शर्यातिर्मानवो राजन् ब्रह्मिष्ठः सम्बभूव ह
॥ अथ चतुर्थोऽध्यायः ॥
श्रीशुक उवाच–
शर्यातिर्मानवो राजन् ब्रह्मिष्ठः सम्बभूव ह ।
यो वा अङ्गिरसां सत्रे द्वितीयमहरध्यगात् ॥ १ ॥
पदरत्नावली
ब्रह्मिष्ठः ब्रह्मनिष्ठो वेदनिष्ठो वा । तत्फलमाह– यो वा इति । द्वितीयेऽह्नि यो मन्त्रोऽध्येतव्यः सत्रकल्पोक्तफलसिद्धये तं मन्त्रमध्यगादित्ययमर्थो द्वितीयमहरध्यगादित्युच्यते
॥ १ ॥
सत्यधर्मीया
तृतीयं तद्वंशधरं शंसति ॥ शर्यातिरिति ॥ ब्रह्मिष्ठो ब्रह्म च वेदो वा वेद्यो वा तन्निष्ठः श्रेष्ठः । अङ्गिरसां तन्नामकऋषीणाम् । सत्रे बहुकालिके क्रतौ । द्वितीय-महर्द्वितीयेऽहनि शंसनीयो मन्त्रविशेषस्तत्पदेन लक्ष्यते । तत्पदलाभायाध्यगाज्जगौ । ऊचिवा-नित्यपि सूचितः पाठः ॥ १ ॥
छलारी
तृतीयस्य वंशमाह ॥ शर्यातिरिति ॥ ब्रह्मिष्ठो ब्रह्मनिष्ठो वेदनिष्ठो वा । तत्फलमाह ॥ यो वा इति ॥ अङ्गिरसां सत्रेऽङ्गिरो नाम ऋषिकर्तृके सत्रयागे । द्वितीय-महर्द्वितीयेऽह्नि क्रियमाणं कर्म । उवाचेति शेषः । तदह्नि पठ्यमानं मन्त्रं चाध्यगादध्यगीष्ठ । यथा सत्रयागेषु षष्ठेऽहनि कर्तव्ये कर्मणि ऋषिषु मोहं प्राप्तेषु मनुपुत्रो नाभागो पित्राज्ञया तत्कर्मणि द्वे सूक्ते च शशंस । तद्वत् शर्यातिरपि शशंसेति भावः । नाभागचरितं चोपरिष्ठात्पञ्चमेऽध्याये वक्ष्यते । सैनिकानां राजसेवकानाम् ॥ १ ॥
सुकन्या नाम तस्यासीत् कन्या कमललोचना ।
**तया सार्धं वनगतो ह्यगमच्च्यवनाश्रमम् ॥ २ ॥ **
पदरत्नावली
तस्य शर्यातेः ॥ २ ॥
सत्यधर्मीया
दुश्च्यवनहस्तम्भनादिच्यवनमाहात्म्यगर्भितत्वात्पुङ्गर्भत आदौ कन्योदन्त-माह । सुकन्येत्यादिना । तया कन्यया । अनेन राजप्रीतिविशेषस्तस्यां ध्वन्यते । वनं गतो हि वनगतश्च्यवनाश्रममगमदगच्छत् ॥ २ ॥
छलारी
उत्तानबर्हिरानर्त इत्यादिना तस्य वंशं वक्ष्यन् आदौ तत्कन्यावृत्तान्तमाह ॥ सुकन्येत्यादिना ॥ वनं प्रति गतः ॥ २ ॥
सा सखीभिः परिवृता विचिन्वन्त्यङ्घ्रिपान् वने ।
वल्मीकरन्ध्रे ददृशे खद्योते इत्र ज्योतिषी ॥ ३ ॥
पदरत्नावली
विचिन्वन्ती मृगयन्ती । वल्मीकरन्ध्रे वल्मीकबिले । खद्योते खद्योत-रूपे । ख एव द्योतत इति खद्योतः ॥ ३ ॥
सत्यधर्मीया
अङ्घ्रिपान्वृक्षान् । विचिन्वती मृगयन्ती । वल्मीकस्य वामलूरोः । वल्मीको वामलूरुः स्यादृषिरोगविशेषयोरिति विश्वः । रन्ध्रे छिद्रे खद्योते इव सूर्याविव । खद्योतो लोकबान्धवः । खद्योतो ज्योतिरिङ्गण इत्युभयतश्चामरः । ज्योतिरिङ्गणः कीटविशेषः । नपुंसकता त्वार्षी । ज्योतिषी प्रकाशरूपे इव । ज्योतिषी इत्यत्रत्यो ज्यकारो लघु वं कुर्वन्सन् राज्ञस्तात्कालिकं लाघवं सूचयति ॥ ३ ॥
छलारी
अङ्घ्रिपान्पुष्पफलोपेतवृक्षान् विचिन्वन्ती मृगयन्ती । वल्मीकरन्ध्रे ज्योतिषी तेजोरूपनयने ॥ ३ ॥
दैवेन चोदिता बाला ज्योतिषी कण्टकेन सा ।
अविध्यन्मुग्धभावेन सुस्रावासृक् ततो बहु ॥ ४ ॥
पदरत्नावली
सा सुकन्या मुग्धभावेन अज्ञातवस्तुस्वरूपतया बालभावत्वेन वा, कण्टकेन कण्टकाग्रेण ज्योतिषी ज्योतिराश्रये द्रव्ये, चक्षुषी इति यावत् । असृग् रुधिरम् । ततो विद्धचक्षुषोः ॥ ४ ॥
सत्यधर्मीया
मुग्धभावेन मूढतया । असृग्रक्तम् ॥ ४ ॥
छलारी
सा सुकन्या मुग्धभावेन मूढत्वेन ज्योतिषी तेजोरूपे नयनेऽविध्यद्विध्याऽधात्ततो विद्धचक्षुषोऽसृक् रुधिरम् ॥ ४ ॥
शकृन्मूत्रनिरोधोऽभूत् सैनिकानां च तत्क्षणात् ।
राजर्षिस्तमुपालभ्य पुरुषान् विस्मितोऽब्रवीत् ॥ ५ ॥
पदरत्नावली
सैनिकानां राजसेवकानाम् । निरोधः स्तम्भनम् ॥ ५ ॥
सत्यधर्मीया
सैनिकानां सेनामुखानाम् । शकृन्मूत्रयोः पुरीषमूत्रयोः । निरोधः प्रतिबन्धः । तन्निरोधमुपालभ्य दृष्ट्वा ॥ ५ ॥
छलारी
राजर्षिः शर्यातिस्तं विरोधमुपालभ्य दृष्ट्वा ॥ ५ ॥
