नाभागादम्बरीषोऽभून्महाभागवतः कृती
॥ अथ षष्ठोऽध्यायः ॥
श्रीशुक उवाच–
नाभागादम्बरीषोऽभून्महाभागवतः कृती ।
नास्पृशद् ब्रह्मशापोऽपि चक्रप्रतिहतः क्वचित् ॥ १ ॥
पदरत्नावली
कृतं पूर्णं ब्रह्मास्यास्तीति कृती सुकृती वा । चक्रेण सुदर्शननाम्ना प्रतिहतो निरस्तः ॥ १ ॥
सत्यधर्मीया
नाभागादम्बरीषस्तन्नामा कुमारोऽभूत् । अनेन रुद्रद्रविणवितरणानन्तरं सकृद्विवाहो गृहस्थाश्रमधर्म इति कटाक्षयति । कृती सुकृती । कुशल इति यावत् । क्वचि-त्कदाचिद्ब्रह्मशापः । अपिनेतरापारणीयतां तस्येरयति । चक्रप्रतिहतः । नास्पृशन्न बबाधे ॥१॥
छलारी
नवमस्य वंशमाह ॥ नाभागादिति । क्वचिदपि । प्रतिहत इति शेषः । ब्रह्मशापोऽपि ब्राह्मणेन दुर्वाससा निर्मितः कृत्यानलोऽपि चक्रप्रतिहतश्चक्रेण सुदर्शननाम्ना प्रतिहतो निरस्तः सन्नास्पृशत् । यमिति शेषः । अतोऽसौ महाभागवतोऽत एव कृती । महापुण्यवांश्चेति यावत् । कोपजन्यत्वविशेषाद्ब्रह्मशाप इत्युक्तम् ॥ १ ॥
राजोवाच–
भगवन् श्रोतुमिच्छामि राजर्षेस्तस्य धीमतः ।
न प्राभूद् यत्र निर्मुक्तो ब्रह्मदण्डो दुरत्ययः ॥ २ ॥
सत्यधर्मीया
स ब्राह्मणः कः, कीदृशश्च शापः, कथं स च चक्रप्रतिहत इदं केनापि प्रकारेणापहार्यम् । ऋषिकुमारशापस्य ममेदं चित्तं चित्रयति तव्द्यासपुत्र सम्यक् कीर्तयेति परीक्षि-त्पृच्छतीत्याह ॥ राजेति ॥ यत्र यस्मिन्दुरत्ययो ब्रह्मदण्डो निर्मुक्तो न प्राभूत्समर्थो न बभूव । धीमतो राजर्षेः कर्म श्रोतुमिच्छामीति ॥ २ ॥
छलारी
तस्य श्रोतुमिच्छामि । चरितमिति शेषः । ब्रह्मदण्डो दुर्वाससा प्रयुक्तः कृत्यानलो न प्राभून्न समर्थो बभूव ॥ २ ॥
श्रीशुक उवाच–
अम्बरीषो महाभागः सप्तद्वीपवतीं महीम् ।
अव्ययां च श्रियं लब्ध्वा विभवं चातुलं भुवि ॥ ३ ॥
पदरत्नावली
प्रथमतस्तस्य विरक्तिमाह– अम्बरीष इति ॥ मह्यादिकं तत्सर्वं स्वप्नसम्मितं स्वप्नवदनित्यं मेन इत्यन्वयः । अव्ययां दीर्घकालीनां विभवं हिरण्यादिलक्षणम् । अनेनाम्बरीषशब्दार्थोऽपि सूचितः, स आविष्करिष्यते । अम्बादिकं रीषं नश्वरमिति ज्ञान-मस्यास्तीत्यम्बरीषः, रुष रिष हिंसायाम्, मत्वर्थे अच्प्रत्ययः । अम्बरवदीषा इच्छा यस्य स तथा । आकाशवद् बहुलज्ञान इत्यर्थः, व्यत्यासश्छान्दसः । अं ब्रह्म तस्य वरिर्वरणं तत्रेच्छा यस्य स तथा ॥ ३ ॥
सत्यधर्मीया
महाभागवत इति प्रागभिहितं तदेवमिति तदुपयुक्तां विरक्तिं वक्ति ॥ अम्बरीष इति ॥ अव्ययां श्रियं दीर्घकालिकीं सम्पदम् । विभवो निभृतिरस्यास्तीति । विभवो भृत्यवर्गस्तं चातुलं लब्ध्वा । विभवो निभृतौ धन इति विश्वः । अनेन श्रियमित्यनेन नास्य पुनरुक्तता । सामान्यविशेषभावश्चागतिका गतिरिति सुधाभिधाना क्लिष्टः । सोऽप्यावश्यक इति श्लिष्टः । विविधं भवो भवनं यस्य तं पुत्रादिकमतुलमिति वा ॥ ३ ॥
छलारी
प्रथमतस्तस्य विरक्तिमाह ॥ अम्बरीष इति ॥ पुंसामपि दुर्लभमपि मह्यादिकं तत्सर्वं स्वप्नसम्मितं स्वप्नवदनित्यं मेनेत्यन्वयः । अव्ययां दीर्घकालीनां श्रियं कोशादिसम्पदं विभवं राजादिविभवम् ॥ ३ ॥
मेनेऽतिदुर्लभं पुंसां सर्वं तत् स्वप्नसम्मितम् ।
विद्वान् विभवनिर्वाणं तमो विशति यत् पुमान् ॥ ४ ॥
पदरत्नावली
एतदेव स्पष्टयति– विद्वानिति ॥ कथम्भूतः विभवनिर्वाणम् । हिरण्यादिसम्पदां नाशं क्षणिकत्वं विद्वान् पुमान् यद् यस्माद् विभवान्मुग्धस्तमो विशति ॥३,४॥
सत्यधर्मीया
पुंसामितरेषां विभवनिर्वाणं संसाराद्विभवान्निर्वाणं मोक्षमतुलं विद्वान् । तत्सर्वं मह्यादिकं स्वप्नसंमितमस्थिरं मेन इत्यन्वयः । तत्सर्वं कुर्वत्किमित्यत आह । यद्येन पुमान् अधिकारी स्थिरतया विहितेन तमो विशति तत्सर्वमिति ॥ ४ ॥
छलारी
एतदेव स्पष्टयति ॥ विद्वानिति ॥ कथम्भूतः ॥ विभवनिर्वाणम् । हिरण्यादि सम्पदां नाशं विद्वान् । जानन् यद्येन विभवेन पुमांस्तमो विशति मोहे मज्जतीत्यर्थः ॥ ४ ॥
वासुदेवे भगवति तद्भक्तेषु च साधुषु ।
प्राप्तो भावं परं विश्वं येनेदं लोष्ठवत् स्मृतम् ॥ ५ ॥
पदरत्नावली
परं भावमुत्कृष्टां भक्तिम् । येनाम्बरीषेण इदं विश्वं लोष्ठवत् पांसुपिण्डवत् स्मृतम् । येन भावेन वा ॥ ५ ॥
सत्यधर्मीया
भावो भक्तिरित्यादेः परं भावं महतीं भक्तिम् । प्राप्तः । येन भावेनेदं विश्वं लोष्ठवत्पांसुपिण्डवत्स्मृतम् ॥ ५ ॥
छलारी
पुनः कथम्भूतः । परं भावमुत्कृष्टभक्तिं प्राप्तः । येन भावेनेदं विश्वं समस्तं सुवर्णादिकं लोष्ठसदृशं स्मृतं बभूव ॥ ५ ॥
स वै मनः कृष्णपदारविन्दयोर्वचांसि वैकुण्ठगुणानुवर्णने ।
करो हरेर्मन्दिरमार्जनादिषु श्रुतिं चकाराच्युतसत्कथोदये ॥ ६ ॥
पदरत्नावली
उत्कृष्टभक्तिमतः प्रवृत्तिं दर्शयति– स वा इति ॥ ६ ॥
सत्यधर्मीया
स्मर्तॄणामंहोनिर्हरणं भवतीति तत्कृत्यं वितत्य वक्ति ॥ स वा इति ॥ यद्यपि हरेरित्येकयोक्त्या मनआदीनां तदीयत्वे ज्ञातुं सुशके पुनस्तत्र तत्र कृष्ण वैकुण्ठाच्युत मुकुन्देत्याद्युक्तिः सर्वथेतरत्र नैतद्वियोगः कार्य इति द्योतनार्थं स इति ज्ञेयम् । सत्कथोदये तच्छ्रवणे । महामन्त्ररूपता कथायास्तत्र नियोज्यो दक्षिणः कर्ण इति श्रुतिमित्येकवचनमुपपद्यते
॥ ६ ॥
छलारी
भक्तिमेव सर्वेन्द्रियाणां भगवत्परत्वकथनेन प्रपञ्चयति ॥ स वा इति त्रिभिः । वैकुण्ठो हरिः । अच्युतस्य सत्कथारूपाभ्युदयश्रवणे । श्रुतिं श्रोत्रं चकारेत्यस्य सर्वत्रानुषङ्गः
॥ ६ ॥
मुकुन्दलिङ्गालयदर्शने दृशौ तद्भृत्यगात्रस्पर्शेऽङ्गसङ्गम् ।
घ्राणं च तत्पादसरोजसौरभश्रीमत्तुलस्यां रसनां तदर्पिते ॥ ७ ॥
पदरत्नावली
मुकुन्दस्य लिङ्गं प्रतिमालक्षणं तेन युक्तस्यालयस्य । पादसरोजसौरभेण युक्तायाम् ॥ ७ ॥
दुर्घटभावदीपिका
तद्भृत्यगात्रस्पर्शेऽङ्गमित्यस्येयं योजना । अङ्गसङ्गम् अङ्गानां सर्वाङ्गानां सङ्गः सम्बन्धो यस्य तस्येन्द्रियं तद्भृत्यगात्रस्पर्शार्थं चकारेति पूर्वेणान्वय इति । एतेन स्पर्शेन्द्रियमिति वक्तव्येऽङ्गसङ्गमिति कथनमनुपपन्नमिति दूषणं निरस्तम् । अङ्गसङ्गमित्यस्य सर्वाङ्गसम्बन्धस्य स्पर्शेन्द्रियमित्यर्थ इत्युक्तत्वात् ॥ ७ ॥
सत्यधर्मीया
लिङ्गानि प्रतिमास् तद्युक्तालयस्य । सौरभेण श्रीमती या तुलसी तस्याम् । रसनां जिह्वां तदर्पितेऽन्ने ॥ ७ ॥
छलारी
मुकुन्दस्य लिङ्गानां शङ्खचक्रादीनामालयाश्चलाचलप्रतिमास्तद्दर्शने । मुकुन्द-लिङ्गानां वेङ्कटेशप्रतिमादीनामालयाः स्थानानि वेङ्कटेशादिक्षेत्राणीत्यर्थः । तेषां दृशौ नेत्रे । तद्भृत्यानां गात्रस्पर्शेऽङ्गमर्दनादौ । अङ्गसङ्गमङ्गानां सङ्गः सम्बन्धो यस्य तत्त्वगिन्द्रियम् । इन्द्रियाणां प्रकृतत्वात् । तत्पादसरोजसौरभश्रीमत्तुलस्यां भगवतः पादसरोजसौरभेण युक्तायां तुलस्यां तदर्पिते तन्निवेदितान्नादौ चकार ॥ ७ ॥
पादौ हरेः क्षेत्रपदानुसर्पणे शिरो हृषीकेशपदाभिवन्दने ।
कामं तु दास्ये न तु कामकाम्यया तथोत्तमश्लोकजनाश्रयां रतिम् ॥८॥
पदरत्नावली
कामकाम्यया विषयतृष्णया । उत्तमश्लोकस्य हरेर्जनानाश्रयतीति उत्तम-श्लोकजनाश्रया ताम् ॥ ८ ॥
सत्यधर्मीया
क्षेत्रपदं तत्स्थानम् । तदनुसर्पणं गमनं तस्मिन् । दास्ये दासत्वे । काममिच्छन् । कामकाम्यया, विषयतृषावैचित्र्यादुक्तिः । उत्तमश्लोकजनानाश्रयतीति सा तथा तां रतिं प्रीतिम् ॥ ८ ॥
छलारी
क्षेत्रपदानुसर्पणे क्षेत्रतीर्थमार्गानुगमने । उत्तमश्लोकस्य हरेर्जनानाश्रयतीति जनाश्रया तां रतिं चकार ॥ ८ ॥
एवं सदा कर्मकलापमात्मनः परेऽधियज्ञे भगवत्यधोक्षजे ।
सर्वात्मभावं विदधन्महीमिमां तन्निष्ठविप्राभिहितः शशास ह ॥ ९ ॥
पदरत्नावली
तस्मिन् हरौ, निष्ठा मनोयोगलक्षणा येषां ते तथा, तादृशैर्विप्रैरभिहितः । कर्मकलापं कर्मसमूहं, सर्वात्मभावं भक्तिं चेति द्वयं भगवति विदधत् ॥ ९ ॥
सत्यधर्मीया
परेऽधियज्ञेऽधोक्षजे भगवति श्रीहरौ । कर्मकलापं तत्समूहम् । सर्वात्म-भावं सर्वात्मना भक्तिं च विदधत्कुर्वाणः न स्वेच्छया किंतु वेदितृमुखत इत्याह ॥ तन्निष्ठ-विप्राभिहित इति ॥ तस्मिन् भगवति निष्ठा येषां ते तैरभिहिस्तच्छिक्षितो महीं शशास । हेत्याश्चर्यम् ॥ ९ ॥
छलारी
आत्मनः स्वस्य कर्मकलापं कर्मसमूहम् । अधियज्ञे यज्ञमधिकृत्य विद्य-मानेऽधोक्षजे विदधत्समर्पयत् । भगवति सर्वात्मना सर्वप्रकारेण भावं भक्तिं च विदधत्कुर्वन् सन् तन्निष्ठैर्भागवतैर्विपै्ररभिहितः शिक्षितः सन् शशास ॥ ९ ॥
ईजेऽश्वमेधैरधियज्ञमीश्वरं महाविभूत्योपचिताङ्गदक्षिणैः ।
ततैर्वसिष्ठासितगौतमादिभिर्विद्वानभिस्रोतमसौ सरस्वतीम् ॥ १० ॥
पदरत्नावली
सरस्वतीमभिस्रोतं सरस्वत्याः स्रोतो जलप्रवाहः स यथाऽभिमुखो भवति तथा सरस्वतीजलमुद्दिश्येत्यर्थः । उपचिता संवर्धिता यज्ञस्याङ्गभूता दक्षिणा येषां ते तथा तैः । ततैर्विद्यासु निपुणैर्वसिष्ठश्चासितश्च गौतमश्चादिर्येषां ते तथा तैः । अधियज्ञं यज्ञेशमीजेऽयजत्
॥ १० ॥
दुर्घटभावदीपिका
अभिस्त्रोतमसौ सरस्वतीमित्यस्येयं योजना । असौ सरस्वतीं सरस्वत्योऽभिस्त्रोतं स्त्रोते स्त्रोतः सम्बन्धि तीरे ईज इत्यन्वय इति । एतेन सरस्वत्यास्तीर इति वक्तव्ये सरस्वतीमाभिस्त्रोतमिति कथनमनुपपन्नमिति दूषणं परिहृतम् । सरस्वतीमिति द्वितीया षष्ठ्यादेशः । अभिस्त्रोतमिति विभक्त्यर्थेऽव्यीभावः । स्त्रोतांसि सकारान्तशब्दवत् स्त्रोते-त्यकारान्तोऽप्यस्ति स च तीरलक्षक इति चाङ्गीकृत्य सरस्वत्यास्तीर इत्यर्थस्योक्तत्वात् ॥१०॥
सत्यधर्मीया
अधियज्ञं यज्ञेशम् । महाविभूत्या महैश्वर्येणोपचिताऽभिवृद्धाऽङ्गदक्षिणा स्वाङ्गभूता दक्षिणा येषां ते तथा तैः । अश्वमेधैस्ततैर्यज्ञशालं व्याप्योपविष्टैः । वसिष्ठश्चासितश्च गौतमश्चेत्येते आदयो येषां ते तथा तैः । सरस्वतीं सरस्वत्या अभिस्रोतम् । स्रोतोंऽबुवेगोऽद्रि-पयोरिति विश्वोक्तस्रोतःशब्दपर्यायोऽयं स्रोतशब्दः । अम्बुवेगाभिमुखम् । विद्वान् असावीजेऽ-यजत् । ततैर्वातवदसङ्गैरिति वा । ततं वीणादिवाद्ये च पवमाने ततः पुनरिति विश्वः ॥१०॥
छलारी
सरस्वतीं सरस्वत्या अभिस्रोतमभिमुखम् । सप्तसु प्रथमा षट्सु द्वितीयेत्युक्तेः । यज्ञनिपुणैर्वसिष्ठादिऋत्विग्भिः कर्तृभिरुपचिता संवर्धिता यज्ञस्याङ्गभूता दक्षिणा येषु तैरश्वमेधैः करणैरधियज्ञं यज्ञाधिष्ठातारमीश्वरमीजे आराधयामासेत्यर्थः ॥ १० ॥
यस्य क्रतुषु गीर्वाणैः सदस्या ऋत्विजो जनाः ।
तुल्यरूपाश्चानिमिषा व्यदृश्यन्त सुवाससः ॥ ११ ॥
पदरत्नावली
तुल्यरूपा रूपयौवनवस्त्राभरणादिभिः समानवेषाः । अनिमिषा उन्मीलित-लोचनाः ॥ ११ ॥
सत्यधर्मीया
