स तं समीक्ष्याब्जभवो नखेन्दुभिर्हृतस्वधामद्युतिरावृतोऽभ्यगात्
॥ अथ विंशोऽध्यायः ॥
श्रीशुक उवाच–
स तं समीक्ष्याब्जभवो नखेन्दुभिर्हृतस्वधामद्युतिरावृतोऽभ्यगात् ।
मरीचिमिश्रा ऋषयो बृहद्व्रताः सनन्दनाद्या नरदेव योगिनः ॥ १ ॥
पदरत्नावली
सर्वस्वापहरणेऽपि भगवद्भक्तस्याण्वपि मनोदुःखं न स्यादिति दर्शयितु-मुत्तराध्यायारम्भः । तत्रादौ ब्रह्मणोऽतिथेरागमने पादार्चनादिगार्हस्थ्यधर्मप्रदर्शनप्रकारं वक्ति- स तमिति ॥ हता स्वधाम्नः सत्यनाम्नो द्युतिर्यस्य स तथा । नखेन्दुभिः, हरेरिति शेषः । आवृतः, परिवारैरिति शेषः । अभ्यगात्, पादप्रदेशमिति शेषः ॥ १ ॥
सत्यधर्मीया
बलेरनवलेपिनः न सर्वलोपेऽपि कोपो नापि तापोऽन्तरभूद्भूदेव स्वभाव-भक्तत्वादेवेति दर्शयितुमुत्तराध्यायः । तत्रादौ स्वलोकं प्रत्यागतस्यातिथेर्भगवतो विधिर्गृहस्थधर्मं सत्किमार्पिपदित्यतो दर्शयति ॥ स इति ॥ नखेन्दुभिर्नखामृतमयूखैर् हृता स्वधाम्नः सत्या-ख्यस्य द्युतिः कान्तिर्यस्य सोऽब्जभवः पद्मभूः । तं पादं समीक्ष्य । हे नरदेव मरीचिमिश्राः । तत्सहिता बृहद्व्रता बृहन्महद्व्रतं येषां ते तथा । सनन्दनाद्या योगिनश्च तैरावृतोऽप्यभीष्टदत्वेन प्रार्थितोऽप्यभ्यगात् । य आवृतो नरा देवाश्च योगिनश्चेति वा । आवृतो नखेन्दुभिराच्छादित इत्यपि योजयन्ति । आवृतः परिवारैरिति शेष इत्यपि ॥ १ ॥
छलारी
उरुक्रमस्याङ्घ्रिः सत्यलोकं गत इत्युक्तम् । ततः किं वृत्तमित्यतो ब्राह्मणोऽ-तिथेरागमने पादार्चनादिगार्हस्थ्यधर्मप्रदर्शनप्रकारं वक्ति ॥ स इति ॥ अब्जभवः स ब्रह्मा सत्यलोकं प्राप्तं पादं समीक्ष्याभ्यगात् । पादप्रदेशमिति शेषः । कथम्भूतोऽब्जभवः । हरेरङ्घ्रेर्नखा इवेन्दवश्चन्द्रास्तैर्हता तिरस्कृता स्वधाम्नः सत्यलोकस्य द्युतिर्यस्य सः । स्वयं च तैर्नखेन्दु-भिरावृतश् छन्नः । परिवारैरावृत इति वा ॥ १ ॥
लिङ्घेरी
अत्रापि हरौ भक्तिजननाय तदवतारत्रिविक्रमस्य ब्रह्मादिदेवपूज्यता महिमो-च्यते । तत्रादौ ब्रह्मागमनप्रकारः । हे नरदेव परीक्षिद्राज । अब्जभवो हरिनाभिकमलोत्पन्न-श्चतुर्मुखस्त्रिविक्रमस्य नखलक्षणचन्द्रकान्त्याऽपहृतस्वाश्रयभूतसत्यलोककान्तिः सन् तं त्रिविक्रमं दृष्ट्वा तत्पूजार्थं स्वसेवकैर्देवैः सहितः सन् त्रिविक्रमपादसमीपमगात् । बृहद्व्रतं भगवदुपासनादि येषां ते मरीचिप्रधाना ऋषयः सनन्दनाद्या योगिनश्चागुः ॥ १ ॥
वेदोपवेदा नियमा यमान्वितास्तर्केतिहासाङ्गपुराणसंहिताः ।
ये चापरे योगसमीरदीपितज्ञानाग्निना रन्धितकर्मकल्मषाः ।
ववन्दिरे यत्स्मरणानुभावतः स्वायम्भुवं धाम गता अकर्मकम् ॥ २ ॥
पदरत्नावली
यस्य हरेः स्मरणानुभावः निरन्तरोपास्तिप्रभावस्तस्मात् । ‘अनुभावः प्रभावे स्यान्निश्चये भावसूचके’ इति यादवः । स्वायम्भुवं स्वयम्भुवो ब्रह्मणो विद्यमानं धाम गृहं सत्यलोकं गता मरीचिप्रधानास्तस्य अकर्मणा ज्ञानेन प्राप्यं यत् तत्पदं ववन्दिर इत्यन्वयः
॥ २ ॥
सत्यधर्मीया
वेदा मूलराशय उपवेदा अवान्तरवेदा उभयत्राप्यभिमानिनः । यमैरन्विता नियमाश्च । तर्को ब्रह्मतर्कः । इतिहासा भारतादयः पुरावृत्ता वा । अङ्गानि शिक्षाकल्पादीनि । पुराणसंहिताः पञ्चरात्रादयः । ये चान्ये । योगः समाध्यादिः स एव समीरो वायुस्तेन दीपित उज्वलो ज्ञानरूपोऽग्निस्तेन । रन्धितम् । योगरन्धितेत्यत्र विवृतम् । दग्धं कर्मकल्मषं कल्मषं कर्म दुष्कर्म येषां ते । कर्मप्राप्यदुष्फलं वा येषां ते तथा । न केवलं स्वसमाधिरेव कारणमपि तु इदं मुख्यमित्याह ॥ यदिति ॥ यस्य हरेर्यत्स्मरणं निरन्तरचिन्तनं तस्यानुभावः प्रभावो माहात्म्यं तस्मात् । ‘अनुभावः प्रभावे स्यात्’ इति विश्वयादवौ । स्वयम्भुवो विधेरिदं स्वायम्भुवं धाम गृहं गता ये मरीचिमुखास्ते । अकर्मकं कर्मप्राप्यं न ज्ञानप्राप्यो यः पादस्तम् । अकर्मप्राप्यं कं मोक्षसुखं यस्मादिति वा । ज्ञानेनैव तदुत्तरानिति वचनादकर्मकमिति धामविशेषणं वा । ववन्दिरे इत्येकान्वयः । अथवा ये मरीचिमिश्राः सनन्दनाद्या योगिनस्तैरावृत इति तन्मात्रं खण्डान्वयः । वेदोपवेदादयो ये स्वायम्भुवं धाम गतास्ते ववन्दिर इति पृथगन्वयो वेति ज्ञेयम्
॥ २ ॥
छलारी
हे नरदेव राजन् । मरीचिमुख्या ऋषयो बृहद्वृतं येषां ते सनन्दनाद्या योगिनः सनकाद्याश्च तथा वेदा मूलवेदाभिमानिन उपदेवा अवान्तरवेदाभिमानिनो यमैरन्विता नियमास्तर्का ब्रह्मशास्त्रमितिहासा भारतादयोऽङ्गानि शिक्षादीनि पुराणानि सहिताः पञ्चरात्रागमश्चैतदभिमानि-नश्च । ये चापरेऽन्ये योग एव योगाभ्यास एव समीरो वायुस्तेन दीपितं ज्ञानमेवाग्निस्तेन रन्धितं दग्धं कर्मकल्मषं कर्मफलं येषां ते तथोक्ताः । यस्याङ्घ्रेः स्मरणस्यानुभावतः सामर्थ्यात्स्वयंभुवो ब्रह्मण इदं स्वायंभुवं धाम सत्यलोकं गताः प्रापुः । ते च सर्वेऽकर्मकं कर्मणाऽप्राप्यं किन्तु ज्ञानेनैव प्राप्यं तं हरेरङ्घ्रिं प्राप्य ववन्दिर इति श्लोकद्वयस्यान्वयः ॥ २ ॥
लिङ्घेरी
तथा ऋगादिवेदाभिमानिन आयुर्वेदधनुर्वेदगान्धर्वार्थशास्त्राभिधोपवेदाद्यभिमानिनो यमनियमाभिमानिसहिताः, ब्रह्मतर्कभारतपञ्चरात्रागममूलरामायणाख्येतिहासशिक्षाकल्पव्याकरण- च्छन्दोज्योतिषनिरुक्ताभिधांगाष्टादशपुराण संहिताद्यभिमानिनश्च येऽपरे ध्यानलक्षणयोगाख्यवायुना प्रज्वलितज्ञानाग्निना भस्मीकृतदुष्कर्मतज्जन्यपापाः केचनाधिकारिणोऽगुः । त इमे यस्य त्रिविक्र-मस्य स्मरणसामर्थ्यात्कर्मभिन्नज्ञानप्राप्यं दुष्कर्मरहितं चतुर्मुखाश्रयं सत्यलोकं गतास् तं विक्रमं ववन्दिरे नमस्कृतवन्तः स्तुतवन्तश्च । अनुभावः प्रभावे स्यान्निश्चये भावसूचक इति यादवः
॥ २ ॥
अथाङ्घ्रये प्रोन्नमिताय विष्णोरुपाहरत् पद्मभवोऽर्हणोदकम् ।
समर्च्य भक्त्याऽभ्यगृणाच्छुचिश्रवा यन्नाभिपङ्केरुहसम्भवः स्वयम् ॥ ३ ॥
पदरत्नावली
यस्य हरेस् तस्य विष्णोः ॥ ३ ॥
सत्यधर्मीया
अथ वन्दनानन्तरम् । विष्णोरङ्घ्रये प्रोन्नमितायोर्ध्वीकृततलाय पद्मभवोऽ-र्हणोदकमवनेजनाद्युपयुक्तं जलमुपाहरत् । आहृत्य भक्त्या समभ्यर्च्य यः शुचिश्रवास्तमभ्य-गृणादस्तौषीत् । पद्मभव इत्युक्तं स्वयमेव ग्रन्थकृद्विवृणोति ॥ यन्नाभिपङ्केरुहसम्भवः स्वयमिति । पङ्केरुहं तामरसम् । पङ्केरुहं तत्पुरुषे कृतीत्यलुक् । शुचिश्रवा इति पद्मभवविशेषणं वा ॥३॥
छलारी
प्रोन्नमितायोर्ध्वमुख्याय विष्णोरङ्घ्रयेऽर्हणोदकं पादप्रक्षालनोदकं जलं पद्मभव उपाहरदानिनाय । शुचिः शुद्धं श्रवः कीर्तिर्यस्य सः स्वयं ब्रह्मा यस्य हरेर्नाभिपङ्केरुहान्नाभिक-मलात्सम्भवः सम्भूतस्तस्याङ्घ्रिं तेनोदकेन भक्त्या समभ्यर्च्य प्रक्षालनादिभिः पूजयित्वाऽभ्य-गृणादस्तौत् ॥ ३ ॥
लिङ्घेरी
अथ पद्मभवश्चतुर्मुखः प्रोन्नमितायोर्ध्वमभिवृद्धाय विष्णोरंघ्रये पादायार्हणस्य पूजनस्य साधनमुदकमुपाहरदानीतवान् । स्वयं चतुर्मुखो यस्य नाभिकमलादुत्पन्नो यदनुग्रहा-च्छुद्धकीर्तिश्च स तं भगवन्तं त्रिविक्रमं भक्त्या समभ्यर्च्याभ्यगृणादस्तौत् ॥ ३ ॥
धातुः कमण्डलुजलं तदुरुक्रमस्य
पादावनेजनपवित्रतया नरेन्द्र ।
स्वर्धुन्यभून्नभसि सा पतती निमार्ष्टि
लोकत्रयं भगवतो विशदेव कीर्तिः ॥ ४ ॥
पदरत्नावली
तत् कमण्डलुजलं स्वर्धुनी स्वर्गङ्गा नदी अभूत् । निमार्ष्टि शुद्धं करोति
॥ ४ ॥
सत्यधर्मीया
धातुर्विधातुः कमण्डलुजलं यत्तदेव उरुक्रमस्य पादावनेजनजलजाता या पवित्रता तया स्वर्धुनी स्वर्गङ्गाऽभूत् । नभसि पतती पतन्ती लोकत्रयं निमार्ष्टि शोधयति । सा कथमभादित्यत आह ॥ भगवतो विशदा कीर्तिरिवेति ॥ सा यथा पाण्डुरा तथेति । तेन देवस्य किमित्यतोऽप्याह । लोकत्रयं भगवतः कीर्तिरेवैषा सैवाविशत् । विवेशेति वा । यत्कमण्डलुजलं विशदे क्षीरमाधुर्ये या कीर्तिस्तां निमार्ष्टि मार्जयति । तदपेक्षया माधुर्यमिति भावः । यथोक्तं सुधायाम् । ‘विशदं क्षीरमाधुर्यं यत्स्थिरमाज्यस्य तीक्ष्णकम्’ इति । धुनोति वेतसादीनि इति धुनी, क्विप् पृषोदरादिर्नुक् । ‘तटिनी ह्रादिनी धुनी’ इत्यमरः । वेर् गरुडस्य शमिव शं यस्य । तत्समत्वाद्विशश्चासौ देवो महादेवश्च तस्य कीर्तिर्यया वा सेति वा स्वर्धुनी-विशेषणम् । जलं तु बहिरावरणवारि । प्रपञ्चितः पञ्चमे प्रकारोऽयमनुसन्धेयः । विशदे क्षीर-माधुर्येऽवकीर्तिरप्रसादो येन जलमाधुर्येण तज्जलमिति वा । ‘कीर्तिः प्रसादे यशसो विस्तारे कर्दमेऽपि च’ इति विश्व इति वा ॥ ४ ॥
छलारी
उरुक्रमस्य पादयोरवनेजनेन पादप्रक्षालनेन पवित्रतया तद्धातुः कमण्डलुजलं स्वर्धुनी स्वर्गनद्यभूत् । नभस्यन्तरिक्षे पतती सा स्वर्गनदी लोकत्रयं निर्माष्टि पवित्रयति । केव । भगवतो विशदा निर्मला कीर्तिरिव ॥ ४ ॥
लिङ्घेरी
हे नरेन्द्र । धातुश्चतुर्मुखस्य कमण्डलुजलमुरुक्रमस्य त्रिविक्रमस्य पादप्रक्षालनेन पवित्रतया स्वर्गनदी बभूव । सा नभस्यन्तरिक्षे पतन्ती सती भगवतो निर्मला कीर्तिरिव पवित्र-करतया भूर्भुवःस्वर्लक्षणलोकत्रयजनं शुद्धीकरोति ॥ ४ ॥
ब्रह्मादयो लोकनाथाः स्वनाथाय समादृताः ।
सानुगा बलिमाजह्रुरसङ्क्षिप्तात्मभूतये१ ॥ ५ ॥
पदरत्नावली
असङ्क्षिप्ता सङ्कोचरहिता अपरिमिता आत्मभूतिः स्वरूपश्रीर्येन स तथा तस्मै । ‘भूतिः श्रीर्जन्मभस्मनि’ इति च ॥ ५ ॥
सत्यधर्मीया
ब्रह्मादयो लोकनाथाः स्वनाथाय स्वस्वामिने स्वप्रार्थ्याय वा । सानुगाः सभृत्याः । सानुं सानु वा पर्वतृङ्गं वा वात्यां वा केवलमवनिं वा गच्छन्तीति तप आद्यर्थं ते तथा । ‘सानु शृृङ्गे बुधे मार्गे वात्यायां पल्लवेऽवनौ’ इति विश्वः । ‘स्तुः प्रस्तः सानु न स्त्रियाम्’ इत्यमरः । पूर्वोदीरिता मरीच्यादयः समादृताः सम्यग्भक्तियुक्ताः । ‘आदरो भजनं भक्तिः’ इति गीताभाष्योक्तेः । हे सम सह रमेति आदृता । असंक्षिप्तात्मभूतयेऽसंक्षिप्ताऽस-कुञ्चिता आत्मभूतिः स्वरूपश्रीर्यस्य तस्मै । ‘भूतिः श्रीजन्मभस्मसु’ इति यादवः । बलिं पूजासाधनं वस्तु, आजह्रुरानीतवन्तः । असंक्षिप्ता स्वस्वयोग्यतानुसारेण पूर्णा आत्मभूतिः स्वसंपत्तदर्थमिति वा । असंक्षिप्ता विद्यया जन्मनेत्यादि सर्वप्रकारेणेत्यसङ्कुचिताऽऽत्मभूतिः स्वोत्पत्तिर्येन तस्मा इति वा ॥ ५ ॥
छलारी