**अप्यभद्रं न युष्माभिर्भार्गवस्य विचेष्टितम् । **
व्यक्तं केनापि नस्तस्य कृतमाश्रमदूषणम् ॥ ६ ॥
पदरत्नावली
युष्माभिर्भार्गवस्याभद्रममङ्गलं विचेष्टितं किमपि कृतमेव, न तत्र संशय इत्याह– व्यक्तमिति ॥ नो मध्ये केनापि पुरुषेण तस्य भार्गवस्याश्रमदूषणं व्यक्तं कृतमत इदं सेनाशकृन्मूत्रस्तम्भनं भार्गवस्य विचेष्टितमिति व्यक्तमभूदिति पुनरावृत्त्या योजनीयम् ॥ ६ ॥
सत्यधर्मीया
अभद्रमपराधः । विचेष्टितं कृतं किम् । अकरणे न मरणकारणमेवं स्यादिति स्वयं निश्चित्य वक्ति ॥ व्यक्तमिति ॥ नोऽस्मन्मध्ये केनापि पुंसा । अनेन मोहनाङ्ग्यो मोहविषया इति न तत्र राजशेमुषी प्रससारेति ध्वन्यते । सामान्ये नपुंसकमिति केनचिद्वस्तुनेति वा । तस्य च्यवनस्य । आश्रमदूषणं विचेष्टितं व्यक्तं न सन्देहः । इत्यब्रवीत्
॥ ६ ॥
छलारी
नोऽस्माकं मध्ये केनापि पुरुषेण । भार्गवस्य च्यवनस्याभद्रमपराधः । अपिशब्दः किंशब्दार्थः । न विचेष्टितं किमिति । प्रथमं सन्देहात्प्रश्नः । ततः कार्यदर्शनादभद्रं कृतमेवेति निर्धारयति ॥ व्यक्तमिति ॥ ६ ॥
**सुकन्या प्राह पितरं भीता किञ्चित् कृतं मया । **
द्वे ज्योतिषी अजानन्त्या निर्भिन्ने कण्टकेन ते ॥ ७ ॥
पदरत्नावली
ते द्वे ज्योतिषी तत्त्वमजानन्त्या मया कण्टकेन निर्भिन्ने इत्यन्वयः ॥७॥
सत्यधर्मीया
किञ्चित्कृतमिति तदेव विविच्याह ॥ द्वे ज्योतिषी इति ॥ ७ ॥
छलारी
द्वे ज्योतिषी नयने निर्भिन्ने विदारिते ॥ ७ ॥
दुहितुस्तद्वचः श्रुत्वा शर्यातिर्जातसाध्वसः ।
मुनिं प्रसादयामास वल्मीकान्तर्हितं शनैः ॥ ८ ॥
सत्यधर्मीया
जातसाध्वसः सम्भूतभीतिः । शनैर्मन्दम् ॥ ८ ॥
छलारी
जातसाध्वस उत्पन्नभयः ॥ ८ ॥
**तदभिप्रायमाज्ञाय प्रादाद् दुहितरं मुनेः । **
कृच्छ्रान्मुक्तस्तमामन्त्र्य पुरं प्रायात् सहानुगः ॥ ९ ॥
पदरत्नावली
तस्य मुनेः सुकन्यादानलक्षणमभिप्रायं ज्ञात्वा । कृच्छ्रान्मुक्तः, सुकन्या-मुनिभ्यामिति शेषः ॥ ९ ॥
सत्यधर्मीया
तदभिप्रायमाज्ञाय । याऽपराध्यति तत्प्रदानमेव निदानं कोपापनोदायेति तद्भावमवगत्य दुहितरं मुनेश्च्यवनस्य प्रादात् । कृच्छ्रान्मूत्रपुरीशप्रतिबन्धजात्कष्टात् । कृच्छाद्धृद्ध इति कष्टाद्दुहितरं प्रादादित्यप्यन्वयः । उपायमेतदतिहायैतदपाय पारणादर्शनादिति भावः । तं जामातरम् । आमन्त्र्य पुरं व्रजामीति पृष्ट्वा ॥ ९ ॥
छलारी
मुग्धेयं मम कन्या । अनया कृतमगः क्षम्यतामित्युक्ते । कतिवर्षाण्यस्या विवाहो जातो न वेत्यादि वाक्यैस्तदीयाभिप्रायमाज्ञाय मुनेर्मुनये कन्यां प्रादात् । तदनन्तरं कृच्छ्रात् शकृन्मूत्रनिरोधलक्षणात् कृच्छ्रान्मुक्तः । सुकन्या मुनिभ्यामिति शेषः ॥ ९ ॥
सुकन्या च्यवनं प्राप्य पतिं परमकोपनम् ।
प्रीणयामास चित्तज्ञा अप्रमत्ताऽनुवृत्तिभिः ॥ १० ॥
पदरत्नावली
परमकोपने अत्यन्तकोपशीलम् । भोजनसमयमन्तरेणान्यसमयं वृथा न मुञ्चतीत्यभिप्रायेण चित्तज्ञा अप्रमत्तेति सन्ध्यभाव इति ज्ञायते ॥ १० ॥
सत्यधर्मीया
परमकोपनमपि चित्तज्ञाऽप्रमत्ता सतीत्यनुवृत्तिभिः सेवाभिः । प्रकार-भेदाद्बहुवचनम् । परमकोपित्वात्तत्समाधिर् दुःसन्धिरिति सा विवक्षामपेक्षत इति शास्त्रीयोऽपि सन्ध्यभावश्चित्तज्ञा अप्रमत्तेत्यत्रत्यैतदभिसन्धिनेति ज्ञेयम् । चित्तज्ञा विनेया यथा तथेति शेषो वा । प्रमत्तं भावे क्तः । प्रमादः सन्विद्यते यासु ताश्च ता अनुवृत्तयश्चेति वा ॥ १० ॥
छलारी
तत्त्वज्ञा धर्मतत्त्वज्ञा । अनुवृत्तिभिरनुसरणैः सेवाभिरित्यर्थः ॥ १० ॥
कस्यचित् त्वथ कालस्य नासत्यावाश्रमं गतौ ।
तौ पूजयित्वा प्रोवाच वयो मे दत्तमीश्वरौ ॥ ११ ॥
पदरत्नावली
कस्यचित् कालस्योपरि । दत्तम्, युवामिति शेषः ॥ ११ ॥
दुर्घटभावदीपिका
नासत्यौ कस्यचित्कालस्याथानन्तरं च्यवनस्याश्रमं गतौ । च्यवनस्तौ नासत्यौ तु विशेषतः पूजयित्वेश्वरौ महावयो दत्तमिति प्रोवाचेति । एतेन कस्यचित्कालस्ये-तदन्वितमिति चोद्यस्यानवकाशः । आनन्तर्यार्थकाथशब्देनान्वयस्योक्तत्वात् ॥ ११ ॥
