०५ पञ्चमोऽध्यायः

नाभागोऽन्यस्ततः प्राज्ञो यं मत्वा भ्रातरः कविम्

॥ अथ पञ्चमोऽध्यायः ॥

श्रीशुक उवाच–

**नाभागोऽन्यस्ततः प्राज्ञो यं मत्वा भ्रातरः कविम् । **

यविष्ठं व्यभजन् दायं ब्रह्मचारिणमाह सः ॥ १ ॥

पदरत्नावली

बह्वृचब्राह्मणप्रसिद्वो नाभागो मनुपुत्र उच्यते । ततस्तस्मात् पूर्वोक्त-दिष्टपुत्रनाभागादन्यो नाभागाख्यमनुपुत्रः । ततः कथान्तरसूचको वा । वेदसिद्धत्वाद् यशसा ततो व्याप्तो वा । नाभानेदिष्ट इत्यन्यः, ततोऽन्यनाम्ना ख्यातः, वेदे इति शेषो वा । नाभानेदिष्टं शंसतीत्यादौ । प्राज्ञो ज्ञानी, ज्येष्ठभ्रातरो ब्रह्मचारिणं विवाहानभिमुखं गुरुकुले वसन्तं यविष्ठं कनिष्ठं यं नाभागं कविम् आत्मज्ञानित्वेनातिक्रान्तदर्शिनं मत्वा, दायं कुलपारम्पर्येण प्राप्तं विभागयोग्यं द्रव्यं व्यभजन् यदा कुवेर्भागमदत्वा तदा स कविर्नाभागोऽवगम्यैत्य भ्रातृनाह ॥१॥

सत्यधर्मीया

पञ्चमपञ्चकचतुर्दशखण्डबव्हृचब्राह्मणप्रसिद्धं नाभागं तत्कर्म च शंसति ॥ नाभाग इति ॥ ततोऽन्य उपदिष्टदिष्टपुत्रात् । अभागो भागयोग्यो नेति नेत्ययं नाभागः । प्राज्ञो ज्ञानी वस्तुतः । यं यविष्ठं कनिष्ठं स्वावरजं कविमतिक्रान्तदर्शनं मत्वा । ब्रह्मचारिणम् । विवाहानुन्मुखमिति यावत् । दायं तदीयमपि दायम् । तद्भागयोग्यमिति यावत् । व्यभजत्स्वयं व्यभज्य जग्रहुः । यदाऽदत्वा स्वस्मै स्वयं गृहीतवन्तस्तदा स नाभाग आह ॥ १ ॥

छलारी

उत्तराध्याये नाभागादम्बरीषोऽभूदित्यादिना नवमस्य मनुपुत्रस्य नाभागस्य वंशं वक्ष्यंस्तन्महिमानमाह ॥ नाभाग इति ॥ ततस्तस्मात्पूर्वोक्ताद्दिष्टपुत्रनाभागादन्यो नाभागाख्य-मनुपुत्र आसीत् । कथम्भूतः प्राज्ञस्त्रिकालदर्शी ब्रह्मचारिणं विवाहानभिमुखं गुरुकुले वसन्तं यविष्ठं कनिष्ठं नाभागं कविम् आत्मज्ञानिनं, नैष्ठिकोऽसाविति मत्वा विभागसमये विभागमप्रकल्प्यैव ज्येष्ठभ्रातरः सर्वदायं कुलपारम्पर्येण प्राप्तं विभागयोगद्रव्यं व्यभजन् । स नाभागो गुरुकुलादागत्य भ्रातॄन्प्रत्याह ॥ १ ॥

पाङ्घरी श्रीनिवासाचार्यकृतविरोधोद्धारः

विरोधोद्धार—नाभाग इति ॥ अत्र नाभागशब्दस्य नभगापत्यमिति निर्वचनाङ्गीकारे आद्यवर्ण एव वृद्ध्या भवितव्यम् । न तु द्वितीये । प्रायः सर्वत्र तथा दृष्टत्वात् । अत्र तु द्वितीये भावर्णे वृद्धिदर्शनेन प्रयोगस्यासाधुत्वं स्यादतोऽर्थान्तरम् । नभगापत्यं नभगपुत्रो नाभागो नाभागनामा । नात्र नाभागशब्दस्य प्रवृत्तिनिमित्तं नभगपुत्रत्वम् । येन प्रयोगस्यासाधुत्वं स्यात् । किन्तु नाभागः नभागो दायविभागो यस्य सोऽभागः, अभागो न भवतीति नाभागः । नात्र नञ्समासः । किन्तु नाकशब्दवन् नसमासः । अतोऽनभाग इति प्रयोगाभावः । द्वौ नञौ सातिशयं प्रकृतमर्थं गमयत इति न्यायेन पितुर्दायवद्भोगसाधनत्वाभावेऽपि रुद्रप्रसादजन्यज्ञान-साहित्येनाङ्गिरःसत्रगधनप्रायकत्वेन भोगसाधकत्वाद्भागत्वेन दत्तत्वाद्भ्रातॄणां मोक्षप्रापकज्ञान-लाभाभावाच्चास्यैवातिशयतोपपत्त्या भागित्वरूपप्रकृतार्थगमकत्वेन च प्रयोगस्य साधुत्वादिदमेव प्रवृत्तिनिमित्तं ज्ञेयम् । एतदेव विवृणोति ॥ यमिति ॥ यम् ॥ आगतम् । गुरुगृहादिति शेषः । नाभागं भ्रातरं प्रति तं पितरं दायं दायत्वेन व्यभजन् । भ्रातर इति पाठे तत्पदं कर्तृत्वेन योज्यम् ॥ १ ॥