गीर्वाणैर्गीरेव वाण्येव वाणोऽस्त्रं येषां ते तथा तैः । यस्य क्रतुषु सदस्या ऋत्विजो जनाः समं तुल्यं रूपं येषां ते । अनिमिषा यत्र क्व च यत्किञ्चिद्व्यत्यस्तं न भवेदिति निरीक्षणोन्मीलितलोचनाः सुवाससो व्यदृश्यन्त । येऽनिमिषास्तेषां गीर्वाणैर्वाग्बाणैस्तुल्यं समं रूपं ग्रन्थवृत्तिर्येषां ते तथा । रूपं स्वभावे सौन्दर्ये चालोके पशुशब्दयोः । ग्रन्थवृत्तौ नाटकादाविति विश्वः । क्रतुषु व्यदृश्यंतेति वा ॥ ११ ॥
छलारी
किञ्च यस्य सदस्यादयो गीर्वाणैः सह । तुल्यरूपा रूपयौवनवस्त्रादिभिः समानवेषा व्यदृश्यन्त । न च देवानां निमेषाभावादेतेषां तद्भावाद्वैलक्षण्यमिति वाच्यम् । यतोऽ-निमिषाश्च व्यदृश्यन्त । परमाश्चर्यदर्शनेन तेषां निमेषोपरमादिति भावः । यस्येत्यस्य स इत्थमिति चतुर्थेनान्वयः ॥ ११ ॥
स्वर्गो न प्रार्थितो यस्य मनुजैरमरप्रियः ।
शृण्वद्भिरुपगायद्भिरुत्तमश्लोकचेष्टितम् ॥ १२ ॥
पदरत्नावली
यस्याम्बरीषस्य मनुजैरमरप्रियः स्वर्गोऽपि न प्रार्थित इत्यन्वयः । तत्र किं कारणमिति तत्राह– शृण्वद्भिरिति ॥ अनेन मुकुन्दचरितश्रवणगायनाभ्यामधिकं स्वर्गसुखं न भवत्यतः स्वर्गो न प्रार्थित इत्युक्तम् ॥ १२ ॥
सत्यधर्मीया
यस्य मनुजैर्यद्देशनिवासिमानवैरमरप्रियः स्वर्गोऽपि न प्रार्थितः । तदपेक्षया सुखविकासकारणमाह ॥ शृृण्वद्भिरित्यादिना ॥ १२ ॥
छलारी
यस्य मनुजैर्यदीर्यैर्मनुजैरपि स्वर्गोऽपि न प्रार्थितः । तस्य तु का कथा तत्र किं कारणमित्यत आह ॥ शृृण्वद्भिरिति ॥ अनेन मुकुन्दचरितश्रवणादिभ्योऽधिकं स्वर्गसुखं न भवति । अतः स्वर्गो न प्रार्थित इत्युक्तं भवति ॥ १२ ॥
समृद्धा यस्य नो कामाः स्वाराज्यपरिभाविताः ।
दुर्लभा अपि सिद्धानां मुकुन्दं हृदि पश्यतः ॥ १३ ॥
पदरत्नावली
यस्य काम्यन्त इति कामा विषयभोगा नो (अपेक्षिताः)अल्पत्वान्न वाञ्छिता इति नेत्याह– समृद्धा इति ॥ भोगेच्छूनामलम्बुद्धिविषया भवन्तीत्यर्थः । समृद्धौ निमित्तमाह– स्वाराज्येति ॥ स्वाराज्येन स्वराज्ये स्वरूपभूतैश्वर्येण परिभाविताः प्रचिताः । अत एवास्य सुलभत्वेऽप्यन्येषां दुर्लभा इत्याह– दुर्लभा इति ॥ अत्रापीदमेव निमित्तमाह– मुकुन्दमिति ॥ १३ ॥
सत्यधर्मीया
स्वाराज्यपरिभाविताः स्वाराज्यं स्वर्गसम्पदादिकं परिभावितं तिरस्कृतं यैस्ते । दुर्लभा अपीतरेषां कामा विषयाः सिद्धानामेकान्तिनामिवेति लुप्तोपमा । मुकुन्दं हृदि पश्यतो यस्याम्बरीषस्य समृद्धा नो नाभूवन्निति योजना । अपिसिद्धानां ये गर्हिताः सिद्धास्तथा भासमानास्ते स्वाराज्यपरिभाविता दुर्लभा इतरैः समृद्धास्तेऽपि मुकुन्दं हृदि पश्यतो यस्य कामाः काम्या अपेक्षणीया नो इति वा ॥ १३ ॥
छलारी
मुकुन्दं हृदि पश्यतो यस्य । यस्येति षष्ठी तृतीयार्थे । येन समृद्धा अपि कामा नो वाञ्छिताः । कथम्भूताः । स्वाराज्येन स्वरूपसुखेन परिभावितास्तिरस्कृताः । अस्य सुलभत्वेऽप्यन्येषां दुर्लभा इत्याह ॥ दुर्लभा इति ॥ १३ ॥
स इत्थं भक्तियोगेन तपोयुक्तेन पार्थिव ।
स्वधर्मेण हरिं प्रीणन् सङ्गान् सर्वाञ्छनैर्जहौ ॥ १४ ॥
सत्यधर्मीया
हृषीकेशविषयं यज्ज्ञानं तत्फलमालपति ॥ स इति ॥ तपोयुक्तेन कायक्लेशसहितेनालोचनेन युतेन वा । प्रीणन्प्रीणयन्सर्वान्सङ्गान् स्वधर्महिंसकान्सङ्गान् दारादि-द्वारकान् । शनैर्जहौ । शनैरिति झडिति तेषां त्यागोऽसुलभ इति द्योतयति । शनैः स्वैरैर्मुनिभिरित्थमुपदिष्ट इति वा । शनैः शनैश्चरे स्वैर इति विश्वः ॥ १४ ॥
छलारी
एवं भगवदाराधनपरस्य कामादित्यागो नैव चित्रमित्युपसंहरति ॥ स इति ॥ स्वधर्मेण प्रजापालनलक्षणेन सर्वान्सङ्गान्वित्तेषणादीन् ॥ १४ ॥
गृहेषु दारेषु सुतेषु बन्धुषु द्विपोत्तमस्यन्दनवाजिपत्तिषु ।
अक्षय्यरत्नाभरणायुधादिष्वनन्तकोशेष्वकरोदसन्मतिम् ॥ १५ ॥
पदरत्नावली
कथं जहावित्यत्राह– गृहेष्विति ॥ असन्मतिम् असन्त्यमङ्गलानि अनर्थकराणीति मतिं बुद्धिं चकार ॥ १५ ॥
सत्यधर्मीया
बहुवचनेन सङ्गबाहुविध्यं सूचितम् । तत्किञ्चिद्विविच्याह ॥ गृहे-ष्वित्यादिना ॥ अनन्तकोशेष्वपरिमितैतदादिधनसद्मसु । असन्मतिमसन्तोऽस्थिरा इति मतिम-करोत् । अनन्तकोऽनन्तो हरिरेव कं सुखरूपो यस्यानन्तेन कं यस्य स वा । अनन्तको मनोवचनकर्मणाऽहिंसको वाऽशेष्वशनेष्वपीति वा । अशेषु न विद्यते शं सुखं यैस्तेषु दुःखदेषु प्राप्तेषु तत्राप्यसन्मतिमकरोदिति वा ॥ १५ ॥
छलारी
तदेव विशदयति ॥ गृहेष्विति ॥ द्विपोत्तमा गजोत्तमाः । असन्मति-ममङ्गलान्यनर्थकराणीति मतिं बुद्धिं चकार ॥ १५ ॥
तस्मा अदाद्धरिश्चक्रं प्रत्यनीकभयावहम् ।
एकान्तभक्तियोगेन प्रीतो भूत्वाऽभिरक्षणम् ॥ १६ ॥
पदरत्नावली
अपरोक्षज्ञानित्वेऽपि यावद्देहं मोक्षासम्भवादुद्रिक्तभक्तिभास्करादुत्फुल्लहृदया-म्बुजस्य हरेरम्बरीषेऽनुग्रहविशेषं दर्शयितुमाह– तस्मा इति ॥ प्रत्यनीकानि प्रतिभटसैन्यानि, तेषाम् । चक्रं चमूर्वरूथिन्यनीकिनी स्यादनीकं च इति हलायुधः ॥ १६ ॥
सत्यधर्मीया
चक्रवर्तीति पार्थिवप्रथना वृथाभाव्येत्येतदाराधनाद्बोधितकरुणपरवश ईश ममेतरानङ्कुरितमनुग्रहमकरोदित्याह ॥ तस्मा इति ॥ प्रत्यनीकानि प्रतिभटसेनास्तेषाम् । अनीकं तु रणे सैन्य इति विश्वः । तन्निमित्तमेकान्तभक्तियोगेन प्रीतो भूत्वेति वा । न केवलं तेनानिष्टनष्टिः किन्तु तदिष्टलाभश्चेत्याह । अभिरक्षणमभितो रक्षणं येन तत् । अभिरक्षयतीति तत्तथेति वा ॥ १६ ॥
छलारी
एतादृशेऽम्बरीषे हरेरनुग्रहविशेषं कथयति ॥ तस्मा इति ॥ भृत्याभिरक्षणं भक्तरक्षणं चक्रम् । तस्मै अदादित्यन्वयः । प्रत्यनीकं शत्रुसैन्यम् ॥ १६ ॥
आरिराधयिषुः कृष्णं महिष्या तुल्यशीलया ।
युक्तः सांवत्सरं वीरो दधार द्वादशीव्रतम् ॥ १७ ॥
पदरत्नावली
लोकशिक्षाप्रकटनार्थं सांवत्सरमित्युक्तं, न त्वन्यकालनिषेधार्थम् । अन्यथा भक्तिलोपः प्रसज्येत ॥ १७ ॥
दुर्घटभावदीपिका
कृष्णमारिराधयिषुर्वीरोऽम्बरीषस्तुल्यशीलया महिष्या युक्तः । सन् प्रतीत्यादीनां शेषः । सांवत्सरम् । दीर्घश् छान्दसः । प्रतिसंवत्सरं कार्तिके मासि द्वादशीव्रतं द्वादश्युपलक्षितदशम्यादि दिनत्रयव्रतं दधार करिष्य इति । सङ्कल्पं कृतवानिति यावत् । प्रतिपक्षं त्रिरात्रं दशम्यां रात्रावेकादश्यां दिवारात्रौ च द्वादश्यां रात्रौ समुपोषितः सन् व्रतान्ते कार्तिके मास्युत्सवं चकार । कदाचित्कस्मिंश्चित्संवत्सरे कार्तिकशुद्धद्वादश्यां कालिन्द्यां स्नातः सन् मधुवने हरिमर्चयदिति । एतेन दशम्यादि दिनत्रयव्रतस्य सर्वदा कर्तव्यत्वात्सांवत्सरव्रतं दधारेत्यनुपपन्नमिति दूषणं परास्तम् । प्रतिसंवत्सरं संवत्सरसमाप्तिपर्यन्तं दशम्यादि दिनत्रयव्रतं करिष्य इति कार्तिककृष्णदशम्यां सङ्कल्पं कृतवानित्यर्थ इत्यभ्युपगमात् । एतेनैव प्रतिपक्षं दशम्यादि दिनत्रयव्रतस्य कर्तव्यता । व्रतान्ते कार्तिके मासि त्रिरात्रं समुपोषित इति वचन-मयुक्तमिति दूषणं परिहृतम् । प्रतिपक्षं दशम्यादि दिनत्रये उपवासं संवत्सरपर्यन्तं कृत्वा संवत्स-रान्ते कार्तिकशुद्धद्वादश्यामुत्सवः कृत इत्युज्यत इत्यङ्गीकारात् । एतेनैव दशम्यां द्वादश्यां च भोजनस्य कर्तव्यत्वात् । त्रिरात्रं समुपोषित इत्यनुपपन्नमिति दूषणं निरस्तम् । त्रिरात्रं समु-पोषित इत्यनेन दशम्यां द्वादश्यां च रात्रावेवोपासः कृत इत्युच्यत इत्यभ्युपगमात् ॥१७,१८॥
सत्यधर्मीया
आरिराधयिषुः पुनः प्रकारान्तरेणाराधनं कर्तुमिच्छुः । तुल्यशीलया तुल्यं शीलं स्वभाव आचारो वा यस्याः सा । तया महिष्या भार्यया सह । सांवत्सरं संवत्सर-सम्बन्धिसङ्कल्पविशेषतो व्रतविशेष एवायं न तु संवत्सर एवानन्तरं नेति नेत्यर्थः । द्वादशी-व्रतम् । दशम्यामेकवारं भुक्तिरेकादश्यामुपोषणम् । साधनसाधनमेका भुक्तिर्द्वादश्याम् । त्रयोदश्या-मनुपारणं चेति द्वादशीव्रतम् । दधार सङ्कल्पपूर्वकं स्वीकृतवान् । एवं व्रतवृतोऽपि क्षितिरक्षणक्षम इति बोधयति । वीर इति ॥ १७ ॥
छलारी
तदेवं तस्य वैराग्यादिकं भक्तिं चोक्त्वा ब्रह्मदण्डो यत्र न प्राभूदिति यदुक्तं तदेव द्वादशीव्रतनिष्ठां कथयन्नाह ॥ आरिराधयिषुरित्यादिना । कृष्णमारिराधयिषुराराधनं कर्तुमिच्छुर्वीरो वरिष्ठो महिष्या भार्यया युक्तः सन् प्रतिपक्षं दिनत्रयव्रतम् । कुर्वन्नपीति शेषः । सांवत्सरं संवत्सरसम्बन्धि । प्रतिसंवत्सरमेकस्मिन्मासे महोत्सवेन क्रियमाणमिति यावत् । द्वादशीव्रतं दशम्यादिदिनत्रयव्रतम् । कार्तिके मासि शुक्लद्वादश्यां दधार । बहुकालं वक्ष्यमाणरीत्या महाभिषेकाद्युत्सवेन चकार ।
अयमाशयः । सर्वदा दिनत्रयव्रतं कुर्वन्नप्ययं जनो वर्षमध्ये एकस्मिन्मासि कार्तिके वा श्रावणे वोत्सवं कुर्यात् । तत्र मण्टपनिर्माणं क्षेत्रविधानेन हरेः पूजां ब्राह्मणभोजनं स्वयं च पारणं कुर्यादिति विधिरिति । एतत्तु नारायणपण्डिताचार्यैर्योगदीपिकायामुक्तमस्ति । नित्यं सम्प्रीतये विष्णोराचरन्वासरव्रतम् । कार्तिके श्रावणे मासे माघे वा पूजयेद्धरिम् । इत्यादिना चतुर्षु पटलेषु विस्तरेणाभिहितम् । अनेन यावज्जीवं त्रिदिनात्मकैकादशीव्रतं कुर्वन्नपि प्रतिसंवत्सरमुक्त-मासेष्वन्यतरमासेषु संवत्सरव्रतान्ते एकादश्युद्यापनरूपहरिपूजारूपोत्सवं समाप्य पुनरारम्भं कुर्यादित्युक्तं भवति ॥ तदुक्तं स्कान्दपुराणे– शृृणुष्व नृपशार्दूल एकादश्या व्रतं शुभमित्युपक्रम्य पुरासीद्भगवान्विष्णुर्नारदाय यदुक्तवान् । तत्तेऽहं सम्प्रवक्ष्याम्युद्यापनविधिं शुभम् । मार्गशीर्षादि-मासेषु द्वादशीषु नरोत्तम । आदावन्ते तथा मध्ये व्रतस्योद्यापनं स्मृतम् । उद्यापनं न कुर्याद्यः कुष्टी चान्धश्च जायते । तस्मादुद्यापनं कुर्याद्यथा विभवमादरादिति ॥ १७ ॥
व्रतान्ते कार्तिके मासि त्रिरात्रं समुपोषितः ।
स्नातः कदाचित् कालिन्द्यां हरिं मधुवनेऽर्चयत् ॥ १८ ॥
पदरत्नावली
अर्चयद् आर्चयत् । अडभावश्छान्दसः ॥ १८ ॥
सत्यधर्मीया
त्रिरात्रमुक्तप्रकारेण । सङ्ख्यापूर्वकत्वादच् । व्रतान्ते संवत्सरान्ते कालिंद्यां सूर्यतनयायां यमुनायां स्नातः । मधुवनेऽर्चयदाचर्यत् ॥ १८ ॥
छलारी
तत्कृतं पूजाविशेषं प्रपञ्चयति ॥ व्रतान्त इति ॥ त्रिरात्रं त्रिदिनात्मकं व्रतम् । सर्वदा कुर्वन्निति शेषः । कदाचित्कस्मिंश्चित्संवत्सरे । संवत्सरव्रतान्ते कार्तिके शुक्लपक्षे प्रबोधिन्यां समुपोषितः । द्वादश्यां कांलिद्यां यमुनायां स्नातः सन्मधुवने हरिमर्चयत् । अडभावश् छान्दसः ॥ १८ ॥
महाभिषेकविधिना सर्वोपस्करसम्पदा ।