लोकनाथा ब्रह्मादयः समादृताः सम्यगादरवन्तः सानुगाः सपरिवारा असंक्षिप्ता असंकुचिता अपरिमिताऽऽत्मभूतिः स्वरूपश्रीर् यस्य तस्मै । ‘भूतिः श्रीर्जन्मभस्मसु’ इति । संक्षिप्तात्मविभूतये इति पाठे संक्षिप्तोपसंहृताऽऽत्मविभूतिरात्मविस्तरो येन तस्मै । यथा पूर्वं वामनरूपेण स्थितायेत्यर्थो ज्ञेयः । स्वनाथाय स्वस्वामिने बलिं पूजामाजह्रुश्चक्रुः ॥ ५ ॥
लिङ्घेरी
सानुगा भृत्यसहिता ब्रह्मादयो लोकपालास्त्रिविक्रमे सम्यगादरवन्तः सन्तोऽ-संकुचितस्वरूपभूताणिमाद्यैश्वर्यवते स्वस्वामिने बलिं पूजासाधनमानीतवन्तः ॥ ५ ॥
तोयैः समर्हणैः स्रग्भिर्दिव्यगन्धानुलेपनैः ।
धूपैर्दीपैः सुरभिभिर्लाजाक्षतफलाङ्कुरैः ॥ ६ ॥
सत्यधर्मीया
तानि च कानि साधनानीत्यत आह ॥ तोयैरित्यादिना ॥ समर्हणैः पूजोपयुक्तैः सुरभिभिः परिमलद्रव्यैर्गोभिर्वा । ‘सुरभिर्गन्धोपले सौरभेय्याम्’ इति विश्वः । लाजान्युशीराणि वा भ्रष्टव्रीहयो वा लाजास्तैः । ‘उशीरे लाजमुद्दिष्टम्’ इति विश्वः ॥ ६ ॥
छलारी
पूजासाधनान्याह ॥ तोयैरित्यादिद्वाभ्याम् ॥ समर्हणैर्योग्यैः स्रग्भिः पुष्प-मालाभिः सुरभिभिः परिमलैः ॥ ६ ॥
लिङ्घेरी
पूजासाधनमेव विशिनष्टि ॥ तोयैरित्यादिना ॥ ब्रह्मादयः समर्हणैः पूजा-साधनैस्तोयैर्जलैः स्रग्भिः पुष्पमालाभिरलौकिकपरिमलोपेतचन्दनाद्यनुलेपनद्रव्यैः सुरभिभिः परिमल- वद्भिर्धूपैर्लाजाभिर्भर्जितव्रीहायताभिरक्षतफलाङ्कुरैः ॥ ६ ॥
स्तवनैर्जयशब्दैश्च तद्वीर्यर्महिमाङ्कितैः ।
नृत्तवादित्रगीतैश्च शङ्खदुन्दुभिनिःस्वनैः ।
जाम्बवान् ऋक्षराजस्तु भेरीशब्दैर्मनोजवः ॥ ७ ॥
सत्यधर्मीया
तस्य वीर्यस्य महिम्नांकितैस्तद्वीर्येण महिम्ना चाङ्कितैश्चिह्नितैः स्तवनैः स्तुतिभिः । एतदभिन्नं बलिमाजह्रुरित्यन्वयः । भेरिशब्दैर्नंदिरवैः ॥ ७ ॥
छलारी
स्तवनैः स्तोत्रैस्तस्य वामनस्य वीर्यैर्महिम्ना चाङ्कितैर्युक्तैः । ऋक्षराजो मृग-विशेषाकारो जाम्बवान् ब्रह्मपुत्रो यमावतारो मनोवेगवज्जयो यस्य सः ॥ ७ ॥
लिङ्घेरी
तस्य त्रिविक्रमस्य पराक्रममाहात्म्यचिह्नितैः स्तवनैः स्तोत्रैर्जयशब्दैश्च नर्तन-वाद्यगानैः शङ्खभेरीध्वनिभिश्चापूजयन् । ऋक्षाणां भल्लूकानां राजा श्रेष्ठो जांबवान् मनसो जव एव वेग एव जववान्सन् भेरी शब्दैः सर्वासु दिक्षु त्रिविक्रमस्य विजयमुत्कर्षं महोत्सवो यथा स्यात्तथाऽघोषयत्प्रसिद्धमकरोत् ॥ ७ ॥
विजयं दिक्षु सर्वासु महोत्सवमघोषयत् ।
महीं सर्वां हृतां दृष्ट्वा त्रिपदव्याजयाञ्चया ।
ऊचुः स्वभर्तुरसुरा दीक्षितस्यात्यमर्षिताः ॥ ८ ॥
सत्यधर्मीया
महोत्सवं विजयं सर्वासु दिक्षु । अघोषयत् ख्यापयामास । त्रिपद-व्याजयाञ्चया त्रिपदमिति व्याजापदेशो यस्याः सा च याञ्चा तया । दीक्षितस्य स्वभर्तुः सर्वां महीं हृतामपहृतां दृष्ट्वाऽत्यमर्षिता असुराः परस्परमूचुः ॥ ८ ॥
छलारी
वामनविजयरूपं महोत्सवं सर्वासु क्षितिष्वघोषयद्भेरीशब्देन वामनविजयं लोकत्रये विज्ञापितवानिति भावः । त्रिपदविषयव्याजयाञ्चया स्वभर्तुः स्वस्वामिनो दीक्षितस्य बलेः सर्वां महीं हृतां दृष्ट्वाऽसुरा अत्यमर्षिताः सन्तोऽत्यन्तासहमानाः सन्त ऊचुः ॥ ८ ॥
लिङ्घेरी
असुराः स्वेषां भर्तुः पोषकस्य दीक्षितस्य यज्ञनियमवतो बलेः सर्वां भूमिं वामनेन त्रिपादयाच्नः व्याजेनापहृतां दृष्ट्वाऽतिकोपिताः सन्तो वक्ष्यमाणप्रकारमुचुः ॥ ८ ॥
न वा अयं ब्रह्मबन्धुर्विष्णुर्मायाविनां वरः ।
द्विजरूपप्रतिच्छन्नो देवकार्यं चिकीर्षति ॥ ९ ॥
पदरत्नावली
अयं ब्रह्मबन्धुर्न वै, किंस्विद् विष्णुः ॥ ९ ॥
सत्यधर्मीया
ब्रह्मबन्धुर्यौगिकः शब्दः । ब्रह्मणो ब्राह्मणस्य बन्धुर्बान्धवः पुत्र इति यावत् । अतद्धर्मेतीयमुक्तिः । ‘बन्धुर्भ्रातरि बान्धव’ इति विश्वः । न वै नैव । तर्हि क इत्यतो वदति । मायाविनां विनिप्रत्ययान्तः । माया कापट्यं तद्वतां वरः । विष्णुः । दृश्यते श्रूयते च कश्यपस्य पुत्र इतीत्यत आह । ब्रह्मबन्धुर्ब्राह्मणाभास इति । तत्र हेतुमाहुः ॥ द्विजरूप-प्रतिच्छन्न इति ॥ विपरीतो वा हेतुहेतुमद्भावः । चिकीर्षतीत्युक्तिश्च शुक्रोक्तभाविबहु-विपदभिप्रायेण । कर्तुमिच्छति ॥ ९ ॥
छलारी
किमूचुस्तदाह ॥ न वा इति सार्धत्रिभिः । अयं बालको ब्रह्मबन्धुर्ब्राह्मण-वंशोद्भवो न वै । किन्तु मायाविनां कपटिनां वरो विष्णुरेव द्विजरूपेण द्विजवेषेण प्रतिच्छन्नः सन् देवानां कार्यं चिकीर्षति कर्तुमिच्छति ॥ ९ ॥
लिङ्घेरी
अयं त्रिपादयाचको ब्रह्मबन्धुर्ब्राह्मणकुमारो न वै नैव किन्तु मायाविनां वञ्चकानां श्रेष्ठः । मेधा माया सृजो विनिरिति मतुबर्थे मायाशब्दाद्विनिः । विष्णुरेव ब्राह्मणा-कारेणाच्छादितस्वरूपः सन् देवकार्यं कर्तुमिच्छति ॥ ९ ॥
अनेन याचमानेन शत्रुणा बहुरूपिणा ।
सर्वस्वं नो हृतं भर्तुर्न्यस्तदण्डस्य बर्हिषि ॥ १० ॥
सत्यधर्मीया
बहुरूपिणा नानावेषिणाऽबहुरूपिणा तनुतनुमतानेनैव बहुरूपिणा विपुल-रूपवतेति । ‘बहु स्याद्विपुले त्र्यादिसङ्ख्यास्वप्यभिधेयवत्’ इति विश्वः । अबहुरूपिणा निः-सुवर्णेन शुद्धदरिद्रेणेति वा । यथोक्तं काठकभाष्ये । ‘बहुरूपञ्च पुरुटं कार्तस्वरमितीर्यत’ इति । नो भर्तुः सर्वस्वं हृतं कुतो न समरममुना मुरारिनाऽकरोदित्यत ईरयन्ति ॥ न्यस्तदण्डस्येति ॥ न्यस्तो दीक्षितत्वात्त्यक्तो दण्डो यस्य स तथा तस्य । बर्हिषि अग्निसमे तत्साक्षिकं सङ्कल्पपूर्वकं त्यक्तशासनस्य । बृहि वृद्धौ । बृंहेर्न लोपश्चेति पुलिङ्गः बर्हिष्शब्दः । बर्हिरुक्तो बृहद्भानु-रित्यमरमालापुंस्काण्डोक्तेः । ‘शुक्रो वैश्वानरो बर्हिः षर्हिः शुष्मा तनूनपात्’ इति शब्दार्णवः । ‘बर्हिः कुशहुताशयोः’ इति विश्वः ॥ १० ॥
छलारी
बर्हिषि विषयज्ञानार्थं न्यस्तोऽयुक्तो दण्डः शासनं येन तस्य नो भर्तुर्बलेः सर्वस्वं तेन वटुरूपिणा हृतम् ॥ १० ॥
लिङ्घेरी
बहुरूपिणा ह्रस्वदीर्घाद्याकारवता शत्रुरूपेण त्रिपदं याचमानेनानेन वामनेन बर्हिषि यज्ञे दीक्षितस्यात एव त्यक्तनिग्रहस्य नोऽस्माकं भर्तुर्बलेः सर्वस्वमपहृतम् । ‘बर्हिर्दर्भे च यज्ञे’ इति नानार्थमुक्तावली ॥ १० ॥
सत्यव्रतस्य सततं दीक्षितस्य विशेषतः ।
नानृतं भाषितुं शक्यं ब्रह्मण्यस्य दयावतः ॥ ११ ॥
सत्यधर्मीया
किमिति नेति नावादीत्यत आहुः ॥ सत्यव्रतस्येति ॥ ११ ॥
छलारी
सततं सत्यं यथार्थभाषणव्रतं यस्य तस्य विशेषतो यज्ञे दीक्षितस्य ब्रह्मण्यस्य ब्राह्मणभक्तस्य दयावतोऽस्य बलेरनृतं भाषितं वक्तुं न शक्यम् ॥ ११ ॥
लिङ्घेरी
ननु बलिना, मया त्रिपादं दीयत इत्युक्तेऽप्यत्यभिवर्धमानतत्पददर्शनानन्तरं नाहमेतादृक् पदत्रयं दास्यामीति किं नोक्तमित्यत आह ॥ सत्यव्रतस्येति ॥ सततं यथार्थ-वचनमेव व्रतं मुख्यं यस्य । तत्रापि विशेषतो दीक्षितस्य ब्राह्मणेषु वात्सल्यवतो दयावतश्च बलेरयथार्थवचनं वक्तुमशक्यमिति ॥ ११ ॥
तस्मादस्य वधो धर्मो भर्तुः शुश्रूषणं च नः ।
इत्यायुधानि जगृहुर्बलेरनुचरासुराः ॥ १२ ॥
सत्यधर्मीया
अनुचराश्च ते असुराश्चेति विग्रहः ॥ १२ ॥
छलारी
यस्माद्बलिर्दीक्षितस्तस्मादस्य बटोर्वधोऽस्माकं धर्मः । नोऽस्माकं भर्तुः शुश्रूषणं च भवेत् । इत्युक्त्वा बलेरनुचराश्चायुधानि जगृहुः ॥ १२ ॥
लिङ्घेरी
यस्मादेवं तस्मादस्य त्रिविक्रमस्य वधो, धर्मोऽस्माकं स्वामिसेवा चेत्येवं मत्वा बलेर्भृत्या असुराः स्वायुधानि गृहीतवन्तः ॥ १२ ॥
ते सर्वे वामनं हन्तुं शूलपट्टिशपाणयः ।
अनिच्छतो बले राजन् प्राद्रवञ्जातमन्यवः ॥ १३ ॥
सत्यधर्मीया
अनिच्छतो बलेरिति षष्ठ्याऽनादरोऽनिच्छन्तं तमनादृत्य प्राद्रवन् ॥१३॥
छलारी
शूलपट्टिशा पाणौ येषां ते तथा ते सर्वे वामनं हन्तुम् । जातो मन्युः कोपो येषां ते तथा । बलेरनिच्छतः सतः प्राद्रवन् ॥ १३ ॥
लिङ्घेरी
ते सर्वेऽसुराः स्वस्वामिनो बलेरनिच्छतः सतोऽपीच्छाभावेऽपीति यावत् । स्वयमेव जातो मन्युः कोपो येषां ते तथा सन्तः शूलादिहस्ता वामनं हन्तुं प्राद्रवन् । ‘मन्युः क्रोधो क्रतौ दैन्य’ इति नानार्थमुक्तावली ॥ १३ ॥
तानभिद्रवतो दृष्ट्वा दितिजानीकपान् नृप ।
प्रहस्यानुचरा विष्णोः प्रत्यषेधन्नुदायुधाः ॥ १४ ॥
सत्यधर्मीया
अनुचरा भृत्याः ॥ १४ ॥
छलारी
तान्दितिजानां दैत्यानामनीकपान्सेनानायकान् अभिद्रवतो दृष्ट्वा प्रहस्यापहासं कृत्वा विष्णोरनुचरा उदायुधाः सन्तः प्रत्यषेधन् ॥ १४ ॥
लिङ्घेरी
हे नृप । विष्णोर्भृत्या नन्दादयः स्वाभिमुख्येनाश्वागच्छतो दैत्यसेनापालका-न्दृष्ट्वा प्रहस्योद्यतायुधाः सन्तस्तान्न्यवारयन् ॥ १४ ॥
नन्दः सुनन्दोऽथ जयो विजयः प्रबलो बलः ।
कुमुदः कुमुदाक्षश्च विष्वक्सेनः पतत्त्रिराट् ॥ १५ ॥
जयन्तः श्रुतदेवश्च पुष्पदन्तोऽथ सात्वतः ।
सर्वे नागायुतप्राणाः स्वां स्वां ते जघ्नुरासुरीम् ॥ १६ ॥
पदरत्नावली
स्वां स्वां स्वस्य प्राप्ताम् असुरसेनाम् ॥ १६ ॥
सत्यधर्मीया
तानाह ॥ नन्द इति ॥ विष्वक्सेनः पार्षदः । पतत्त्रिराट् गरुडः ॥ नागायुतप्राणा दशसहस्रगजवत्प्राणो बलं येषां ते तथा । स्वां स्वां स्वस्वाभिमुखेन प्राप्ताम् । आसुरीं सेनां जघ्नुः ॥ १५-१६ ॥
छलारी
विष्णोरनुचरानाह ॥ नन्द इत्यादि सात्वत इत्यन्तेन । पतत्त्रिराट् गरुडो नागानां गजानामयुतवत्त्राणो बलं येषां ते आसुरीं चमूं सेनां जघ्नुः ॥ १५-१६ ॥
लिङ्घेरी
विष्णुभृत्यान्नामतो दर्शयति ॥ नन्द इत्यादिना सात्वत इत्यन्तेन । पतत्त्रिराट् गरुडः । ते नन्दादयः सर्वे स्वं प्रति प्राप्तामासुरीसेनां हतवन्तो यतो नागायुतत्राणा दशसहस्रगजतुल्यबलाः । ‘गजेऽपि नागमातंगा’ इत्यमरः ॥ १५-१६ ॥
हन्यमानान् स्वकान् दृष्ट्वा पुरुषानुचरैर्बलिः ।
वारयामास संरब्धान् काव्यशापमनुस्मरन् ॥ १७ ॥
सत्यधर्मीया
काव्यशापं शुक्रस्य ‘भ्रश्यसे श्रिय’ इति स्वशापम् ॥ १७ ॥
छलारी
पुरुषस्य वामनस्यानुचरैर्भृत्यैः । संरब्धान् आग्रहयुक्तान् । काव्यस्य स्व-शुक्राचार्यस्य शापं ‘अचिराद् भ्रश्यसे श्रिय’ इत्येवं रूपं स्मरन् ॥ १७ ॥
लिङ्घेरी
बलिः पुरुषस्य वामनस्यानुचरैर्भृत्यैर्नन्दादिभिर्हन्यमानान्स्वकीयान् भृत्यान्दृष्ट्वा स्वस्य, काव्यस्य शापमैश्वर्यभ्रष्टो भवेत्येवंरूपमनुस्मरन्सन् संरब्धान्पुनर्युद्धाय कोपाटोपयुक्ता-न्वारयामास ॥ १७ ॥
हे विप्रचित्ते हे राहो हे हेते श्रूयतां वचः ।
मा युध्यत निवर्तध्वं न नः कालोऽयमर्थकृत् ॥ १८ ॥
सत्यधर्मीया
अयं कालो हरिर्नोऽर्थकृदर्थसाधको नातो मा युध्यत निवर्तध्वम् । मम वचः श्रूयतामिति वारयामासेत्यन्वयः ॥ १८ ॥
छलारी
