०३ तृतीयोऽध्यायः

एवं गतेऽथ सुद्युम्ने मनुर्वैवस्वतः सुते

॥ अथ तृतीयोऽध्यायः ॥

श्रीशुक उवाच—

एवं गतेऽथ सुद्युम्ने मनुर्वैवस्वतः सुते ।

पुत्रकामस्तपस्तेपे यमुनायां शतं समाः ॥ १ ॥

पदरत्नावली

सुद्युमे्न सुते । वैवस्वतः श्राद्धदेवो मनुः ॥ १ ॥

सत्यधर्मीया

सुद्युम्ने सुते एवं वनं गते सति वैवस्वतो मनुः श्राद्धदेवः पुत्रकामः शतं समाः संवत्सरान् यमुनायां तपस्तेपे चकार ॥ १ ॥

छलारी

सुते सुद्युम्ने वनं प्रति गते सतीत्यन्वयः । समा वर्षाणि ॥ १ ॥

ततोऽयजन्मनुर्देवमपत्यार्थं हरिं प्रभुम् ।

इक्ष्वाकुपूर्वजान् पुत्रान् लेभे स्वसदृशान् दश ॥ २ ॥

पदरत्नावली

इक्ष्वाकुः पूर्वजो ज्येष्ठो येषां ते तथा तान् ॥ २ ॥

सत्यधर्मीया

हरिं देवं वासुदेवम् । इक्ष्वाकुः पूर्वजोऽग्रजो येषां ते तथा तान्स्व-सदृशान्पुत्रान् लेभे ॥ २ ॥

छलारी

इक्ष्वाकुः पूर्वजो ज्येष्ठो येषां ते तथा । नामानि प्रथमाध्याय एवोक्तानि ज्ञेयानि

॥ २ ॥

वृषध्रस्तु मनोः पुत्रो गोपालो गुरुणा कृतः ।

पालयामास गा यत्तो रात्र्यां वीरासनव्रतः ॥ ३ ॥

पदरत्नावली

मनोः पुत्राणामष्टमः पुत्रो वृषध्रो गाः पालयामास । कीदृशः ? गुरुणा वसिष्ठेन गोपालः कृतः । तुशब्देन वृषान् धारयितंु योग्य इति निरुक्त्येति सूचयति । गोरक्षेैकनिष्ठया नेत्रे उन्मील्य जाग्रदेव गोसन्निधाने प्रतिष्ठानाद् वीरासनव्रतः ॥ ३ ॥

सत्यधर्मीया

अष्टमस्यापि वृषध्रस्यानपत्यतया लघुनोपपादनाय कर्म वक्तुं शक्यमिति तदेवादौ वदति ॥ वृषध्र इति ॥ गुरुणा वसिष्ठेन । गोपालस्तत्पालकः । एकं सहस्रं कुर्वित्याज्ञप्तो रात्र्यां यत्तः सन्नद्धो वीरासनव्रतो जाग्रद्गाः पालयामास ॥ ३ ॥

छलारी

सूचीकटाहन्यायेन वैवस्वतपुत्राणां वंशं विवक्षुरादौ तावद् वैवस्वतमनोरष्टम-पुत्रस्य वृषध्रस्य वंशो नाभूदिति सहेतुकमाह ॥ वृषध्र इत्यादिना ॥ गुरुणा वसिष्ठेन गोपालः कृतो वृषध्रो गाः पालयामासेत्यन्वयः । रात्रौ खड्गपाणिस्तिष्ठतः सतो जागरणं वीरासनं तदेव व्रतं यस्य स तथा । यत्तः सन्नद्धः ॥ ३ ॥

एकदा प्राविशद् गोष्ठं शार्दूलो निशि वर्षति ।

शयाना गाव उत्थाय भीतास्ता बभ्रमुर्व्रजे ॥ ४ ॥

पदरत्नावली

निशि मेघे वर्षति सति ॥ ४ ॥

सत्यधर्मीया

निशि मेघे वर्षति सति शार्दूल एकदा गोष्ठम् । अम्बाम्बगोभूमीत्यादिना सस्य षः । गोष्ठं गोस्थानकमित्यमरः । प्राविशत् । शयाना गावो भीताः सत्य उत्थाय व्रजे बभ्रमुः ॥ ४ ॥

छलारी

निशि मेघे वर्षति सति शार्दूलो व्याघ्रः । बभ्रमः भ्रमणं चक्रुः ॥ ४ ॥

एकां जग्राह बलवान् १सानुक्रोशमयातुराम् ।

तस्यास्तु क्रन्दितं श्रुत्वा वृषध्रोऽभिससार ह ॥ ५ ॥

पदरत्नावली

सा गौः ॥ ५ ॥

सत्यधर्मीया

बलवान् व्याघ्रः । बलवानेतामनु स्वयं सञ्चरणवानिति वा । सा गौः । तामभिससार । ह शोके ॥ ५ ॥

छलारी

बलवान् शार्दूलः । सा गौः ॥ ५ ॥

खड्गमादाय तरसा प्रलीनोडुगणे निशि ।

अजानन्नहनद् बभ्रोः शिरः शार्दूलशङ्कया ॥ ६ ॥

पदरत्नावली

बभ्रोर्गोः शिरोऽहनत् । बभ्रुर्गौः सौरभेयी च माहेयी गोमतल्लिकेत्यभिधानम् । गोः शिरश्छेदने को हेतुरिति तत्राह– निशीति ॥ निश्यपि नक्षत्रादिप्रकाशनेन विवेकज्ञानं सुलभमिति ? अत्राह– प्रलीनेति ॥ मेघच्छायाच्छादितनक्षत्रादिप्रकाशे च सति ॥ ६ ॥