अभिषिच्य वराकल्पैर्गन्धमाल्यार्हणादिभिः ॥ १९ ॥
पदरत्नावली
संवत्सरव्रतान्ते सर्वसाधनसम्पदा । महाभिषेकविधिना साम्राज्याभिषेक-प्रकारेण । वराकल्पैरुत्तमाभरणैः ॥ १९ ॥
सत्यधर्मीया
सर्वोपस्करसम्पदा । सम्पर्युपेभ्यः करोतेरिति सुट् । सर्वसाधन-सम्पद्युक्तेन महाभिषेकविधिना हरिमभिषिच्य । वराकल्पैरुत्तमाभरणैः । गन्धमाल्यार्हणादिभि-र्गन्धाश्च माल्यानि चेतराण्यर्हणानि योग्यान्यादयो येषां तानि तैः ॥ १९ ॥
छलारी
महाभिषेकविधिना अथात ऐन्द्रो महाभिषेक इति श्रुत्युक्तसाम्राज्याभिषेक-विधिनेत्यर्थः । अभिषिच्य सर्वोपस्करसम्पदा सर्वसाधनसम्पदा । वराकल्पैरुत्तमाभरणैर्गन्ध-माल्यार्हणादिभिर्माल्यानि पुष्पाणि पुष्पदामानि च । माल्यं पुष्पे पुष्पदाममित्यभिधानम् । अर्हणशब्देन धूपदीपनैवेद्यादिसङ्ग्रहः । आदिपदेन गीतवाद्यादिसङ्ग्रहः ॥ १९ ॥
तद्गतान्तरभावेन पूजयामास केशवम् ।
ब्राह्मणांश्च महाभागान् सिद्धार्थानपि भक्तितः ॥ २० ॥
पदरत्नावली
तद्गतान्तरभावेन श्रीहरिनिष्ठमनस्कत्वेन । सिद्धार्थान् कृतकृत्यान् ॥२०॥
सत्यधर्मीया
तद्गतान्तरभावेन तद्गतो हरिसमर्पित आन्तरस्य मनसो भावो वृत्तिर्येन । सिद्धार्थानपि पूर्णकामानपि । एतेनैतद्दययैवार्हणग्रहणं नाभिलाषेणेति सूच्यते । पूजयामासेत्यन्वयः
॥ २० ॥
छलारी
तद्गतान्तरभावेन श्रीहरिनिष्ठमनस्कत्वेन केशवं पूजयामास । सिद्धार्थान्पूजा-नपेक्षानपि ब्राह्मणान् भक्तितः पूजयामासेत्यन्वयः ॥ २० ॥
गवां रुक्मविषाणीनां रूप्याङ्घ्रीणां सुवाससाम् ।
पयःशीलवयोरूपवत्सोपस्करसम्पदाम् ॥ २१ ॥
सत्यधर्मीया
रुक्ममययन्त्रखचितविषाणवतीनाम् । एवमेव रूप्यांघ्रीणाम् ॥ २१ ॥
छलारी
रुग्मविषाणीनां स्वर्णशृृङ्गाणां रूप्याङ्घ्रीणां रूप्यखुरीणाम् । पयःशीलादिसम्पदो यासां तासां गवाम् ॥ २१ ॥
प्राहिणोत् साधुविप्रेभ्यो गृहेषु न्यर्बुदानि षट् ।
भोजयित्वा द्विजानग्रे स्वाद्वन्नं गुणवत्तरम् ॥ २२ ॥
पदरत्नावली
सहस्रकोटिसङ्ख्या न्यर्बुदम् ॥ २२ ॥
सत्यधर्मीया
गृहेषु तावत्सु निर्मितसद्मसु । विप्रेभ्यः षट् न्यर्बुदानि शतकोटिर्न्यर्बुदं तानि षट् प्राहिणोत्प्रेषयामास । धरासुरा धारापूर्वकं सौरभेयादिकं प्रायेण न स्वीकुर्वन्तीत्यभिप्रायेण प्राहिणोदित्युक्तिरिति ज्ञेयम् । अग्रे प्राक् ॥ २२ ॥
छलारी
षट्न्यर्बुदानि । शतकोटिसङ्ख्यान्यर्बुदमित्युच्यते । तादृशेषु षट्न्यर्बुदा-नीत्यर्थः । न्यर्बुदानि षट् । षट् कोटिरिति कश्चिद्व्याख्यातवान् । स्वस्वगृहेषु स्थितेभ्यः प्राहिणो-त्प्रेषयामास । षट् रसोपेतम् ॥ २२ ॥
लब्धकामैरनुज्ञातः पारणायोपचक्रमे ।
तस्य तर्ह्यतिथिः साक्षाद् दुर्वासा भगवानभूत् ॥ २३ ॥
सत्यधर्मीया
लब्धकामैरनुज्ञप्त आज्ञप्तः । तर्हि तदा साक्षाद् दुर्वासा भगवानतिथिरभूत्
॥ २३ ॥
छलारी
तर्हि तदैव दुर्वासा अतिथिः साक्षात्प्रत्यक्षोऽभूत् ॥ २३ ॥
**तमानर्च्यातिथिं भूयः प्रत्युत्थानासनार्हणैः । **
ययाचेऽभ्यवहाराय पादमूलमुपागतः ॥ २४ ॥
पदरत्नावली
अभ्यवहाराय भोजनाय ॥ २४ ॥
सत्यधर्मीया
महाकोपन इति भूय इत्युक्तिः । अभ्यवहाराय भोजनाय ययाचे ॥२४॥
छलारी
आनर्च्यार्चितवान् । अर्हणान्यर्घ्यादीनि । अभ्यवहाराय भोजनाय । पादमूल-मुपागतो नमस्कुर्वन् ॥ २४ ॥
प्रतिनन्द्य स तद्याञ्चां कर्तुमावश्यकं गतः ।
निममज्ज बृहद् ध्यायन् कालिन्दीसलिले शुचौ ॥ २५ ॥
पदरत्नावली
आवश्यकं नित्यकर्म । बृहद् गुणपूर्णं ब्रह्म ॥ २५ ॥
सत्यधर्मीया
स दुर्वासास्तद्यांचाम् अम्बरीषप्रार्थनां प्रतिनन्द्य ओमित्यनुमोदनं कृत्वा । आवश्यकं सन्ध्यादि । बृहद्ब्रह्म वर्तमाने पृषन्महद्बृहज्जगच्छत्रुवच्चेति शत्रन्तवद्भावेन निपातितः गालवमतेन ॥ २५ ॥
सत्यधर्मीया
तद्याञ्चां तत्प्रार्थनारूपं वचनं श्रुत्वा तत्प्रतिनन्द्य । आवश्यकं नित्यकर्म कर्तुं बृहद्गुणपूर्णं ब्रह्म ॥ २५ ॥
मुहूर्तार्धावशिष्टायां द्वादश्यां पारणं प्रति ।
चिन्तयामास धर्मज्ञो द्विजस्तद्धर्मसङ्कटे ॥ २६ ॥
पदरत्नावली
धर्मसङ्कटे धर्मापदि प्राप्तायां सत्याम् ॥ २६ ॥
सत्यधर्मीया
धर्मसङ्कटे धर्मापदि प्राप्तायाम् ॥ २६ ॥
छलारी
धर्मसङ्कटे धर्महानौ प्राप्तायां सत्यां तत् तादृशं धर्मसूक्ष्मं चिन्तयामास ॥२६॥
ब्राह्मणातिक्रमे दोषो द्वादश्यां यदपारणे ।
यत् कृत्वा साधु मे भूयादधर्मो वा न मां स्पृशेत् ॥ २७ ॥
पदरत्नावली
आमन्त्रितब्राह्मणातिक्रमे दोषोऽस्ति, द्वादश्यामपारणे श्रीहरिप्रियद्वादशी-भोजनाकरणे च दोषोऽस्ति यस्मात् तस्माद् यद् कृत्वा मे साधु भूयादुभयदोषपरिहारेण श्रेयः स्यात् । उभयोरेकातिक्रमलक्षणोऽधर्मो वा मां न स्पृशेदिति तद् धर्मसूक्ष्मं द्विजैः सह चिन्तयामास
॥ २७ ॥
सत्यधर्मीया
तमेव सङ्कटं प्रकटयति ॥ ब्राह्मणेति ॥ आमन्त्रितब्राह्मणातिक्रमे च दोषः प्रत्यवायः यद्यस्माद्द्वादश्याम् । तन्मध्येऽपारणे च दोषः । एवमनु सङ्कटद्वये प्राप्ते यत्कृत्वा मम श्रेयो भूयात् । अधर्म एकातिक्रमप्रयुक्तदोषो मां न स्पृशेत् । निमन्त्रितोऽयं मन्त्रपरो नायातः । न च तमतिहाय पारणं कार्यम् । न हापनीया च द्वादश्यतः कथं कर्तव्यमिति द्विजैः सह चिन्तयामास ॥ २७ ॥
छलारी
धर्मसङ्कटमेवाह ॥ ब्राह्मणेति ॥ आमन्त्रितब्राह्मणातिक्रमदोषः श्रीहरिप्रिय-द्वादशीभोजनाकरणे दोषो व्रतवैगुण्यलक्षणो यत्कृत्वा मे साधु भूयादुभयदोषपरिहारेण श्रेयः स्यात् । उभयोरेकातिक्रमलक्षणोऽधर्मो वा मां न स्पृशेदिति । तद्धर्मसूक्ष्मं चिन्तयामासेत्यन्वयः ॥ २७ ॥
अम्भसा केवलेनाद्य करिष्ये व्रतपारणम् ।
आहुरब्भक्षणं विप्रा ह्यशितं नाशितं च यत् ॥ २८ ॥
पदरत्नावली
एवं सञ्चिन्त्य द्विजानां हार्दं स्वहार्दं चैकमेवेत्याशयेनाह– अम्भसेति ॥ केवलेन व्रीह्यन्नरहितेन । तत्र किं प्रमाणमिति तत्राह– आहुरिति ॥ हे विप्रा अब्भक्षणम् अम्भसा पारणम् अशितं भुक्तं पूर्वव्रतधारणार्थं भुक्तं भवति । उत्तरकर्मार्थम् अनशितमभुक्तं भवतीत्याहुर्वेदा इति हि यत् तदिदं युष्माकं च सिद्धं, तस्मात् तेनैव व्रतपारणं करिष्य इत्यन्वयः ॥ २८ ॥
सत्यधर्मीया
स्वयं विपश्चिच्चित्ते निश्चित्य विप्रान्सम्बोध्य प्राह ॥ अम्भसेति ॥ केवलेनान्नामिश्रेणोदकेन व्रतपारणं साधनानतिक्रमसाधनरूपम् । ओदानीं करिष्ये । तेन कथं व्रतानतिक्रमो न अतिक्रमश्च ब्राह्मणस्येत्यत आह ॥ हे विप्रा इति ॥ यद्यस्मादब्भक्षणमशितं नाशितं चेति प्राहुस्ततो न व्रतघातो नापि द्विजं वर्जयित्वा भोजनमिति । वेदाद्या इति शेषः । अपोऽश्नाति वै तन्नैवाशितं तेनैवाशितमिति श्रुतिः । अशितानशिता ह्याप इत्याद्याः स्मृतयश्च । विप्रा मेधाविनः प्राहुरिति वा । हीति श्रुत्यादिप्रसिद्धिमाह ॥ २८ ॥
छलारी
एवं द्विजैः सह विचार्य निश्चिनोति ॥ अम्भसेति ॥ केवलेनान्नरहितेन व्रतपारणं तत्समाप्तिम् । तत्र किं प्रमाणमिति तत्राह ॥ प्राहुरिति ॥ हे विप्राः । अब्भक्षण-मम्भसां पारणमशितं भुक्तम् । पूर्वव्रतपारणार्थं भुक्तं भवतीत्याहुः । वेदा इति शेषः । नाशितमिति न समासः ॥ २८ ॥
इत्यपः प्राश्य राजर्षिश्चिन्तयन् मनसाऽच्युतम् ।
प्रत्याचष्ट कुरुश्रेष्ठ द्विजागमनमेव सः ॥ २९ ॥
पदरत्नावली
ततः किं कृतमिति तत्राह– इतीति । प्रत्याचष्टे प्रत्यैक्षत ॥ २९ ॥
सत्यधर्मीया
राजर्षिरम्बरीषोऽच्युतं मनसा चिन्तयन्नपः प्राश्य स द्विजागमनमेव प्रत्याचष्ट प्रत्यैक्षत ॥ २९ ॥
छलारी
इति विचार्यापः प्राश्याच्युतं चिन्तयन् । अथाऽपि ब्राह्मणः कुपितश्चेत्त्वमेव मम शरणमित्यच्युतं ध्यायन्नित्यर्थः । प्रत्याचष्ट प्रत्यैक्षत ॥ २९ ॥
दुर्वासा यमुनाकूलात् कृतावश्यक आगतः ।
राज्ञाऽभिच्छन्दितस्तस्य बुबुधे चेष्टितं धिया ॥ ३० ॥
पदरत्नावली
धिया ज्ञानदृष्ट्या ॥ ३० ॥
सत्यधर्मीया
कृतमावश्यकं येन सः कृतावश्यकः । अभिछन्दितः स्वमनआनुकूल्येन सत्कृतः । तस्य राज्ञश्चेष्टितं कृतं पानीयपानं धिया बुबुधे विषयीकृतवान् ॥ ३० ॥
छलारी
अभिच्छन्दितः । उत्थानादिनेति शेषः । धिया ज्ञानदृष्ट्या ॥ ३० ॥
मन्युना प्रचलद्गात्रो भुकुटीकुटिलाननः ।
बुभुक्षितश्च सुतरां कृताञ्जलिमभाषत ॥ ३१ ॥
पदरत्नावली
भ्रुकुट्या कुटिलं वक्रमाननं यस्य स तथा ॥ ३१ ॥
सत्यधर्मीया
बुभुक्षित इति सुतरां मन्युना च प्रचलत्कम्पमानं गात्रं शरीरं यस्य सः भ्रुकुट्या भ्रूग्रन्थिना कुटिलम् आननं वक्त्रं यस्य स तथा सन् कृताञ्जलिं राजानमभाषत ॥३१॥
छलारी
मन्युना क्रोधेन भृकुट्या भ्रूविभ्रमेण कुटिलाननेन बुभुक्षितः क्षुधितः ॥ ३१ ॥
अहो अस्य नृशंसस्य श्रियोन्मत्तस्य पश्यत ।
धर्मव्यतिक्रमं विष्णोरभक्तस्येष्टमानिनः ॥ ३२ ॥
पदरत्नावली
अभक्तस्यातिथौ भक्तिशून्यस्य । विप्णोरिष्टमानिनः, अहमिष्ट इत्यभिमान-वतः ॥ ३२ ॥
सत्यधर्मीया
श्रियोन्मत्तस्य नृशंसस्य । धर्मव्यतिक्रमं पश्यत । अहो आश्चर्यम् । विष्णोरभक्तस्य चेदपीष्टमानिनः प्रियोऽहमित्यभिमानवतः ॥ ३२ ॥
छलारी
अभक्तस्यातिथौ भक्तिशून्यस्य । विष्णोरहमिष्ट इत्यभिमानवतः ॥ ३२ ॥
यो मामतिथिमायातमातिथ्येन निमन्त्र्य च ।
अदत्वा भुक्तवांंस्तस्य सद्यस्ते दर्शये फलम् ॥ ३३ ॥
पदरत्नावली
अदत्वा अनमिति शेषः ॥ ३३ ॥
सत्यधर्मीया
को धर्मव्यतिक्रम इत्यत आह ॥ य इति ॥ आतिथ्येन निमन्त्र्य चाभ्यवहाराय याचित्वाऽन्नमदत्वा स्वयं भुक्तवान् । यस्तस्य ते इव फलं सद्यो दर्शये । एतत्फलं तु तवेव तवेत्यनुपमता ध्वन्यते । कोपोपतापेनाङ्गस्मरणाभावात्तस्य त इत्युक्तिर्वेति नातिरेकः
॥ ३३ ॥
छलारी
आतिथ्ये निमन्त्र्य । आयान्तमित्यनुषङ्गः । अयं ममातिथ्यं करिष्यतीत्या-शयाऽऽगतमित्यर्थः । अदत्वा अन्नमिति शेषः ॥ ३३ ॥
एवं ब्रुवाण उत्कृत्य जटां रोषविदीपितः ।
तया स निर्ममे तस्मै कृत्यां कालानलोपमाम् ॥ ३४ ॥
पदरत्नावली
जटामुत्कृत्य, स्वशिरसीति शेषः । तस्मै अम्बरीषाय । कृत्यां भूतविशेषम् ॥ ३४ ॥
सत्यधर्मीया
जटाम् । मूर्ध्न इति शेषः । तयोत्कृतजट्या । कृत्यामभिचारिकीं देवताम् । कृत्याऽपि देवताभेद इति विश्वः । तस्मै तमुद्दिश्य । तत्सामर्थ्यमाह ॥ कालानलोप-मामिति ॥ ३४ ॥
छलारी
जटामुत्कृत्य । स्वशिरस इति शेषः । तस्मै अम्बरीषाय । तद्धननार्थ-मित्यर्थः । कृत्यां भूतविशेषम् ॥ ३४ ॥
तामापतन्तीं ज्वलतीमसिहस्तां पदा भुवम् ।
**वेपयन्तीं समुद्वीक्ष्य न चचाल पदा नृपः ॥ ३५ ॥ **
पदरत्नावली
वेपयन्तीं कम्पयन्तीम् ॥ ३५ ॥
सत्यधर्मीया
ज्वलतीं ज्वलन्तीम् । असिहस्तां पदा भुवं वेपयन्तीं कम्पमानाम् । तामापतन्तीं समुद्वीक्ष्य नृपो न पदा चचाल । नेयदेव किन्तु समुत्समोदो वीक्ष्येति वा ॥३५॥
