिदेश । सोऽपि रोहितोऽप्यरण्ये समामेकं संवत्सरम् । समा इत्यत्र नित्यबहुवचननियमो नेति प्रागभिधानोदा-हरणेनोपपादितमष्टमे समां सहस्रमित्यनुसन्धेयम् । समा इति पाठोऽपि संवत्सरमेकमेवेत्यर्थः । संवत्सरमिति द्वितीयं संवत्सरमिति चेदंमुद्रणात् । सामान्योक्तिर्वा ॥ ७३ ॥
छलारी
तीर्थक्षेत्रनिवेषणादिभिर्भूमेः पर्यटनं पुण्यमिति रोहितायादिशदित्यन्वयः । इन्द्रेणोपदिष्टो रोहितः किं चकारेति तत्राह ॥ सोऽपीति ॥ समाः कतिचिद्वत्सरान् अरण्येऽचरत् ॥ ७३ ॥
एवं द्वितीये तृतीये चतुर्थे पञ्चमे तथा ।
अभ्येत्याभ्येत्य स्थविरो विप्रो भूत्वाऽऽह वृत्रहा ॥ ७४ ॥
पदरत्नावली
कति संवत्सरान् अरण्ये चचारेति तत्राह– एवमिति ॥ ‘द्वितीयं संवत्सरमरण्ये चचार’ इत्यादिब्राह्मणं चास्मिन्नर्थे मानम् । (द्वितीयं संवत्सरमरण्ये चचार सोऽरण्याद् ग्राममेयाय तमिन्द्रः पुरुषरूपेण पर्येत्योवाच पुष्पिण्यौ चरतो जङ्घे भूष्णुरात्मा फलग्रहिः । शे रेऽस्य सर्वे पाप्मानः श्रमेण प्रपथे हताश्चरैवेति चरैवेति वै मा ब्राह्मणोऽवोचदिति ह तृतीयं संवत्सरमरण्ये चचार सोऽरण्याद् ग्राममेयाय तमिन्द्रः पुरुषरूपेण पर्येत्योवाच आस्ते भग आसीनस्योर्ध्वस्तिष्ठति तिष्ठतः । शेते निपद्यमानस्य चरति चरतो भगश्चरैवेति चरैवेति वै मा ब्राह्मणोऽवोचदिति ह चतुर्थं संवत्सरमरण्ये चचार सोऽरण्याद् ग्राममेयाय तमिन्द्रः पुरुषरूपेण पर्येत्योवाच कलिः शयानो भवति सञ्जिहानस्तु द्वापरः । उत्तिष्ठंस्त्रेता भवति कृतं सम्पद्यते चरंश्चरैवेति चरैवेति वै मा ब्राह्मणोऽवोचदिति ह पञ्चमं संवत्सरमरण्ये चचार सोऽरण्याद् ग्राममेयाय तमिन्द्रः पुरुषरूपेण पर्येत्योवाच चरन् वै मधु विन्दति चरन् स्वादुमुदुम्बरम् । सूर्यस्य पश्य श्रमाणं यो तन्द्रयते चरंश्चरैवेति चरैवेति वै मा ब्राह्मणोऽवोचदिति ह ।)
पुष्पिणी गर्भिणी जङ्घयोर्बलाच्चरति अटति नैकत्रास्ते यथा, तथा चरतः पुरुषस्य जङ्घे पुष्पिण्यौ बलवत्यौ भवतः । सततं पर्यटन्नात्मा पुरुषः फलग्रहिर्भूष्णुः’ भविता । किं तत्फल-मिति तत्राह– शेर इति ॥ प्रपथे महामार्गे तीर्थयात्राश्रमेण हता अस्य पुंसः सर्वे पाप्मानः शेरे शीर्णा भवन्तीति । अतस्त्वमपि चरन् फलं लभस्वेत्यर्थः । आसीनस्य निर्व्यापारस्य भगो भाग्यमप्यास्ते आसीनं भवति । समृद्धं न भवति । तिष्ठत उत्थानं कुर्वतो भग ऊर्ध्वस्तिष्ठति उत्थानं करोति । पुरुषच्छायेव निपद्यमानस्य निकृष्टं गच्छतो भगः शेते निद्रां करोति, निकृष्टो भवतीत्यर्थः । चरतः । पुण्येन यथा सञ्चरमाणस्य पुंसः भगश्चरति प्राप्नोति, तमिति शेषः । भगो योन्यां भगो यत्ने यशोवीर्यार्कभूतिषु’ इत्यभिधानम् । कलिः शयान इत्यादिना कारणगुणः कार्यपरो योजनीयः । तथा हि कलौ जातः शयानस् तामसत्वेन शुभप्रवृत्तिशून्यो भवति । द्वापरे जातः सञ्जिहानः संशयान इदं वा अदो वेति तत्त्वं न निश्चिनोति । ‘संबन्धिपुत्रौ दायादौ द्वापरौ युगसंशयौ’ इत्यभिधानम् । त्रेतायां जात उत्तिष्ठन् धर्मार्थकामलक्षणकार्योद्योगी भवति । कृतयुगे जातः कृतं विहितं चरन् सम्पद्यते ज्ञानसम्पन्नो भवतीत्यतस्त्वं चरो भवेत्यर्थः । युगेऽक्षपाते पर्याप्ते कृतं क्लीबे हितेऽर्थवद्’ इति । भूमौ चरन् पर्यटन् मधुसुखं विन्दति वै । अशनक्लेशोऽपि नास्तीत्याह– स्वादिष्ठमुदुम्बरं फलविशेषं चरन् भक्षयन् भूमिपर्यटनं कुर्वत इत्थंभावमाह– चरन्निति ॥ श्रवणमननाभ्यां स्वादु पुनः पुनः सेवाबुद्धिजनकमुदुम्बरम् अत्युत्तमं वरं वरणीयं सर्वगुणाभिरामं हरिं चरन् शरणं गच्छन् मत्वेति वा नित्यमटन् कोऽस्तीति तत्राह– सूर्यस्येति ॥ यश्चरन् अविरतमटन् न तन्द्रयते आलस्यं न करोति, तस्य सूर्यस्य श्रेमाणम् अव्याहतगमन-शिक्षां पश्य । तवाप्येवमरण्ये चरतः जीवनक्षेमः स्यादिति वृत्रहा रोहितमशिक्षतेत्यन्वयः ॥७४॥
सत्यधर्मीया
एवं द्वितीये गाथापर्याये तृतीये चतुर्थे पञ्चमे रोहितमभेत्याभ्येत्य पुनः पुनः सङ्गम्य वृत्रहा इन्द्रः स्थविरो विप्रो भूत्वोचे रे चरैवेत्याह ॥ ७४ ॥
छलारी
एवं द्वितीयादौ वर्षे सङ्ग्रामं गच्छन्तम् । रोहितमिति शेषः । वृत्रहेन्द्र आह । प्रत्यषेधत । स्थविरो भूत्वा वृद्धो भूत्वा ॥ ७४ ॥
षष्ठं संवत्सरं तत्र चरित्वा रोहितः पुरीम् ।
उपव्रजन्नजीगर्तादक्रीणान्मध्यमं सुतम् ।
शुनःशेपं पशुं पित्रे प्रदाय समवन्दत ॥ ७५ ॥
पदरत्नावली
एवं शिक्षितस्तत्रारण्ये षष्ठं संवत्सरं चरित्वा पुरीमुपागच्छन् रोहितोऽ-जीगर्तान्मध्यमं सुतं शुनःशेपमक्रीणात्, गवां शतं दत्वा स्वीकृतवान् । स्वीकृत्य शुनःशेपाख्यं पशुं हरिश्चन्द्राय पित्रे प्रदाय पितरं समवन्दतेत्यन्वयः । षष्ठं संवत्सरमरण्ये चचार सोऽजीगर्तं सौयवसिमृषिमशनयापरीतमरण्यमुपेयाय । तस्य ह त्रयः पुत्रा आसुः शुनःपुच्छः शुनःशेपः शुनो-लाङ्गूल इति । तं होवाच ऋषेऽहं ते शतं ददाम्यहमेषामेकेनात्मानं निष्क्रीणा इति । स ज्येष्ठं पुत्रं निगृह्णान उवाच नन्विममिति । नो एवेमामिति कनिष्ठं माता । तौ ह मध्यमे सम्पाद-याञ्चक्रतुः शुनःशेपे तस्य ह शतं दत्वा स तमादाय सोऽरण्याद् ग्राममेयाय । स पितरमेत्योवाच तत हन्ताहमनेनात्मानं निष्क्रीणा इति स वरुणं राजानमुपससारानेन त्वा यजा इति तथेति भूयान् वै ब्राह्मणः क्षत्रियादिति वरुणम् उवाच’ इति ॥ ७५ ॥
सत्यधर्मीया
षष्ठं संवत्सरं तत्र वने उपव्रजन्नागच्छन् मध्येऽध्वमजीगर्तात् । सौयवसे-र्ऋषेर्मध्यमं मात्रा पित्रा च त्यक्तं सुतम् । तन्नामाह ॥ शुनःशेपमिति ॥ पशुं स्वप्रतिनिधिं पित्रे प्रदाय समवन्दत नमश्चकार ॥ ७५ ॥
छलारी
एवं शिक्षितस्तत्रारण्ये षष्ठं संवत्सरं चरित्वा पुरीं प्रत्युपव्रजन् आगच्छन् । रोहितोऽजीगर्तात्तन्नामकर्षेः सकाशान्मध्यमं सुतं शुनःशेपम् । अक्रीणाद्गवां शतं दत्वा स्वीकृतवा-नित्यर्थः । स्वीकृत्य च शुनःशेपाख्यं पशुम् । हरिश्चन्द्राय पित्रे प्रदाय पितरं समवन्दतेत्यन्वयः
॥ ७५ ॥
ततः पुरुषमेधेन हरिश्चन्द्रो महायशाः ।
मुक्तोदरो यजन् देवान् वरुणादीन् महाक्रतौ ॥ ७६ ॥
पदरत्नावली
ततः पुरुषपशुप्राप्त्यनन्तरं महायशा हरिश्चन्द्रः पुरुषमेधेन पुरुषपशु-हिंसालक्षणयज्ञेन वरुणादीन् । यजंस्ततः स राजा मुक्तोदरो जलोदररोगरहितोऽभवदित्यन्वयः । तस्मा एतं राजसूयं यज्ञक्रतुं प्रोवाच तमेतमभिषेचनीये पुरुषं पशुमालेभे’ इति सोऽभिषेचनीय इति तादर्थ्ये सप्तमी । वरुणमुद्दिश्येति ॥ आलेभे आलम्भनमुपाक्रान्तवान् ॥ ७६ ॥
सत्यधर्मीया
पुरुषमेधेनातद्रूपपशुविशंसनसेवनेन वरुणादीन् देवान् यजन्मुक्तोदरः क्रमाद्धस्वीभवदुदरोऽभवत् । अयजद्देवानिति पाठः स्फुटार्थः ॥ ७६ ॥
छलारी
ततः पुरुषपशुप्राप्त्यनन्तरं हरिश्चन्द्रः पुरुषमेधेन पुरुषपशुहिंसालक्षणयज्ञेन वरुणादीन्देवान् अयजत् । ततो मुक्तोदररोगोऽभवदित्यर्थः ॥ ७६ ॥
विश्वामित्रोऽभवत् तस्मिन् होताध्वर्युरथात्मवान् ।
जमदग्निरभूद् ब्रह्मा वसिष्ठोऽयास्यसामगः ॥ ७७ ॥
पदरत्नावली