सत्यधर्मीया

तरसा त्वरया । तरो बले च वेगे चातिरंहस्तरसीति विश्वामरौ । निशि तत्र न नक्षत्रप्रकाशोऽपीत्याह ॥ प्रलीनेति ॥ ‘न लोपः प्रातिपादिकान्तस्य’ इति प्रलीनेति निर्विभक्तिकनिर्देशः । उडुगणे नक्षत्रसङ्घे । प्रलीने नीरदादिना सति । गगन इति शेषो वा । बभ्रोर्गोः । बभ्रुर्गौः सौरभेयी च माहेयी गोमतुल्लकेत्यभिधानात् । शार्दूलशङ्कया व्याघ्रसंदेहेन शिरोऽहनत् । चिच्छेदेति यावत् । अजानन्नित्यज्ञाने निशि प्रलीनोडुगण इति निमित्तोक्तिः ॥ ६ ॥

छलारी

बभ्रोर्गोः शिरो न्यहनत् । बभ्रुर्गौः सौरभेयी चेत्यभिधानम् । कपिला गौर्बभ्रुरिति कश्चिद् व्याख्यातवान् । प्रलीना उडुगणा यस्मिंस्तस्मिन् । आकाश इति शेषः ॥ ६ ॥

व्याघ्रो विवृक्णश्रवणो निस्त्रिंशाग्रहतस्ततः ।

निश्चक्राम भृशं भीतो रक्तं पथि समुत्सृजन् ॥ ७ ॥

पदरत्नावली

विवृक्णश्रवणश् छिन्नकर्णमूलः । निस्त्रिंशस्य खड्गस्याग्रेण हतः प्रहतः

॥ ७ ॥

सत्यधर्मीया

विवृक्णं छिन्नं श्रवणं कर्णं यस्य सः । निस्त्रिंशस्य खड्गस्याग्रं प्रान्तभागस्तेन हत इति विवृक्णश्रवणः सन्, ततो गोष्ठात् ॥ ७ ॥

छलारी

विवृक्णश्रवणश् छिन्नकर्णमूलः । निस्त्रिंशस्य खड्गस्याग्रेण हतः । गां कामतो न जघानेति व्याख्यापयितुं विवृक्णश्रवण इत्युक्तम् ॥ ७ ॥

मन्यमानो हतं व्याघ्रं वृषध्रः परवीरहा ।

अद्राक्षीत् स्वहतां बभ्रुं व्युष्टायां निशि दुःखितः ॥ ८ ॥

पदरत्नावली

परवीरहा शत्रुवीरसंहारकः । निशि व्युष्टायां प्रभातायाम् ॥ ८ ॥

सत्यधर्मीया

वृषध्रो निशि व्याघ्रं हतं मन्यमानो निशि व्युष्टायां प्रभातायां दुःखितः यस्तं कुलाचार्यः शशपेत्युत्तरेणान्वयः ॥ ८ ॥

छलारी

परवीरहा शत्रुसंहारकः । निशि व्युष्टायां प्रभातायाम् ॥ ८ ॥

तं शशाप कुलाचार्यः कृतागसमकामतः ।

न क्षत्रबन्धुः शुद्रस्त्वं कर्मणा भविताऽमुना ॥ ९ ॥

पदरत्नावली

अकामतः बभ्रुहननेच्छाभावतोऽपि, कृतागसं कृतापराधम् । अमुना क्रूरकर्मणा शूद्रो भविता न क्षत्रबन्धुरिति शशापेत्यन्वयः ॥ ९ ॥

सत्यधर्मीया

शापमुपपादयति ॥ नेति ॥ क्षत्रबन्धुः क्षत्रियापत्यम् । नामुना कर्मणा बभ्रुमारणरूपेण शूद्रस्तद्धर्मा भवितेत्यकामतोऽनिच्छया कृतागसं तादृशमपि ॥ ९ ॥

छलारी

अकामतो बभ्रुहननेच्छाभावेऽपि कृतागसं कृतापराधम् । क्षत्रबन्धुः क्षत्रिया-भासोऽपि त्वं न भविताऽपि तु शूद्रो भविता ॥ ९ ॥

एवं शप्तस्तु गुरुणा प्रत्यगृह्णात् कृताञ्जलिः ।

अधारयद् व्रतं वीर ऊर्ध्वरेता मुनिप्रियम् ॥१०॥

पदरत्नावली

तुशब्देन गुरावनसूयवानित्याह । कुतोऽवगतमेतदित्यत उक्तम्– प्रत्य-गृह्णादिति ॥ भयात् प्रतिग्रहः किं न स्यादित्यत उक्तम्– कृताञ्जलिरिति ॥ मुनिप्रिय-मूर्ध्वरेतस्त्वं व्रतम् ॥ १० ॥

सत्यधर्मीया

किं निमिरिव प्रतिशशाप कुलाचार्यमपि तु चित्रकेतुवदांञ्चक्र इत्यत आह ॥ एवमिति ॥ तुशब्देन न मयेच्छया माहेयीहननं कृतं न दुष्कृतमतो विनेये दया विधेयेति क्षमापनक्षमतायां सत्यायामपीति विशेषं सूचयति । शप्तेति विशेषणीभूतशापपदं द्वितीयान्तं सदन्वेति । शापं प्रत्यगृह्णान्नत सन्तापेनेत्याह ॥ कृताञ्जलिरिति ॥ इदमपि छेदस्य हस्त-कार्यत्वात्तदनुरूपमिति मन्तव्यम् । ऊर्ध्वरेता वीरो मुनिप्रियं व्रतं वनवासोपवासादिकमधारयद्दधार