छलारी
यदा भुवं वेपयन्तीम् । पदात्स्वस्थानात् ॥ ३५ ॥
आदिष्टं भक्तरक्षायां पुरुषेण महात्मना ।
ददाह कृत्यां तच्चक्रं क्रुद्धाहिमिव पावकः ॥ ३६ ॥
सत्यधर्मीया
महात्मना पुरुषेण भगवता भक्तरक्षायामम्बरीषरक्षणे । आदिष्टं चक्रं पावकः क्रुद्धाहिं क्रुद्धं सर्पमिव ददाह ॥ ३६ ॥
दुर्घटभावदीपिका
पावकोऽग्निः क्रुद्धाहिमिव क्रुद्धाहिं यथा दहति तथा भक्तरक्षायां महात्मना पुरुषेण नारायणेनादिष्टमाज्ञप्तं चक्रं तां कृत्यां ददाहेति । अयं भावः । यथा क्रुद्धाहिं दग्ध्वा महाभयं परिहृत्य महासौख्यं जनयति । तथा चक्रं कृत्यां दग्ध्वा महाभयं परिहृत्य महासौख्यं जनयामासेति । एतेन चक्रं कृत्यामनायासेन ददाहेत्यर्थलाभार्थं पावकोऽहिमिति दृष्टान्तो वक्तव्यः । क्रुद्धेति विशेषणं व्यर्थमिति शङ्का परास्ता । चक्रमनायासेन कृत्यां दग्ध्वा महाभयं परिहृत्य महासुखं जनयामासेत्यर्थलाभार्थं क्रुद्धाहिमिवेति क्रुद्धाहिदृष्टान्तोऽभिहित इत्य-भ्युपगमात् ॥ ३६ ॥
छलारी
पुरुषेण हरिणाऽऽदिष्टं चक्रम् । क्रुद्धाहिं पावको दावाग्निरिव ॥ ३६ ॥
तदभिद्रवदुद्वीक्ष्य स्वप्रयासं च निष्फलम् ।
दुर्वासा दुद्रुवे भीतो दिक्षु प्राणपरीप्सया ॥ ३७ ॥
पदरत्नावली
कृत्यां दग्ध्वा आत्मानमभिद्रवत् तच्चक्रम् । स्वप्रयासं स्वप्रयत्नम् । प्राणपरीप्सया स्वजीवनरक्षणेच्छया ॥ ३६,३७ ॥
सत्यधर्मीया
तावतैव न शान्तिरिति शंसति ॥ तदिति ॥ तच्चक्रं स्वं प्रत्यभिद्रवत् । उद्वीक्ष्य स्वप्रयासं निष्फलं चोद्वीक्ष्य दुर्वासा भीतः प्राणपरीप्सया प्राणत्राणेच्छया दिक्षु दुद्रुवे
॥ ३७ ॥
छलारी
कृत्यां दग्ध्वा स्वात्मानमभिद्रवत् । तच्चक्रम् । स्वप्रायासं स्वप्रयत्नं च निष्फलमुद्वीक्ष्य प्राणपरीप्सया स्वजीवनरक्षणेच्छया ॥ ३७ ॥
तमन्वधावद् भगवद्रथाङ्गं दावाग्निरुद्भूतशिखो यथाहिम् ।
तथाऽनुषक्तं मुनिरीक्षमाणो गुहां विविक्षुः प्रससार मेरोः ॥ ३८ ॥
पदरत्नावली
तं दुर्वाससम् । अनुषक्तं स्वपृष्ठलग्नम् । विविक्षुः । प्रवेष्टुमिच्छुः
॥ ३८ ॥
सत्यधर्मीया
भगवद्रथाङ्गं तं दुर्वाससम् । उद्भूतशिख उद्भूता शिखा यस्य सः दावाग्निरहिं सर्पं यथा धावति तथाऽन्वधावत् । अनुषक्तं स्वपृष्ठलग्नं वीक्ष्यमाणो मेरोर्गुहां विविक्षुः प्रससार ॥ ३८ ॥
छलारी
उद्भूताः शिखा ज्वाला यस्य स दावाग्निर्यथाऽहिं प्रतिधावति तथा तं चक्रं प्रत्यन्वधावदित्यन्वयः । अनुषक्तं पृष्ठतःसंलग्नम् । मेरोर्गुहां विविक्षुः प्रवेष्टुमिच्छुः प्रससार अधावत् ॥ ३८ ॥
दिशो नभः क्ष्मां विवरान् समुद्रांल्लोकान् सपालांस्त्रिदिवं गतः सः ।
यतो यतो धावति तत्र तत्र सुदर्शनं दुष्प्रसहं ददर्श ॥ ३९ ॥
पदरत्नावली
चक्रानुयातो दुर्वासा एतानि स्थानानि बभ्रामेत्याह– दिश इत्यादिना ॥ विवरान् पातालादीन् ॥ ३९ ॥
सत्यधर्मीया
विवरान्सुतलादीन् । यतो यतो यत्र यत्र धावति तत्र तत्र ॥ ३९ ॥
छलारी
चक्रानुयातो दुर्वासा एतानि स्थानानि बभ्रामेत्याह ॥ दिश इत्यादिना ॥ विवरान्पातालान्गतः सन् । यतो यतो यत्र यत्र धावति । दुष्प्रसहं सोढुमशक्यम् ॥ ३९ ॥
अलब्धनाथः स यदा कुतश्चित् संत्रस्तचित्तोऽरणमेषमाणः ।
देवं विरिञ्चं समगाद् विधातस्त्राह्यात्मयोनेऽजिततेजसो माम् ॥ ४० ॥
पदरत्नावली
अलब्धो नाथो पालनसमर्थो येन स तथा । अरणं शरणम् । एषमाणो ऽन्वेषमाणः । अजिततेजसः हरेस्तेजोरूपाच्चक्रात् । त्राहि रक्ष ॥ ४० ॥
सत्यधर्मीया
अरणं शरणमेषमाणः काङ्क्षन् । हे विधातस्त्राहीति तु गतम् । अजित-तेजसो माम् । हे आत्मयोने । आत्मा परमात्मा योनिः कारणं यस्येति तत्सम्बुद्धिः । हे विरिञ्च । त्राहीति त्रायस्वेति विरिञ्चं समगाच्छरणं जगाम ॥ ४० ॥
छलारी
अलब्धो नाथो रक्षको येन सः कुतश्चित्पुरुषादरणं शरणम् । रक्षणमिति यावत् । एषमाण इच्छन्सन् । विरिञ्चं समगात् । ततस्तं प्रार्थयामासेति शेषः । अजितस्य हरेस्तेजोरूपाच्चक्रात् । यद्वा । केनाप्यजितस्य सुदर्शनचक्रस्य तेजसो दाहात् ॥ ४० ॥
**श्रीब्रह्मोवाच– **
स्थानं मदीयं सह विश्वमेतत् क्रीडावसाने द्विपरार्धसंज्ञे ।
भूभङ्गमात्रेण हि सन्दिधक्षोः कालात्मनः पश्यति को भविष्यत् ॥ ४१ ॥
पदरत्नावली
ब्रह्मणा किमवादीति तत्राह– स्थानमिति ॥ द्विपराधसंज्ञे ममायुः पूर्तिलक्षणे, हरिक्रीडावसाने, आसन्नप्रलय इति यावत् । सह विश्वं चराचरलक्षणप्रपञ्चेन सहित-मेतन्मदीयं स्थानं भृभङ्गमात्रेण सन्दिधक्षोः सन्दग्धुमिच्छोः कालात्मनः कालरूपस्य हरेर्यद् भविष्यत् कर्म को वा पुरुषस्तत् पश्यति अपरोक्षीकर्तुं समर्थः ? न कोऽपीत्यन्वयः । त्वामुपलक्षीकृत्य मदादिकं सर्वं संहरिष्यतीति ज्ञातुं न शक्यत इति भावः ॥ ४१ ॥
सत्यधर्मीया
स च चतुराननः किमवादीद्दुर्वाससं प्रतीत्यतो वदति ॥ ब्रह्मेति ॥ सहविश्वमिति पदमेकम् । विश्वेनेतरप्रपञ्चेन सहितम् । वोपसर्जनस्येत्युक्तेः । मदीयं स्थानं द्विपरार्धसंज्ञे द्विपरार्धेति संज्ञा यस्य तस्मिन् ममायुषोऽन्ते । प्रलयलव इति यावत् । क्रीडा-वसानेऽस्माभिः सहवासो वासुदेवस्य लीलामूलक इति तदवसाने भ्रूभङ्गमात्रेण केवलं विक्षेपेण सन्दिधक्षोर्दग्धुमिच्छोः कालात्मनस्तद्रूपिणो भविष्यतस्तस्माद्यद्भावि तत्कर्म कः पश्यति । न कोऽपि जानाति । अज्ञातप्रमेये प्रवर्तमानोऽहं प्रत्यवेयामिति भावः । हीत्यसन्देहं सूचयति । कालात्मनस्तव यद्भविष्यत्कर्म तत्कः पश्यतीति वा ॥ ४१ ॥
छलारी
ब्रह्मा किमवादीदिति तत्राह ॥ स्थानमिति ॥ द्विपरार्धसंज्ञे ममायुःपूर्तिलक्षणे हरिक्रीडावसाने । प्रलय इति यावत् । सहविश्वं चराचरप्रपञ्चसहितम् । एतन्मदीयं स्थानं सन्दिधक्षोः सन्दग्धुमिच्छोर्हरेर्भविष्यत्कर्म पश्यति को जानाति ॥ ४१ ॥
अहं भवो दक्षभृगुप्रधानाः प्रजेशभूतेशसुरेशमुख्याः ।
**सर्वे वयं यन्नियमं प्रपन्ना मुर्ध्नाऽर्पितं लोकहितं वहामः ॥ ४२ ॥ **
पदरत्नावली
अतो मदादीनां तदनुमतमेवानुकर्तुं प्रयतनं न त्वन्यदित्याशयेनाह–अहमिति ॥ यन्नियमं यस्याज्ञालक्षणां प्रेरणां तस्येति पूर्वेणान्वयः । अर्पितम्, तेनैवेति शेषः
॥ ४२ ॥
सत्यधर्मीया
वयं किङ्कराः किं करवाम तव गतिं त्वमेव विलोकयेत्यर्थात्सूचयति ॥ अहमिति ॥ भव इति यदुद्भवस्तव तद्दशेदृशीति ध्वनयितुम् । तदाऽच्युतो भवसाचिव्यमचर-दिति तदध्वरध्वंसः कृतो न स्वसामर्थ्येनेति ध्वनयितुं दक्षेत्युक्तिः । त्वयि याते तमेव शरणं सोऽवेच्छान्तमूर्तिरिति ध्वनयितुं कृतपदाहतिरपि महोन्नतिर्जात इति भृगूदीरणमिति ज्ञेयम् । अभ्यर्हितत्वाद्दक्षपुरस्कृतिः । एतौ दक्षभृगू प्रधानौ येषां ते । सुरेशादेर्मुख्यत्वेऽप्युक्तहेतुनैवा-नन्तरग्रहणमिति ज्ञेयम् । इति वयं सर्वे यन्नियमं त्वमेवं वर्तस्व त्वमेवमित्याज्ञालक्षणं व्रतम् । प्रपन्ना ओमिति शरणागताः सन्तस्तेनैवार्पितं मूर्ध्ना वहामः । लोकहितं तदुद्दिश्येति वा नियम-विशेषणम् । इदं प्रमेयं लोकहितं लोकविततमिति वा । हि गतौ वृद्धौ चेत्युक्तेः ॥ ४२ ॥
छलारी
प्रजेशः कश्यपो भूतेशो यक्षादिर् भूतपतिः कुबेरः सर्वे वयम् । यन्नियमं यदाज्ञां शिरसा वहामः । तद्भक्तद्रोहिणं त्वां रक्षितुम् । न समर्था इत्यध्याहारेण सम्बन्धः । कीदृशा वयम् । मूर्ध्ना । पादमूलमिति शेषः । शरणं प्रपन्नाः । कथं भूतं नियमम् । लोकहितमर्पितम् । सप्तसु प्रथमेति सूत्रात् । लोकहिताय स्वेनैव निरूपितमित्यर्थः ॥ ४२ ॥
श्रीशुक उवाच–
प्रत्याख्यातो विरिञ्चेन विष्णुचक्रोपतापितः ।
दुर्वासाः शरणं यातः शर्वं कैलासवासिनम् ॥ ४३ ॥
पदरत्नावली
यद्यप्यनेन शङ्करोऽपि प्रत्याख्यातस्तथापि मन्दजनशङ्कानिरासाय दुर्वाससः शङ्करशरणप्राप्तिमाह-प्रत्याख्यात इति ॥ सर्वः शर्वः शिवः स्थाणुः, शर्वः शंरोधनाद्धरिः’ इत्यतो विष्णुशङ्कानिरासायाह–कैलासेति ॥ ४३ ॥
सत्यधर्मीया
यद्यपि भव इति स्वयम्भुवा तदा सदाशिवोऽपि न त्वत्पालक इति प्रत्याख्यातस्तथाऽपि प्राणाशा बलवती तदातुराणां नाङ्गस्मरणमिति शरणं शर्वं गत इति वक्ति ॥ प्रत्याख्यात इति ॥ विष्णुचक्रोपतापितः । अनेन तस्य कामाभिमन्यमानकतया स्ववैरमप्येवं सिसाधयिषुश्चेति ध्वन्यते । तथोक्तम् । रथाङ्गत्वमवाप कामः । तावेव जातौ भरतश्च साक्षा-च्चक्रतनुरित्याचार्यैर्महातात्पर्यनिर्णये तृतीयनवमयोरध्याययोः ॥ ४३ ॥
छलारी
प्रत्याख्यातो निराकृतः । विष्णुचक्रेण तापितः सन्तापितः ॥ ४३ ॥
श्रीशङ्कर उवाच–
वयं न तात प्रभवाम भूम्नो भवन्ति काले न भवन्ति हीदृशाः ।
यस्मिन् परेऽन्येऽप्यजजीवकोशाः सहस्रशो यत्र वयं भ्रमामः ॥ ४४ ॥
पदरत्नावली
शङ्करोऽपि स्वाशक्तिमेव वक्तीत्याह– वयमिति ॥ हे तात वयं न प्रभवाम त्वां रक्षितंु न समर्थाः स्याम आद्यन्तवत्वादित्याह– भूम्न इति ॥ ईदृशा मादृशा भूम्नः पूर्णानन्दाद्धरेः सृष्टिकाले भवन्ति संहारकाले न भवन्ति हि यस्मात् तस्मात् । यदा चेतनस्य भगवदधीनत्वं स्पष्टं तदा किं वक्तव्यमचेतनस्येत्याशयेनाह– यस्मिन्निति ॥ यत्र येषु अजजीवकोशेषु वयं भ्रमामस् ते अन्ये अचेतना अपि सहस्रशो जीवकोशाः, अजो ब्रह्मा स एव जीवस् तस्य कोशाः शरीरस्थानीया ब्रह्माण्डकोटयो यस्मिन् परे सन्ति, स ईशानस् त्वदापदः परिहर्ता स्यान्न वयमिति वाक्यशेषः ॥ ४४ ॥
सत्यधर्मीया
शङ्करोऽपि किं करोमि किङ्करस्तस्याहमरे वत्स तमेवोपगच्छेत्युपाय-मुपादिशदिति शंसति ॥ शङ्कर इत्यादिना ॥ हे तातेति स्वपोतताप्रेमविशेषतः सम्बोधनम् । वयं न प्रभवाम तवावने न समर्थाः स्यामः । कुत इत्यत आह ॥ भूम्न इति ॥ पूर्णस्य । भावभवित्रोरभेदादेवमुक्तिः । ईदृशा मादृशाः काले सृष्टिकाले भवन्ति न भवन्ति च काले संहार-काले । यस्मिन्सहस्रशो वयं भ्रमामस्ते यत्र परे विष्णौ । अन्येऽप्यज इत्यन्वयः ॥ ४४ ॥
छलारी
शङ्करोऽपि स्वां शक्तिं वक्तीत्याह ॥ वयमिति ॥ हे तात । वयं न प्रभवाम । सुदर्शनं निवारयितुं न समर्थाः । कुतः । यस्माद्भूम्नो गुणपूर्णाद्धरेरीदृशा वर्तमाना ब्रह्माण्डसदृशा अन्येऽपि भूतभविष्यतोऽजजीवकोशा अजस्य चतुर्मुखस्य जीवकोशा जीवाख्यधननिधानस्थान-भूतब्रह्माण्डाख्यकोशाः सृष्टिकाले भवन्ति प्रलयकाले नश्यन्ति । यत्र ब्रह्माण्डकोशेषु भ्रमामस्ते ब्रह्माण्डकोशा यस्मिन्परे परमात्मनि । सन्तीति शेषः । परोरिपरमात्मनोरित्यभिधानम् । तमेव शरणं याहीति वक्ष्यमाणेनान्वयः ॥ ४४ ॥
अहं सनत्कुमारश्च नारदो भगवानजः ।
कपिलोऽपान्ततरमा देवलो धर्म आसुरिः ॥ ४५ ॥
सत्यधर्मीया
