०१ प्रथमोऽध्यायः

मन्वन्तराणि सर्वाणि त्वयोक्तानि श्रुतानि मे

श्रीमद्भगवद्बादरायणप्रणीतम्

श्रीमद्भागवतम्

नवमस्कन्धः

॥ अथ प्रथमोऽध्यायः ॥

राजोवाच—

मन्वन्तराणि सर्वाणि त्वयोक्तानि श्रुतानि मे ।

वीर्याण्यनन्तवीर्यस्य हरेस्तत्र कृतानि च ॥ १ ॥

विजयध्वजतीर्थविरचित

पदरत्नावली

कमलाकान्तं कमलाक्षं विमलानन्दं प्रणम्य च ।

नृपवंशस्कन्धविलासं नवमस्कन्धं विवृणोमि ॥

अस्मिन् स्कन्धे राजवंशवर्णनेन श्रीनारायणे भक्तिविधानार्थं भगवन्माहात्म्यमेव प्रपञ्च्यते । तत्र वृत्तवर्तिष्यमाणस्कन्धयोः सङ्गतिप्रदर्शनाय वृत्तानुवादपूर्वकं वैवस्वतमनोः पुत्राणां तद्वंशा-नामनुवंशं तच्चरितानि च राजा शुकं पृच्छति– मन्वन्तराणीत्यादिना वद विक्रमानित्यन्तेन

॥ १–४ ॥

सत्याभिनवयतिकृता

दुर्घटभावदीपिका

त्वयोक्तानि सर्वाणि मन्वन्तराणि मे मया श्रुतानि । तत्र मन्वन्तरेष्वप्यनन्तवीर्यस्या-नन्तवीर्येणापरिच्छिन्नवीर्येण हरेर्हरिणा कृतानि वीर्याणि वीर्यसाध्यानि त्वयोक्तानि कर्माणि च मया श्रुतानीति । एतेन तत्र मन्वन्तरेष्वप्यनन्तवीर्येण हरिणा कृतानीति वक्तव्यम् । तत्र मन्वन्तरेष्वनन्तवीर्यस्य हरेः कृतानीति कथमनुपपन्नमिति दूषणं परास्तम् । अनन्तवीर्यस्य हरेरिति षष्ठी तृतीयादेश इत्यभ्युपगमात् । ऐतनैव कर्मणां वीर्यस्य साध्यत्वेन वीर्यरूपत्वा-भावाद्वीर्याणि कर्माणीति वचनमयुक्तमिति चोद्यं परिहृतम् । वीर्य शब्दान्मत्वर्थीयाच् अङ्गीकृत्य वीर्याणीत्यस्य वीर्यसाध्यानीत्यर्थस्योक्तत्वात् । एनेनैव हरिणा कृतानि कर्माणीति वक्तव्यम् । कर्माणीति पदाभावान्न्यूनतेति शङ्कानवकाशः । कृतानीत्यस्यावृत्तिमङ्गीकृत्य द्वितीयकृतानीत्यस्य कर्माणीत्यर्थ इत्यभ्युपगमात् ॥ १ ॥

अथ श्रीमद्भागवतटिप्पणी सत्यधर्मयतिकृता प्रारभ्यते

सत्यधर्मीया

गुरुर्मे नवमं स्कन्धं विवरीतुं समुद्यतम् ।

पारयेदन्तरायातानन्तरायांत्स वारयन् ॥

त्वदुक्तार्थो न विस्मृतो मयेति दिदर्शयिषुः श्रुतमनूद्य मनूनामन्ववायचरितस्य हरिचरित-सम्मिश्रिततया तद्भक्ति हेतुत्वात्तद्वद वदावदेति वदति ॥ राजेति ॥ मे मया तत्र तेषु मन्वन्तरेषु वीर्याणि तत्साध्यानि कृतानि कर्माणि कृतान्यनुष्ठितानीत्यावृत्त्याऽन्वयः ॥ १ ॥

अथ श्रीमद्भागवतटिप्पणी छलारी शेषाचार्यविरचिता प्रारभ्यते

छलारी

अस्मिन् स्कन्धे ‘वैष्णवानां तु चरितं विष्णूद्रेकाय कथ्यते’ इत्युक्तेर् विष्णूत्कर्षज्ञानार्थं पुण्यश्लोकराजवंशो निरूप्यते । तत्र कतिपयैरध्यायैः सूर्यवंशः कतिपयैरध्यायैः सोमवंशश्चानु-वर्ण्यते । प्रथमं तावदुक्तानुवादपूर्वकं वैवस्वतमनुवंशं राजा शुकं पृच्छति ॥ मन्वन्तराणीत्या-दिना ॥ उक्तानि । अष्टमस्कन्ध इति शेषः । तत्र चतुर्दशमन्वन्तरेषु । कृतानि हरेर्वीर्याणि च मे मया श्रुतानीत्यन्वयः ॥ १ ॥