॥ १० ॥

छलारी

प्रत्यगृह्णात् । शापमिति शेषः । उर्ध्वरेतोव्रतम् ऊर्ध्वरेतस्त्वरूपं व्रतमधारयत्

॥ १० ॥

वासुदेवे भगवति सर्वात्मन्यमले परे ।

एकान्तित्वं गतो भक्त्या सर्वभूतसुहृत् समः ॥ ११ ॥

पदरत्नावली

किं तन्मुनिप्रियं व्रतमित्याह– वासुदेव इति ॥ एकान्तत्वादिकं व्रतम्

॥ ११ ॥

दुर्घटभावदीपिका

सम इत्यस्य सुहृदादिषु सम इत्यर्थः । एतेन सर्वभूतसुहृदित्यनेन सर्वभूतसमत्वस्य प्राप्तत्वात्सम इत्येतद्व्यर्थमिति दूषणं निरस्तम् । सुखदुःखादिष्विति शेषपूरणेन सुखदुःखादि इत्यर्थस्योक्तत्वात् ॥ ११ ॥

सत्यधर्मीया

तच्चर्यां श्लोकचतुष्टयेनाह ॥ वासुदेव इति ॥ सर्वभूतसुहृत्समश्च ॥११॥

छलारी

सर्वात्मनि सर्वस्वामिन्येकान्तित्वमेकान्तभूयस्त्वम् । समः सुखदुःखादिषु समः

॥ ११ ॥

विमुक्तसङ्गः शान्तात्मा संयताक्षोऽपरिग्रहः ।

यदृच्छयोपपन्नेन कल्पयन् वृत्तिमात्मनः ॥ १२ ॥

पदरत्नावली

संयताक्षः नियमितेन्द्रियः । यदृच्छयाऽसंप्रार्थितयाऽऽगतेन ॥ १२ ॥

सत्यधर्मीया

संयताक्षो योग्यविषये निमीलितलोचनोऽपरिग्रहः । तर्हि जीवनं कथ-मित्यतः कथयति ॥ यदृच्छयेति ॥ वृत्तिं जीविकाम् ॥ १२ ॥

छलारी

शान्तात्मा शान्तरूपे हरौ निश्चितबुद्धिः । संयताक्षो निगृहीतेन्द्रियोऽ-परिग्रहोऽधिकपरिग्रहशून्यः । यदृच्छया भगवदिच्छयोपपन्नेन प्राप्तेन फलादिना ॥ १२ ॥

आत्मन्यात्मानमाधाय ज्ञानतृप्तः समाहितः ।

विचचार महीमेतां जडान्धबधिराकृतिः ॥ १३ ॥

छलारी

आत्मनि परमात्मनि । आत्मानं मन आधाय जडान्धबधिरैः सदृशात्माऽऽ-कृतिर्यस्य विचचारेति द्वयोरेकान्वयः ॥ १३ ॥

एवंव्रतो वनं गत्वा दृष्ट्वा दावाग्निमुत्थितम् ।

तेनोपयुक्तकरणो ब्रह्म प्राप परं मुनिः ॥ १४ ॥

पदरत्नावली

तेन दावाग्निना, उपयुक्तकरणः स्वीकृतदेहो, दग्धदेह इत्यर्थः । ‘करणं साधकतमे शरीरेन्द्रिययोरपि इत्यभिधानम् ॥ १४ ॥

सत्यधर्मीया

एवंव्रत इति बहुव्रीहिः । तेन वनानलेन युक्तकरण उपयुक्तं करणं कायो यस्य स तथा । करणं साधकक्षेत्रं कायकार्यस्थकर्मसु । क्रियाभेदेन्द्रियेषु चेति विश्वः । उपयुक्तानि तत्सम्बन्धानि करणानीन्द्रियाणि यस्येति वा । मुनिस्तद्व्रतीति तत्त्वम् । परं ब्रह्माप

॥ १४ ॥

छलारी

एवंव्रत एवंवृत्तिमान् । तेन दावाग्निनोपयुक्तकरणः स्वीकृतदेहो दग्धदेह इत्यर्थः । करणं साधकतमे शरीरेन्द्रिययोरित्यभिधानम् । परं ब्रह्म ॥ १४ ॥

कविस्तदाऽयं विषयेषु निःस्पृहो विसृज्य सङ्गं सह बन्धुभिर्वनम् ।

निवेश्य चित्ते पुरुषं स्वरोचिषं विवेश कैशोरवयाः परं गतः ॥ १५ ॥

पदरत्नावली

उक्तमेव विवृणोति– कविरिति ॥ यदा शापं प्राप तदा विषयेषु निःस्पृहः कविर्ज्ञानी अयं वृषध्रः बन्धुभिः सह सङ्गं विसृज्य वनं विवेश । स्वरोचिषं स्वयं प्रकाशं पुरुषं चित्ते निवेश्य कैशोरवया अल्पवयाः, तत्प्रसादेन परं गत इत्यन्वयः ॥ १५ ॥