इतःपरं परं रक्षकं कमपि मत्वा न व्रजेति तदाशाभ्रमणभ्रमं भ्रंशयति ॥ अहमिति ॥ अजो भगवान् ब्रह्मा । कपिलोऽयं भगवतोऽन्यः साधुः । अपान्तरतमा इति सार्वत्रिकः पाठः । अपान्तरतमो देवल इति पाठे क्वाचित्के अपान्तरतमसा सहितश्चासौ देवलश्चेति विग्रहः ॥ ४५ ॥
छलारी
भवान्सर्वपूज्योऽजोऽपि ब्रह्माऽपि । अपान्तरतमस्तन्नामा मुनिरहमादयः सर्वे यस्य हरेर्मायामिच्छां किं विषयामिति न विदामेत्यर्थः ॥ ४५ ॥
मरीचिप्रमुखाश्चान्ये सिद्धेशाः पारदर्शिनः ।
विदाम न वयं सर्वे यन्मायां माययाऽऽवृताः ॥ ४६ ॥
पदरत्नावली
अन्यतोऽप्यवनाशां निवारयति– अहमिति ॥ अहं, सनत्कुमारादय इति सर्वे वयं यस्य हरे र्मायामिच्छां किं विषयामिति न विदाम इत्यन्वयः ॥ ४५,४६ ॥
सत्यधर्मीया
पारदर्शिनः पर्याप्तज्ञानत्वेन सम्प्रतिपन्ना वयं सर्वे । मायया तदि-च्छयाऽऽवृता इति तन्मायां न विदाम न जानीमः ॥ ४६ ॥
छलारी
पारदर्शिनो वेदशास्रपारङ्गताः । सर्वज्ञा अपीति यावत् । मायया प्रकृत्याऽऽवृता बद्धाः ॥ ४६ ॥
तस्य विश्वेश्वरस्येदं शस्त्र दुर्विषहं हि नः ।
तमेव शरणं याहि हरिस्ते शं विधास्यति ॥ ४७ ॥
पदरत्नावली
दुर्विषहं सोढुमशक्यम् । तर्ह्यहं किं करोमीति तत्राह– तमेवेति ॥४७॥
सत्यधर्मीया
तस्य विश्वेश्वरस्य । इदं शस्त्रं नो दुर्विषहं सोढुमशक्यम् । स्वयम-समर्थतामुक्त्वाऽऽशीराशास्त इत्याह ॥ हरिस्ते शं विधास्यति इति ॥ ४७ ॥
छलारी
शस्त्रं चक्रं दुर्विषहं सोढुमशक्यम् ॥ ४७ ॥
ततो निराशो दुर्वासाः पदं भगवतो ययौ ।
विकुण्ठाख्यं यदध्यास्ते श्रीनिवासः श्रिया सह ॥ ४८ ॥
सत्यधर्मीया
ततस्त्रिलोचनवचनतः । निराशो गन्तव्यस्थानान्तरविरहादाशाशून्यः । यत् श्रीनिवासः । नोपलक्षणमिदमिति वदति ॥ श्रिया सहेति ॥ अधिशीङ्स्थासां कर्मेति यदिति द्वितीया । तद्वैकुण्ठाख्यं भगवतः पदं ययौ ॥ ४८ ॥
छलारी
विकुण्ठाख्यं वैकुण्ठाख्यम् । यतो यस्मिन्वैकुण्ठेऽध्यास्ते वसति ॥ ४८ ॥
सन्दह्यमानोऽजितशस्त्रवह्निना तत्पादमूले पतितः सवेपथुः ।
**आहाच्युतानन्त सदीप्सित प्रभो कृतागसं मामव विश्वभावन ॥४९॥ **
पदरत्नावली
अव रक्ष, विश्वभावन सर्ववशीकरणसमर्थ ॥ ४९ ॥
सत्यधर्मीया
तत्पादमूलेऽजितपादपीठे । अच्युतानन्त सदीप्सित विश्वभावन प्रभो । कृतागसं कृतमागोऽपराधो येन स तम् । मामवेति पतित इत्यन्वयः ॥ ४९ ॥
छलारी
अजितशस्त्रं चक्रं तस्य वह्निना । सवेपथुः सकम्पः सतामीप्सित इष्टद । हे विश्वभावन विश्वोत्पादक ॥ ४९ ॥
अजानता ते परमानुभावं कृतं मयाऽघं भवतः प्रियाणाम् ।
विधेहि तस्यापचितिं विधातर्मुच्येत यन्नाम्न्युदिते नारकोऽपि ॥ ५० ॥
पदरत्नावली
तस्याघस्यापचितिं प्रायश्चित्तम् । अघपरिहारसामर्थ्यं तवैवेत्याह– मुच्ये-तेति ॥ नारको नरकस्थो यन्नाम्न्युदिते अघान्मुच्येतेत्यन्वयः ॥ ५० ॥
सत्यधर्मीया
मम कोऽपराधो भवता कृतो येनायमुपरोधस्तवायात इत्यतो वदति ॥ अजानतेति । ते परमानुभावमजानताऽविदुषा मया । भवतः प्रियाणाम् । यद्यप्ये-कोऽम्बरीषस्तथाऽपि मुमूर्षोर्भ्रमन्नर एव प्रेतनाथदूता इवेत्याभाणकवद्बहूपहतिहेतुतया बह्वात्मा भासत इति प्रियाणामिति बहुवचनम् । यद्वा । पानीयपारणानुमतिकृद्विजसमाजविवक्षया बहुवचनम् । अघं पापप्रापकविरुद्धाचरणं कृतम् । तथा चेत्त्वं ते च मिलित्वा गर्त्ते पतत मम किमित्यतस्त्वय्येव कृतप्रायमित्यभिप्रायतोऽप्याह ॥ अजानतात इति ॥ अजश्च चतुरानन-श्चानश्च प्राणश्च तयोस्ताते । त्वद्विषय एवेति यावत् । अघं कृतम् । तस्य तत्पापस्यापचितिं प्रायश्चित्तं विधेहि कुरु । प्राप्ताया आपदः परिहारो यन्नाममात्रोच्चारतो भविष्यति भविष्य-तोऽनर्थस्य साक्षात्तव दर्शनं कथं न भवेन्मथकं मधुमथनेति कथयति । यन्नाम्न्युदिते उच्चारिते नारकोऽपि नरकलोकस्थोऽपि लोकस्तस्मान्मुच्येताच्युत कियन्मम मोचनं तवेति भाव इति । हे अजानता ब्रह्मानत अशब्दवाच्येति वा । हे विधातरिति सामर्थ्यं करण आह । यतस्त्वन्नाम्नीयं विधा प्रकारोऽस्ति । ईहितस्य मच्चेष्टितस्य विधातः कर्तरिति वा ॥ ५० ॥
छलारी
अपराधं निवेदयन्प्रार्थयते ॥ अजानतेति ॥ अघं पापरूपाय राज्ञेऽघं दुःखम् । तद्भक्तद्रोहे प्रायश्चित्तं न पश्यामीति चेत्तत्राह ॥ यन्नाम्नीति ॥ तस्य तव किमशक्यमिति भावः ॥ ५० ॥
श्रीभगवानुवाच–
अहं भक्तपराधीनो ह्यस्वतन्त्र इव द्विज ।
साधुभिर्ग्रस्तहृदयो भक्तैर्भक्तजनप्रियः ॥ ५१ ॥
पदरत्नावली
आत्मरक्षार्थं दुर्वाससा प्रार्थितो भगवान् लोकसङ्ग्रहार्थमात्ममायां प्रकट-यति– अहमिति ॥ अतोऽस्वतन्त्र इव न त्वस्वतन्त्रः । स्वतन्त्रस्यास्वातन्त्र्यवचनं कथं सङ्गच्छत इति तत्राह– साधुभिरिति ॥ ५१ ॥
सत्यधर्मीया
दुर्वाससा स्वमोचनार्थं याचितः स्वत एतर्हि तद्दुर्घटयन्काञ्चिद्धाटीं नटयति ॥ अहमिति ॥ हे द्विज । अस्वतन्त्र इव न त्वस्वतन्त्रः । भक्तपराधीनः । पराधीन-शब्दोऽखण्डोऽधीनमात्रमाह । भक्ताधीन इत्यर्थः । ननु यदि त्वं भक्तपराधीनो हन्त अहं हे हरे किं न तव भक्त इति रक्तनेत्रो न भव, प्रकृते त्वेतदुदयकृद्दयोऽहमिति विजानीहीत्यप्याह ॥ भक्तपराधीन इति ॥ भक्तादन्नात्परं विलक्षणमशितानशितरूपं यस्य स भक्तपरोऽम्बरीष-स्तस्याधीन इति वा । भिस्सा स्त्री भक्तमन्धोन्नमित्यमरः । किमिति स्वतन्त्रस्यास्वतन्त्रवद्भवन-मित्यतस्तदुपपादयति ॥ साधुभिरिति ॥ साधुभिर्भक्तैः । ग्रस्तहृदयो ग्रस्तं हृदयं यस्य स तथा । हृदयं च मनोऽभिप्रायो वा । भक्तजनाश्च प्रिया यस्य सः । इदानीं न दयासमयस्त्वयीति तथा सम्बोधयति ॥ अहं भक्तेति ॥ अहं तावद्भक्तेति वा ॥ ५१ ॥
छलारी
अस्वतन्त्र इव न त्वस्वतन्त्रः । ग्रस्तहृदयो वशीकृतान्तःकरणः ॥ ५१ ॥
नाहमात्मानमाशासे मद्भक्तैः साधुर्भिविना ।
श्रियं चात्यन्तिकीं ब्रह्मन् येषां गतिरहं परा ॥ ५२ ॥
पदरत्नावली
ग्रस्तहृदयत्वं नाम किमित्यतस्तद् विवृणोति– नाहमिति ॥ साधुभि-र्मद्भक्तैर्विना अहमात्मानं स्वरूपं नाशासे नेच्छामि । तदप्रिये प्राप्ते मज्जीवनेन किं प्रयोजनमिति कृत्वेति शेषः । यदा स्वात्मानमपि नाशासे तदाऽनन्यशरणं श्रियं नाशास इति किं वक्तव्यमित्याह– श्रियं चेति ॥ भक्ताश्चापीदृशा इत्याह– येषामिति ॥ ५२ ॥
सत्यधर्मीया
साधुभिर्मद्भक्तैर्विनाऽऽत्मानमपि नाशासे । छिन्द्यां स्वबाहुमपि वः प्रतिकूलवृत्तिमिति भगवदुक्तेः । तात्पर्यं तु नैतद्द्वन्द्वं सम्भवीति ज्ञेयम् । आत्यन्तिकीं सदाऽ-वियोगिनीं श्रियं रमामपि नाशास इति किं वक्तव्यमिति भावः । येषामहं परागतिस्तैः ॥ ५२ ॥
छलारी
ग्रस्तहृदयत्वं नाम किमित्यतस्तद्विवृणोति ॥ नाहमिति ॥ नाशासे नेच्छामि । आत्यन्तिकीम् अत्यन्तप्रीतिविषयाम् ॥ ५२ ॥
ये दारागारपुत्रादीन् प्राणान् वित्तमिदं परम् ।
हित्वा मां शरणं याताः कथं तांस्त्यक्तुमुत्सहे ॥ ५३ ॥
पदरत्नावली
इदं भूस्थानम् । परं स्वर्गादिकम्् ॥ ५३ ॥
सत्यधर्मीया
तन्महिमानमाह ॥ य इति ॥ इदं मह्यादिकं परं स्वर्गादिकम् । उत्सहे क्षमः स्याम् ॥ ५३ ॥
छलारी
इमं लोकं परं स्वर्गलोकं च हित्वेत्यर्थः ॥ ५३ ॥
मयि निर्बद्धहृदयाः साधवः समदर्शिनः ।
वशीकुर्वन्ति मां भक्त्या सत्स्त्रियः सप्ततिं यथा ॥ ५४ ॥
पदरत्नावली
तदत्यागे भक्त्या वशीकरणमेव कारणं नान्यदित्याह– मयीति ॥५४॥
सत्यधर्मीया
निर्बद्धं नितरां बद्धं हृदयं येषां ते । सत्यः स्त्रियः सत्पतिं यथा तथा भक्त्या मां वशीकुर्वन्ति । वशीत्यव्ययं पदद्वयम् । तथाऽप्यव्यवधानप्रयोगो नु प्रयोगस्थल इव ज्ञेयः । विस्तृतं चैतद्भाष्यदीपिकायुक्तिवात्यायामस्मत्कृतायामनुसन्धेयम् । सत् स्त्रियः सत्पती-न्यथेति वक्तव्ये यदवादीदेकवचनान्तं सत्पदं तेनैकस्यापि बहुयोषिद्विवाहयोग्यताऽस्तीति द्योतयामास । तथा च तृतीयपञ्चकं ब्राह्मणम् । एकस्य बह्व्यो जाया भवन्ति । नैकस्यै बहव इति ॥ ५४ ॥
छलारी
तदत्यागे भक्त्या वशीकरणमेव कारणं नान्यदित्याह ॥ मयीति ॥ निर्बद्धहृदया एकाग्रचित्ताः ॥ ५४ ॥
मत्सेवया प्रदिष्टं च सालोक्यादिचतुष्टयम् ।
नेच्छन्ति सेवया पूर्णाः कुतोऽन्यत् कालविप्लुतम् ॥ ५५ ॥
पदरत्नावली
इदं चात्यागे कारणमित्याह– मत्सेवयेति ॥ ५५ ॥
सत्यधर्मीया
तज्जनात्यजने तन्मद्भजनमेव कारणं नेतरदितीरयति ॥ मत्सेवयेति ॥ तया प्रसन्नेन मया प्रदिष्टमतिसृष्टं सालोक्यादिचतुष्टयम् । चतुर्विधं निर्वाणम् । शाश्वतिकसुखं तदपि नेच्छन्ति । तर्हि किं तृप्ता इत्यत आह ॥ सेवया पूर्णा इति ॥ अन्यत्कालविप्लुतं स्वर्गादि नेच्छन्तीति कुतो वक्तव्यमवचनेऽपि तल्लाभादिति भावः ॥ ५५ ॥
छलारी
इदं चात्यागे कारणमित्याह ॥ मत्सेवयेति ॥ प्रदिष्टं चादिष्टम् । मया प्राप्तमपीति यावत् । कालेन विप्लुतं नष्टम् । स्वर्गादि नेच्छन्तीति कुतः किं वक्तव्यमित्यर्थः
॥ ५५ ॥
साधवो हृदयं मह्यं साधूनां हृदयं त्वहम् ।
मदन्यत्ते न जानन्ति नाहं तेभ्यो मनागपि ॥ ५६ ॥
पदरत्नावली
इतोऽपि मदन्यापेक्षा तेषां नास्तीत्याशयेनाह– साधव इति ॥ मह्यं मम हृदयं प्रियम् । तुशब्दो हेतौ । साधवो मम हृदयम् अहं साधूनां हृदयमिति यस्मात् तस्मात् ते मदन्यं प्रियं न जानन्ति, अहमपि तेभ्यः साधुभ्यो मनागत्यल्पमपि प्रियमन्यन्न जाना-मीत्यन्वयः ॥ ५६ ॥
सत्यधर्मीया
तत्कोपयापनं नाल्पीयसा जल्पनेन भविष्यतीति निजभजकस्वभावं पुनरावेदयति ॥ साधव इति ॥ मह्यं मम हृदयं प्रियाः । एवमन्यत्रापि मदन्यत्ते न जानन्ति । ‘पुत्रात्प्रेयोवित्तात्प्रेयः सर्वस्मात्प्रेय’ इत्यादि । ‘प्रियो हि ज्ञानिनोऽत्यर्थमहं स च मम प्रियः । उदाराः सर्व एवैते ज्ञानी त्वात्मैव मे मतः’ इत्यादिस्मृतेः । अहं मनागपीत्युक्त्या कदाचिन्मम मायावृतास्त इति व्यत्यासेऽपि न मम तदनावृतत्वादनन्यथाभावस्तत्र निदर्शनं त्वं त्वामेव विलोकयेति ध्वन्यते । कुतस्तद्ग्रस्तत्वमित्यत आह ॥ नाहन्तेभ्य इति ॥ न विद्यते हन्ता येषां ते नाहन्ताः । नसमासः । तेषामिभ्यः स्वामीति ॥ ५६ ॥
छलारी
इतोऽपि मदन्यापेक्षा तेषां नास्तीत्याशयेनाह ॥ साधव इति ॥ साधवो ज्ञानिनो मह्यं मम हृदयं प्रियाः । तुशब्दो हेतौ । साधवो मम हृदयम् । अहं साधूनां हृदयमिति यस्मात्तस्मात्ते मदन्यं प्रियं न जानन्ति । अहमपि तेभ्यः साधुभ्यो मनागप्यल्यमपि प्रियमन्यं न जानामीत्यन्वयः ॥ ५६ ॥
उपायं कथयिष्यामि तव विप्र श्रुणुष्व तत् ।
अयं ह्यात्माभिचारस्ते यतस्तं यातु वै भवान् ॥ ५७ ॥
पदरत्नावली
प्रकृते किमायातमिति तत्राह– उपायमिति ॥ हि यस्मात् । आत्मना त्वया कृतोऽभिचारः कृत्याप्रयोगः । यतः यस्मै । तं वै तमेव । शरणमिति शेषः ॥ ५७ ॥