योऽसौ सत्यव्रतो नाम राजर्षिर्द्रविडेश्वरः ।

ज्ञानं योऽतीतकल्पान्ते लेभे पुरुषसेवया ॥ २ ॥

सत्यधर्मीया

पुरुषो मत्स्यः ॥ २ ॥

छलारी

अत्र यच्छब्दद्वयस्य स वै इत्युत्तरश्लोकेनान्वयः । असौ चाक्षुषमन्वन्तरे प्रसिद्धः । तस्यावस्थानमाह ॥ द्रविडेश्वर इति ॥ तस्य महिमानमाह ॥ ज्ञानमिति ॥ यः सत्यव्रतो नाम राजर्षिः । अतीतकल्पान्ते चाक्षुषकल्पान्ते । पुरुषसेवया मत्स्यावताररूप-भगवत्सेवया । तदुपदेशेनेति यावत् । ज्ञानं तत्त्वज्ञानं लेभे । तदुक्तम्– ‘मत्स्यरूपी महाम्बोधौ विहरंस्तत्त्वमब्रवीत् । सत्यव्रतस्य राजर्षेरात्मगुह्यमशेषतः । अश्रौषीदृषिभिः सार्धमात्मतत्त्व-मसंशयम् । नाव्यासीनो भगवता प्रोक्तं ब्रह्म सनातनम्’ इति । ज्ञानं चेति क्वचित्पाठः ॥२॥

स वै विवस्वतः पुत्रो मनुरासीदिति श्रुतम् ।

त्वया तस्य सुताः प्रोक्ता इक्ष्वाकुप्रमुखा नृपाः ॥ ३ ॥

सत्यधर्मीया

इक्ष्वाकुप्रमुखास्तदादयः ॥ ३ ॥

छलारी

सः सत्यव्रतो विवस्वतस्तन्नामकसूर्यपुत्रः सन्मनुरासीत् । अस्मिन् वैवस्वत-मनुकल्प इति शेषः । श्रुतम् । स तु सत्यव्रतो राजा ज्ञानविज्ञानसंयुतः । विष्णोः प्रसादा-त्कल्पेऽस्मिन्नासीद्वैवस्वतो मनुरित्यष्टमस्कन्धान्ते श्रुतमित्यर्थः । इक्ष्वाकुप्रमुखा दशसुतास्तत्रैव वैवस्वतमन्वन्तरनिरूपणसमये प्रोक्ताः ॥ ३ ॥

तेषां वंशं पृथग् ब्रह्मन् वंशानुचरितानि च ।

कीर्तयस्व महाभाग नित्यं शुश्रूषतां हि नः ॥ ४ ॥

सत्यधर्मीया

शुश्रूषतां श्रोतुमिच्छतां सेवमानानामिति वा ॥ ४ ॥

छलारी

वंश्यानुचरितानि च वंशे भवा वंश्यास्तेषां राज्ञां माहात्म्यानि चेत्यर्थः ॥४॥

ये भूता ये भविष्याश्च भवन्त्यद्यतनाश्च ये ।

तेषां नः पुण्यकीर्तीनां सर्वेषां वद विक्रमान् ॥ ५ ॥

पदरत्नावली

विक्रमान् वंशे जातानां पुरुषाणां चरितानि ॥ ५ ॥

सत्यधर्मीया

भूता अतीताः । भविष्या एष्यत्पदवद्भविष्यत्पदम् । तथा हि । ‘अग्निः पूर्वेभिः’ इत्यृग्भाष्यटीकाटिप्पणेषु नूतनैरेष्यैः । ‘लृटः सद्वा’ इत्यत्र योगविभागेना-कारेऽप्यादेशो व्याख्यायते ये भूता ये भविष्याश्चेत्याद्यभियुक्तप्रयोगबलात् । तथा च तस्मिन् लृडादेशेऽकारे परतः पूर्वोक्तरीत्याऽस्य प्रत्ययादौ कृतार्धधातुकगुणे इण एष्य इति भवतीति परत्वाद् एष्यपदवद्भविष्यपदं टीकाटिप्पण्योरकारप्रत्यय इत्यत्र शप्रत्यय इत्यर्थापनीयम् । अन्यथा सार्वधातुकताकार्यं न स्यात् । तयोस्तु मुक्तानुबन्धस्य ग्रहणं द्रष्टव्यम् । इदं पूर्वोत्तरत्र चानुसन्धेयम् । तत्रैव तनेतिवत् । भवितारो ये चाद्यतना वर्तमाना ये भवन्ति मङ्गलं भवस्तद्व-दाचरन्ति । मङ्गलरूपास्तेषामित्यन्वयः । अनेनाद्यतना इति सायञ्चिरमिति टयुस्तुट्चेति ज्ञेयमिति वा भवन्तीति रिक्तम् । भूतभविष्यद्भवदतिरिक्तस्य तदन्यतरबोधस्य समयविशेषस्य चाभावादिति निरस्तम् । यद्वा । ये भवन्ति क्रियाबन्धे लडित्युक्तेः । सार्वकालिकसत्ताश्चिर-ञ्जीविनस्तेषां विक्रमांश्चरितानीत्यर्थः । आवृत्तं वदेति सम्बुध्यन्तं शुकविशेषणम् । वाग्मिन् इति तदर्थः ॥ ५ ॥

