०२ द्वितीयोऽध्यायः

कथमेवङ्गुणो देशः केन वा भगवन् कृतः

॥ अथ द्वितीयोऽध्यायः ॥

राजोवाच—

कथमेवङ्गुणो देशः केन वा भगवन् कृतः ।

प्रश्नमेनं समाचक्ष्व परं कौतूहलं हि नः ॥ १ ॥

पदरत्नावली

एवङ्गुणः पुरुषस्य स्त्रीत्वापादकगुणयुक्तः ॥ १ ॥

दुर्घटभावदीपिका

प्रश्नमेतं समाचक्ष्वेत्यस्य एतमेतस्य प्रश्नस्योत्तरं समाचक्ष्वेत्यर्थः । एतेनास्य प्रश्नस्योत्तरं समाचक्ष्वेति वक्तव्यम् । एनं प्रश्नं समाचक्ष्वेति कथनमनुपपन्नमिति दूषणं परिहृतम् । एनं प्रश्नमिति द्वितीया षष्ठ्यादेश इत्यङ्गीकृत्योत्तरमित्यस्य शेषपूरणेनास्य प्रश्नस्योत्तरं समाचक्ष्वेत्यर्थस्योक्तत्वात् ॥ १ ॥

॥ इति श्रीभागवतटिप्पण्यां द्वितीयोऽध्यायः ॥ ९–२ ॥

सत्यधर्मीया

एवङ्गुण एवं स्वप्रविष्टपुरुषयोषित्वघटको गुणो यस्य सः । एनं मत्कृतं प्रश्नमुद्दिश्य समाचक्ष्व । उत्तरमिति शेषः । श्रुतवतां नः परं कौतूहलं हि यतस्ततः ॥ १ ॥

छलारी

एवङ्गुणः पुरुषस्य स्त्रीत्वापादकगुणयुक्तः । एनं प्रश्नं प्रत्युत्तरं समाचक्ष्वेत्यर्थः

॥ १ ॥

श्रीशुक उवाच—

एकदा गिरिशं द्रष्टुमृषयस्तत्र सुव्रताः ।

दिशो १वितिमिरा भासा कुर्वन्तस्तमुपागमन् ॥ २ ॥

पदरत्नावली

भासा स्वतेजसा, वितिमिरा निरस्तान्धकाराः ॥ २ ॥

सत्यधर्मीया

भासा स्वतेजसा वितिमिरा विगतान्धकाराः ॥ २ ॥

छलारी

तत्र वने । स्थितामिति शेषः । दिशो वितिमिरा निरस्तान्धकाराः कुर्वन्त इत्यर्थः । दिशो वितिमिराभासाः कुर्वन्त इति पाठे वितिमिराभासा विगतं तिमिरं विगत आभासोऽन्यप्रकाशश्च यासु तथा दिशः कुर्वन्तः सन्त इत्यर्थः ॥ २ ॥

तान् विलोक्याम्बिका देवी विवस्त्रा व्रीडिता भृशम् ।

भर्तुरङ्कात् समुत्थाय नीवीमाश्वथ पर्यधात् ॥ ३ ॥

पदरत्नावली

नीवीं वस्त्रं पर्यधाद् वेष्टितं कृतवती ॥ ३-४ ॥

सत्यधर्मीया

तानृषीन् । नीवीं वस्त्रं पर्यधाद् आवेष्टयामास ॥ ३ ॥

छलारी

अङ्कात् समीपात् । समीपोत्सङ्गयोरङ्क इत्यभिधानम् । नीवीं वस्त्रं पर्यधात् परिधानं कृतवती ॥ ३ ॥