तस्य ह विश्वामित्रो होताऽऽसीज्जमदग्निरध्वयुर्वसिष्ठो ब्रह्माऽयास्य उद्गाता’ इति ब्राह्मणार्थत्वेनास्मिन् यज्ञे होत्रादीनाह– विश्वामित्र इति ॥ तस्य ह विश्वामित्रो होताऽऽसीज्जमदग्निरध्वयुर्वसिष्ठो ब्रह्माऽयास्य उद्गाता तस्मा उपाकृताय नियोक्तारं न विविदुः स होवाचाजीगर्तः सौयवसिर्मह्यमपरं शतं ददुस्तं स नि नियोज । तस्मा उपाकृताय नियुक्तायाऽऽ-प्रीताय पर्यग्निकृताय विशसितारं न विविदुः स होवाचाजीगर्तः सौयवसिर्मह्यं मपरं शतं दत्ताहमेनं विशसिष्यामीति तस्मा उपाकृताय नियुक्तायाऽऽप्रीताय पर्यग्निकृताय विशसितारं न विविदुः स होवाचाजीगर्तः सौयवसिर्मह्यमपरं शतं दत्ताहमेनं विशसिष्यामीति तस्मा अपरं शतं ददुः सोऽसिं निशान एयाय । अथ ह शुनःशेप ईक्षाञ्चक्रेऽमानुषमिव वै मा विशसिष्यन्ति हन्ताहं देवता उपधावामीति स प्रजापतिमेव प्रथमं देवतानामुपससार कस्य नूनं कतमस्यामृतानामित्येतयर्चा । तं प्रजापतिरुवाचाग्निर्वैदेवानां नेदिष्ठस्तमेवोपधावेति सोऽग्निमुपससाराग्नेर्वयं प्रथमस्यामृताना-मित्येतयर्चा । तमग्निरुवाच सविता वै प्रसवानामीशो तमेवोपधावेति स सवितार-मुपससाराभि त्वा देव सवितरित्येतेन तृचेन । तं सवितोवाच वरुणाय वै राज्ञे नियुक्तोऽसि तमेवोपधावेति स वरुणं राजानमुपससारात उत्तराभिरेकत्रिंशता । तं वरुणम् उवाचाग्निर्वै देवानां मुखं सुहृदयतमस्तं नु स्तुह्यथ त्वोत्स्रक्ष्याम इति सोऽग्निं तुष्टावात उत्तराभिर्द्वाविंशत्या । तमग्निरुवाच विश्वान्नु देवान् स्तुह्यथ त्वोत्स्रक्ष्याम इति स विश्वान् देवांस्तुष्टाव नमो महद्भ्यो नमो अर्भकेभ्य इत्येतयर्चा । तं विश्वेदेवा ऊचुरिन्द्रो वै देवानामोजिष्ठो बलिष्ठः सहिष्ठः सत्तमः पारयिष्णुतमस्तं नु स्तुह्यथ त्वोत्स्रक्ष्याम इति स इन्द्रं तुष्टाव यच्चिद्धि सत्य सोमपा इति चैतेन सूक्तेनोत्तरस्य च पञ्चदशभिः । तस्मा इन्द्रः स्तूयमानः प्रीतो मनसा हिरण्यरथं ददौ तमेतया प्रतीयाय शश्वदिन्द्र इति । तमिन्द्र उवाचाश्विनौ तुष्टावात उत्तरेण तृचेन । तमश्विना ऊचतुरुषसं नु स्तुह्यथ त्वोत्स्रक्ष्याम इति स उषसं तुष्टावात उत्तरेण तृचेन । तस्य ह स्मर्यृच्युक्तायां विपाशो मुमुचे कनीय ऐक्ष्वाकस्योदरं भवत्युत्तमस्यामेवच्युक्तायां विपाशो मुमुचेऽगद ऐक्ष्वाक आस । अयास्य एवं सामगो ऽयास्यसामगः साम गायतीति सामग उद्गातेत्यर्थः । आत्मा परमात्माऽस्यास्तीति आत्मवान् ॥ ७७ ॥
सत्यधर्मीया