छलारी

ये भूता इत्यादिकं वैवस्वतमनुवंशोत्पन्नेष्विति ज्ञेयम् । भवन्तीत्यस्यैव विवरणम् अद्यतनाश्चेति ॥ ५ ॥

सूत उवाच—

एवं परीक्षिता राज्ञा सदसि ब्रह्मवादिनाम् ।

पृष्टः प्रोवाच भगवान् शुकः परमधर्मवित् ॥ ६ ॥

पदरत्नावली

राज्ञामभिषिक्तानां प्रजापालनादिलक्षणः परमो धर्मस्तं वेत्तीति ॥ ६ ॥

सत्यधर्मीया

परमधर्मविन्मुख्यधर्मज्ञः । परमश्च भगवांश्च धर्मश्च पुण्यप्रापकं कर्म च तौ वेत्तीति स तथेति वा ॥ ६ ॥

छलारी

प्रश्नप्रतिवचने सामर्थ्यमस्तीति द्योतयितुं भगवान् परमधर्मविदिति विशेषणद्वयम्

॥ ६ ॥

श्रीशुक उवाच—

श्रूयतां मानवो वंशः सङ्क्षेपेण परन्तप ।

न शक्यते विस्तरतो वक्तुं वर्षशतैरपि ॥ ७ ॥

सत्यधर्मीया

सङ्क्षेपेण शब्दतः ॥ ७ ॥

छलारी

मानवो वैवस्वतमनुसम्बन्धी ॥ ७ ॥

परावरेषां भूतानामात्मा यः पुरुषः परः ।

स एवासीदिदं विश्वं कल्पान्तेऽन्यन्न किञ्चन ॥ ८ ॥

पदरत्नावली

आत्मान्तर्यामी, इदं विश्वं स एवासीत् तदधीनमेवाभून्न तु स्वतन्त्रम् । किञ्चन प्रधानादिकमपि । ‘तस्माद्वान्यन्नपरः किञ्चनास’ इति श्रुतेः ॥ ८ ॥

दुर्घटभावदीपिका

परावरेषां भूतानामात्मा स्वामी पर उत्तमो यः पुरुषः स एव कल्पान्ते आसीत् । यत्किञ्चन प्रकृत्यादिकमासीत् । तदन्यत्परमपुरुषस्यानधीनं नासीत्किन्तु परम-पुरुषस्याधीनमेवासीदिति । एतेन स एवासीद्विश्वं नासीदित्यनेन पूर्णत्वादन्यत्किञ्चनेति व्यर्थमिति दूषणं परास्तम् । यदित्यादि शेषपूरणेनासीदित्यादेरावृत्त्या चान्यदित्यस्यानधीनत्वार्थकत्वाङ्गी-कारेण चान्यत्किञ्चनेत्यनेन कल्पान्ते विद्यमानस्य प्रकृत्यादेः परमपुरुषाधीनत्वमुच्यत इत्यभ्युप-गमात् ॥ ८ ॥

सत्यधर्मीया

वंशशंसनोपयुक्तं वक्ति ॥ परावरेषामिति ॥ परैः सहिताश्च तेऽवराश्च तेषामित्युत्तरपदलोपी समासः । न द्वन्द्वः । तथात्वे द्वन्द्वे । वर्णाश्रमेतराणामित्युक्तेः पराऽवराणामिति स्यात् । नीचोच्चानां भूतानामात्मा स्वामी यः परः पुरुष इदं विश्वम् । द्वितीया षष्ठ्यर्थ इति बृहद्भाष्योक्तेरस्य विश्वस्य । अग्र इति शेषः । अन्यत्किञ्चन तदधीनं सन्नासीत् । इदं विश्वं स एवासीत् । तदधीनमासीत् । अन्यत्प्रधानादिकं किञ्चन स्वतन्त्रं नासीदित्यपि योजयन्ति । तस्मात्प्राधान्यं न परः किञ्चनासेत्यादेः ॥ ८ ॥

छलारी

वैवस्वतमनुवंशं वक्तुं पीठिकामारचयति ॥ परावरेषामिति ॥ परावरेषां ब्रह्मादीनां कल्पादीनां च भूतानामात्माऽन्तर्यामी यः परमपुरुषो नारायणः स ब्रह्म एक एव कल्पान्ते । इदं विश्वम् । उदरे निधायेति शेषः । आसीत् । तदुक्तं महाभारततात्पर्यनिर्णये– ‘आसीदुदारगुणवारिधिरप्रमेयो नारायणः परतमः परमात्स एकः । संशान्तसंविदखिलं जठरे निधाय’ इति । उदरावस्थितिस्थानविशेषकथनपूर्वकमुक्त्वा । ब्रह्माण्डपुराणे– ‘धामत्रयस्थिता मुक्ता वटपत्रस्थशौरिणः । कुक्षिङ्गता ध्यानमुक्ता यावत्सृष्टिर्भवेत्पुनः । तावत्तिष्ठन्ति चानन्दाः सृष्टा यान्ति स्वकं स्थलम् । तमःप्राप्तास्तामसाश्च स्वरूपेण व्यवस्थिताः । लिङ्गभङ्गमनुप्राप्ताः पूर्वद्वेषात्मकाः सदा । नाभेरधस्तात्तिष्ठन्ति यावत्सर्गः पुनर्भवेत् । नित्यसंसारिणः सर्वे सृष्टौ सृष्टौ भवन्ति च । न तेषां संसृतेर्नाशः क्वचित्क्वापि भविष्यति’ इति । स एक एवासीदित्येव-कारव्यावर्त्यमाह ॥ अन्यत्किञ्चन चासीदिति ॥ यत्किञ्चनान्यत्कालादिकमासीत् तत्तस्मा-दन्यन्नासीत् । किन्तु तदधीनमेवासीदित्यपि योज्यम् । ‘काल आसीत्परम आसीत्तद्यदासी-त्तदावृतमासीत्’ इति श्रुतेः ॥ ८ ॥

