२१ एकविंशोऽध्यायः

इत्युक्तवन्तं पुरुषं पुरातनं महानुभावोऽखिलसाधुसम्मतः

॥ अथ एकविंशोऽध्यायः ॥

श्रीशुक उवाच–

इत्युक्तवन्तं पुरुषं पुरातनं महानुभावोऽखिलसाधुसम्मतः ।

बद्धाञ्जलिर्बाष्पकलाकुलेक्षणो भक्त्युद्गलो१ गद्गदया गिराऽब्रवीत् ॥ १ ॥

पदरत्नावली

भगवति भक्तिमतः पुरुषस्य किमपि दुःसाध्यं नास्तीत्येतत् प्रपञ्च्यतेऽ-स्मिन्नध्याये । तत्र बलेर्हर्याज्ञाकरणं वक्तुमाह– इत्युक्तवन्तमिति ॥ भक्तेरुत्कल उद्रेको यस्य स तथा ॥ १ ॥

सत्यधर्मीया

भगवद्भक्तेर्न किमपि दुःसाधमिति बोधयितुमयमध्यायः । तत्रादौ बलि-राज्ञान्ते किं चकारेत्यत आह ॥ इत्युक्तवन्तमिति ॥ भक्त्युद्गलो भक्त्योद्गतो भाषण-प्रतिबन्धकतया तत्प्रायो गलो यस्य सः सद्भक्तिरसस्योद्गल उद्गलनं यस्येति वा ॥ १ ॥

छलारी

ततो बलिः किं कृतवानित्यत आह ॥ इत्युक्तवन्तमिति ॥ महान् अनुभावो महिमा यस्य सः । बाष्पस्यानन्दबाष्पस्य कलाभिर्बिन्दुभिराकुले ईक्षणे यस्य सः । भक्तेरुत्कल उद्रेको यस्य स तथा ॥ १ ॥

लिङ्घेरी

स्वादृष्टेन महाऽऽपदि प्राप्तायामपि हरौ भक्तिः कर्तव्येति निदर्शनाय बलिभक्ति-करणप्रकाराद्याहास्मिन्नध्याये इत्युक्तवन्तमित्यादिना । पूर्वोक्तरीत्या महान् अनुभावः प्राप्तानिष्ट-सहनादिसामर्थ्यं यस्य स तथा । अत एव साधूनां सम्मतो भक्तिवशेन बद्धाञ्जलिर्बाष्प-कलाभिर्नेत्रोदकबिन्दुभिश् चञ्चललोचनो भक्त्युद्गृहीतकण्ठस्वरो बलिरित्युक्तवन्तं पुरातनं पुरुषं नारायणं प्रति गद्गदयाऽस्पष्टमधुराक्षरया गिराऽब्रवीत् ॥ १ ॥

बलिरुवाच–

अहो प्रसादोऽस्य कृतः समुद्यतः प्रपन्नभक्तार्थविधौ समाहितः ।

यल्लोकपालैस्तदनुग्रहोऽमरैरलब्धपूर्वोऽपसदेऽसुरेऽर्पितः ॥ २ ॥

पदरत्नावली

समुद्यत ऊर्ध्वं वर्धमानस्यास्य तव प्रसादोऽहो । कुतो विस्मय इत्यत उक्तं कृत इति ॥ स्वेनेति शेषः । इतोऽपि विस्मय इत्याह– प्रपन्न इति ॥ समाहित एकाग्रीकृतोऽन्यत्रानपसददुष्प्राप इत्यर्थः । त्वमपि तेष्वेकः किं न स्यादित्यत आत्मानं धिक्करोति यल्लोकेति ॥ असुरजातावप्यपसदे अधमे । अलब्धपूर्व इति यथायोग्यमिति ज्ञातव्यम्

॥ २ ॥

सत्यधर्मीया

स्वमनस्येवादौ । अस्यानेन कृतः प्रसादोऽहो अत्याश्चर्यकरः । इति विस्मये । चित्रतामेव बहिः प्रकटयति ॥ समुद्यत इति ॥ यः प्रपन्नभक्तार्थविधौ प्रपन्नाः शुद्धसात्त्विकास्ते च भक्ताश्च तेषामर्थः प्रयोजनं च तस्य विधौ विधाने । समाहितः सन्समुद्यत उद्युक्तः । यद् यास्तदनुग्रहो लोकपालैरमरैरलब्धपूर्वः पूर्वमलब्धोऽलब्धपूर्वः । कदापि तदनुग्रह एवंरूपः सुपर्वभिरप्राप्तः । स मय्यर्पितः कृत इत्यहो । त्वमपि तदन्यतम इति किं चित्रणं चित्तस्य बल इत्यतो लपति ॥ असुर इति ॥ तेऽपि साधवः सन्ति । तथा त्वमित्यतो हताशान्त्याऽऽह ॥ अपसदे नीच इति ॥ योऽहम् अस्य कृतोऽस्यत्वेन निरस्यत्वेन कृतोऽस्य इति कृत इति वा । प्रसादः प्रकृष्टः सादः कार्श्यं यस्य सः । तस्मिन्नपसदेऽसुरे । यः प्रपन्नभक्तार्थविधौ विधाने । समाहितः समा भक्तसमा अहिता वैरिणोऽपि यस्य स तेन यद् योऽमरैर्लोकपालैरलब्धपूर्वोऽनुग्रहोऽर्पितः यतस्ततोऽहं समुदहो इति वाऽन्वयार्थौ ॥ समुद्यत इति षष्ठ्यन्तमस्येति विशेषणम् । वो युष्माभिर्लोकपालैरमरैरलब्धपूर् अलब्धा युद्धसन्नद्धैर्भवद्भिरप्राप्ता पूः सुतलनगरी यस्य स इति । तदनुग्रहो अहो न त्वामभिभविष्यन्ति । लोकेशा इत्यनुपद-मभिधानात् । अनित्यत्वात्समासप्राप्तविधेर्नाप्रत्ययोऽसुर इति दितिसुतताविवक्षया पूः सूतलनगरी मामलब्धेति वा ॥ २ ॥

छलारी

किमब्रवीदित्यत आह ॥ अहो इति ॥ प्रपन्नानां शरणागतानां भक्तानामर्थस्य पुरुषार्थस्य विधौ संपादने एवं समाहितः सावधानतया स्थितोऽस्य तव प्रसादो मयि समुद्यतः कृतः । कालोन्मुखत्वेन कृत इति यावत् । तदहो आश्चर्यम् । भक्ताभीष्टप्रदान एव दीक्षितः प्रसादो मयि कृतः । अत आश्चर्यमिति भावः । भक्तेषु मध्ये त्वमप्येकोऽतः किमाश्चर्यमित्यत आत्मानं धिक्करोति ॥ यल्लोकेति ॥ यद्यो लोकपालैरमरैरपि सत्त्वप्रधानैरलब्धपूर्वः पूर्वम-लब्धोऽपूर्व इत्यर्थः । तादृशस्त्वदनुग्रहोऽसुरजातावपि अपसदे राजसे मय्यर्पितः । मम नीचत्वान्मयि प्रसादकरणमाश्चर्यमिति भावः ॥ २ ॥

लिङ्घेरी

समुद्यत ऊर्ध्वमभिवर्धमानस्यास्य तत्प्रसादो मयि यः कृतः, प्रपन्ना ये शरणागता भक्तास्तेषामर्थविधौ पुरुषार्थप्रदाने समाहितः सम्यक्कर्तुं योग्यो मयि कृतस्त्वहो आश्चर्यकरः । ननु तवापि मद्भक्तत्वात्कुत आश्चर्यकर इत्यतः स्वस्य भक्तत्वेऽप्येतादृशपरमानु-ग्रहपात्रतासंभावना नाभूदित्यात्मानं निन्दयति ॥ यल्लोकपालैरिति ॥ यद्यस्माल्लोकपालैर्मादृशानु-ग्रहो पूर्वमलब्धस् तादृशोऽसुरेष्वपि अपसदे नीचेऽसुरे मयि समर्पितः कृत इत्याश्चर्यकर इत्यर्थः । अत्र बलियोग्यतानुसारेण बलौ क्रियमाणोऽनुग्रहो न लोकपालेषु क्रियत इति ज्ञातव्यम् । अतो लोकपालाधिक्यशङ्काविरोधाद्यनवकाशः ॥ २ ॥