तस्मिन्यज्ञे आत्मवान्मनस्वी जमदग्निरध्वर्युरभूत् । वसिष्ठो ब्रह्मजो ब्रह्माऽयास्यसामगः । अयास्येति लुप्वसुकं पदम् । अयास्यः सामग उद्गाता । अयास्य एव सामगोऽयास्यसामग इति वा ॥ ७७ ॥
छलारी
तस्मिन्यज्ञे आत्मवानात्मज्ञानी जमदग्निरध्वर्युरभूत् । वसिष्ठो ब्रह्माऽभूदित्यनु-षङ्गः । आयास्य सामग इत्यत्र विसर्गलोपश्छान्दसः । आयास्यो मुनिः सामग इत्यर्थः । कर्मधारयो वा । सामं गायतीति सामग उद्गातेत्यर्थः ॥ ७७ ॥
तस्मै तुष्टो ददाविन्द्रः शातकुम्भमयं रथम् ।
शुनःशेपस्य माहात्म्यमुपरिष्टात् प्रचक्ष्यते ॥ ७८ ॥
पदरत्नावली
तस्मै शुनःशेपाय । उपरिष्टाचतुर्दशेऽध्याये तत्र विश्वामित्रपुत्रप्रस्तावे
॥ ७८ ॥
सत्यधर्मीया
शातकुम्भमयं सुवर्णात्मकं रथं ददौ । मनसा यदा यमपेक्षते तदागच्छन्तम् । शातकौम्भमयमिति पाठे स्वार्थेऽण्प्रत्ययः । उपरिष्टाच्चतुर्दशेऽध्याये तत्र विश्वामित्रपुत्रप्रस्तावे ॥७८॥
छलारी
तस्मिन्यज्ञे शुनःशेपनामकपुरुषपश्वालम्भनसमये शुनःशेपेन क्रियमाणं स्तोत्रं श्रुत्वा तन्माहात्म्यं दृष्ट्वा सन्तुष्टो देवेन्द्रस्तस्मै शुनःशेपाय सुवर्णमयं रथं ददावित्यर्थः । उपरिष्टात्प्रचक्षते चतुर्दशेऽध्याये ॥ ७८ ॥
सत्यसारं धृतिं दृष्ट्वा सभार्यस्य च भूपतेः ।
विश्वामित्रो भृशं प्रीतो ददावविहतां गतिम् ॥ ७९ ॥
पदरत्नावली
हरिश्चन्द्रे गुणान् दृष्ट्वा सन्तुष्टो विश्वामित्रो ज्ञानोपदेशं चकारेत्याह– सत्यसारमिति ॥ भार्यया सहितस्य भूपतेः सत्यसारं सत्ये सज्जनहितकरवचने सारं सारत्वं, दार्ढ्यमित्यर्थः । ‘यत् सतां हितमत्यन्तं तत् सत्यमिति कीर्तितम्’ इति वचनात् । धृतिं लौकिकमार्गादचलनरूपं धैर्यं दृष्ट्वा । भार्याया अप्येतद्वयमस्तीति प्रकाशनाय सभार्यस्येत्युक्तम् । अविहतां कुतर्कैरप्रतिषिद्धां गतिं ज्ञानलक्षणां विद्याम् ॥ ७९ ॥
सत्यधर्मीया
गुणपात्रमात्रप्रेमा विश्वामित्रो वधोज्ञां(?) विद्यामुपदिदेश हरिश्चन्द्रमित्याह ॥ सत्यसारमिति ॥ ‘यत्सतां हितमत्यन्तं तत्सत्यमिति कीर्तितम्’ इति वचनात् सद्धिते सारं स्थिरांशम् । सारो बले स्थिरांशे चेति विश्वः । धृतिं विपदि धैर्यं सभार्यस्य भूपतेः । अनेन साऽपि तत्सहधर्मिणीति द्योत्यते । अविहतां गतिमतिबद्धां विद्यां ज्ञानं वा ॥ ७९ ॥
छलारी