मा युध्यत युद्धं न कुरुध्वं युद्धान्निवर्तध्वम् । कालः कालनियामको हरिर्नोऽर्थकृदनुकूलो न भवति ॥ १८ ॥
लिङ्घेरी
निवारणप्रकारमेव दर्शयति ॥ हे विप्रचित्त इति ॥ हे राहो मे वक्ष्यमाणं वचः युष्माभिः श्रूयताम् । यूयं मा युध्यत युद्धान्निवर्तध्वम् । अयं कालो नोऽस्माकमर्थकृज् जयादि-प्रयोजनसाधनो न भवति ॥ १८ ॥
यः प्रभुः सर्वभूतानां सुखदुःखोपपत्तये ।
तं नातिवर्तितुं दैत्याः पौरुषैरीश्वरः पुमान् ॥ १९ ॥
पदरत्नावली
पौरुषैः पुरुषकारैः ॥ १९ ॥
सत्यधर्मीया
पौरुषैः पुरुषाकारैरीश्वरो न न समर्थ इत्यर्थः ॥ १९ ॥
छलारी
यः सर्वभूतानां सुखदुःखयोरुपपत्तये प्राप्तये यः प्रभुः समर्थः । तं पुमान् पौरुषैः स्वपराक्रमैरतिवर्तितुमत्येतुमीश्वरः समर्थो न भवेत् ॥ १९ ॥
लिङ्घेरी
वयं पराक्रमेण तं कालमभिभवाम इति न मन्तव्यं शत्रुजयादेरीश्वरादित्याह ॥ यः प्रभुरिति ॥ हे विप्रचित्त्यादयः । यो हरिः सर्वप्राणिनां सुखदुःखप्रापणाय प्रभुः समर्थः । तं कालशब्दितं पुमान्पुरुषः पौरुषैः स्वपराक्रमादिभिरतिवर्तितुमतिक्रान्तुमीश्वरः समर्थो न भवति । ‘सुखं दुःखं भवो भावः कालाख्या रूपिणस्तव’ इत्यादेः ॥ १९ ॥
यो नो भवाय प्रागासीदभवाय दिवौकसाम् ।
स एव भगवानद्य वर्तते तद्विपर्ययम् ॥ २० ॥
सत्यधर्मीया
यो भगवान्भवाय मङ्गलाय । दिवौकसां चाभवायासीत्स एव तद्विपर्ययं नोऽभवस्तेषां भव इति तद्विपर्ययं यथा स्यात्तथा वर्तते । तद्विपर्ययं वर्तते वर्तयतीति वा
॥ २० ॥
छलारी
यो भगवान्प्राक् पूर्वं भवायैश्वर्यायासीत् । दिवौकसां देवानामभवाय चासीत् । स एव तद्विपर्ययं पूर्वोक्तस्य विपर्ययं देवानां भवाय नोऽभवायेत्येवंरूपं विपरीतं यथा स्यात्तथा वर्तते ॥ २० ॥
लिङ्घेरी
तर्हि तदनुग्रहेणैव वयं शक्रादीन् जेष्याम इत्यत आह ॥ य इति ॥ यो भगवान्कालशब्दितो नोऽस्माकं भवाय स्वाराज्यादिमङ्गलाय सहायः पूर्वमभूद्दिवौकसां देवानाम-भवायामङ्गलाय हेतुरासीत्स एवेदानीं तद्विपरीतो वर्तत इति ॥ २० ॥
बलेन सचिवैर्बुध्द्या दुर्गमन्त्रौषधादिभिः ।
सामादिभिरुपायैश्च कालं नात्येति वै जनः ॥ २१ ॥
सत्यधर्मीया
कालेनेदं फलिष्यतीत्याह ॥ बलेनेति ॥ काले विपरीते बलादिकं निष्फलमिति भावः ॥ २१ ॥
छलारी
नन्वस्माकं नानासाधनानां सात्वतैर्भगवानतिवर्तितुं शक्यः स्यादित्यत आह ॥ बलेनेति ॥ चतुरङ्गबलसैन्येन सचिवैर्मन्त्रिभिः कालं कालप्रेरकं हरिं नात्येत्यतिवर्तितुं क्षमो न भवति । ‘कालो बलीयानिति साधुवाद’ इत्युक्तेः । कालस्य बलवत्वादिति भावः ॥ २१ ॥
लिङ्घेरी
ननु पराक्रमैर्जेतुमशक्योऽपि कालो बलादिभिरनेकोपायैर्जेतुं शक्य एवेत्यत आह ॥ बलेनेति ॥ जयाकांक्षी जनो बलेन शारीरशक्त्या सचिवैर्बुध्यादिसहायभूतैर्जनैर्दुर्गेण मन्त्रौषधा-दिभिः सामाद्युपायैश्च कालं नात्येतीति ॥ २१ ॥
भवद्भिर्निर्जिता ह्येते बहुशोऽनुचरा हरेः ।
दैवरुद्धास्त१ एवाद्य युधि जित्वा नदन्ति नः ॥ २२ ॥
सत्यधर्मीया
दैवं भगवांस्तद्रुद्धा बहुवारं निर्जितास्त एवाद्य युधि नः जित्वा नदन्ति गर्जन्ति ॥ २२ ॥
छलारी
हरेरनुचरा देवा दैवेनादृष्टप्रेरकेणेश्वरेण ऋद्धैरनुकूलितैर्भवद्भिर्बहुशो निर्जिताः । दैवरुद्धा इति पाठे दैवेन प्रतिहता इति देवविशेषणम् । एते देवा एवाद्य युधि नो जित्वा नदन्ति गर्जन्ति । दैवस्यानुकूलत्वात् ॥ २२ ॥
लिङ्घेरी
अस्माकं हरिरिदानीं विपरीत इत्युक्तं दर्शयति ॥ भवद्भिरिति ॥ हे विप्रचित्त्यादयः । एते नन्दादयो हरेरनुचरा यदा दैवेनादृष्टप्रेरकेण हरिणा रुद्धाः प्रतिरुद्धास्तदा भवद्भिरेव बहुशो निर्जितास्त एवाद्य युधि युष्मान् जित्वा नदन्तीति ॥ २२ ॥
एतान् वयं विजेष्यामो यदि दैवं प्रसीदति ।
तस्मात् कालं प्रतीक्षध्वं यो नोऽर्थत्वाय कल्पते ॥ २३ ॥
सत्यधर्मीया
अर्थत्वाय, अमृतत्वस्य मुक्तवर्गस्येतिवदर्थसार्थायेत्यर्थः । यः कालः कल्पते तं प्रतीक्ष्वध्वम् ॥ २३ ॥
छलारी
यः कालो नोऽर्थत्वायानुकूलाय कल्प्यते भवेत् । तं कालं प्रतीक्षध्वम् ॥२३॥
लिङ्घेरी
तर्हि नो जयो दुर्लभ एवेति न मन्तव्य इत्याह ॥ एतानिति ॥ यदि दैवमदृष्टप्रेरकेश्वरोऽस्माकं प्रसीदति प्रसन्नो भवेत्तर्हि तदैव वयमेतान्विजेष्यामः । तस्माद्यूयं, यः कालोऽस्माकं जयादिप्रयोजनाय सहायो भविष्यति तं कालं प्रतीक्षध्वमिति ॥ २३ ॥
श्रीशुक उवाच–
पत्युर्निगदितं श्रुत्वा दैत्यदानवयूथपाः ।
रसां निर्विविशू राजन् विष्णुपार्षदताडिताः ॥ २४ ॥
पदरत्नावली
रसां रसातलम् ॥ २६ ॥
सत्यधर्मीया
रसां रसातलम् ॥ २४ ॥
छलारी
पत्युः स्वामिनो बलेर्निगदितं वचनं श्रुत्वा रसां रसातलं विष्णोः पार्षदै-र्नन्दादिभिस्ताडिताः ॥ २४ ॥
लिङ्घेरी
हे राजन् । दैत्यदानवसमूहरक्षकाः स्वपतेर्बलेरुक्तरूपं वचनं श्रुत्वा विष्णु-पार्षदैस्ताडिता अपि रसातलमेव प्रविष्टाः ॥ २४ ॥
अथ तार्क्ष्यसुतो ज्ञात्वा विराड् विभुचिकीर्षितम् ।
बबन्ध वारुणैः पाशैर्बलिं सूत्येऽहनि१ क्रतोः ॥ २५ ॥
पदरत्नावली
विराट् पक्षिराट् । क्रतोः सौत्येऽहनि क्रतोः सोमपानदिवसे ॥ २५ ॥
सत्यधर्मीया
विराट् पक्षिश्रेष्ठः । विराट् विश्वरूपी चासौ विभुः स्वामी च तच्चिकीर्षितं कर्तुमीप्सितं ज्ञात्वा । क्रतोर्यज्ञस्य । तत्सम्बन्धिनि सूत्येऽहनि सोमाभिषवदिने वारुणैः पाशैर्बलिं बबन्ध । ननु पाशा अनेकशः सन्ति । तान्विहाय पाशिपाशग्रहणे किं बीजमिति चेन्न । नागान्तकस्य नागपाशेन बन्धो ऽसम्बद्धः । नाप्येतत्काले कालपाशेन संदानं दानवारेः । बन्धस्याबद्ध्यत्वात् । अश्वत्थामा बलिर्व्यास इत्यादेः । न चान्यः कश्चन पाशोऽस्तु बलि-सङ्कलन इति वाच्यम् । विनिगमनानवगमनमेवं वक्तारमनुयोक्ताऽहं हन्त वारुण एव किं कारणं वार्यत इति वक्तुं शक्त इति जोषमास्व । तर्हि तत्रभवद्भिर्भवद्भिर्दया विधेयेति चेत् । सत्यम् । अच्छा तव पृच्छा नेच्छातस्तुच्छीकर्तुं क्षमेति क्षणं क्षमस्व । मा त्वरिष्टाः । यद्देयविषये तोय-धारावितरणं तत्पारं नापायं किल बलिस्ततस्तदभिमतिकपाशबन्धः सानुबन्ध इति समाधि-सम्भवात् । सत्सु सुनन्दनन्दादिषु गरुडस्यैवाज्ञा सम्भाविनी चेत्किलायं सर्वः संसारः । सारांशो वक्तव्योऽत्रेति चेन्न । सर्वेऽपि सर्वत्रावतारादौ स्वयं सावतारा इति तन्वते सेवामयं निरवतारः । किञ्चेतरे समुद्रमथनश्रान्ता अयं तु मन्दरमात्रमानीय विहितस्थले प्रस्थाप्य गतो नातिश्रान्त आगत इति वेतरेषां तदानीमपि स्वस्वसेवासम्भवो न सम्भवश्चैतत्सेवाया महाकारवाहनताऽ-योगादत्र योजनमिवोत्तरत्रापि निद्रासमुद्रितस्तत्कृत्याभावादेव देवो नियोक्ष्यति किरीटहारि-बलिविजयाय चेति ज्ञेयम् । तदा दुग्धाब्धौ संसृतिस्थैरित्यारभ्य बलिश्चागात्तत्र सन्द्रुष्टुमीशं तत्रासुरावेशममुष्य विष्णुः । सन्दर्शयत्सुप्तिहीनोऽपि नित्यं संसुप्तवदित्यादि गर्भीकृत्य तदा बलिस्तस्य विष्णोः किरीटमादायागादिति च । सुपर्णो गत्वा पातालं युधि जित्वा बलिं चेत्यन्तेन श्रीमत्तात्पर्यनिर्णये प्रकाशितोऽयमर्थोऽनुसन्धेयः । केचित्तु चोरादिदोरबन्धे कबन्धसेचनं तद्दाढर्््याय तन्वते । स्वयं स एव चेदतिदृढो भवतीतीरणं वारुणेरिति नारुणेन नयनेन वीक्षस्वेति समादधते ॥ २५ ॥
छलारी
तार्क्ष्यस्य सुतः कश्यपस्य सुतो विषु पक्षिषु राजन्ते इति विराट् गरुडो विभोर्वामनस्य चिकीर्षितं कर्तुमिष्टं ज्ञात्वा क्रतोर्यज्ञस्य सप्तमेऽहनि सोमपानदिवसे वारुणैर्वरुण-सम्बन्धिपाशैर्बलिं बबन्ध ॥ अयमर्थः । अस्य सर्वस्वापहरणे ममेत्यभिधानं सत्यं जय इदानीं देहस्वीकारमपि त्याजयित्वा परमानुग्रहं कर्तुमिच्छति । तथा च न चानेन तुल्योऽन्यः कोऽपि धीरो नास्तीति तद्यशःप्रख्यापनार्थं किञ्चिद्याचितमपीच्छति । प्रभोरभिप्रायं ज्ञात्वा तं बबन्धेति
॥ २५ ॥
लिङ्घेरी
अथ तार्क्ष्यसुतो गरुडो, विशेषेण राजत इति विराट् तस्य विभोर्व्याप्तस्य वामनस्य कर्तुमपेक्षितं ज्ञात्वा क्रतोः सौत्येऽहनि सोमपानदिने वारुणैः पाशैर्बलिं बबन्ध ॥२५॥
हाहाकारो महानासीद् रोदस्योः सर्वतो दिशम् ।
गृह्यमाणेऽसुरपतौ विष्णुना प्रभविष्णुना ॥ २६ ॥
सत्यधर्मीया
रोदस्योर्द्यावापृथिव्योः । गृह्यमाणे निगृह्यमाणे ॥ २६ ॥
छलारी
रोदस्योर्द्यावापृथिव्योः सर्वतो दिशं सर्वदिक्षु । प्रभविष्णुना समर्थेन विष्णुनाऽ-सुरपतौ बलौ गृह्यमाणे बद्ध्यमाने सति ॥ २६ ॥
लिङ्घेरी
एवमसुरपतौ बलौ प्रभविष्णुना यथेच्छं भवितुं शक्तेन विष्णुना वामनेन निगृह्यमाणे सति रोदस्योर्द्यावापृथिव्योः सर्वदिक्षु च महान्हाहाकारध्वनिरभूत् ॥ २६ ॥
तं बद्धं वारुणैः पाशैर्भगवानाह वामनः ।
नष्टश्रियं स्थिरप्रज्ञमुदारयशसं नृप ॥ २७ ॥
सत्यधर्मीया
स्थिरप्रज्ञमचञ्चलमतिम् आहवामन इति पदम् असुरेत्यस्य विशेषणम् । आहवे न विद्यते मना यस्य सः । अनाहवमना इति यावदिति । तस्य सम्बुद्धेरिति वा
॥ २७ ॥
छलारी
स्थिरप्रज्ञं दृढबुद्धिम् ॥ २७ ॥
लिङ्घेरी
भगवान्वामनो वारुणैर्बद्धं नष्टसंपदमपि स्थिरप्रज्ञं विष्णूत्कर्षे स्थिरं ज्ञानमत एवोत्कृष्टकीर्तिं तं नृपं बलिचक्रवर्तिनं प्रत्याह ॥ २७ ॥
श्री भगवानुवाच–
पदानि त्रीणि दत्तानि भूमेर्मह्यं त्वयाऽसुर ।
द्वाभ्यां क्रान्ता मही सर्वा तृतीयमुपकल्पय ॥ २८ ॥
सत्यधर्मीया
तृतीयं स्थानम् ॥ २८ ॥
छलारी
सर्वा मही सर्वस्थानम् । तृतीयं तृतीयपादस्थलम् ॥ २८ ॥
लिङ्घेरी
हे असुर । त्वया मह्यं भूमेस्त्रीणि पदानि दत्तानि दास्यामीति प्रतिज्ञातानि । तत्र द्वाभ्यां सर्वा त्वदीया भूमिर्मयाऽऽक्रान्तेति पदद्वयं मया लब्धम् । तृतीयस्य त्वदीयमण्वपि नास्तीत्यतस्तृतीयस्य स्थलं परिकल्पय ॥ २८ ॥
यावत् तपत्यसौ गोभिर्यावदिन्दुः सहोडुभिः ।
यावद् वर्षति पर्जन्यस्तावती भूरियं तव ॥ २९ ॥
पदरत्नावली
पदत्रयं मितं भूरमिताऽतः कथं तृतीयमुपकल्पयेत्युच्यत इति तत्राह– यावदिति ॥ २९ ॥
सत्यधर्मीया
कथं कियत्पदद्वयेन मितमित्यत आह ॥ यावदिति ॥ गोभिः किरणैः । असौ सूर्यो यावत्तपति प्रकाशयति । इन्दुः सहोडुभिर्यावत्तपति । यावत्पर्जन्यस्तावतीयं भूस्तव
॥ २९ ॥
छलारी
ननु पादत्रयपरिमिता भूमिर्दत्तेत्युक्तम् । अतः कथं तृतीयमुपकल्पयेत्युच्यत इति तत्राह ॥ यावदिति ॥ असौ सूर्यो गोभिः किरणैर्यावत्स्थलं तपति प्रकाशयति । तथेन्दुश्च पर्जन्यो मेघाभिमानी तवेयं भूमिस्तावती सूर्यादिप्रकाशवत्त्वेन परिमितेत्यर्थः ॥ २९ ॥
लिङ्घेरी