सत्यधर्मीया

स्मर्तुर्धृत्यै सर्वं वृषध्रकृतं सङ्गृह्याह ॥ कविरिति ॥ यदा शप्तस्तदाऽयं कविर्वृषध्रो ज्ञानी । अनेनेक्ष्वाक्विति श्लोके कविमिति श्रूयमाणं यथा यथा स्वविशेष्यविभक्त्यन्तं सदन्वेति । न तु स्वतन्त्रपुत्रवाचीति सूचितं भवति । नभस्तु न त्याज्यः । वंशशंसनात् । कविनामकः स्वतन्त्रः पुत्र इति व्याख्यापरो दशेति सङ्ख्याया उत्तरत्र नभपुत्रोऽथ बलवानित्यत्र पाठान्तरं दृष्ट्वा कविना सह पूरणं चिन्तितवानिति ज्ञेयम् । बन्धुभिः सह सङ्गं विसृज्य वनं विवेश । परमनन्तरं स्वरोचिषं स्वप्रकाशं पुरुषं पूर्णषड्गुणं चित्ते निवेश्य । कैशोरवयास्तरुण एव गतः । उक्तदावाग्न्युपकरणो निवृत्तः परं गत इति वाऽन्वयः ॥ १५ ॥

छलारी

दशमपुत्रस्य कवेरपि वंशो नाभूदित्याह ॥ कविरिति ॥ बन्धुभिः सह सङ्गं विसृज्य तेषु ममतां विहायेत्यर्थः । वनं विवेश । ततः स्वरोचिषं पुरुषं चित्ते निवेश्य तं ध्यायन्नित्यर्थः । परं ब्रह्मेति शेषः । गतः प्राप्तः । कैशोरवयोऽल्पवयः ॥ १५ ॥

करूशान्मानवादासन् कारूशाः क्षत्रजातयः ।

उत्तरापथगोप्तारो ब्रह्मण्या धर्मवत्सलाः ॥ १६ ॥

पदरत्नावली

मानवान् मनुपुत्रात् करूशात् कारूशा इत्येवं प्रसिद्धा आसन्नित्यन्वयः । क्षत्रजातय इत्यनेन गोपालत्वादिजात्यन्तरं नाप्ताः, किन्तु तज्जातय एवेति सूचयति ॥ १६ ॥

सत्यधर्मीया

मानवान्मनुतनयात् । क्षत्रजातयः कारूशाः करूशकुमारा आसन् । क्षत्रजातय इत्यनेन नेतरवृत्त्युपजीवनं तेषामिति सूचयति ॥ १६ ॥

छलारी

करूशस्य वंशमाह ॥ करूशादिति ॥ मानवान्मनुपुत्रात्करूशात्कारूशा इत्येव प्रसिद्धाः पुत्रा आसन्नित्यन्वयः । क्षत्रजातय इत्यनेन वृषध्रवद्गोपालत्वादिजात्यन्तरं न प्राप्ताः । किन्तु तज्जातय एवेति सूचयति । उत्तरापथनामकस्य देशस्य गोप्तारः पालकाः ॥ १६ ॥

धृष्टाद्धार्ष्टमभूत् क्षत्रं ब्रह्मभूतं गतं क्षितौ ।

नभपुत्रोऽतिबलवान् स्वातिमूलोऽभवद्वसुः ॥ १७ ॥

पदरत्नावली

धृष्टान्मनुपुत्रान् नाम्ना धार्ष्टं क्षत्रमभूत् । तद्वृत्तमाह– ब्रह्मभूतमिति ॥ ब्रह्मत्वं श्रोत्रियत्वं गतमित्यर्थः । नभस्य मनुपुत्रस्य पुत्रः स्वातिमूलस् तस्य पुत्रः नाम्ना वसुर-भवत् ॥ १७ ॥

दुर्घटभावदीपिका

गतं क्षितावित्यस्य भूमण्डलस्थतीर्थक्षेत्रादिकं गतमित्यर्थः । सर्वदा तीर्थक्षेत्रादि सञ्चार एव कृत इति भावः । क्षितिशब्देन क्षितिस्थिततीर्थक्षेत्रादिकं गृहीत्वा तत्सञ्चार उच्यत इत्यभ्युपगमात् । एतेनैव गमनक्रियायाः सकर्मकत्वात् । कर्मणि द्वितीयेति द्वितीयायां क्षितिं गतमिति वक्तव्यम् । क्षितौ गतमित्ययुक्तमिति चोद्यं प्रत्युक्तम् । क्षिताविति सप्तमी द्वितीयादेश इत्यङ्गीकारात् ॥ १७ ॥

सत्यधर्मीया

धार्ष्टं तज्जातिर्यद्यपि तथाऽपि क्षितौ ब्रह्मभूयं ब्राह्मणत्वं गतं तद्धर्मा-भवदिति भावः । भुवो भाव इति क्विप् । नभस्य पुत्रः स्वातिमूलस्तस्य वसुः पुत्रोऽभवत्

॥ १७ ॥

छलारी

पञ्चमस्य वंशमाह ॥ धृष्ठादिति ॥ धृष्टान्मनुपुत्रान्नाम्ना धार्ष्टं क्षत्रं क्षत्रिय-कुलमभूत् । तद्वृत्तमाह ॥ ब्रह्मभूतमिति ॥ ब्रह्मणि स्थितं परब्रह्मनिष्ठितमभूदित्यर्थः । क्षितौ कर्मभूतौ गतमेकाग्रचित्तत्वेन तपसि स्थितमित्यर्थः । द्वितीयस्य वंशमाह ॥ मानवाच्च नृगादिति ॥ मानवान्मनुपुत्रान्नृगराजात् । स्वातिर्नामा पुत्रस्ततः स्वातेर्ज्योतिर्नामा ततो ज्योतिषो नभस्तन्नामा पुत्रोऽभवत् । स्वातिमूलनामा नभस्य पुत्रोऽभवत् । स्वातिमूलस्येति शेषः । वसुनामा पुत्रोऽभवत् ॥ १७ ॥