सत्यधर्मीया
कस्यचित्कालस्योपरि शर्यातिगमनानन्तरम् । नासत्यावश्विनौ । न वेदा नासत्येति निपातितः । तौ पूजयित्वा पाद्याद्यैः । युवां मे वयस्तारुण्यम् । दत्तं दिशतम् । नासामर्थ्यं युवयोरिति ब्रवीति ॥ ईश्वराविति । वयः पक्षिणि बाल्यादौ वयो यौवनमात्रक इति विश्वः ॥ ११ ॥
छलारी
कस्यचित्कालस्य गच्छतः सतो गतौ प्राप्तौ हे ईश्वरौ भिषक् श्रेष्ठौ युवां मह्यं वयस्तारुण्यलक्षणं दत्तम् ॥ ११ ॥
ग्रहं गृहीष्ये सोमस्य यज्ञे वामप्यसोमयोः ।
क्रियतां मे वयो रूपं प्रमदानां यदीप्सितम् ॥ १२ ॥
पदरत्नावली
तव वयोदानेनावयोः किं फलमिति तत्राह– ग्रहमिति ॥ ग्रहमाहुति-विशेषभागम् असोमयोः सोमपानशून्ययोर्युवयोरपि गृहीष्ये दास्यामि ॥ १२ ॥
सत्यधर्मीया
यो मर्तुकामादपि हर्तुकाम इति मुख्यं वैद्यचिह्नमिति वयोदानेन त आवयोः किमुपकुरुष इत्यतः पूर्वमेव स्वयं वदति ॥ ग्रहमिति ॥ यज्ञे सोमस्य ग्रहं तत्पूर्णपात्रं गृहीष्ये दास्यामि । युवां सोमेन यक्ष्य इत्यर्थः । धातूनामनेकार्थत्वाद्गृह्णातेर्वितरणार्थकः । नित्यं तत्पिबतोरावयोः किं सोमेन साम तनुष इत्यत आह ॥ असोमयोरीति ॥ असोमयोर्न विद्यते सोमो ययोस्तौ । तयोर्वामपीति । भिषक्त्वेन तद्बहिष्कृतयोरपीत्यर्थः । प्रमादानां योषितां रमणरमणोदिततोषाणां यदीप्सितं वयसा सहितं रूपं च क्रियताम् । युवाभ्यां वार्धकतयैकैव कामिनी सुकन्या नैकतया भातीति वा । लौकिकनीतिसूचनार्थं वोक्तमोदसङ्ग्रहसूचनार्थं वा प्रमदानामिति बहुवचनम् ॥ १२ ॥
छलारी
यच्छतं तव वयोदानेनावयोः किं फलमिति तत्राह ॥ ग्रहमिति ॥ असोमयोः सोमपानशून्ययोर्युवयोर्ग्रहमाहुतिविशेषं गृहीष्ये दास्यामीति यावत् ॥ १२ ॥
बाढमित्युचतुर्विप्रमभिनन्द्य भिषक्तमौ ।
निमज्जतां भवानस्मिन् ह्रदे सिद्धविनिर्मिते ॥ १३ ॥
पदरत्नावली
भिषक्तमौ वैद्यश्रेष्ठौ ॥ १३ ॥
दुर्घटभावदीपिका
भिषक्तमावश्विनौ बाढमित्युक्त्वा विप्रं च्यवनमभिनन्द्य सन्तोषयित्वा भवान्सिद्धविनिर्मितेऽस्मिन्हृदे निमज्जतामित्यूचतुरिति । एतेनोचतुरित्यस्य बाढमित्यनेनान्वयस्य जातत्वात् । निमज्जतामित्येतदनन्वितमिति दूषणं परास्तम् । बाढमितीत्यस्याध्याहृतेनोक्ते-त्यनेनान्वयमुक्त्वा निमज्जतामित्यस्योचतुरित्यन्वयस्योक्तत्वात् ॥ १३ ॥
सत्यधर्मीया
बाढमित्यभिनन्द्यानुमोद्य विप्रं प्रति सिद्धविनिर्मितेऽस्मिन् ह्रदे भवा-न्निमज्यतामित्यूचतुः ॥ १३ ॥
छलारी
भिषक्तमौ वैद्यश्रेष्ठौ । बाढमित्यभिनन्द्य । भवान् सिद्धपुरुषविनिर्मितेऽस्मिन्नि-मज्यतामिति विप्रमूचतुरित्यन्वयः ॥ १३ ॥
इत्युक्तो जरया ग्रस्तदेहो धमनिसन्ततः ।
ह्रदं प्रवेशितोऽश्विभ्यां स्वयं चामज्जतां हृदे ॥१४॥
पदरत्नावली
धमनीभिः शिरोभिः सन्ततो व्याप्तः । देह इति शेषः, स्वयमश्विनौ च
॥ १४ ॥
सत्यधर्मीया
इत्युक्तस्ताभ्यां, जरया ग्रस्तो देहो यस्य सः । धमनयः शिराः सन्तता यस्मिन्निति विग्रहः । धमनिसान्तत्यस्य विशेष्ये बाधात्तद्विशेषणदेहविशेषणता स्वर्गी ध्वस्तो दीप्तानलार्कद्युतिमप्रमेयमित्याद्युदाहरणपूर्वकं पूर्वं प्रपञ्चितमस्माभिर्विभावनीम् । अश्विभ्यां ह्रदं प्रवेशितः । स्वयं तौ च ह्रदेऽमज्जताम् । तस्य निस्त्राणत्वेन तं धर्तुं मज्जने संस्कार-विशेषोत्पादनार्थं वा तन्मज्जनं ज्ञेयम् ॥ १४ ॥
छलारी
धमनीभिः शिरोभिः सन्ततो व्याप्तः । देह इति शेषः । प्रवेशितोऽभूत् । स्वयं चाश्विनौ चामज्जतां तं गृहीत्वा निर्ममाषेत्यर्थः ॥ १४ ॥
पुरुषास्त्रय उत्तस्थुरापीच्या वनिताप्रियाः ।
रुक्मस्रजः कुण्डलिनस्तुल्यरूपाः सुवाससः ॥ १५ ॥
पदरत्नावली
अपीच्याः षोडशवर्षप्रायाः ॥ १५॥
सत्यधर्मीया