ऋषयोऽपि तयोर्वीक्ष्य प्रसङ्गं रममाणयोः ।

निवृत्ताः प्रययुस्तस्मान्नरनारायणाश्रमम् ॥ ४ ॥

सत्यधर्मीया

प्रसङ्गं परस्पराङ्गसङ्गम् । तस्मात्सुकुमारवनात् । इदानीं शिवशिवा-रमणविरमणाघोघटितमतः यत्र पुमांस एव वर्तन्ते तत्र गमने न चिन्ता काचिदिति मतिमन्त इमं जग्मुरित्याह ॥ नरनारायणाश्रममिति ॥ ४ ॥

छलारी

प्रसङ्गं रत्यभिनिवेशं वीक्ष्य स्त्रीप्रसङ्गकलुषितमनसः सन्तः । तत्प्रसङ्गशून्यं नरनारायणाश्रमं बदर्याख्यं जग्मुः ॥ ४ ॥

**तदैवं भगवानाह प्रियायाः प्रियकाम्यया ॥ **

स्थानं यः प्रविशेदेतत् स वै योषिद् भवेदिति ॥ ५ ॥

पदरत्नावली

भगवानाहेत्यन्वयः । कथम् ? य एतत्स्थानं प्रविशेत् स योषिद् भवेदिति । वै इत्यनेनात्मवर्जमिति सूचयति ॥ ५ ॥

सत्यधर्मीया

य एतत्स्थानं प्रविशेत्स योषित्स्त्री भवेदेवं भवेदेवेति प्रियायाः सत्याः प्रियकाम्यया प्रीतीच्छयाऽऽह । वैशब्देन विना स्वप्रसादं प्रमदाभावमोचनं सूचयति । एव-मङ्गीकारेऽवधारणमिति विश्वः । अत, एवमिति वा इतीति वाऽधिकमिति परास्तम् ॥ ५ ॥

छलारी

भगवान् शम्भुः ॥ ५ ॥

तत ऊर्ध्वं वनं तद् वै पुरुषा वर्जयन्ति हि ।

स चानुचरसंयुक्तो विचचार वनाद् वनम् ॥६॥

पदरत्नावली

तद्वै तदेव नान्यत् । हिशब्दो हेतौ यतः स्त्रीत्वं स्यादत इति ॥ ६ ॥

सत्यधर्मीया

हि यत एवमाह हरस्तत ऊर्ध्वमुपरि पुरुषास्तद्वनं वर्जयन्ति । वै एव

॥ ६ ॥

छलारी

तद्वै तदेव । प्रासङ्गिकमुक्त्वा प्रस्तुतमनुवर्णयति ॥ स चेति ॥ सुद्यु-म्नाख्याऽनुचरीसंयुक्तेति वक्तव्ये पुंस्त्वनिर्देशः भूतपूर्वगत्या ॥ ६ ॥

अथ तामाश्रमाभ्याशे चरन्तीं प्रमदोत्तमाम् ।

स्त्रीभिः परिवृतां वीक्ष्य चकमे भगवान् बुधः ॥७॥

सत्यधर्मीया

अभ्याशे समीपे । सदेशाभ्याशसविधेरित्यमरः । चकमेऽचीकमत । स चानुचरसंयुक्त इति भूतपूर्वगत्या वोत्तरत्र भववरवैभवप्राप्यपुंस्त्वविवक्षया वा स चेति पुल्लिङ्ग-निर्देश इति ज्ञेयम् । अनुचरास्तु किंपुरुषीर्भूत्वा शैलरोधसि वत्स्यथ । स्त्रियः किम्पुरुषा नाम भर्तॄंत्समुपलप्स्यथेत्युक्तेः स्त्रीभावेनैव स्थिता इति ज्ञेयम् । रामायणे च शिवशिवावरादिनोक्तिः कल्पान्तरविवक्षयेति ज्ञेयम् ॥ ७ ॥