वसोः प्रतीकस्तत्पुत्र ओघवानोघवत्स्वसा ।

कन्या चोघवती नाम सुदर्शन उवाह ताम् ॥ १८ ॥

पदरत्नावली

तत्पुत्रः प्रतीकपुत्र ओघवान् । ओघवतस्तस्य सहोदर्योघवती कन्या चाभवत् । सुदर्शनो नाम राजा ॥ १८ ॥

सत्यधर्मीया

तत्पुत्रः प्रतीकतोक ओघवान्नाम्ना । ओघवतः स्वसा भगिनी चौघवती । सुदर्शनः कश्चिद्राजा तामुवाहोपयेमे ॥ १८ ॥

छलारी

वसोः प्रतीकः पुत्रोऽभवत् । तत्पुत्रः प्रतीकपुत्र ओघवान् ओघवान्नामा । ओघवतः स्वसा ओघवतीनामकन्याऽभवत् । सुदर्शनो नाम राजा ॥ १८ ॥

चित्रसेनो नरिष्यन्ताद्दक्षस्तस्य सुतोऽभवत् ।

तस्य मीढ्वांस्ततः कूर्च इन्द्रसेनस्तु तत्सुतः ॥ १९ ॥

पदरत्नावली

नरिष्यन्तान्मनुपुत्राच्चित्रसेननामा सुतोऽभूत् तस्य चित्रसेनस्य दक्षः

॥ १९ ॥

सत्यधर्मीया

नरिष्यन्तान्मनुसूनोः । तस्य चित्रसेनस्य दक्षः । तस्य दक्षस्य मीढ्वांस्ततो मी•ुषः कूर्चस्तत्सुतः ॥ १९ ॥

छलारी

सप्तमस्य वंशमाह ॥ चित्रसेनो नरिष्यन्तादिति ॥ नरिष्यन्तान्मनुपुत्राच्चित्र-सेनो नाम सुतोऽअभवत् । तस्य चित्रसेनस्य दक्षस्तस्य दक्षस्य । ततो मीढ्वान्नामकात् । तत्सुतः कूर्चसुतः ॥ १९ ॥

वीतिहोत्रस्त्विन्द्रसेनात् तस्य सत्यश्रवा अभूत् ।

उरुश्रवाः सुतस्तस्य देवदत्तस्ततोऽभवत् ॥ २० ॥

सत्यधर्मीया

तस्य वीतिहोत्रस्य । तस्य सत्यश्रवसः । तत उरुश्रवसः ॥ २० ॥

छलारी

तस्य वीतिहोत्रस्य तस्य सत्यश्रवसस्तत उरुश्रवसः ॥ २० ॥

देवदत्तस्य भगवानग्निः स्वयमभूत् सुतः ।

कानीन इति विख्यातो जातूकर्ण्यो महानृषिः ॥ २१ ॥

पदरत्नावली

अग्रे जातूकर्ण्य इति नाम ॥ २१ ॥

सत्यधर्मीया

कानीनः कन्यायाः कनीन चेति स्मरणात् । कानीनः कन्यकाजाततनय इति विश्वः । जातूकर्ण्य इति च तस्यैव नामान्तरम् । देवदत्तस्य स्वजातजातूकर्ण्येन जातूकर्ण्यङ्गनाविवाह इत्यूह आह्वयेनेति ज्ञेयम् ॥ २१ ॥

छलारी

भगवान्पूज्योऽग्निदेव एव कानीन इति जातूकर्ण्य इति विख्यातः ॥ २१ ॥

**ततो ब्रह्मकुलं जातमाग्निवेश्यायनं नृप । **

नरिष्यन्तान्वयः प्रोक्तो दिष्टवंशमतः शृणु ॥ २२ ॥

पदरत्नावली

ततो जातूकर्ण्या ब्रह्मकुलं जातं तदेवाग्निवेश्यायनमिति नामान्तरेण प्रसिद्धम् । इक्ष्वाकुप्रभृतीनां चतुर्थं दिष्टवंशम् ॥ २२ ॥

सत्यधर्मीया

ततो जातूकर्ण्यात् । आग्निवेश्यायनं नाम ब्रह्मकुलं ब्राह्मणकुलं जातम्

॥ २२ ॥

छलारी

ततो जातूकर्ण्याद्ब्रह्मकुलं जातम् । आग्निवेश्यायनमिति नामान्तरेण प्रसिद्धम् । चतुर्थवंशं प्रतिजानीते ॥ दिष्टवंशमिति ॥ २२ ॥

नाभागो दिष्टपुत्रोऽन्यः कर्मणा वैश्यतां गतः ।

भलन्दनः सुतस्तस्य वत्सप्रीतिर्भलन्दनात् ॥ २३ ॥

पदरत्नावली

अन्यो ऽन्यजातीयः । कथम् ? वाणिज्यादिकर्मणा वैश्यत्वं गतः । दिष्टपुत्रो यः’ इति केचित् पठन्ति । वक्ष्यमाणादन्य इति वा ॥ २३ ॥

सत्यधर्मीया

अन्योऽम्बरीषपितुः । तद्व्यापारमीरयति ॥ कर्मणेति ॥ तस्य नाभागस्य । भलन्दनात् । जात इति शेषः ॥ २३ ॥

छलारी

अन्यो मनुपुत्रनाभागाद्दिष्टपुत्रनाभागोऽन्य इत्यर्थः । कर्मणा वाणिज्यादिकर्मणा वैश्यतां गतः । तस्य नाभागस्य ॥ २३ ॥