आपीच्याः षोडशवर्षवयस्काः । कैशोरयौवनाभ्यामन्तःकाल आपीच्य-मुच्यत इति प्रथमतात्पर्यात् । आपीच्यं येषामस्तीत्यापीच्या इत्यर्श आद्यच् । वनिताप्रियाः । रुक्मस्रजः सुवर्णमालाः कुण्डलिनः । तुल्यरूपास् तुल्यं समं रूपं येषां ते । सुवाससः । पुरुषास्त्रयः । अश्विनौ द्वौ च्यवनश्चैक इति त्रयः । उत्तस्थुः । ह्रदादिति शेषः ॥ १५ ॥
छलारी
आपीच्या षोडशवर्षप्रायाः । उत्तस्थुः । हृदादिति शेषः ॥ १५ ॥
तान्निरीक्ष्य वरारोहा सरूपान् सूर्यवर्चसः ।
अजानती पतिं साध्वी अश्विनौ शरणं ययौ ॥ १६ ॥
पदरत्नावली
वरारोहा योषित् । सरूपान् समानरूपान् ॥ १६ ॥
सत्यधर्मीया
वरारोहा वरावारोहावुरू यस्याः सा । सरूपान्समानाकारान् । पतिं च्यवनमजानत्यश्विनौ शरणं ययौ । पातिव्रत्यं रक्षयतमिति शरणं गता । तत्र हेतुः ॥ साध्वीति ॥ वनपर्वणि प्रस्थानान्तरे नलोपाख्याने वर्णितम् । देवावनि देवलक्षणम् । क्षौणीसम्बन्धहीनत्वतत्सम्बन्धत्वरूपादिकमजानती कन्येति सुकन्यैवं शरणं गतेति ज्ञेयम् । तथा हि । तत्साऽपश्यद्विबुधान् सर्वानस्वैस्तब्धलोचनान्(?) । अम्लानस्रग्रजोहीनान्स्थितानस्पृशतः क्षितिमिति । तौ चेत्तत्पातिव्रत्यपरीक्षार्थं क्षणं स्वलक्षणं त्यक्त्वाऽवस्थिताविति तच्छरणगमनं वेति ज्ञेयम् ॥ १६ ॥
छलारी
वरारोहा योषित् । सरूपान्समानरूपान् । साध्वीति हेतुगर्भम् । अश्विनौ शरणं ययौ । युवामत्र तिष्ठतो नात्र संशयः । तस्माद्युवां पृथक् स्थितौ । मत्पतिं दर्शयतमिति प्रार्थयामासेत्यर्थः ॥ १६ ॥
दर्शयित्वा पतिं तस्यै पातिव्रत्येन तोषितौ ।
ऋषिमामन्त्र्य ययतुर्विमानेन त्रिविष्टपम् ॥ १७ ॥
सत्यधर्मीया
तस्यै सुकन्यायै पतिं च्यवनम् । विमानेन त्रिविष्टपं स्वर्गं ययतुः ॥१७॥
छलारी
ऋषिमामन्त्र्य ऋषिणा सह विचारं कृत्वेत्यर्थः ॥ १७ ॥
यक्ष्यमाणोऽथ शर्यातिश्च्यवनस्याश्रमं गतः ।
ददर्श दुहितुः पार्श्वे पुरुषं सूर्यवर्चसम् ॥ १८ ॥
सत्यधर्मीया
यक्ष्यमाणो यज्ञं करिष्यन् । सूर्यवर्चसं सूर्यस्य वर्च इव वर्चो यस्य स तम् । वस्तुतस्तु सूरेः स्वजामातुश्च्यवनस्य न विद्यते वर्चो यस्य तमित्यप्यर्थः । अन्तः शङ्कोच्यमाना युक्तेति ज्ञेयम् ॥ १८ ॥
छलारी
यक्ष्यमाणो यागं कुर्वन् ॥ १८ ॥
राजा दुहितरं प्राह कृतपादाभिवन्दनाम् ।
आशिषश्चाप्रयुञ्जानो नातिप्रीतमना इव ॥ १९ ॥
सत्यधर्मीया
पुत्रीत्यन्त्राणां त्रपाविरहात्प्रीतिरप्रीतिश्च पुंश्चलीति नातिप्रीतमना इत्युक्तिः
॥ १९ ॥
छलारी
नातिप्रीतमना इव नातिप्रीतियुक्तमत्यन्तप्रीतिरहितं मनो यस्य पुरुषस्य स इव स्थितः । नसमासोऽयम् ॥ १९ ॥
चिकीर्षितं ते किमिदं पतिस्त्वया प्रलम्भितो लोकनमस्कृतो मुनिः ।
या त्वं जराग्रस्तमसत्यसम्मतं विहाय जारं भजसेऽमुमध्वगम् ॥ २० ॥
पदरत्नावली
हे असति । दुर्वृत्ते । जरया ग्रस्तत्वादसम्मतम् । अध्वगं पान्थम्
॥ २० ॥
सत्यधर्मीया
उष्णीषं विपोथ्य तूष्णीमासीदुवाचासहमानो मानवः किञ्चिदित्यत उवाच ॥ चिकीर्षितमिति ॥ हे असति दूराचारे । ते तव चिकीर्षितमिदं किम् । तत्किमित्यत आह । लोकनमस्कृतो मुनिश्च्यवनः पतिस्त्वया प्रलोभितो वञ्चितो घातितो वा यत्र क्वच गर्ते पातितो वेति भावः । इति किमुपरि त्वमेवमूहयसि हेलयसि च हे पित इत्यत आह ॥ या त्वमिति ॥ जराग्रस्तमत एवासम्मतं विहाय त्यक्त्वाऽमुमध्वगमध्वनीनं जारमुपपतिं भजसि सेवसे ॥ २० ॥
छलारी
हे असति दुर्वृत्ते त्वयेदं किं चिकीर्षितम् । प्रलम्भितो वञ्चितः । कुतः । यद्यस्माज्जरया ग्रस्तत्वात् । स्त्रीणामसंमतम् । जारं जरयत्युभयकुलमिति जारमुपपतिम् ॥२०॥
कथं मतिस्तेऽम्ब गतान्यथाऽसतां मार्गात्त्वियं मत्कुलदूषणं त्विदम् ।
बिभर्षि जारं यदपत्रपा कुलं पितुश्च १भर्तुः पतयस्यधस्तमः ॥ २१ ॥
पदरत्नावली