ननु बलिना वामनपदत्रयपरिमितभूमिर्देया । सा च पञ्चाशत्कोटिविस्तीर्णाऽतः कथं तृतीयपदमुपकल्पयेति कथं त्वयोच्यत इत्यत आह ॥ यावदिति ॥ हे बले । असौ सूर्यो गोभिः स्वकिरणैर्यावद्भूप्रदेशं तपति प्रकाशयति । उडुभिर्नक्षत्रैः सहेन्दुश्चन्द्रो यावत्प्रकाशयति, पर्जन्य इन्द्रो यावद्वर्षति तावतीयं तव भूरिति । स्वर्गेषु पशुवाग्वज्रदिङ्नेत्रघृणिभूजले लक्ष्यदृष्ट्योः स्त्रियां पुंसि गोरित्यमरः । ‘पर्जन्य गर्जन्मेघे च सुरेन्द्रे च प्रकीर्तित’ इति नानार्थमुक्तावली
॥ २९ ॥
पदैकेन मया क्रान्तो भूर्लोको विवरैः सह ।
स्वर्लोकस्तु द्वितीयेन पश्यतस्ते मयाऽऽत्मना ॥ ३० ॥
पदरत्नावली
अस्तु भूमेरियत्ता तथापि लक्षणशास्त्रलक्षितपदस्याणुत्वेन तन्मितत्वेन किमनुपपन्नमित्याशङ्क्येदं पदमलौकिकमित्याशयेनापूर्तिमाह– पदेति ॥ ३० ॥
सत्यधर्मीया
एकेन पदा प्रदर्शितं प्राक्तदेवेदमित्यपि द्योतयति । पदेत्यनेन । युक्तिः प्रागुक्तैव । विवरैर्बिलैः । मया द्वितीयेन पदा स्वर्लोक आक्रान्तोऽतस्तृतीयमुपकल्पय । आत्म-नेत्युत्तरान्वयि । आत्मना देहेन । तुः समुच्चये । आन्तरालिको लोक आक्रान्तो मयेति वा
॥ ३० ॥
छलारी
अयं च भूर्लोक आत्मना व्यापिना मयेत्यन्वय आक्रान्तः । खं दिशश्च तनोस्तन्वा द्वितीयेन पदाऽऽक्रान्तः । एवं ते पश्यतः सतस्ते स्वं त्वदीयं सर्वस्वं मया द्वाभ्यां पदाभ्यामाक्रान्तम् । अतस्तृतीयपदस्थलाभावात्तृतीयमुपकल्पयेत्युक्तमिति भावः ॥ ३० ॥
लिङ्घेरी
अस्त्वियत्येव मम भूमिस्तथाऽपि तव तृतीयपादस्य स्थलाभावः कुत इत्यत आह ॥ पदैकेनेति ॥ हे बले । तव पश्यतः सतो मयैकेन पादेन विवरैः पातालादिभिः सह भूर्लोक आक्रान्तस्तथाऽऽत्मना व्याप्तेन मया द्वितीयेन पादेन स्वर्लोकोऽप्याक्रान्तोऽतस्तृतीयस्य स्थलाभाव इति ॥ ३० ॥
प्रतिश्रुतमदातुस्ते निरये वास इष्यते ।
विश त्वं निरयं तस्माद् गुरुणा चानुमोदितः ॥ ३१ ॥
पदरत्नावली
आत्मना प्रतिश्रुतं स्ववित्तमदातुस्तव । यतो नष्टप्रतिज्ञस्तस्मात् ॥३१॥
सत्यधर्मीया
आत्मना स्वेनैव । प्रतिज्ञातमदातुः । तस्मात्त्वं निरयं विश । स निरयो मयैवैतत्फलत्वेनोच्यत इति नेत्याह । गुरुणा शुक्रेणाप्यनुमोदितः संमतीकृतः शापप्रदानादिति भावः । इति अनुमोदितः सन् विशेति वा ॥ ३१ ॥
छलारी
तृतीयपदस्थलादाने दोषमाह ॥ प्रतिश्रुतमिति ॥ प्रतिश्रुतं दास्यामीति प्रतिज्ञातम् । अदातुः पुरुषस्य नरके वास इष्यते प्रामाणिकैरङ्गीक्रियते । तस्मान्निरययोग्य-त्वात् । नष्टप्रतिज्ञाद्वा । गुरुणा शुक्राचार्येणानुमोदितः सन् निरयं विश प्रविश ॥ ३१ ॥
लिङ्घेरी
नन्वेवं तृतीयस्य स्थलाभावे किं मेऽनिष्टमित्यत आह ॥ प्रतिश्रुतमिति ॥ हे बले । प्रतिज्ञातमददतस्तव निरये दुर्गतौ वास इष्यत इति प्रामाणिकैरङ्गीक्रियते । ‘वाचा दत्तं मनो दत्तं धारादत्तं न दीयते । षष्ठिवर्षसहस्राणि विष्ठायां जायते कृमिः ॥’ इत्यादेः । तस्मात्त्वं निरयं प्रविश । एवमेव गुरुणा त्वमनुमोदितश्चासि ॥ ३१ ॥
यो विप्राय प्रतिश्रुत्य१ न तदर्पयते क्वचित् ।
वृथा मनोरथस्तस्य दूरस्वर्गः२ पतत्यधः ॥ ३२ ॥
पदरत्नावली
किञ्च यः प्रतिश्रुतं न पूरयति तस्य स्वर्गमाप्नवानीति मनोरथो मृषा भवति । प्रतिश्रुतेकदेशदानेनापि मनोरथः स्यादिति चेत् । सत्यम् । तत्फलं स्वर्गं प्राप्नोति पुनस्ततोऽदानदोषेण निकृष्टां तिरश्चां योनिमाप्नोतीत्याह– दूरमिति ॥ (स्वर्गात्)अधः पतित्वा दूरं यातीत्यर्थः ॥ ३२ ॥
सत्यधर्मीया
क्वचिन्नार्पयते । तस्य मनोरथो वृथा दूरस्वर्गो दूरे स्वर्गो यस्य स सन् अधः पतति । तस्य चिज्ज्ञानं क्व । मनोरथो वृथेति वा ॥ ३२ ॥
छलारी
किञ्च यः प्रतिश्रुतस्यादानेनार्थितं याचकं विप्रलम्भते वञ्चयति तस्य मनोरथा ऐहिकभोगविषया वृथैव न सिद्ध्यन्तीत्यर्थः । स्वर्गश्च दूर एव भवतीत्यर्थः । न केवलमिष्टाभावः किंत्वनिष्टप्राप्तिरित्याह ॥ पततीति ॥ स चाधः पतत्येव नीचां योनिं प्राप्नोत्येव ॥ ३२ ॥
लिङ्घेरी
ननु प्रतिश्रुतस्य समग्रस्यादाने मम निरयप्राप्तिर्भवेत् । न चैवम् । भागत्रये द्विभागस्य दत्तत्त्वात् । तस्मादहं स्वर्गं गमिष्यामीति चेत् । सत्यम् । स्वर्गं गतोऽपि त्वं प्रतिज्ञातसमग्रादानदोषेण स्वर्गात्प्रच्युतो दूरं त्वद्देहपातानन्तरमेव स्वर्गायोग्यं पश्वादियोनिं यास्यसीति निदर्शयति । यो गृहस्थो विप्रायैतावद्दास्यामीति प्रतिज्ञाय क्वचित्प्रतिज्ञातं नार्पयते न ददाति तर्ह्यहं स्वर्गाद्युत्तमलोकानेव यास्यामीति यस्तस्य मनोरथः स वृथा भवति । यतः स्वर्गात्पतितो दूरं यातीति ॥ ३२ ॥
विप्रलब्धो ददामीति त्वयाऽहं चाद्य मानिना ।
तद्व्यलीकफलं भुङ्क्ष्व निरयं कतिचित् समाः ॥ ३३ ॥
पदरत्नावली
प्रतिश्रुतैकदेशदानात् फलप्राप्तिः स्यादित्यभ्युपगम्य चेदमुक्तम् । तव तदपि न स्यात् किन्तु निरयनिवास एव विप्रलम्भनदोषादित्याह– विप्रलब्ध इति ॥ तत् तस्माद्व्यलीकफलमनृतफलम् ॥ ३३ ॥
॥ इति श्रीमद्भागवतटीकायां विजयध्वजतीर्थभिक्षुकृतायाम्
अष्टमस्कन्धे विंशोऽध्यायः ॥
सत्यधर्मीया
तद्व्यलीकफलं मिथ्यावादफलम् । समाः संवत्सरान् ॥ ३३ ॥
छलारी
प्रकृते किमायातमित्यत आह ॥ विप्रलब्ध इति ॥ आढ्यमानिनाऽभिमानिना त्वया चाहं ददामीति विप्रलब्धो वञ्चितः । तत्तस्माद्व्यलीकफलमनन्तफलं निरयं कतिचित्कञ्चि-त्समा वर्षाणि भुंक्ष्वेत्यर्थः ॥ ३३ ॥
लिङ्घेरी
किञ्च हे बले । न केवलं तव प्रतिश्रुतादानदोषः किन्तु वञ्चकत्वदोषोऽप्य-स्तीत्यतो निरयवास एव तव योग्य इत्याह ॥ विप्रलब्ध इति ॥ मानिना ‘‘अहं सार्वभौमोऽ-तस्तव सर्वाभिलाषदाने समर्थः किं त्वयाऽप्रबुद्धेन पदत्रयमात्रं याचितमित्याद्यहंकारवता त्वयाऽ-द्याहं विप्रलब्ध एतावत्सर्वथा दास्यामीति वञ्चितस्तस्मात्त्वमलीकस्यायतार्थवचनस्य फलं निरयं कतिचित्समाः कांश्चिद्वर्षान् भुंक्ष्वानुभव ॥ ३३ ॥
श्रीशुक उवाच–
एवं विप्रकृतो राजन् बलिर्भगवताऽसुरः ।
भिद्यमानोऽप्यभिन्नात्मा प्रत्याहाविक्लवं वचः ॥ ३४ ॥
पदरत्नावली
बलिः स्वात्मनोऽलीकं प्रकारान्तरेण परिहर्तुमाह– एवमिति ॥ ३४ ॥
सत्यधर्मीया
विप्रकृतो वञ्चितोऽविक्लवमदीनं वचस्त्रिविक्रमवचः प्रति आहेत्यन्वयः
॥ ३४ ॥
छलारी
भगवतैवमुक्तो बलिः किं कृतवानित्यतोऽनृतं परिहर्तुमाह ॥ एवमिति ॥ भगवता विप्रकृतोऽप्रकृतोऽसुरो बलिर् भिद्यमानोऽपि सत्याच्चाल्यमानोऽपि सोऽविक्लवमदीनं वचः प्रत्याह ॥ ३४ ॥
लिङ्घेरी
हे राजन् । असुरो बलिर्भगवता वामनेनैवमुक्तरीत्या विप्रकृतस्तिरस्कृतः । निरयं विशेत्यादिनिष्ठुरैर्भिद्यमानोऽप्यभिन्नो निर्विकार आत्मा मनो यस्य तथा सन् वामनं प्रत्यविक्लवं पारवश्यदैन्यादिरहितं वचः प्राह ॥ ३४ ॥
बलिरुवाच–
यद्युत्तमश्लोक भवान् ममेरितं वचो व्यलीकं सुरवर्य मन्यसे ।
करोम्यृतं तन्न भवेत् प्रलम्भनं पदं तृतीयं कुरु शिर्ष्णि मे निजम् ॥ ३५ ॥
पदरत्नावली
प्रलम्भनं वञ्चनम् । विप्रलम्भनं कथं न भवेदिति तत्राह– पदमिति
॥ ३५ ॥
सत्यधर्मीया
भवान्मन्यस इति ॥ मध्यमोत्तमादिनियमाभावादिति । रेतस्त्वजायां कविरादधेऽज इत्यृग्भाष्याद्युदाहरणपूर्वकं षष्ठादौ विवृतमनुसन्धेयम् । भवेन मङ्गलेनानिति चेष्टते स तथा तत्सम्बुद्धिः । तज्जलानिति छान्दोग्यभाष्यादिदिशा एतत् । त्वं मन्यसे तदृतं यथार्थं करोमि तत्तस्मात् तद्वचनमिति वा । प्रलम्भनं वञ्चनं न भवेत् । किमपि तावकं नास्ति । कथं कथय न विप्रलम्भनं बले इत्यतो लपति । निजं स्वकीयं तृतीयं पदम् । निजमित्यनेन त्वया यत्पूर्वं मम प्रदर्शितं तदेव पदं स्थापयेति वदन् बलिर् वञ्चनं भवतैव कृतमिति सूचयामास मर्मेत्यवसेयम् । मे मम शीर्ष्णि शिरसि कुरु स्थापयेति । यन्निजमुर्वरितं शिरो मामकं तस्मिन् शीर्ष्णीति वा । एवं वचो ऋतं करोमीति भावः ॥ ३५ ॥
छलारी
हे उत्तमश्लोक । ममेरितं प्रतिश्रुतं वचो व्यलीकमनृतं न भवत्येव । त्वया कपटेन वामनतया भिक्षित्वा रूपान्तरस्याविष्कृतत्वात् । एवमपि यदि भवान् व्यलीकं मन्यते तथाऽपि तन्मदुक्तमृतमेव सत्यमेव करोमि । मदुक्तं विप्रलंभनमनृतं न भवेत् । कथम् । मे शीर्ष्णि शिरसि निजं तृतीयं पदं कुरु निधेहि ॥ ३५ ॥
लिङ्घेरी
हे सुरर्षभ रमाब्रह्मादिदेवोत्तम । अत एवोत्तमैर्ब्रह्मादिभिः श्लोक स्तुत्या कीर्तिर्यस्य तादृश वामन । त्वं यदि मयोक्तं वाक्यमनृतं मन्यसे तर्हि ह्यहं तद्यथाऽनृतं न स्याद् ऋतं च स्यात् । तव वञ्चनं न भवेत् तथा करोमि । तत्करणप्रकारमेवाह । निजं स्वकीयं तृतीयं पदं पादप्रक्षेपणं मे शिरसि कुर्विति ॥ ३५ ॥
बिभेमि नाहं निरयात् पदच्युतो न पाशबन्धाद् व्यसनाद् दुरत्ययात् ।
नैवार्थकृच्छ्राद् भवतो विनिग्रहादसाधुवादाद् भृशमुद्विजे यथा ॥ ३६ ॥
पदरत्नावली
स्वात्मनो ह्रीलक्षणसामग्रीमाह– बिभेमीति ॥ ३६ ॥
सत्यधर्मीया
स्वसत्यस्थैर्यमार्यं प्रति विज्ञापयति ॥ बिभेमीति ॥ निरयान्नरकात् । पदच्युतः स्वर्गभ्रष्टः । पाशबन्धाद्गरुडकृतात् । अर्थकृच्छ्रात् संसारयात्रोपयोगिवित्ताभावकष्टात् । एतदादिदुरत्ययाद्दुष्पाराद्व्यसनात् । भवतो विनिग्रहान्न तथा बिभेमि । तर्हि कस्माद्बिभेषीत्यतो भाषते । असाधुवादादयमनृतभाषी ततोऽसाधुरिति वादो लोकप्रवादस्तस्माद् यथा भृश-मत्यन्तमुद्विज उद्विग्न इति । प्रलापकालत्वान्न पूर्वापरोक्तिः पौनरुक्त्ये दोषाय । यतः पदच्युतः । एवं व्यसनावसरेऽपि । पदात् तृतीयेन न च्युतो न निर्गतिमान् । तत्सम्बद्ध इति यावत् । ततो नोद्विजे । तव चरणस्पृशे न कोऽपि शोक इति भाव इति वा ॥ ३६ ॥
छलारी
ननु च ‘आपदर्थे धनं रक्षेद्दारान् रक्षेद्धनैरपि । आत्मानं सन्ततं रक्षेद्दारैरपि धनैरपि ॥’ इत्यादि वचनाद् आत्मभयपरिहाराय सर्वस्वं त्यज्यते । त्वं तु कुतो भीतः सन् आत्मानमर्पयसीत्यत आह ॥ बिभेमीति ॥ असाधुश्चासौ वादश्च तस्मादपकीर्तेः । अनृत-वचनाद्वा । यथाऽहं भृशमुद्विजे बिभेमि तथा निरयादिभ्यो न बिभेमि । पदच्युतः स्थानभ्रष्टः । व्यसनाद्दुःखादर्थकृच्छ्राद्द्रव्यप्रयुक्तक्लेशाद्भवतो विनिग्रहाद्भवत्कृतनिबन्धात् ॥ ३६ ॥
लिङ्घेरी
नन्वेवमतिसंकटेन तृतीयपदस्य शिरःप्रदानमयुक्तमित्यत आह ॥ बिभेमीति ॥ अहं यथाऽसाधुवादादनृतभाषणाद्भृशमत्यर्थमुद्विजे बिभेमि न तथा निरयात्पदभ्रंशात्पाशबन्धात्तर्तुमशक्या-द्व्यसनाद्दुःखादर्थकृच्छ्राद्द्रव्यापहरणापदो भवतो निग्रहाच्चेति ॥ ३६ ॥
पुंसां श्लाघ्यतमं मन्ये दण्डमर्हत्तमार्पितम् ।