तस्य नाभेस्समभवत् स पद्मकोशो हिरण्मयः ।

तस्मिन् जज्ञे महाराज स्वयम्भूश्चतुराननः ॥ ९ ॥

पदरत्नावली

उदस्तादुदभूत् । स्वयम्भूरित्यस्य विष्णावपि च वृत्तेरित्यतश्चतुरानन इत्युक्तम् । विष्णुः स्वयम्भूरथ भुक् स्वभूर्विश्वपतिरित्यभिधानम् ॥ ९ ॥

सत्यधर्मीया

तस्य पुरुषस्य नाभेः समभवत्पद्मकोश इति पाङ्क्तः पाठः । नाभे-रुदस्तात्पद्मेति पाठे नायं तच्छब्दः । तत्त्वे तस्मिन्नित्युक्तेरयमवक्तव्यं स्यात् । सशब्दः सारवाची । पुष्करं लोकसारमित्युक्तेः । लोकसारो यो पद्मकोशः स हिरण्मय उदस्तादुदभूत् । तस्मिन्स्वयम्भूश्चतुराननो जज्ञे । न यादृशस्तादृशः पद्मकोश इत्याह ॥ स्वयमिति ॥ स्वयं साक्षाद्भूस्तद्रमाभिमन्यमान इति पद्मकोशविशेषणं वा । प्रायस्ते स्वसुताः स्वयमित्याद्युक्तेः स्वयंभूता व्यभिचीर्णान्यत्रेत्यतश्चतुरानन इति । सोऽप्येकश्चतुरचेष्टको वा चतुरप्रमुखो वाऽनेक-मुखेषु केषुचिदेकश्चतुर्मुखः शते पञ्चाशन्न्यायेन वा स्यादित्यतः स्वयम्भूरिति । न तथाविधोऽपि विधेरन्यः कश्चिदनेकजीवलोके सम्भावित इति न व्यभिचारापचार इति शङ्क्यम् । योगरूढत्वादमीषां शब्दानाम् ॥ ९ ॥

छलारी

ततः सृष्टिकाले प्राप्ते चतुर्विंशतितत्त्वसृष्टिरभूत् । ततो ब्रह्माण्डोत्पत्तिरभूदिति द्रष्टव्यम् । ततः परं किमभूदिति तत्राह ॥ तस्येति ॥ गर्भोदके शयानस्य हरेरित्यर्थः । नाभेः सकाशात्पद्मकोशः पद्मकुड्लम् । उदस्तादिति छान्दसं रूपम् । उदभूत्पद्मसृष्टिरभूदित्यर्थः ॥९॥

मरीचिर्मानसस्तस्य जज्ञे तस्यापि कश्यपः ।

दाक्षायण्यां ततोऽदित्यां विवस्वानभवत् सुतः ॥ १० ॥

पदरत्नावली

मानसो मनोजातः । ततः कश्यपात् ॥ १० ॥

सत्यधर्मीया

प्रकृतमनुसरति ॥ मरीचिरिति ॥ मरीचिस्तन्नामा । मृकणि-भ्यामीचिरिति चिप्रत्ययान्तः शब्दः । मरीचिर्मुनिभेदेनेत्यभ्यधाद्भानुः । मरीचिर्भूषणे दीप्तौ ऋषिभेदे चेति विश्वः । मनसो जातो मानसः । तस्य मरीचेः कश्यपो जज्ञे । ततः कश्यपाद्दाक्षायण्यां दक्षपुत्र्याम् । गतम् । तन्नामाह ॥ अदित्यामिति ॥ विवस्वान्नाम सुतोऽभवत् ॥ १० ॥

छलारी

तस्य ब्रह्मणो मनसः सकाशान्मरीचिर्जज्ञे । तस्य मरीचेः सकाशात्कश्यपो जज्ञे । ततः कश्यपाद्दाक्षायिण्यां दक्षपुत्र्यां विवस्वांस्तन्नामकसूर्यः ॥ १० ॥