अम्ब पुत्रिके इयं ते मतिः कथमन्यथा गता । अन्यथेत्युक्तं विवृणोति– असतामिति ॥ असतां मार्गं गतेत्यर्थः । इदं त्वत्कर्म मत्कुलदूषणं तु एव । किं तत् कर्मेति तत्राह– बिभर्षीति ॥ अपत्रपा निर्लज्जा भूत्वा, जारं जरयत्युभयकुलमित्युपपत्तिं बिभर्षि यत् तस्मात् । तदेव स्पष्टयति– कुलमिति ॥ नयसि प्रापयसि ॥ २१ ॥
दुर्घटभावदीपिका
नयस्यधस्तम इत्यस्य तमोऽन्धकार इत्युक्तम् । अधोऽधोलोकं नरकं नयसीत्यर्थः । एतेन परमपुरुषसङ्गस्य तमःशब्दवाच्यनित्यनरकहेतुत्वस्यैवाभावेनाधस्तमोहेतु-त्वस्य सुतरामभावादधस्तमो नयसीत्यनुपपन्नमिति चोद्यं निरस्तम् । अन्धकारवाचकेन तमः-शब्देनान्धकारयुक्तत्वं लक्ष्यत इत्यङ्गीकृत्यान्धकारयुक्तं नरकं नयसीत्यर्थस्योक्तत्वात् ॥ २१ ॥
सत्यधर्मीया
सतां मार्गादिति पाठः ससुमार्गः । सतां मार्गादन्यथा । हे अम्ब मातस्ते इयं मतिः कथं गता । ननु सन्तु सन्तः किं तव तैस्तन्मार्गेण चास्मद्वंशे वयं बाल्ये बालां-स्तरुणिमनि यूनः परिणतापीच्छामो वृद्धान्न नो गोत्रे पुत्रि क्वचिदपि सती लाञ्छनमभूदित्यादि-प्रोदितवर्त्मवर्तनमेव न मच्छिरसागतमिति किं त्वं चित्तं चित्रयसीत्यत आह । इदं मत्कुलदूषणं न तव्द्यापृतिरन्ववाय अये पुत्रीति । ननु क्रोधान्धस्यासतीति तां प्रत्यंबेति सम्बोधयतश्च राज्ञः स्वसुतासम्बोधनं न सम्बद्धमिति चेत् स्मरतु भवान्नातिप्रीतमनोऽर्थस्य । अथवा । शिष्यस्तुष्यतु भवान् । अम्बगतेत्यखण्डं पदम् । अबि शब्दे भावे घञ् । अम्बशब्दं गता वाच्यतां गतेत्यर्थः । तत्र हेतुः । यत्सतां मार्गादन्यथेति । मार्गमिति पाठेऽन्यथेत्येतद्विवरणम् । असतां मार्गगतेतीति योजनीयम् । प्रलापकाल इति पुनरुक्तेन सहान्यद्विधत्ते । अपत्रपा । यद्यतो जारं बिभर्षि पितुर्मे भर्तुश्च्यवनस्य च कुलमधः पातयसि प्रापयसीति । न नरकादिरधःपदार्थ इत्याह ॥ तम इति ॥ एतत्कृत्यस्य तदेव फलमिति भावः । अधोलोकेऽनुभूयमानं तमोग्लानिं नयसीति व्याचक्षते । अधो नयसीति पितुर्मम तमोग्लानिरित्यप्यन्वयः ॥ २१ ॥
छलारी
हे अम्ब पुत्रिके इयं तव मतिः कथमन्यथा गताऽन्यथा बभूवेत्यर्थः । अन्यथेत्युक्तं विवृणोति ॥ असतामिति ॥ त्वमसतां मार्गं गता । इदं त्वकर्म मत्कुलदूषणम् । किं तत्कर्मेति तत्राह ॥ बिभर्षीति ॥ अपत्रपा निर्लज्जा । यस्माज्जारं बिभर्षि तस्मात्पितुर्भर्तुश्च कुलं तमोऽन्धकारयुक्तमधोऽधोलोकं नरकं नयसि प्रापयसीत्यर्थः ॥ २१ ॥
एवं ब्रुवाणं पितरं स्मयमाना शुचिस्मिता ।
उवाच तात जामाता तवैष भृगुनन्दनः ॥ २२ ॥
सत्यधर्मीया
स्वतः शुचिस्मिता स्मयमाना । पितुर्भ्रमसम्भ्रमतः । हे तात तवैष जामाता त्वया वृतो जारोऽपि समारोपितजामातृत्वक इति नेत्याह ॥ भृगुनन्दन इति ॥ जामातेति सोत्कण्ठाकण्ठतो गदन्ती, लोके मात्रा तव पितरं पश्य, पश्य तव मातरं पुत्रेेत्यादि-व्यवहरणं न दोषावहमिति ध्वनयामासेति ज्ञेयम् ॥ २२ ॥
छलारी
स्मयमाना मयि दूषणं नास्तीति गर्ववती । भृगुनन्दनश्च्यवनः ॥ २२ ॥
शशंस पित्रे तत्सर्वं वयोरूपाभिलम्भनम् ।
विस्मितः परमप्रीतस्तनयां परिषस्वजे ॥ २३ ॥
पदरत्नावली
वयोरूपयोरभिनन्दनं प्राप्तिर्येन, तत्सर्वम् ॥ २३ ॥
सत्यधर्मीया
वयोरूपाभिलम्भनं तत्प्राप्तिर्येन तत्सर्वं पित्रे शशंस । प्राक् यः परमप्रीतः स इदानीं परमप्रीतः संस्तनयां सुकन्यां परिषस्वजे आलिलिङ्गे ॥ २३ ॥
छलारी
वयोरूपयोरभिलम्भनं प्राप्तिप्रकारम् । परिषस्वजे आलिलिङ्गे । ततः शर्यातिः सन्तोषेण स्वगृहं ययौ ॥ २३ ॥
सोमेन याजयन् वीरः ग्रहं सोमस्य चाग्रहीत् ।
असोमयोरप्यश्विनोश्च्यवनः स्वेन तेजसा ॥ २४ ॥
पदरत्नावली
सोमेन हविषा । असोमयोः सोमपानरहितयोः ॥ २४ ॥
सत्यधर्मीया
वीरं शर्यातिं सोमेन याजयंश्च्यवनः स्वेन तेजसा तपःप्रभावेन । असोमयोः सोमपायिभिन्नयोरश्विनोरपि सोमस्य ग्रहं पात्रमाहुतिं वाऽग्रहीद् व्यतारीद्दध्रे दातुमिति वा । असोमयोरित्यकारान्तशब्दस्य षष्ठीद्विवचनम् । आतो धातोरित्यल्लोपः । एतेन हवा ऐन्द्रेण महाभिषेकेण च्यवनो भार्गवः शर्यातिं मानवमित्याद्यष्टमपञ्चकैकविंशतिखण्डोक्तैतत्प्रकारोऽनुसन्धेयः