यं न माता पिता भ्राता सुहृदश्चादिशन्ति हि ॥ ३७ ॥
पदरत्नावली
अभिन्नात्मत्वं दर्शयति- पुंसामिति ॥ ३७ ॥
सत्यधर्मीया
भिद्यमानोऽप्यभिन्नात्मेति यत्प्राक् शुकोक्तं ग्रन्थकृत्तदुक्त्यैव दर्शयति ॥ पुंसामिति ॥ अर्हत्तमेन पूज्यप्राज्यधर्मविदुत्तमेनार्पितं दण्डं शिक्षां पुंसां श्लाघ्यतमं मन्ये । यं दण्डं मात्रादयो नादिशन्ति नोपदिशन्ति । न तन्वन्तीति यावत् । हीति स्वानुभवं प्रमाणयति । गुरुरित्यनुक्तिस्तु तद्विपरीतबोधकता तवानुभवसिद्धेव सर्वजनीनेति वा गुरुत्वं हरेरेवेति वक्ष्य-माणत्वाद्वेति ज्ञेयम् । एतत्पक्षेऽर्हत्तमेति भगवत्सम्बोधनम् ॥ ३७ ॥
छलारी
ननु विनिग्रहात्तवापकीर्तिर्जातैव नेत्याह ॥ पुंसामिति ॥ अर्हत्तमैः पूज्यतमैरर्पितं कृतं यं दण्डं शिक्षाम् । मातापित्रोरपि न ह्यादिशन्ति । न कुर्वन्ति तं दण्डं पुंसां श्लाघ्यतमं कीर्तनीयं मन्ये । मम हितैषिणा त्वया निगृहीतोऽहं श्लाघ्य एवास्मकमिति भावः
॥ ३७ ॥
लिङ्घेरी
नन्वेवं मया क्लेशितस्य तवैतद्दानमयुक्तमित्यतः स्वस्य क्लेशाभावं दर्शयति ॥ पुंसामिति ॥ हे अर्हत्तमातिपूज्य वामन । त्वया पुंसामर्पितं दण्डं पुंसां श्लाघ्यतमं मन्ये । यं दण्डं शिक्षां माता पिता भ्राता सुहृदश्च नादिशन्ति न कुर्वन्ति । अनेन स्वस्यायं दण्डो भूषणमेव न दूषणमित्युक्तं भवति ॥ ३७ ॥
त्वं नूनमसुराणां नः पारोक्ष्यं परमो गुरुः ।
यो नोऽनेकमदान्धानां तद्भ्रंशं चक्षुरादिशः ॥ ३८ ॥
पदरत्नावली
पारोक्ष्यं साक्षात्कारमन्तरेण । तस्य मदस्य भ्रंशे येन तत् तथा ॥ ३८॥
सत्यधर्मीया
पारोक्ष्यं निन्दापूर्वकभक्त्येति शत्रुपक्षपातीति वा पारोक्ष्यं यथा भवति तथा । परमो गुरुः । गुरुविशेषणं पारोक्ष्यम् । तत्प्रकारमीरयति । अनेके ये विद्यादिप्रयुक्ता मदास्तैरन्धानां ज्ञानहीनानां नस्तद्भ्रंशम् । तेषां मन्दानां भ्रंशोऽवस्कन्दनं यस्मात्तच्चक्षुः । सज्ज्ञानम् आदिशोऽददाः । पारोक्ष्यम् । एतद्व्याजमिति यथा तथाऽऽदिश इति वाऽन्वयः । नूनं निश्चयेन । पारोक्ष्यः परमो गुरुरिति पाठे वेषान्तरछन्न इति स तथेत्यर्थः ॥ ३८ ॥
छलारी
नन्वहं देवानां हितैषी नासुराणामतः कथं मत्कृतो दण्डस्तव श्लाघ्यतम इति तत्राह ॥ त्वं नूनमिति ॥ असुराणां नस्त्वापरोक्ष्यं शत्रुछन्नेन वर्तमानस्त्वं च परमो गुरुः । योऽनेकमदैरैश्वर्यादिमदैरन्धानां विवेकशून्यानां नस्तस्य मदस्य भ्रंशो नाशो यस्मात्तच्चक्षुर्ज्ञानमादिश
॥ ३८ ॥
लिङ्घेरी
ननु गुर्वाद्याप्तैः कृतशिक्षोक्तरीत्या श्लाघ्या, न शत्रुभूतमादृशैः कृतेत्यत आह ॥ त्वमिति ॥ हे वामन । त्वमप्यसुरजातीनामप्यस्माकं पारोक्ष्यं परोक्षतः परमो गुरुः । साक्षा-त्कारविषयतया हिताहितोपदे गुरुत्वात्कथं तदविषयस्य हिताद्यकुर्वतः शत्रोर्मम गुरुत्वमित्यतस्त वाप्यस्मद्धितकारित्वेन परोक्षतो गुरुत्वमस्तीत्युपपादयति ॥ यो न इति ॥ यस्त्वमनेकै-रैश्वर्यादिमदैरन्धानां द्रष्टव्याद्रष्टृणां तस्य मदस्य भ्रंशकं वैराग्यलक्षणं चक्षुरादि दत्वा द्रष्टव्यदर्शनं विदधासीति ॥ ३८ ॥
यस्मिन् वैरानुबन्धेन रूढेन विबुधेतराः ।
बहवो लेभिरे सिद्धिं यामिहैकान्तयोगिनः ॥ ३९ ॥
पदरत्नावली
यतो वैरानुबन्धेन वैरयुतस्नेहेन ॥ ३९ ॥
सत्यधर्मीया
एतदादिज्ञानेन न कोऽपि संसारमतारीदिति दितिसुत कथमिदं चक्षुरक्षुण्णं मनुष इत्यत आह ॥ यस्मिन्निति ॥ यस्मिंस्त्वयि वैरानुबन्धेन वैरोपसर्जनभक्त्या । ‘अनुबन्धस्तु भक्तिः स्याद्बन्धः स्नेह उदाहृत’ इति वचनात् । रूढेन दृढेन । विबुधाश्चेतरे च दैत्याश्च विबुधेतराः । यामेकान्तयोगिनः सनकाद्या विबुधा देवाश्च सिद्धिं केवलानुबन्धेन लेभिरे तां सिद्धिमितरे बहवः शिशुपालादिदैत्या अपि लेभिरे । इह संसारेऽधिकारिसमुदाये वा । वैरेण यन्नृपतय इत्यादि स्कन्धान्तरतात्पर्यादितो विशेषोऽनुसन्धेयः ॥ ३९ ॥
छलारी
परमगुरुत्वं दर्शयति ॥ यस्मिन्निति ॥ बहवो विबुधेतरा देवेतरा दैत्या हिरण्यकशिप्वादयो रूढेन दृष्टनिरूढेन यस्मिंस्त्वयि वैरानुबन्धेन वैरयुतस्नेहेन । द्वेषोपसर्जन-भयेनेत्यर्थः । सिद्धिं मुक्तिं लेभिरे । इहाधिकारिवर्गे एकान्तयोगिन एकान्तभक्ता यां सिद्धिमापुः
॥ ३९ ॥
लिङ्घेरी
विबुधेतराः सुरभिन्नासुरजात्युत्पन्ना मोक्षयोग्या बहवो यस्मिंस्त्वयि वैरानुबन्धेन द्वेषसमानाधिकरणस्नेहेनारूढेन भिवृद्धेन सिद्धिं मुक्तिं लेभिरे । यां सिद्धिमिहाधिकारिष्वेकान्तयोगिनो भक्ता लभन्ते ॥ ३९ ॥
तेनाहं निगृहीतोऽस्मि भवता भूरिकर्मणा ।
बद्धश्च वारुणैः पाशैर्नानुव्रीडे न विव्यथे ॥ ४० ॥
तात्पर्यम्
‘बलिरप्यसुरावेशात्स्तुवन्नपि जनार्दनम् ।
आक्षिपत्यन्तरा क्वापि प्रह्लादो नित्यभक्तिमान् ॥’ इति ब्रह्माण्डे ॥ ४० ॥
सत्यधर्मीया
तेनाहं निगृहीतोऽस्मीति श्लोके नानुव्रीडे न विव्यथ इति बलिना स्वस्य प्रल्हादवच्छुद्धभक्तता प्रतिपादिता भाति । तच्छिरोभूषणाद्यपहारादिरूपासुरावेशकार्यबाधितमित्यतो मानेन तत्तत्पितामहस्वरूपं निरूपयति ॥ बलिरपीति ॥ बलिर्जनार्दनं स्तुवन्नप्यसुरावेशात् कर्मजदेवत्वेन दैत्यावेशादन्तरा मध्ये क्वापि भीतं ब्रह्मतनुं रिपुमित्यादिप्रकारेणाक्षिपति ॥ स्तुति-मन्तरा विनेति वा । न प्रल्हाद एवमित्याह ॥ नित्यभक्तिमानिति ॥ ब्रह्माण्डवचनेन तद्विशेषो ज्ञेयः ॥ ततश्चायं श्लोकपञ्चकार्थः । भूरिकर्मणा नानाविधकर्मवता तेन भगवता निगृहीतोऽहं वारुणैः पाशैर्बद्धो नानुव्रीडे लज्जे न विव्यथे व्यथां च प्राप्तः । असुरावेशाभावसमयभाषणमिदमिति भावः । क्वापीति तात्पर्योक्तिस्वारस्याद्यदा कदाचिद्दुरालापो बलेरिति ध्वन्यते ॥ ४० ॥
छलारी
अतो नात्र मम लज्जा । नापि दुःखमित्याह ॥ तेनेति ॥ भूरिकर्मणा बहु-चरित्रेण तेन गुरुणा भवताऽहं निगृहीतोऽस्मि । वरुणैः पाशैर्बद्धश्चास्मि । तथा नानु व्रीडे लज्जां प्राप्नोमि । न च विव्यथे न दुःखं च प्राप्नोमि ॥ ४० ॥
पितामहो मे भवदीयसम्मतः प्रह्लाद आविष्कृतसाधुवादः ।
भवद्विपक्षेण विचित्रवैशसं सम्प्रापितस्त्वत्परमः स्वपित्रा ॥ ४१ ॥
पदरत्नावली
ननु कुतो व्यथाद्यभाव इत्याशङ्क्य श्रुतप्रह्लादमाहात्म्यानुस्मरणादित्या-शयेनाह– पितामह इति ॥ साधुरिति वादः साधुवादः स्तुतिलक्षणः । विचित्रवैशसं नाना-हिंसनम् । त्वमेव परमो यस्य स तथा ॥ ४१ ॥
सत्यधर्मीया
व्यथाक्वथितता कुतो न तव बल इत्यतो मम पितामहमाहात्म्यानु-ध्यानादित्याह ॥ पितामह इति ॥ भवदीयस् त्वदीय इति संमतो भवदीयानां त्वद्दासानां संमत इति वा । साधुरच्छिन्नभक्त इति वादः साधुवादः । आविष्कृतः साधुवादो यस्य सः । साधूनां वाद आविष्कृतो येनोपदेशद्वारा स इति वा । भवद्विपक्षेण हिरण्यकशिपुना त्वद्वैरिणा स्वपित्रा विचित्रवैशसं भृगुपातनादितो हिंसां संप्रापितः ॥ ४१ ॥
छलारी
किञ्च योऽयं दण्डरूपो ममानुग्रहस्त्वया कृतः स त्वद्भक्तपात्रत्वेन न त्वहमनु-ग्रहस्य पात्रमित्याशयेनाह ॥ पितामह इति ॥ भवदीयानां भवद्भक्तानां संमतो मे पितामहः प्रल्हादो यत आविष्कृतः प्रकटीकृतः साधुवादो हरिसर्वोत्तमत्वादिवादो येन सः । तथा त्वमेव परम आश्रयो यस्य सः । अतो भवतो विपक्षेण द्वेषिणा स्वपित्रा स्वस्य प्रल्हादस्य पित्रा हिरण्यकशिपुना विचित्रं नानाविधं वैशसं हिंसां प्रापितः ॥ ४१ ॥
लिङ्घेरी
नन्वेवमसुरजातेः कस्यचिद्धरौ भक्त्या श्रेयोदर्शने त्वयाऽपि स्वीकर्तुमुचिते-त्यतस्तत्र प्रल्हादं निदर्शयति ॥ पितामह इत्यादिना ॥ हे वामन । मे पितामहो भवद्भक्तानां संमतः प्रल्हाद आविष्कृतसाधुवादो नारायण एव सर्वप्रेरकः सर्वेश्वर इत्यादिस्फुटवादी सन् भवतो विपक्षेण शत्रुणा स्वपित्रा हिरण्यकशिपुना विचित्रवैशसं नानाविधदुःखं संप्रापितोऽपि त्वमेव परमः सर्वोत्तम इति भक्तिमानासीत् ॥ ४१ ॥
किमात्मनाऽनेन जहाति योऽन्ततः१ किं रिक्थहारैः स्वजनाख्यदस्युभिः ।
किं जायया संसृतिहेतुभूतया मर्त्यस्य गेहैः किमिहायुषो व्ययः ॥ ४२ ॥
पदरत्नावली
श्रीप्रह्लादः कया चर्यया अतिप्रियदेहादिकमुत्सृज्य श्रीहरिचरणैकशरण-मापेति तत्राह– किमिति ॥ यो येनात्मना देहेन मुदं जहाति, तद्वियोगलक्षणमरणेनेति शेषः । तस्य पुंसस् तेन देहेन किम् ? न किमपि प्रयोजनमित्यर्थः । रिक्थहारैः पितृधनस्वीकार-योग्यैरेभिरायुषो व्ययो नाश इति यत् तस्माद् दुर्जनसङ्गाद् भीतः । स्वपक्षोऽसुरजनस् तस्य नाशकस्य ॥ ४२-४३ ॥
सत्यधर्मीया
योऽन्ततोऽन्ते जहाति त्यजति तेनात्मना देहेन किं न किञ्चित्प्रयोजन-मिति योग्यान्वयि । किं रिक्थं हरन्तीति रिक्थहारास्तैः पुत्रैः । रिक्थं च पितृपैतामहं धनम् । स्वजना इतरे तदाख्यदस्युभिश्चोरैः । रिक्थहारैः स्वजनाख्यदस्युभिरिति सामानाधिकरण्यं वा । जायया संसृतिहेतुभूतया । ‘तज्जाया जाया भवति यदस्यां जायते पुनः’ इति हरिश्चन्द्र-षट्कब्राह्मणोक्तेः । मर्त्यस्य गेहैः किम् । इहैतादृशे शरीरे प्राप्तेऽपि । आयुषो व्ययो नाश एव यत्तत्तः किमेतदादिभिरित्यर्थः । आयुर्नित्यायुर्मोक्षस्तस्य व्ययोऽपगम इति वा ॥ ४२ ॥
छलारी
पित्रा नानाविधव्यसनं प्रापितः । प्रल्हादस्ततः किमकरोदित्यत आह ॥ किमात्मनेत्यादिना ॥ यो देहोऽन्तत आयुषान्ते जहाति जीवं त्यजति । अनेनात्मना देहेन किं, रिक्थं पितृधनं हरन्ति स्वीकुर्वन्ति तथा तैः पुत्रैः किम्? स्वजनाख्यदस्युभिः स्वजन-लक्षणचोरैश्च किम् । मर्त्यस्य मरणशीलस्य गेहैः किम् । तस्मादिह गेहेषु केवलमायुषो व्यय एव नाश एव न तु सुखं किञ्चित् ॥ ४२ ॥
लिङ्घेरी
स प्रल्हादो मम पितामहो जनाद्दुर्जनात्केवलविष्णुद्वेष्यसुरजनसंगाद्भीतः सन् । योऽधिकारी येन देहेन प्राप्तेन त्यक्तेनाऽपि मुदं सन्तोषं जहाति त्यजति तेन किं प्रयोजनम् । न किमपि । तथा रिक्थं पित्रार्जितं द्रव्यं हरन्तीति रिक्थहराः पुत्रादयस्तैः स्वजनाख्यचोरैश्च किम् । तया संसारहेतुभूतया जायया भार्ययाऽपि मरणशीलस्य किं प्रयोजनम् ? गेहैर्गृहादिभिरपीह साध्यं किमस्ति । प्रत्युतैतदासक्तस्य वृथाऽऽयुष्यक्षय एव ॥ ४२ ॥
इत्थं स निश्चित्य पितामहो महानगाधबोधो भवतः पादपद्मम् ।
ध्रुवं प्रपेदे ह्यकुतोभयं जनाद् भीतः स्वपक्षक्षपणस्य सत्तमः ॥ ४३ ॥
सत्यधर्मीया
