२२ द्वाविंशोऽध्यायः

भगवन् श्रोतुमिच्छामि हरेरद्भुतकर्मणः

॥ अथ द्वाविंशोऽध्यायः ॥

राजोवाच–

भगवन् श्रोतुमिच्छामि हरेरद्भुतकर्मणः ।

अवतारकथामाद्यां१ मायामत्स्यविडम्बनाम् ॥ १ ॥

पदरत्नावली

अंशिज्ञानवदंशज्ञानमपि मुक्तिसाधनं गुणाद्यविशेषादिति दर्शनाय मत्स्यावतारचरितमनुवर्तयत्यस्मिन्नध्याये । तत्र श्रुतवामनावतारचरितसुधापानाद्द्विगुणतृष्ण इव पुनरपि राजा दशावताराणामदित्वेन मत्स्यावतारमाहात्म्यं श्रोतुं पृच्छति– राजेति ॥ मायामत्स्यस्य विडम्बनमनुकरणं यस्यां सा तथा ॥ १ ॥

सत्यधर्मीया

जहौ सत्यं न तु व्रतमिति सत्यव्रतमिति वैशकलित्येन श्रुतवतः परीक्षितः सत्यव्रतेत्यखण्डानुपूर्वीं पूर्वश्रुतां स्मृतवतश्च सत्यव्रतक्षितिपतिरक्षणार्थं झषवपुषा हरिरवततारेति तच्चरितशुश्रूषा जाता या तया स पृच्छतीति वा भवतु हरिर्वामानादिममहितदेहः । कथं दुर्भगाङ्गसङ्गोऽसङ्गस्य तस्येति सन्दिहानजनसन्दोहसन्देहं स्वयमुदूह्य गुणाद्यविशेषान्न दोष इति शुकमुखतो वादयितुमादिमत्त्वादनिमिषवपुषः स्वसजातीयनृपपातृत्वेन च तच्चरितं श्रोतु-मुक्तमनाः परीक्षित्पृच्छति शुकमित्याह ॥ राजेति ॥ गङ्गोत्पत्तिश्रवणसमनन्तरं जीवनैक-जीवनानां मीनानां कर्मविशेषतो जातानां तदादिजलालङ्करणकारणता भवतु । भगवतस्तु कुत-स्तदवतारो निष्कारणमिति सकौतुको राजा शुकं पृच्छतीत्यवतारयन्ति । केचित्तु उदङ्मुखो दक्षिणकूल आस्ते समुद्रपत्न्याः । उपाविशत्प्राय ममर्त्यनद्यामिति प्रथमे तत्तात्पर्ये च । गङ्गायामुदक एव किञ्चिद्दक्षिणभागे प्रासादे । तथाहि भारते चादिपर्वण्यास्तीकीये प्रासादं कारया-मास एकस्तम्भं सुरक्षितमित्याद्युक्तेः । परीक्षिज्जलविलोकनसमये कञ्चन मीनं विलोक्य स्मृततद्रूपभगवत्कस्तच्चरितं वदेति पृच्छतीति पद्यमाद्यमवतारयन्ति । मायामत्स्यस्य विडम्बनं यस्यां सा ताम् । मायया मत्स्यस्य तज्जातेर्विडम्बनमनुकरणं यस्यां सा तामिति वा । आद्यामिति पाठ एवाद्यः । दशावतारेषु प्रथमामिति तदर्थः । अन्यामिति पाठे श्रुतवामनावतारादितरा-मित्यर्थः ॥ १ ॥

छलारी

वामनावतारचरितश्रवणेन मत्स्यावतारचरितं श्रोतुं राजा पृच्छति ॥ राजेति ॥ आद्यां मत्स्यादिदशावतारेष्वाद्यभूतां ययेच्छया मत्स्यस्य विडम्बनं मत्स्यरूपानुकरणं यस्यां निरूप्यते ॥ १ ॥

लिङ्घेरी

परीक्षिद् वामनावतारकथाश्रवणानुस्मृतमत्स्यावतारमाहात्म्यं तद्विस्तरेण श्रोतुं शुकं प्रार्थयते ॥ भगवन्निति ॥ हे शुक । अहमद्भुतकर्मणो हरेरन्यामवतारकथां श्रोतुमिच्छामि । मायया स्वेच्छया मत्स्याकारस्य विडम्बनं मत्स्यानुकरणं यस्यां तामिति । आद्यामिति पाठे दशावतारकथास्वाद्यामित्यर्थः ॥ १ ॥

यदर्थमदधाद् रूपं मात्स्यं लोकजुगुप्सितम् ।

तमःप्रकृति दुर्मर्षं कर्मग्रस्त इवेश्वरः ॥ २ ॥

पदरत्नावली

कथं जुगुप्सितमभूदिति तत्राह– तमःप्रकृतीति ॥ तमःप्रकृतिः स्वभावो यस्य तत् तथा । दुर्मर्ष सोढुमशक्यम् । कर्मग्रस्तो जीवः ॥ २ ॥

सत्यधर्मीया

तमःप्रकृति तमसः प्रकृतिः स्वभावो यस्य तत् । दुर्मर्षं गन्धादिना सोढुमशक्यमितरैः । अत एव लोकजुगुप्सितं यदर्थं किमर्थम् । यदर्थमदधादेतदित्युत्तरेणान्वयो वा । सोऽपि जीवेष्वन्यतम इति किं तमःप्रकृत्या कृतिप्राप्तौ चेतश्चित्रणमित्यतः सहेतुकं स्वां शङ्कां दृढयति । कर्मग्रस्त इव इति ईश्वर इति च ॥ २ ॥

छलारी

ननु कस्मादकस्मादेव मत्स्यावतारश्रवणेच्छा वामनावतारासादृश्यादित्यत आह ॥ यदर्थमिति द्वाभ्याम् । बलेरनुग्रहाय जुगुप्सितमपि याचकरूपं धृतवानिति युक्तमुक्तम् । ईश्वरो यदर्थं यत्प्रयोजनार्थं जुगुप्सितं निन्दितं मत्स्यरूपमधाद्धृतवान् । एतन्नो यथावद्वक्तु-मर्हसीति द्वयोरन्वयः । जुगुप्सितत्वे निमित्तं, तमःप्रकृतीति । तामसस्वभावमित्यर्थः । दुर्मर्षं सोढुमशक्यं कर्मणा ग्रस्तो बद्धः ॥ २ ॥

लिङ्घेरी

इदानीं परीक्षित्स्वेतरज्ञोऽत्राज्ञानमात्मन्यारोप्य तदनुजिघृक्षया तदभिप्रायानुसारेण प्रश्नं करोति ॥ यदर्थमित्यादि ॥ ईश्वरः स्वतन्त्रो नारायणस्तमोगुणप्रचुरस्वभावं सहितु-मशक्यमत एव लोकजुगुप्सितं मत्स्यसम्बन्धिरूपं कर्मग्रस्तो जीव इव यदर्थमधाद्धृतवान् ॥२॥

एतन्नो भगवन् सर्वं यथावद् वक्तुमर्हसि ।

उत्तमश्लोकचरितं सर्वलोकसुखावहम् ॥ ३ ॥

पदरत्नावली

लोकजुगुप्सितं चेत् किमिति वक्तव्यम् ? अत्राह– उत्तमेति ॥ ३ ॥

सत्यधर्मीया

सर्वलोकसुखावहं बीजादिसंरक्षणद्वारा । अनेन परीक्षित एतदादिप्रेक्षा वर्तत एव । किन्तु लोकोद्धृत्त्यै पृच्छतीति ध्वन्यते । सर्वावतारसाधारणे सरणं वा ॥ ३ ॥

छलारी

जीव इवैकं जुगुप्सितं चेत्किमर्थं वक्तव्यमित्यत आह ॥ उत्तमेति ॥

लिङ्घेरी

हे भगवन् । एतत्सर्वं नोऽस्माकं यथावद्वक्तुमर्हसि । ननु तस्योक्तरीत्या जुगुप्सितत्वे तच्छ्रवणं व्यर्थमित्यत आह । उत्तमश्लोकचरितं सुखावहमिति ॥ ३ ॥

सूत उवाच–

इत्युक्तो विष्णुरातेन भगवान् बादरायणिः ।

उवाच चरितं विष्णोर्मत्स्यरूपेण यत् कृतम् ॥ ४ ॥

सत्यधर्मीया

विष्णुरातेन परीक्षिता । बादरायणिर्व्याससूनुः । मत्स्यरूपेण तदाकारेण

॥ ४ ॥

छलारी

विष्णुरातेन परीक्षिता बादरायणिर्वेदव्यासस्य पुत्रः शुकः ॥ ४ ॥

लिङ्घेरी

विष्णुरातेन परीक्षिता इत्युक्तो भगवान् बादरायणिः शुको विष्णोर्मत्स्यरूपेण यच्चरितं कृतं तत्परीक्षितमुवाच ॥ ४ ॥

श्रीशुक उवाच–

गोविप्रसुरसाधूनां छन्दसामपि चेश्वरः ।

रक्षामिच्छंस्तनूर्धत्ते धर्मस्यार्थस्य चैव हि ॥ ५ ॥

सत्यधर्मीया

सामान्यतोऽवतारप्रयोजनमाह ॥ गविति ॥ छन्दसामपार्थवर्णनेन हृत-प्रायाणां वेदानां प्रस्तुतं हयग्रीवापहृतानां रक्षार्थमिति सर्वान्वयि । गौश्च धरा सुरभिश्चेति ॥५॥

छलारी

सामान्येनावताराणां प्रयोजनमाह ॥ गोविप्रेति ॥ छन्दसां वेदानां रक्षां संरक्षणम् । तनूरवतारान् धत्ते ॥ अर्थस्य चेति ॥ चशब्देन कामस्य चेति ग्राह्यम् ॥ ५ ॥

लिङ्घेरी

मत्स्यादिरूपधारणप्रयोजनमाह ॥ गोविप्रेति ॥ ईश्वरो नारायणो गोब्राह्मण-देवादिसाधूनां छन्दसां वेदानां धर्मार्थयोश्च संरक्षणमिच्छन् तनूर्मत्स्यशरीरादिसदृशशरीराणि ज्ञाना-नन्दात्मकानि धत्ते । सद्देहः सुखगन्धश्च ज्ञानभागित्यादेः ॥ ५ ॥

उच्चावचेषु भूतेषु चरन् वायुरिवेश्वरः ।

नोच्चावचत्वं भजते निर्गुणत्वाद् धियो गुणैः ॥ ६ ॥

पदरत्नावली

ननूच्चावचेषु सुरनरादिसंज्ञेषु भोगायतनशरीरेषु वर्तमानस्य हरेरिन्द्रियगुणै-रवलेपोऽपि सम्भाव्यते देवदत्तवदिति तत्राह– उच्चावचेष्विति ॥ धीशब्देनेन्द्रियाण्युपलक्षयति

॥ ६ ॥

सत्यधर्मीया

उच्चावचेषु नैकभेदेषु । नीचोच्चेष्विति यावत् । धियो मनआदीन्द्रियाणां गुणैस्तत्तद्विषयसम्पर्कप्रयुक्तमुच्चावचत्वं नीचोच्चतां न भजते न सेवते । न प्राप्नोतीति यावत् । अत एव प्राणनिदर्शनं सम्भवि । अनेनोत्तरितं कर्मग्रस्त इवेति मन्तव्यम् । तत्सम्भावकमाह । निर्गुणत्वात् सत्त्वादिगुणहीनत्वादिति । तत्प्रयोजकगुणहीनत्वान्नोच्चावचतनुग्रहण इव तत्प्रवेशेऽपि तस्येशस्यातिस्तम्भनवतो गेहदाहेऽप्यदाहवत्तत्कृतानुच्चत्वोच्चत्वं भवतो भगवत इति तात्पर्यम् ॥ ६ ॥

छलारी

हरेर्जुगुप्सितत्वं परिहरति ॥ उच्चावचेष्विति ॥ धीशब्देनेंद्रियाण्युपलक्ष्यन्ते । नीचोच्चानि भूतानि प्राणिनः सन्ति तेषु नियंतृत्वेन चरन्नपीश्वरो धियो गुणैरुच्चावचत्वं न भजते न प्राप्नोति । निर्गुणत्वाद्गुणकार्यशून्यत्वात् । कुतः पुनर्ज्ञानादिगुणात्मकैर्मत्स्यादिभिराकारै-रुच्चाववचत्वं शङ्क्यमिति भावः ॥ ६ ॥

लिङ्घेरी

मत्स्यस्य हरेस्तमःप्रकृतित्वादिमन्दाशङ्कां परिहरति ॥ उच्चावचेष्विति ॥ उत्तमेषु सुरादिषु नीचेषु तिर्यक्षु मत्स्यादिषु प्रादुर्भावाय तत्तदुदरेषु चरन्नपीश्वरो वायुरिव तत्तद्भूत-कृतनीचोच्चत्वं न भजते । ज्ञानानन्दाद्यनन्तगुणत्वेऽपि भगवतो, धीयते जगदस्यामिति धीः प्रकृतिस्तस्या गुणैर्वर्जितैर्निर्गुणत्वात् । अत्र वायुदृष्टान्तेन मत्स्यादिरूपस्य हरेरुच्चावचभूत-चरणोक्त्या न प्राकृतं मत्स्यादिकं रूपं येन तत्प्रकृतित्वादि प्रसज्येत इति परिहार उक्तो भवति

॥ ६ ॥

आसीदतीतकल्पान्ते ब्राह्मो नैमित्तिको लयः ।

समुद्रोपल्पुतास्तत्र लोका भूरादयोऽनघ ॥ ७ ॥

पदरत्नावली

आदित एव वक्तुमुपक्रमते- आसीदिति ॥ समुद्रैरुपप्लुता आलीनाः

॥ ७ ॥

सत्यधर्मीया

राजप्रश्नस्यादित उत्तरमीरयति ॥ आसीदिति ॥ अत्र लेखनीयं प्रमेय-मनाद्यविद्योपहतात्मसंविद इति श्लोकव्याकृत्यवसरे अलीलिखच्छ्रीधरस् तल्लग्नताऽलग्नताभ्यां न नः कृत्यम् । तदनूद्य गुणदोषौ प्रदर्श्य वयं सप्रमाणकं व्यातन्महे । तथा हि । अत्रेदं चिन्त्यं किमयं महाप्रलयः किं वा दैनन्दिनम् । तत्र तावद्ब्राह्मो लय इति । योऽसौ चासौ महाकल्प इति चोक्तेर्महाप्रलय इति प्राप्तम् । नेति ब्रूमः । महाप्रलये पृथिव्यादीनामवशेषासम्भवात् । यावद्ब्राह्मी निशेत्याद्युक्तिविरोधाच्च । अतो दैनन्दिन इति युक्तम् । न चैतदपि सङ्गच्छते । ‘सांवर्तकै-रनावृष्ट्यादिभिर्विना कस्मादेव सप्तमेऽहनि त्रैलोक्यं नियमयति’ इति मत्स्योक्तेरनुपपत्तेः । यच्चोक्तं प्रथमस्कन्धे ‘रूपं स जगृहे मात्स्यं चाक्षुषान्तरसंप्लवे । नाव्यामारोप्य महीमय्यामपाद्वैवस्वतं मनुमि’’ति । तदपि तदा दुर्घटम् । न हि प्रलयद्वयेऽपि महीमय्यां नाव्यारोहः सम्भवति । न चाक्षुषमन्वन्तरे प्रलयोऽस्ति । तथा सति सप्तमो मनुर्वैवस्वत इत्यपि दुर्घटं स्यात् । त्वं तावदोषधीः सर्वा इत्यादि निर्देशोऽपि न सङ्गच्छते । न हि तदौषध्यादीनां सत्त्वानां चावशेषः सम्भवति । तस्मादन्यथा वर्ण्यते । नैवायं वास्तवः कोऽपि प्रलयः । किन्तु सत्यव्रत-ज्ञानोपदेशायाविर्भूतो भगवान् वैराग्यार्थमकस्मात्प्रलयमिव दर्शयामास । यथाऽस्मिन्नेव मन्वन्तरे मार्काण्डेयाय दर्शितवान् । तदपेक्षयैव च महाकल्पेऽस्मिन्निति विशेषणं सङ्गच्छते । तथा च ततः समुद्र उद्वेलः सर्वत्र समदृश्यतेति तस्यैव यथादर्शनमुक्तेरित्येषा दिगिति व्याख्यानमुखेन प्रत्याख्यानं भवतीति तत्तन्महे । अत्र संप्रदायद्वयम् । द्वौ मत्स्यावतारावित्येकः । एक इत्येकः । तत्र धातुः शिशयिषोः, सुप्तशक्तेर्मुखेभ्यो, यावद्ब्राह्मी निशेत्यादिना दैनन्दिनकल्प-भवस्याद्यस्य, सत्यव्रतस्येत्यादिना चाक्षुषान्तरसम्भवस्य द्वितीयस्य चेत्युभयोश्चरितं सङ्कलय्या-त्रोच्यते । द्वितीये चरितमात्रं सङ्गृह्यात्रोच्यत इति । एवं कल्पने बलं च वाक्यशाबल्यमिव चरितशाबल्यं च । महाकल्प इति तु न महान्कल्पः । चाक्षुषान्तरसंप्लव इत्युक्तेरत्रैव सर्व-दैनन्दिनकल्पभवं वस्तु प्रायो दर्शयामास । किमाश्चर्यं भगवत्याः शक्तेः । अनेन पृथिव्याद्यवशेषः कथमिति परिचोदना पर्यहारि । सप्तमेऽहनीत्यपि सङ्गच्छते । सत्यव्रतार्थनं वरवितरणं चाकालिकत्वात्सम्भवतः । प्रस्तुतसत्यव्रतोपदेशकथया सहाद्यस्य हयग्रीवहननं विधाय विधये वेददातुः कथा कथितेत्यासीदित्यादि चासीत्सम्भवि । एकस्यैतावत्पर्यन्तमवस्थिति सम्भवा-च्चरितद्वैराश्योक्तिरपि च सम्भविनी । किं च सांवर्तकैरनावृष्ट्यादिभिर्विना कस्मादिति कस्मा-दूचिवान् स इति न जानीमः । साधनं तत्कल्प इवात्राप्युक्तं मात्स्ये तथाहि ॥