॥ २४ ॥
छलारी
ग्रहं ग्रहीष्ये सोमस्येत्युक्तं तत्राह ॥ सोमेनेति ॥ वीरः समर्थश्च्यवनः । सोमेन हविषा याजयन् । स्वार्थे णिच् । यजन्नित्यर्थः । ग्रहमाहुतिविशेषमग्रहीद् अदात् ॥२४॥
हन्तुं तमाददे वज्र सद्योमन्युरमर्षितः ।
**सवज्रं स्तम्भयामास भुजमिन्द्रस्य भार्गवः ॥ २५ ॥ **
पदरत्नावली
तं च्यवनम् । सद्योमन्युस्तदानीमेव जातक्रोधः । सवज्रं भुजम् ॥ २५ ॥
सत्यधर्मीया
सद्योमन्युस्तत्क्षणे जातक्रोधः । अनेन लवलवानन्तरं गच्छत्क्रोधः शक्र इत्यप्यसूचि । अमर्षोऽसहमानः । च्यवनविशेषणं वा । हन्तुं च्यवनं, भार्गवः । सवज्रं वज्रसहितं बाहुं स्तम्भयामास । उक्तं चाश्वमेधिके पर्वण्यग्निनेन्द्रं प्रति ॥
यत्र शर्यातिं च्यवनो याजयिष्यन्सहाश्विभ्यां सोममगृह्णदेकः ।
तं त्वं क्रुद्धः प्रत्यषेधीः पुरस्ताच्छर्यातियज्ञं स्मरन्तं महेन्द्रम् ॥
सत्यधर्मीया
स ते विप्रः सह वज्रेण बाहुमथागृह्णादित्यादिगर्भीकृत्य मन्दानामासुरं विश्वरूपमिति चान्तरीकृत्य च न संवर्तं गन्तुमिच्छामीत्यध्यायावसित्यनुसन्धेयम् ॥ २५ ॥
छलारी
शतमन्युरिन्द्रः ॥ २५ ॥
अन्वजानंस्ततः सर्वे ग्रहं सोमस्य चाश्विनोः ।
भिषजाविति यत् पूर्वं सोमाहुत्या बहिष्कृतौ ॥ २६ ॥
पदरत्नावली
अन्वजानन् अनुज्ञातवन्तः । पूर्वं सोमग्रहाभावः कथं स्यादिति तत्राह– भिषजाविति ॥ २६ ॥
दुर्घटभावदीपिका
सर्वे ततस्तदन्तरं वज्रेन्द्रभुजस्तम्भनानन्तरं भिषजाविति बुद्ध्या पूर्वं सोमाहुत्या यद् यौ बहिष्कृतौ तयोश्च तयोरप्यश्विनोः सोमस्य ग्रहमन्वजानन्निति । एतेन सोमा-हूत्या बहिष्कृतत्वस्य सोमग्रहानुज्ञानं प्रति हेतुत्वाभावात् । यस्मात्सोमाहूत्या बहिष्कृतौ तस्मा-दन्वजानन्निति कथनमयुक्तमिति दूषणं परास्तम् । याविति पुल्लिङ्गप्रथमाद्विवचनस्य यदिति नपुंसकप्रथमैकवचनमित्यभ्युपेत्य तयोरित्यस्य शेषं च स्वीकृत्य यौ सोमाहूत्या बहिष्कृतौ तयो-रप्यश्विनोरन्वजानान्नित्यर्थस्योक्तत्वात् ॥ २६ ॥
॥ इति श्रीभागवतटिप्पण्यां चतुर्थोऽध्यायः ॥ ९–४ ॥
सत्यधर्मीया
ततो भुजस्तम्भमदनामदानवागत्यनन्तरं सर्वे सुपर्वाणोऽश्विनोः सोमं च्यवनगृहीतमन्वजानन् ॐ दिशेत्यनुज्ञातवन्तः सम्मुखं स्थित्वा भवत्वित्युक्तवन्तः । यद्यपि द्युसदामनिर्वाहा देवास्तंकारस्तथाऽपि ग्रन्थकृदन्वजानन्निति तत्सम्मानमातनोदिति ज्ञेयम् । यथोक्तं भारते तत्रैव ।
मन्त्रहूतो यज्ञमिमं मयाऽद्य पश्य स्वैनं मन्त्रवित्स्तब्धकायम् ।
ततो देवैः सहितो देवराज आयाद्यज्ञदमित्यादि ॥
सत्यधर्मीया—कुतोऽसोमत्वमश्विनोर्देवयोरपीत्यत आह ॥ भिषजाविति ॥ पूर्वं च्यवनवचनवितरणतः ॥ २६ ॥
छलारी
ततः सवज्रेन्द्रभुजस्तंभानन्तरं सर्वे इन्द्रादयोऽन्वजानन् अनुज्ञातवन्तः । पूर्वं सोमग्रहाभावः कुत इत्यत आह ॥ भिषजाविति ॥ २६ ॥
उत्तानबर्हिरानर्तो भूरिषेण इति त्रयः ।
शर्यातेरभवन् पुत्रा आनर्ताद् रेवतोऽभवत् ॥ २७ ॥
सत्यधर्मीया
शर्यातिसुतशर्माह ॥ उत्तानबर्हिरिति ॥ आनर्तात् । रेवतोऽभवदुदभूत्
॥ २७ ॥
छलारी
सुकन्यास्थितिमुक्त्वा शर्यातिवंशमाह । शर्यातेर्ज्येष्ठपुत्रस्य वंशाभावात् । द्वितीयपुत्रस्य वंशमाह ॥ आनर्तादिति ॥ २७ ॥
सोऽन्तःसमुद्रे नगरीं विनिर्माय कुशस्थलीम् ।
आस्थितोऽभुङ्क्त विषयानानर्तादीनरिन्दम ॥ २८ ॥
पदरत्नावली
कुशस्थलीं द्वारावतीम् ॥ २८ ॥
सत्यधर्मीया
समद्रे कुशस्थलीं द्वारकां नगरीं विनिर्माय । तस्यान्त आस्थित आनर्तादीन्विषयान्देशविशेषान् । अभुङ्क्तापालयत् । भुज पालनाभ्यवहारयोरिति स्मरणात् । भुजोऽनवने इत्युक्तेरात्मनेपदता त्वार्षः । यद्वा । नर्तनादीन्विषयान् जन्यपदार्थान् अभुङ्क्त बुभुजे । उपभोगो भुजेरर्थ इत्युक्तेः । सैवाणीयसी गरीयसी वासुदेवेन कृतेति नैतत्कृतत्वतत्कृतत्वविरोधः