॥ इति श्रीभागवतटिप्पण्यां पञ्चमोऽध्यायः ॥ ९-५ ॥

भ्रातरोऽभाङ्क्त किं मह्यं भजान पितरं तव ।

किं म आर्यास्ततामाङ्क्षुर्मा पुत्रक तदादृथाः ॥ २ ॥

पदरत्नावली

हे भ्रातरो यूयं मह्यं किमभाङ्क्तेति । नाभानेदिष्टं वै मानवं ब्रह्मचर्यं वसन्तं भ्रातरो निरभजन् सोऽब्रवीदेत्य किं मह्यमभाङ्क्तेति ब्राह्मणवाक्यसूचनायाऽभाङ्क्तेति पदप्रयोगः । मम भागं किमर्थं विभक्तवन्तः, मम भागः को वा कल्पित इति वाऽप्राक्षीदिति । त एतमब्रुवन् भजान पितरं तवेति । तव पितरं भज, अन गच्छ । अन चेष्टायामिति धातोः । यदि तव विभागापेक्षा तर्हि गत्वा पितरं प्रसाद्य विचारय । वयं चागत्य पृच्छाम इत्यर्थः । एतमेव निष्ठावमववदितार-मित्यजुर्वस्तस्माद्धाप्ये तर्हि पितरं पुत्रा निष्ठावोऽववदित्येवाचक्षते’ इति च । निष्ठावं व्यवस्थागमकं व्यवस्थापकम् अत एवावगम्य वदितारं पितरमब्रुवन्नित्यर्थः । यतो नाभागादयो निश्चयार्थं पितरं गत्वाऽब्रुवन् तस्मादेतर्हि अद्यापि पुत्राः पितरं निर्णीय व्यवस्थापकम् इत्याहुरित्यर्थः । स नाभागो भ्रातृभिः सह गत्वा पितरमपृच्छत्, किमिति तत्राह– किं म इति ॥ हे तत तात पितः मे आर्या ज्येष्ठास्तद्वस्तु अभाङ्क्षुः किमिति पृच्छामि, त्वाम् । यदाऽहं प्रोषितस्तदाऽऽर्यास्त्वां व्यवस्थाप्य मे भागमदत्वा किमर्थमभाङ्क्षुरिति वा । त्वामन्तरेणाभाङ्क्षुरिति, त्वां ह वाव मह्यं तताभाङ्क्षुरिति । स पिता प्रत्याह– मेति । हे पुत्रक तन्मादृथास् तस्मिन् दायविभागे आदरं मा कार्षीरिति, तं पिताऽब्रवीन् मा पुत्रक तदादृथाः’ इति ॥ २ ॥

सत्यधर्मीया

तदेव वचनमाह । हे भ्रातरः मे मह्यं, किमभाङ्क्तेति श्रौतं पदम् । किं यूयमेव विभज्य गृहीतवन्त इति । ते च तमब्रुवन्निति पूरणीयम् । तत्किमित्यत आह ॥ भजानेति ॥ तव पितरं मनुं भजान सेवस्व भज । अन चेष्टस्व । गच्छेति यावदितीति वा । सोऽपि पितरं गत्वा प्राक्षीदिति च । तदाह किमिति । हे तात । आर्या ज्येष्ठभ्रातरः किं, किं कारणम् । मे भागयोग्यस्यापि । तत्स्वयमभांक्षुरिति । तदुक्तः पिता प्राहेति च । हे पुत्रक तत् तद्गृहीतं यत्तद्विषये माऽयं नादृथा आदरं न कुरु । ततश्चायं खण्डखण्डः । नाभानेदिष्टं शंसति । नाभानोदिष्टं वै मानवं ब्रह्मचर्यं वसन्तं भ्रातरो विभजन् सोऽब्रवीदेत्य किं मह्यम-भांक्तेत्येतमेव निष्ठावं तं वदितारमित्यब्रुवंस्तस्माद्धाऽप्ये तर्हि पितरं पुत्रादिष्टावोऽवदित्येवाचक्षते स पितरमेत्याब्रवीत्त्वां ह वाव मह्यं तताभांक्षुरिति तं पिताऽब्रवीन्मा पुत्रक तदादृथा इति । तस्यार्थः । नाभानेदिष्ट इति तस्यैव नामान्तरम् । ततश्च नाभानेदिष्टं तं शंसति प्रतिज्ञातं नाभानेदिष्टं मानवं मनुपुत्रं ब्रह्मचर्यमाश्रमं तेन वसन्तं वेदाभ्यासार्थं गुरुकुले । तमेवाभ्यस्य तु किं तस्य धनेनेति मत्वा तद्भागं निरभजन् । अदत्वा स्वयं गृहीतवन्तः । तदानीं स नाभानेदिष्ट एत्य गुरुगेहादागत्य हे भ्रातरो मह्यं मम भागत्वेन क्लृप्तं यूयं किं किमर्थं गृहीतवन्त इत्यब्रवीत्ते चैतमित्यङ्गुल्या स्वपितरं निर्दिश्य निष्ठावं निष्ठा निर्णयोऽस्मिन्नस्तीति मत्वर्थे वकारप्रत्ययः । गुणार्णवः केशव इतिवत् । निर्णायकम् । निर्णयं कृत्वेति यावत् । अववदितारम् । तवैताव-देतावत्तवेति धर्ममर्मवक्तारमिति । स एव निर्णायकस्तं पृच्छेत्यब्रुवन् । अव आवाक्लृत्य न्यक्लृत्य वक्तारं वा । तस्मात् । हेति प्रसिद्धौ । एतर्हि सम्प्रति पुत्राः पितरं निष्ठावोऽववदितेति निर्णयेन वक्तुं शक्त इत्याचक्षत इति । स नाभागस्तदुक्तः पितरमेत्याब्रवीत् । हे तत मह्यम् । मम भागं स्वयमाभांक्षुः । त्वां च निष्ठावं निर्णायकं चावदन्नैकान्ते ह वाव प्रसिद्धम् । तमेवं वदन्तं सुतं प्रति हे पुत्रक तत्तद्गृहीतवित्तमुद्दिश्य माऽऽदृथा आदरं मा कार्षीरिति पिताऽब्रवीदिति ॥ २ ॥