हरिश्चन्द्रे गुणान्दृष्ट्वा विश्वामित्रो ज्ञानोपदेशं चकारेत्याह ॥ सत्यसारमिति ॥ सत्यसारं सत्ये सद्धिते सारं सारत्वं दार्ढ्यमित्यर्थः । यत्सतां हितमत्यन्तं तत्सत्यमिति कीर्तितमिति वचनात् । धृतिमलौकिकमार्गादचलनरूपं धैर्यम् । अविहतां कुतर्कैरप्रतिहताम् ॥ ७९ ॥
मनः पृथिव्यां तामद्भिस्तेजसाम्भोऽनिलेन तत् ।
खे वायुं धारयंस्तं च शब्दादौ तन्महात्मनि ॥ ८० ॥
पदरत्नावली
उपासनाकाले मनआदितत्त्वानां जडानां स्वस्वकारणेषु जडेषु तत्त्वेषु विलयस्तदभिमानिदेवानां भिन्नानां भिन्नेषु देवेषु प्रवेशलक्षणो विलयः । स्वरूपाणां स्वस्व-रूपेष्वेकीभावलक्षणश्चिन्तनीय इत्यतस्तं प्रकारमाह– मनः पृथिव्यामिति ॥ अन्नमयं हि सौम्य मन आपोमयः प्राणस्तेजोमयी वाक्’ इति श्रुतेः । अन्नं पृथिवी पार्थिवं मनः पृथिव्यां विलीय-तेति मनो धारयंस्तां पृथिवीमद्भिरप्सु लीनामिति । अद्भिरिति तृतीया सप्तम्यर्थे । तदम्भस्तेजसा संह्रियते । तत् तेजोऽनिलेन ग्रस्यते । तं वायुं खे आकाशे लीनमिति । तच्च खं शब्दा-दावहङ्कारतत्वे तदहङ्कारं महात्मनि महत्तत्त्वे, तदभिमानिनं तदभिमानिन्यात्मनि चतुर्मुखे ब्रह्मणि प्रविष्टम् ॥ ८० ॥
सत्यधर्मीया
उपासनावसरे जडानां भिन्नानां चेतनेषु प्रवेशः । तत्तदात्मकानां तत्तदेकीभावश्चिन्तनीय इत्यतस्तत्प्रकारमाह ॥ मन इति ॥ अन्नमयं हि सौम्य मन इति श्रुतेः । पृथिव्यधिकारेति सूत्रभाष्ये पृथिवी वाऽन्नमित्युक्तेश्चान्नं पृथिवी । तदुपचितं चेतः । पृथिव्यां लीयत इति मनो धारयंस्तां पृथिवीम् । अद्भिरिति तृतीया सप्तम्यर्थे । अप्सु । तदम्भ-स्तेजसाऽग्नौ तत्तेजोऽनिलेन वायौ । अनिले न इवेति वा । तं वायुं खे आकाशे तच्च खं शब्दा-दावाकाशोपादानभूतशब्दस्यादौ कारणेऽहङ्कारतत्त्वे तदहङ्कारं महात्मनि महत्तत्त्वे । महात्मनि तत्त्वमुख्याव्यक्तत्वे । शब्दादाविति वदता पृथिव्याः सोपादानगन्धतन्मात्राद्वारा विलयः । तासां च रसतन्मात्राद्वारा तेजसि तस्य च रूपतन्मात्राद्वाराऽनिले तस्य स्पर्शतन्मात्राद्वारा खे तस्य च शब्दतन्मात्राद्वाराऽहङ्कारतत्त्वे लयश्चिन्तनीय इति विशेषः सूचित इत्यवगन्तव्यम् । विस्तृतं चैतद्द्वितीये ॥ ८० ॥
छलारी