बभूव वरदश्चास्या वर्षायुतशते गते ।

वरं वृणीष्व प्रोवाच प्रीतः स कमलासनः ।

एकमेवाहमिच्छामि त्वत्तो वरमनुत्तमम् ।

भूतग्रामस्य सर्वस्य चरस्य स्थावरस्य च ।

भवेयं रक्षणायाहं प्रलये समुपस्थिते ।

एवमस्त्विति विश्वात्मा तत्रैवान्तरधीयत ।

अचिरेणैव कालेन मेदिनी मेदिनीयते ।

भविष्यति जले मग्ना सशैलवनकानना ।

भगवन्कियद्भिर्वर्षैर्भविता त्वन्तरक्षयः ।

अद्य प्रभृत्यनावृष्टिर्भविष्यति महीतले ।

यावद्वर्षशतं साग्रं सुदुर्भिक्षाकरी तथा ।

ततोऽल्पसत्त्वक्षयदाश्मयः सप्त दारुणाः ।

सप्तसप्तेर्भविष्यन्ति प्रतत्याङ्गारवर्षिणः ।

और्वानलोऽपि विकृतिं गमिष्यति युगक्षये ।

विषाग्निश्चापि पातालात्सङ्कर्षणमुखाच्च्युतः ।

भवस्यापि ललाटोत्थस्तृतीयनयनोऽनलः ।

त्रिजगं निर्दहक्षोभं समेष्यति महामते ।

आकाशमूष्मणा तप्तम्…… ।

संवर्तो भीमनादश्च द्रोणश्चन्द्रो बलाहकः ।

विद्युत्पताकः शोणश्च सप्तैते लयवारिदाः ।

अग्निप्रस्वेदसम्भूताः प्लावयिष्यन्ति मेदिनीम् ।

वेदनावमिमां गृह्य सत्वबीजानि सर्वशः ।

त्वया सार्धमिदं सर्वं स्थास्यत्यन्तरसंक्षये ।

एवमेकार्णवे जाते चाक्षुषान्तरसंक्षये ।

वेदान्प्रवर्तयिष्यामि…… ॥

आभूतसंप्लवे तस्मिन्नित्यादि । अत्र स्पष्टं चाक्षुषान्तर एवेति ज्ञायते । आकूतमिदमत्र । अवतारद्वैविध्ये सङ्गृह्य तदुभयचरितोदीरणं तदैक्येऽपि यथा ब्राह्मी निशा यावच्चरिष्यति । तथाऽनया निशानिमित्तेन चरिष्यामि भक्षयिष्यामि । अवगमिष्यामीति वाऽर्थः । चरतेर्गत्याद्यर्थ-त्वात् । मात्स्ये सुदुर्भिक्षाकरी तथेत्युक्तेः । प्रथमेऽन्यामित्युक्तिर् द्वितीये कथामन्यामित्युक्तिश्च मूलम् । कथामाद्यामिति पाठे मा न भवत्याद्येति माद्या । अवतारकथा च सा माद्या चेति विग्रहे द्वितीयलाभः । कामचारित्वाद्वा कडारादित्वाद्वा विशेषणपरनिपातः । पदभेदेनाद्यलाभोऽपि सुलभः । एवं द्विकैकसंपत्तिरिति विवेकः । विकर्षणमुपलक्षणम् । एकत्रापरत्र विशेषणम् । सप्तमे तु मन्वन्तर इव मनोरप्यक्षुण्णमिति सर्वं चतुरस्रम् ।

प्रतिनन्दन्तु निन्दन्तु नाना नानाविधा जनाः ।

प्रमेयस्य दुरूहत्वाद्धर्षामर्षे निनस्ततः ।

अतीतकल्प उक्तविधः । तस्यान्तेऽवसाने ब्राह्मस्तन्निद्राकालभवः स इव च । निमित्ता-दुक्ताज्जातो नैमित्तिको लयः प्रलय आसीत्तत्र भूरादयो लोका आसत्यान्त एव वा । समुद्रोपप्लुतास्तल्लीनाः ॥ ७ ॥

छलारी

सामान्यतोऽवतारप्रयोजनमुक्त्वा विशेषतो मत्स्यावतारप्रयोजनमाह ॥ आसी-दिति ॥ अतीतस्य कल्पस्य दिनकल्पस्यावसाने ब्राह्मो ब्रह्मणश्चतुर्मुखस्य निद्रायां भावस्तेनैव निमित्तेन जातो नैमित्तिको लयः प्रलय आसीत् । तत्र लये भूरादयः सत्यलोकपर्यंता लोकाः समुद्रप्रलयजले उपप्लुता निमग्नाः ॥ ७ ॥

लिङ्घेरी

मत्स्यावतारप्रयोजनं सामान्यतोऽभिधाय विशेषतो वक्तुमादित एव कथा-मुपक्रमते ॥ आसीदित्यादिना ॥ ब्रह्मणोऽतीतदैनन्दिनकल्पान्ते ब्राह्मो निमित्तकप्रलयोऽभूत् । तत्र भूरादयो लोकाः समुद्रेणोपप्लुता आच्छादिताः ॥ ७ ॥

कालेनागतनिद्रस्य धातुः शिशयिषोर्बली ।

मुखतो निःसृतान् वेदान् हयग्रीवोऽन्तिकेऽहरत् ॥ ८ ॥

पदरत्नावली

अन्तिकेऽविदूरतः ॥ ८ ॥

सत्यधर्मीया

शिशयिषोः सुप्तशक्तेः । अनन्तरं कालेन भगवता प्रसिद्धेन चागता निद्रा यस्य तस्य । धातुर्मुखेभ्यो निःसृतान्वेदांस्तदभिमानिनः । अन्तिके सत्समीप एव विद्यमानान् । बली हयग्रीवः समर्थः परिवर्तनवान्वाऽहरत् ॥ ८ ॥

छलारी

कालेन निद्राकालेन निमित्तेनागता प्राप्ता निद्रा यस्य तस्य शिशयिषोः शयनं कर्तुमिच्छतो धातुर्ब्रह्मणो मुखतो निःसृतान् बहिरागतान्वेदान्देहधारिणो वेदाभिमानिदेवान् बली हयग्रीवात्मको दैत्योऽहरदपहरत् ॥ ८ ॥

लिङ्घेरी

हे अनघ । निद्राकालेनागतनिद्रावतः शयनं कर्तुमिच्छोर्ब्रह्मणो मुखतो बहिर्गतान्वेदान् बलिसमीपे तिष्ठन् हयग्रीवाख्योऽसुरोऽपाजहार ॥ ८ ॥

ज्ञात्वा तद् दानवेन्द्रस्य हयग्रीवस्य चेष्टितम् ।

दधार शफरीरूपं भगवान् हरिरीश्वरः ॥ ९ ॥

सत्यधर्मीया

शफरीरूपं मीनतनुम् । ‘नडवीरश्चलचिमः प्रोष्टी तु शफरी द्वयोः’ इत्यमरः ॥ ९ ॥

छलारी

शफरीरूपं मत्स्यरूपम् । अतीतो यो दिनप्रलयस्तस्यापायेऽवसाने उत्थिताय वेधसे ब्रह्मणे हयग्रीवमसुरं हत्वा स हरिर्मत्स्यरूपी वेदान्प्रत्याहरद्दत्तवान् ॥ ९ ॥

लिङ्घेरी

सर्वजगदीश्वरो हरिर्दानवश्रेष्ठस्य हयग्रीवस्य तच्चेष्टितं वेदचौर्यलक्षणं व्यापारं ज्ञात्वा तच्छिक्षणाय मत्स्यरूपं दधार ॥ ९ ॥

तत्र राजऋषिः कश्चिन्नाम्ना सत्यव्रतो महान् ।

नारायणपरोऽतप्यत् तपस्तत्सलिलाशये१ ॥ १० ॥

सत्यधर्मीया

तल्लीलामालपति ॥ तत्रेति ॥ राजर्षिः सत्यव्रतः । तत्रातीतकल्पे । सलिलाशये तपोऽतप्यच्चकार । सलिलाशन इति पाठेऽसाधारण्येन नीत्या तन्मात्रमशनं यस्य स उदकमात्रप्राशक इत्यर्थः ॥ १० ॥

छलारी

दिनकल्पे मत्स्यावतारस्य वेदापहारिहयग्रीवासुरहननपूर्वकं ब्रह्मणो वेदादानमेकं प्रयोजनमुक्त्वा मनुकल्पे क्रियमाणं प्रयोजनान्तरमाह ॥ तत्र राजर्षिरित्यादि यावत्समाप्तिः । तत्रातीते मनुकल्पे सलिलाशनोऽब्भक्षः सन् उदकं भक्षयन् ॥ १० ॥

लिङ्घेरी

तत्र समुद्रजले नाम्ना सत्यव्रतः कश्चिद्राजर्षिर्नारायणे भक्तिमान्सन् तपश्चचार

॥ १० ॥

योऽसावस्मिन् महाकल्पे तनयः स विवस्वतः ।

श्राद्धदेव इति ख्यातो मनुत्वे हरिणाऽर्पितः ॥ ११ ॥

पदरत्नावली

कोऽसौ सत्यव्रत इति तत्राह– योऽसाविति ॥ ११ ॥

सत्यधर्मीया

पौरस्त्यं तज्जन्म नाम चाह ॥ य इति ॥ योऽसौ सत्यव्रतः स एव विवस्वतोऽस्मिन् महाकल्पे विवस्वत एव तनयः श्राद्धदेव इति ख्यातो मनुत्वे हरिणार्पितः । कृत इत्यर्थः ॥ ११ ॥

छलारी

सत्यव्रतः क इत्यत आह ॥ य इति ॥ अस्मिन्महाकल्पे वैवस्वतमनुकल्पे विवस्वतः सूर्यस्य तनयः श्राद्धदेव इति ख्यातो हरिणा मनुत्वे मनुपदेऽर्पितः स्थापितः ॥११॥

लिङ्घेरी

सत्यव्रतस्याप्रसिद्धत्त्वात्प्रसिद्धरूपेण ज्ञापयति ॥ योऽसाविति ॥ अस्मि-न्महाकल्पे विवस्वततनयः श्राद्धदेव इति ख्यातो मनुत्वे वैवस्वतमनुत्वे हरिणा स्थापितो योऽसौ स एव सत्यव्रत इति ॥ ११ ॥

एकदा कृतमालायां कुर्वतो जलतर्पणम् ।

तस्याञ्जल्युदके काचित् शफर्येकाऽभ्यपद्यत ॥ १२ ॥

सत्यधर्मीया

कृतमालायां तन्नाम्नयां नद्याम् । अका न विद्यते कमुदकं यस्याः सा । तद्वत् । स्वौको भगवदुदकरहिता । एका चिच्छफरी ज्ञानात्मकशफरी । अतो नैका काचि-दित्येकतरातिरेकः । अञ्जल्युदके चित्तस्मिन्नपीति वा । तत्रापीत्यर्थः। अभ्यपद्यत प्रापत् । काचिच्छफर्यैकाऽभ्यपद्यतेति वचने जात्यपेक्षमेकवचनमिति मत्वा बहवः शफर्यः किं प्रत्य-पद्यन्तेत्यपि प्रपद्येरन्न तथेति वक्तुमेकेत्युक्तम् । तथैवोक्तौ प्रधाना भवत्वेकाऽप्रधाना मीना बहवः किं न भवेयुरिति शङ्का स्यात् तदपनुत्यै काचिदिति चेति ज्ञेयम् ॥ १२ ॥

छलारी

कृतमालायां द्राविडदेशे विद्यमानायां नद्यां स्नात्वा जलतर्पणं कृतवतस्तस्य सत्यव्रतस्यांजल्युदके काचिदेका शफरी मत्स्यो अभ्यपद्यत प्राप्तः ॥ १२ ॥

लिङ्घेरी

एकस्मिन्काले कृतमालाख्यनद्यां जलतर्पणं कुर्वतस्तस्यांजलिजले एका काचिच्छफरी मीनस्त्री प्राप्ता ॥ १२ ॥

सत्यव्रतोऽञ्जलिगतां सह तोयेन भारत ।

उत्ससर्ज नदीतोये शफरीं द्रविडेश्वरः ॥ १३ ॥

पदरत्नावली

अञ्चलिगततोयेन ॥ १३ ॥

सत्यधर्मीया

अञ्जलिगतां तोयेन तर्पणार्थमञ्जलिकलितसलिलेन सह । येन मीनेन हतस् ताडितोऽञ्जलौ तां शफरीम् । तामञ्जलिगतामिति वा । नदीतोये कृतमालोदके । उत्ससर्ज । शफरी महामीनोऽन्ववर्धतेति शबलितनिर्देशेन स्त्रीलिङ्गपुल्लिङ्गशब्दवाच्यता पुंसोऽपीति ज्ञेयम् । ततो येन तामञ्जलिगतामिति सम्भवति । द्रविडेश्वर आन्ध्रदेशेशः ॥ १३ ॥

छलारी

द्राविडदेशस्येश्वरो राजा सत्यव्रतोंऽजलिगतां शफरीं तोयेन सह कृतमाला-नदीतोये उत्ससर्जोत्सृष्टत्वान् ॥ १३ ॥

लिङ्घेरी

द्रविडदेशाधिपतिः सत्यव्रतोंऽजलिगतां तां शफरीं नदीतोयेंऽजल्युदकेन सह त्यक्तवान् ॥ १३ ॥

तमाह साऽतिकरुणं महाकारुणिकं नृपम् ।

यादोभ्यो ज्ञातिघातिभ्यो दीनां मां दीनवत्सल ।

कथं विसृजसे राजन् भीतामस्मिन् सरिज्जले ॥ १४ ॥

सत्यधर्मीया

अतिकरुणं यथा भवति तथा । स्वभावतो महाकारुणिकमिदानीमतिकरुणं तामतिक्रम्य विद्यमानमिव । विद्यमानमिति वा । ज्ञातीन् अणीयसो घातयन्तीति तानि । यथा यादोभ्यो जलजन्तुभ्यो भीताम् । कथं विसृजसे विसृजसि ॥ १४ ॥

छलारी

सा शफरी महाकारुणिकं तं नृपं सत्यव्रतमतिकरुणं यथा भवति तथाऽऽह । हे दीनवत्सल । ज्ञातीनां घातिभ्यो हिंसकेभ्यो यादोभ्यो जलजन्तुभ्यो भीतां दीनां मामस्मिन् जले कथं विसृजसे त्यजसि ॥ १४ ॥