ततो मनुः श्राद्धदेवः सञ्ज्ञायामास भारत ।

श्रद्धायां जनयामास दश पुत्रान् स आत्मवान् ॥ ११ ॥

पदरत्नावली

ततो विवस्वतो मनोः पुत्रानाह– श्रद्धायामित्यादिना ॥ आत्मवान् वशीकृतमनाः ॥ ११–१२ ॥

दुर्घटभावदीपिका

आत्मवान्भगवत्यन्तःकरणवान्सः श्राद्धदेवः श्रद्धायां दशपुत्रान् जनयामास ॥ ११ ॥

सत्यधर्मीया

ततो विवस्वतः श्राद्धदेवो नाम्ना । संज्ञायां तत्संज्ञायाम् । आस । अव्ययं वा प्रकृत्यन्तरूपं वा । प्राचीविवृतमिति गतम् । स आत्मवान् मनस्वी प्रशस्तमनस्कः

॥ ११ ॥

छलारी

ततो विवस्वतः सकाशात् श्राद्धदेवस्तन्नामा सप्तमो मनुः । अस्यैव वैवस्वतनामान्तरम् । संज्ञायां विवस्वान्नामकसूर्यभार्यायाम् आसीत् । स वैवस्वतमनुः श्रद्धायां भार्यायाम् । आत्मवान् आत्मज्ञानी ॥ ११ ॥

इक्ष्वाकुनृगशर्यातिदिष्टधृष्टकरूशकान् ।

**नरिष्यन्तं वृषघ्नं च नाभागं च नभं विभुम् ॥ १२ ॥ **

दुर्घटभावदीपिका

दशपुत्रान् जनयामासेत्युक्तं विवृणोति ॥ इक्ष्वाक्विति ॥ इक्ष्वाकु-नृगशर्यातिदिष्टधृष्टकरूपकान् जनयामास । नरिष्यन्तं जनयामास । नाभगं च जनयामास । नभं विभुं जनयामासेति । एतेनेक्ष्वाकुनृगशर्यातिदिष्टधृष्टकरूपकानित्यत्रोक्तानां दशत्वाभावादिक्ष्वाकु-नृगशर्यातिदिष्टधृष्टकरूपकानित्यस्य दशपुत्रानित्यनेनान्वयः । तथा नरिष्यन्तमित्यादावुक्तानां दशत्वाभावादेकवचनांतत्वाच्च । नरिष्यन्त इत्यादेर्दशपुत्रानित्यनेनान्वय इति दूषणं परिहृतम् । जनयामासेत्यस्यावृत्तिमङ्गीकृत्येक्ष्वाकुनृगशर्यातिदिष्टधृष्टकरूषकानित्यादेर्जनयामासेत्यनेन प्रत्येकमन्वयस्योक्तत्वात् ॥ १२ ॥

सत्यधर्मीया

तदाह्वयमाह ॥ इक्ष्वाक्विति ॥ इक्ष्वाक्वादिनामान्तान् स जनयामासे-त्यन्वयः ॥ १२ ॥

छलारी

ते पुत्राः के इत्यत आह ॥ इक्ष्वाक्विति ॥ इक्ष्वाकुप्रभृतीन् दशपुत्रान् जनयामासेत्यन्वयः ॥ १२ ॥

अप्रजस्य मनोः पूर्वं वसिष्ठो भगवान् किल ।

मित्रावरुणयोरिष्टिं प्रजार्थमकरोद् विभुः ॥ १३ ॥

पदरत्नावली

अप्रजस्य अपुत्रस्य, इक्ष्वाकुप्रभृतिपुत्रोत्पत्तेः पूर्वं मित्रावरुणयोरिष्टिं मित्रावरुणदेैवत्याम् इष्टिम् ॥ १३ ॥

सत्यधर्मीया

प्रजाः प्रजाताः कथमित्यतः कथयति ॥ अप्रजस्येति ॥ पूर्वं प्रसवलवातिक्रमानन्तरं प्रजारहितस्य । वसिष्ठः पुरोहितः । मित्रावरुणयोः ‘देवताद्वन्द्वे च’ इत्यानङ् । तद्दैवत्यामिष्टिम् । प्रजार्थं तत्सन्तत्यर्थम् । अकरोत् । अर्थसाधनसमर्थता-हेतुर्भगवानिति । यद्यपि पद्यमिदं श्रद्धायामिति पद्यत आद्यभावि तथाऽपि किलेति सूचितकथा-साङ्गत्यायैवैवं न्यभांत्सीदिति ज्ञातव्यम् ॥ १३ ॥

छलारी

वैवस्वतमनुपुत्रस्य सुद्युम्नस्य केनचिन्निमित्तेन स्त्रीत्वे प्राप्ते सति तस्यां सोम-पुत्राद्बुधात्पुरूरवप्रभृतिसोमवंशं वक्तुं सप्रस्तावमिलोपाख्यानमाह ॥ अप्रजस्येत्यादिना ॥ सन्तानरहितस्येत्यर्थः । इक्ष्वाकुप्रभृतिपुत्रोत्पत्तेः पूर्वं मित्रावरुणयोरिष्टिं मित्रावरुणदैवत्याम् । मित्रावरुणयोरित्यत्र ‘देवताद्वन्दे च’ इति दीर्घः ॥ १३ ॥