सत्तमः स अगाधबोधो महान्मम पितामहः । इत्थं निश्चित्य । भवत इत्यावर्त्यान्वेतव्यम् । जनाद्दुर्जनात् तत्सङ्गादिति यावत् । भवतः सृतेश्च भीतः । स्वपक्ष-क्षपणस्यापि स्वपक्षोऽसुरपक्षस्तस्य क्षपणं नाशो येन । तं क्षपयतीति वा क्षपणस्तस्य भवतस् तवाकुतोभयं पादपद्मं ध्रुवं प्रपेदे । हि यतः प्रपेदे ततः, स्वपक्षः पुत्रस्तस्य स्वपक्षस्य क्षपणं तद्यत्नो वा नानाविधहिंसा वा येन । तस्य हिरण्यकशिपोर्ध्रुवं प्राप्यत्वेन निश्चितं तमः सत् । भावप्रधानो निर्देशः । सत्वं शीर्णत्वं तं प्रपेदे । सद् विशीर्णं वा । ‘विविक्षुरत्यगात्सूनोः प्रल्हादस्यानुभावत’ इत्यादेः । यजन्ति यज्ञक्रतुभिरिति श्लोके बलिरप्यसुरावेशादिति तात्पर्यं योजयन्ति । पुरा तत्र प्रल्हादो भक्तिमानिति निरालम्बमत्र स्तुवन्नित्यंशेन सह श्लिष्टं भविष्यतीति विभावनीयम् ॥ ४३ ॥
छलारी
इति देहादीनामसारतां निश्चित्यागाधबोधो महाज्ञानी सः जनाद्दुर्जनसंगाद्भीतः सन् स्वपक्षं दैत्यकुलं क्षपयति नाशयतीति तथा तस्यापि भवतः पदाम्बुजं प्रपेदे । कथंभूतम् । न विद्यते कुतोऽपि भयं यत्र तदकुतोभयं ध्रुवं च नित्यं च ॥ ४३ ॥
लिङ्घेरी
इत्थं निश्चित्य स्वपक्षाणामसुराणां क्षपणस्य संहारकस्यापि भवतः कस्मादपि भयरहितं पादपद्मं ध्रुवं प्राप्तवान् । अत एव स प्रल्हादोऽगाधबोधो महान्पूज्यः सत्तमोऽत्युत्तम इति मया ज्ञायते ॥ ४३ ॥
अथाहमप्यात्मरिपोस्तवान्तिकं दैवेन नीतः प्रसभं त्याजितश्रीः ।
इदं कृतान्तान्तिकवर्ति जीवितं ययाऽध्रुवं स्तब्धमतिर्न बुध्यते ॥ ४४ ॥
पदरत्नावली
ममाप्ययमेव निश्चय इति भावेनाह– अथेति ॥ असुरजातित्वान्मम शत्रुभूतस्य । त्वया त्याजितराज्यश्रीः । बुभूषुणेयं श्रीर्बलादपि त्याज्या अन्यथानर्थयोग एवेति भावेनाह– इदमिति ॥ यया श्रिया स्तब्धमतिः कृतान्तान्तिकवर्तीदं जीवितं न जानातीत्यन्वयः
॥ ४४ ॥
सत्यधर्मीया
तदनुग्रहेण ममापि तथैव निश्चय इति विज्ञापयति ॥ अथेति ॥ आत्म-रिपोस्तवान्तिकं दैवेन नीतः । प्रसभं बलात्त्याजितश्रीः । यया श्रिया स्तब्धमतिरिदं कृतान्तान्तिकवर्ति यमसमीपवर्ति जीवितं जीवनम् । ध्रुवं नित्यं तन्न भवतीत्यध्रुवं न बुद्ध्यते न मन्यते । तच्छ्रीहरणाच्छ्रीपते न मोहो ममास्तीदानीमिति भावः ॥ ४४ ॥
छलारी
यस्मान्मम पितामहस्त्वत्पादमेव प्राप्तोऽथ तस्मादहमपि दैवेन प्रल्हादस्य भाग्येनासुरजातित्वादात्मरिपोर्मम शत्रुभूतस्य तवान्तिकं समीपं नीतः प्राप्तः । प्रसभं बलात्कारा-त्त्याजिता श्री राज्यसंपद्यस्य स तथा । बुभूषुणा बोद्धुमिच्छुनेयं श्रीर्बलादपि त्याज्यैव । अन्यथाऽनर्थयोग एवेत्याशयेनाह ॥ इदमिति ॥ यथा श्रिया स्तब्धाऽविवेकमतिर्यस्य सः । पुमान् इदं जीवमध्रुवमनित्यं न बुद्ध्यते न जानाति । कथं भूतम् । कृतान्तस्य यमस्यान्तिके वर्ति मृत्योः सन्निहितं बुद्धिभ्रंशकरं राज्यं तत्त्याजितेन मयि भवता भूयान् अनुग्रह एव कृत इति भावः ॥ ४४ ॥
लिङ्घेरी
हे वामन । अथ तस्मादहमपि असुरजातित्वमात्रेणात्मनो मम रिपोस्तवान्तिकं दैवेन पूर्वार्जितपुण्येन तव समीपं प्राप्तः । प्रसभं बलात्कारेण त्याजितश्रीः परिमोचितराज्यादि-सम्पच्च जातः । नन्विदमयुक्तं यत्पूर्वपुण्येन संपद्धानिर्ममासेति । तत्राह ॥ इदमिति ॥ यया श्रिया स्तब्धमतिर्जन इदं स्वजीवितं कृतान्तान्तिके मृत्युसमीपे वर्ति विद्यमानं नश्वरमिति ध्रुवं न बुद्ध्यत इति । तस्मात्पुण्येनोक्तसंपद्धानिरिति युक्तमिति भावः ॥ ४४ ॥
श्रीशुक उवाच–
तस्येत्थं भाषमाणस्य प्रह्लादो भगवत्प्रियः ।
आजगाम कुरुश्रेष्ठ राकापतिरिवोत्थितः ॥ ४५ ॥
पदरत्नावली
प्रह्लादस्य भक्त्यातिशयं दर्शयितुं बलेः स्तवनेन भगवद्भक्तिविशेषमाज्ञा-यागमनमिति, तदागमनमाह शुकः– तस्येति ॥ ४५ ॥
सत्यधर्मीया
दैवाद्देवदिदृक्षया प्रल्हादोऽप्यागमदिति शुको वक्ति ॥ तस्येति ॥ इत्थं भाषमाणस्य बलेः सतः प्रल्हाद उत्थितो राकापतिः पूर्णमासीचन्द्र इवाजगाम । तापापनोद-कत्वेन सोमसाम्यम् ॥ ४५ ॥
छलारी
तस्य बलेरित्थं भाषमाणस्य सत उत्थित उदितो राकापतिरिव पूर्णचन्द्र इव
॥ ४५ ॥
लिङ्घेरी
हे कुरुश्रेष्ठ । तस्य बलेरित्थं भाषमाणस्य सतो भगवत्प्रियः प्रल्हादः, उदितो राकापतिश्चन्द्र इवाजगाम ॥ ४५ ॥
तमिन्द्रसेनः स्वपितामहं श्रिया विराजमानं नलिनायतेक्षणम् ।
प्रांशुं पिशङ्गाम्बरमञ्जनत्विषं प्रलम्बबाहुं सुभगं समैक्षत ॥ ४६ ॥
पदरत्नावली
प्रांशुमुन्नतम् ॥ ४६ ॥
सत्यधर्मीया
इन्द्रसेनः श्रिया विराजमानं नलिनायतेक्षणं प्रांशुमुच्चम् । ‘उच्चप्रांशून्नतो-दग्रोच्छ्रिता’ इत्यमरः । पिशङ्गं पिङ्गलवर्णम् अम्बरं वसनं यस्य तम् । अञ्जनस्य त्विडिव त्विट् यस्य तम् । सुभगं सौभाग्योपेतं समैक्षतापश्यत् ॥ ४६ ॥
छलारी
इन्द्रसेनो बलिः प्रांशुमुन्नतकरं पिशङ्गाम्बरम् अञ्जनवत्कज्जलवत्त्विट् कान्ति-र्यस्य । प्रलम्बौ दीर्घौ बाहू यस्य तम् । सुभगं सुन्दरं सौम्यं वा ॥ ४६ ॥
लिङ्घेरी
इन्द्रसेनो बलिर्नलिनवत्कमलवदायते विस्तृते ईक्षणे नेत्रे यस्य तं प्रांशुमुन्नतं पीताम्बरमञ्जनकान्तिसमकान्तिं जानुपर्यन्तं लम्बमानबाहुं सुभगं सुन्दरं श्रिया कान्त्यादि-सम्पदाऽतिप्रकाशमानं स्वपितामहं प्रल्हादं ददर्श ॥ ४६ ॥
तस्मै बलिर्वारुणपाशयन्त्रितः समर्हणं नोपजहार पूर्ववत् ।
ननाम मूर्ध्नाऽश्रुविलोललोचनः सव्रीडनीचीनमुखो बभूव ह ॥ ४७ ॥
पदरत्नावली
सव्रीडत्वेन नीचीनमर्वाचीनं मुखं यस्य स तथा ॥ ४७ ॥
सत्यधर्मीया
यन्त्रितो बद्धः । पूर्ववद् अबन्धसमय इवाश्रुविलोललोचनो मूर्ध्रा ननाम । सव्रीडं सलज्जं नीचीनमधःकृतं मुखं यस्य सः । बभूव । हेति खेदे । निपूर्वादञ्चेर् ऋत्वि-गित्यादिना क्विन् । अनिदितामिति नलोपः । न्यचशब्दात्स्वार्थे विभाषाञ्चेरदिक् स्त्रियामिति खः । आयन्नित्यादिनेनादेशः । अच इत्यकारलोपे चाविति दीर्घः । तथा अबुध्ने राजेति व्याख्या ऋग्भाष्ये । नीचीना नीचाश्च य इत्युक्तेः । न व्रीडे न च विव्यथ इत्युक्तिस्तु भगवन्तं प्रति भक्तिपूर्वकतया वा रिपुत्वेन वा । अत्र तु पितामहदर्शनं दुःखावस्थायां जातमित्यतस्ताप-विशेषेण ममताविशेषेण व्रीडादिकमिति न विरोधः ॥ ४७ ॥
छलारी
वारुणैः पाशैर्यंत्रितो बद्धः समर्हणं पूजासाधनं स्वकृताहंकारादिरूपापराध-स्मरणेन सव्रीडं लज्जासहितं निचीनमर्वाचीनं मुखं यस्य सः । विलोले चञ्चले लोचने यस्य सः
॥ ४७ ॥
लिङ्घेरी
वारुणपाशैर्यन्त्रितो वशीकृतो निगृहीतो बलिस्तस्मै प्रल्हादाय समर्हणं पूजासाधनं पूर्ववद्यतो नोपजहार नानीतवान् । ततः स लज्जाधोमुखो बभूव । तदकरण-प्रयुक्तदुःखजाश्रुश् चञ्चलनेत्रश्च तथाऽपि मूर्ध्ना ननाम भक्त्या नमस्कृतवान् । एतच्च हाद्भुतम् । ‘हा हा हेत्यद्भुते खेद’ इत्यमरः ॥ ४७ ॥
स तत्र हासीनमुदीक्ष्य सत्पतिं सुनन्दनन्दाद्यनुगैरुपासितम् ।
उपेत्य भूमौ तरसा महामना ननाम मूर्ध्ना पुलकाश्रुविह्वलः ॥ ४८ ॥
सत्यधर्मीया
स प्रल्हादः सत्पतिं सच्छे्रष्ठं नक्षत्रस्वामिनं सोममिव वा पुलकाश्रु-भिर्विह्वलः ॥ ४८ ॥
छलारी
महामना महाज्ञानी सः प्रल्हादस्तत्र यज्ञशालायामासीनं सुनन्दाद्यैरुपासितं सतां पतिं वामनमुदीक्ष्य तरसा शीघ्रमुपेत्य समीपं प्राप्य बलेस्तत्कृतमनुग्रहं दृष्ट्वा पुलकै रोमाञ्चै-रश्रुभिरानन्दबाष्पैश्च विह्वलः परवशः सन् भूमौ मूर्ध्ना ननाम ॥ ४८ ॥
लिङ्घेरी
एवं स्वपौत्रस्य विपदि प्राप्तायामपि निर्विकारतया हरिप्रणतिस्तुत्यादि-परत्वान्महामनाः स प्रल्हादस्तत्र यज्ञशालायामासीनमुपविष्टं सुनन्दादिभृत्यसेवितं स्वभक्त्यादिना निर्दुष्टानां पालकं स्वामिनं च वामनमुद्वीक्ष्य समीपं प्राप्य च । तद्दर्शनसन्तोषाद्रोमाञ्चै-रानन्दबाष्पैर्भक्तिपरवशः सन् भूमौ मूर्ध्ना ननाम ॥ ४८ ॥
प्रह्लाद उवाच–
त्वयैव दत्तं पदमैन्द्रमूर्जितं हृतं तदेवाद्य तथैव शोभनम् ।
मन्ये महानस्य कृतोऽप्यनुग्रहो विभ्रंशितो यच्छ्रिय आत्ममोहनात् ॥ ४९॥
पदरत्नावली
आत्मनो मोहहेतुभूतया श्रिया विभ्रंशितो विगलित इति यदयं महा-ननुग्रहोऽस्य कृत इति मन्ये ॥ ४९ ॥
सत्यधर्मीया
शुक्रमन्त्रादिक्रमतः सम्पदं पदं चेति प्रतिपद्यमाना अविजानाना इति वदति ॥ त्वयैवेति ॥ शोभनं मङ्गलं मन्ये । तथैवास्योपरि महाननुग्रहः कृत इत्यपि मन्ये । किमात्माऽयमनुग्रह इत्यत आह । यद् आत्ममोहनात् । मोहिकायाः श्रियो विभ्रंशितस्ततः । श्रियः सकाशात्तद्धेतुकं यदात्ममोहनं तस्माद्विभ्रंशितस्त्याजित इति तत इति वा । यद्वा आत्मनः मोहनं येन तत् तस्माद् अन्तरङ्गत्वात् । लिङ्गसर्वनामनपुंसकतेति नपुंसकता । बहिरङ्गत्वान्न अस्मत्तात्पर्यान्तरे अमृतस्येति मुक्तेर्विशेषणम् इत्युक्तेरिव महाभाष्ये शक्यं च छुदपहन्तुमित्युक्ते-र्विशेषणविशेष्यभावः सम्भवतीति वा ज्ञेयम् ॥ ४९ ॥
छलारी
नमनानन्तरं किं कृतवानित्यत आह ॥ प्रल्हाद उवाचेति ॥ ऊर्जितमैन्द्रपदं त्रिलोकाधिपत्यं त्वयैव दत्तमद्य तदेव हृतं च मन्ये । ऐन्द्रपदं नैतदीयं त्वयाऽपहृतं किन्तु स्वीयमेव पुनः स्वीकृतमिति भावः । तच्च शोभनमेव कृतम् । कुत इत्यत आह ॥ मन्य इति ॥ यद्यस्मादात्मनो मोहनान्मोहहेतोः श्रियो राज्यलक्ष्म्या विभ्रंशितः । अयमस्य बले-र्महाननुग्रहः कृतो हीत्यहं मन्ये ॥ ४९ ॥
लिङ्घेरी
हे वामन । त्वयैवास्य बलेरुत्कृष्टमिन्द्रस्थानं पुरा दत्तमद्येदानीं त्वयैवापहृतम् । एतदस्य शुभकरमेव मन्ये । तथाऽऽत्मनस्तस्य बलेर्मोहनात्त्वद्विषयभ्रान्तिजनिकायाः श्रियः संपदो बलिर्विभ्रंशितः प्रच्यावित इति यदयं महानस्यानुग्रहस्त्वया कृत इति च मन्ये ॥ ४९ ॥
यया हि विद्वानपि मुह्यते जनस्तत्को विचष्टे१ गतिमात्मनो यथा ।
तस्मै नमस्ते जगदीश्वराय वै नारायणायाखिललोकसाक्षिणे ॥ ५० ॥
पदरत्नावली
तत् तस्मात् कः पुमानात्मनो गतिं यथावदभिचष्टे ? न कोऽपि । यथाऽऽत्मनः स्वस्य गतिं सर्वत्र स्वातन्त्र्यलक्षणामभिचष्टे यथा कः परमात्मनो गतिं स्थितिं स्वातन्त्र्यलक्षणां पश्यति ? श्रीमदान्धत्वान्न पश्यतीति वा ॥ ५० ॥
सत्यधर्मीया
विद्वानपि जनो यया मुह्यते तत्तस्मात्को जनो यथा यथावत् । आत्मनो गतिं गम्यस्थानं विचष्टे पश्यति । गतिं स्वस्थितिं वा । अतस्तद्धरन् हरिर्महान्तमनुग्रहं कृत-वानिति तद्भावः ॥ ५० ॥
छलारी
मोहनत्वमेवाह ॥ ययेति । विद्वानपि यतो यया श्रिया मुह्यते मोहं प्राप्नोति । तत्तस्यां श्रियां कोऽन्यः पुमान् आत्मनो गतिं स्वस्वरूपं परमात्मस्वातन्त्र्यलक्षणस्थितिं वा यथा तथावद्विचष्टे पश्यति । श्रीमदान्धत्वादिति भावः । तस्मै महाकारुणिकाय नमः ॥ ५० ॥