लिङ्घेरी

हे राजन् । सा शफर्यतिकृपायुक्तं तं सत्यव्रतं नृपं प्रति । हे राजन् सगोत्रजातिभ्यो मीनेभ्यो यादेभ्यो जलचरेभ्यो भीतामत एव दीनामस्मिन् उदके दीनवत्सलस्त्वं कथं त्यजसीति कृपा यथा स्यात्तथाऽऽह ॥ १४ ॥

श्रीशुक उवाच–

तमात्मनोऽनुग्रहार्थं प्राप्तं१ मत्स्यवपुर्धरम् ।

अजानन् रक्षणार्थाय शफर्याः स मनो दधे ॥ १५ ॥

पदरत्नावली

सः मनुः शफर्या रक्षणार्थाय ॥ १५ ॥

सत्यधर्मीया

हरिमजानन् शफर्या रक्षणार्थाय । स राजा मनो दधे । रक्षणायेत्येतावता पूर्तौ यदर्थेत्याह तेनापहास्यतामेतद्रक्षणस्याभिप्रैति । परिहासप्रलापादिष्वनर्था वागपीष्यत इत्यादेरिति केचिदाहुः ॥ १५ ॥

छलारी

सत्यव्रतः परमात्मानमात्मनः स्वस्यानुग्रहार्थं प्रीत्या मत्स्यवपुर्धरं मत्स्य-स्वरूपधारिणमजानन् शफर्या रक्षणार्थं मनो दधे ॥ १५ ॥

लिङ्घेरी

सः सत्यव्रत आत्मनः स्वस्यानुग्रहार्थं प्राप्तं मत्स्यशरीरधारिणं हरिमजानन् तद्रक्षणार्थं मनो दधे ॥ १५ ॥

तस्या दीनतरं वाक्यमाश्रुत्य स महीपतिः ।

कलशाप्सु निधायैनां दयालुर्निन्य आश्रमम् ॥ १६ ॥

सत्यधर्मीया

आश्रुत्य श्रुत्वा । कलशाप्सु गतं स्वकलशस्थोदके निन्येऽनयत् ॥१६॥

छलारी

तस्याः शफर्याः कलशाप्सु स्वकमण्डलोदकेषु निधाय ॥ १६ ॥

लिङ्घेरी

दयालुः स महीपतिस्तस्य मत्स्याकारस्यातिदैन्यवाक्यं श्रुत्वा कलशोदकेष्वेनां शफरीं स्थापयित्वा स्वाश्रमं प्रापयामास ॥ १६ ॥

सा तु तत्रैकरात्रेण वर्धमाना कमण्डलौ ।

अलब्धात्मावकाशं वा इदमाह महीपतिम् ॥ १७ ॥

पदरत्नावली

अलब्धात्मावकाशमिति क्रियाविशेषणम् ॥ १७ ॥

सत्यधर्मीया

एकरात्रेण गतम् एकया रात्र्या । अलब्धात्मावकाशमलब्ध आत्मनोऽव-काशोऽस्मिन्कर्मणि यथा भवति तथा वर्धमाना महीपतिमाह ॥ १७ ॥

छलारी

एकरात्रेणालब्ध आत्मनोऽवकाशो यथा स्थात्तथा वर्धमाना सा ॥ १७ ॥

लिङ्घेरी

सा शफरी तत्र कमण्डलावेकरात्रेणाभिवृद्धदेहाऽवकाशरहितं वा जलं दृष्ट्वा महीपतिं सत्यव्रतं प्रतीदमाह ॥ १७ ॥

नाहं कमण्डलावस्मिन् कृच्छ्रं वस्तुमिहोत्सहे ।

कल्पयौकः सुविपुलं यत्राहं निवसे सुखम् ॥ १८ ॥

सत्यधर्मीया

आकुञ्चनादिना कृच्छ्रं कष्टं यथा भवति तथा । वस्तुं वासं कर्तुं नोत्सहे । यत्राहं सुखं निवसे वसामि तद्विपुलमोको निलयं कल्पय ॥ १८ ॥

छलारी

कृच्छ्रं कष्टं यथा स्यात्तथा क्लेशेनेत्यर्थः । वस्तुं वासं कर्तुं नोत्सहे न शक्नोमि । यत्राहं सुखं निवसे निवसामि तादृशं सुविपुलम् अतिविशालमोकः स्थानं कल्पय कुरु ॥ १८ ॥

लिङ्घेरी

हे सत्यव्रत । अहमस्मिन्कमण्डलौ कष्टं यथा स्यात्तथा वासं कर्तुं नेच्छामि । अतोऽहं यत्र सुखं निवसे तत्सुविपुलमतिविस्तृतमोकः स्थानं मम कल्पयेति ॥ १८ ॥

स एनां तत आदाय न्यधादौदञ्चनोदके ।

तत्र क्षिप्ता मुहूर्तेन हस्तत्रयमवर्धत ॥ १९ ॥

पदरत्नावली

उदञ्चनं मणिकं तत्स्थमुदकम् । हस्तत्रयं व्यामत्रयम् ॥ १९ ॥

सत्यधर्मीया

उदञ्चनं मणिकं तत्स्थं तत्सम्बन्धि उदकम् । तत्र । हस्तत्रयम् । व्यामो हस्तावधिरित्युपयुक्तामरः । व्यामत्रयम् ॥ १९ ॥

छलारी

ततः कमण्डलूदकादादायौदंचनोदके मणिकस्थे जले । मणिक इति रञ्जण-गीत्यपभ्रष्टभाषा । आक्षिप्ता स्थापिता मुहुर्तेन घटिकाद्वयेन हस्तत्रयपरिमितम् ॥ १९ ॥

लिङ्घेरी

तदुक्त्यनन्तरं स सत्यव्रत एनां शफरीमादायोदञ्चनस्थितोदके स्थापयामास । तत्राक्षिप्ता सा शफरी मुहूर्तेन हस्तत्रयपरिमिता वृद्धाऽभूत् ॥ १९ ॥

मीन उवाच–

न म एतदलं राजन् सुखं वस्तुमुदञ्चनम् ।

पृथु देहि पदं मह्यं यत् त्वाऽहं शरणं गता ॥ २० ॥

तात्पर्यम्

अनन्तशक्तिर्भगवान् मत्स्यरूपीजनार्दनः ।

क्रीडार्थं याचयामास स्वयं सत्यव्रतं नृपम् ॥ इति मात्स्ये ।

पदरत्नावली

पदं स्थानम् ॥ २० ॥

सत्यधर्मीया

पृथु देहि पदं मह्यमिति श्रीहरिणा यं कञ्चन नृपं प्रति या च याचना सा सर्वथाऽसम्भाव्या । कथं कथिता चेत्यतो मानेन समाधत्ते ॥ अनन्तशक्तिरिति ॥ सत्यव्रतं नृपं क्रीडार्थं याचयामास । यथा च लीलैव हेतुर्याचन इति नानुचितता तस्येति मन्तव्यम् । अथ मूलार्थो यद्यतः ॥ २० ॥

छलारी

एतदुदञ्चनं मे सुखं वस्तुं नालं न पर्याप्तम् । पृथु विशालं पदं स्थानम् । यद्यस्मात्त्वा त्वाम् । शरणागता ॥ २० ॥

लिङ्घेरी

हे राजन् । ममेदमुदंचनं न सुखेन वस्तुं शक्यम् । तस्माद्यस्मात्त्वामहं रक्षकं प्राप्ता तस्माच्चेतोऽपि विस्तृतं स्थानं देहीत्युवाच शफरी ॥ २० ॥

श्रीशुक उवाच–

तत आदाय सा राज्ञा क्षिप्ता राजन् सरोवरे ।

तदावृत्यात्मना सर्वं महामीनोऽन्ववर्धत ॥ २१ ॥

पदरत्नावली

तत् सरोवरम् आत्मना शरीरेणावृत्य व्याप्य ॥ २१ ॥

सत्यधर्मीया

आत्मना कायेन ॥ २१ ॥

छलारी

तत्सरोवरमात्मना स्वशरीरेणावृत्य व्याप्य सायंकालमध्ये एव ॥ २१ ॥

लिङ्घेरी

हे राजन् । सा शफरी राज्ञा सत्यव्रतेन तदनन्तरं तस्मादुदंचनादादाय सरोवरे क्षिप्ता । तदा सा शफरी तत्सरोवरमात्मना स्वदेहेन व्याप्य महामीनोऽवर्धत ॥ २१ ॥

मीन उवाच–

नैतन्मे स्वस्तये राजन्नुदकं सलिलौकसः ।

निधेहि रक्षायोगेन ह्रदे मामविदासिनि ॥ २२ ॥

पदरत्नावली

अविदासिनि अगाधेऽनुपक्षये च, अभिन्नसेतौ वा ॥ २२ ॥

सत्यधर्मीया

योगेनोपायेन । अविदासिनि । दसू उपक्षये । ततो घञि विदास उपक्षयोऽस्यास्तीति स विदासी स नेत्यविदासी तस्मिन् । अशुष्यदुदके ह्रदे निधेहि मामिति केचित् । दस भेदने । अभेद्येतरासाध्यगमन इति यावत् । क्वचित्तालव्यपाठः । तत्र विविधा दाशाः सन्त्यस्मिन्समीप इति । (विदासी स न भवतीत्यविदासी तस्मिन् दाशानामप्यस्म-द्भक्षकत्वादिति भावः । विदासी उन्नतो भिन्नो वा । ‘त्रिविधाः पुरुषा लोके नीचमध्य-विदासिनः । चतुर्धा वर्णरूपेण जगदेतद्विदासितम् ॥’ इति प्रथमतात्पर्योक्तेः । स न भवतीत्य-विदासी । निम्नोऽभिन्नो वा तस्मिन्) ॥ २२ ॥

छलारी

सलिलौकसो जलाश्रयस्य मे एतदुदकं स्वस्तये सुखेन वासार्थं नालम् । रक्षा-योगेनोपायेन यथा महाहृदे पूर्वं जलं विना नानुशुष्येयं तेनोपायेन निधेहि । अविदासिन्यगाधे जलक्षयरहिते च ॥ २२ ॥

लिङ्घेरी

हे राजन् । एतदुदकं मे स्वस्तये क्षेमाय नालं जलाश्रयस्य । तस्मादुपायेन मां रक्षन् अविदासिनि तलस्पर्शशून्येऽतिविस्तृते ह्रदे निधेहि स्थापय ॥ २२ ॥

इत्युक्तः सोऽनयन्मत्स्यं तत्र तत्राविदासिनि ।

जलाशये सम्मितं तं समुद्रे प्राक्षिपज्झषम् ॥ २३ ॥

पदरत्नावली

अनन्तरं किमकरोदिति तत्राह– इत्युक्त इति ॥ जलाशये ह्रदे । असम्मितमसमानम् । सम्मितं समानं वा ॥ २३ ॥

सत्यधर्मीया

स सत्यव्रतस्तं मत्स्यम् । अनयन्नीतवान् । संमितमथासंमितमिति पदे । संमितं तत्तज्जलाशयसमानम् । असंमितं तत्तज्जलाशयतः किञ्चिदतिशायिनम् ॥ २३ ॥

छलारी

तत्र तत्र जलाशयेऽनयत् । संमितं तत्तज्जलाशयपरिमितम् । असंमितम् असमानमिति वा ॥ २३ ॥

लिङ्घेरी

स सत्यव्रतो मत्स्यरूपेण हरिणैवमुक्तो तं मत्स्यमविदासिनि तत्र तत्र जलाशये क्रमेणोत्तरोत्तरमतिविस्तरे ह्रदादौ नयन्सन् तं जलाशयादिकं तस्य मत्स्यस्यासंमितं सावकाशं वस्तुमशक्यं दृष्ट्वा तं झषं मत्स्यं समुद्रे प्राक्षिपत् ॥ २३ ॥

क्षिप्यमाणस्तमाहेदमिह मां मकरादयः ।

अदन्त्यतिबला वीर मां नेहोत्स्रष्टुमर्हसि ॥ २४ ॥

सत्यधर्मीया

अतिबला इत्यदने वीरेति नयने च हेतूक्तिः ॥ २४ ॥

छलारी

क्षिप्यमाणो मत्स्य इह समुद्रे मकरादयो जलजन्तवोऽतिबला मामदन्ति भक्षयन्ति । अत इहोपस्रष्टुं नार्हसि ॥ २४ ॥

लिङ्घेरी

तेन क्षिप्यमाणो मत्स्यस्तदा तं प्रतीदमाह । हे वीर आरब्धान्तगामिन्सत्य-व्रत । इह क्षिप्तं मामतिबला मकरादयोऽदन्ति भक्षयिष्यन्ति । तस्मात्त्वं मामिह त्यक्तुं योग्यो नार्हसीति ॥ २४ ॥

एवं विमोहितस्तेन वदता वल्गुभारतीम् ।

तमाह को भवानस्मान् मत्स्यरूपेण मोहयन् ॥ २५ ॥

सत्यधर्मीया

मत्स्यरूपेणास्मान् मोहयन् भवान् क इति तमाह सत्यव्रतः ॥ २५ ॥

छलारी

वल्गुभारतीं कृपाजनकवचनं वदता तेनैवं विमोहितो वंचितो राजा तं मत्स्य-माह ॥ मत्स्यरूपेणास्मान्मोहयन् भवान् क इति ॥ २५ ॥

लिङ्घेरी

एवमुक्तरूपेण वल्गु मनोहरं यथा भवति तथा भारतीं वाचं वदता तेन मत्स्यरूपेण हरिणा मोहितः सत्यव्रतः । हे मत्स्यरूपेणास्मान्मोहयन् भवान् क इति तमाह

॥ २५ ॥

नैवंवीर्यो जलचरो दृष्टोऽस्माभिः श्रुतोऽपि वा ।

यो भवान् योजनशतमह्नाय व्यानशे सरः ॥ २६ ॥

पदरत्नावली

एवंविधं वीर्यं यस्य स एवंवीर्यः । अह्राय झटिति । व्यानशे व्याप्तः

॥ २६ ॥

सत्यधर्मीया

एवं वीर्यं यस्य स एवंवीर्यः । अह्नाय खटिति । व्यानशे, अशू व्याप्तौ । सरो व्याप्तवानिति । भवान्क इत्यन्वयः । न केवलं व्यानशेऽसरश्च पुरतो गन्तासीति वा

॥ २६ ॥

छलारी

एवंविधं वीर्यं सामर्थ्यं यस्य स जलचरो मीनो दृष्टो वा श्रुतो वा न । तद्वीर्यमाह ॥ य इति ॥ यो भवान् औकदिनेन योजनशतं सरोऽभिव्यानशेऽभितो व्याप्तवान् । अह्नायेति पाठे झडितीत्यर्थः ॥ २६ ॥

लिङ्घेरी

हे मत्स्य । एवंविधसामर्थ्योपेतो जलचरो मत्स्योऽस्माभिर्न दृष्टो नापि श्रुतो यो भवान् शतयोजनपरिमितसरोवरमप्यह्नाय शीघ्रं व्यानशे व्याप्तवान् ॥ २६ ॥

नूनं त्वं भगवान्१ साक्षाद् हरिर्नारायणोऽव्ययः ।

अनुग्रहाय भूतानां धत्से रूपं जलौकसाम् ॥ २७ ॥

पदरत्नावली

नरविशेषसम्बन्धित्वान्नारं ज्ञानं तदयनं यस्य स तथा । ज्ञानाश्रयः । कश्चिच्चेतन एव नारायणः किं न स्यादित्यतः- साक्षात् हरिरिति ॥ तुरीयमूर्तिः ॥ २७ ॥

सत्यधर्मीया

एवं मोहितोऽप्यूहयामास कृततपःप्रभावो यल्लवमीनावनसुकृतादथ चाह ॥ नूनमिति ॥ भगवन् भगवानिति पाठौ द्वावप्यद्वन्द्वौ । नारायणश्चेदत्र कुत एवं रूपश्चेत्यत आह । भूतानामनुग्रहाय तदर्थं जलौकसां रूपं धत्से न कर्मवशत इति ॥ २७ ॥