छलारी

आश्रमाभ्याशे आश्रमसमीपे ॥ ७ ॥

**साऽपि तं चकमे सुभू्रः सोमराजसुतं पतिम् । **

स तस्यां जनयामास पुरूरवसमात्मजम् ॥८॥

पदरत्नावली

स बुधस् तस्यां स्त्रीत्वमापन्नायां सुद्युम्नाख्यायाम् ॥ ८ ॥

सत्यधर्मीया

नैकमात्रकामनाऽर्थचारीत्यत आह ॥ साऽपीति ॥ सोमराजसुतमित्यनेन ताराताराधिपमात्रसंमत्या जातस्यास्य तदेतत्सम्मत्या रमणत्वेन रमणानुरूपतामभिप्रैति । पुरूरवसं तन्नामकमात्मजं पुत्रम् ॥ ८ ॥

छलारी

सा स्त्रीत्वापन्ना सुद्युम्ना । पुरूरवसं तन्नामानम् ॥ ८ ॥

एवं स्त्रीत्वमनुप्राप्तः सुद्युम्नो मानवो नृपः ।

सस्मार स्वकुलाचार्यं वसिष्टमिति शुश्रुम ॥ ९ ॥

सत्यधर्मीया

स्वकुलाचार्यं कुलगुरुम् ॥ ९ ॥

छलारी

मानवो मनुपुत्र इति शुश्रुम इति सूतोक्तिः शुकोक्तिर्वा ॥ ९ ॥

स तस्य तां दशां दृष्ट्वा कृपया भृशपीडितः ।

सुद्युम्नस्याशयन् पुंस्त्वमुपाधावत शङ्करम् ॥ १० ॥

पदरत्नावली

दशां स्त्रीत्वलक्षणाम् । आशयन् कामयन् । उपाधावत असेवत ॥१०॥

सत्यधर्मीया

दशाम्् अवस्थाम् । आशयन् काङ्क्षयन् उपाधावतासेवत ॥ १० ॥

छलारी

तस्यां सुद्युम्नायां तां स्त्रीत्वलक्षणाम् । कृपया राजकुमारस्य कथमिदं स्त्रीत्वं प्राप्तमिति दययेत्यर्थः । आशयन् कामयन् । उपाधावत असेवत ॥ १० ॥

तुष्टः स तस्मै भगवान् ऋषये प्रीतिमावहन् ।

स्वां च वाचमृतां कुर्वन्निदमाह विशाम्पते ॥ ११ ॥

सत्यधर्मीया

स भगवान् भवो ऋषये तदुपरि तुष्टः प्रीतस्तस्मै स्वकलत्राय च प्रीतिमावहन् स्वां वाचं स्थानं यः प्रविशेदित्यादिकाम् ऋतां सत्यां कर्तुमिदमाहेत्यन्वयः । तदुपधानतुष्टस्तस्मै ऋषये प्रीतिमावहन्नाहेत्यन्वयो वा ॥ ११ ॥

छलारी

ऋतां कुर्वन्स्वां च वाचम् । ‘स वै योषिद्भवेत्’ इति स्ववाक्यमित्यर्थः ॥११॥

मासं पुमान् स भविता स्त्री मासं तपसा तव ॥

इति व्यवस्थया कामं सुद्युम्नोऽवतु मेदिनीम् ॥ १२ ॥

पदरत्नावली

न मासमिति द्वितीया त्रिंशद्दिनेष्वेकस्मिन् दिनेऽप्यनन्यथात्वं सूचयति, कालाध्वनोरत्यन्तसंयोगे इति सूत्रात् ॥ १२ ॥

सत्यधर्मीया

उक्तिं व्यक्तीकरोति ॥ मासमिति ॥ स्त्री मासं भविता । लुट् । तत्र निमित्तं तव तपसेति । मासमिति कालाध्वनोरिति द्वितीया । तेन नैकक्षणव्यत्यास इत्यत्यन्त-संयोगमाह ॥ १२ ॥