ज्ञानिभिरुत्क्रान्तिकाले पृथिव्यादितत्त्वानां जडानां स्वस्वकारणेषु जडेषु तत्त्वेषु लयस्तदभिमानिदेवानां भिन्नानां भिन्नेषु देवेषु प्रवेशलक्षणो विलयः । तत्तदन्तर्गतभगवद्रूपाणां तत्तदन्तर्गतभगवद्रूपेष्वेकीभावलक्षणो विलयश्चिन्तनीय इति सज्जनानां शिक्षयितुं विश्वामित्रोपदेशेन प्राप्ततत्त्वज्ञानस्य हरिश्चन्द्रस्योत्क्रान्तिकाले तत्त्वलयप्रकारं वदन्मुक्तिमाह ॥ मनः पृथिव्या-मिति ॥ अन्नमयं हि सौम्य मन इति श्रुतेः । अन्नं पृथिवी पृथिव्युपचितं मनः पृथिव्यां विलीयत इति मनो धारयन्ध्यानं कुर्वन्नित्यर्थः । तां पृथिवीमप्सु लीनामिति । अम्भो जलं तेजसि लीनमिति । तत्तेजोऽनिले वायौ लीनमिति । तं वायुं खे आकाशे लीनमिति । धारयन्नित्यस्य सर्वत्रानुषङ्गः । तच्च खं शब्दादावाकाशोपादानभूतशब्दकारणेऽहंकारतत्त्वे लीन-मिति । तन्महात्मनीत्यस्यावृत्तिः । तदहंकारतत्त्वं महात्मनि महत्तत्त्वे लीनमिति । तन्महत्तत्त्वं महात्मनि तत्त्वप्रधानेऽव्यक्ततत्त्वे लीनमिति ध्यायन् । उक्रान्तोऽभूत् । तच्च शब्दादावित्यनेन पृथिव्याः सोपादानभूतगन्धतन्मात्राद्वाराऽप्सु लयश्चिन्तनीयः । एवमेवापां रसतन्मात्राद्वारा तेजसि । तेजसो रूपतन्मात्राद्वाराऽनिले । अनिलस्य स्पर्शतन्मात्राद्वाराऽऽकाशे । आकाशस्य शब्दतन्मात्राद्वाराऽहंकारतत्त्वे लयश्चिन्तनीय इत्ययं विशेषः सूचित इत्यवगन्तव्यम् । शब्दादिभ्य आकाशादिसृष्टिर् द्वितीयस्कन्धादौ स्पष्टा । भूतादाविति क्वचित्पाठः । तस्मिन्पक्षे भूतादा-वित्यस्याहङ्कारतत्त्व इत्यर्थः ॥ ८० ॥
तस्मिन् ज्ञानकलां ध्यात्वा तया ज्ञानं विनिर्दहन् ।
हित्वा तां स्वेन भावेन निर्वाणसुखसंविदा ।
अनिर्देश्याप्रतर्क्येण तस्थौ विध्वस्तबन्धनः ॥ ८१ ॥
॥ इति श्रीमद्भागवते नवमस्कन्धे सप्तमोऽध्यायः ॥
पदरत्नावली
तस्मिन् महत्तत्वे ज्ञानकलां बुद्धितत्त्वाभिमानिनीं सरस्वतीं ध्यात्वा, तया ब्रह्मसायुज्यभाजा सरस्वत्या तदभिमन्यमानविद्यया ज्ञानस्वरूपचैतन्यं निर्दहन्, तामसस्वरूप-विषयाविद्यां हित्वा विध्वस्तबन्धनं येन स तथा । स हरिश्चन्द्रः स्वभावेन स्वमहिम्ना निवणे शरीररहिते सुखसंविदौ यस्य स तथा तेन सच्चिदानन्देन अनिर्देश्यं चाप्रतर्क्यं च तत् तथा तेन ब्रह्मणा सह तस्थौ ‘सह ब्रह्मणा विपश्चिता इति, ‘आत्मन आकाशः सम्भूतः’ इति च श्रुतेः । शब्दादौ शब्दकारणे महति आत्मनि हरी ज्ञानकलां ज्ञानलक्षणकामधेनुं, ज्ञानानन्दादिगुणपूर्ण इति ध्यात्वा तया तथोपासनया अज्ञानं तन्निमित्तं संसारं भस्मीकुर्वन् तां संसृतिं हित्वा परित्यज्य निर्वाणसुखसंविदा प्राकृतशरीराभोग्यानन्दज्ञानलक्षणेन मादृशैरनिर्देश्याप्रतर्केण स्वेन भावेन स्वरूपभूतैश्वर्येण तस्थाविति वा ॥ ८१ ॥