छलारी

हे मत्स्य । त्वं न रीयते क्षीयत इति नरो विष्णुस्तदुत्पन्नत्वान्नारा आपस्ता अयनं स्थितिराश्रयो यस्य सः । जलचर इत्यर्थः । त्वं नूनं साक्षाद्धरिरसि । भूतानां मादृशां प्राणिनामनुग्रहाय जलौकसां मत्स्यानां रूपं धत्से ॥ २७ ॥

लिङ्घेरी

एवमलौकिकसामर्थ्यदर्शनेन तदनुग्रहेण च ज्ञातमत्स्यस्वरूपः सत्यव्रतस्तमाह । हे मत्स्य । त्वं साक्षान्मुख्यतो भगवच्छब्दवाच्यो भक्तेष्टाद्याहर्ता चतुर्विधनाशरहितो नारायण एव स्वभक्तानामनुग्रहाय जलाश्रयाणां मत्स्यानामाकारं बिभर्षि नूनं निश्चय इति ॥ २७ ॥

नमस्ते पुरुषश्रेष्ठ स्थित्युत्पत्यप्ययेश्वर ।

भक्तानां नः प्रपन्नानां मुख्यो ह्यात्मा गतिर्विभो ॥ २८ ॥

सत्यधर्मीया

नूनमिति सूचितनिश्चयस्याभ्रान्तितां सन्तन्वन्नमति ॥ नम इति ॥ उत्पत्तिस्थित्यप्ययेश्वरेति क्रामिक्युक्तिर्युक्ता । तथाऽप्येतर्हि झषवपुषा तामेव कर्तुमायत इति ध्वनयितुं स्थितेरादाववस्थितिरिति वस्तुस्थितिः । मुख्य आत्मा परमचेतनो गतिः प्राप्यश्च

॥ २८ ॥

छलारी

उत्पत्तिश्चाप्ययश्च तेषामिश्वरः कर्ता मुख्य आत्मोत्तमचेतनः परमात्मा त्वत्प्रपन्नानां भक्तानां गतिराश्रयः ॥ २८ ॥

लिङ्घेरी

तज्ज्ञानेनोद्रिक्तभक्तिस्तं स्तौति ॥ नम इत्यादिना ॥ हे पुरुषश्रेष्ठ क्षराक्षरोत्तम जगतः स्थित्युत्पतिनाशाधिपते विभो देशकालगुणैर्व्याप्त स्वामिन्नारायण ते नमोऽस्तु । त्वं त्वां शरणागतानां भक्तानामस्माकं मुख्य आत्मा स्वामी गतिप्रदश्च ॥ २८ ॥

सर्वे लीलावतारास्ते भूतानां भूतिहेतवे ।

ज्ञातुमिच्छाम्यदो रूपं यदर्थं भवता धृतम् ॥ २९ ॥

पदरत्नावली

यदर्थं यत्प्रयोजनाय भवताऽदो मत्स्यरूपं धृतं तत् प्रयोजनपूर्वकं ज्ञातु-मिच्छामीत्यन्वयः ॥ २९ ॥

सत्यधर्मीया

भूतिहेतवे तदर्थम् । सा भूतिरिदानीमेतद्रूपिणीति विशेषं विवित्सुः पृच्छति । अदस्तत्प्राङ्नदञ्जलिजलगतम् । तदर्थं भवता धृतं तत्प्रयोजनं ज्ञातुमिच्छामीत्यन्वयः

॥ २९ ॥

छलारी

ते सर्वे तव लीलया कृतावतारा भूतानां भूतेरैश्वर्यस्य हेतव इति सामान्यतो ज्ञानमस्ति । तत्रादो रूपं मत्स्यरूपं यदर्थं यत्प्रयोजनाय धृतं तत्ज्ञातुमिच्छामि ॥ २९ ॥

लिङ्घेरी

हे मत्स्य । सर्वे तव लीलावताराः प्राणिनां संपत्करणाय भवन्ति । भवताऽदस्तन्मत्स्यरूपं यत्प्रयोजनाय धृतं तत्प्रयोजनमहं ज्ञातुमिच्छामि ॥ २९ ॥

न तेऽरविन्दाक्ष पदोपसर्पणं मुधा भवेत् सर्वसुहृत्प्रियात्मनः ।

यथेतरेषां पृथगात्मनां सतामदीदृशो यद् वपुरद्भुतं हि नः ॥ ३० ॥

पदरत्नावली

अहं त्वत्स्वरूपज्ञाने योग्य इत्याह– न त इति ॥ हे अरविन्दाक्ष यथा पृथगात्मनां भिन्नविषयबुद्धीनाम् इतरेषां तव पदोपसर्पणं मुधा वृथा, भवेत् ‘यद्यप्यनेवंविन्महत् पुण्यं कर्म करोति तद्धास्यान्ततः क्षीयते’ इति श्रुतिः । अत्र मानम् । अत एव पृथगित्युक्तम्, सतां तथा न स्यात् तत्र हेतुमाह– अदीदृश इति ॥ तवाद्भुतं नोऽस्माकम् इतरमत्स्य-विलक्षणत्वादाश्चर्यं वपुः । वपुष् टु वप् बीजसन्तान इति धातोर् जगदुत्पादनसमर्थं रूपम् अदीदृशः दर्शितवानिति हि यस्मात्(वयं) सन्त एतद्रूपज्ञाने योग्या इत्यर्थः । तव विषय-स्वभावत्वात् तथात्वमिति नेत्याह– सर्वेति ॥ ३० ॥

सत्यधर्मीया

यन्मया त्वया कारितं तपआदिकं तत्फलमिति तदितरनिदर्शनपूर्वक-मन्वयव्यतिरेकत आह ॥ न त इति ॥ हे अरविंदाक्ष । सर्वसुहृत्प्रियात्मनः । तत्तदधिकारि-विवक्षयैवमुक्तिर्वाऽवस्थाभेदोक्तिर्वा । सतां ते पदोपसर्पणं पादसेवा । मुधा त्वत्साक्षात्कार-मजनयद्व्यर्थं भवेत् किं न भवेत् । पृथगात्मनां मूर्खाणां विषयेष्वेव रतानां बहिर्हरिभक्तवदात्मनो दर्शयतां यथा तव पदोपसर्पणं मुधा वृथा भवेत् । स्वसाक्षिणमेव प्रमाणयति । नोऽस्माकं यद्यतोऽद्भुतम् इतरादर्शनीयतयाऽश्चर्यकरं वपुरिदमदीदृशोऽदर्शयो ऽत इति । अहमपि तदन्यतम इति वपुरुपदर्शितवान् अन्यथेदं दुर्घटमिति भावः । यद्वा पृथगात्मनां नानाविधप्रयत्नवतां सतां सज्जनानां यथा तव मत्त इतरेषां पदोपसर्पणं वृथा न भवति तथा । सर्वसुहृत्प्रियात्मनः सर्वेभ्यः सुहृद्भ्यः । ‘पुत्रात्प्रेयो मित्रात्प्रेय’ इति श्रुतेः । प्रिय आत्मा भवान् येषां तान् नो यदद्भुतं तव वपुरदीदृशोऽदर्शय इति वृथा भवेत् किमिति योजना । सर्वसुहृत्प्रियेति सम्बोधनम् । आत्मनस्ते वपुरित्यन्वयो वा । इतरेषां कर्मतन्त्राणां पृथगात्मनां मूर्खजनानां यथा तथा नः प्रति वपुर्दुर्भगशरीरमदर्शयोऽद्भुतमित्यपि योजयन्ति । स्वाहंताशान्तिं वा तनोति ॥ न त इति ॥ सर्वसुहृत्प्रियात्मनस्ते पदोपसर्पणं सतां यथा न मुधा भवेत् । पृथगात्मनामितरेषां तद्भिन्नानाम् । असतामिति यावत् । न इदं वपुरदीदृश इति यत्तच्छाठ्येन कृतं पदोपसर्पणं मुधा नाभूदित्यद्भुतमिति । ते पदोपसर्पणं सतां तव दासानां च पदोपसर्पणमित्यन्वयो वा । हिश्चशब्दार्थे ॥ ३० ॥

छलारी

मम त्वत्स्वरूपज्ञानयोग्यत्वात्त्वदवतारप्रयोजनमुपदिशेत्याशयेनाह ॥ न त इति ॥ अरविंदाक्ष । पृथगात्मनां विषयबुद्धीनामितरेषां जनानां तव पदोपसर्पणं मुधा न भवेत् । यद्वा पृथगात्मनां सतामितरेषां त्वदितरेषां पदोपसर्पणं यथा मुधा भवेत् । तथा सर्वसु-हृत्प्रियात्मनः सर्वेषां सुहृदोऽनिमित्तोपकारिणः प्रियात्मनः प्रीतिविषयस्य तव पदोपसर्पणं तव पादाश्रयेण यथा मुधा वृथा भवेत्तथा सतां ज्ञानिनां तव पादोपसर्पणं मुधा न भवेत् । कुतः । यद्यस्मान्नो भक्तानामितरमत्स्यविलक्षणत्वादद्भुतमाश्चर्यं वपुर्मत्स्यरूपमदीदृशो दर्शितवान् ॥३०॥

लिङ्घेरी

सत्यव्रतोऽयोग्यादृश्यभगवद्दर्शनेन स्वस्य सत्वमवधार्य तेनापि महत्प्रयोजनं स्यादिति विज्ञापयते । हे अरविन्दाक्ष । सर्वेषां प्राणिनां स्वपुत्रकलत्रादिभ्योऽप्यनिमित्तोप-कारित्वादतिप्रियस्वरूपस्य ते पदोपसर्पणं पादपद्मसमीपगमनं भक्तेतरेषां पृथगात्मनां पामराणां मुधा वृथा भवेत् । न तथा सतां तव स्वरूपं स्वस्वयोग्यतानुसारेण यथावत्ज्ञानवताम् । यद्यप्यनेवंविन्महत्पुण्यं कर्म करोति तद्धास्यान्ततः क्षीयते, यदेव विद्यया करोति श्रद्धयोपनिषदा तदेव वीर्यवत्तरं भवतीत्यादिश्रुतेः । तत्र वयमपि सन्त एवेति सम्भावयामः । यस्मात्त्व-मद्भुतमात्स्यं वपुर्नोऽस्माकमदीदृशो दर्शितवान् । भगवतः स्वपुत्रादिभ्योऽतिप्रियत्वं च, तदे-तत्प्रेयः पुत्रात्प्रेयो मित्रात्प्रेयः सर्वस्मात्प्रेय इत्यादिश्रुतिसिद्धम् । ‘व्यर्थकं तु वृथा मुधा’ इत्यमरः ॥ ३० ॥

इति ब्रुवाणं नृपतिं जगत्पतिः सत्यव्रतं मत्स्यवपुर्युगक्षये ।

विहर्तुकामः प्रलयार्णवेऽब्रवीच्चिकीर्षुरेकान्तजनप्रियं१ प्रभुः ॥ ३१ ॥

पदरत्नावली

विषयसुखप्रेरकत्वात् प्रियः ‘तदेतत् प्रेयः’ इति श्रुतेः ॥ ३१ ॥

सत्यधर्मीया

युगक्षये चाक्षुषमनुप्रलये । प्रलयार्णवे विहर्तुकाम एकान्तजनप्रियं चिकीर्षुः । इति ब्रुवाणं सत्यव्रतं नृपतिं प्रति । इच्छामात्रं प्रभोः सृष्टिरित्यादेर्मत्स्यवपुः प्रभुः । अब्रवीदित्यन्वयः । एकान्तजनप्रियः प्रियमिति च पठन्ति ॥ ३१ ॥

छलारी

मत्स्यवपुर्जगत्पतिः सत्यव्रतमब्रवीत् । कथंभूतः सन् । युगक्षये चाक्षुष-मनुप्रलये प्रलयार्णवे विहर्तुकाम एकान्तजना भक्ताः प्रिया यस्य सः प्रियं हितं चिकीर्षुः ॥३१॥

लिङ्घेरी

जगत्पतिर्मत्स्यरूपो हरिर्यतः स्वयमेकान्तभक्तजनप्रियस्तदभिलषितपूर्णः समर्थ- श्चातः प्रलयार्णवे स्वयं विहर्तुकामः सन् इत्युक्तप्रकारेण ब्रुवाणं सत्यव्रतं नृपतिं प्रति मत्स्य-वपुर्हरिर्युगक्षये प्रलयार्णवे स्वेनाग्रे चिकीर्षितं कर्तुमिष्टमब्रवीत् ॥ ३१ ॥

श्रीभगवानुवाच–

सप्तमेऽद्यतनादूर्ध्वमहन्येतदरिन्दम ।

निमङ्क्ष्यत्यप्ययाम्भोधौ त्रैलोक्यं भूर्भुवादिकम् ॥ ३२ ॥

पदरत्नावली

अद्यतनादह्र ऊर्ध्वं सप्तमेऽहनि । निमङ्क्षति निमग्नं भविष्यति । अप्य-याम्भोधौ प्रलयसमुद्रे ॥ ३२ ॥

सत्यधर्मीया

अद्यतनादह्न ऊर्ध्वमुपरि । तदवधिमभिधत्ते ॥ सप्तमेऽहनीति ॥ एतद् भूर्भुवादिकमिति त्रैलोक्यम् । अप्ययाम्भोधौ लयजलधौ । निमङ्क्षति मग्नं भविष्यति ॥ ३२ ॥

छलारी

अद्यतनादिदानींतनादह्न ऊर्ध्वं सप्तमेऽहन्येतद्भूर्भुवादिकं त्रैलोक्यं लोकत्रय-मप्ययाम्बोधौ प्रलयार्णवे निमङ्क्षति निमग्नं भविष्यति ॥ ३२ ॥

लिङ्घेरी

हे अरिंदम शत्रुशिक्षक सत्यव्रत । अद्यतनाद्वर्तमानादह्न ऊर्ध्वमुपरि सप्तमेऽ-हन्यप्ययांभोधौ प्रलयसमुद्रे भूर्भुवादिकमेतत्त्रैलोक्यं निमङ्क्षति मग्नं भविष्यति ॥ ३२ ॥

त्रिलोक्यां लीयमानायां संवर्ताम्भसि वै तदा ।

उपस्थास्यति नौः काचिद् विशाला त्वां मयेरिता ॥ ३३ ॥

पदरत्नावली

संवर्ताम्भसि प्रलयोदके । उपस्थास्यति समीपमागमिष्यति ॥ ३३ ॥

सत्यधर्मीया

संवर्तांभसि त्रिलोक्यां लीयमानायां सत्याम् । ‘संवर्तः प्रलयः कल्प’ इति चाभिधानम् । तदा विशाला ईरिता प्रेरिता काचिन्नौस्त्वां प्रत्युपस्थास्यति समीपमाप्ता भवति । वेश्च शङ्कटशालचाविति शालच्प्रत्ययः । शब्दश्च विशेष्यनिघ्नः ॥ ३३ ॥

छलारी

संवर्तांभसि प्रलयजले । ‘संवर्तः प्रलयः कल्प’ इत्यभिधानात् । मयेरिता प्रेरिता विशाला महीनौस्त्वामुपस्थास्यति । त्वत्समीपे आगमिष्यति ॥ ३३ ॥

लिङ्घेरी

संवर्तांभसि प्रलयोदके त्रैलोक्यां लीयमानायां सत्यां मयेरिता प्रेरिता विस्तृता काचिन्नौः प्लवस्त्वामुपस्थास्यति त्वत्समीपे स्थिता भविष्यति । ‘संवर्तः प्रलयः कल्पः’ ‘अम्भोर्णस्तोय पानीयः’, ‘उडुपं तु प्लवः कोलः स्त्रियां नौः’ इति चामरः ॥ ३३ ॥

त्वं तावदौषधीः सर्वा बीजान्युच्चावचानि च ।

सप्तर्षिभिः परिवृतः सर्वसत्वोपबृंहितः ॥ ३४ ॥

पदरत्नावली

सर्वैः सत्वैः प्राणिभिर् उपबृंहितः पूरितः ॥ ३४ ॥

सत्यधर्मीया

किं दन्तकथया कथयोदन्तं भाविनमुपयोगिनं भगवन्नित्यतस्तमवगमयति ॥ त्वमिति ॥ सर्वा ओषधीरुच्चावचानि बीजानि च सङ्गृह्येति शेषः । सर्वसत्त्वैः प्राणिभि-रुपबृंहितः परिवृतः ॥ ३४ ॥