छलारी

नाभागो भ्रातॄन्प्रति किमाहेति तत्राह ॥ भ्रातर इति ॥ हे भ्रातरो यूयं मह्यं किमभाङ्क्त व्यभजत । कं भागं मदर्थं यूयं प्रकल्पितवन्तः । नाभानेदिष्टं वै मानवं ब्रह्मचर्यं वसन्तं भ्रातरो निरभजंत्सोऽब्रवीदेत्य किं मह्यं मा भांक्तेति ब्राह्मणवाक्यसूचनायाभांक्तेत्यादि-पदप्रयोगः । भ्रातर उत्तरमाहुः ॥ भजेति ॥ हे नाभाग तव पितरं वैवस्वतमनुं प्रति । अन गच्छ । अन चेष्टायामिति धातोः । ततः पितरं भज । यदि तव विभागापेक्षा स्यात्तर्हि गत्वा तं प्रसाद्य विचारय । वयं चागत्य पृच्छाम इत्यर्थः । स नाभागो भ्रातृभिः सह गत्वा पितर-मपृच्छत् । पृच्छन्किमिति तत्राह ॥ किं म इति ॥ हे तत तात । पितः मे आर्या ज्येष्ठा मयि प्रोषिते सति किं वस्त्वाभांक्षुर्भागं चक्रुः । पिता प्राह ॥ मा पुत्रकेति । हे पुत्रक । तदित्यव्ययम् । तस्मिन्दायविभागे । माऽऽदृथा आदरं मा कार्षीरिति ॥ २ ॥

इम अङ्गिरसः सत्रमासतेऽद्य सुमेधसः ।

षष्ठं षष्ठमुपेत्याहः कवे मुह्यन्ति कर्मणि ॥ ३ ॥

पदरत्नावली

तर्हि मम जीवनोपायः क इति नाभागेन पृष्टः पिता प्रत्याह– इम इति ॥ अद्य इमे सुमेधसः शोभनप्रज्ञा अङ्गिरसः सत्रमासते बहुकर्तृके चिरकालीने यज्ञे दीक्षितास्तिष्ठन्ति । हे कवे ते ऋषयः षष्ठं पष्ठमहरुपेत्य तस्मिन्नहनि कर्तव्ये वैश्वदेवे विश्वदैवत्ये कर्मणि मुह्यन्ति ॥ ३ ॥

सत्यधर्मीया

तात तर्हि मम जीविकोपायं कथयेत्यतः कथयति ॥ इम इति ॥ ओदानीं सुमेधसः सु शोभना मेधा धीर्येषां ते सुमेधसः । नञ् दुःसुभ्यः प्रजामेधयोरिति असुन् । अङ्गिरसस्तदभिधा ऋषयः । सत्रं बहुकालिकं क्रतुमासते तत्र दीक्षितास्तिष्ठन्ति । ते सन्तु, मम किमित्यत आह ॥ कव इत्यादिना ॥ षष्ठं षष्ठं प्रतिषष्ठमहरुपेत्य कर्मणि तद्दिने अनुष्ठीयमाने मुह्यन्ति विचित्ता भवन्ति । विस्मरन्तीतीति यावत् ॥ ३ ॥

छलारी

तर्हि मम जीवनोपायः क इति नाभागेन पृष्टः पिता तं प्रत्याह ॥ इम इति ॥ हे कवे सुमेधसः शोभनप्रज्ञा इमेऽङ्गिरसः सत्रमासते सत्रयागं कुर्वन्ति । ते ऋषयः षष्ठं षष्ठमहरुपेत्य तस्मिन्नहनि कर्तव्ये वैश्वदैवत्ये कर्मणि पठनीये सूक्ते च मुह्यन्ति भ्रान्ताः ॥ ३ ॥

तांस्त्वं शंसय सूक्ते द्वे वैश्वदेवे महात्मनः ।

ते स्वर्यन्तो धनं सत्रपरिशेषितमात्मनः ॥ ४ ॥

सत्यधर्मीया

तत्कर्मशर्माह ॥ वैश्वदेव इति ॥ तान्महात्मनः । द्वे वैश्वदेवे विश्वदैवत्ये शंसय ब्रूहि । स्मारयेति यावत् । तेऽङ्गिरसः स्वः स्वर्गं यन्तो प्राप्नुवन्त आत्मनः सत्रपरिशेषितं कृत्वा क्रतुमुर्वरितं धनम् ॥ ४ ॥

छलारी

त्वं महात्मानस्तान्प्रति ज्ञातव्ये द्वे सूक्ते शंसय ब्रूहि । तेऽङ्गिरसः स्वर्गं प्रति यन्तो गच्छन्तः सन्तः । आत्मनः । जात्यैकवचनम् । आत्मनां सत्रपरिशेषितं स्वसत्रेऽवशिष्टं द्रव्यम् ॥ ४ ॥