श्रीशुक उवाच–

इत्युक्त्वा हरिमानम्य ब्रह्माणं सभवं ततः ।

विवेश सुतलं प्रीतो बलिर्मुक्तः सहासुरैः ॥ ३ ॥

सत्यधर्मीया

असुरैः स्वभृत्यैः सह । मुक्तो वारुणैः पाशैर्मोचितः । सभवं सहमहादेवम् अनुवादेन वादेऽप्येतदा गतिरनुक्ताऽनुसन्धेया । भवेन हरिकर्तृकेण जन्मना सहितस्तत्पुत्र इति यावत् । तं वा सभवं सहमङ्गलं वा ॥ ३ ॥

छलारी

सभवं रुद्रेण सहितम् । मुक्तो वरुणपाशैः ॥ ३ ॥

लिङ्घेरी

बलिर्वारुणपाशैर्मुक्तः सन् हरिं वामनं प्रतीत्युक्त्वा नमस्कृत्य च तदनन्तरं रुद्रसहितं चतुर्मुखं च नत्वा स्वैर्भृत्यासुरैः सहितः सुतलं प्रविष्टः ॥ ३ ॥

एवमिन्द्राय भगवान् प्रीत्याऽऽनीय त्रिविष्टपम् ।

पूरयित्वाऽदितेः काममशासत् सकलं जगत् ॥ ४ ॥

सत्यधर्मीया

अदितेः स्वमातुरदितेः रणकरणखण्डनाद्यभावेनैव त्रिविष्टपमानीयेति वा । ‘दितिः स्यात्खण्डने दनौ’ इति विश्वः ॥ ४ ॥

छलारी

त्रिविष्टपं स्वर्गं प्रत्यानीय दत्वाऽदितेः स्वमातुः कामं मनोरथं पूरयित्वोपेन्द्रः सन् सकलं जगदशासयत्पालयामास ॥ ४ ॥

लिङ्घेरी

भगवान्वामन एवमुक्तप्रकारेण प्रीत्या कृपयेन्द्राय त्रिविष्टपं स्वर्गं प्रापयित्वाऽ-दितेः कामं मनोरथं पूरयित्वा सकलं जगच्छिक्षयामास ॥ ४ ॥

लब्धप्रसादनिर्मुक्तं पौत्रं वंशधरं बलिम् ।

निशाम्य भक्तिप्रवणः प्रह्लाद इदमब्रवीत् ॥ ५ ॥

पदरत्नावली

लब्धप्रसादश्चासौ निर्मुक्तश्च तम् ॥ ५ ॥

सत्यधर्मीया

लब्धप्रसादनिर्मुक्तं लब्धः प्रसादो हरेर्येन स चासौ निर्मुक्तश्च तम् । लब्धः प्रसादो हीच्छाविशेषो येन स हरिस्तेन निर्मुक्तस्तमिति वा । मोचयितरि भक्तिप्रवणो भक्तिनम्रः

॥ ५ ॥

छलारी

वंशधरं वंशाभिवृद्धिहेतुं लब्धः भगवत्प्रसादो येन तं पाशनिर्मुक्तं बलिं निशाम्य दृष्ट्वा प्रवणो नम्रीभूतः सन् प्रल्हादो भगवन्तं वामनं प्रतीदमब्रवीत् ॥ ५ ॥

लिङ्घेरी

भक्त्या प्रवणो नम्रः प्रल्हादो भगवत्प्रसादं लब्ध्वा वरुणपाशान्मोचितं स्वस्य वंशधरं पौत्रं बलिं दृष्ट्वा वामनं प्रतीदमुवाच ॥ ५ ॥

प्रह्लाद उवाच–

नेमं विरिञ्चो लभते प्रसादं न श्रीर्न शर्वः किमुतापरे ते ।

यन्नोऽसुराणामसि दुर्गपालो विश्वाभिवन्द्यैरभिवन्दिताङ्घ्रिः ॥ ६ ॥

पदरत्नावली

विश्वाभिवन्द्यैर्ब्रह्मादिभिरभिवन्दिताङ्घ्रिः श्रीकान्तोऽसुराणामपि नो दुर्गपालो द्वारपाल आसीदिति, यदिमं प्रसादं विरिञ्चादिर्न लभत इत्यन्वयः ॥ ६ ॥

सत्यधर्मीया

विश्वाभिवन्द्यैर्जगद्वन्द्यैर्ब्रह्मादिभिर् अभिवन्दिताङ्घ्रिरभिवन्दितावङ्घ्री यस्य सोऽपि । असुराणां रजस्तमःस्वभावानां नो दुर्गपालो द्वाररक्षकोऽसीति यत् । इमम् एतद्रूपं प्रसादं विरिञ्चो लभते न । श्रीरपि न लभते । न शर्वोऽपि लभते अपरे तदितरे न लभन्त इति किमुत । एतत्तात्पर्यं सप्तम एतद्विषये नवमादौ विषयान्तरे स्पष्टमनुसंधेयम् ॥ ६ ॥

छलारी

हे भगवन् । विश्वैः समस्तैरभिवन्द्यैरभिवन्दिताङ्घ्रिस्त्वमसुराणां नो दुर्गपालो द्वारपालोऽसि । रक्षिष्ये सर्वतोऽहं त्वामित्युक्तत्वादिति यदिमं प्रसादं विरिञ्चादयो नालभन्ते । अपरे ब्रह्मादिभिन्ना ये ते नालभन्त इति किमु । श्रीब्रह्माद्यलभ्यप्रसादमस्मासु त्वं कृतवानिति भावः ॥ ६ ॥

लिङ्घेरी

हे वामन । इमं, बलौ तद्योग्यं त्वया कृतं प्रसादं श्रीर्न लभते । विरिञ्चः शर्वो रुद्रश्च न लभेते । अन्ये न लभन्त इति किमु वक्तव्यम् । यद्यस्मात्सर्वजगन्नतिस्तुतियोग्यै-र्ब्रह्मादिभिरपि भक्तिस्तुतिनतियोग्यपादपद्मस्त्वमसुरजातीनामस्माकं दुर्गपालो द्वाररक्षकोऽसि ॥६॥

यत्पादपद्ममकरन्दनिषेवणेन

ब्रह्मादयः शरणदाश्नुवते विभूतीः ।

कस्माद् वयं कुसृतयः खलयोनयस्ते

दाक्षिण्यदृष्टिपदवीं भवतः प्रणीताः ॥ ७ ॥

पदरत्नावली

कुसृतयः कुत्सितमार्गाः । तत्र हेतुमाह– खलयोनय इति ॥ ते वयं ते तस्य भवतः कस्मात् हेतोर्दाक्षिण्यदृष्टिपदवी प्रणीताः, प्रापिता भक्तानुकम्पित्वमन्तरेणेति शेषः । ‘यमेवैष वृणुते तेन लभ्यः’ इति श्रुतेः ॥ ७ ॥