छलारी

ओषधीरुच्चावचानि बीजानि च । आदायेति शेषः । सर्वसत्त्वैः सर्वप्राणिभि-रुपबृंहितः परिवृतः ॥ ३४ ॥

आरुह्य बृहतीं नावं विचरिष्यस्यविक्लवः ।

एकार्णवे निरालोके ऋषीणामेव वर्चसा ॥ ३५ ॥

पदरत्नावली

निरालोके तमःप्राये । ऋषीणां वर्चसा प्रकाशेनैव नान्येन ॥ ३५ ॥

सत्यधर्मीया

बृहतीं महतीमारुह्य अविक्लवोऽविह्वलो विचरिष्यसि । निरालोके सूर्यादिप्रकाश-रहिते एकार्णवे । तर्ह्यन्धकारे कथं विचरणमित्यत आह ॥ ऋषीणां वर्चसा प्रकाशेनैवेति ॥३५॥

छलारी

अविक्लव उद्वेगरहितो निरालोके प्रकाशरहिते ऋषीणां वर्चसैव प्रकाशेनैव विचरिष्यसि ॥ ३५ ॥

लिङ्घेरी

तावत्तदा त्वं सर्वा ओषधीर् व्रीहियवादीन् उच्चावचान्युत्कृष्टान्यन्यानि बीजानि चादाय सप्तर्षिभिः परिवृतः सन् सर्वैः प्राणिभिः पूर्णः सन् बृहतीं विस्तृतां नावमारुह्यापरवशः स्वस्थान्तःकरणः सन् एकार्णवीभूते जले सूर्यचन्द्रादिप्रकाशाभावेन निरालोकेऽन्धकारे सप्तर्षीणां वर्चसा प्रकाशेनैव सञ्चारं करिष्यसि ॥ ३५ ॥

दोधूयमानां तां नावं समीरेण बलीयसा ।

उपस्थितस्य मे शृङ्गे निबध्नीहि महाहिना ॥ ३६ ॥

पदरत्नावली

दोधूयमानाम् इतस्ततोऽत्यन्तं कम्पमानां निबध्नीहि । महाहिना वासुकिना

॥ ३६ ॥

सत्यधर्मीया

बलीयसा समीरेण मारुतेन दोधूयमानामितस्ततोऽतिकम्पमानां तां नावं मे ममोपस्थितस्य तदागत्य स्थितस्य शृृङ्गे । मत्स्यानां न शृृङ्गम् । तदपि त्वत्कार्यानुगुणं सृष्ट्वा दर्शयिष्यामीति च बध्नीहि । बन्धनं केनेत्यतो महाहिना महासर्पेणेति । अनेन वायुरप्यायास्यति सर्पश्चायास्यतीति सूचयामासेति ज्ञेयम् ॥ ३६ ॥

छलारी

बलीयसा प्रबलेन समीरणेन दोधूयमानामितस्ततोऽतिशयेन कम्पमानां तां नावमुपस्थितस्य मे मत्स्यरूपिणः शृृङ्गे महाऽहिना वासुकिना निबध्नीहि बन्धय ॥ ३६ ॥

लिङ्घेरी

बलीयसा बलिष्ठेन समीरेण वातेन दोधूयमानां पुनःपुनरतिकंपमानां तां नावं समीपास्थितस्य मे शृृङ्गे महाऽहिना पाशस्थानीयमहासर्पेण निबध्नीहि ॥ ३६ ॥

अहं त्वामृषिभिः साकं सह नावमुदन्वति ।

विकर्षन् विचरिष्यामि यावद् ब्राह्मी निशा प्रभो ॥ ३७ ॥

पदरत्नावली

ब्राह्मी ब्रह्मसम्बन्धिनी ॥ ३७ ॥

सत्यधर्मीया

सह नावम् ऋषिभिः साकं त्वां यावद्ब्राह्मी निशा शर्वरी तावत्पर्यन्तम् । उदन्वति विकर्षन् विचरिष्यामि । नौकाकर्षणेन चरण ओषध्यादिसाहितीलाभात्तदनुक्तिरुक्ति-श्चर्षिभिरिति तेषां प्रकाशनकार्यगुरुतयेति विवेकः ॥ ३७ ॥

छलारी

सहनावं नौःसहितं त्वामुदन्वति प्रलयार्णवे विकर्षन् यावद्ब्राह्मी निशा चाक्षुष-मनुप्रलयपर्यन्तमित्यर्थः । विचरिष्यामि । अत्र ब्राह्मी निशाशब्देन चाक्षुषमनुप्रलयो लक्ष्यते । तस्यापि ब्रह्मदिन एव जायमानत्वेन ब्रह्मसम्बन्धित्वात् । ननु तथाऽपि कुतो लक्ष्यत इति चेन्न । महाप्रलयदिनप्रलययोस्त्वं तावदौषधीः सर्वा इत्युक्तौषध्यादीनामशेषासम्भवेन तद्ग्रहणस्य बाधितत्वात् । ‘रूपं स जगृहे मात्स्यं चाक्षुषांतरसंप्लवे । नाव्यारोप्य महीमय्यामपाद्वैवस्वतं मनुम् ॥’ इति प्रथमस्कन्धोक्तपृथिव्याद्यशेषासम्भवाच्च । न हि सर्वाभाववति प्रलयद्वये सत्यव्रता-दीनां पृथिव्यात्मकनावारोहः सम्भवति । तथाऽपि चाक्षुषमनुप्रलयग्रहणे किं प्रमाणमिति चेन्न । ‘रूपं स जगृहे मात्स्यं चाक्षुषान्तरसंप्लव’ इति चाक्षुषमनुप्रलये मात्स्यं रूपं जगृहे इति प्रथमस्कन्धोक्तेरेव प्रमाणत्वात् ॥ ३७ ॥

लिङ्घेरी

हे प्रभो राजन् । अहं सह त्वां सनावमुदन्वति समुद्रे विचिकर्षन् चतुर्मुख-सम्बन्धिनी निशा रात्री यावद्वर्तेत तावदेवं विचरिष्यामि ॥ ३७ ॥

मदीयं महिमानं च परं ब्रह्मेति शब्दितम् ।

वेत्स्यस्यनुगृहीतं मे सम्प्रश्नैर्विवृतं हृदि ॥ ३८ ॥

पदरत्नावली

तव सम्यक् प्रश्नैर् हृदि विवृतं स्पष्टीकृतं मयानुगृहीतं मदीयं ब्रह्मेति-शब्दितं महिमानं ज्ञास्यसि ॥ ३८ ॥

सत्यधर्मीया

परं ब्रह्मेति शब्दितम् । मदीयं महिमानम् । धर्माणां तद्रूपत्वेन सामानाधिकरण्यम् । तव संप्रश्नैः समीचीनैः प्रश्नैर्मे मया विवृतं वेत्स्यसि । अनन्तरं हृदि अनुगृहीतं त्वां वेत्स्यसि । महिमानं माहात्म्यं च । मदीयं च ब्रह्मेति शब्दितं तच्छब्दवाच्यं वेत्स्यसि । हृदि प्रश्नैरनुगृहीतं पृच्छाविषयत्वेन स्वीकृतं प्रमेयम् । विवृतमुत्तरितं वेत्स्यसीति वा । मदीयमहं वा वाच्यमन्यो वेति तं वेत्स्यसीति वा ॥ ३८ ॥

छलारी

मे मयाऽनुगृहीतम् । विभक्तिविपरिणामेनानुगृहीतत्वम् । परं ब्रह्मेति शब्दितं परब्रह्म शब्दवाच्यम् । परं ब्रह्म तन्महिम्नोरभेदादिति भावः । मदीयं महिमानं सर्वगुणपूर्णत्वरूपं हृदि वेत्स्यसि ज्ञास्यसि । यद्वा परं ब्रह्मेति शब्दितम् । मामिति शेषः । मदीयं महिमानं वेत्स्यसि । कथं भूतम् । त्वया कृतैः समीचीनप्रश्नैर्निमित्तैर्मया विवृतं स्पष्टं प्रतिपादितम् ॥३८॥

लिङ्घेरी

तदा त्वं हृदि स्थितैः सम्यक् प्रश्नकृतैर्निमित्तैर्मया विवृतमनुगृहीतं परब्रह्म-शब्दितस्य मे महिमानं सम्यग्ज्ञास्यसि ॥ ३८ ॥

श्रीशुक उवाच–

इत्थमादिश्य राजानं हरिरन्तरधीयत ।

सोऽन्ववैक्षत तं कालं यं हृषीकेश आदिशत् ॥ ३९ ॥

पदरत्नावली

अन्ववैक्षत प्रतीक्ष्य स्थितः ॥ ३९ ॥

सत्यधर्मीया

अन्ववैक्षत परीक्षमाण आस्थितः ॥ ३९ ॥

छलारी

सः सत्यव्रतस्तं कालमन्ववैक्षत प्रतीक्ष्य स्थितः ॥ ३९ ॥

लिङ्घेरी

मत्स्यरूपी हरिरित्थमुक्तरीत्या राजानं सत्यव्रतं प्रत्युक्त्वाऽदृश्योऽभूत् । अथ स सत्यव्रतो हृषीकाणामिन्द्रियाणामीशः स्वामी हृष्यानन्दरूपः केशो यस्य स मत्स्यरूपी हरिर्यं कालमादिशत्तं कालमन्ववैक्षत प्रतीक्षन् स्थितः ॥ ३९ ॥

आस्तीर्य दर्भान् प्राक्कूलान् राजर्षिः प्रागुदङ्मुखः ।

निषसाद हरेः पादौ चिन्तयन् मत्स्यरूपिणः ॥ ४० ॥

सत्यधर्मीया

प्राक् पूर्वभागे कूलान्यग्राणि येषांस्तान् दर्भान् कुशान् । प्रागुदङिति ईशान्यावान्तरदिगुच्यते । तन्मुखं यस्य सः ॥ ४० ॥

छलारी

राजर्षि राजश्रेष्ठः सत्यव्रतः प्राक्कूलान् प्रागग्रान् प्रागुदङ्मुख ईशानदिगभिमुखो मत्स्यरूपस्य हरेः पादावङ्घ्री चिन्तयन् ध्यानं कुर्वन् सन्निषसाद ॥ ४० ॥

लिङ्घेरी

राजर्षिः सत्यव्रतः प्रागग्रान्दर्भानास्तीर्य प्रागुदङ्मुख ईशानीमुखः सन् मत्स्य-रूपिणो हरेः पादौ चिन्तयन्निषसादोपविवेश ॥ ४० ॥

ततः समुद्र उद्वेलः सर्वतः प्लावयन् महीम् ।

वर्धमानो महामेघैर्वर्षद्भिः समदृश्यत ॥ ४१ ॥

सत्यधर्मीया

वर्षद्भिर्महामेघैर्वर्धमानः सर्वतः सर्वां महीं प्लावयन् उद्वेलो वेलायामुद्गत इति सः सन् । सर्वतः समदृश्यतेत्यन्वयः । ततस्तदुक्तदिनानन्तरम् ॥ ४१ ॥

छलारी

उद्वेलः सेतुमतिक्रान्तः समुद्रो महीं प्लावयामास । वर्षद्भिर्महामेघैर्वर्धमानः समदृश्यत ॥ ४१ ॥

लिङ्घेरी

तदनन्तरं वर्षद्भिर्वर्षमाणमहामेघैः पूर्यमाणोऽत एवोद्वेलोऽतिक्रान्तमर्यादा भूमिः सांवर्तप्रलयकालीनः समुद्रः सर्वतो दिक्षु महीं प्लावयन्नाच्छादयन्समदृश्यत ॥ ४१ ॥

ध्यायन् भगवदादेशं ददृशे नावमागताम् ।

तामारुरोह विप्रेन्द्रैरादायौषधिवीरुधः ॥ ४२ ॥

सत्यधर्मीया

आदेशमाज्ञाम् । ओषधीर्बीजादीनि । वीरुधः पुरतः प्ररोहल्लताः ॥४२॥

छलारी

भगवदादेशं मत्स्यरूपिणो हरेराज्ञां ध्यायन् सन् आगतां प्राप्तां नावं ददृशे दृष्टवान् । ओषधीर्बीजानि वीरुधो लताविशेषांश्चादाय विप्रेन्द्रैः सप्तर्षिभिः सह तां नावमारुरोह

॥ ४२ ॥

तमूचुर्मुनयः प्रीतं राजन् ध्यायस्व केशवम् ।

स वै नः संकटादस्मादविता शं१ विधास्यति ॥ ४३ ॥

पदरत्नावली

अविनाशं विनाशविरोधिजीवानां शं सुखम् अविनाभावं सुखयुक्तं पदं विधास्यतीति वा ॥ ४३ ॥

सत्यधर्मीया

यद्यपि पादौ चिन्तयन्नित्यादावुदीरणात्प्रागेव प्रभुर्भगवच्चिन्तनरतस् तथाऽपि सदुपदिष्टमिष्टं कलयितुमलमिति ते मुनयोऽप्यूचुरित्याहुः ॥ तमिति ॥ अविता रक्षिता । नेयदेव देवकार्यमित्याह । शं सुखं च विधास्यति करिष्यतीति । अविनाशमिति पाठे विनाशस्याक्षेमस्याभावो हि क्षेमो विनाशस्तं विना शं सुखं तद्रहितं यथा न भवतीत्यविनाशं तथा करिष्यतीति वाऽर्थः । सः संकटं परिहृत्येति सम्भवद्विवरणे ल्यब्लोपपञ्चमी । नोऽस्माकम् । वै तव ध्यानानुनयेन । ‘वै अनुनयेऽपि च’ इति विश्वः । सः वा एनःसङ्कटादिति पदानि वा चेति न केवलमविता च शं च विधास्यतीति समुच्चये वा । ‘वा स्यादिवार्थे च समुच्चय’ इति विश्वः । अवितेवेतीवार्थे वा । एनः सङ्कटात् । पापोपात्तात्सङ्कटादिति वा । सवैनःसङ्कटादिति पदमेकं वा । सवेति सर्वसत्कर्मोपलक्षणम् । यज्ञादिप्रतिबंधकादेनःप्रयोजकात्सङ्कटादिति वा ॥ ४३ ॥

छलारी

मुनयः सप्तर्षयस्तं सत्यव्रतमूचुः ॥ केशवं ध्यायस्वेति । स हरिरस्मा-त्सङ्कटान्नोऽस्मान् अविता रक्षिष्यति शं सुखं विधास्यति ॥ ४३ ॥

सोऽनुध्यातस्ततो राज्ञा प्रादुरासीन्महार्णवे ।

एकशृङ्गधरो मत्स्यो हैमो नियुतयोजनः ॥ ४४ ॥

सत्यधर्मीया

धरतीति धरः । एकं च तच्छृङ्गं तस्य विषाणस्य धरो हैमः गतम् । सुवर्णवर्णो नियुतयोजनो लक्षयोजनप्रमाणः ॥ ४४ ॥

छलारी

राज्ञा सत्यव्रतेनानुध्यातः स हरिर्महार्णवे प्रादुरासीत् । कथंभूतः । एकं शृृङ्गं धत्त इत्येकशृङ्गधरो हेमः सुवर्णकान्तिर्यस्य सः । नियुतयोजनो लक्षयोजनपरिमाणः ॥ ४४ ॥

निबध्य नावं तच्छृङ्गे यथोक्तो हरिणा पुरा ।

वरत्रेणाहिना तुष्टस्तुष्टाव मधुसूदनम् ॥ ४५ ॥

पदरत्नावली

वरत्रेण पाशेन । मधुवन्मधु संसारं सूदितवानिति मधुसूदनस् तम् ॥४५॥

सत्यधर्मीया

यथा येन प्रकारेणोक्तेः । अहिना शृृङ्गवद्भगवत्सृष्टसर्पेण । वासुकिनेति केचित् । तत्र मूलं न निभालयामः । वरत्रेण वरत्रेया चर्मनिर्मितपाशनामाप्यत्र पाशमात्रशंसकं वणिक् सार्थ इत्यादिवत्ज्ञेयम् । दूष्या कक्ष्या वरत्रा स्यादित्यमरव्याख्यायां गजमध्यबन्धक-चर्मपाशविशेष इति व्याख्यातत्वात् । कक्ष्यप्रेतिवद्वरत्रेणेति । मधुसूदनं सर्वावतारमूलाभेदा-देवमुक्तिः । मधु नदीजलमाधुर्यं सूदयति नाशयतीति स मधुसूदो लवणार्णवस्तत्र नेतेति नः । ‘ने नेता समुदीरित’ इत्येकाक्षररत्नमाला ॥ ४५ ॥