दास्यन्ते तेऽथ तान् गच्छ तथा स कृतवान् यथा ।

तस्मै दत्वा ययुः स्वर्गं ते सत्रपरिवेषणम् ॥ ५ ॥

पदरत्नावली

त्वं महात्मनस् तान् प्रति ज्ञातव्ये द्वे सूक्ते शंसय ब्रूहि । ते अङ्गिरसः स्वः स्वर्गं यन्तो गच्छन्तः सन्त आत्मनः सत्रपरिशेषितं स्वसत्रे परिशिष्टं तुष्टिसाधनं द्रव्यं, ते तुभ्यं दास्यन्ते । अथ कालक्षेपमन्तरेण त्वं तान् ऋषीन् गच्छेति । स नाभाग आत्मने पित्रा यथोक्तं तथा कृतवानित्यर्थः । अङ्गिरसो वा इमे स्वर्गाय लोकाय सत्रमासते । ते षष्ठं षष्ठमेवाहरागत्य मुह्यन्ति । तानेते सूक्ते षष्ठेऽहनि शंसय । तेषां यत्सहस्रं सत्रपरिवेषणं तत्ते स्वर्यन्तो दास्य-न्तीति । तथेति तानुपैत् प्रतिगृभ्णीत मानवं सुमेधस इति । तमब्रुवन् । किंकामो वदसीतीदमेव वः षष्ठमहः प्रज्ञापयानीत्यब्रवीदथ यद्वा एतत्सहस्रं सत्रपरिवेषणं तन्मे स्वर्यन्तो दत्तेति । तथेति । तानेते सूक्ते पष्ठेऽहन्यशंसयत् । ततो वै ते प्रयज्ञमजानन् । विप्र स्वर्गं लोकं तद्यदेते सूक्त षष्ठेऽहनि शंसति यज्ञस्य प्रजात्यै स्वर्गस्य लोकस्यानुख्यात्यै इति ॥ हे सुमेधसः मानवं मां प्रतिगृभ्णीत स्वीकुरुतेति मन्त्रमुक्त्वा कस्मिन् धने विद्यायामथास्मदपेक्षिते विद्योपदेशकामो यस्य स त्वं किंकामः ? युष्मदधिकविद्यावत्वाद् द्वितीयोऽधुना नाभिमत इति तृतीयकाम इत्याह– इदमेवेति ॥ प्रथमविकल्पकामोऽपि भवामीत्याशयेनाह– अथ यदिति ॥ सर्वयज्ञेषूपयोगमाह– तद्यदिति ॥ अनुख्यातिः प्रकाशः । ते अङ्गिरसः, सत्रपरिवेषणं धनं तस्मै नाभागाय दत्वा स्वर्गं ययुरित्यन्वयः । ते स्वर्यन्तोऽब्रुवन्नेतत्ते ब्राह्मण सहस्रमिति इति । हे ब्राह्मण वेदविद्या-विशारद ॥ ४-५ ॥

सत्यधर्मीया

तुभ्यं दास्यन्ति । अथ मदुक्त्यनन्तरं तान् गच्छ । स नाभागो यथा पित्रोक्तं तथा कृतवांस्तत्समीपं गत्वा ते सूक्ते शशंसेत्यर्थः । ते च सत्रपरिवेषणमिष्ट्युच्छिष्ठम् । तस्मै नाभागाय दत्वा तेऽङ्गिरसः स्वर्गं ययुः ॥ ५ ॥

छलारी

ते तुभ्यं दास्यन्ति । कालक्षेपमन्तरेण त्वं तानृषीन्प्रति गच्छेति । पिता प्राहेति शेषः । स नाभाग आत्मने पित्रा यथोक्तं तथा कृतवानित्यर्थः । तथेत्यादि शुक-वाक्यम् । सत्रपरिशेषितं सत्रपरिशिष्टम् ॥ ५ ॥

तं कश्चित् स्वीकरिष्यन्तं पुरुषः कृष्णदर्शनः ।

उवाचोत्तरतोभ्येत्य ममेदं वास्तवं वसु ॥ ६ ॥

पदरत्नावली

कृष्णदर्शनः कृष्णवर्णतया प्रतीयमानः, कश्चिल्लोकविलक्षणः पुरुषो रुद्रः, यज्ञशालाया उत्तरत उत्तरदिग्भागादभ्येत्य सत्रपरिवेषणं स्वीकरिष्यन्तं तं नाभागमुवाच । कथम् ? इदं वास्तवं यज्ञशालालक्षणवास्तुभवं वसु वस्तु ममेति । तदेनं समाकुर्वाणं पुरुषः कृष्णशवा-स्युत्तरत उपोत्थायाब्रवीन्मम वा इदं मम वै वास्तुहमिति इति । समाकुर्वाणं राशीकृत्य स्वीकुर्वाणं कृष्णशरीरवाससी । वास्तुहं वास्तवम् । मूलभद्रभाषायांं हकारवकारयोः पर्यायत्वाङ्गीकारात् ॥६॥

दुर्घटभावदीपिका

कृष्णदर्शन इत्यस्य कृष्णा इति कृष्णवर्णा इति दर्शनं लोपकर्तृकदर्शनं यस्य स कृष्णदर्शन इत्यर्थः । एतेन कृष्णा वर्णा इति वक्तव्ये कृष्णदर्शन इति दर्शनस्य कृष्ण-त्वाभिधानमयुक्तमिति शङ्कानवकाशः । कृष्णदर्शन इत्यस्य कृष्णा इति दर्शनं यस्येति व्युत्पत्त्या कृष्णा वर्णा इति तात्पर्यार्थ इत्यभ्युपगमात् ॥ ६ ॥

॥ इति श्रीभागवतटिप्पण्यां पञ्चमोऽध्यायः ॥ ९-५ ॥

सत्यधर्मीया

कश्चित्कृष्णदर्शनः पुरुषस्तद्वसु स्वीकरिष्यन्तं तं नाभागमुत्तरतो दिक्तोऽभ्येत्यागत्य । वास्तवं यज्ञशालालक्षणवास्तौ भवम् । वातेर्डः । गतम् । त्यक्तमिति यावत् । श्रौतहानार्थकहकारानुकूल्यात् । वसु धनं ममेत्युवाच ॥ ६ ॥

छलारी

कृष्णदर्शनः कृष्णवर्णतया प्रतीयमानः कश्चिद् लोकविलक्षणः पुरुषो रुद्रः । यज्ञशालाया उत्तरत उत्तरदिग्भागात् । अभ्येत्य सत्रपरिशेषितं द्रव्यं स्वीकरिष्यन्तं तं नाभागं प्रत्युवाच । कथमिदं वास्तवं यज्ञशालालक्षणवास्तुभवं वसु द्रव्यं ममेति । वित्तं वस्तु वसु द्रव्यमित्यभिधानम् ॥ ६ ॥