सत्यधर्मीया

हे शरणद यस्य पादपद्ममकरन्दस्य निषेवणेन ब्रह्मादयो विभूती-रैश्वर्याणि । अश्नुवते प्राप्नुवन्ति । ते वयं, ते भवत इति वाऽन्वयः । स्वरूपं स्वेषां निरूपयति ॥ कुसृतय इति ॥ कुत्सिता सृतिर्मार्गो येषां ते तथा । कुतः कुसृतयो यूयमित्यत आह । खला योनिर्जातिरासुरी येषां त इति । दक्षिणैवौदार्यैव दाक्षिण्यं सा च सा दृष्टिश्च । दाक्षिण्यस्य दृष्टिरौदार्ययुता दृष्टिस्तस्याः पदवीम् । मार्गविषयतामिति यावत् । कस्मात्प्रणीताः प्रापिताः । नान्तरा करुणामितरन्निमित्तमीक्षामह इति भावः । एवं छलेन बलिं निगृहीतवतो मम किं स्तुत्ये-त्यतो वाऽऽह । भवतो विभूतीर्विभूतयः कुसृतयश् छलमार्गा न । तर्हि कथं तथा दृश्यन्त इत्यत आह । खला वयमेव योनयः कारणानि यासां ताः । अस्मद्दुरितेन तथा चरसीति वा । निषेवणे सतीति सप्तम्यन्तम् । नञश्च न कुसृतय इत्यन्वय एतत्पक्ष इति ज्ञेयम् । कस्माद्ब्रह्मणः सकाशादेव वयं कुसृतय इति हेतोर्नोऽनयोऽन्यायस्ततश्च खलयः सुखनाशश्च भवत एतादृशा अपि वयं शिष्टं यथापूर्वम् । कस्मादिति कथं ब्रह्मवाचीति । कुशब्दः कस्मै इत्यृग्भाष्या-द्युदाहरणेन प्राचि षष्ठे विवृतमस्माभिरनुसंधेयम् । तेन वा नयः कस्मादिति वा ॥ ७ ॥

छलारी

हे शरणद आश्रयप्रद । ब्रह्मादयो विरिञ्चादयो यस्य तव पादपद्मयोर्मकरन्द-निषेवणेन विभूतीरैश्वर्याण्यश्नुवतेऽनुभवन्ति । ये कुसृतयः कुत्सितमार्गा दुर्वृत्तय इत्यर्थः । तत्र हेतुमाह ॥ खलयोनय इति ॥ उग्रजातयश्च ते तादृशा वयं तस्य भवतो दाक्षिण्यदृष्टेर्बहुमानेन चित्तानुवर्तनं दाक्षिण्यं तेन या दृष्टिर्दर्शनम् । तस्याः पदवीं विषयताम् । कस्माद्धेतोः प्रणीताः प्रापिताः । दुर्जना वयं केन कारणेन त्वद्बहुमानविषया अभूमेत्यर्थः । भक्तानुकम्पितत्व-मन्तरेणान्यत्कारणं न पश्याम इति भावः ॥ ७ ॥

लिङ्घेरी

हे शरणद शरणागताभयप्रद वामन । ब्रह्मादयो यस्य तव पादपद्मरससेवनया विभूतीः सत्यलोकाधिपत्यादिसंपदोऽनुभवन्ति । खलयोनयोऽसुरजातयोऽत एव त्वद्द्वेषकारणादि-कुत्सितमार्गा वयं ते दाक्षिण्यं दृष्टिमार्गं कस्मात्प्राप्तास्ते परमानुग्रहमन्तरेण नान्यदत्र कारणम् । ‘यमैवैष वृणुते तेन लभ्य’ इति श्रुतेः ॥ ७ ॥

चित्रं तवेहितमहोऽमितयोगमाया

लीलाविसृष्टभुवनस्य विशारदस्य ।

सर्वात्मनः समदृशो विषमस्वभावो

भक्तप्रियो यदसि कल्पतरुस्वभावः ॥ ८ ॥

पदरत्नावली

भवत्स्वरूपत्वादीहितमपि लोकविलक्षणमिति भावेनाह– चित्रमिति ॥ तव चित्रं नानाविधमीहितं चेष्टितमहो । ‘अहो ही ह विस्मये’ इति यादवः । समदृशो विषमस्वभावत्वं सर्वात्मनो भक्तप्रियत्वेन कल्पतरुस्वभावत्वं च विस्मयहेतुरित्यर्थः ॥ ८ ॥

सत्यधर्मीया

तव चित्रमनेकप्रकारम् । ईहितं चेष्टा । अहो आश्चर्यम् । कर्त्री । न सर्वसामर्थ्यविनियोगस् तव योगमायाया अपि त्वल्पीयस्या एवेत्याह । मितयोगमाया अल्पयोग-शक्तिः। तस्या या लीला तया विसृष्टानि भुवनानि येन स तस्य । मितेति पदलीलेत्यपि विलासीति भगवतोऽवगमितं च महामाहात्म्यं भवतीति वा । सन्धिरार्ष इति समाधिक्लिष्टता नेति सन्तोष्टव्यम् । स्वरूपनिरूपकम् । समदृशः सर्वत्र साम्यदृष्टेर्विशारदस्य सर्वात्मनः सर्वान्तर्यामिणस्तवेहितं लक्ष्मीकामादि हितं यस्तात्तत्सम्बुद्धिः । महस्तेजो विचित्रम् ईहितस्य मह इति पदं वात्रैकम् । अमितेति ॥ विषमस्वभावो मूढानां तथा भासमानः स्वभाव इति चित्रं यद् यतो भक्तप्रियोऽसि कल्पतरुस्वभावोऽसि । आश्रिताशापूरण इति भावः । यतो भक्तप्रियोऽसि ततः समदृशोऽत्यन्ताज्ञस्य तामसवृत्तेरस्मदादेर्विषमस्वभावोऽसि । कल्पतरुस्वभावः कल्पतरोरपि स्वस्य नानाद्रवणस्य भावः सत्ता येन सोऽसि । अतः स्वतस्त्वमविषमस्वभावोऽसीत्यर्थ इति वा । यस्तरुस्वभावो जडप्रायस्तस्य समदृशो ज्ञानहीनस्य विषयेऽसिकल्पः । यथा तरु-मुन्मूलयितुमसिस्त्वं तथाऽसीति वा । अत्र बलिरप्यसुरावेशादिति तात्पर्यं संयोजयन्ति ॥ ८ ॥

छलारी

तव चरितं लोकविलक्षणमिति भावेनाह ॥ चित्रमिति ॥ सर्वात्मनः सर्वस्वामिनः समदृशः सर्वं समं पश्यंश्च तवेहितं चेष्टितमहो विचित्रमाश्चर्यम् । तत्कथमित्यत आह ॥ अविषम इति ॥ यतो दुर्योनिष्वप्यस्मासु तव स्वभावोऽविषमो विषमो नाभवत् । त्वयाऽस्मासु बहुमानस्य कृतत्वात् । अतश्चित्रमित्यन्वयः । इदं चावैषम्यं तव युक्तमेवेत्याह ॥ यदिति ॥ यतः कल्पतरुस्वभावो भक्तप्रियोऽसि । न हि कल्पतरुराश्रितानामेव कामान्पूरयन्नपि विषमो भवतीत्यर्थः । सर्वात्मत्वे हेतुः ॥ अमितेति ॥ अमिताऽचिन्त्या योगमाया योग-समर्थता । या लीला तया विसृष्टानि विरचितानि भुवनानि येन तस्य । अहो इत्यत्र सन्धिश्छान्दसः ॥ ८ ॥

लिङ्घेरी

हे वामन । अपरिज्ञातासंख्यातयोगमायया लीलार्थं विसृष्टजगतस्तत्प्रेरणा-दावतिकुशलस्य तवेहितं चरित्रं चित्रमाश्चर्यकरम् । तदेव वर्णयति । सर्वस्वामिनः समदृष्टेस्तव स्वभावो विषमो यतोऽतस्तदपि कथमित्यतो यद्यस्मात्त्वं सर्वस्वामित्वादिमानपि यथा कल्पतरुः स्वाराधकानामेव फलं ददाति तथा त्वमपि भक्तप्रियोऽसि यतोऽतस्तेषामेव फलं ददासीति । ननु बलिप्रल्हादयोरेवं भगवद्भक्तत्वेऽपि बलेर्बन्धनादिदुःखं प्रल्हादस्य तदभावः किं निमित्तमिति चेन्न । बलिना बन्धनादिदशायामसुरावेशेन कदाचिन्निन्दनस्यापि कृतत्वात्प्रल्हादस्य तदभावेन वैषम्यात् ॥ तदुक्तम् ॥ ‘बलिरप्यसुरावेशात्स्तुवन्नपि जनार्दनम् । आक्षिपत्त्वन्तरा क्वापि प्रल्हादो नित्यभक्तिमान् ॥’ इति ॥ ८ ॥