तत्र श्रद्धा मनोः पत्नी होतारं समयाचत ।

दुहित्रर्थमुपागम्य प्रणिपत्य पयोव्रता ॥१४॥

सत्यधर्मीया

तत्रेक्ष्वाक्वाद्युत्पत्तेः पूर्वं तत्र पुमपत्यविषयसङ्कल्पसमये । दुहित्रर्थं पुत्र्यर्थम् । समयाचत । पयोव्रता पयः क्षीरमेव व्रतं स्वीकार्यमाहारत्वेन यस्याः सा ॥ १४ ॥

छलारी

दुहित्रर्थं ‘मम कन्या यथा भवेत्तथा यजेति’ होतारं समयाचत । पय एव व्रतमाहारो यस्याः सा तथा । व्रतं भोजनं तं निवृत्त्येत्यर्थः ॥ १४ ॥

प्रेषितोऽध्वर्युणा होता दध्यौ तत् सुसमाहितः ।

गृहीते तेन हविषि वषट्कारं गृणन् द्विजः ॥ १५ ॥

पदरत्नावली

सुसमाहित एकाग्रचित्तः, तत् श्रद्धयोक्तं दध्यौ, वषट्कारं गृणन् स्वकर्माकरोदिति शेषः ॥ १५ ॥

सत्यधर्मीया

अध्वर्युणा प्रेषितः होता ‘होतः यज’ इति पे्ररितः । तेनाध्वर्युणा हविषि गृहीते सति । वषट्कारं वौषडिति वषट्कारं गृणन् उच्चरन् । द्विजो होता सुसमाहितः । चिन्तितसिद्धिहेतुरयम् । दध्यौ पुत्र्यर्थं ध्यानं कृतवान् ॥ १५ ॥

छलारी

अध्वर्युणा यजेति प्रेषितो होता तेनाध्वर्युणा हविषि गृहीते सति वषट्कारं गृणन् वौषडिति वदन् तद्भार्यया प्रार्थितं दध्यावित्यन्वयः ॥ १५ ॥

होतुस्तद्व्यभिचारेण कन्येला नाम साऽभवत् ।

तां विलोक्य मनुः प्राह नातिहृष्टमना गुरुम् ॥ १६ ॥

पदरत्नावली

तस्य कर्मणो व्यभिचारेण विपक्षवर्तिना हेतुना । वाङि्नमित्तत्वादिला । ‘वाणी सरस्वती भाषा वागिडेला प्रकीर्तिता’ इत्यभिधानम् ॥ १६ ॥

सत्यधर्मीया

तस्य सङ्कल्पितपुमपत्योद्देश्यककर्मणो व्यभिचारेण विपरीतध्यानरूपेणेलेति नाम्ना सा कन्याऽभवज्जाता । या इला सङ्कल्पकालिकी वाणी । तद्व्यभिचारेण प्रवृत्ताऽत इलेति नामाभवदित्यपि योजयन्ति । ‘वाणी सरस्वती भाषा वागिडेला प्रकीर्तिता’ इत्यभिधानमुदा-हरन्ति । तां जातां कन्याम् । नातिहृष्टमनाः साक्षादन्ववायानन्वयात् । गुरुं वसिष्ठम् ॥१६॥

छलारी

तस्य पूर्वसङ्कल्पितस्य । व्यभिचारेण व्यत्यासेन । अन्यथा ध्यानेनेत्यर्थः । नातिहृष्टं मनो यस्य । न समासोऽयम् ॥ १६ ॥

भगवन् किमिदं जातं कर्म वो ब्रह्मवादिनाम् ।

विपरीतमहो कष्टं मैवं स्याद् ब्रह्मविक्रिया ॥ १७ ॥

पदरत्नावली

इदं जातं किमिति तत्राह– कर्मेति ॥ ब्रह्मवादिनां वः कर्म विपरीतं पुत्रार्थिनः कन्याफलमभूदतः किमिदमिति कुतूहलयामि । अत्रैवम्भूतेऽप्यन्यत्र मा भूदित्याह– मैवमिति ॥ ब्रह्मविदां वः क्रिया मैवं भूदित्यर्थः ॥ १७ ॥

दुर्घटभावदीपिका

अस्येयं योजना । हे भगवन् ब्रह्मवादिनां वो युष्माकमिदं कर्म किं कस्मान्निमित्ताद्विपरीतं स्त्रीत्वापादकं जातम् । इदं स्त्रीत्वं कष्टम् । ब्रह्मविक्रिया एवमनिष्टापादनी मैव स्यान्नैव भवति । अतो भवतां कर्मणां स्त्रीत्वापादकत्वमहो आश्चर्यम् । अतो बलवन्निमित्तं वक्तव्यम् । तद्बलवन्निमित्तं किमिति हृदयमिति । एतेनेदं कर्म कस्मान्निमित्ताद्विपरीतमिति वक्तव्ये किमिति कथनमनुपपन्नमिति दूषणं निरस्तम् । किमित्यस्य कस्मादित्यर्थ इत्युक्तत्वात्