**ममेदमृषिभिर्दत्तमिति तर्हि स्म मानव । **

स्यान्नौ ते पितरि प्रश्नः स गतः पितरं तथा ॥७॥

पदरत्नावली

हे मानव यदि ममेदमिति वदसि, तर्हि स्म तदैव ऋषिभिरिदं मम दत्त-मित्याह । सोऽब्रवीन्मह्यं वा इदमदुरिति । तर्हि स्म मानवेत्युत्तरत्रापि सम्बध्यते । हे मानव यदि त्वया प्रतिगृहीतमित्युच्यते तर्हि नौ आवयोर्विवादे ते पितरि प्रश्नः स्याद् गत्वा तं पृष्ट्वा निश्चित्य मां ब्रहीत्युक्तः स नाभागः पितरं गतस् तथा पृष्टवान् भो पितो ऽङ्गिरोभिर्दक्षिणार्थं वास्तवं मह्यं दत्तम् । तद्ग्रहणसमये कश्चित् पुरुष आगत्य मदीयमिदं वास्तवम् ऋषिभिर्मह्यं दत्तमिति न त्वया स्वीकर्तव्यमित्याह, अतो यथार्थं वदेति ॥ ७ ॥

सत्यधर्मीया

हे मानव मनुपुत्र यैर्हि ऋषिभिर्दत्तमिति ममेदमिति वदसि तर्हि ते पितरि ताते । नौ तव मम चेत्यावयोर्विवादे प्रश्नः स्यात् । तं पृच्छेत्यर्थः । स गतः पितरं पप्रच्छ । स तथेत्याह । शेषं ग्रन्थकृदुक्तिः । शुकोक्तिर्वेति ज्ञेयम् ॥ ७ ॥

छलारी

तर्हि स्म तदैव ममेदम् ऋषिभिर्दत्तमिति । मानवो नाभाग उवाच । पुनश्च रुद्र उवाच । हे मानव नौ आवयोरस्मिन्विवादे ते पितरि प्रश्नः स्यात् । त्वत्पितरं पृच्छेति यावत् । गत्वा तं पृष्ट्वा निश्चित्य सत्यं मां ब्रूहीत्युक्तः स नाभागः पितरं गतः । तथा पृष्टवानिति शेषः

॥ ७ ॥

यज्ञवास्तुगतं सर्वमुच्छिष्टमृषयः क्वचित् ।

चक्रुर्हि भागं रुद्राय स देवः सर्वमर्हति ॥ ८ ॥

पदरत्नावली

नाभागेन पृष्टः पिता प्राह– यज्ञेति ॥ क्वचिद् दक्षशापप्रसङ्गे, ऋषयो यज्ञवास्तुगतं सर्वमुच्छिष्टमवशिष्टं रुद्राय भागं चक्रुर् हि यस्मात् सो देवः सर्वमर्हति ॥ ८ ॥

सत्यधर्मीया

तत्प्रकारमाह ॥ यज्ञेति ॥ क्वचिद्दक्षाध्वरध्वंससमये यस्मादृषयो यज्ञवास्तुगतं सर्वमुच्छिष्ठं रुद्राय भागं चक्रुः । अनेन स मन्निवारकस्तात क इति प्रश्नावसर-मददान एव पिता तन्नाम सूचयामासेति ध्वनितम् । स देवः सर्वमर्हति । मयोक्तमपि नान्यथा भविष्यति । गच्छेति तात्पर्यं श्रुतिमनुसृत्य ज्ञेयम् ॥ ८ ॥

छलारी

नाभागेन पृष्टः पिता प्राह ॥ यज्ञेति ॥ क्वचिद्दक्षाध्वरे ऋषयो यज्ञवास्तुगतं सर्वमुच्छिष्ठमवशिष्टं रुद्राय भागं चक्रुः । हि यस्मात्सो देवो रुद्रः सर्वमवशिष्टं धनमर्हति ॥ ८ ॥

नाभागस्तं प्रणम्याह तवेश किल वास्तुगम् ।

इत्याह मे पिता ब्रह्मन् शिरसा त्वां प्रसादये ॥ ९ ॥

पदरत्नावली

त्वया त्वविचार्योक्तमित्युक्तो नाभागो गत्वा तं रुद्रं प्रणम्याह । हे ईश वास्तुगतं तव किलेति मे पिता प्राह । तस्मादहं शिरसा त्वां प्रसादये क्षमस्वेति ॥ ९ ॥

सत्यधर्मीया

गत्वा नत्वा तमाहेत्याह ॥ नाभाग इति । तं पुरुषं प्रणम्य । ईश वास्तुगतं सर्वं तव किलेति मम पिताऽऽह । अतो मदपराधस्त्वया क्षन्तव्य इत्याह ॥ ब्रह्मन्निति । हे ब्रह्मन् पूर्ण त्वां शिरसा प्रसादये, दया विधेया ॥ ९ ॥

छलारी

नाभागस्तं रुद्रं प्रणम्याह । हे ईश वास्तुगतं तव किलेति मे पिता प्राह । तस्मादहं शिरसा प्रणम्य त्वां प्रसादये । क्षमस्वेति ॥ ९ ॥

यत् ते पितावदद् धर्मं त्वं च सत्यं प्रभाषसे ।

ददामि ते मन्त्रदृशो ज्ञानं ब्रह्म सनातनम् ॥ १० ॥

पदरत्नावली

स पुरुषो नाभागं प्रत्याह– यत्त इति ॥ यद्यस्मात् ते पिता सत्यलक्षणं धर्ममवदत् । त्वं च सत्यं यथातथं वदसीति यत् तस्मान्मन्त्रदृशः वैश्वदेवसूक्तं दृष्टवतः, ते तव सनातनं सदातनं, वेदप्रमाणकं वा ब्रह्म, ब्रह्मविषयं वा ज्ञानं ददाम्युपदिशामि ॥ १० ॥