छलारी

तस्य मत्स्यस्य शृृङ्गे हरिणा पूर्वं यथोक्तस्तथा वरत्रेण दोरकरूपेण पाश-रूपेणेत्यर्थः । अहिना वासुकिना सर्पेण नावं निबध्द्य बद्ध्वा तुष्टः सन्तोषयुक्तस्तुष्टावास्तौत्

॥ ४५ ॥

राजोवाच–

अनाद्यविद्योपहतात्मसंविदस्तन्मूलसंसारपरिभ्रमातुराः१ ।

यदृच्छयेहोपसृता यमाप्नुयुर्विमुक्तिदो नः परमो गुरुर्भवान् ॥ ४६ ॥

पदरत्नावली

अनाद्यविद्योपहता आत्मसंवित् परमात्मज्ञानं येषां ते तथा । साऽविद्या मूलं कारणं यस्य स तन्मूलः । स च(असौ)संसारस्तन्मूलसंसारः । तस्मिन् परिभ्रमस्ततो आतुराः क्लिष्टा यदृच्छया पूर्वजन्मार्जितपुण्याभिमुखीभूतदैवेच्छया इह लोके विशिष्टजन्मोपसृताः पुरुषा यमाप्नुयुः स परमो गुरुर्भवान् नो विमुक्तिदोऽस्त्वित्यन्वयः ॥ ४६ ॥

सत्यधर्मीया

अनादिरविद्या भावरूपमज्ञानं तयोपहृता आवृता आत्मनः स्वस्य परमात्मनश्च संवित्ज्ञानं येषां ते तथा । तन्मूलोऽविद्यानिमित्तको यः संसारस् तस्मिन् यः परिभ्रमणो भ्रमणं पुनस्तेनातुराः । यः परिश्रमस्तेनातुरा वा । श्रमभ्रमपाठौ ससम्भ्रमौ । यदृच्छया स्वपूर्वकर्मार्जितया त्वदिच्छया । इह संसारे । उपसृता उपम् अधिकं गुरुमिति यावत् । सृताः प्राप्ताः । उपः सृतोधेरिति वा । ईहोपसृता इति । ईहो विषयेच्छा । उपसृता गता येषां त इति । यं भवन्तम् । आप्नुयुः सः परमो गुरुर्मुख्यगुरुर्भवान् । नो विमुक्तिदो भवत्विति शेषः । भव अन्निति पदं वा । अ इव विष्णुरिवाचरन्नन् तद्वदाचरणं च तस्यैवेति न भेदप्रतीति-विरोधः । स्वदृष्टान्तो हरेर्भवेदिति ऋग्भाष्योक्तेः । नः मुक्तिदो भवेत्यन्वयः । गुरुर्हि जगतो ब्रह्मेत्युक्तेः । सोऽपि गुरुरित्यतः पर इति । तर्हि वायुरपि क्वचिन्मुक्तिदाता श्रूयत इत्यतोऽप्याह । गुरुर्वायुर्मुक्तिदात्त्वत्त ऊनो न्यूनो हीनगुण इति गुरुरेव । त्वं तु परमो गुरुरिति वा । ‘विष्णुर्हि दाता मोक्षस्य वायुश्च तदनुज्ञया’ इत्यादेः । मुक्तिविरुद्ध इति विमुक्तिः संसारस्तं द्यति खण्डयतीति स तथेति वा । अनाद्यविद्या उपहता यया सा च । सा संविदपरोक्षज्ञानं च तस्याः सकाशाद्यदृच्छयाऽऽयातां प्रदायेति वा विमुक्तिद इत्यन्वयो वा ॥ ४६ ॥

छलारी

सागरं तारयिष्यन्तं तरिष्यन् भवसागरं सत्यव्रतो गुरुत्वेन तुष्टाव हरिमष्टभिः । तत्र नानायोनिषु संसरतः स्वस्य भगवत्कृपयैव तत्प्राप्तिं दृष्ट्वा मुक्तये तमेव प्रार्थयते ॥ अनादीति ॥ अनादिर्याऽविद्या भावरूपमज्ञानं तयोपहृता आवृता आत्मनः परमात्मनः संवित्ज्ञानं येषां ते तथा । अत एवाविद्यैव मूलं कारणं यस्य सस्तन्मूलः । तादृशे संसारे नानायोनिरूपे परिभ्रमः सर्वत्र संचरणं तेनातुराः क्लिष्टाः पुरुषा यदृच्छया हरेरनुग्रहेणैवेह संसारे विशिष्टं जन्मोपसृताः प्राप्ताः सन्तो यं त्वामाप्नुयुः स परमो मुख्यो गुरुर्ज्ञानोपदेष्टा भवान्नो विमुक्तिदोऽस्त्वित्यन्वयः ॥ ४६ ॥

जनोऽबुधोऽयं निजकर्मबन्धनः

सुखेच्छया कर्म समीहतेऽसुखम् ।

यत्सेवया तां विधुनोत्यसन्मतिं ग्रन्थिं

विभिन्द्याद् हृदये स नो१ गुरुः ॥ ४७ ॥

पदरत्नावली

कर्मनिर्मूलं भगवत्सेवयेत्याह– जन इति ॥ आत्मीयकर्मणा बन्धनं यस्य स तथा अयमबुधो जनः सुखमाष्नवानीतीच्छया कर्म समीहते ततोऽसुखं दुःखमाप्नोति इति यत् ततोऽबुधो जनो यस्येश्वरस्य सेवया कर्मविषयामसम्मतिं विधुनोति, अतः कर्मनिर्मूलनं चाप्नोति । गुरुर्ज्ञानोपदेष्टा । स नो हृदये स्थितां ग्रन्थिं कर्मपाशकृतां भिन्द्यादित्यन्वयः ॥ ४७ ॥

सत्यधर्मीया

पूर्वोक्तं सपरिकरमीरियति ॥ जन इति ॥ अयमबुधोऽज्ञानी जनो निजकर्मबन्धनो निजं स्वकृतं कर्मैव बन्धनं वा यस्य स तथा । सुखेच्छया तत्प्राप्त्यपेक्षया पुनः कर्म समीहते करोति । तदप्यसुखं न विद्यते सुखं यस्मात्तदसुखम् । सुखयतीति वा सुखम् । तन्न भवतीति वाऽसुखम् । ताम् अबुध इति बोधितामसन्मतिम् । यत्सेवया यस्य तव सेवया विधुनोति स भवान् । गुरुर्हृदये विद्यमानं ग्रन्थिम् । असन्मतिहेतुभूतां विभिन्द्यात् । लोके गुरु-रेकोऽपरः फलदाता । त्वं न तथाऽत्रेत्यप्याह ॥ स न इति ॥ फलं योग्यतानुकूलं विभज्य दाता भवानेवेति सनो गुरुर्मुख्यो गुरुर्भवतीत्यर्थः । वनषणसम्भक्तौ सनि दातेति ऋग्भाष्योक्तेः

॥ ४७ ॥

छलारी

ननु वैराग्यं विना कुतो मुक्तिरिति चेत्तर्हि तस्यापि त्वत्सेवयैव लभ्यत्वा-त्त्वत्सेवामेवादिशेत्याशयवान् संसारकारणाविद्यानाशं च प्रार्थयते ॥ जन इति ॥ निज-कर्मणाऽऽत्मकर्मणा बन्धनं यस्य सः । अयमबुधोऽज्ञानी जनः सुखं प्राप्नुयामीतीच्छयाऽसुखं दुःखं यथा भवति तथा कर्म समीहिते । सुखापेक्षया दुःखसाधनं कर्म करोतीत्यर्थः । ज्ञानी तु यस्य हरेः सेवया तामसन्मतिं विषयसुखेच्छाम् । दुष्कर्मविषयां मतिं वा । विधुनोति । स गुरुर्नो हृदयं हृदयाख्यं ग्रन्थिमविद्याकर्मपाशलक्षणं वा विभिन्ध्यात् ॥ ४७ ॥

यत्सेवयाऽग्नेरिव रुद्ररोदनं पुमान् विजह्यान्मलमात्मनस्तमः ।

भजेत वर्णं निजमेष सोऽव्ययो भूयात् स ईशः परमो गुरोर्गुरुः ॥ ४८ ॥

पदरत्नावली

एष पुमान् यत्सेवया आत्मनस्तमोलक्षणं मलं विजह्याज् जहाति निजं वर्णं परमात्मगतिम् आनन्दस्वरूपं च भजेत भजते । कथमिव ? अग्निदाहलक्षणसेवया रुद्ररोदनं हिरण्यं स्वमलं दशविधं जहाति निजवर्णं शास्त्रसिद्धं स्वरूपं भजति यथा तथेत्यर्थः । किञ्च स जीवः पुनरव्ययोऽसंवृत आवरणरहितो भवति । वेञ् संवरण इति धातोः । गुरोर्गुरुः स परमो नो मुक्तिदो भूयादित्यन्वयः । ईशः मुक्तिदानसमर्थः । ईर्लक्ष्मीस् तस्याः शं यस्मात् स इति वा । ‘जातरूपं श्रीमुकुटं हिरण्यं रुद्ररोदनम्’ इत्यभिधानम् । स भगवानव्यय इति वा ॥ ४८ ॥

सत्यधर्मीया

विवित्सापरवशो नानानिदर्शनमुखेन ज्ञानमेवार्थयते ॥ यत्सेवयेति ॥ यत्सेवया एष पुमान् अधिकारी जन आत्मनः स्वस्य तमोऽज्ञानं विजह्यात् । अथ चाव्ययो नाशशून्यः । मुक्त इति यावत् । भूयात् स ईशो लक्ष्मीसुखकृत् । ‘ईकारः कज्जले लक्ष्म्यां वाण्यां कमलकेसर’ इति चैकाक्षरकौमुदी । गुरोर्ब्रह्मणश्च गुरुः परमो महाज्ञानी महासम्पद्वा । अग्ने-स्तत्तापतो रुद्ररोदनं सुवर्णम् । आत्मनो मलमौपाधिकं विजह्यान्निजं वर्णं भजेत च तथेति । भूयाद्भवानीशो गुरुरिति वा ग्रन्थिं भिन्द्यादिति वाऽन्वयः । ‘जातरूपं श्रीमुकुटं हिरण्यं रुद्ररोदनम्’ इत्यभिधानम् । वर्णं वरानन्दात्मकं रूपं भजत इत्यप्यन्वयः । सोऽरोदीद्यदरोदीत्तद्रुद्रस्य रुद्रत्वम् । ‘यदवशीर्यत तद्रजतं हिरण्यमभवत्’ इति श्रुते रजतमिति वा ॥ ४८ ॥

छलारी

ननु यज्ञदानादिभिरन्तःकरणशुद्धिं विना कथं हृदयग्रन्थिर्भेद्यः स्यात्तत्राह ॥ यत्सेवयेति ॥ यस्य हरेः सेवयैव पुमान् अधिकारी । आत्मनः स्वमनसस्तमस्तमोगुणकार्यं मलं रागद्वेषादिरूपं दोषं विजह्यात्त्यजेत् । एषः क्षीणमलः पुमान् निजं स्वरूपभूतं स्ववर्णमानन्दं च भजेत्प्राप्नुयात् । ईशो मुक्तिदानसमर्थो गुरुः परः सर्वोत्तमो हरिर्नोऽव्यय आवरणरहितः प्रत्यक्षी-भूयात् । व्यञ् संवरण इति धातोः । मलहानौ दृष्टान्तः । रुद्ररोदनम् । हिरण्यं, ‘जातरूपं श्रीमुकुटं हिरण्यं रुद्ररोदनम्’ इति वचनात् । यथाऽग्नेः सम्बन्धान्मलं जहाति । स्वं वर्णं विभजते । न तु क्षालनादिभिः । तथा न यज्ञादिभिर्मलत्यागः । किन्तु त्वत्सेवयैव । इतरेषां तु सेवांगं त्वमेवेति भावः ॥ ४८ ॥

न यत्प्रसादायुतभागलेशमन्ये च देवा गुरवो जनाः स्वयम् ।

कर्तुं समेताः प्रभवन्ति पुंसस्तमीश्वरं त्वां शरणं प्रपद्ये ॥ ४९ ॥

पदरत्नावली

अन्ये देवा अन्यो गुरवो जनाश्च स्वयं समेता मिलिताः पुंसो(वा)यस्य हरेः प्रसादायुतभागलेशं कर्तुं न प्रभवन्ति, तदनुग्रहमन्तरेणेति शेषः । अहं तं त्वामीश्वरं शरणं यामीत्यन्वयः ॥ ४९ ॥

सत्यधर्मीया

यद्यपि सन्ति पुरवो गुरवस् तथाऽपि ते लघव इति श्लाघापदं त्वमेवेति शरणकरणीय इत्याह ॥ नेति ॥ अन्ये देवा गुरव उपदेशकाः कर्तुं समेता मिलिताः । अनेनैक एकोऽसमर्थश्चेदपि यथा जातीफलादेरेकैकस्या मदजनकत्वेऽपि मदिराद्रव्यस्य च सम्भूय मद-जनकता । तथा सम्भूय भूयासुः समर्था इति नैवेशा इति सूचयति । यत्प्रसादायुतभागलेशं यस्य तव प्रसादस्य दशसहस्रभागस्ततोऽपि लेशं पुंस उपरि कर्तुं न प्रभवन्ति न समर्था भवन्ति । तमीश्वरं त्वां शरणं प्रपद्ये । स्वयमित्यनेनैतेऽपि सम्पादितत्वत्कृपाश्चेत् प्रभवन्ति किञ्चित्त्वद्वारेति सूचयति । एतेन ऋषयो नौकौकसो बहवः सन्ति सन्तः । किं मां पृच्छसीति भगव-त्सम्भवच्छङ्कोत्तरितेति ज्ञेयम् ॥ ४९ ॥

छलारी

सर्वोत्तमत्वं प्रपञ्चयन्नाह ॥ नेति ॥ अन्ये च देवा गुरवो जनाश्च सर्वे समेता मिलिता अपि पुंसः पुरुषस्य स्वयं हरेर्निरपेक्षाः सन्तो यस्य हरेः प्रसादादस्य प्रसादजन्य-फलस्यायुतभागस्तस्य लेशमात्रमपि कर्तुं न प्रभवन्ति न समर्थाः । तमीश्वरं त्वां शरणं प्रपद्ये

॥ ४९ ॥

अचक्षुरन्धस्य यथाऽग्रणीः कृतस्तथा जनस्याविदुषो बुधो गुरुः ।

त्वमर्थदृक् सर्वदृशां समीक्षणो वृतो गुरुर्नः सुगतिं विवित्सताम् ॥ ५० ॥

पदरत्नावली

यथाऽन्धस्य पुंसः सचक्षुर्दृष्टिमानग्रणीर् अग्रतो गन्ता कृतः, यथा चाविदुषो जनस्य बुधो जनो गुरु कृतः शास्त्रविशारदैरिति शेषः । यथा सुगतिं बुभुत्सतां बोद्धु-मिच्छतां नोऽर्थदृक् पुरुषार्थद्रष्टा सर्वदृशां सर्वेन्द्रियाणां समीक्षणः साक्षी त्वं गुरुर्वृतः ज्ञानोप-देशकत्वेनेति शेषः । अचक्षुरिति पाठे अयमर्थः । त्वामन्तरेणेतरेषां गुरुत्वं पुरुषार्थानुपयोगि सम्यग् ज्ञानहीनत्वादित्याह– अचक्षुरिति ॥ यथान्वस्याचक्षुषोऽचक्षुरन्धोऽग्रणीः कृतो भवति यथाऽविदुषो जनस्याबुध एवं गुरुर्भवति । ‘अन्धेनैव नीयमाना यथाऽन्धाः’ ‘उभावप्यश्रुत-ग्रन्थावुभावपि जडात्मकौ’ इत्यादिश्रुतिस्मृतिभ्यः । त्वं चार्थिदृक् शिष्यस्यापेक्षितपुरुषार्थदर्शी । कुतः ? दर्शनसाधनत्वेन दृश इन्द्रियाणि तेषां साक्षित्वादस्माकं गुरुत्वेन वृत इति ॥ ५० ॥