श्रीभगवानुवाच–

वत्स प्रह्लाद भद्रं ते प्रयाहि सुतलालयम्१ ।

मोदमानः स्वपौत्रेण ज्ञातीनां सुखमावह ॥ ९ ॥

पदरत्नावली

बलिप्रह्लादयोर्भगवद्भक्तत्वेऽपि बलेर्बन्धनादिदुःखमभूत् तत् किन्निमित्तमिति शङ्का, ‘बलिरप्यसुरावेशात् स्तुवन्नपि जनार्दनम् । आक्षिपत्यन्तरा क्वापि प्रह्लादो नित्यभक्ति-मान् ॥’ इत्यनेन पहि परिहर्तव्या । आक्षेपफलं दुःखमित्यर्थः ॥ ९ ॥

सत्यधर्मीया

सुतलालयं तद्रूपं गेहम् ॥ ९ ॥

छलारी

सुतलातलं सुतललोकम् । ज्ञातीनां बन्धूनाम् ॥ ९ ॥

लिङ्घेरी

एवं प्रल्हादस्तुत्या प्रसन्नो वामनस्तत्र वात्सल्यादाह । हे वत्स प्रल्हाद । ते भद्रमस्तु । त्वं स्वपौत्रेण बलिना सह सुतलातलं प्रयाहि । तत्र स्वयं च मोदमानः स्वसगोत्राणामसुराणां सुखं प्रापयेति ॥ ९ ॥

नित्यं द्रष्टाऽसि मां तत्र गदापाणिमवस्थितम् ।

मद्दर्शनमहाह्लादन्यस्तकर्मनिबन्धनः ॥ १० ॥

सत्यधर्मीया

मद्दर्शनमहाल्हादेन ध्वस्तं कर्मनिबन्धनं यस्य स तथा । चक्रस्य कार्यान्तरविनियोजनाद्गदापाणिरिति तत्पुरुषस्तुतिः । यथोक्तं प्राक् । त्वच्छासनातिगान् दैत्यांश्चक्रं मे सूदयिष्यतीति ॥ १० ॥

छलारी

तत्र सुतललोके मम दर्शनेन जातो यो महाल्हादः ॥ १० ॥

लिङ्घेरी

तत्रापि त्वं नित्यं गदापाणिमवस्थितं मां द्रष्टाऽसि मद्दर्शनजन्यमहाहर्ष-वान्निरस्तसर्वदुष्कर्मबन्धनश्च स्याः ॥ १० ॥

श्रीशुक उवाच–

आज्ञां भगवतो राजन् प्रह्लादो बलिना सह ।

बाढमित्यमलप्रज्ञो मूध््नर्याधाय१ कृताञ्जलिः ॥ ११ ॥

परिक्रम्यादिपुरुषं सर्वासुरचमूपतिः ।

प्रणतस्तदनुज्ञातः प्रविवेश महाबिलम् ॥ १२ ॥

सत्यधर्मीया

आज्ञां मूधर्ि्न । आधाय धृत्वा मानयित्वेति यावत् । मूर्ध्नेति पाठे शिरसा धृत्वेत्यर्थः । प्रणतः । कर्तरि क्तः ॥ ११-१२॥

छलारी

बलिना सह भगवत आज्ञां बाढमिति तथाऽस्त्विति मूर्ध्ना शिरसाऽऽधायोढ्वा कृताञ्जलिः सन् आदिपुरुषं परिक्रम्य प्रदक्षणीकृत्य प्रणतस्तेनानुज्ञातः सन् महाबिलं सुतललोकं प्रविवेशेत्यन्वयः ॥ ११-१२॥

लिङ्घेरी

हे राजन् । निर्दुष्टभगवत्ज्ञानः प्रल्हादो बलिना सह भगवतो वामनस्याज्ञामो-मित्यङ्गीकृत्य शिरसा वहित्वा कृतांजलिः सन् आदिपुरुषं वामनं प्रदक्षिणीकृत्य नमस्कारं च कृत्वा वामनेनानुज्ञातः सर्वासुरसेनाधिपतिर्भूत्वा बिलं सुतलं प्रविवेश ॥ ११-१२ ॥

अथाहोशनसं राजन् हरिर्नारायणोऽन्तिके ।

आसीनमृत्विजां मध्ये सदसि ब्रह्मवादिनाम् ॥ १३ ॥

सत्यधर्मीया

ब्रह्मवादिनां सदसि ऋत्विजां मध्य आसीनम् उशनसं शुक्रम् । अथ बलिबिलगमनानन्तरम् । आह ॥ १३ ॥

छलारी

अथ बिलगमनानन्तरं हरतीति हरिर्बलिराज्यहर्ता नारायणो वामनोऽन्तिके स्वसमीपे आसीनमुशनसं शुक्राचार्यमाह ॥ १३ ॥

लिङ्घेरी

हे राजन् । अथ प्रल्हादादिगमनानन्तरं हरिर्भक्तानिष्टपरिहर्तेष्टाहर्ता च नारायणावतारो वामनः परंब्रह्म, वेदादिप्रतिपादकानाम् ऋत्विजां मध्य उपविष्टमुशनसं शुक्रं प्रत्याह

॥ १३ ॥

श्री भगवानुवाच–

ब्रह्मन् सन्तनु शिष्यस्य कर्मच्छिद्रं वितन्वतः ।

यत्तत्कर्मसु वैषम्यं१ ब्रह्मदृष्टं समं भवेत् ॥ १४ ॥

पदरत्नावली

कर्म वितन्वतोऽस्य यत् तद्ब्रह्मभिर्ब्राह्यणैर्दृष्टं निरूपितं कर्म सुवैषम्य-मन्तरायोपहति यथा समं विहितफलप्रदत्वेन समर्थं भवेत् तथा तव शिष्यस्य बलेः कर्मणो वैषम्यलक्षणमपराधं सन्तनु परिहृतं कुरु । कर्मरन्ध्रं समुन्नतं कुरु वा । ‘छिद्रं रन्ध्रापराधयोः’ इत्यभिधानम् । ब्रह्मणा दृष्टं वा ॥ १४ ॥

सत्यधर्मीया

हे ब्रह्मन् । कर्म यज्ञं तन्वतः शिष्यस्य यच्छिद्रं रन्ध्रम् । अन्तरायमिति यावत् । सं समं तनु प्रायश्चित्तादिना समीकुरु । प्रोपाभ्यां समर्थाभ्यां सम्भोगप्राप्तिरित्यादिवत्सं समार्थकम् । इममेवार्थं ग्रन्थकृदपि वक्ष्यति सममिति । यत्कर्मसु वैषम्यं तद्ब्रह्मदृष्टं ब्राह्मणैः प्रवर्तकैर्दृष्टं चेत्समं भवेत् । अतस्त्वं सं तनु ॥ १४ ॥

छलारी

हे ब्रह्मन् शुक्राचार्य । कर्म यज्ञं वितन्वतः कुर्वतः शिष्यस्य बलेर्यच्छिद्रमन्तरं न्यूनं जातं तत्सन्तनु संपूर्णं कुरु । अवशिष्टं कर्म कृत्वा यज्ञं समापयेत्यर्थः । यजमानं विना कथं समापनीयमिति न वाच्यमित्याह ॥ यत्तदिति ॥ कर्मसु यद्वैषम्यमन्तरेणोपसरणं तद्ब्रह्मदृष्टं ब्राह्मणैर्दृष्टमेव समं विहितं फलप्रदं भवेत् । किं पुनरनुष्ठितमित्यर्थः ॥ १४ ॥

लिङ्घेरी

हे ब्रह्मन् शुक्र । त्वं तव शिष्यस्य यज्ञं वितन्वतः कुर्वतः सतः कर्मच्छिद्रं कर्मदोषं लोपलक्षणं तत्प्रायश्चित्तकरणेन सन्तनु सम्यक् फलयोग्यं कुरु । यस्मात्कर्मसु वैषम्यं लोपादिरूपं ब्राह्मणैर्दृष्टं पुनस्तत्प्रायश्चित्तकरणेन समं स्वहितफलयोग्यं भवेत् । तस्मादिति । दोषारछिद्रशब्दानां पर्यायत्वाच्छिद्रशब्दस्य दोषार्थत्वमुक्तम् ॥ १४ ॥