सत्यधर्मीया

पिताऽपि ते यद्यतो धर्ममवदत् । त्वं च सत्यं यथातथं प्रभाषसे तत-स्तुष्टोऽहं मन्त्रदृशो वैश्वदेवमुक्तद्वयं दृष्टवतस्ते सनातनमपौरुषेयं ब्रह्म वेदं तदर्थभगवज्ज्ञानं च विनाऽध्ययनं प्रतिभानं ददामि । ज्ञेयं ज्ञानं सनातनं ब्रह्म ददाम्युपदिशामीति वा ॥ १० ॥

छलारी

स रुद्रो नाभागं प्रत्याह ॥ यदिति ॥ यद्यस्मात्तव पिता सत्यलक्षणं धर्ममवदत्त्वं च सत्यं वदसि । तस्मान्मन्त्रदृशो मन्त्रद्रष्टुर्वैश्वदेवसूक्तं दृष्टवत इति यावत् । ते तव सनातनं ब्रह्म तद्विषयज्ञानम् । ज्ञायतेऽनेनेति ज्ञानम् । शास्त्रं ददाम्युपदिशामि ॥ १० ॥

गृहाण द्रविणं दत्तं यत् सत्रपरिवेषितम् ।

इत्युक्त्वाऽन्तर्हितो रुद्रो भगवान् भक्तवत्सलः ॥ ११ ॥

पदरत्नावली

किञ्च यत् सत्रपरिवेषितं द्रविणं तच्च ददामि गृहाण । ‘तमब्रवीत् तद्वै नौ तवैव पितरि प्रश्न इति स पितरमैत् तं पिताऽब्रवीन्ननु ते पुत्रकादूरित्यदुरेव म इत्यब्रवीत् तत्तु मे पुरुषः कृष्णशवास्युत्तरत उपोदतिष्ठन्मम वा इदं मम वै वास्तुहमित्यादितेति तं पिताऽब्रवीत् तस्यैव पुत्रक तत् तत्तु स तुभ्यं दास्यतीति स पुनरेत्याब्रवीत्, तव ह वाव किल भगव इदमिति मे पिताऽऽहेति सोऽब्रवीत् तदहं तुभ्यमेव ददामि य एव सत्यमवादीरिति । तस्मादेवं विदुषा सत्यमेव वदितव्यमिति । हे पुत्रक तेऽङ्गिरसस्तवादुर्ननु दत्तवन्त एव किमिति पृष्ठे स नाभागः म अदुरेव न तत्र सन्देह इत्यब्रवीत् । तर्हि किमत्र बाधकमिति तत्राह– तत् तु म इति ॥ सत्रपरिवेषितं यद् धनं तदिदं ममैवेत्युक्त्वाऽऽदत्तवान् स्वीकृतवानित्यर्थः । इत्युक्ते पिता नाभागं प्रत्याह– तं पितेति ॥ ११ ॥

सत्यधर्मीया

शर्वः सर्वज्ञ इति धर्मस्य पितुरपि वचः सत्यं व्यतानीदित्याह ॥ गृहाणेति ॥ यत्सत्रपरिवेषितं दत्तं प्रागृषिभिस्तन्मयाऽपि द्रविणं तद्दत्तं गृहाण स्वीकुरु । भक्त-वत्सलो भगवान् रुद्र इत्युक्त्वा नाभागं प्रत्यन्तर्हितोऽन्तर्निगूढो ऽप्रत्यक्षोऽभूत् ॥ ११ ॥

छलारी

किञ्च यत्सत्रपरिवेषितं द्रव्यं यन्मया दत्तं त्वं गृहाणेत्युक्तोऽन्तर्हितस्तिरोऽभूत् ततस्तत्स्वीकृत्य गृहस्थाश्रमं लेभे इत्यवगन्तव्यम् । उत्तराध्यायेन नाभागस्य वंशकथनात्

॥ ११ ॥

य एतत् संस्मरेत् प्रातः सायं च मुसमाहितः ।

कविर्भवति मन्त्रज्ञो गतिं चैव तथाऽऽत्मनः ॥ १२ ॥

॥ इति श्रीमद्भागवते नवमस्कन्धे पञ्चमोऽध्यायः ॥

पदरत्नावली

फलमाह– य एतदिति ॥ कविस्तत्वविज्ञानी । मन्त्रज्ञ ऋग्वेद-तात्पर्यार्थज्ञानी । आत्मनः स्वपरलक्षणस्य वस्तुनो गतिं स्थितिं ज्ञानं वा प्राप्नोतीति शेषः । स एषः सहस्रसनिर्मन्त्रो यं नाभाने दिष्ट उपैनं सहस्रं नमति प्र षष्ठेनाह्ना स्वर्गं लोकं जानाति य एवं वेदेति अनेनापि फलश्रुतेरर्थः सूचित इति । यदाह नाभाने दिष्टः स एषः सहस्रसनिः, वन षण सम्भक्ताविति धातोः, सहस्रेत्युपलक्षणमनेकजनाय धनदाता, सन लाभ इति धातोरनेकविषयज्ञानलाभोपेतः । मन्त्री मन्त्रज्ञानी पुरुष एवमिति हासार्थं वेद एनं पुरुषमुद्दिष्य सहस्रम् उपनमति षष्ठेनाह्ना षष्ठदिनापेक्षितसूक्तपूर्वककृतकर्मणा स्वर्गसुखं ज्ञानात्मकं लोकं सर्वाधारं हरिं प्रजानातीति भावः ॥ १२ ॥