॥ १७ ॥

॥ इति श्रीभागवतटिप्पण्यां प्रथमोऽध्यायः ॥ १-९ ॥

सत्यधर्मीया

हे भगवन् ब्रह्मवादिनां वः कर्म सङ्कल्पितं पुमपत्यकं विपरीतं स्त्र्यपत्याधायकमिति विपरीतं किं जातम् । इदं कष्टम् । अहो आश्चर्यम् । ब्रह्मविक्रियैवं फलतो विपरीता मा न स्यात् ॥ १७ ॥

छलारी

वो युष्माकमिदं कर्म किं कस्मान्निमित्ताद्विपरीतं स्त्रीत्वापादकं जातम् । इदं स्त्रीत्वं कष्टम् । ब्रह्मविक्रियैवमनिष्टापादनी नैव स्यान्नैव भवति । अतो भवतां कर्मणः स्त्रीत्वा-पादकत्वम् । अहो आश्चर्यम् । अतो बलवन्निमित्तं वक्तव्यम् । तत्किमिति हृदयम् ॥ १७ ॥

यूयं मन्त्रविदो युक्तास्तपसा दग्धकिल्बिषाः ।

कुतः सङ्कल्पवैषम्यमनृतं विबुधेष्विव ॥ १८ ॥

पदरत्नावली

क्वचित् स्खलनेऽन्यत्रापि नियमो न स्यादित्याशङ्कय क्वचिदप्यन्यथात्वं न युक्तं युष्माकमित्याह– यूयमिति ॥ ‘मैत्रावरुणीमिष्टिं कुर्यात् पुत्रकामः’ इत्यादिमन्त्रहृदयज्ञाः । ‘यस्यै देवतायै हविर्गृहीतं स्यात् तां ध्यायेद् वषट् करिष्यन्’ इति, वचनान्मनोयोगयुक्ताः । न च दोषादन्यथात्वं मनस इत्याह– तपसेति ॥ यूयमेवंविधास्तेषु युष्मासु सङ्कल्पवैषम्यं चिन्तितस्यान्यथात्वं कुतः ? न कुतोऽपि सम्भाव्यते । कुत इति तत्राह– अनृतमिति ॥ न हि देवेष्वनृतं दृष्टचरम् । तस्मादनृतं न वदेदिति श्रुतेः ॥ १८ ॥

सत्यधर्मीया

अननृतीभवनकारणनिकुरम्बमाह ॥ यूयमिति ॥ तपसा युक्तास्तपसा दग्धकिल्बिषाः । कुतः किं कारणकं विबुधेषु देवेषु यथाऽनृतमसम्भावितं तथा युष्मासु सङ्कल्पवैषम्यं न स्यात् । ‘मैत्रावरुणीमिष्टिं कुर्यात्पुत्रकाम’ इति श्रुतेः । मन्त्रविदो ‘यस्यै देवतायै हविर्गृहीतं स्यात्तां ध्यायेद्वषट्करिष्यन्निति’ तद्धृदयज्ञाः । न च दोषोऽप्यमीषु सम्भावित इति भाषते । तपसा दग्धकिल्बिषा इति च व्याचक्षते ॥ १८ ॥

छलारी

मन्त्रविदो मैत्रावरुणीमिष्टिं कुर्यात्पुत्रकाम इत्यादि मन्त्रहृदयज्ञाः । युक्ता मनोयोगयुक्ताः । न च दोषादन्यथात्वं मनस इत्याह ॥ तपसेति ॥ यूयमेवंविधास्तेषु युष्मासु सङ्कल्पवैषम्यं चिन्तितस्यान्यथात्वं कुतो न कुतोऽपीति सम्भाव्यते । असम्भावितत्वे दृष्टान्तः ॥ अनृतमिति ॥ न हि देवेष्वनृतं दृष्टचरम् ॥ १८ ॥

तन्निशम्य वचस्तस्य भगवान् प्रपितामहः ।

होतुर्व्यतिक्रमं ज्ञात्वा बभाषे रविनन्दनम् ॥ १९ ॥

सत्यधर्मीया

प्रपितामहो वसिष्ठः । रविनन्दनं वैवस्वतम् ॥ १९ ॥

छलारी

देहलीदीपन्यायेन तस्येत्यस्योभयत्रानुषङ्गः । तस्य तद्वचो निशम्य । तस्य वैवस्वतमनोः प्रपितामहो वसिष्ठो मरीचिवद्वसिष्ठस्यापि ब्रह्मपुत्रत्वात् । व्यतिक्रमं व्यतिक्रमण-जन्यमिति ज्ञात्वा । रविनन्दनं वैवस्वतम् ॥ १९ ॥

एतत् सङ्कल्पवैषम्यं होतुस्ते व्यभिचारतः ।

तथापि साधयिष्येऽहं सुप्रजास्त्वं स्वतेजसा ॥ २० ॥

पदरत्नावली

होतुर्व्यभिचारतः ध्यानस्यान्यथात्वलक्षणात् ॥ २०॥

सत्यधर्मीया

व्यभिचारतो ध्यानस्य कन्याविषयत्वलक्षणात् । स्वतेजसा सुप्रजास्त्वं वैदिकानुवादः सः, पुमपत्यताम् ॥ २० ॥