॥ २८ ॥
छलारी
कुशस्थलीं द्वारकामास्थितस्तत्रास्थित इत्यर्थः । आनर्तादीन्विषयांस्तन्नामक-देशान् अभुङ्क्त अपालयत् । इयं कुशस्थली कालान्तरे समुद्रे मग्नाऽभूत् । अतो द्वारवत्या न कृष्णकृतत्वप्रसिद्धिविरोधः ॥ २८ ॥
तस्य पुत्रशतं जज्ञे ककुद्मिज्येष्ठमुत्तमम् ।
ककुद्मी रेवतीं कन्यां स्वामादाय विभुं गतः ॥ २९ ॥
पदरत्नावली
विभंु ब्रह्माणम् ॥ २९ ॥
सत्यधर्मीया
तस्य रैवतस्य । ककुद्मिर्ज्येष्ठो यस्य तत्पुत्रशतं जज्ञे । उत्तरत्रानु-वदिष्यमाणत्वात्पुत्री रैवती चैका जज्ञे इति शेषो वाद आवश्यकः । ककुद्मीति स्थाने रेवत इति पाठो बह्वनुकूलः । तथा हि दशमे । रेवतो रेवतीं सुताम् । रेवतो नाम राजाऽऽसीत् । ततस्तान् रेवतः प्राहेत्यादि महाभारततात्पर्यनिर्णये । स रैवतो बलाय तामित्युक्तेः । ककुद्मीमिति बहुकोशेषु वर्तते । कथमिति चेत् । पितामहादीनां पित्रादिशब्दवाच्यत्ववत् कार्यकारणशब्दानां गोभिः श्रीणीत मत्सरमित्यादौ जन्यजनकानां यथा ब्रह्मादिकं मुखमित्यादौ वाच्यवाचकानां महतश्चतुर्मुखादित्यभिमन्यमानाभिमानिवाचिनां साङ्कर्यदर्शनात्पुत्रनाम्ना पिता रेवतो ग्राह्यः । यमग्निं मेध्यातिथिः कण्व इत्यृग् टीकायां पितापुत्रयोरभेदोपचारात्कण्वस्य मे सुत इत्युक्तेः । स्वां कन्यामिति स्वारस्यार्थं च ककुद्मी रेवतः स्वां कन्यामादाय विभुं स्वयम्भुवं गतः ॥ २९ ॥
छलारी
तस्य रेवतस्य ककुद्मी ज्येष्ठो यस्मिंस्तत् । रेवतो रेवतीं कन्यामिति क्वचि-त्पाठः । तत्र रेवतपुत्रो रेवतककुद्मीत्यर्थः । अत एवास्य रेवत इति नामान्तरमतो न विरोधः । विभुं ब्रह्माणम् ॥ २९ ॥
**पुत्र्या वरं परिप्रष्टुं ब्रह्मलोकमपावृतम् । **
आवर्तमाने गान्धर्वे स्थितोऽलब्धक्षणः क्षणम् ॥ ३० ॥
पदरत्नावली
अपावृतं प्रकाशितम् । गान्धर्वे गाने । अलब्धक्षणो ऽलब्धावसरः
॥ ३० ॥
सत्यधर्मीया
गमनप्रयोजनमाह ॥ पुत्र्या इति ॥ वरं पतिम् । अपावृतं तदीय-वराद्योग्यजनप्रतिबन्धकावरणरहितं दीप्तिमद्वा । अयोग्यपिहितप्रायं वा । अपावृतः स्वतन्त्रः स्यात्पिहिवर्चाप्यपावृत इति विश्वः । गान्धर्वे तद्धाहाहूहूसम्बन्धे गीते आवर्तमानेऽलब्धक्षणोऽ-प्राप्तावकाशः । क्षणं स्वविवक्षया ॥ ३० ॥
छलारी
अपावृतं प्रकाशितं ब्रह्मलोकं प्राप्य गान्धर्वे गाने आवर्तमाने सत्य-लब्धक्षणोऽप्राप्तावसरः सन् क्षणमिव स्थितः ॥ ३० ॥
तदन्ते विभुमानम्य स्वाभिप्रायं न्यवेदयत् ।
तच्छ्रुत्वा भगवान् ब्रह्मा प्रहस्य तमुवाच ह ॥ ३१ ॥
पदरत्नावली
तदन्ते गीतावसाने ॥ ३१ ॥
सत्यधर्मीया
तदन्ते गानावसाने । गन्धर्वौ द्वौ हाहा हूहू तस्मिन् गायतां काले ग्राममूर्छविचक्षणो । गीतावसान इत्यवसानेन भागवते दशम उक्तेः । तत् श्रुत्वा तन्मुखतः प्राक् क्लृप्तवरादिकं श्रुत्वा ॥ ३१ ॥
छलारी
तदन्ते गीतावसाने रेवतीं कस्मै वराय दास्यामीति स्वाभिप्रायम् ॥ ३१ ॥
अहो राजन् निरुद्धास्ते कालेन हृदि ये कृताः ।
तत्पुत्रपौत्रनप्तृणां गोत्राणि च न शृण्महे ॥ ३२ ॥
पदरत्नावली
ये हृदि कृतास्ते पुरुषाः कालेन निरुद्धा मृताः । न केवलं त एव न सन्ति, तत्पुत्रादयोऽपि न सन्तीत्याह– तत्पुत्रेति ॥ गोत्राणि नामानि न शृण्महे न श्रुणुमः
॥ ३२ ॥
सत्यधर्मीया
ये ते हृदि वरत्वेन कृताः ॥ ३२ ॥
छलारी
ते पुरुषाः कालेन निरुद्धा मृता इत्यर्थः । न केवलं त एव न सन्ति किन्तु तत्पुत्रादयोऽपि न सन्तीत्याह ॥ तत्पुत्रेति ॥ गोत्राणि नामानि च न शृृण्महे न शुश्रुमः
॥ ३२ ॥
**मुहूर्तं शृण्वतोऽश्राव्यं प्रतियातस्य तेऽनघ । **
कालोऽभियातस्त्रिनव चतुर्युगविकल्पितः ॥ ३३ ॥
पदरत्नावली