॥ इति श्रीमद्भागवतटीकायां विजयध्वजतीर्थभिक्षुकृतायां नवमस्कन्धस्य पञ्चमोऽध्यायः ॥

सत्यधर्मीया

ततश्चायमुर्वरितखण्डः । अङ्गिरसो वा इमे स्वर्गाय लोकाय सत्रमासते । ते षष्ठं षष्ठमेवाहरागत्य मुह्यन्ति तान्येते सूक्ते षष्ठेऽहनि शंसय । तेषां यत्सहस्त्रं सत्रपरिवेषणं तत्ते स्वर्यतो दास्यन्तीति । तथेति तानुपैत् । प्रतिगृह्णीत मानवं सुमेधस इति तमब्रुवन् किं कामो वदसीतीदमेव वः षष्ठमहः प्रज्ञापयानीत्यब्रवीदथ यद्व एतत्सहस्त्रं सत्रपरिवेषणं तन्मे स्वर्यन्तो दत्तेति तथेति तानेते सूक्ते षष्ठेऽहन्यशंसत्ततो वै ते प्रयज्ञमजानन् । विप्रः स्वर्गं लोकम् । तद्यदेते सूक्ते षष्ठेऽहनि शंसति यज्ञस्य प्रजात्यै स्वर्गस्य लोकस्यानुख्यात्या इति । ते स्वर्यन्तोऽब्रुवन्नेतत्ते ब्राह्मण सहस्त्रमितीति । तदेनं समाकुर्वाणं पुरुषः कृष्णशवास्युत्तरत उपोत्थायाब्रवीन्मम वा इदं ममैवास्तुहमितीति । सोऽब्रवीन्मह्यं वा इदमदुरिति । तमब्रवीत्तद्वै नौ तवैव पितरि मनः प्रश्न इति स पितरमैत् । पिताऽब्रवीन्ननु ते पुत्रकादुरित्यदुरेव म इत्यब्रवीत्तत्तु मे पुरुषः कृष्णशवास्युत्तरत उपोद तिष्ठन्मन वा इदं मम वै वास्तुहमित्यादितेति तं पिताऽ-ब्रवीत्तस्यैव पुत्रक तत्तु स तुभ्यं दास्यतीति स पुनरेत्याब्रवीत्तव ह वाव किल भगव इदमिति मे पिताऽऽहेति सोऽब्रहीत्तदहं तुभ्यमेव ददामि । य एवं सत्यमवादीरिति तस्मादेवं विदुषां सत्यमेव वेदितव्यमिति । स एव सहस्त्रसनिर्मन्त्रोऽयं नाभाने दिष्ट उपैनं सहस्त्रं नमति षष्ठेनाह्ना स्वर्गं लोकं जानाति य एवं वेदेति ॥ छ ॥

अस्यार्थः । ते च सर्वे गृहीतवन्तो न मद्धस्तेऽस्ति धनं तत उपायमेकं कथयिष्या-मीत्याह ॥ अङ्गिरस इति ॥ इमेऽङ्गिरनामका ऋषयः । मम इति तत्सामीप्यं ध्वनयति । स्वर्गाय लोकाय तदवाप्त्यै सत्रमासतेऽनुतिष्ठन्ति । ते तदुपक्रम्य षष्ठं षष्ठमहरागत्य तत्र मन्त्रबाहुल्येन मुह्यन्ति भ्रमचित्ताः सन्तः सत्रसमाप्तिमसामाप्य क्लिश्यन्ति । तान् षष्ठेऽहनि त्वं गत्वा इदमित्येति ये यजेतेति वै ते उभे सूक्ते शंसय । तेषाम् ऋषीणां यत्सहस्त्रसङ्ख्याकं सत्रपरिवेषणं तदिष्ट्यनुष्ठानानन्तरमवशिष्टं धनं तत्ते ऋषयः स्वर्यंतः स्वर्गं प्राप्नुवन्तः । इणो रूपम् । ते दास्यन्तीति पितोवाच । तथेति च नाभानेदिष्ट ओंचकार । अनन्तरं तानृषीनुपैत्प्राप ।