सत्यधर्मीया

व्यतिरेकमुखेन तवैव गुरुत्वमित्याह ॥ अचक्षुरिति ॥ यथाऽन्धस्य चक्षूरहितस्य । अचक्षुर्न विद्यते चक्षुर्यस्य । सोऽग्रणीः पुरतो नेता । कृतश्चेन्नाभिमतगति-सिद्धिः । यथा वा अविदुषो जनस्याबुधोऽज्ञान्येव कृतो गुरुर्नार्थस्तेन । न तथा । त्वं त्वर्थं नित्यपुमर्थं दर्शयतीत्यर्थदृक् । सर्वदृशां तत्तद्विषयज्ञानामिन्द्रियाणामित्यर्थः । सम्यगप्रतिहतमीक्षणं यस्य समीक्षयतीति वा स तथा । साक्षीति यावत् । सुगतिं प्राप्य उत्तमं विवित्सतां ज्ञातुमिच्छतां नो गुरुर्वृतः । अन्धेनैव नीयमाना यथा इत्यादिश्रुतेः । अन्वयेनापि तदाह ॥ सचक्षुरिति ॥ अन्धस्य सचक्षुश्चक्षुष्मान् यथाऽग्रणीः कृतो मार्गं दर्शयति । यथाऽविदुषे जनस्य । बुधो गुरुः सन् तत्वमवगमयति । तथा त्वमिति सचक्षुरिति पाठेऽर्थः ॥ ५० ॥

छलारी

त्वामन्तरेणेतरेषां गुरुत्वं नपुरुषार्थोपयोगि सम्यग्ज्ञानहीनत्वादित्यनेन दृष्टान्तेन स्पष्टयन्नाह ॥ अचक्षुरिति ॥ यथांऽधस्य चक्षूरहितस्य पुरुषस्याचक्षुश्चक्षूरहितः पुरुषोऽग्रणी-रग्रतो गन्ता कृतो भवति । यथाऽविदुषोऽज्ञानिनोजानस्याबुध एवाविद्वानेव गुरूपदेष्टा भवति । ‘अन्धेनैव नीयमाना यथांऽधा’ इति श्रुतेः । ‘उभावप्यश्रुतग्रन्थावुभावपि जडात्मकौ’ इति स्मृतेः । त्वं तु तादृशो न भवसीत्याह ॥ त्वमिति ॥ त्वं त्वर्थदृक् शिष्यस्यापेक्षितपुरुषार्थ-दर्शी । सर्वदृशाम् । अत्र दृग्शब्देन ज्ञानसाधनानीन्द्रियाणि गृह्यन्ते । सर्वेन्द्रियाणां समीक्षणः प्रकाशः साक्षी वा । अतः स्वगतिं स्वप्राप्यं बुभुत्सतां बोद्धुमिच्छतां नोऽस्माकं त्वं गुरु-र्वृतोऽसि । सचक्षुरिति पाठे यथांऽधस्य सचक्षुरग्रणीः कृतः । यथाऽविदुषो जनस्य बुधो गुरुः कृतः शास्त्रविशारदैः । तथा त्वमस्माभिर्गुरुर्वृतोऽसीत्यर्थो बोध्यः ॥ ५० ॥

लिङ्घेरी

ननु यं कञ्चन गुरुमकृत्वा गुरुतमत्वेन मत्स्तुतिः किं क्रियत इत्यत आह ॥ सचक्षुरिति ॥ यथाऽन्धस्य पुरुषस्य सचक्षुः पटुतरचक्षुष्मान्नग्रणीरग्रे गच्छन्नायकः कृतो, यथा वाऽबुधस्य परापरज्ञानशून्यस्य बुधस्तत्त्वज्ञानी गुरुः कृतः । शास्त्रज्ञानादिविवेकिभिरिति शेषः । तथा सर्वदृशां ज्ञानानामर्थान्विषयान्साक्षात्पश्यतीति दृक् । समीक्षणोऽबाधिततया समीचीन-ज्ञानिनस्तत्त्वं सुगतिं बोद्धुमिच्छतां नो गुरुः कृतः ॥ ५० ॥

जनो जनस्यादिशतेऽसतीं गतिं यया प्रपद्येत दुरत्ययं तमः ।

त्वमव्ययं ज्ञानममोघमञ्जसा प्रपद्यते येन जनो निजं पदम् ॥ ५१ ॥

पदरत्नावली

एतदेव विवृणोति- जन इति ॥ जनो जननाद्यभिमानी । तादृशस्य जनस्यासतीं गतिम् इहामुत्र चोरुफलदं ज्ञानमादिशति । यया येन ज्ञनेन दुरत्ययं तमः नित्य-दुःखात्मकमन्धन्तमः प्राप्नोति, तादृशमिति शेषः । यथेति पाठे यथोपदिष्टेन दुरत्ययं तमः प्राप्येत तथोपदिशति न सन्नासन्न सदसदित्यद्याकारेणेत्यर्थः । ‘अन्धन्तमः प्रविशन्ति’ इतीशावास्यश्रुतेः । जनो येन ज्ञानेन निजं पदं निर्दोषत्वेन त्वद्रूपसदृशं सच्चिदानन्दलक्षणमञ्जसा अव्यवधानेन प्रपद्यते यच्चाव्ययमक्षयं यच्चामोघमव्यभिचारितया फलसमर्पकं त्वं तदेव ज्ञानमादिशसीत्यन्वयः ॥ ५१ ॥

सत्यधर्मीया

जनः पामरः पामरस्यासतीममङ्गलां गतिं कुगतिम् । आदिशते आदि-शति । उपदिशति यथा । अन्यथामत्या दुरत्ययं केनापि प्रकारेणातिक्रमणीयं तमः प्रपद्येत । प्राप्नुयात् । तदसदुपदेशेन दुर्गतिरेव तस्य भवतीति भावः । जनः सन् येन निजं स्वस्वरूप-भूतज्ञानादिमद्यत्पदं वैकुण्ठादि प्रपद्यते तादृशमव्ययमनावृतममोघं ज्ञानं तत्साधनम् । अञ्जसा दिशसीति नो गुरुर्वृत इति पूर्वेणान्वयः । तुश्च तस्माद्विशेषक इति ज्ञेयम् ॥ ५१ ॥

छलारी

किञ्च प्राकृतो गुरुश्चानर्थहेतुरित्याह ॥ जन इति ॥ जनोऽज्ञो गुरुरसतीं मति-मर्थकामादिविषयिणीं मतिमादिशते उपदिशति । यया मत्या दुरत्ययं तमः संसारं प्रपद्येत तादृशीमित्यर्थः । यद्वा । असतीं विपरीतां मतिं यया विपरीतबुद्ध्या दुरत्ययं पुनरावृत्तिवर्जितं तमो नित्यदुःखात्मकमन्धन्तमः प्रपद्येतेति । ‘अन्धन्तमः प्रविशन्ति येऽविद्यामुपासत’ इति श्रुतेः । त्वं तु येन ज्ञानेन जनो निजं पदं चिदानन्दरूपं प्रपद्यते तादृशमव्ययं नाशरहितममोघं फलाव्यभिचारि । अंजसा समीचीनज्ञानमुपदिशसीत्यर्थः ॥ ५१ ॥

लिङ्घेरी

इतोऽपि त्वमेव गुरुत्वेन मुख्यतो वरणीयो नान्यो जन इत्याह ॥ जन इति ॥ सोऽज्ञत्वेन प्रसिद्धो जनो जिज्ञासुजनो यया गत्या ज्ञानेन दुरत्ययं तर्तुमशक्यमन्धन्तमो यथा प्रपद्येत । तस्य जनस्य तथा त्वमसर्वोत्तमोऽस्वतन्त्रो जीवाभिन्न इत्याद्ययथार्थामेव गतिमादिशत्युपदिशति । त्वं तु त्वमेव मयः प्रधानो यस्मिंस्तत्ज्ञानमुत्तमः पुरुषस्त्वन्य इत्यादिरूपेणादिशसि । उपदिष्टेन येन ज्ञानेन मोक्षयोग्यो जनो निजं स्वस्वयोग्यं पदं वैकुण्ठादि-स्थानमंजसा प्रपद्यते । ‘अन्धन्तमः प्रविशन्ति येऽविद्यामुपासते’ इत्यादिश्रुतेः । सुखज्ञानादि-रूपिणो ‘यथार्थस्य परिज्ञानात् सुखज्ञानादिरूपतां याति’ इत्यादि स्मृतेश्च ॥ ५१ ॥

त्वं सर्वलोकस्य सुहृत् प्रियेश्वरो ह्यात्मा गुरुर्ज्ञानमभीष्टसिद्धिः ।

तथापि लोको न भवन्तमन्धधीर्जानाति सन्तं हृदि बद्धकामः ॥ ५२ ॥

पदरत्नावली

इतोऽपि त्वदुपदिष्टज्ञानमेवापेक्षितपुरुषार्थसाधनं नान्यत्, अनिमित्त-बन्धुत्वादिगुणपूर्णत्वेन सिद्धत्वेन वञ्चनाशङ्कानास्पदत्वादित्याशयेनाह– त्वमिति ॥ सुहृ-त्प्रत्युपकारशून्यः प्रियश्चेश्वरश्च । विषयसुखस्यापीश्वर इति वा । आत्मा पूर्णानन्दः । गुरु-र्ज्ञानोपदेष्टा । जानातीति ज्ञानम् । अभीष्टसिद्धिरपेक्षितपुरुषार्थसाधकः । लोकः सुहृत्वादि-गुणवन्तं कुतो न जानातीति तत्राह– तथापीति ॥ यद्यप्यनिमित्तबन्धुस्तथापि लोके भवन्तं न जानाति । अन्धधीर् नष्टज्ञानत्वात् । ज्ञाननाशः, कस्मादित्यत उक्तं हृदीति ॥ दूरस्थत्वान्न तज्ज्ञानमित्यत उक्तम्– सन्तमिति ॥ हृदीत्येतदुभयत्र योज्यम् ॥ ५२ ॥

सत्यधर्मीया

नैकेन गुरुत्वेन किन्तु सर्वप्रकारेण त्वं वृतो न वृतश्चेतरैरित्याह ॥ त्वमिति ॥ सर्वलोको ज्ञानिजनो तस्य सुहृद् अनिमित्तबन्धुः प्रियस्तत्कर्मादि कारयित्वा प्रीतिकर्ता चासावीश्वरः समर्थश्च । आत्मा स्वामी गुरुः । ज्ञानम् । सर्वज्ञो ज्ञानरूपी वा । अभीष्टसिद्धिरभीष्टस्य मोक्षादेः सिद्धिर्यस्मात्स तथा । न दूरे वर्तस इत्याह । तथाऽपि हृदि सन्तं भवन्तं बद्धकाम इतरविषयसम्बद्धः । काम इच्छा यस्य स तथोक्तः । अन्धधीर्मन्दबुद्धिः । न जानाति । अन्धेन बोधकेन धीर्यस्य स इति वा । उभावप्यश्रुतग्रन्थावित्यादेरिति । लोका ऊना यस्मात्स लोकोनो लोकविलक्षणः । स चासौ भवांश्च तं न जानाति । एवं न जानातीति वा ॥ ५२ ॥

छलारी

त्वमुपदिष्टज्ञानमेवापेक्षितपुरुषार्थसाधनं न चान्यत् । अनिमित्तबन्धुत्वादि गुण-पूर्णत्वादित्याशयेनाह ॥ त्वमिति ॥ सुहृदनिमित्तोपकारी प्रियश्चासावीश्वरश्चात्मा पूर्णानन्दो गुरुर्ज्ञानोपदेष्टा जानातीति ज्ञानं सर्वज्ञोऽभीष्ठस्य सिद्धिः साधकः । ननु लोकसुहृत्वादिगुणवन्तं मां कुतो न जानाति सर्वोऽपि जन इत्यत आह ॥ तथाऽपीति ॥ यद्यप्यनिमित्तबन्धुस्तथाऽपि लोको हृदि सन्तं विद्यमानं भवन्तं न जानाति । कुतो ऽन्धा नष्टा धीर्ज्ञानं यस्य सः । नष्ट-ज्ञानत्वात् । ज्ञाननाशः कस्मात् । हृदि बद्धाः कामा येन सः । विषयासक्तत्वादित्यर्थः ॥५२॥

लिङ्घेरी

कामक्रोधादिदोषपरित्यागमन्तरेण स्वहृदि संनिहितपरमात्मज्ञानं दुःशकमित्या-शयेनाह ॥ त्वमिति ॥ हे भगवन् । त्वं सर्वस्य जनस्य सुहृत् तत्कर्मानुसारेणोपकार्यत एव प्रिय ईश्वरः स्वामी, आत्माऽन्तर्नियामको बहिरपि व्यासादिरूपेण गुरुर्ज्ञानप्रदो ज्ञानमेवोप-दिशसि । तेनाभीष्टसिद्धिप्रदश्च यद्यपि तथाऽपि मन्दधीर्लोको जनः स्वस्य हृदि नियामकत्वेन बद्धं स्थिरं सन्तं विद्यमानं भवन्तं न जानाति ॥ ५२ ॥

तं त्वामहं देववरं वरेण्यं प्रपद्य ईशं प्रतिबोधनाय ।

छिन्ध्यर्थदीपैर्भगवन् वचोभिर्ग्रन्थिं हृदय्यां विवृणु स्वमोकः ॥ ५३ ॥

पदरत्नावली

इदानीं स्वार्थं प्रकाशयति– तं त्वामिति ॥ प्रतिबोधनाय त्वत्स्वरूप-विषयज्ञानायाहं यो ज्ञानोपदेष्टुत्वादिगुणोपेतस्तं त्वां शरणं प्रपद्य इत्यन्वयः । देवोत्तमत्वादयमेव शरण्य इति भावेनोक्तम्- देववरमिति ॥ सौन्दर्यादिगुणाभावे न त्वद्भक्तिरुदेतीति भावेनोक्तम्- वरेण्यमिति ॥ हृदय्याम् अहङ्कारसम्भूतां ग्रन्थिम् अर्थस्य दीपकैः प्रकाशकैः । किञ्च स्वमोकः स्वस्वरूपं स्वाश्रयं वैकुण्ठं वा विवृणु प्रकाशयेत्यन्वयः । ‘ओकसी मन्दिराश्रयौ’ इति च

॥ ५३ ॥

सत्यधर्मीया

इदानीं महिमानं मदीयं च परं ब्रह्मेति शब्दितम् । वेत्स्यस्यनुगृहीतं मे सम्प्रश्नैर्विवृतं हृदीति यत्त्वयोक्तं तन्न विस्मर स्मरतातेति तदेवार्थयते ॥ तं त्वेति ॥ देववरं वरेण्यं गतं वरणीयम् । ईशमेतन्ममेच्छेशनशीलं त्वामहं प्रपद्ये । प्रयोजनमाह । प्रतिबोधनाय त्वज्ज्ञानाय । हृदय्यं तत्र स्थितं ग्रन्थिम् । अर्थदीपैरर्थं दीपयन्ति प्रकाशयन्तीति तानि तै-र्वचोभिः प्राक् छिन्धि भिन्दि । अनन्तरं स्वमोकः स्वस्वरूपं वैकुण्ठादिकं वा । मम स्वरूपं वा । विवृणु विवृतं कुरु । विदिताभिप्रायं प्रत्यपि स्वाभिप्रायं भृत्यकृत्यमिति विज्ञापयति ॥ तमिति ॥ त्वद्वचोभिर्मदीयं महिमानं चेति । त्वद्वचनांजल्या गमनादिभिः प्रतिबोधनाय प्रपद्य इति वाऽन्वयार्थौ ॥ ५३ ॥

छलारी

इदानीं स्वाभिप्रायं प्रकाशयति ॥ तं त्वामिति ॥ अहं तं त्वां प्रतिबोधनाय त्वद्विषयकज्ञानाय शरणं प्रपद्ये । देवोत्तमत्वात्त्वमेव शरण्य इति भावेनोक्तम् ॥ देववरमिति ॥ सौंदर्यादिगुणाभावे त्वद्भक्तिर्नोदेतीति भावेन ॥ वरेण्यमिति ॥ ईशं पुरुषार्थदाने समर्थम् । हे भगवन् । अर्थदीपैः परमार्थप्रकाशकैर्वचोभिर्मन्मना भव मद्भक्त इत्यादिरूपैर्हृदिस्थान् हृदि विद्यमानान् ग्रन्थीन् अहंकारादीन् छिन्धि । तथा स्वमोकः स्वस्वरूपमाश्रयं वैकुण्ठं वा विवृणु प्रकाशय ॥ ५३ ॥