छलारी

वसिष्ठभ्रातृमरीचोत्पन्नत्वात्सुद्युम्नस्तव गोत्रज इत्युक्तम् ॥ १२ ॥

श्रीशुक उवाच—

आचार्यानुग्रहात् कामं लब्ध्वा पुंस्त्वं व्यवस्थया ॥

पालयामास जगतीं नाभ्यनन्दन् स्म तं प्रजाः ॥ १३ ॥

पदरत्नावली

पुंस्त्वलक्षणं कामम् । जगतीं राजप्रधानभूमिम् ॥ १३ ॥

सत्यधर्मीया

पुंस्त्वं तल्लक्षणं कामं स्वाभिलाषितम् । व्यवस्थयोक्तरीत्या । तं राजा-नम् । प्रजा नाभ्यनन्दन् जना न मुमुदिरे । अखण्डं मासं स्वामिसन्दर्शनाभावादिति भावः

॥ १३ ॥

छलारी

पुंस्त्वलक्षणं कामं नाभ्यनन्दन् । स्त्रीत्वे प्राप्ते लज्जया मासं निलीयावस्थानात् । ततः परं सुद्युम्नोऽश्वमेधं कृत्वा पुमानेव बभूवेति ज्ञातव्यम् । तदुक्तं सङ्ग्रहरामायणे । ‘अश्वमेधा-त्पुमानेव यज्ञश्रेष्ठो हि स क्रतुः’ इति ॥ १३ ॥

तस्योत्कलो गयो राजन् विमलश्च सुतास्त्रयः ॥

**दक्षिणापथराजानो बभूवुर्धर्मवत्सलाः ॥ १४ ॥ **

पदरत्नावली

दक्षिणापथस्य देशस्य राजानः ॥ १४ ॥

सत्यधर्मीया

तस्य सुद्युम्नस्य । दक्षिणापथराजानो दक्षिणापथस्य देशस्य राजानो बभूवुः । समासान्तटचोऽनित्यत्वाज्जानन्ति पूर्वराजान इतिवज् ज्ञेयम् । गोप्तार इति पाठस्तु नो गोप्ता ॥ १४ ॥

छलारी

तस्य सुद्युम्नस्य दक्षिणापथराजानः पथस्य तन्नामकदेशस्य राजानः । समासान्तविधेरनित्यत्वाद् दक्षिणापथराजान इति साधुः ॥ १४ ॥

ततः परिणतः काले प्रतिष्ठानपतिः प्रभुः ॥

**पुरूरवस उत्सृज्य गां पुत्राय गतो वनम् ॥ १५ ॥ **

पदरत्नावली

परिणतः वृद्धः । प्रतिष्ठानाख्यपुरपतिः । गां भूमिम् ॥ १५ ॥

॥ इति श्रीमद्भागवतटीकायां विजयध्वजतीर्थभिक्षुकृतां

नवमस्कन्धस्य द्वितीयोऽध्यायः ॥

सत्यधर्मीया

परिणतो वृद्धः । प्रतिष्ठानेति ग्रामनाम । तत्पतिस्तत्स्वामी । प्रतिष्ठया सर्वजनसम्माननादिना पतिर्नेति प्रतिष्ठानपतिर्वा । नाभ्यनन्दन्नित्यनुपदमभिधानात् । पुरूरवसे पुत्रायाव्यवधानप्रसूताय गां भूमिमुत्सृज्यातिसृज्य ॥ १५ ॥

॥ इति श्रीसत्यधर्मयतिकृतायां भागवतटिप्पण्यां नवमस्कन्धे द्वितीयोऽध्यायः ॥

छलारी

प्रतिष्ठानपतिः प्रतिष्ठाननामाख्यपुरपतिः प्रभुः सुद्युम्नः परिणतः सन्वृद्धः सन् स्वस्य स्त्रीत्वावस्थायां जाताय पुरुरवसे पुत्राय । गां भूमिमुत्सृज्य दत्वा ॥ १५ ॥

॥ इति श्रीछलारी शेषाचार्यकृतायां भागवतटिप्पण्यां नवमस्कन्धे द्वितीयोऽध्यायः ॥