तांश्चोवाच । किमाहेत्यत आह । हे सुमेधसो मानवं मनुतनुजनिं मां प्रतिगृभ्णीत । हृगृ होर्भच्छंदसीत्यब्रुवन् । इदमेव यत्र मोहो युष्माकं तत् षष्ठमहस्तत्र पठनीये सूक्ते प्रज्ञापयानि । लोट् । स्मारयामीत्यब्रवीत् । तव किमुपकुर्म इत्यत आवेदयति । अथ तच्छंसनानंतरम् । युष्मत्सवोदवसनान्तरम् । यद्व एतत्सहस्त्रं सत्रपरिवेषणं स्वर्यंतो दत्तेति । तथेति तैरुक्ते सति । तानेते प्रागुदाहृते द्वे सूक्ते षष्ठेऽहन्यशंसत् । ततस्तच्छंसनतां गतायाः । छन्दसि परोऽपि व्यवहितश्चोक्तेः प्रयज्ञमित्यत्रत्यस्य प्रस्याजानन्नित्यनेनान्वयः । एवमुत्तरत्रापि । यज्ञं प्रकर्षेणा-जानन् साङ्गं ज्ञातवन्तः । स्वर्गं लोकमपि प्रजानन् । साङ्गफलसम्पादकतया सूक्ते प्रशस्य तद्विधिं निगमयति ॥ तद्यदेते इति । यद्यस्मादङ्गीरोभिर्यज्ञः स्वर्गश्च प्रज्ञातस्तस्माद्धोता तदुभयं शंसति शंसेत् । तच्छंसनं यस्य प्रजात्यै स्वर्गस्यावगमाय भवति । प्रजात्या इत्यनुवदन्वेह एव वेदया-मास प्राक् प्रस्य यज्ञपदाव्यवधानावर्तिनो जानातिनान्वय इति । का कथोत्तरत्र वृत्तेत्यतः कथयति । ते तं स्वर्यन्तः । हे ब्राह्मण अपरोक्षज्ञानिन् । ते इदं सहस्त्रं परिवेषितं गृहाणेत्य-ब्रुवन् । तत्समाकुर्वाणं गोसहस्त्रं, शाखान्तरे चैवमाम्नायते ते सुवर्गं लोकं यन्तो य एषां पशव आसंस्तानस्मान्नददुस्तं पशुभिश्चरन्तं यज्ञवास्तौ रुद्र आगच्छदिति तृतीयाष्टकप्रथमाध्याये । सम्यगात्मसात्कुर्वन्तमेकत्र मिलितं कुर्वाणं वा । एनं नाभानेदिष्टम् । कश्चित्पुरुषस्तम् । सवावनेरुत्तरत उपोत्थाय समीपैवोद्गतो भूत्वाऽब्रवीत् । स किं लक्षणक इत्याह ॥ कृष्ण-शवासीति ॥ कृष्णो वर्णः सोऽस्त्यस्येति । मत्वर्थे शः । स चातिशायने । तथा चातिशयेन कृष्णवर्णं वस्त इति कृष्णशवासी तथाविधवस्त्रधारी णिनिरयम् । पशुस्वामी रुद्रः । किम-वादीदित्यतो वदति । मम वा इति । मम वास्तुहमिति । वास्तुहं वास्तौ यज्ञभूमौ हं हीनम् । त्यक्तमिति यावत् । ममैव । सर्वसांमत्यमवधारणेनाह । इति तेनोक्तः सः मह्यम् अदू ऋषय इत्यब्रवीत् । तं पुमान् रुद्रः हे नाभाने दिष्ट । त्वदीयत्वमदीयत्वसन्देहे । नौ आवयोरपि तवैव पितरि मनो प्रश्नोऽस्तु । स एवमुक्तः पितरमैदागतवान् । अप्राक्षीच्च । स पिता हे पुत्रक बालक ते तुभ्यमङ्गिरसोऽदुर्ननु दत्तवन्तः किम् ? कम्पः प्रश्नार्थ एवं पित्रा पृष्टो मे मह्या-मदुरेवेत्यब्रवीत्पितरं पुत्रः । ओ पुरतः किमभूदित उदीरयेत्युदित उदीरयति ॥ तत्त्विति ॥ तत्कश्चित्पुरुषो मलिनवासा उत्तरत ममैव वास्तौ हीनत्वादित्युदीर्य । आदितादानं कृतवानहार्षी-दित्यर्थः । इतः परं स न त्यक्षतीति निर्धार्यादितेत्युदितवान् । एवं वदन्तं पुत्रं प्रति तद्वास्तौ हीनं तस्यैव रुद्रस्यैव । तस्य पश्वीशत्वात् । एतस्य च तदीयत्वेन क्लृप्तत्वाच्च । भ्रातरो न दत्तवन्त इदमपि पशुपतेर्जातं, जातस्य त्वत्तो मम गतिः केत्यत आह ॥ तदिति ॥ तत् सत् । स एव तुभ्यं दास्यतीति पितोवाच । स नाभाने दिष्टः पुनस्तं कञ्चित्पुरुषमेत्य । हे भगवंस्तवेदं किलेति पिताऽऽहेत्यब्रवीत् । सदाशिवस्तुभ्यमेव तदहं ददामीत्यब्रवीत् । तत्र निमित्तमाह ॥ यस्त्वं सत्यमवादीरितीति ॥ अनेन पितुर्धर्मिष्ठता च ध्वनिता । अतो लोके लोकैरित्थं कर्तव्यमित्याह ॥ तस्मादिति ॥ सत्यवचनस्य श्रेयःसाधनत्वं विदुषा जानता सत्यमेव वेदितव्यम् । सर्वस्योपाख्यानस्य तात्पर्यमाख्याति । नाभाने दिष्टेन दृष्टो यो मन्त्रः स एषः सहस्त्रसनिः सहस्त्रस्य पुमर्थस्य सनिर्लाभो यस्मिन्स इति । एनं वदितारं सहस्त्रं स्वयमुपनमति । षष्ठेनाह्नानुष्ठितेन स्वर्गं प्रजानाति चेति । ग्रन्थकृत्तु नेयद्गोसहस्त्रं फलं पद्मरागस्य तंडुलमुष्टिः कथितं कृषेरिव पलालकुलमितिवदिति मन्वानो ददामि ते मन्त्रदृशो ज्ञान-मित्याद्युदितवानिति श्रुत्युपोद्बलनमकृतेति मन्तव्यम् । खण्डान्त उक्तां फलश्रुतिमनुकुर्वन्नाह ॥ य इति ॥ सुसमाहितः प्रातः सायं च यः स्मरेत्स कविर्मन्त्रज्ञः सन् आत्मनो गतिं प्राप्यस्थानं हरिमेति प्राप्नोति ॥ १२ ॥

॥ श्रीसत्यधर्मयतिकृतायां भागवतटीप्पण्यां नवमस्कन्धे पञ्चमोऽध्यायः ॥

छलारी

अस्याख्यानस्य मरणकाले फलमाह ॥ य एतदिति ॥ संस्मरेद्भक्तिपूर्वकं ध्यायेदित्यर्थः । कविस्तत्त्वज्ञानी मन्त्रज्ञो ऋग्वेदतात्पर्यज्ञानी । आत्मनः परमात्मनो गतिं ज्ञानं च । आप्नोतीति शेषः ॥ १२ ॥

॥ इति छलारी शेषाचार्यकृतायां भागवतटिप्पण्यां नवमस्कन्धे पञ्चमोऽध्यायः ॥