॥ इति श्रीमद्भागवतटीकायां विजयध्वजतीर्थभिक्षुकृतायां नवमस्कन्धस्य सप्तमोऽध्यायः ॥
सत्यधर्मीया
अहन्तत्त्वाभिमानिनं रुद्रं महत्तत्त्वे तदभिमतिमतिधारति । तस्मिन्महति ज्ञानकलां तदभिमानिनीं सरस्वतीम् । तन्महात्मनि सर्वेश्वरे हरौ । ज्ञानकलां ज्ञानांशम् । प्रतिपत्तिविवक्षयांऽशशंसनं ज्ञेयम् । ज्ञानपदं सर्वगुणोपलक्षणम् । ज्ञानानन्दादिगुणानिति वा । तया ब्रह्मसायुज्यभाजा सरस्वत्या तदभिमन्यमानज्ञानेनाज्ञानं निर्दहन् । ततो भगवज्ज्ञान-कलापरोक्षीकरणानन्तरं तयाऽपरोक्षदृशाऽज्ञानं तद्धेतुकां संसृतिं निर्दहन् तां संसृतिरूपां लिङ्गाङ्गं हित्वा स्वेन भावेन भक्त्या विध्वस्तं समस्तबन्धनं येन स तथा सन् निर्बाणसुखसंविदा प्राकृत-शरीराभोग्यसुखज्ञानयुतेन स्वभावेन स्वरूपदेहस्थित्याऽनिर्देश्याप्रतर्क्येण हरिणा सह तस्थौ । सान्तानिकनामलोकेषु जीवन्मुक्तः संस्तस्थौ । मुक्ततुल्योऽभूदिति भावः । एतद्बाणमवष्टभ्य विधारयामीत्यादेर्बाणं शरीरम् । अनिर्देश्याप्रतर्क्यं स्वस्वरूपं तेन तस्थाविति वा । उक्तमुक्त-शरीरस्य पूर्वमनिर्देश्याप्रतर्क्यतासम्भवादिति ॥ ८१ ॥
॥ इति श्रीसत्यधर्मयतिकृतायां भागवतटिप्पण्यां नवमस्कन्धे सप्तमोऽध्यायः ॥
छलारी
ततः किं चकारेत्यतोऽपि प्राप्तम् ॥ तन्महात्मनीति ॥ तेषां तत्त्वानां मुख्यतो नियामके तस्मिन्हरौ । ज्ञानकलां ज्ञानांशम् । ज्ञानपदं गुणान्तरोपलक्षकम् । ज्ञाना-नन्दादिगुणानिति यावत् । ध्यात्वा स्वयोग्यगुणोपसंहारपूर्वकं ध्यात्वेत्यर्थः । ततस्तमपरोक्षतो दृष्ट्वेति शेषः । तयाऽपरोक्षदृशाऽज्ञानमज्ञाननिमित्तां संसृतिं विनिर्दहंस्तां लिङ्गशरीरलक्षणां संसृतिं हित्वा विध्वस्तबन्धनो मुक्ताविद्यादिबन्धनः सन् । निर्बाणे । बवयोरभेदात् । निर्वाणे प्राकृत-शरीराजन्ये । स्वरूपभूत इति यावत् । सुखसंविदौ यस्य स तथा । तेनानिर्दिश्येनेदं मुक्त-स्वरूपमेतादृशमिति निर्देष्टुमशक्येन लोकविलक्षणेन स्वभावेन स्वरूपेण सान्तानिकलोकेषु जीवन्मुक्तः सन् तस्थौ । मुक्ततुल्योऽभूदित्यर्थः । एतद्बाणमवष्टभ्य धारयामीति श्रुतेर्बाणं शरीरम्
॥ ८१ ॥
॥ इति श्रीछलारी शेषाचार्यकृतायां भागवतटिप्पण्यां नवमस्कन्धे सप्तमोऽध्यायः ॥