श्रीशुक्र उवाच–

कुतस्तत्कर्मवैषम्यं यस्य कर्मेश्वरो भवान् ।

यज्ञेशो यज्ञपुरुषः सर्वभावेन पूजितः ॥ १५ ॥

पदरत्नावली

सति छिद्रे तत्परिहारः, तदेव नास्ति, अस्ति चेदपि तव नामसंकीर्तनं निश्छिद्रं करोतीति वक्त्युशनेत्याह– शुक्र इति ॥ यज्ञपुरुषो भवान् तस्य बलेः कर्मेश्वरः । कुतः यज्ञेश इति ॥ अनेन सर्वयज्ञस्वामित्वं तव विद्यते किमुतैतद्यज्ञस्वामित्वं बलेस्त्वद्भक्तत्वादिति सूचितम् । तस्य बलेः कर्मवैषम्यं कुतो हेतोः स्यादित्यन्वयः । सर्वभावेन सर्वदानेन पूजित इत्यस्माच्च ॥ १५ ॥

सत्यधर्मीया

सति भगवंश्छिद्रे तत्समीकरणयत्नः । तदेव नास्तीति सहेतुकमाह ॥ कुत इति ॥ यज्ञेशस्तत्स्वामी । यज्ञनामा चासौ पुरुषः पूर्णषड्गुणश्च कर्मेश्वरः सकलकर्मस्वामी फलदातेति यावत् । भवान्यस्य येन सर्वभावेन स्वार्पणादिना पूजितस्तत्कर्म वैषम्यं कुतो भवेन्न भवेदेव । पारोक्ष्येण यत्प्रीत्यर्थं कर्म कुर्वन्ति तस्मिन् परोक्षीकृते किं छिद्रं भवेदिति भावः

॥ १५ ॥

छलारी

सति छिद्रे तत्परिहारः कर्तव्यस्तदेव नास्तीति सनिमित्तमुपपादयति शुक्राचार्य इत्याह । शुक्र इति ॥ भगवान् यस्य पुरुषस्य सर्वेणापि भावेन वस्तुमात्रेण पूजितस्तस्य कर्मसु कुतो वैषम्यं वैगुण्यम् । कथम्भूतः । कर्मणामीश्वरः प्रवर्तको यस्य यज्ञफलस्येशो दाता । यज्ञपुरुषः ॥ १५ ॥

लिङ्घेरी

एवं भगवतोक्तः शुक्रस्तं प्रत्याह ॥ कुत इति ॥ हे वामन सर्वयज्ञानामीश यज्ञपुरुषादिसाधनगतश्च भवान् यस्य बलेः कर्मेश्वरः सर्वप्रकारेण स्वयोग्यभक्त्या पूजितस्तत्कर्म-वैषम्यं कुतो, न कुतोऽपीति ॥ १५ ॥

मन्त्रतस्तन्त्रतश्छिद्रं देशकालार्हवस्तुतः ।

सर्वं करोति निश्छिद्रमनुसङ्कीर्तनं तव ॥ १६ ॥

पदरत्नावली

तवानुसङ्कीर्तनं मन्त्रतस्तन्त्रतश्छिद्रं सर्वं देशकालोचितवस्तुतो यथा तथा निश्छिद्रं पूर्णं करोतीत्यन्वयः ॥ १६ ॥

सत्यधर्मीया

कीर्तनस्येयती शक्तिर्यदा तदा कीर्तनीया किं तव शक्तिरिति वक्ति ॥ मन्त्रत इति ॥ मन्त्रत उच्चारणादौ । तन्त्रतो हस्तादिक्रियादौ । देशतः स्थानव्यत्यस्तेः काल-व्यत्यासरूपम् । अर्हवस्तुतो होम्यवस्तुव्यत्यासाच्च यच् छिद्रं दोषस्तत्सर्वम् । तवानुसङ्कीर्तनम् । अच्युताय नमोऽनन्ताय गोविन्दायाच्युतानन्तगोविन्दायेति प्रभृतिकीर्तनम् । निश्छिद्रमदोषं करोति । अत इत इतरत् किमनुष्ठेयं मयेति ॥ १६ ॥

छलारी

अत्र कैमुत्यन्यायमाह ॥ मन्त्रत इति ॥ पदा मन्त्रतः स्वरादिभ्रंशेन मन्त्रतो व्युत्क्रमादिना । देशतः कालतश्चार्हतः पात्रतः । वस्तुतो दक्षिणादिना यन्न्यूनं भवेत् । तत्सर्वं तवानुकीर्तनं नामकीर्तनमेव निश्छिद्रं संपूर्णं करोति । यतस्तव पूजा निश्छिद्रं करिष्यतीति किं वक्तव्यमित्यर्थः । तथा च बलिना सर्वदानेन भवतः पूजितत्वादेव तत्कर्मणो वैषम्यं नास्त्येवेति भावः ॥ १६ ॥

लिङ्घेरी

हे वामन । तवानुसंकीर्तनमच्युतानन्दगोविन्देत्यादि भक्तिश्रद्धाभ्यां नामोच्चारणं मन्त्रतो मन्त्रस्य तन्त्रतस्तथा देशकालयोग्यवस्तूनां छिद्रं दोषं सर्वं निश्छिद्रं प्रायश्चित्तविनष्टं करोति । मन्त्र इत्यादौ सार्वविभक्तिकतसिरिति षष्ठ्यर्थे तसि प्रत्ययः ॥ १६ ॥

तथापि वदतो भूमन् करिष्याम्यनुशासनम् ।

एतच्छ्रेयः परं पुंसां यत् तवाज्ञानुपालनम् ॥ १७ ॥

सत्यधर्मीया

यद्यपि निश्छिद्रता तथाऽपि वदतस्तवानुशासनमाज्ञां शिक्षारूपिणीं करिष्यामि । सामान्येनास्य मान्यतामाह ॥ एतदिति ॥ १७ ॥

छलारी

यद्यप्येवं तथाऽपि । हे भूमन् । वदतस्तवानुशासनमाज्ञां करिष्यामि । कुतः । यत्तवाज्ञानुपालनमेतत्पुंसां परं श्रेयः ॥ १७ ॥

लिङ्घेरी

हे भूमन् देशकालगुणैः पूर्ण वामन । इति यद्यपि तथाऽपि कर्मपूर्तिं कुर्विति वदतस्तवानुशासनमाज्ञां करिष्यामि । तवाज्ञानुपालनं यत्तदेतत्पुंसां परमुत्तमं श्रेयःसाधनम्

॥ १७ ॥

श्रीशुक्र उवाच–

अभिनन्द्य हरेराज्ञामुशना भगवानिति ।

यज्ञच्छिद्रं समतनोद् बलेर्विप्रर्षिभिः सह ॥ १८ ॥

सत्यधर्मीया

यज्ञच्छिद्रं तत्र लुप्तं कर्म ॥ १८ ॥

छलारी

भगवान् उशनाः शुक्र इति हरेराज्ञामभिनन्द्यानुमोद्य बलेर्यज्ञच्छिद्रं समाधत्त सन्दधे ॥ १८ ॥

लिङ्घेरी

भगवान् उशनाः शुक्रो हरेर्वामनस्याज्ञामभिनन्द्य सन्तोषादङ्गीकृत्य ब्रह्मर्षिभिः सह बलेर्यज्ञच्छिद्रं समतनोत् प्रायश्चित्तानुष्ठानेनानाशयत् ॥ १८ ॥