सत्यधर्मीया
दिक्परिभ्रमसम्पादितश्रमं प्रति सम्प्रतीयत्या कथाकंथया किमच्युता-त्पापात्प्रच्युतिं वदेत्यत आह ॥ उपायमिति ॥ आत्माभिचार आत्मना स्वेनैव कृतोऽभिचारः कृत्यारूपो यतो यन्निमित्तकः ॥ ५७ ॥
छलारी
प्रकृते किमायातमित्यत आह ॥ उपायमिति ॥ आत्मनस्तवैवाभिचारो हिंसा यतोऽभूत्तमेव शरणं यातु । अथवा आत्मना त्वया कृतोऽभिचारः कृत्याप्रयोगो यतो यस्मै कृतस्तम् ॥ ५७ ॥
**साधुषु प्रहितं तेजः प्रहर्तुः कुरुते मयम् । **
तपो विद्या च विप्राणां निःश्रेयसकरे उभे ॥ ५८ ॥
पदरत्नावली
तस्मै प्रयुक्तमात्मानं कथं बाधत इति तत्राह– साधुष्विति ॥ प्रहितं प्रयुक्तं क्षुद्रोपद्रवलक्षणं तेजोऽर्चिः । ‘तेजोऽबले प्रभावेऽन्ने ज्योतिष्यर्चिषि रेतसि’ इत्यभिधानम् । प्रहर्तुः प्रयोक्तुरपि भयं कुरुते । विनयशून्यस्य तव विद्यातपसी अनर्थकरे एवाभूतामिति भावेनाह– तप इति ॥ ५८ ॥
दुर्घटभावदीपिका
हिशब्दो हेतौ । हि यस्मात्ते तव यतो यस्याम्बरीषस्यायं द्रोह आत्माभिचार आत्मनस्तव पीडाकरस्तस्माद्भवान् । वैशब्द एवार्थे । तं वै तमेव । शरणमिति शेषः । शरणं यात्विति ॥ ५८ ॥
सत्यधर्मीया
सा च तस्मै प्रयुक्तेति न युक्तं मम बाधनं तस्या इत्यतो बोधयति ॥ साधुष्विति ॥ साधुष्वेततदादिसदाचारिषु प्रहितं प्रेषितं तेजः क्षुद्रं मन्त्रसहितमर्चिः सृति-हेतुदेवतारूपं ज्योतिर्वा । तेजो बले प्रभावेऽन्ने ज्योतिष्यर्चिषि रेतसीत्यभिधानम् । प्रहर्तुः प्रयोक्तुर् भयं कुरुते । यत्तपोविद्यायुजो ममेयं दशा कुत ईशेति न शंसति ॥ तप इति ॥ निःश्रेयसं मोक्षः । अयतुरनिपातः ॥ ५८ ॥
छलारी
तस्मै प्रयुक्तं स्वात्मानं कथं बाधत इति तत्राह ॥ साधुष्विति ॥ प्रहितं प्रत्युक्तम् ॥ ५८ ॥
त एव दुर्विनीतस्य कल्पेते कर्तुरन्यथा ।
ब्रह्मस्तद् गच्छ भद्रं ते नाभागतनयं नृपम् ।
क्षमापय महाभागं ततः शान्तिर्भविष्यति ॥ ५९ ॥
पदरत्नावली
अन्यथा अनर्थकरे ॥ ५९ ॥
सत्यधर्मीया
यद्यपि तथाऽपि दुर्विनीतस्य ते तपोविद्ये कर्तुरविनयधाटीमाटीकमानस्य । अन्यथेदृशदशायै कल्प्येते । विद्या हि विनयावाप्त्यै ‘विनयो हि भूषयति सर्वरसम्’ इत्यादेः । परीक्षार्थं यतस्तं यातु वै भवानिति भगवानुक्तवाननन्तरमनन्तस्तनुयाद्दयां स्वयमिति न मतिस्तव भूयादियमेवेदानीं सर्वथा क्षेमगमनिकेति निगमयति ॥ ब्रह्मन्निति ॥ नाभागतनयम् । अनेन प्रह्लादादिवदयं न स्वमात्रपर्याप्तभक्तः किन्तु पारम्पर्येण महानुभाव इति ध्वनयति ॥ ५९ ॥
छलारी
क्षुद्रोपलक्षणं तेजः प्रहर्तुः प्रयोक्तुः । तपोविद्यासम्पन्नस्य मम कथमनर्थः समजनीति मा स्म विस्मयं मा कार्षीरित्याह ॥ तप इति ॥ दुर्विनीतस्याविनीतस्य परेषामन्यथा कर्तुः पुरुषस्यान्यथा कल्प्येते इत्यनुषङ्गः । नाभागतनयमम्बरीषम् । शान्तिस्तापशान्तिः ॥५९॥
श्रीशुक उवाच–
एवं भगवताऽऽदिष्टो दुर्वासाश्चक्रतापितः ।
अम्बरीषमुपावृत्य तत्पादौ दुःखितोऽग्रहीत् ॥ ६० ॥
सत्यधर्मीया
तत्पादावम्बरीषचरणौ ॥ ६० ॥
छलारी
अम्बरीषं प्रत्युपावृत्य प्रमत्यावृत्य ॥ ६० ॥
तस्य तद्व्यसनं वीक्ष्य पादस्पर्शविलज्जितः ।
अस्तावीत् तद्धरेरस्त्रं कृपया पीडितो भृशम् ॥ ६१ ॥
सत्यधर्मीया
विलज्जितः स्वस्य वर्णतोऽवरत्वात् । यः स्वेनेडितः स्तुतोऽपि ईडितः पीडित इति द्वेधा वृत्ती ज्ञेये । दुर्वासास्तद्व्यसनं वीक्ष्य कृपया भृशं पीडितः । हरेरस्त्रम-स्तावीदस्तौषीत् ॥ ६१ ॥
छलारी
अस्तावीत्स्तुतिं चकार । अस्त्रं चक्रायुधम् ॥ ६१ ॥
अम्बरीष उवाच–
त्वमग्निर्भगवान् सूर्यस्त्वं सोमो ज्योतिषां पतिः ।
त्वमापस्त्वं क्षितिर्व्योम वायुमात्रेन्द्रियाणि च ॥ ६२ ॥
पदरत्नावली
मात्राः शब्दादयः ॥ ६२ ॥
सत्यधर्मीया
ज्योतिषां नक्षत्रादीनाम् । मात्राः शब्दाद्याः ॥ ६२ ॥
छलारी
चक्रं चक्रान्तर्यामिणं भगवन्तं भक्त्युद्रेकात्सङ्कलय्य स्तौति ॥ त्वमग्नि-रित्यादिना ॥ अग्न्यादयः सर्वे त्वदधीनसत्तादिमन्त इत्यर्थ । ‘यदधीना यस्य सत्ता तत्तदित्येव भण्यत’ इत्युक्तेः । त्वच्छक्त्यैव अग्न्यादयः स्वस्वकार्यं कुर्वन्तीति भावः । ‘तमेव भान्त-मनुभान्ति सर्वं तस्य भासा सर्वमिदं विभाति’ इति श्रुतेः । ज्योतिषां नक्षत्राणां पतिः सोमस्त्वम् । मात्राः शब्दादय इन्द्रियाणि श्रोत्रादीनि ॥ ६२ ॥
सुदर्शन नमस्तुभ्यं सहस्राराच्युतप्रिय ।
सर्वास्रघातिन् विप्राय स्वस्ति भूयादिडस्पते ॥ ६३ ॥
पदरत्नावली
सहस्राणि अराणि दलानि यस्य स तथा । हे सहस्रार विप्राय दुर्वाससे । इडस्पते अन्नपते ॥ ६३ ॥
सत्यधर्मीया
सहस्रमराणि दलानि यस्य तत्सम्बुद्धिः । सर्वास्त्राणि प्रतिभटमुक्तानि घातयितुं शीलमस्यास्तीति तेषां घातोऽस्यास्तीति वा । विप्राय दुर्वाससे । इडस्पते अन्न-स्वामिन् अन्नमूलोऽयं कलह इति तच्छान्त्या भाव्यमित्येवमुक्तिः । गतम् ॥ ६३ ॥
छलारी
सहस्राण्यराणि दलानि यस्य हे सहस्रार । विप्राय दुर्वाससे । इडस्पते पृथ्वीपते ॥ ६३ ॥
त्वं धर्मस्त्वं धृतिः सत्यं त्वं यज्ञोऽखिलयज्ञभुक् ।
त्वं लोकपालः सर्वात्मा त्वं तेजः पौरुषं परम् ॥ ६४ ॥
सत्यधर्मीया
सर्वत्रानुपपद्यमानमन्तर्यामिण्यन्वेतव्यम् । पुरुषो हि हरिस्तत्सम्बन्धि
॥ ६४ ॥
छलारी
ब्राह्मणरक्षणं तव युक्तमेवेत्याह ॥ त्वं धर्म इति ॥ सर्वात्मा सर्वस्वामी । पौरुषं पुरुषस्य हरेः सम्बन्धि परं तेजः परमं बलं त्वमेव । भगवत्सामर्थ्याभिव्यञ्जकमित्यर्थः । तेजो बले प्रभावे चेत्यभिधानम् ॥ ६४ ॥
नमः सुनाभाखिलधर्मसेतवे अधर्मशीलासुरधूमकेतवे ।
त्रैलोक्यगोपाय विशुद्धवर्चसे मनोजवायाद्भुतकर्मणेऽस्तु ते ॥ ६५ ॥
पदरत्नावली
सुनाभ सुदर्शन । धूमकेतुरग्निः ॥ ६५ ॥
सत्यधर्मीया
सुनाभ शोभना नाभिः प्रान्तभागो यस्य तत् । ‘नाभि प्राण्यङ्गके क्षेत्रे चक्रप्रान्ते चक्रवर्तिनि’ इति विश्वः । नाभिरक्षत्रिये क्षेत्रे उभावन्यत्र पुंसि । नाभिर्मुख्यनृपे चक्रमध्ये क्षत्रिययोः पुमान् । ‘द्वयोः प्राणिप्रतीके स्यात्स्त्रियां कस्तूरिकामद’ इति । रभसश्च मुख्यराट् क्षत्रिये नाभिः पुंसि प्राण्यङ्गके द्वयोः । चक्रमध्ये प्रधाने च स्त्रियां कस्तूरिकामद इति लिङ्गानुशासनकोशैः शोभना नाभिर्यस्येति सुनाभं तत्सम्बुद्धिः । गतम् । अखिलधर्मसेतवे समस्तधर्ममर्यादास्थापकाय । अधर्मशीला ये असुरास्तेषां धूमकेतुर्धूमध्वजोऽग्निस्तस्मै । त्रैलोक्य-गोपाय त्रिलोकीरक्षकाय । मनसो जव इव जवो यस्येति वा मनसोऽपि जवो यस्येति वा तस्मै ते नमोऽस्तु ॥ ६५ ॥
छलारी
सुनाभ सुदर्शन । अखिलधर्माणां सेतुस्थानीयाय धर्मरक्षकायेत्यर्थः । अधर्मशीलानामसुराणां धूमकेतवे दाहकायेत्यर्थः । त्रैलोक्यं गोपायतीति तथा तस्मै । गुपु रक्षण इति धातोः । विशुद्धमत्युज्वलं वर्चस्तेजो यस्य तस्मै ॥ ६५ ॥
यदा विसृष्टस्त्वमनञ्जनेन वै बलं प्रविश्योर्जितदैत्यदानवम् ।
बाहूदरोर्वङ्घ्रिशिरोधराणि वृक्णन्नजस्रं प्रधने विराजसे ॥ ६६ ॥
पदरत्नावली
अनञ्जनेन निर्लेपेन । ऊर्जितदैत्यदानवं बलम् । बाह्वादीन् वृक्णन् छिन्दन् । प्रधने युद्धे ॥ ६६ ॥
सत्यधर्मीया
अनञ्जनेन न विद्यतेऽञ्जनं दोषो यस्मिन्सोऽनञ्जनो निर्दोषस्तेन हरिणा यदा विसृष्टो मुक्त ऊर्जिता दैत्यदानवाश्च यस्मिंस्तद्बलं प्रविश्य प्रधने युद्धे । बाहूदराणि च तान्यूर्वङ्घ्रिशिरोधराणि च । अतो गलः शिरोधरः कण्ठ इति धनञ्जयविरोधाभावः प्राण्यङ्गैक-वद्भावाभावौ ज्ञेयौ । तानि वृक्णन् छिन्दन् । अजस्रं निरन्तरं विराजसे ॥ ६६ ॥
छलारी
अनञ्जनेन निरञ्जनेन हरिणा यदा विसृष्टः प्रेषितस्तदोर्जिता दैत्यदानवा यस्मिंस्तद्बलं प्रविश्य प्रधने युद्धे तेषां बाह्वादीन्वृक्णन् छिन्दन्विराजसे । शिरोधरं कण्ठः ॥६६॥
त्वत्तेजसा धर्ममयेन संहृतं तमः प्रकाशश्च दृशोर्महात्मनाम् ।
दुरत्ययस्ते महिमा गिराम्पते त्वद्रूपमेतत् सदसत् परावरम् ॥ ६७ ॥
पदरत्नावली
त्वत्तेजसा तमः संहृतं महात्मनां दृशोः प्रकाशश्च संहृतः स्तम्भितः । एतत्परावरं सदसत् त्वद्रूपं त्वत्प्रतिमा ॥ ६७ ॥
सत्यधर्मीया
धर्ममयेन त्वत्तेजसा तमोऽज्ञानमन्धकारश्च संहृतम् । महात्मनां दृशोः । महात्मा महात्मा महात्मा चेति विग्रहान्तर्गतैकवचनान्तमहात्म्यैकपदबोध्यं महाव्यक्तेरीदृग्द्वयमिति दृशोरित्युक्तिः । त्वत्तेजसैव प्रकाश उभयविधो भवति । हे गिरां पते महिमा दुरत्ययः केनापि त्यक्तुमशक्यः । एतत्परावरं सदसन्मूर्त्तामूर्त्तं जगत्त्वद्रूपं त्वं रूपं प्रतिष्ठापयितृ यस्य तत्तादृक् । यद्वा सनादीनां द्वित्वविवक्षया जातिः प्रायेणेति वामनोक्तेर्जात्यभिप्रायेणेति वा द्विवचनम् । आह च माघः । प्रकाशकार्कस्य गुणौ दधानाः । स्तनौ तरुण्याः परिवव्रुरेतमिति ॥ ६७ ॥
छलारी
त्वत्तेजसा तमः संहृतम् । महात्मनां सूर्यादीनां प्रकाशो दृशश्च संहृतः स्तम्भितः । कथं भूतेन । धर्ममयेन देदीप्यमानेनेत्यर्थः । धृक्षरणदीप्त्योरिति धातोः । गिरां पते ऋगादिवेदप्रतिपाद्य । परं चापरं चेति द्वन्द्वः । ज्ञानवत्त्वेन । परं चेतनं तद्रहितत्वेनावरमचेतनम् । चेतनाचेतनात्मकमित्यर्थः । सदसत्स्थूलसूक्ष्मरूपम् । एतदिदं जगत्त्वद्रूपं त्वत्प्रतिमा ॥ ६७ ॥
स त्वं जगत्राणखलप्रहाणये निरूपितः सर्वसहो गदाभृता ।
विप्राय चास्मत्कुलदैवहेतवे विधेहि भद्रं तदनुग्रहो हि नः ॥ ६८ ॥
पदरत्नावली
साधुजनत्राणाय खलप्रहाणये दुष्टनिग्रहाय च । अस्मत्कुलदैवहेतवे देवता-भक्त्युत्पत्तिनिदानाय ॥ ६८ ॥
सत्यधर्मीया
हे जगत्त्राण । जगतस्त्राणं रक्षणं येन तत्सम्बुद्धिः । खलप्रहाणये खलानां प्रहाणिर्हतिस्तस्मै । सर्वं सहत इति सर्वसहः । गदाभृता भगवता निरूपितो विनियुक्तः स त्वम् । अस्मत्कुलदैवहेतवे तत्प्रीत्यर्थं विप्राय मङ्गलं धेहि । तेन किमित्यत आह । तदेतद्विधानां हि यतो नोऽस्माकमुपर्यनुग्रहः कृतो भवति ॥ ६८ ॥
छलारी
किञ्च भगवन्नियुक्तेन त्वया खलानामेव दण्डः कार्यः साधवस्तु रक्षणीया अतो विप्ररक्षणेनास्माननुग्रहाणेत्याह ॥ स त्त्वमिति ॥ हे जगत्त्राण । गदाभृता निरूपितो नियुक्तः सर्वसहो भक्तापराधसहनशीलो अस्मत्कुलदैवहेतवे । भाग्यलाभाय विप्राय । भद्रं विधेहि तदेव ममानुग्रहः ॥ ६८ ॥
यद्यस्ति दत्तमिष्टं वो सधर्मो वा स्वनुष्ठितः ।
कुलं नो विप्रदैवं चेद् दिजो भवतु विज्वरः ॥ ६९ ॥
सत्यधर्मीया
आपरोक्ष्येणोक्त्वा परोक्षतोऽपि चिन्तयति ॥ यदीति ॥ दत्तम् । इष्टमिष्टिर् नः कुलं विप्रदैवं विप्रा दैवं यस्य तत् । चेद्यदि द्विजोऽयं दुर्वासाः । विज्वरोऽनुपतापो भवतु ॥ ६९ ॥
छलारी