वत्सप्रीतेः सुतः प्रांशुस्तत्सुतः प्रमितिर्विभुः ।

खनित्रः प्रमितेस्तस्माच्चाक्षुषोऽथ विविंशतिः ॥ २४ ॥

सत्यधर्मीया

तत्सुतः प्रांशुशिशुः । तस्मात्खनित्रात् । अथ तस्माच्चाक्षुषात् ॥२४॥

छलारी

तत्सुतः प्रांशसुतः । विभुरिति प्रमितेर्विशेषणम् । अथ चाक्षुषात् ॥ २४ ॥

विविंशतिसुतो रम्भः खनिनेत्रोऽस्य धार्मिकः ।

करन्धमो महाराज तस्यासीदात्मजो नृपः ॥ २५ ॥

सत्यधर्मीया

अस्य रम्भस्य । तस्य खनिनेत्रस्य ॥ २५ ॥

छलारी

अस्य रम्भस्य । तस्य खनिनेत्रस्य करन्धम आत्मजः ॥ २५ ॥

तस्यावीक्षित् सुतो यस्य मरुत्तश्चक्रवर्त्यभूत् ।

संवर्तोऽयाजयद्यं वै महायोग्यङ्गिरस्सुतः ॥२६॥

सत्यधर्मीया

तस्य करन्धमस्यावीक्षित् । यस्यावीक्षितश्चक्रवर्त्यखण्डेशो मरुत्तः सुतोऽ-भूत् । संवर्तो महायोगीति भाविकार्योपयोगी । अङ्गिरःसुतो यं मरुत्तमयाजयद्याजयामास ॥२६॥

छलारी

करन्धमस्य यस्यावीक्षितः । मरुत्तं विशिनष्टि ॥ संवर्त इति ॥ आङ्गिरसः सुतो महायोगी संवर्त्तो यं मरुत्तमयाजयत् ॥ २६ ॥

मरुत्तस्य यथा यज्ञो न तथान्योऽस्ति कश्चन ।

सर्वे हिरण्मयं त्वासीद् यत् किञ्चास्त्यतिशोभनम् ॥ २७ ॥

पदरत्नावली

तस्य करन्धमस्य पुत्र अवीक्षित्, यस्यावीक्षितो मरुत्तः सुतः । मरुत्तं विशिनष्टि– संवर्त इति ॥ कोऽसौ संवर्त इति तत्राह– महायोगीति ॥ संवर्तो नाम ऋषिः । कीदृश यज्ञमकारयद् येन महायोगित्वं सम्भाव्यत इत्यतस्तं यज्ञं विशिनष्टि– मरुत्तस्येति ॥ अनेन मरुत्तस्यापि महायोगित्वं श्रीनारायणानुग्रहपात्रत्वं सूचितम् ॥ २७ ॥

सत्यधर्मीया

अन्यो यज्ञः कश्चन नास्ति । तन्महिमानमाह । यत्किञ्चास्त्युपकरणं सर्वं हिरण्मयमित्यतिशोभनं बहुमङ्गलमासीत् । शोभनं शुभकर्मकृत्वाख्यमतीत्य विद्यमानमुर्वरितं तद्यत्किञ्चिदस्ति क्षितिसुरैः क्षितिनिक्षिप्तमासीदिति वा । धर्मराजेनैतस्यैव स्वसवनगताया आदानात् । यथोक्तमाश्वमेधिके पर्वणि । उत्सृष्टं ब्राह्मणैर्यज्ञे मरुत्तस्य महात्मन इत्यारभ्य तत्त्वं समादाय नरेन्द्रवित्तं यजस्व देवांस्तर्पयानो निवापैरित्यन्तेन । एतेन हवा ऐन्द्रेण महाभिषेकेण सांवर्त आङ्गिरस इति । संवर्तनामा बृहस्पतिभ्राता । अङ्गिरसः पुत्र इत्याङ्गिरसः । तेन कृतं मरुत्ताभिषेकं शंसति श्लोकं चेममुदाहरति । तदप्येष श्लोकोऽभिगीत इति । तदप्येष श्लोकोऽभि-गीतो मरुतः परिवेष्टारो मरुत्तस्यावसङ्गृहे आविक्षितस्य कामप्रेर्विश्वेदेवाः सभासद इत्यष्टमपञ्चक-पञ्चविंशतिखण्डम् । तस्यायमर्थः । तदपि तस्मिन्नपि मरुत्ताभिषेकमाहात्म्य एष वक्ष्यमाण-श्लोकपादावबद्धोऽभिगीतोऽभितः सर्वैः पठितः । मरुत्तस्य तन्नामकस्य राज्ञो गृहे मरुत्संज्ञा देवाः परिवेषयन्ति भोजनकालेऽन्नादिपरिवेषस्य कर्तारः सन्त आवसन् । स किं तनय इत्यत आह । आविक्षितस्येति । अविक्षितोऽपत्त्यमाविक्षितस्तस्य । न समाना मानवास्तस्येत्याह । कामप्रेरिति । कामपूरस्य कक्ष्यप्राकक्ष्याभिपूरकाविति यावत् । विश्वे देवा नायं रूढोऽ-खण्डःशब्दो देवताविशेषवाची किं तु द्वेपदे । विश्वे समस्ता देवाः सभासदः सभायां सीदन्त्युपविंशति ते तथा । सेवन्त इति यावत् । तथा हि पर्वण्याश्वमेधके । संवर्तः ।