लिङ्घेरी
यया श्रिया त्वद्विषये ज्ञानवानपि भ्रान्तो भवति । तस्मात्त्वज्जिज्ञासुः श्रिया मोहितः को जन आत्मनस्तव यथावद्गतिं विचष्टे ज्ञास्यति । तस्मै तादृशभक्तानुकंपित्वादि-गुणवते जगदीश्वरायाखिलजनक्रियमाणकर्मसाक्षाद्द्रष्ट्रे नारायणाय तुभ्यं नमः ॥ ५० ॥
श्रीशुक उवाच–
बद्धं वीक्ष्य पतिं साध्वी तत्पत्नी भयविह्वला ।
प्राञ्जलिः प्रणतोपेन्द्रं बभाषेऽवाङ्मुखी नृप ॥ ५१ ॥
सत्यधर्मीया
उपेन्द्रमित्युक्त्या स्वभर्तृभ्रातृतां कटाक्षयतीति ध्वनिः ॥ ५१ ॥
छलारी
तदैव विन्ध्यावलिरपि वामनं प्रति वक्तुं प्रकृतेत्याह ॥ बद्धमिति ॥ तस्य बलेः पत्न््नयुपेन्द्रं वामनं स्त्रीत्वादवाङ्मुखी ॥ ५१ ॥
लिङ्घेरी
हे नृप । साध्वी पतिव्रता तस्य बलेः पत्नी विंध्यावलिर्बद्धं पतिं वीक्ष्य भय-विह्वला भक्तिपरवशा प्रांजलिरुपेन्द्रं वामनं प्रणता सत्यात्मनोऽनौद्धत्यप्रदर्शनायाधोमुखी सती वक्ष्यमाणं बभाषे ॥ ५१ ॥
विन्ध्यावलिरुवाच–
क्रीडार्थमात्मन इदं त्रिजगत् कृतं ते
स्वाम्यं तु तत्र कुधियोऽपर ईश कुर्युः ।
कर्तुः प्रभोस्तव किमस्य त आवहन्ति
त्यक्तह्रियस्त्वदवरोपितकर्तृवादाः ॥ ५२ ॥
पदरत्नावली
स्वभर्तृगर्वोद्रेकं कटाक्षीकृत्य भगवन्तं समीट्टे- क्रीडार्थमिति ॥ ते त्वया इदं त्रिजगदात्मनः क्रीडार्थं कृतमिति सङ्गिरन्ते केचित् । ‘क्रीडार्थं सृष्टिरित्येके’ इति श्रुतेः । हे ईश तत्रापरे कुधियोऽसुरप्रकृतय आत्मनः स्वाम्यं कुर्युः । वयमस्य स्वामिन इति जल्पन्ति जल्पं कुर्वन्ति । तत्रापि तुशब्दो महाविशेषं प्रकाशयति । तेन तव स्वाम्यस्य न कामपि हानिमापादयन्तीत्याह– कर्तुरिति ॥ त्वयाऽवरोपितो विचालतोऽहं कर्तेति वादो येषां ते तथा, अत एव त्यक्तलज्जास्ते कुधियोऽस्य जगतः कर्तुः प्रमोरधिपतेस्तव किमावहन्ति न किमपि हानिं कुर्वन्तीत्यर्थः ‘समर्थोऽधिपतौ प्रभुः’ इति च ॥ ५२ ॥
सत्यधर्मीया
सर्वनाथ मन्नाथगर्वफलमियदलमिति लपति ॥ क्रीडार्थमिति ॥ ते त्वयेदं त्रिजगदात्मनः स्वस्य क्रीडार्थम् । तत्र जगति । हे तत्र कृतजगद्रक्षक ईश । अपरे कुधियः कुत्सितबुद्धयः स्वाम्यं कुर्युः । ते स्वस्वाम्यज्ञाः कर्तुः स्वतन्त्रस्य प्रभोरस्य तव किमावहन्ति विपरीतं किं चरन्ति । तव तेन न काऽपि हानिरिति भावः । त्वदवरोपितकर्तृ-वादास्त्वत्तोऽवरोपितोऽवतारितः स्वेष्वारोपितश्च कर्तेति वादो येषां ते । न हि हरिः कर्ता कर्तारो वयमिति वादयुक्ताः । कथं ते कत्थन्तेऽनुभवबाधितं कुर्वन्ति कारयन्ति न पारयन्तीत्यत आह ॥ त्यक्तह्रिय इति ॥ निर्लज्जा इति । कर्तुः प्रभोस्तन्नैरपेक्ष्येण कर्तुं समर्थस्य । ते कर्तृतया स्वात्मना मन्यमानाः किं कां साहितीं त आवहन्ति कुर्वन्ति ते चैवंविधा इत्याह ॥ त्वदवरोपितकर्तृवादा इति ॥ अन्तरान्तराययापने गमितकर्तृत्वव्यवहारा अत एव त्यक्तह्रिय इति वा । अर्थादहन्ताफलमिदं पर्याप्तमिति मोचयति । स्वत एवेति मतिमती मोचयेति मोचोरूर्न सूचयामासेति चातुरीमत्यातुरतायामपीति ज्ञेयम् । अस्यतः क्षिपतः किमावहन्तीति वा ॥५२॥
छलारी
हे ईश स्वामिन् । आत्मनः स्वस्य क्रीडार्थं ते त्वयेदं त्रिजगत्कृतमुत्पादितम् । तत्र त्रिजगत्यपरेऽन्ये कुधियोऽसुरप्रकृतयः स्वाम्यं स्वामित्वं कुर्युः । वयमस्य जगतः स्वामिन इति जल्पन्ति । ते तादृशाः कुबुद्धयोऽस्य जगत्कर्तुः प्रभोः पालकस्य स्वामिन इत्यर्थः । तव किं वस्त्वावहन्ति समर्पयन्ति । कं पदार्थं दद्युरित्यर्थः । कथम्भूताः । त्वयाऽवरोपिताश्चालिताः कर्तृवादा वयं कर्तार इति वादा येषां ते तथा । अत एव त्यक्ता ह्रीर्लज्जा यैस्ते तथा ॥ अयं भावः । लोकत्रयं मया समर्पितं तृतीयपादाय देहं समर्प्य प्रतिश्रुतं सत्यं करोमि त्वत्स्वकीयेषु देहादिषु स्वाम्याविष्कारेण ब्रुवन् बलिः कुबुद्धिर्निलज्जश्च । यतस्त्वमेव सर्वस्यापि स्वाम्यतो मन्दबुद्धिमेनं केवलं कृपया विमुच्य पालय ॥ ५२ ॥
लिङ्घेरी
हे ईश सर्वस्वामिन्वामन । त्वयेदं जगत्त्रयं तव क्रीडार्थं कृतम् । तत्र त्रिजगद्विषये कल्याद्यावेशेन कुत्सितबुद्धयः स्वाम्यं वयमस्याधिपतय इत्यभिमानं कुर्युः । विचार्यमाणे परित्यक्तलज्जास् ते यतस्तत्तत्काले तत्तददृष्टानुसारेण विविधापदं प्रापयित्वाऽ-वरोपितः प्रच्यावितो ‘‘वयमस्य कर्तार’’ इति वादो वचनं येभ्यस्ते तथा भवन्ति । अतस्ते सर्वे जगतां वस्तुतः कर्तुः प्रभोः स्वामिनस्तव किमनिष्टमावहंत्यापादयन्ति । अनेन स्वपतेर्बलेर-सुरावेशेन कृतं जगत्स्वामित्वाद्यभिमानापराधं दयासमुद्रस्त्वं क्षन्तुमर्हसीत्यभिप्रायः सूच्यते ॥५२॥
श्रीशुक उवाच–
तस्या नु शृण्वतो१ राजन् प्रह्लादस्य कृताञ्जलेः ।
हिरण्यगर्भो भगवानुवाच मधुसूदनम् ॥ ५३ ॥
सत्यधर्मीया
तस्या नु इति छेदः । बद्धाञ्जलेरिति बलिललनाप्रल्हादविशेषणम् । नु नुम इति । बद्धाञ्जलेर्विन्ध्यावल्यास्तस्याः सत्याः कृताञ्जलेः प्रल्हादस्य च शृृण्वतः सतः । मधुसूदनं हरिं भगवान्हिरण्यगर्भ उवाच ॥ नुम इति । नोरर्थ इति नुमो लोप इति ऋग्भाष्या-द्युदाहरणपूर्वकं पूर्वस्कन्धविवृतौ व्यालेख्यमस्माभिर्विभावनीयम् । मध्ये प्रल्हादप्रस्ताव विन्ध्या-वलिस्तुतिव्यवहितेस्तस्येत्यनेन प्रल्हादपरामर्शः क्लिष्ट इति शङ्काविच्छविरेवमन्वये ज्ञेया । परस्यानुशृृण्वत इत्यादि पद्यं प्राक् पठित्वा विवरणं विधाय बद्धं वीक्ष्येति पद्यं च व्याकृत्य क्रीडार्थमात्मन इति विन्ध्यावलिवचनं सङ्गमयितुं प्रपूर्वश्लोकस्थोवाचेत्यस्य किञ्चिद्वक्तुं प्रवृत्त इति तथा तदुत्तरश्लोकस्य तदैव विंध्यावलिरपि प्रवृत्ता तां संमानयितुं हिरण्यगर्भः क्षणं तूष्णीं स्थितः । अतस्तस्या एव वाक्यं प्रथममवतारयति । बद्धं वीक्ष्येति व्याख्याछ्रममपारमवाप्नोदिति मन्तव्यम् । चिरन्तनकोशेषु न तथा पाठश्चेति । सूदनं सूदयतीति स तथा दर्शयन्तं हरिं प्रति मधु यथा भवति तथा वचनश्रवणेन दयोदयात्तथोवाचेति वा ॥ ५३ ॥
छलारी
तदेव प्रल्हादस्य विन्ध्यावलेश्च परमार्थोक्त्या प्रसन्नं हरिं प्राप्यागत्य लोकदृष्ट्यैव विज्ञापयति ॥ तस्येति ॥ तस्य प्रल्हादस्य शृृण्वतः सतो हिरण्यगर्भो ब्रह्मोवाच विज्ञापयामास ॥ ५३ ॥
लिङ्घेरी
हे राजन् कृतांजलेस्तस्यानुशृृण्वतः सतो भगवांश्चतुर्मुखो मधुसूदनमुवाच
॥ ५३ ॥
ब्रह्मोवाच–
भूतभावन भूतेश देवदेव जगन्मय ।
मुञ्चैनं हृतसर्वस्वं१ नायमर्हति निग्रहम् ॥ ५४ ॥
सत्यधर्मीया
हृतसर्वस्वमिति सरलः पाठः हतसर्वस्वमिति पाठेऽपि गतसर्वस्वमित्यर्थः । अयं बलिर्निग्रहमितः परं नार्हति ॥ ५४ ॥
छलारी
विज्ञापनप्रकारमेवाह ॥ भूतभावनेति त्रिभिः । भूतानि भावयत्युत्पादयतीति तथा । भूतानामीश नियामक । देवानां देव स्तुत्य । जगन्मय जगत्प्रधान । त्वं हृतं स्वीकृतं सर्वस्वं यस्य तमेनं बलिं मुञ्च मोचय । अयं बलिर्निग्रहं बन्धनं नार्हति ॥ ५४ ॥
लिङ्घेरी
तद्वचनप्रकारमेव दर्शयति ॥ भूतभावनेत्यादिना ॥ भूतानां प्राणिनाम् आकाशादीनां च भावनोत्पादक जगद्व्याप्त देवानामपि देव सर्वदेवेश वामन त्वमपहृत-सर्वस्वमेनं बलिं वारुणपाशेभ्यो मुंच । अयं बलिस्त्वद्भक्तियुक्तस्त्वन्निग्रहं नार्हति ॥ ५४ ॥
कृत्स्ना तेऽनेन दत्ता भूर्लोकाः कर्मार्जिताश्च ये ।
निवेदितं च सर्वस्वमात्माऽविक्लवया धिया ॥ ५५ ॥
सत्यधर्मीया
कर्मार्जिताः पुण्यकर्मसंपादिताः । युद्धादिभिः कर्मभिरार्जिता इति वा । सर्वं निवेदितम् । अविक्लवया धिया । आत्मा च देहश्च निवेदितः । कुरु मे शीर्ष्णीत्युक्तेः
॥ ५५ ॥
छलारी
निग्रहानर्थत्वे हेतुमाह ॥ कृत्स्नेति ॥ अनेन बलिना कृत्स्ना समस्ता भूर्भूमिस्ते तुभ्यं दत्ता । कर्मणाऽर्जिताश्च संपादिताश्च ये लोकाः स्वर्गादयस्ते च दत्ताः सर्वस्वं निवेदितम् । सर्वस्वमेवाह ॥ आत्मेति ॥ देहाख्यं सर्वस्वमित्यर्थः। अविक्लवया सर्वस्वदानाच्चांचल्यरहितया धिया ॥ ५५ ॥
लिङ्घेरी
तद्भक्तिमेव प्रकटयति ॥ कृत्स्नेत्यादिना ॥ अनेन बलिना ते कृत्स्ना समस्ता भूर्दत्ता । स्वकर्मार्जिता ये लोकाः स्वर्गादयस्ते च दत्ताः । आत्मनस्तव अविक्लवयाऽऽधीनया बुद्ध्या सर्वस्वं च निवेदितम् ॥ ५५ ॥
यत्पादयोरशठधीः सलिलं प्रदाय
दूर्वाङ्कुरैरपि विधाय सतीं सपर्याम् ।
अप्युत्तमां गतिमसौ भजते त्रिलोकीं
दत्वा न विक्लवमनाः कथमार्तिमृच्छेत् ॥ ५६ ॥
पदरत्नावली
बन्धनादिकमासुरजन्मदोषापहरणाय त्वया कृतं न तु द्वेषात्, अन्यथा तव वैषम्यनैर्घृण्ये स्यातां न तद्युक्तमित्याशयेनाह– यत्पादयोरिति ॥ नविक्लवमनाः सर्वस्व-दानादप्यहीनमनाः ॥ ५६ ॥
सत्यधर्मीया
विदितभगवच्चित्तो हिरण्यगर्भः पुत्रत्वदाक्षिण्येन सहेतेति खटिति मुञ्चे-त्युक्त्वेदानीं पर्यायेण तत्सपर्यामभिधाय स्वामिन्निति पारोक्ष्येणापि वदति ॥ यत्पादयोरिति ॥ यः कोऽप्यशठधीरशठा ऋजुर्धीर्यस्य । शठधीर्न भवतीति स तथा वा । सलिलं जलपात्रं प्रदाय । तथा दूर्वाङ्कुरैरेव सतीं सपर्यां पूजां विधायाप्युत्तमां गतिं भजति । असौ तु न विक्लवमनस्क-स्त्रिलोकीं दत्वा स्थित आर्तिं पीडां कथमृच्छेत्प्राप्नुयात् । उत्तमांगतिम् । उत्तमाङ्गस्य तिरा-नन्दम् । आनन्दं तीति वै वदेदिति तात्पर्यान्तरात् । उत्तमाङ्गं शिरः शीर्ष्णमित्यमरः । तत्समर्पणजनितानन्दं विक्लवमना न भेजे योऽसौ कथमार्तिमृच्छेदित्यावर्त्यान्वयो वा ॥ ५६ ॥
छलारी
तदेव कैमुत्येनाह ॥ यत्पादयोरिति ॥ अशठा निष्कपटा धीर्यस्य सः । सर्वोऽपि जनो यस्य तव पादयोः सलिलमात्रमपि प्रदाय दुर्वाङ्कुरैरपि सतीं समीचीनां सपर्यां पूजां विधायोत्तमां गतिं भजते प्राप्नोति । तस्मै तुभ्यं त्रिलोकीं दत्वाऽपि न विक्लवमनाः स्थिरमना असौ बलिरार्त्तिं दुःखं कथम् ऋच्छेत्प्राप्नुयात् ॥ ५६ ॥
लिङ्घेरी
त्वद्भक्ततया त्वदनुग्रहपात्रत्वादस्य दुःखमात्रमपि न स्यादिति कैमुत्येनाह ॥ यत्पादयोरिति ॥ अशठा कपटरहिता धीर्यस्य सोऽधिकारी यस्य तव पादयोर्जलं दत्वा पादौ प्रक्षाल्य दूर्वाङ्कुरैरपि सतीं भक्तिं श्रद्धोपेततया निर्दुष्टां सपर्यां विधायाप्युत्तमां गतिं प्राप्नोति । असौ तु बलिर्न विक्लवमपरवशमचञ्चलं मनो यस्य तथा सन् त्रिलोकीं ते दत्वाऽप्यार्तिं दुःखं कथं गच्छेन्न कथमपि ॥ ५६ ॥
श्रीभगवानुवाच–
ब्रह्मन् यमनुगृह्णामि तद्वित्तं विधुनोम्यहम् ।
यन्मदः पुरुषः स्तब्धो लोकं मां चावमन्यते ॥ ५७ ॥
पदरत्नावली