सर्वसुकृतार्पणेन विप्ररक्षां प्रार्थयते ॥ यद्यस्तीति ॥ द्वाभ्याम् । विप्रो दैवं देवता यस्मिन् । विज्वरः सन्तापरहितः ॥ ६९ ॥
यदि मे भगवान् प्रीत एकः सर्वगुणाश्रयः ।
सर्वभूतात्मभावेन द्विजो भवतु विज्वरः ॥ ७० ॥
पदरत्नावली
सर्वभूतानामयमात्मा स्वामी, सर्वोत्कृष्ट इति भावेन भक्त्या यद्येकः प्रधानो भगवान् प्रीतः ॥ ७० ॥
दुर्घटभावदीपिका
एकः प्रधानः सर्वभूतात्मभावेन सर्वजीवान्तर्यामित्वेन सर्वगुणाश्रयः सर्वजीवगुणाश्रयो भगवान् यदि मे मम प्रीतिस्तर्हि द्विजो भवत्विति । एतेन सर्वभूतात्म-भावेनेत्येतदनन्वितमिति दूषणं निरस्तम् । सर्वभूतात्मभावेनेत्यस्य सर्वगुणाश्रय इत्यनेनान्वय-मङ्गीकृत्य विज्वरत्वादिगुणानामीश्वराधीनत्वमुच्यत इत्यभ्युपगमात् ॥ ७१ ॥
सत्यधर्मीया
सर्वगुणाश्रयः । एको मुख्यः । भूतानां स्वामीति । भावो भक्तिस्तेन प्रीतश्चेत् । द्विजो विज्वरो भवतु ॥ ७० ॥
छलारी
सर्वभूतात्मभावेन सर्वभूतानामयमात्मा स्वामी । सर्वोत्कृष्ट इति भावेन भक्त्या । यद्येकः प्रधानो भगवान् प्रीतः ॥ ७० ॥
श्रीशुक उवाच–
इति संस्तुवतो राज्ञो विष्णुचक्रं सुदर्शनम् ।
अशाम्यत् सर्वतो विप्रं प्रदहद् राजयाञ्चया ॥ ७१ ॥
दुर्घटभावदीपिका
राज्ञ इति संस्तुतवतः सुदर्शनं सुदर्शननामकं विष्णुचक्रं राजयाञ्चया सर्वतः सामस्त्येनाशाम्यच्छान्तमभवत् । विप्रमजहात् । अडभावश् छान्दसः । प्रकर्षेणाजहा-दिति । एतेनेति संस्तुतवतो राज्ञो याञ्चयेति याञ्चया राज्ञः सम्बन्धित्वस्योक्तत्वात् । राजयाञ्चयेत्यत्र राजेत्येतव्द्यर्थमिति दूषणस्यानवकाशः । सत इत्यस्याध्याहारं कृत्वा राज इत्यस्य संस्तुतवतः सत इत्यनेनान्वयमभ्युपेत्य राज्ञः स्तुत्या राज्ञो याञ्चाया च विष्णुचक्र-मशाम्यद्विप्रमजहाच्चेत्युच्यत इत्यूरीकरणात् ॥ ७१ ॥
सत्यधर्मीया
राज्ञः संस्तुवतः सतः । विष्णुचक्रं सर्वतः प्रदहदपि । सुदर्शनं शोभनं दर्शनं सत् । अभीकरमिति यावत् । अशाम्यत् शान्तकरमभवत् । तत्र तत्र राजयाञ्चयेति
॥ ७१ ॥
छलारी
संस्तुवतः सतः प्रार्थयतः सत इत्यपि ज्ञेयम् । राजयाञ्चया राजस्तुत्या चेत्यपि ज्ञेयम् । अशाम्यदित्यन्वयः । सर्वतो दिक्षु विप्रं प्रदहत् ॥ ७१ ॥
स मुक्तोऽस्त्राग्नितापेन दुर्वासाः स्वस्तिमांस्ततः ।
प्रशशंस तमुर्वीशं युञ्जानः परमाशिषः ॥ ७२ ॥
सत्यधर्मीया
अस्त्रस्याग्निस्तत्तापेन । स्वस्तिरस्यास्तीति वा स्वस्त्यस्यास्तीति वा विग्रहः । क्षेमवान्परमाशिषः । अविफला इति परमाश्च ता आशिषश्च । ततः परम् । आशिष इति वा ॥ ७२ ॥
छलारी
अस्त्राग्निः सुदर्शनाग्निः ॥ ७२ ॥
दुर्वासा उवाच–
अहो अनन्तदासानां महित्वं दृष्टमद्य मे ।
कृतागसोऽपि यद् राजन् मङ्गलानि समीहसे ॥७३॥
पदरत्नावली
महित्वं महिमा ॥ ७३ ॥
सत्यधर्मीया
मे मया । अनन्तदासानाम् । महित्वं माहात्म्यमद्य दृष्टम् । महित्वमस्तु वज्रिण इत्यृग्भाष्यटीकाटिप्पणीषु । तस्यैवास्तु महित्वं महत्त्वं पूर्णत्वम् । महेरौणादिक इप्रत्ययः । महेर्भावो महित्वमितीत्युक्तेः । यद्यस्माद्राजन् कृतागसोऽपि मे मद्विषये मङ्गलानि समीहसे इच्छसीति ॥ ७३ ॥
छलारी
समीहसे इच्छसि ॥ ७३ ॥
दुष्करं किन्नु साधूनां दुस्त्यजं वा महात्मनाम् ।
यैः सङ्गृहीतो भगवान् सात्वतामृषभो हरिः ॥ ७४ ॥
सत्यधर्मीया
यैर्भगवान् सात्वतामृषभः सङ्गृहीतः स्वामित्वेन स्वीकृतस्तेषां साधूनां दुष्करं किं न किमपि । तेषां महात्मनाम् । दुस्त्यजं वा किम्विति ॥ ७४ ॥
छलारी
ममानिष्टकरणं तवासाध्यं न भवति समर्थत्वादित्याह ॥ दुष्करमिति ॥ साधूनां क्षमया साधूनां स्वतः समर्थानामित्यर्थः । मदागमनपर्यन्तमन्यैर्दुस्त्यजाहारस्य त्यागस्य कृतत्वात्त्वन्माहात्म्यं किं वर्णनीयमित्याशयेनाह ॥ दुस्त्यजं वेति ॥ महात्मनां महानात्मा मनो येषां ते मनोजयवतामित्यर्थः । सङ्ग्रहीतो वशीकृतः ॥ ७४ ॥
यन्नामश्रुतिमात्रेण पुमान् भवति निर्मलः ।
तस्य तीर्थपदः किं वा दासानामवशिष्यते ॥ ७५ ॥
सत्यधर्मीया
तीर्थपदस्तस्य दासानाम् । किमवशिष्यते । शुभेषु प्राप्यत्वेन शिष्टं भवेत् । सर्वं ते लभन्ते इति भावः ॥ ७५ ॥
छलारी
पुमान्भक्तिरहितोऽपि । तीर्थपदस् तीर्थपादस्य । दासानां भक्तानां किं पापमवशिष्यते । न किमपीत्यर्थः ॥ ७५ ॥
राजन्ननुगृहीतोऽहं त्वयाऽतिकरुणात्मना ।
ममाघं पृष्ठतः कृत्वा प्राणा यन्मेऽभिरक्षिताः ॥ ७६ ॥
सत्यधर्मीया
यद्राजन् । मे प्राणा ममाघं कृत्यादिकृत्यजं पृष्ठतः कृत्वा पश्चात्कृत्य । अलक्षीकृत्येति यावत् । अतिकरुणात्मनाऽभिरक्षितास्ततोऽहमनुगृहीतः ॥ ७६ ॥
छलारी
अतिकरुणात्मनाऽतिकरुणवता । अघमपराधम् ॥ ७६ ॥
**राजा तमकृताहारः प्रत्यागमनकाङ्क्षया । **
**चरणावुपसङ्गृह्य प्रसाद्य समभोजयत् ॥ ७७ ॥ **
सत्यधर्मीया
तदेव भक्षयिष्यामि कामिनि कवाटमुद्धाटयेति नीत्याऽयमायात इत्यनादरं न तव नाम्बरीष इति शुको द्वाभ्यां ब्रवीति ॥ राजेति ॥ चरणावुपसङ्गृह्य समभोजयद्भोजया-मासेति ॥ ७७ ॥
छलारी
राजेत्यादिश्लोकद्वयं शुकोक्तिः ॥ ७७ ॥
**सोऽशित्वाऽऽदृतमानीतमातिथ्यं सार्वकामिकम् । **
तृप्तात्मा नृपतिं प्राह भुज्यतामिति सादरम् ॥ ७८ ॥
पदरत्नावली
आतिथ्यम् अतिथिप्रियमन्नम् । अपेक्षिताखिलभोजनम् ॥ ७८ ॥
सत्यधर्मीया
सर्वकामिकमीप्सितं सर्वेष्टसम्बन्ध्यातिथ्यमतिप्रियमन्नमानीतमशित्वा भुक्त्वा तृप्त आत्मा मनो यस्य स सन् । सादरं भुज्यतामिति प्राह ॥ ७८ ॥
छलारी
अशित्वा भुक्त्वा । आतिथ्यम् अतिथिप्रियमन्नम् । सार्वकामिकं सर्वेषां कामिकमपेक्षाविषयम् । जनस्य राजयोगित्वादिति भावः । तृप्तात्मा सन्तुष्टमना र्दुवासाः ॥७८॥
प्रीतोऽस्म्यनुगृहीतोऽस्मि तव भागवतस्य वै ।
दर्शनस्पर्शनालापैरातिथ्येनात्ममेधसा ॥ ७९ ॥
पदरत्नावली
आत्ममेधसा आत्मज्ञानेन ॥ ७९ ॥
सत्यधर्मीया
मेधाशब्दपर्यायोऽयं मेधःशब्दः । आत्मशब्दस्य नञ् दुसुभ्यः । प्रजामेधयोरित्यनुशिष्टान्यतमत्वाभावात् । आत्ममेधसा हरिमत्या । स्वधियेति वा । यया आत्ममेधसा आत्मनो मम मेधा यस्याहमेव तेन मयैव । मद्धेतुकामया सा हिंसा । तस्या मोचित इत्यनुगृहीत इति वा । सा तु हिंसायामिति विश्वः ॥ ७९ ॥
छलारी
सन्तोषोद्रेकात्पुनरपि वदति । प्रीतोऽस्मीति श्लोकद्वयेन । आत्ममेधसा परमात्मज्ञानेन त्वमग्निरित्यादिना सुदर्शनस्तुतिकरणेन तत्ज्ञानस्याभिव्यक्तत्वादिति भावः ॥७९॥
कर्मावदातमेतत् ते गायन्ति स्वःस्त्रियो मुहुः ।
कीर्तिं परमपुण्यां च कीर्तयिष्यति भूरियम् ॥ ८० ॥
पदरत्नावली
अवदातं निर्मलम् । स्वः स्त्रियः स्वर्गाङ्गनाः ॥ ८० ॥
सत्यधर्मीया
स्वः स्त्रियः स्वर्गगाङ्गनाः । अवदातं निर्मलम् । ते कर्म गायन्ति । इयं भूस्तत्स्थो जनः ॥ ८० ॥
छलारी
स्वर्गस्त्रियः । अवदातं शुभ्रम् । शुद्धं गायन्ति । भूरियं तत्रस्थो जनः ॥८०॥
श्रीशुक उवाच–
एवं सङ्कीर्त्य राजानं दुर्वासाः परितोषितः ।
ययौ विहायसाऽऽमन्त्र्य ब्रह्मलोकमहैतुकम् ॥ ८१ ॥
सत्यधर्मीया
औतुकं तात्कालिकं स्थिरम् ॥ ८१ ॥
छलारी
विहायसाऽऽकाशमार्गेण । औतुकं हेतुकादिदुर्जनैरप्राप्यम् ॥ ८१ ॥
संवत्सरोऽत्यगात् तावद् यावत्तं नागतो गतः ।
मुनिस्तद्दर्शनाकाङ्क्षी राजाऽब्भक्षो बभूव ह ॥ ८२ ॥
पदरत्नावली
इतो गतो मुनिर्यावत् तं नृपं नागतस् तावत् संवत्सरोऽत्यगात् । मुनिदर्शनाकाङ्क्षो राजा च तावदब्भक्षोऽभूत् ॥ ८२ ॥
सत्यधर्मीया
दूर्वासोगमनप्रत्यागमनयोः कियानन्तरागतः समय इत्यत आह ॥ संवत्सर इति ॥ यावद्गतो मुनिस्तं प्रति नागतस्तावत् । संवत्सर एकोऽत्यगादतीतोऽभूत् । भूपः कथमवर्ततेत्यतः कीर्तयति । तद्दर्शनाकाङ्क्षी राजा । अब्भक्षो नीरपारणो बभूवाभवदिति
॥ ८२ ॥
छलारी
तस्य धैर्यातिशयमाह ॥ संवत्सर इति ॥ इतो गतो मुनिर्यावत्तं नृपं नागतस्तावत्संवत्सरोऽत्यगादन्तिक्रान्तोऽभूत् । मुनिदर्शनाकाङ्क्षो राजा च तावदब्भक्षोऽभूत्
॥ ८२ ॥
गतेऽथ दूर्वाससि सोऽम्बरीषो द्विजोपभोगातिपवित्रमाहरन् ।
ऋषेर्विमोक्षं व्यसनाच्च बुद्धया मेने स्ववीर्यं च परानुभावम् ॥ ८३ ॥
पदरत्नावली
सोऽम्बरीषो बुद्धया मुनेर्व्यसनान्मोक्षं स्ववीर्यं च परमात्मनोऽनुभावः प्रभावः सामर्थ्यं यस्मिंस्तत्तथा, भगवन्महिमोपेतं मेन इत्यर्थः ॥ ८३ ॥
सत्यधर्मीया
द्विजोपभोगेन तद्भुक्तशेषतयाऽतिपवित्रम् । आहरन् राजा बुद्ध्या । अस्ववीर्यं मम न विद्यते सामर्थ्यं यस्मिंस्तम् । परानुभवं भगवतोऽनुभावो यस्य तं च ऋषेर्व्यसनाद्विमोक्षं मेने विषयीकृतवान् ॥ ८३ ॥
छलारी
उपभोगं भोजनं तेनातिपवित्रम् । अन्नमिति शेषः । आहरन् भुञ्जानो बुद्ध्या स्ववीर्यं च धैर्यादिलक्षणम् । परानुभावं भगवतः प्रभावं मेने ॥ ८३ ॥
एवंविधानेकगुणः स राजा परात्मनि ब्रह्मणि वासुदेवे ।
क्रियाकलापैः समुवाह भक्तिं यया विरिञ्चादिमधश्चकार ॥ ८४ ॥
तात्पर्यम्
–‘ब्रह्मादिभक्तिकोट्यंशादंशो नैवाम्बरीषके । नैवान्यस्य च कस्यापि तथापि हरिरीश्वरः । तात्कालिकोपचेयत्वात्तेषां यशस आदिराट् । ब्रह्मादयश्च तत्कीर्तिं व्यञ्जया-मासुरुत्तमाम् । मोहनाय च दैत्यानां ब्रह्मादेर्निन्दनाय च । अन्यार्थं च स्वयं विष्णुर्ब्रह्माद्याश्च निराशिषः । मानुषेषूत्तमत्वाच्च तेषां भक्त्यादिभिर्गुणैः । ब्रह्मादे-र्विष्ण्वधीनत्वज्ञापनाय च केवलम् । दुर्वासाश्च स्वयं रुद्रस्तथाप्यन्याय्यमुक्तवान् । तस्याप्यनुग्रहार्थाय दर्पनाशार्थमेव च’ इति गारुडे ॥ ८४ ॥
पदरत्नावली
विरिञ्च आदिः कारणं यस्य स विरिञ्चादिस्तं प्रपञ्चं यथायोग्यमधश्चकार न तु सर्वम् । तथात्वे शास्त्रविरोधः स्यात् । तथा हि ‘ब्रह्मादिशक्तिकोट्यंशादंशो नैवाम्बरीषके । नैवास्त्यन्यस्य कस्यापि तथापि हरिरीश्वरः । तात्कालिकोपचेयत्वात् तेषां यशस आदिराट्’ इति । नन्वम्बरीष एव स्तुतिं कृत्वा चक्रनिवर्तनं कृतवान् न ब्रह्मादय इत्यत आह ब्रह्मादयश्च तत्कीर्तिं व्यञ्जयामासुरुत्तमाम् । मोहनाय च दैत्यानां ब्रह्मादेर्निन्दनाय च । अन्यार्थं च इति । निन्दनाय, असुरकृतायेति शेषः । अन्यार्थम् अर्थवादार्थम् । किञ्च फलानिच्छुत्वज्ञापनाय च विष्ण्वादिभिश्चक्रं न निवर्तितमित्याह– ‘स्वयं विष्णुर्ब्रह्माद्याश्च निराशिषः’ इति । अम्बरीषस्य मनुष्याधिकारिषु भक्त्यादिगुणैरुत्तमत्वज्ञापनार्थमपि । तदुक्तम्– ‘मानुषेषूत्तमत्वाच्च’ इति । ब्रह्मादीनां भक्त्यादिगुणाधिक्यप्रकटनाय च । तेषां भक्त्यादिभिर् इति । अन्यच्च प्रयोजनम्– ब्रह्मादेेर्विष्ण्वधीनत्वज्ञापनाय च केवलम् इति । तर्हि दुर्वासाः । क इति चेद् रुद्रावतारः ‘दुर्वासाश्च स्वयं रुद्रः’ इति । तथापि रुद्रत्वेऽपि असुरावेशादन्याय्यवचनम् । तथाप्यन्याय्य-मुक्तवान् इति । स्वाज्ञाकारित्वेन तस्मिन्ननुग्रहविशेषाय, भक्तजनमदविनाशाय च विष्णुना निवर्तनं नाकारि’ । तस्याप्यनुग्रहार्थाय दर्पनाशार्थमेव च इत्यादिशास्त्रविरोधसद्भावाद् । अतो भक्तिविधानार्थं तद्यशोऽर्थं दुष्टजनमोहनार्थं चेति ज्ञातव्यम् ॥ ८४ ॥