छलारी

होतुर्व्यभिचारतो विपरीतध्यानेन । सुप्रजास्त्वं सत्पुत्रवत्वम् । तवेति शेषः

॥ २० ॥

एवं व्यवसितो राजन् भगवान् स महायशाः ।

अस्तौषीदादिपुरुषमिलायाः पुंस्त्वकाम्यया ॥ २१ ॥

सत्यधर्मीया

आदिपुरुषं श्रीनारायणम् ॥ २१ ॥

छलारी

इत्युक्त्वा मनसि तथा निश्चयं चकारेत्यपि ज्ञेयम् । एवं व्यवसित एवं कृतनिश्चयः ॥ २१ ॥

तस्मै कामवरं तुष्टो भगवान् हरिरीश्वरः ।

ददाविलाऽभवत् तेन सुद्युम्नः पुरुषर्षभः ॥ २२ ॥

पदरत्नावली

तेन वरेण हेतुना ॥ २२ ॥

सत्यधर्मीया

तेन वरेण सुद्युम्नो नाम्ना । गतम् ॥ २२ ॥

छलारी

तेन वरेणेला पुरुषर्षभोऽभवत् । तदा तस्य सुद्युम्ननामाभवदिति योज्यम् ॥२२॥

स एकदा महाराज विचरन् मृगयां वने ।

वृृतः कतिपयामात्यैरश्वमारुह्य सैन्धवम् ॥ २३ ॥

पदरत्नावली

सैन्धवं सिन्धुदेशजातम् ॥ २३ ॥

सत्यधर्मीया

मृगयां मृग्यन्ते प्राणिनोऽत्रेति मृगया । ‘आखेटो मृगया स्त्रियाम्’ इत्यमरः । सैन्धवं सिन्धुसम्भवम् ॥ २३ ॥

छलारी

सः सुद्युम्नो मृगयां प्रति । मृगवधार्थमिति यावत् । जगामेत्युत्तरेणान्वयः । सैन्धवं सिन्धुदेशजातम् ॥ २३ ॥

प्रगृह्य रुचिरं चापं शरांश्च परमाद्भुतान् ।

दंशितोऽनुमृगं वीरो जगाम दिशमुत्तराम् ॥२४ ॥

सत्यधर्मीया

दंशितः कवचवान् । गतम् ॥ २४ ॥

छलारी

दंशितो वर्मयुक्तः । अनुमृगं धावन्निति शेषः ॥ २४ ॥

सुकुमारवनं मेरोरधस्तात् प्रविवेश ह ।

यत्रास्ते भगवान् शम्भू रममाणः सहोमया ॥ २५ ॥

पदरत्नावली

नाम्ना सुकुमारवनम् । अधस्तात् स्थितम् ॥ २५ ॥

सत्यधर्मीया

नाम्ना सुकुमारवनम् । उमया रममाणः शम्भू रुद्रो यत्रास्ते तत्प्रविवेश

॥ २५ ॥

छलारी

मेरोरधस्तात्स्थितम् ॥ २५ ॥

तस्मिन् प्रविष्ट एवासौ सुद्युम्नः परवीरहा ।

अपश्यत् स्त्रियमात्मानमश्वं च वडवां नृप ॥ २६ ॥

पदरत्नावली

आत्मानं स्त्रीचिह्नोपेतमश्वं च वडवाम् ॥ २६ ॥

सत्यधर्मीया

आत्मानं स्वमश्वं वडवां चापश्यत् ॥ २६ ॥

छलारी

स्वात्मानं स्त्रियं स्तनकेशादिस्त्रीचिन्होपेतमपश्यत् । वडवामश्वाम् ॥ २६ ॥

तथा तदनुगाः सर्व आत्मलिङ्गविपर्ययम् ।

दृष्ट्वा विमनसोऽभूवन् वीक्ष्यमाणाः परस्परम् ॥ २७ ॥

पदरत्नावली

आत्मनो देहस्य लिङ्गविपर्ययं पुरुषचिह्नविपरीतं स्त्रीचिह्नम् ॥ २७ ॥

॥ इति श्रीमद्भागवते नवमस्कन्धस्य प्रथमोऽध्यायः ॥

सत्यधर्मीया

तदनुगा अमात्यादयः । आत्मलिङ्गविपर्ययं परस्परं वीक्ष्यमाणा विमनसो दुर्मनस्का अभूवन् ॥ २७ ॥

॥ इति श्रीसत्यधर्मयतिकृतायां भागवतटिप्पण्यां नवमस्कन्धे प्रथमोऽध्यायः ॥

छलारी

आत्मनां लिङ्गविपर्ययं पुरुषचिन्हविपरीतं स्त्रीचिन्हम् । विमनसो दुःखितमनसः

॥ २७ ॥

**॥ इति श्रीछलारी शेषाचार्यकृतायां भागवतटिप्पण्यां नवमस्कन्धे प्रथमोऽध्यायः ॥ ९–१ ॥ **