लिङ्घेरी

हे मत्स्य । त्वां ज्ञानोपदेष्टृत्वादिगुणगणशालिनं ब्रह्मादिदेवोत्तममत एवान्य-परित्यागेन वरेण्यं भजनीयमीशमघटितघटनासमर्थं त्वां मां प्रतिबोधनाय प्रपद्ये । हे भगवन् । अर्थदीपैः परापरार्थप्रकाशकैर्वचोभिर्वाक्यैर्मम हृदय्यां ग्रन्थिं छिन्धि । अनन्तरं स्वं स्वकीयमोकः स्वरूपं विवृणु प्रकाशय । ‘यमेवैष वृणुते तेन लभ्यस्तस्यैष आत्मा विवृणुते तनूं स्वाम्’ इत्यादिश्रुतौ तवैवंविधमहिम्नोऽवगतत्वादित्याशयः ॥ ५३ ॥

श्रीशुक उवाच—

इत्युक्तवन्तं नृपतिं भगवानादिपूरुषः ।

मत्स्यरूपी महाम्भोधौ विहरंस्तत्वमब्रवीत् ॥ ५४ ॥

सत्यधर्मीया

विहरन् कीडन् । तत्त्वं रहस्यप्रमेयम् ॥ ५४ ॥

छलारी

नृपतिं प्रति महाम्बोधौ प्रलयसमुद्रे तत्त्वं स्वरूपमब्रवीत् ॥ ५४ ॥

लिङ्घेरी

आदिपुरुषो मत्स्यरूपी भगवान् प्रलयसमुद्रे क्रीडन् इत्युक्तवन्तं नृपतिं सत्यव्रतं प्रति तत्त्वमब्रवीत् ॥ ५४ ॥

पुराणसंहितां दिव्यां साङ्ख्ययोगक्रियावतीम् ।

सत्यव्रतस्य राजर्षेरात्मगुह्यमशेषतः ॥ ५५ ॥

पदरत्नावली

साङ्ख्ययोगक्रियावतीं ज्ञानभक्तिकर्मयोगवतीं पुराणसंहितामब्रवीत् । इदं श्रद्धेयमिति भावेनोक्तम्– आत्मगुह्यमिति ॥ ‘आचार्यस्तु ते गतिं वक्ता’ इतिवदुपदिष्ठैव शिष्टं नास्तीत्यत उक्तम्– अशेषत इति ॥ ५५ ॥

सत्यधर्मीया

किमात्मकं तदित्यत आह ॥ पुराणेति ॥ साङ्ख्ययोगक्रियावतीं शुद्धात्मतत्त्वविज्ञानोपायकर्मयोगवतीं पुराणसंहितां मत्स्यपुराणम् । राजर्षेरिति श्रोत्रानुकूल्यहेतुः । आत्मगुह्यमित्यनेन वक्तृविप्रलिप्सोक्ताम् । अशेषत इत्येतद्योग्यं समग्रमित्यर्थः ॥ ५५ ॥

छलारी

तदेव विवृणोति ॥ पुराणेति ॥ सांख्ययोगो ज्ञानयोगः क्रिया भक्तियोग-स्तत्प्रतिपादिकां दिव्यां पुराणसंहितां मत्स्यपुराणमब्रवीदित्यन्वयः । यथाऽशेषत आत्मगुह्य-मात्मरहस्यं च ॥ ५५ ॥

लिङ्घेरी

मत्स्यः साङ्ख्ययोगक्रियावतीं ज्ञानभक्तिकर्मयोगयुक्तां पुराणसंहितामब्रवीत् । तथा सत्यव्रतराजर्षेरात्मगुह्यं गोप्यं स्वस्वरूपमपि सत्यव्रतयोग्यतामपेक्ष्याशेषतो निःशेषं यथा तथाऽब्रवीत् ॥ ५५ ॥

अश्रौषीद् ऋषिभिः साकमात्मतत्वमसंशयम् ।

नाव्यासीनो भगवता प्रोक्तं ब्रह्म सनातनम् ॥ ५६ ॥

पदरत्नावली

नावि जलयाने ॥ ५६ ॥

सत्यधर्मीया

असंशयं यथा तथा भगवता प्रोक्तं सनातनं ब्रह्मोद्दिश्य तदात्मतत्त्वम् । प्राक् स्वाज्ञातमिति रहस्यम् । ऋषिभिः साकम् । नावि नौकायाम् । आसीनोऽश्रौषीच्छुश्राव

॥ ५६ ॥

छलारी

ऋषिभिः साकं नावि पृथिवीस्थायाम् । अश्रौषीत् श्रुतवान् ॥ ५६ ॥

लिङ्घेरी

नाव्यासीनः प्लव उपविष्टः सत्यव्रतो ऋषिभिः सह भगवता मत्स्येन प्रोक्तं ब्रह्माश्रौषीच्छतवान् ॥ ५६ ॥

अतीते प्रलयापाय१ उत्थिताय च वेधसे ।

हत्वाऽसुरं हयग्रीवं वेदान् प्रत्याहरद् हरिः ॥ ५७ ॥

पदरत्नावली

प्रलयानामपाये अतीते सति तद् उत्थिताय वेधसे ब्रह्मणे प्रत्याहरद् दैत्याहृतांस्तान् ज्ञात्वा प्रत्याहृत्य दत्तवानित्यर्थः ॥ ५७ ॥

सत्यधर्मीया

प्रलयापाये प्रलयाद्योऽपायः स्वोपलक्षणस्तस्मिन्नतीते गते सति । अतीतप्रलयापाये इति पाठेऽतीतः पूर्वः यः प्रलयस् तस्यापाये समाप्तौ । उत्थिताय वेधसे विधये । वेदान् प्रत्याहरत् । तदभिमानिनस्तद्व्यावृतान्कृत्वा तदधीनांश्चकारेति भावः । अयमन्यो मात्स्योऽवतार इत्युत्थितायेत्यादि सम्भवि ॥ ५७ ॥

लिङ्घेरी

प्रलयलक्षणापत्कालेऽतीते सति उत्थिताय निद्रामुक्ताय वेधसे चतुर्मुखाय हयग्रीवमसुरं हरिर्मत्स्यरूपी हत्वा वेदान्प्रत्याहृत्य दत्तवान् ॥ ५७ ॥

स तु सत्यव्रतो राजा ज्ञानविज्ञानसंयुतः ।

विष्णोः प्रसादात् कल्पेऽस्मिन्नासीद् वैवस्वतो मनुः ॥ ५८ ॥

सत्यधर्मीया

ज्ञानविज्ञानसंयुतः ज्ञानं सामान्यं विज्ञानं स्वयोग्यविशेषज्ञानं ताभ्यां युतः विष्णोर्मत्स्यात्मकस्यास्मिन्वर्तमाने कल्पे वैवस्वतो मुनरासीदित्यन्वयः ॥ ५८ ॥

छलारी

स तु सत्यव्रतो ज्ञानं साधारणं विज्ञानं स्वयोग्यं ज्ञानं ताभ्यां संयुतो विष्णो-र्मत्स्यरूपिणः । अस्मिन्वर्तमाने कल्पे मनुकल्पे । वैवस्वतो मनुः ॥ ५८ ॥

लिङ्घेरी

स सत्यव्रतो राजा मत्स्यस्य विष्णोः प्रसादाज् ज्ञानविज्ञानसंयुतः सन् अस्मिन्वैवस्वतो मनुरासीत् ॥ ५८ ॥

सत्यव्रतस्य राजर्षेर्मायामत्स्यस्य शार्ङ्गिणः ।

संवादं महदाख्यातं श्रुत्वा मुच्येत किल्बिषात् ॥ ५९ ॥

सत्यधर्मीया

महतो भगवत्स्वरूपस्थानं यस्मिन्स तम् । संवादं श्रुत्वा स्थितः किल्बिषात् पापान् मुच्यते ॥ ५९ ॥

छलारी

मायामत्स्यस्य माययेच्छया मत्स्यरूपस्य संवादं प्रश्नोत्तररूपं महदाख्यान-मितिहासम् । किल्बिषात्पापसमुदायात् ॥ ५९ ॥

लिङ्घेरी

एतदाख्यानश्रवणफलमाह । सत्यव्रतस्य राजर्षेर्मायामत्स्यस्य शार्ङ्गिणो नारायणस्य संवादरूपं महदाख्यानं श्रुत्वा किल्बिषान्सुमहान्मुच्येतेति ॥ ५९ ॥

अवतारं हरेर्योऽमुं कीर्तयेदन्वहं नरः ।

सङ्कल्पास्तस्य सिध्द्यन्ति प्रयाति परमां गतिम् ॥ ६० ॥

पदरत्नावली

संवादस्य पापहरत्वे अवतारकथाकीर्तनेन किं प्रयोजनमाह– अवतार-मिति ॥ अस्तु श्रवणफलं कीर्तनेन किं फलमित्यतो वाह– अवतारमिति ॥ ६० ॥

सत्यधर्मीया

संवादस्त्वस्तु पापहर इत्यादरणीयः कुतोऽवतारचरितकीर्तनमित्यत आह ॥ अवतारमिति ॥ यः कीर्तयेत् । तस्य सङ्कल्पाः सिद्ध्यन्ति । अनन्तरं परां गतिं याति

॥ ६० ॥

छलारी

मत्स्यावतारकीर्तनफलमाह ॥ अवतारमिति ॥ हरेर्मत्स्यरूपिणोऽन्वहं नित्यं तस्य कीर्तयतः संकल्पा मनोरथाः । न केवलमैहिकमेव फलं किन्तु पारत्रिकमपि सिध्द्य-तीत्याशयेनाह ॥ प्रयातीति ॥ परमां गतिं वैकुण्ठम् ॥ ६० ॥

लिङ्घेरी

योऽमुं मत्स्यमवतारमन्वहं प्रतिदिनं कीर्तयेत्तस्य संकल्पा मनोरथाः सिद्ध्यन्ति । सः परमां गतिं याति ॥ ६० ॥

प्रलयपयसि धातुः सुप्तशक्तेर्मुखेभ्यः

श्रुतिगणमपनीतं प्रत्युपादत्त हत्वा ।

दितिजमकथयच्च ब्रह्म सत्यव्रताय

तमहमखिलहेतुं जिह्ममीनं नतोऽस्मि ॥ ६१ ॥

॥ इति श्रीमद्भागवते अष्टमस्कन्धे द्वाविंशोऽध्यायः ॥

पदरत्नावली

बुद्धिसंग्रहार्थमवतारकथां सङ्कलय्य कथयति- प्रलयेति ॥ सुप्तशक्ते-र्विषयोपरतेन्द्रियशक्तेः कार्यानभिमुखीभूतप्रकृतिशक्तेर्वा । अपनीतं निःसृतं दैत्येन नीतम् । जिह्ममीनं मायामत्स्यम् । ‘अनन्तशक्तिर्भगवान् मत्स्यरूपी जनार्दनः । क्रीडार्थं याचयामास स्वयं सत्यव्रतं नृपम् ॥’ इत्यनेन ‘तमाह साऽतिकरुणं महाकारुणिकम्’ इत्यादिना पूर्वोक्तं क्रीडेति ज्ञातव्यम् ॥ ६१ ॥

पदरत्नावलिर्नाम अष्टमस्कन्धसङ्गता ।

प्रीत्यै मत्स्यात्मनो विष्णोरस्तु निर्दोषवर्ष्मणः ॥

॥ इति श्रीमद्भागवतटीकायां विजयध्वजतीर्थभिक्षुकृतायाम्

अष्टमस्कन्धे द्वाविंशो(त्रयोविंशो)ऽध्यायः ॥

सत्यधर्मीया

प्रलये वैलक्षण्येन कृतमवतारचरितं सङ्गृह्य शुकः सकललोकाननुजिघृक्षुर्व-दन्ना नन्दनिर्भरस्तं नमति ॥ प्रलयेति ॥ प्रलयपयसि लयतोये सुप्तशक्तेरन्तर्भावितशक्ते-रुपरतेन्द्रियशक्तेर्वा धातुर्मुखेभ्यश्चतुर्भ्यः । येनापनीतं श्रुतिगणं तं दितिजं हत्वा । प्रत्युपादत्त दत्तवान् । सत्यव्रताय ब्रह्मस्वरूपं चाकथयत् । अखिलहेतुं सर्वकारणं जिम्हमीनं मायामत्स्यम् । ब्रह्मेत्यत्राप्यन्वेति । अहं नतोऽस्मि । अकथयत् । चात् प्रस्तुतेन सहान्यस्यापि नमनं समुच्चिनोति । सत्यव्रताय तमहम् । सत्यं सत्यलोकं व्रत इति स्वावासत्वेन स्वीकरोतीति सत्यव्रतो धाता तस्मै चेत्यान्तरंगिकोऽर्थः । सत्यव्रतायतमहं सत्यव्रत आयतो विस्तृतो मह उत्सवो येन स तं नतोऽस्मीत्यशेषमतिमङ्गलम् ॥ ६० ॥

॥ इति श्रीसत्यधर्मयतिकृतायां भागवतटिप्पण्यां श्रीमद्भागवतविवृतौ

अष्टमस्कन्धे द्वाविंशोऽध्यायः ॥ ८–२२ ॥

छलारी

बुध्द्यारोहार्थं प्रलयभेदेन कृतप्रयोजनद्वयस्य मत्स्यावतारस्य कथां सङ्कलय्याह ॥ प्रलय इति ॥ प्रलयपयसि दिनप्रलये सुप्तशक्तेर्विषयोपरतेन्द्रियशक्तेर्धातुर्ब्रह्मणश्चतुर्मुखस्य मुखेभ्यो निःसृतमपनीतं हयग्रीवासुरेणापहृतं श्रुतिगणं तं दितिजं हयग्रीवासुरं हत्वा ब्रह्मणे उपादत्त । पुनः प्रत्याहृत्य दत्तवान् । यो यश्च प्रलयपयसि चाक्षुषमनुप्रलये सत्यव्रताय राज्ञे ब्रह्म परं ब्रह्माकथ-यच्चोपदिष्टवान् । तमखिलहेतुमखिलस्य जगतो जन्मादिकारणम् । अखिलस्य पुरुषार्थस्य हेतुं वा । जिह्ममीनं मायामत्स्यम् । नतोऽस्मीत्यशेषमतिमङ्गलम् ॥ ६१ ॥

छलारीनरसिंहार्यशिष्यशेषविनिर्मिता ।

अष्टमस्कन्धटीका स्यात्प्रीत्यै माधवमध्वयोः ॥ १ ॥

॥ इति श्रीमच्छलारीनरसिंहाचार्याणां शिष्येण शेषेण विरचितायाम्

अष्टमस्कन्धटिप्पण्यां द्वाविंशोऽध्यायः समाप्तः ॥ ८ ॥

लिङ्घेरी

एवमवतारमाहात्म्यं सङ्कलय्य कथयति ॥ प्रलयेति ॥ यः प्रलयजले सुप्तशक्ते-र्विषयोपरतेन्द्रियादिशक्तेर्धातुश्चतुर्मुखस्य मुखेभ्यः श्रुतिगणं दितिजं हत्वा प्रत्यानीय दत्तवान् । यश्च सत्यव्रताय स्वं ब्रह्मरूपमकथयच्च तमखिलजगज्जन्मादिकारणं जिह्ममीनं तिर्यङ्मत्स्यरूपं प्रदर्शयन्तमहं नतोऽस्मीति सर्वमतिमङ्गलम् ॥ ६१ ॥

पदमुक्तावली भूयात्प्रीत्यै मत्स्यात्मनो हरेः ।

लिङ्घेरीश्रीनिवासेन कृता मन्दोपकारिणी ॥

॥ इति श्रीलिङ्घेरी श्रीनिवासाचार्यकृतायां श्रीभागवतटिप्पण्याम्

अष्टमस्कन्धे द्वाविंशोऽध्यायः ॥ ८–२२ ॥

॥ इति श्रीमद्भागवते अष्टमस्कन्धः समाप्तः ॥