दुर्घटभावदीपिका
वासनादित्येतदर्थवशाद्व्यसनमिति द्वितीयान्तं सम्बध्यते । ऋषेर्व्यसनं व्यसनाद्विमोक्षं च परानुभावं परमात्मसामर्थ्याधीनं स्ववीर्यं स्वस्य ऋषेः सामर्थ्याधीनं मुख्यतो भगवत्सामर्थ्याधीनम् । अमुख्यतो ऋषिसामर्थ्याधीनं न भवति किन्तु भगवत्सामर्थ्याधीनम् । ऋषेर्व्यसनाद्विमोक्षणं मुख्यतो चोद्यस्यानवकाशः । न केवलम् ऋषेर्व्यसनं परानुभावं मेने । ऋषे-र्व्यसनाद्विमोक्षं च परानुभावं मेन इति समुच्चयार्थमाद्यश्चशब्दः । ऋषेर्व्यसनाद्विमोक्षणं स्ववीर्यं मेन इत्ययुक्तम् । दुर्वाससो रुद्रावतारत्वेन तन्मोक्षणस्य राजवीर्यधीनत्वायोगादिति दूषणं परिहृतम् । स्ववीर्यामिति स्वशब्देन ऋषेरेव ग्रहणं न तु राज्ञ इत्यङ्गीकारात् ॥ ८४ ॥
सत्यधर्मीया
एवंविधानेकगुण इति श्लोके यया विरिञ्चादिमधश्चकारेति भक्त्या विध्याद्यधःकरणमम्बरीषस्य प्रतीयते । तच्चेयदामननादित्यधिकार्यवधित्वेन श्रुतो विधिरिति दूर्वासा अपि साक्षात्त्र्यक्ष इति च प्रमाणबाधित इत्यतो मानमेवोदाहृत्य तदवमानयति ॥ ब्रह्मादीति ॥ ब्रह्मादिभक्तिकोठ्यंशाद्ब्रह्मादिषु विद्यमानाया भक्तेस्तत्सम्बन्धी यः कोट्यंश-स्तस्मादंशो लेशोऽम्बरीषके नैव नैवास्ति । तत्रापि तरतमभावो ज्ञेयः । अन्यस्यापि कस्यचिद्राज्ञोऽपि वा । अन्यस्यापि कस्यचित्साधनस्य सकाशादित्यपि योजयन्ति । तथाऽपि सत्यप्येवमीश्वर एवं कर्तुं समर्थः । हरिरादिराट् । तेषामम्बरीषादीनां यशस्तात्कालिकोप-चेयत्वात्तात्कालिकं यदुपचेयमुन्नहनीयत्वं तस्माद्ब्रह्मादयश्चोत्तमां तत्कीर्तिं व्यञ्जयामासुः । हरिहिरण्यगर्भादयश्च तद्यशो व्यञ्जनार्थमेवैवं चक्रुरित्युक्तिरियमित्येका गतिः । कृपानिमित्ता या भक्तिर्नीचभक्तेषु साऽधिकेत्यादेः । मोहनाय च दैत्यानां ग्रन्थकर्तुः प्रयोजनं च तद्दैतेयगतियापनं ज्ञेयम् । इति द्वितीयगतिः । अत्र मोहितास्ते किं समीहन्त इत्यत आह ॥ ब्रह्मादेर्निंदनाय चेति ॥ ते चासमर्थाः समर्थोऽम्बरीष इति तन्निन्दनाय । केचिदिदमुद्ग्रन्थं स्वतन्त्रफलोप-लम्भकतयाऽपि शक्तेः किं नोर्जिता कीर्तिरुपार्जितेत्यतः स तु कीर्तिपूर्तिः स्वतोऽन्ये तु तन्निघ्ना इत्याह । स्वयं विष्णुरन्यार्थं परयशआद्यर्थम् । एतदप्यायानतन्याः कीर्तेरभावादिति भावः । ब्रह्माद्याश्च निराशिषो न विद्यत आशीरभिलाषो येषां ते तथा । हरीच्छानुसरीच्छावन्त इत्यर्थः । मानुषेषूत्तमत्वाच्च तेषामम्बरीषादीनाम् । तृतीया वा चतुर्था वा गतिरनेनोक्ता । तत्र निमित्तं भक्त्यादिभिर्गुणैरिति । अनेन मूलं च विरिञ्च आदिः कारणं यस्य स्थावरप्रपञ्चस्य तमधश्च-कारेत्यपि योज्यमिति सूचयति । ननु दूर्वासाः साक्षात्त्र्यक्षः परोक्षतः कृतमब्भक्षणं कथं ज्ञातवान्न ज्ञातवांश्चेममनर्थं भाविनमित्यत आह ॥ ब्रह्मादेरिति ॥ के मम बलं न बलं तद्रूपा भवेयुरिति जानन्दुर्वासाः । तत्र हेतुः स्वयं रुद्र इति । ब्रह्मादेः केवलमित्यप्यावृत्त्या योज्यम् । केवलं विष्ण्वधीनत्वज्ञापनाय च । तथाऽपि मनोनियामकरुद्रत्वेऽपि । अन्याय्यमनशिताशितमपि पानीयमशितत्वेनैवेति न्यायादपेतमुक्तवान् । अनेन ज्ञान्येवमतनोद्दैत्यानां मोहनाय चेत्यादिकं योग्यं सर्वमत्राप्यनुसन्धेयं सिंहावलोकनेनेत्याऽऽह ॥ तस्यापीति ॥ स्वयं विष्णुस्तस्यापि दुर्वाससस्तदुपर्यनुग्रहार्थाय दर्पनाशार्थमेव च न मोचयामास । ततश्चायं श्लोकार्थः । एवंविधा अनेकगुणा यस्य स तथा । क्रियाकलापैः कर्मसमूहैः परमात्मनि वासुदेवे ब्रह्मणि तां भक्तिं समुवाह । यथा भक्त्या विरिञ्चादिं ब्रह्मादिप्रपञ्चं सुरमोहनाद्यर्थं हरिरधःकारयामास स च चकार । ब्रह्मादिः कारणं जनक इति यावत् । यस्य तं शिवावतारं दुर्वाससमधःकारयामास चकार ॥८४॥
छलारी
एवमम्बरीषमुपवर्ण्य तत्कीर्तिं विष्णुब्रह्मादयो व्यञ्जयामासुरित्याह ॥ एवं विधानेकगुण इति ॥ एवं विधा अनेका गुणा यस्य सः राजाऽम्बरीषः । परमात्मनि परश्चासावात्मा चेति कर्मधारयस्तस्मिन्सर्वोत्तमे चेतने । अथवा । सर्वेषां ब्रह्मादीनामात्मनि नियामके ब्रह्मणि पूर्णगुणे वासुदेवे श्रीकृष्णे । यद्वा । मुक्तिप्रदे वासुदेवनामके ब्रह्मणि परब्रह्मणि ॥ तदुक्तं तात्पर्यनिर्णये– ‘इत्थं विचिन्त्य परमः स तु वासुदेवनामा बभूव निजमुक्तिपदप्रदाता’ इति । समर्पितैरिति शेषः । ब्रह्मार्पणं ब्रह्म हविरित्याद्युक्तप्रकारेण समर्पितैः क्रियाकलापैरश्वमेधादिक्रियासन्दर्भैर्निमित्तैस्तां भक्तिं समुवाह सम्यक् प्राप । यया भक्त्या विरिञ्चादिं विरिञ्चरुद्रेन्द्रादिमधश्चकार ब्रह्माद्यपेक्षयाऽधिकभक्तिमान् । इत्यम्बरीषराजकीर्तिं विष्णुब्रह्मादयश्च व्यञ्जयामासुरिति शेषः । स शरणागतदुर्वाससो रक्षणाधिकरणेन ब्रह्माद्यपेक्षयाऽम्बरीषादीनां भक्तिरधिकेति कीर्तिं प्रख्यापयामासुरिति भावः । अत्र प्रमेयविशेषस्तु ब्रह्मादिभक्तिकोट्यंशा-दित्यादितात्पर्येणावगन्तव्यम् ॥ ८४ ॥
**श्रीशुक उवाच– **
अथाम्बरीषस्तनयेषु राज्यं समानशीलेषु विसृज्य धीरः ।
वनं विवेशात्मनि वासुदेवे मनो दधद् ध्वस्तगुणप्रवाहः ॥ ८५ ॥
दुर्घटभावदीपिका
एवंविधानेकगुणः पूर्वोक्तप्रकारोऽवच्छिन्नानेकगुणसम्पन्नः स राजाऽम्बरीषो यथा भक्त्या विरिञ्चादि विरिञ्चरुदेन्द्रादिमधश्चकार तां भक्तिं परमात्मनि वासुदेवे ब्रह्मणि क्रियाकलापैः समर्पितैर्निमित्तैः समुवाहेत्यम्बरीषराजकीर्तिं विष्णुब्रह्मादयश्च व्यञ्जया-मासुरति । एतेनाम्बरीषराजस्य ब्रह्मादिभक्तिकोठ्यंशस्याप्यभावाद्यया विरिञ्चादिमधश्चकार । तां भक्तिं समुवाहेति कथनमनुपपन्नमिति दूषणं निरस्तम् । इत्यम्बरीषराजकीर्तिं विष्णुब्रह्मादयश्च व्यञ्जयामासुरिति शेषपूरणेनाविद्यमानविषयकीर्तिं व्यञ्जयामास इत्यर्थस्योक्तत्वात् ॥ तात्पर्यार्थः ॥ उदाहृतगरुडवचनस्यायमर्थः । यद्यपि ब्रह्मादिभक्तिकोठ्यंशाद्ब्रह्मादिनिष्ठा विष्णुभक्तिकोठ्यंश-स्यांशोऽम्बरीषके राज्ञि नैवास्ति । अन्यस्य कस्य चापि कस्यचिदपि प्रल्हदादेरपि ब्रह्मादि भक्तिकोठ्यंशांशो नैवास्ति । तथाऽप्यादिराट् आदौ प्रलयकालेऽपि राजते प्रकाशत इत्यादिराट् ईश्वरो हरिर्ब्रह्मादयश्च ब्रह्माद्यपेऽक्षयाऽम्बरीषराजादीनां भक्तिरधिके सतीति शेषः । ब्रह्मा-द्यपेक्षयाऽम्बरीषराजादीनां भक्तिरधिकेत्युत्तमां तत्कीर्तिमम्बरीषराजादीनां कीर्तिं व्यञ्जयामासुः ।
ननु विष्णुब्रह्मादयश्च कालान्तरपरित्यागेन कालविशेषेऽम्बरीषराजादीनां कीर्तिं कुतो व्यञ्जयामासुरित्यत उक्तम् ॥ तात्कालिकोपचयत्वादिति । तेषामम्बरीषराजादीनां यशस्तात्कालि-कोपचयत्वात्तत्कालसम्बन्ध्यभिवृद्धियोग्यत्वात् । पूर्वकालापेक्षया कालविशेषे । सज्जनेष्वधिक-कीर्तेर्भाव्यत्वादिति यावत् । तर्हि विद्यमानविषयकीर्तेरेव व्यञ्जनं कर्तव्यमविद्यमानविषयकीर्ते-र्व्यञ्जनं कुतः कृतमित्यत आह ॥ मोहनायेति । परस्परसमुच्चये चशब्दौ । दैत्यानां मोहनाय विष्णुभक्तिविषये ब्रह्माद्यपेक्षयाऽम्बरीषादयोऽधिका इति मोहोत्पादनार्थं च ब्रह्मादेर्निदनायाम्बरीषा-दयोऽधिका ब्रहादयो नीचा इति निन्दनार्थं ब्रह्मादय उत्तमां कीर्तिं व्यञ्जयामासुरिति पूर्वेणान्वयः । अविद्यमान विषयकीर्तिं व्यञ्जने विष्णोः किं प्रयोजनमित्यत आह ॥ अन्यार्थमिति । चशब्द एवार्थे । अन्यार्थं ब्रह्मादिविषयमोहार्थं निन्दोत्पादार्थमेव विष्णुः स्वयमप्युत्तमां कीर्तिं व्यञ्जया-मासेति सम्बन्धः । अनेन विष्णोरविद्यमानविषयकीर्तिव्यञ्जनस्य ब्रह्मादि विषयमोहनिन्दोत्पादन-मेव प्रयोजनं न तु स्वविषयमोहनिन्दोत्पादनमित्युक्तं भवति । ननु ब्रह्मादीनां स्वविषय-मोहनिन्दाभावकामनायाः सत्वे स्वविषयमोहनिन्दार्थं कथं प्रवृत्तिर्भविष्यतीत्यत आह ॥ ब्रह्माद्या इति । चशब्द एवार्थे । ब्रह्माद्या निराशिषश्च स्वविषयमोहनिन्दाभावकामनारहिता एव । अतः स्वविषयमोहनिन्दार्थम् । प्रवृत्तिरुपपन्नेति शेषः । ननु ब्रह्माद्यपेक्षया नीचानां बहूनां विष्णुभक्तानां विद्यमानत्वात्तत्परित्यागेनाम्बरीषादीनामेव कीर्तिं कुतो व्यञ्जयामासुरित्यत आह ॥ मानुषेष्विति । तेषामम्बरीषादीनां मध्ये केषाञ्चिद्भक्त्यादि-भिर्गुणैर्मानुषेषूत्तमत्वात् । चशब्दोऽनुक्तसमुच्यये । केषाञ्चिद्दैत्यादिषूत्तमत्वाच्चाम्बरीषप्रल्हादादीनामेव कीर्तिं व्यञ्जयामासुः । ब्रह्मादि विषयमोह-निन्दनोत्पादनस्य प्रयोजनमाह ॥ ब्रह्मादेरिति । सज्जनानामिति शेषः । ननु रुद्रावतारत्वा-त्स्वभक्तोत्तमस्य दुर्वाससः पीडा विष्णुना कथं चक्रेण कृतेत्यत आह ॥ दुर्वासा इति । तस्यापीत्यपिशब्दात्पूर्वम् । यदीति शेषः । अपि यद्यपि दुर्वासाः स्वयं मुख्यतो रुद्रो रुद्रावतारः । च शब्दोऽनुक्तसमुच्चये । विष्णुभक्तोत्तमश्च । तथाऽपि दुर्वासा अन्याय्यमुक्तवान् दर्पनाशार्थमेव । चोति च शब्दोऽनुक्तसमुच्चये । अन्याय्यं कृतवांश्च । अतस्तस्य दुर्वाससो दर्पनाशार्थमनुग्रहार्थायैव विष्णुना स्वचक्रेण । पीडा कृतेति शेषः ॥ ८५ ॥
॥ इति श्रीभागवतटिप्पण्यां षष्ठोऽध्यायः ॥ ९-६ ॥
सत्यधर्मीया
अथ धीरोऽम्बरीषः समानशीलेषु समानं शीलं येषां तेषु तनयेषु विसृज्यातिसृज्य वासुदेवे आत्मनि सर्वस्वामिनि मनो दधद्दधानो ध्वस्तगुणप्रवाहः स वनं विवेश प्राविशत् ॥ ८५ ॥
छलारी
दधद्दधानः । ध्वस्तः सत्त्वादिगुणजन्यो रागादिः प्रवाहो यस्य ॥ ८५ ॥
इत्येतत् पुण्यमाख्यानमम्बरीषस्य भूपतेः ।
सङ्कीर्तयन्ननुध्यायन् भक्तो भगवतो भवेत् ॥ ८६ ॥
॥ इति श्रीमद्भागवते नवमस्कन्धे षष्ठोऽध्यायः ॥
पदरत्नावली
आख्यानफलमाह– इतीति ॥ ८६ ॥
॥ इति श्रीमद्भागवतटीकायां विजयध्वजतीर्थभिक्षुकृतायां नवमस्कन्धस्य पष्ठोऽध्यायः ॥
सत्यधर्मीया
एतदाख्यानफलमाख्याति ॥ इत्येतदिति ॥ पुण्यं तद्वत् । तत्प्रदमिति यावत् । सङ्कीर्तयन् ध्यायन् । अथ मननं च कुर्वाणो भगवतो भक्तो भवेत् ॥ ८६ ॥
॥ इति श्रीसत्यधर्मयतिकृतायां भागवतटिप्पण्यां नवमस्कन्धे षष्ठोऽध्यायः ॥
छलारी
आख्यानफलमाह ॥ इतीति ॥ आख्यानं माहात्म्यम् ॥ ८६ ॥
**॥ इति श्रीछलारी शेषाचार्यकृतायां भागवतटिप्पण्यां **
नवमस्कन्धे षष्ठोऽध्यायः ॥ ९-६ ॥