यदि प्रीतस्त्वमसि वै देवराजस्तस्मात्स्वयं शाधि यज्ञे विधानम् ।

स्वयं सर्वान् कुरु मार्गान् सुरेन्द्र जानात्वयं सर्वलोकश्च देव ।

व्यास उवाच–

एवमुक्तस्त्वङ्गिरसेन शक्रः समादिदेश स्वयमेव देवान् ।

सभाः क्रियन्तामावसथाश्च मुख्याः सहस्रशश्च चित्रभृतः समृद्धाः ।

क्लृप्तस्थूणाः कुरुतारोहणानि गन्धर्वाणामप्सरसां च शीघ्रम् ।

यत्र नृत्येरन्नप्सरसः समस्ताः स्वर्गोपमः क्रियतां यज्ञवाटः ।

इत्युक्तास्ते चक्रुराशु प्रतीता दिवौकसः … … …. … ।

ततो यज्ञो ववृधे तस्य राजन् यत्र देवाः स्वयमन्नानि जह्रुः ।

यस्मिन् शक्रो ब्राह्मणैः पूज्यमानः सदस्योऽभूदित्यादि ॥ २७ ॥

छलारी

मरुत्तस्य यज्ञं विशिनष्टि ॥ मरुत्तस्येति ॥ अस्य यत्किञ्चित्पात्रादिकमस्ति तत्सर्वं हिरण्मयमतिशोभनमासीत् ॥ २७ ॥

अमाद्यदिन्द्रः सोमेन दक्षिणाभिर्द्विजातयः ।

मरुतः परिवेष्टारो विश्वे देवाः सभासदः ॥ २८ ॥

पदरत्नावली

द्विजातयो दक्षिणाभिरमाद्यन् संहृष्टा इत्यन्वयः । मरुतो देवाः, ‘गीर्वाणा ऋभवोऽमराश्च मरुतो वृन्दारका निर्जराः’ इति हलायुधः । विश्व देवा इति विशेषणाद् वायवो वा परिवेष्टारः भोक्तृणामपेक्षितान्धसादिनिक्षेप्तारः, सभायां सीदन्त्युपविशन्तीति सभासदः, प्रत्यक्षं सभायामुपविश्य सर्वे विचारयन्त इत्यर्थः ॥ २८ ॥

सत्यधर्मीया

इन्द्रः सोमेन संवर्ताज्ञया स्वयं प्रत्यक्षीभूय पीतेन । यथोक्तं तत्रैव ।

प्रत्यक्षं चैवाह्वयन्देवसङ्घान् जुहावाग्नौ मन्त्रवत्सुप्रतीतः ।

ततः पीत्वा बलभित्सोममग्न्यं ये चाप्यन्ते सोमपा देवसङ्घाः ।

अनुज्ञाताः प्रययुः पार्थिवेन यथाजोषं तर्पिताः प्रीतिमन्त इत्यादि । अमाद्यज्जहर्ष । द्विजातयो ब्राह्मणा दक्षिणाभिरमाद्यन् । इदमप्युदितं तत्र ।

ततो राजा जातरूपस्य राशीन्पदे पदे कारयामास हृष्टः । द्विजातिभ्यो विसृजन् भूरि वित्तमिति । मरुतो वायवः सर्वे विश्वेदेवाः सभासदः सभास्तारः ॥ २८ ॥

छलारी

अमाद्यदहृष्यत् । द्विजातयः । अमाद्यन्निति शेषः । सभासदः सभायां सीन्दत्युपविशंतीति सभासदः प्रत्यक्षं सभायामुपविश्य सर्वं विचारयन्त इत्यर्थः ॥ २८ ॥

मरुत्तस्य दमः पुत्रस्तस्यासीद् राज्यवर्धनः ।

सुधृतिस्तत्सुतो जज्ञे सौधृतेयो नरः सुतः ॥२९॥

दुर्घटभावदीपिका

सुधृतिस्तत्सुतो दमसुतः सन् जज्ञे । सौधृतेयः सौधृतेयनामकः सुधृतेः सुतः सन् जज्ञे । नरः सौधृतेयस्य सुतः सन् जज्ञे इति । एतेन नरः सौधृतेय इत्यनेन नरस्य सुधृतिपुत्रत्वस्योक्तत्वात् । सुत इत्येतत्पुनरुक्तमिति दूषणस्यानवकाशः । नरस्य सुधृतिपौत्रत्वमेवोच्यते न तु सुधृतिपुत्रत्वमुच्यत इत्यङ्गीकारात् ॥ २९ ॥

॥ इति श्रीभागवतटिप्पण्यां तृतीयोऽध्यायः ॥ ९–३ ॥

सत्यधर्मीया

तस्य दमस्य । तत्सुतो राज्यवर्धनसुतः सन् जज्ञे जातः । सौधृतेयः सौधृतिसम्बन्धी नरनामा सुतो जज्ञे ॥ २९ ॥

छलारी

नरः सौधृतेयः सुधृतिपुत्र इति श्रुतः प्रसिद्धः ॥ २९ ॥

तत्सुतः केवलस्तस्माद् बन्धुमान् वेगवांस्ततः ।

बन्धुस्तस्याभवद् यस्य तृणबिन्दुर्महीपतिः ॥ ३० ॥

सत्यधर्मीया

तत्सुतो नरसुतः । तस्मात्केवलात् । ततो बन्धुमतः । ततो वेगवतो बन्धुर्यस्य बन्धोस्तृणबिन्दुः ॥ ३० ॥