एवं बलेर्महीं राजन् भिक्षित्वा वामनो हरिः ।

ददौ भ्रात्रे महेन्द्राय त्रिदिवं यत् परैर्हृतम् ॥ १९ ॥

सत्यधर्मीया

परैरतद्भागिभिर् बल्यादिभिः । बलेस्त्रिदिवं भिक्षित्वेत्यन्वयः ॥ १९ ॥

छलारी

भिक्षित्वा याचित्वा । भ्रात्रे ज्येष्ठभ्रात्रे । परैः शत्रुभिः ॥ १९ ॥

लिङ्घेरी

हे राजन् । हरिर्वामन एवमुक्तरीत्या बलेः सकाशात्पृथिवीं भिक्षित्वा क्षितिदान-व्याजेनापहृत्य स्वभ्रात्रे इन्द्राय ददौ । यत्परैः शत्रुभिरसुरैरपहृतं त्रिदिवं स्वर्गं च ददौ ॥१९॥

प्रजापतिपतिर्ब्रह्मा देवर्षिपितृभूमिपैः ।

दक्षभृग्वङ्गिरोमुख्यैः कुमारेण भवेन च ॥ २० ॥

सत्यधर्मीया

भूमिपा मनवश्च । भवेनेति गतम् ॥ २० ॥

लिङ्घेरी

प्रजापतीनां दक्षादीनां पतिर्ब्रह्मा चतुर्मुखो देवर्षिपितृभूमिपैर्दक्षभृग्वङ्गिरप्रभृतिभिः कुमारेण षण्मुखेन सनत्कुमारेण च भवेन रुद्रेण च सह ॥ २० ॥

कश्यपस्यादितेः प्रीत्यै सर्वभूताभयाय च ।

लोकानां लोकपालानामकरोद् वामनं पतिम् ॥ २१ ॥

सत्यधर्मीया

पतिमकरोद् अकरोदिव ॥ २१ ॥

छलारी

प्रजापतीनां मरीच्यादिप्रजेश्वराणां पतिः । देवाश्च ऋषयश्च पितरश्च भूमिपा राजानो मनवश्च सर्वभूतानां भावनाय क्षेमाय च वामनं पतिं पालकमकरोत् ॥ २१ ॥

लिङ्घेरी

कश्यपादित्योः प्रीत्यै सर्वप्राणिनामभयाय च वामनं लोकानां लोकपालानां च पतिमकरोत् ॥ २१ ॥

देवानां सर्ववेवानां१ धर्मस्य यशसः श्रियः ।

मङ्गलानां व्रतानां च कल्पं स्वर्गापवर्गयोः ॥ २२ ॥

उपेन्द्रं कल्पयाञ्चक्रे पतिं सर्वविभूतये ।

तदा सर्वाणि भूतानि भृशं मुमुदिरे नृप ॥ २३ ॥

सत्यधर्मीया

सतीन्द्रेः कथममुं पतिं प्रजापतिपतिरकरोदित्यत आह ॥ देवानामिति ॥ कल्पं दक्षम् । सहस्राक्षस्य रक्षणार्थमिति न तदनिष्टमिति भावः । सर्वविभूतये पूर्वोक्तसर्वेषां विभूतये मङ्गलाय ॥ २२-२३ ॥

छलारी

ननु लोकानां पतिरिन्द्रोऽस्त्येव । सत्यम् । तथाऽपि देवादीनां पालने कल्यं दक्षं वामनमुपेन्द्रं कल्पयाञ्चक्रे । सर्वेषां विभूतये ऐश्वर्याय । सर्वाणि भूतानि सर्वे जनाः

॥ २२-२३ ॥

लिङ्घेरी

देवादीनां पालने कल्पं समर्थमुपेन्द्रं वामनं सर्वेषां तत्तद्योग्यसर्वैश्वर्यप्राप्तये पतिं कल्पयाञ्चक्रे यदा तदा सर्वप्राणिनोऽत्यन्तं तुतुषुः ॥ २२-२३ ॥

ततस्त्विन्द्रः पुरःकृत्वा देवयानेन वामनम् ।

लोकपालैर्दिवं निन्ये ब्रह्मणा चानुमोदितः ॥ २४ ॥

पदरत्नावली

ततो बलियज्ञशालायाः ॥ २४ ॥

सत्यधर्मीया

पुरःकृत्वेति पदद्वयम् । पुरस्कृत्येति पाठो ललितः । देवयानेन देवतावाहनेन ॥ २४ ॥

छलारी

देवयानेन मार्गेण विमानेनेति वा । लोकपालैः सह । ततो बलेर्यज्ञशालायाः सकाशात् । वामनं दिवं निन्ये ॥ २४ ॥

लिङ्घेरी

तदनन्तरमिन्द्रस्तु लोकपालैर्ब्रह्मणा चानुमोदितः प्रीत्याऽभ्यनुज्ञातो वामनं पुरस्कृत्य देवयानेन स्वर्गं प्रापयामास ॥ २४ ॥

आप्य त्रिभुवनं चेन्द्र उपेन्द्रभुजपालितम् ।

श्रिया परमया जुष्टो मुमुदे गतसाध्वसः ॥ २५ ॥

सत्यधर्मीया

उपेन्द्रभुजपालितं त्रिभुवनम् ॥ २५ ॥

छलारी

उपेन्द्रभुजाभ्यां पालितो गतसाध्वसो गतभयः ॥ २५ ॥

लिङ्घेरी

इन्द्रो वामनेन बल्यादीनां पातालवासनाद्गततद्भयः सन् उपेन्द्रभुजरक्षितत्रिभुवनं प्राप्यात्युत्कृष्टया संपदा सेवितः सन् सुखमाप ॥ २५ ॥

ब्रह्मा शर्वः कुमारश्च भृग्वाद्या मुनयो नृप ।

पितरः सर्वभूतानि सिद्धा वैमानिकाश्च ये ॥ २६ ॥

सुमहत् कर्म तद् विष्णोर्गायन्तः परमाद्भुतम् ।

धिष्ण्यानि स्वानि ते जग्मुरदितिं च शशंसिरे ॥ २७ ॥

सत्यधर्मीया

वैमानिकाः सिद्धा विना वाहकं स्वयमेव गच्छद्विमानरूढाः । अदितिं चाहो तव तपोमाहात्म्यमिति तुष्टुवुः । अनन्तरं स्वानि धिष्ण्यानि जग्मुश्च ॥ २६-२७ ॥

छलारी

वैमानिकाश्च विमानारूढा ये सिद्धास्ते विष्णोः परमाद्भुतं सुमहत्तद्बलि-बन्धनादिकर्म गायन्तः सन्तः स्वानि धिष्ण्यानि गृहाणि जग्मुः । अदितिं शंसिरे श्लाघयामासुः । इति द्वयोरन्वयः ॥ २६-२७ ॥

लिङ्घेरी

ब्रह्मादयो वैमानिकान्ताः सर्वे प्राणिनः सुमहदत्याश्चर्यकरं तद्विष्णोः कर्म चरित्रं गायन्तः स्वकीयस्थानानि ययुः । वामनमातरमदितिं चेयं वीरसूरिति शशंसिरे स्तुवन्तश्च । वैमानिका आहवनीयगार्हपत्यदाक्षिणाग्निषु देवपूजकाः ॥ २६-२७ ॥

सर्वमेतन्मयाख्यातं भवतः कुरुनन्दन ।

उरुक्रमस्य चरितं श्रोतॄणामघमोचनम् ॥ २८ ॥

सत्यधर्मीया

कुरुनन्दन । कुलनन्दनेति पाठोऽप्यनुकूलः । उरुक्रमस्य चरितम् । आख्यातमेतत् । सर्वं काकुः किं त्वल्पमित्यर्थः । सर्वमाख्यातमित्यावर्त्यैकदा पदं वा । सर्वं त्वद्योग्यतां मद्योग्यतामनुसृत्याख्यातं तदप्याख्यातमीषदेव ख्यातमिति वा ॥ २८ ॥

छलारी

बलेः पदत्रयभूमेः कस्माद्धरिरयाचतेत्यादिनोक्तमुपसंहरति ॥ सर्वमिति ॥ श्रोतॄणामघस्य संसाराख्यपापस्य मोचनमुरुक्रमस्य त्रिविक्रमस्य यस्यैतच्चरितं सर्वं भवत आख्यातम् ॥ २८ ॥