प्रतियातस्यात्रागतस्य, ते तवाश्राव्यं नरस्य श्रोतुमयोग्यं गानं मुहूर्तं मत्वा शृण्वतः कालो यात अतिक्रान्त इत्यन्वयः । कियानिति तत्राह– त्रिनवेति ॥ त्रिनवभिश् चतुर्युगैर् विशिष्टत्वेन कल्पितः सप्तविंशतिसङ्ख्यायुतचतुर्युगभेदैर्भिन्न इत्यर्थः ॥ ३३ ॥
सत्यधर्मीया
अश्राव्यं मनुष्यैः श्रोतुमयोग्यं मुहूर्तं शृृण्वतः प्रतियातस्य प्रष्टुमेतत्स्थानं प्रति समागतस्य कालो यातः । कियान्स इत्यत आह ॥ त्रिनवचतुर्युगविकल्पित इति ॥ त्रिनवेति सप्तविंशतिसङ्ख्यायुतचतुर्युगैर्विकल्पितो भिन्न इत्यर्थः ॥ ३३ ॥
छलारी
प्रतियातस्यागतस्य तवाश्राव्यं नरस्य श्रोतुमयोग्यं गानं मुहूर्तं शृृण्वतः कालोऽभियातोऽतिक्रान्त इत्यन्वयः । कियानिति तत्राह ॥ त्रिनवेति ॥ सप्तविंशन्महायुगै-र्विकल्पितो विभक्त इत्यर्थः ॥ ३३ ॥
तद् गच्छ देवदेवांशो बलदेवो महाबलः ।
कन्यारत्नमिदं राजन् नररत्नाय देहि भो ॥ ३४ ॥
पदरत्नावली
तर्हि किं करोमि, कन्या चावश्यं दातव्या, इमां कस्मै दास्यामीति तत्राह– तदिति ॥ देवदेवस्य हरेरंशः शुक्लकेशांशवान् । मत्वर्थीयोऽच् प्रत्ययः । देवदेवस्यांशो यस्मिन्निति वा ॥ ३४ ॥
सत्यधर्मीया
देवदेवस्य सङ्कर्षणस्यांशो यस्मिन्सः ॥ ३४ ॥
छलारी
तर्हि किं करोमि । कन्याऽऽवश्यं दातव्या । इमां कस्मै दास्यामीति तत्राह ॥ तदिति ॥ देवदेवस्य हरेरंशः शुक्लकेशांशवान् । मत्वर्थीयोऽच्प्रत्ययः । यद्वा । देवदेवस्यांशो यस्मिन्निति विग्रहः । भो राजन् ॥ ३४ ॥
भुवो भारावताराय भगवान् भूतभावनः ।
अवतीर्णो निजांशेन पुण्यश्रवणकीर्तनः ॥ ३५ ॥
सत्यधर्मीया
स कुत इदानीं मेदिनीं गत इत्यतो वक्ति ॥ भुव इति ॥ भारावताराय तदायतदैतेयादिसंहृत्यै । भूतभावनः पुण्यश्रवणकीर्तनो भगवान्कृष्णोऽवतीर्ण इति तत्सेवायै निजांशेन शेषांशेनावतीर्णः ॥ ३५ ॥
छलारी
तन्महिमानमाह ॥ भुव इति ॥ अवतीर्णो बलभद्रत्वेनावतीर्णः । अथवा । यः कृष्णत्वेनावतीर्णस्तस्य । अग्रज इति शेषः ॥ ३५ ॥
**इत्यादिष्टोऽभिवन्द्याजं नृपः स्वपुरमागतः । **
त्यक्तां पुण्यजनत्रासाद् भ्रातृभिर्दिक्ष्ववस्थितैः ॥ ३६ ॥
पदरत्नावली
पुण्यजनत्रासाद् राक्षसभयाद् दिक्ष्ववस्थितैर्भ्रातृभिस्त्यक्तां स्वपुरं निजपुरी-मागतः ॥ ३६ ॥
सत्यधर्मीया
आदिष्टो रैवतः । अजं विष्णुजातम् । स्वपुरं कुशस्थलीं पुण्यजनत्रा-सात्पुण्यजना राक्षसास्तेभ्यस्त्रासाद् भ्रातृभिर्ज्ञातिभिस्त्यक्ताम् । ते तर्हि क्वेत्यत आह ॥ दिक्ष्ववस्थितैरिति ॥ ३६ ॥
छलारी
पुण्यजनत्रासाद् राक्षसभयात् । चतुर्दिक्ष्ववस्थितैर्भ्रातृभिस्त्यक्तं स्वपुरं निजपुरीमागतः । रेवतस्य तदीयानां च बहुकालावस्थानं तपस्विनां तेषां स्वच्छन्दमृत्यु-त्वाद्युज्यते । तदुक्तम् । स्वेच्छया मरणत्वं सः प्राप्तो नामिच्छया(?)तनुः । तस्मिन्काले त्यज्यते हि बलवद्भिर्वधं विना । ‘अतिसक्तास्तपोहीनाः कथञ्चिन्मृतिमाप्नुयुः’ इति ॥ ३६ ॥
सुतां दत्वाऽनवद्याङ्गीं बलाय बलशालिने ।
बदर्याख्यं ययौ राजा तप्तुं नारायणाश्रमम् ॥ ३७ ॥
॥ इति श्रीमद्भागवते नवमस्कन्धे चतुर्थोऽध्यायः ॥
पदरत्नावली
ककुद्मी त्वनवद्याङ्गीं शोभनावयवां सुतां बाहुशालिने बलाय दत्वा तपस्तप्तंु बदर्याख्यं नारायणाश्रमं ययावित्यन्वयः ॥ ३७॥
॥ इति श्रीमद्भागवतटीकायां विजयध्वजतीर्थभिक्षुकृतायां
नवमस्कन्धस्य चतुर्थोऽध्यायः ॥
सत्यधर्मीया
‘प्रियां निजां पुराऽपि हि । स वारुणीसमाह्वयामवाप रैवतीं प्रभुः’ इत्याचार्योक्तेर्वाऽनवद्याङ्गीम् भाविभावविवक्षया । बलशालिन इति तथा करणसमर्थता हेतुः । तप्तुं तपः कर्तुम् ॥ ३७ ॥
॥ इति श्रीसत्यधर्मयतिकृतायां भागवतटिप्पण्यां नवमस्कन्धे चतुर्थोऽध्यायः ॥
छलारी
अनवद्याङ्गीं सुन्दरावयवाम् । राजा रेवतः ॥ ३७ ॥
**॥ इति श्रीछलारी शेषाचार्यकृतायां भागवतटिप्पण्यां **
श्रीमद्भागवते नवमस्कन्धे चतुर्थोऽध्यायः ॥