छलारी

यस्य बन्धोस्तृणबिन्दुः सुतोऽभवत् ॥ ३० ॥

तं भेजेऽलम्बुसा देवी भजनीयगुणालयम् ।

वराप्सरा यतः पुत्राः कन्या चेलिबिलाऽभवत् ॥ ३१ ॥

पदरत्नावली

अलम्बुषा नाम वराप्सरास्तृणबिन्दुं भेजे ॥ ३१ ॥

सत्यधर्मीया

अलम्बुसा वराप्सरा अप्सरसो गतम् । यतस्तृणबिन्दोः पुत्रास्त्रयः । इलिबिला नाम्ना कन्या चैकाऽभवत् ॥ ३१ ॥

छलारी

अलम्बुषानाम वराप्सरा । तं तृणबिन्दुं भेजे । यतस्तृणबिन्दोर्यस्यां त्रयः पुत्राः । अभवन्निति शेषः । इलिबिलाख्यकन्या च ॥ ३१ ॥

यस्यामुत्पादयामास विश्रवाश्च धनाधिपम् ।

प्रदाय विद्यां परमामृषिर्योगेश्वरः पितुः ॥ ३२ ॥

पदरत्नावली

कीदृशीलिबिलेति तां विशिनष्टि– यस्यामिति ॥ योगेश्वरो विश्रवा ऋषिश्च पितुरिलिबिलायाः । पितृस्तृणबिन्दोः परमां विद्यां प्रदाय तामुद्वाह्य, यस्यामिलिबिलायां धनाधिपं वैश्रवणमुत्पादयामासेत्यन्वयः ॥ ३२ ॥

सत्यधर्मीया

यस्यामिलिबिलायां विश्रवाः पुलस्त्यापत्यं धनाधिपं कुबेरम् । परमां विद्यां प्रदाय । इलिबिलापितुस्तृणबिन्दोः । तामुदूह्य तस्यामुत्पादयामास ॥ ३२ ॥

छलारी

योगेश्वरो विश्रवर्षिः पितुरिलिबिलायाः पितुस्तृणबिन्दोः परमां विद्यां प्रदाय तामुद्वाह्य । यस्यामिलिबिलायां धनाधिपं वैश्रवणमुत्पादयामासेत्यर्थः ॥ ३२ ॥

विशालः शून्यबन्धुश्च धूमकेतुश्च तत्सुताः ।

विशालो वंशकृद् राजा वैशालीं निर्ममे पुरीम् ॥ ३३ ॥

पदरत्नावली

तत्सुतास् तृणबिन्दुसुताः ॥ ३३ ॥

सत्यधर्मीया

पुत्रत्रिकगोत्राण्याह ॥ विशाल इति ॥ तत्सुतास्तृणबिन्दुनन्दनाः । वंशकृद्गृहस्थाश्रमी । वैशालीं नाम्ना ॥ ३३ ॥

छलारी

तानेव पुत्रानाह ॥ विशाल इति ॥ तत्सुतास्तृणबिन्दुसुताः ॥ ३३ ॥

हेमचन्द्रः सुतस्तस्य धूम्राक्षस्तस्य चात्मजः ।

तत्पुत्रः सहदेवस्तु कृशाश्वः सहदेवजः ॥ ३४ ॥

सत्यधर्मीया

तस्य विशालस्य । तस्य हेमचन्द्रस्य । तस्य धूम्राक्षस्य पुत्रः सहदेवः

॥ ३४ ॥

छलारी

तस्य विशालस्य । तत्पुत्रो धूम्राक्षपुत्रः ॥ ३४ ॥

कृशाश्वात् सोमदत्तोऽभूद् योऽश्वमेधैरिडस्पतिम् ।

इष्ट्वा पुरुषमापाग््रयां गतिं योगेश्वराश्रितम् ॥ ३५ ॥

पदरत्नावली

इडस्पतिम् अन्नपतिं वाक्पतिं वा ॥ ३५ ॥

सत्यधर्मीया

इडस्पतिमन्नपतिं वाक्पतिं वा । विशेषस्तु षष्ठे ज्ञेयः । पुरुषमिष्ट्वा प्रपूज्य । योगेश्वराश्रितामग्य्रां वैकुण्ठसंज्ञां गतिमाप । गतिं ज्ञानं वा ॥ ३५ ॥

छलारी

यः सोमदत्त इडस्पतिमन्नपतिं वाक्पतिम् । पुरुषं हरिम् ॥ ३५ ॥

सौमदत्तिस्तु सुमतिस्तत्सुतो जनमेजयः ।

एते वैशालभूपालास्तृणबिन्दोर्यशोधराः ॥ ३६ ॥

॥ इति श्रीमद्भागवते नवमस्कन्धे तृतीयोऽध्यायः ॥

पदरत्नावली

वैशालभूपाला विशालवंशे जाता भूपालाः ॥ ३६ ॥

॥ इति श्रीमद्भागवतटीकायां विजयध्वजतीर्थभिक्षुकृतायां

नवमस्कन्धस्य तृतीयोऽध्यायः ॥

सत्यधर्मीया

सौमदत्तिस्तत्सुतः । विशालभूपालकुले जाता इति वैशालभूपालाः । तृणबिन्दोर्बन्धुसुतस्य । यशोधराः । यशस्करा इति यावत् ॥ ३६ ॥

॥ इति श्रीसत्यधर्मयतिकृतायां भागवतटिप्पण्यां नवमस्कन्धे तृतीयोऽध्यायः ॥

छलारी

सौमदत्तिः सोमदत्तसुतो वैशालभूपाला विशालवंशे जाता भूपालाः ॥ ३६ ॥

**॥ इति श्रीछलारी शेषाचार्यकृतायां भागवतटिप्पण्यां **

नवमस्कन्धे तृतीयोऽध्यायः ॥