लिङ्घेरी

हे कुलनन्दन स्वकुरुकुलसन्तोषक । श्रोतॄणाम् अघात्पापान्मोचनं मुक्ति-र्भवतीत्यघमोचनं भगवत उरुक्रमस्यैतन्मया वक्तुं योग्यं सर्वं चरितं तवाख्यातम् ॥ २८ ॥

पारं महिम्न उरुविक्रमतो मुरारेः

यः पार्थिवान्यपि कविर्विममे रजांसि ।

किं जायमान उत जात उपैति मर्त्य

इत्याह मन्त्रदृगृषिः पुरुषस्य यस्य ॥ २९ ॥

पदरत्नावली

ब्रह्मादिमहिमातिरिक्तमहिमत्वे मुरारेश्चरितस्य संसाराख्याघातविघातदक्षत्वं घटतामपि, तत् कथमित्याशङ्क्य प्रमाणपूर्वकं तदाह– पारं महिम्न इति ॥ ‘विष्णोर्नु कं वीर्याणि प्रवोचम्’ ‘न ते विष्णो जायमानो न जातः’ इति मन्त्रदृग् वेदद्रष्टा ऋषिराह । यस्य पुरुषस्य यो मर्त्यः पार्थिवानि रजांसि पार्थिवपरमाणून् विषमे मानं करोत्यपि । छन्दसि व्यत्ययो बहुलमिति वचनाल्लडर्थे लिट् । जायमान उत जनिष्यमाणो वा समर्थः महिम्नः पारं समाप्तिम् उपैति किम् ? नैवोपैतीत्यन्वयः । पुरुषः क इति तत्राह– मुरारेरिति ॥ उरु महद्यथा भवति तथेति क्रियाविशेषणम् । कविरप्यतिक्रान्तदर्श्यपीति वा ॥ २९ ॥

सत्यधर्मीया

कुतः कवे तदवशेषः सर्वं वदेत्यत आह ॥ पारमिति ॥ यस्य पुरुषस्योरुविक्रमत उरु यथा तथा पादविक्षेपं कुर्वतः । पूर्वदेशविभागविशिष्टोत्तरदेशसंयोगस्यैव विहरणशब्दार्थत्वात्तस्य अभावान् वेश्चेत्यनेन नात्मनेपदता । विक्रमं पराक्रमं कुर्वत इत्यपि अनेन सूचितः । तर्ह्य यमस्मद्यदुनायकादन्यः किमिति चित्तविक्षेपं मा दीधरो धरापत इत्याह ॥ मुरारेरिति ॥ महिम्नः पारं जायमानो जातो जनिष्यमाणश्च कविरतिक्रन्ददर्शी सोऽप्यन्तमुपैति किं नोपैति । यः कोऽपि पार्थिवानि पृथिवीसम्बन्धीनि रजांसि धूलीर्विममे गणयति सोऽपि मर्त्यः पारमुपैति किमिति मन्त्रदृक् । ‘‘विष्णोर्नुकं वीर्याणि प्रवोचं यः पार्थिवानि विममे रजांसि । विचक्रमाणस्त्रेधोरुगायः’’ । ‘‘न ते विष्णो जायमानो न जातो देवमहिम्नः परमन्तमापेति’’ मन्त्रद्रष्टा ऋषिर् इत्याह अतो यत्किञ्चिद्वर्णितं मयेति । सोऽपि साकल्येन वक्तुं न शक्य इत्यप्याह ॥ मन्त्रदृगिति ॥ मन्तारं परमात्मानं साकल्येन न पश्यतीति मन्त्रदृक् । श्रोता मन्तेत्यादिश्रुतेः । विष्णोर्नुकमिति सूक्तं षडर्चं दीर्घतमोदृष्टम् । ‘‘सूक्तं दीर्घतमो दृष्टं विष्णोर्नु कमिति प्रभोः । वासिष्ठं च परोमात्रयेति ज्ञानम्’ इति तन्त्रसारोक्तेर् ऋषी ज्ञेयौ । विष्णोर्नु कमित्यृग्विवरणमाकाशाधिकरणतत्त्वप्रकाशिकायां विष्णोर्वीर्याणि को नु प्रवक्ति । योऽपि पार्थिव-परमाणून् गणयतीति तस्यानन्तत्वमुच्यत इति । तट्टिपणे कमित्यस्यार्थः । क इति प्रवोच-मित्यस्यार्थः प्रवक्तीति । श्रुतौ प्रवोचमिति लुङ् प्रयोगेऽपि प्रवक्तीति लट् प्रयोगोऽत्र लुङो न म् भूतकालार्थत्वम् । किन्तु सर्वकालार्थत्वमिति द्योतनाय । तिपो मिपादेशः । तदुक्तं महाभाष्ये । तिङा च तिङो भवन्तीति वक्तव्यम् । चषालं य अश्वरूपाय तक्षति तक्षन्तीति प्राप्त इति ॥ ततश्चैवं योजना । कं को विष्णोर्वीर्याणि प्रवोचं वक्तुमर्हति । ज्ञानाभावान्न कोऽपीत्यर्थः । ननु यः सर्वज्ञः स एव ज्ञातुं प्रवक्तुं चार्हति । अन्यथा सर्वज्ञत्वभङ्ग इत्यत आह ॥ यः पार्थिवानीति ॥ योऽपि सर्वज्ञः सोऽपि पार्थिवानि रजांसि विममे काक्वा नेति गम्यते । विद्यमानस्याज्ञातृत्वमेव सर्वज्ञत्वविरोधि न त्वविद्यमानाज्ञत्वम् । एवं च पार्थिवपरमाणू-नामानन्त्येन सङ्ख्यापरिच्छेदाभावात्तदज्ञत्वं न दोषाय । एवमीश्वरगुणानां ततोऽप्यनन्तत्वा-त्तदज्ञानं न दोषाय । किन्तु गुणायैवेतीति कृतमवसेयम् । लभेत सिकतासु तैलमितिवन् महानन्त्यं वीर्येषु समर्पयितुं गणयतीत्याद्युक्तिर्वा शिष्टवद्दृष्टश्रुत्यर्थस्तु न ते विष्णाविति श्रुतेरित्यनुव्याख्यासुधादौ वर्णितः स्फुटश्च ॥ २९ ॥

छलारी

अत्रैतच्चरितं सर्वमाख्यातमिति विशेषोक्त्याऽन्यान्यपि चरितानि सन्तीत्युक्तम् । तर्हि तानि निःशेषाणि वर्ण्यानीत्यपेक्षायामनन्तत्वान्निःशेषं वर्णयितुं न शक्यानीत्यत्र प्रमाणमाह ॥ पारमिति ॥ यस्य पुरुषस्य पूर्णस्य हरेर्निःशेषं चरितं वर्णनविषये । मन्त्रदृक् । ‘विष्णोर्नुकं वीर्याणि प्रवोचं यः पार्थिवानि विममे रजांसि । न ते विष्णो जायमानो न जातो देवमहिम्नः परमं तमाप’ इति । मन्त्रद्रष्टा ऋषिस्त्रिकालदर्शी च वसिष्ठ इत्याह । तस्योरुक्रमस्यैतच्चरितमिति पूर्वेणान्वयः । मन्त्रद्रष्टा किमाहेत्यत आह ॥ यः पार्थिवानीति ॥ यो मर्त्यः पार्थिवानि पृथ्वीसम्बन्धीनि रजांसि परमाणूनपि यो विममे गणितवान् । स तादृशोऽपि कं को मर्त्यो जायमानो वा जातो वा जनिष्यमाणो वा गृणानो विष्णुचरितानि स्तुवन् । उरु बहुधा विक्रमतः पादन्यासं कुर्वतस्त्रिविक्रमनाम्नो विष्णोर्महिम्नः पारं समाप्तिमुपैति । न कोऽपीत्याहेत्युक्त्या चरितानामनन्तत्त्वमुक्तं भवति ॥ २९ ॥

लिङ्घेरी

नन्वेवं सङ्कोचेन तच्चरितमुक्त्वा सर्वं मयाऽऽख्यातमिति कथमुच्यते । तथात्वे निःशेषतया तत्त्वया वर्णनीयमिति परीक्षिच्छंकां परिहरति शुकः ॥ पारमिति ॥ हे राजन् । मन्त्रदृक् विष्णोर्नुकं वीर्याणि प्रवोचं यः पार्थिवानि विममे रजांसि । न ते विष्णो जायमानो न जातो देवमहिम्नः परमं तमापेत्यादि ऋग्वेदमन्त्रद्रष्टा ऋषिर्यस्य पुरुषस्य त्रिविक्रमस्य यो मर्त्योऽधिकारी पार्थिवानि रजांसि पृथिवीपरमाणून् विममे संख्यायुक्तान्करोति । तादृशोऽपि को विष्णोः पराक्रमान्प्रावोचत् । न कोऽपि । उभावपि दुर्लभौ तत्र द्वितीयोऽतितराम् । हे विष्णो । तव महिम्नः परमन्तं परां काष्ठाम् । पारमिति यावत् । जातो नाप जायमानो नाप्नोति जनिष्य-माणो नाप्स्यतीत्यादिनोरुक्रमस्य मुरारेर्नारायणस्य यो मर्त्यः कविर्ज्ञान्यपि पार्थिवानि रजांसि विममे किं तादृशोऽपि जातो मर्त्य उरुविक्रमतो मुरारेर्महिम्नः पारमुपयातो जायमान उपैति किम् । जनिष्यमाण उपैष्यति किमित्याह यदा तदा कथं मया निःशेषतया वक्तुं शक्यत इति । बहुलं छन्दसीति विमम इति लडर्थे लिट् ॥ २९ ॥

य इदं देवदेवस्य हरेरद्भुतकर्मणः ।

अवतारानुचरितं शृण्वन् याति परां गतिम् ॥ ३० ॥

पदरत्नावली

यस्तस्याद्भुतकर्मणो देवदेवस्य हरेरवतारानुचरितं शृण्वन् वर्तते स परां गतिं वैकुण्ठाख्यं यातीत्यन्वयः ॥ ३० ॥

सत्यधर्मीया

अद्भुतकर्मणश्चित्रचर्यस्य देवदेवस्य हरेरिदमवतारानुचरितं शृृण्वन् यः । यात्यवगच्छतीति यः । यातेर्डः । परां गतिम् । वैकुण्ठं याति । यद्वा शृृण्वन् परां गतिं याति । लक्षणहेत्वोः क्रियायाः । क्रियायाः परिचायके हेतौ चार्थे वर्तमानाद्धातोर्लटः शतृशानचौ स्त इति कौमुद्युक्तेर् हेतोर्लटः शता ततश्च श्रवणकारणिकां परां गतिं यातीति विना वर्तत इति शेषेणाभिमतसिद्धिर्ज्ञेया । यथोक्तम् । सदावन्भागमीमह इत्यादि ऋग्भाष्यटीकयोर्वित्तं रक्षन्नव-न्नित्यात्मानं भागमीमहे । यद्यप्यवन्नित्येतत्सम्बुध्यन्तं व्याख्यातुं शक्यते । तथाऽपि साक्षा-त्प्रयोजनोक्तिलाभाय वचनव्यत्यासेन व्याख्यातम् । लक्षणाहेत्वोः क्रियाया इति स्मरणादिति । हेतुस्तत्र फलमत्र कारणमित्येव विशेषः । हेतुः फलं कारणं चेति कौमुद्युक्तेः । शृृण्वन् परां गतिं यो याति । परां गतिं गुरुम् । गुरुरेव परागतिरित्यादेः । श्रवणं यानफलं स याति जानाति स परां गतिं याति । गुरूपदेशेन ज्ञानं प्राप्य तेन मुक्तिं यातीति आवृत्याऽन्वयेन शुकसुमुखता भवतीति वर्णयन्ति ॥ ३० ॥

छलारी

श्रोतॄणां श्रद्धातिशयजननार्थं वामनावतारचरितं शृृण्वतः फलमाह ॥ य इति ॥ योऽद्भुतकर्मणो देवदेवस्य हरेरवतारस्य वामनस्यानुचरितं शृृण्वन्वर्तते सः परमां गतिं वैकुण्ठाख्यां याति ॥ ३० ॥

लिङ्घेरी

हरौ भक्त्यभिवृद्धये तच्चरितामृतश्रवणफलमाह ॥ य इति ॥ योऽधिकार्या-श्चर्यकरचरित्रस्य ब्रह्मादिदेवदेवस्य हरेर्नारायणस्येदं त्रिविक्रमावतारचरितं शृृण्वन्नास्ते स परां गतिं वैकुण्ठादिरूपां प्राप्नोति ॥ ३० ॥

क्रियमाणे कर्मणीदं दैवे पित्र्येऽथ मानुषे ।

यत्र यत्रानुकीर्त्ये त तत्तेषां सुकृतं विदुः ॥ ३१ ॥

॥ इति श्रीमद्भागवते अष्टमस्कन्धे एकविंशोऽध्यायः ॥ ८-२१ ॥

पदरत्नावली

अन्यविषयकर्मसमयेऽपि कीर्त्यमानमिदं भगवत्कर्म पूर्णफलप्रदं करोतीत्याह– क्रियमाण इति ॥ अथ मङ्गले दैवप्रभृतिकर्मणि क्रियमाणे सतीदमवतारानुचरितं यत्र यत्र कर्मणि कीर्त्येत तेषां पुंसां तत् तत् कर्म सुकृतं पूर्णफलदानसमर्थं विदुः, ज्ञानिन इति शेषः ॥ ३१ ॥

॥ इति श्रीमद्भागवतटीकायां विजयध्वजतीर्थभिक्षुकृतायाम्

अष्टमस्कन्धे एकविंशो(द्वाविंशो)ऽध्यायः ॥

पदरत्नावली

भवताऽस्मै किमनुगृह्यते त्वद्भक्तायेति तत्राह– एवमिति ॥ किं तत् स्थानम् ? अत्राह– सावर्णेरिति ॥ ३१ ॥

सत्यधर्मीया

क्रियमाणे दैवे देवतासम्बन्धिनि । पित्र्ये पितृसम्बन्धिश्राद्धादौ । पितु-र्यच्चेति यत् । मानुषे ब्राह्मणादिसत्काररूपे कर्मणि क्रियमाणे चेदमवतारानुचरितम् । अनुकीर्त्येत कीर्तितं भवे द्यैस्तत्र तत्र तेषां कीर्तयतां तत्सुकृतं पुण्यप्रापकं विदुर्विद्वांसः ॥ ३३ ॥

॥ इति श्रीसत्यधर्मयतिकृतायां भागवतटिप्पण्याम् अष्टमस्कन्धे एकविंशोऽध्यायः ॥ ८-२१ ॥

छलारी

कर्ममात्रेऽपि कीर्त्यमानमिदं कर्मणि साफल्यं करोतीत्याशयेनाह ॥ क्रियमाण इति ॥ दैवादिकर्माणि क्रियमाणे सतीदं वामनावतारचरितं यत्र यत्र कर्मणि कीर्त्येत तत्कर्म सुकृतं यथावत्कृतं संपूर्णफलदानं समर्थं विदुः । ज्ञानिन इति शेषः ॥ ३१ ॥

॥ इति श्रीछलारी शेषाचार्यकृतायां श्रीभागवतटिप्पण्याम् अष्टमस्कन्धे एकविंशोऽध्यायः ॥

लिङ्घेरी

इदं चरितं देवर्षिपित्रुद्देशेन क्रियमाणे यत्र यत्र कर्मण्युच्येत तेषां तत्कर्म अतिपुण्यसाधनमाहुर्ज्ञानिनः ॥ ३१ ॥

**॥ इति श्रीलिङ्घेरी श्रीनिवासाचार्यकृतायां श्रीभागवतटिप्पण्यां **

अष्टमस्कन्धे एकविंशोऽध्यायः ॥ ८-२१ ॥