यद्यपि ब्रह्मा भगवदभिप्रायं वेत्ति तथापीतरेषां तज्ज्ञापनाय स्वाभिप्रायं वक्ति ब्रह्मन्निति ॥ ब्रह्मन् प्रजापते । यन्मदः यद्वित्तनिमित्तमदः ॥ ५७ ॥
सत्यधर्मीया
विरिञ्चं स्वं प्रति वदन्तं लक्षीकृत्येतरान्प्रति स्वाभिप्रायं श्रीपतिराह ॥ ब्रह्मन्निति ॥ अहं यमनुगृण्हामि यदुपर्यनुग्रहं कर्तुं कामये तद्वित्तं विधुनोमि हरिष्यामि । कुतो हरे हरणमित्यतस्तत्कारणमाह ॥ यदिति ॥ यन्मदो यद्वित्तहेतुकमदवान् स्तब्धः सन् लोकं मां चावमन्यतेऽवजानीते अतो विधुनोमि । लोकं ज्ञानिजनं वा ॥ ५७ ॥
छलारी
यद्यपि ब्रह्मा भगवदभिप्रायं वेत्ति तथाऽपीतरेषां तत्ज्ञापनाय स्वाभिप्रायं भगवा-न्वक्ति । ब्रह्मन् चतुर्मुख । तद्वित्तं विधुनोम्यपहरामि । नन्वर्थापहारः कोऽयमनुग्रहस्तत्राह ॥ यन्मद इति ॥ यद्वित्तनिमित्तमदोऽत एव स्तब्धोऽनम्रः सन् लोकं परलोकं मां चावमन्यते तिरस्करोति । मन्दस्तब्धहेतूनामर्थानामपहार एवानुग्रह इत्यर्थः ॥ ५७ ॥
लिङ्घेरी
भगवान्वामनो भक्तानुकम्पितया ब्रह्माणं निमित्तीकृत्य तदितरस्वभक्तजनं शिक्षयति ॥ ब्रह्मन्निति ॥ हे ब्रह्मन् । अहं यमनुगृण्हामि यस्मिन्ननुग्रहं करोमि तस्य वित्तं द्रव्यं विधुनोमि अपहारादिना नाशयामि । तन्नाशेन कथं तवानुग्रह इत्यतस्तद्द्रव्यस्य दोषापादकत्व-मुपपादयति ॥ यन्मदेति ॥ पुरुषो यस्य द्रव्यस्य मदोपेतः सन् स्तब्धः स्वोच्चेष्वनम्र-शिरस्कत्वादिः सन् मां मद्भक्तं लोकं जनं चावमन्यतेऽवमानयति । तस्मात्तदपहारेण तद्दोष-निराकरणेनास्मदादिषु तस्य भक्तिरेव मयोत्पाद्यते इति ॥ ५७ ॥
यदा कदाचिज्जीवात्मा संसरन् निजकर्मभिः ।
नानायोनिष्वनीशोऽयं पौरुषीं गतिमाव्रजेत् ॥ ५८ ॥
पदरत्नावली
नानायोनिभ्य उत्तमत्वेन मदोद्रेकहेतोरपि पुरुषयोनेर्यदृच्छया प्राप्तौ मदनु-गृहीतस्य पुंसो मदो नैवोत्पद्यत इत्याह– यदा कदाचिदिति ॥ अयं जीवत्मा निजकर्मभि-र्नानायोनिषु संसरन् कदाचिद्दैववशात् पौरुषीं गतिमाव्रजेत् ॥ ५८ ॥
सत्यधर्मीया
दुर्लभं मानुषं जन्म । तत्र मदवांश्चेन्नश्येदयमिति तद्दयां कर्तुमेव हर्तुं तन्निमित्तं वित्तं प्रवृत्तिरियम् इत्याह ॥ यदा कदाचिदिति ॥ निजकर्मभिर्जन्मापादकैः । अनीशोऽस्वतन्त्रः । यन्त्रारूढानि मायया भ्रामयन् सर्वभूतानि हृद्देशेऽर्जुन तिष्ठतीत्यादेः पौरुषीं गतिं योनिमाव्रजेत् ॥ ५८ ॥
छलारी
दुर्लभं पुरुषजन्म कथञ्चिल्लब्धवतो जीवस्य जन्मनिमित्तो गर्वो महाहानिकरः । तस्य च नाशो मदनुग्रहादेवेत्याह ॥ यदेति द्वाभ्याम् ॥ जीवात्माऽनीशः परतन्त्रः सन् कर्मभि-र्नानायोनिषु कृमिकीटादिषु संसरन् । यदा कदाचिद्दैववशात्पौरुषीं गतिं योनिमाव्रजेत् ॥ ५८ ॥
लिङ्घेरी
नानायोनिषु मानुषयोनिरेव दुर्लभा । तत्रापि यः स्तम्भाद्यभावः स आराधित-मदनुग्रहो मदनुग्रहादेवेति ज्ञातव्यमित्याह ॥ यदा कदाचिदिति ॥ अनीशोऽनाद्यनन्त-कालेऽपीश्वराद्यत्यन्तभिन्नोऽयं जीवात्मा स्वपूर्वार्जितकर्मभिर्नानायोनिषु संचरन् सन्पुण्यवशाद्यदा कदाचित् पौरुषीं मानुषीं गतिं स्थितिमाव्रजेद्गच्छेत् ॥ ५८ ॥
जन्मकर्मवयोरूपविद्यैश्वर्यधनादिभिः ।
यद्यस्य न भवेत् स्तम्भस्तत्रायं मदनुग्रहः ॥ ५९ ॥
पदरत्नावली
तत्र पौरुषगतौ यद्यस्य जीवात्मनो मदर्चनादौ स्तम्भस्तन्द्रीलक्षणा न भवेत् तर्ह्ययं मदनुग्रहः मत्कटाक्षपातलक्षण इति ज्ञातव्यम् ॥ ५९ ॥
सत्यधर्मीया
यदि अस्य मानुषं जन्मात्यवतः । सद्भिर्जन्मादिहेतुभिः । स्तम्भ इतरेषु तत्कार्यत्वेनार्यसंमतो न स्यात्तर्हि तत्रायं ममानुग्रहः । तत्र पुरुषयोनौ ॥ ५९ ॥
छलारी
तत्र पौरुष्यां गतौ यद्यस्य जीवात्मनो जन्मादिभिर्निमित्तैर्जातेन मदेन स्तम्भो मदर्चनादौ तन्द्रीलक्षणो न भवेत् । तर्ह्ययं मदनुग्रह एव । अहं सुकुलीन इति जन्ममदोऽहं कर्म-करणे निपुण इति कर्मनिमित्तमदः । वयस् तारुण्यस्था रूपं सौन्दर्यम् । आदिशब्देन पुत्रादि-सम्पत्तिः ॥ ५९ ॥
लिङ्घेरी
तत्र मानुषदेहे यद्यस्य जीवस्य जन्मकर्मवयोरूपविद्यैश्वर्यधनादिभिः सत्कुल-प्रसूतत्वस्ववर्णाश्रमविहितकर्मकरणतारुण्यसौन्दर्यशास्त्रादिजन्यज्ञानैश्वर्यद्रव्यादिभिः स्तम्भो न भवेत्तर्हि तस्य मदनुग्रहोऽस्तीति ज्ञातव्यम् ॥ ५९ ॥
मानस्तम्भनिमित्तानां जन्मादीनां समन्ततः ।
सर्वश्रेयःप्रतीपानां हन्त मुह्येन्न मत्परः ॥ ६० ॥
पदरत्नावली
स्वभक्तलक्षणमाह– मानस्तम्भेति ॥ पञ्चम्यर्थे जन्मादीनामिति षष्ठी
॥ ६० ॥
सत्यधर्मीया
समंततः सर्वत्राप्यननुगृहीते । सर्वश्रेयःप्रतीपानाम् । तद्विरुद्धानां मान-स्तम्भनिमित्तानां जन्मादीनां सकाशान्मत्परो न मुह्येदिति । मत्परता चैवं सति भवति नेतरथेति हरणं द्रविणस्येति भावः ॥ ६० ॥
छलारी
कथं तर्हि ध्रुवादिभ्यो संपदो दास्यसीति चेत्तत्राह ॥ मानेति ॥ हन्त । हे ब्रह्मन् । मानेन गर्वेण स्तम्भोऽनम्रता तस्य निमित्तभूतानां समन्ततः सर्वत्र सर्वश्रेयसां प्रतीपानां प्रतिकूलानां जन्मादीनां सत्वेऽपि जन्मादिभिरिति वा । मत्परो मद्भक्तो न मुह्येत् । अतो भक्तस्येच्छया सम्पदादिकं ददामि । अभक्तस्तु मुह्येदिति तद्वित्तापहाररूपमेव तस्यानुग्रहं करोमीति भावः ॥ ६० ॥
लिङ्घेरी
स्वभक्तलक्षणवत्त्वेनायमपि स्वभक्त इति तल्लक्षणमाह ॥ मान इत्यादिना ॥ सर्वेषां श्रेयसां प्रतीपानां विरोधिनामहंकारस्तंभहेतूनां पूर्वोक्तजन्मादीनां सकाशाद्यो न मुह्येद् भ्रान्तो न भवेत् स मत्परमो भक्त इति ॥ ६० ॥
एष दानवदैत्यानामग्रणीः कीर्तिवर्धनः ।
अजैषीदजयां मायां सीदन्नपि न मुह्यति ॥ ६१ ॥
पदरत्नावली
एतल्लक्षणदर्शनाय दवीयान् मार्गो न गन्तव्यः किन्त्वत्रैवेति भावेनाह– एष दानवेति ॥ अजयाम् अजेयाम्, न जयो यस्याः सा अजयेति ॥ ६१ ॥
सत्यधर्मीया
प्रस्तुतस्तुत्या निगमयति ॥ एष इति ॥ अजयाम् । न विद्यते जयो यस्याः सा ताम् । सीदन्नपि यन्न मुह्यति तदजैषीज्जितवान् ॥ ६१ ॥
छलारी
एतादृशः क इत्यपेक्षायामयं बलिरेवेदानीं मद्भक्तोऽतोऽस्यान्यैर्दुष्प्राप्यमप्यैश्वर्यं दास्यामीति वक्तुं तस्य मोहाभावमाह ॥ एष इति त्रिभिः । एष बलिः । न विद्यते जनो यस्याः साऽजयाताम् । मायां मोहिनीं प्रकृतिमजैषीज्जितवान् अत एव सीदन्नपि क्लिश्यन्नपि न मुह्यति
॥ ६१ ॥
लिङ्घेरी
एष बलिः सीदन्नपि दुःखसाधनपाशबन्धादिप्राप्तोऽपि न मुह्यति मम स्वातन्त्र्यस्वोत्कर्षादौ भ्रान्तो न भवति यतोऽतो मदनुग्रहेण विना जेतुमशक्यां मायां मोहनशक्तिं जडप्रकृत्यादिरूपां च जितवान् । अत एवैषो दानवदैत्यानामग्रेसरः कीर्तिवर्धनश्च ॥ ६१ ॥
क्षणाद् विभ्रंशितः स्थानात् क्षिप्तो बद्धश्च शत्रुभिः ।
ज्ञातिभिश्च परित्यक्तो यातनामनुयापितः ॥ ६२ ॥
गुरुणा भर्त्सितः शप्तो जहौ सत्यं न सुव्रतः ।
छलैरुक्तो मया धर्मो नायं त्यजति सत्पथम् ॥ ६३ ॥
पदरत्नावली
यातनां तीव्रवेदनाम् । सत्यवागनिमित्तक्षीणत्वादिकं प्राप्तोऽपि सत्यं न त्यक्तवानित्यन्वयः ॥ ६२,६३ ॥
सत्यधर्मीया
मोहाभावमेव विवृणोति ॥ क्षणादिति ॥ शत्रुभिर्वैनतेयादिभिर् ज्ञातिभिः स्वकीयैः स्वगोत्रैः परित्यक्तो यातनां तीव्रवेदनामनुयापितः प्रापितः । गुरुणा शुक्रेण च भर्त्सितो मूढ वर्तिष्यसे कथमिति । शप्तोऽचिराद्भ्रश्यसे श्रिय इति । सत्यं व्रतं न जहौ । मया तु धर्मश् छलैर्न ह्येतस्मिन्कुले कश्चिदित्यादिभिरुक्तस् तथाऽप्ययं सत्पथम् । सतां पन्थाः सत्पथस्तम् । सतां पथ इति पथशब्दोऽकारान्तो वाऽयम् । वाटः पथश्चेत्यमरः । न त्यजति न तत्याज । अधुनाऽपि नेतरथा भाषत इति त्यजतीति वोक्तिः ॥ ६२,६३ ॥
छलारी
क्षीणं रिक्थं वित्तं यस्य स तथा । शत्रुभिः सुनन्दाद्यैः क्षिप्तो निराकृतो बद्धश्च । यातनां तीव्रवेदनामनुयापितश्च प्रापितश्च ॥ गुरुणा शुक्राचार्येण भर्त्सितो निष्ठुरवचनेनोदितः सत्यं न जहौ । सत्यात्यागनिमित्तक्षीणत्वादिकं प्राप्तोऽपि सत्यं न त्यक्तवानिति भावः । न ह्ये-तस्मिन्कुले कश्चिन्निःसत्त्वः कृपणः पुमान् इत्यादि छलैरेव कपटवचनैरेव मया धर्म उक्तस्तथाऽपि तं धर्ममयं न त्यजति । अतः सत्यवाक् ॥ ६२,६३ ॥
लिङ्घेरी
वामनो बलौ स्वस्यानुग्रहविशेषं सूचयितुं स्तौति ॥ क्षीण इत्यादिना ॥ एषो बलिर्मयैश्वर्येण क्षीणः स्थानाद्विभ्रंशितः क्षिप्तो निष्ठुरैस्तिरस्कृतः शत्रुभिर्मद्भृत्यैर्गरुडादिभिर्बद्धश्च स्व-ज्ञातिभिरसुरैः परित्यक्तश्चैवं तीव्रवेदनामनुयापितः प्रापितस्तथा गुरुणा शुक्रेण भर्त्सितः शप्तश्च । तथाऽपि यथार्थभाषणं त्रिपदं दास्याम्येवेतिरूपं न जहौ । मयाऽस्मै छलेन व्याजेन धर्म उक्तस्तथाऽप्यसौ सत्यवाक् सत्यं न त्यजति ॥ ६२,६३ ॥
एवं मे प्रापितं स्थानं दुष्प्रापममरैरपि ।
सावर्णेरन्तरस्यायं भवितेन्द्रो मदाश्रयः ॥ ६४ ॥
पदरत्नावली
भवताऽस्मै किमनुगृह्यते त्वद्भक्तायेति तत्राह- एवमिति ॥ किं तत् स्थानम् ? अत्राह- सावर्णेरिति ॥ ६४ ॥
सत्यधर्मीया
अपहृत्य राज्यं, बध्वा च तं, शीर्ष्णि च कृत्वा पदं कर्तव्यं वा किं मनुषे भगवन्नित्यतो ब्रवीति ॥ एवमिति ॥ एवं कृत्वा मे मयाऽमरैरनीन्द्रपदयोग्यैर्दुष्प्रापं स्थानम् प्रापितः । मनसा सङ्कल्पितत्वाज्जल्पनमेवमिति मेयम् । सावर्णेस्तन्नामकमनोर् अन्तरस्य कालस्य सम्बन्धीन्द्रो भविता भविष्यति । तत्रापीदानीममदाश्रयो मदस्याश्रयो नेति । अत स मदाश्रयो ऽहमाश्रयो यस्य स तथा ॥ ६४ ॥
छलारी
त्वद्भक्ताय तस्मै भवता किमनुग्रहो यत इत्यत आह ॥ एवमिति ॥ मे मयाऽमरैरपि दुष्प्राप्यं प्राप्तुमशक्यं स्थानं प्रापितः । किं तत्स्थानमत्राह ॥ सावर्णेरितीति ॥ अहमेवाश्रयः पालको यस्य स मदाश्रयोऽयं बलिः । सावर्णेरन्तरस्य सावर्णिमन्वन्तरस्य काले इन्द्रो भविता भविष्यति । स्वर्गस्थानं दत्तमिति भावः ॥ ६४ ॥
लिङ्घेरी
बलिं वामन एवं भक्त्या प्रसन्नस्तं बहुमानयित्वा तस्य फलदानप्रतिज्ञां करोति ॥ एवमिति ॥ अयं बलिरेवं पूर्ववदेवामरैरपि प्राप्तुमशक्यं स्थानं प्रापितः । तदेव स्थानं दर्शयति । अयं मदाश्रयः सन् सावर्णेर्मनोरन्तरस्येन्द्रो भविष्यतीति ॥ ६४ ॥
तावत् सुतलमध्यास्तां विश्वकर्मविनिर्मितम् ।
यत्राधयो व्याधयश्च क्लमस्तन्द्री पराभवः ॥ ६५ ॥
पदरत्नावली
तर्हि तावत्पर्यन्तमाशयोद्रेकवान् बलिरेवंविधं क्लेशमनुभूय तिष्ठतु किम् ? तत्राह– तावत् सुतलमिति ॥ तत्रान्येषामपि क्लेशानुभवो नास्ति, किं पुनरस्येति भावेन वक्ति यत्राधय इति ॥ ६५ ॥
सत्यधर्मीया
तावत्सावर्ण्यन्तरपर्यन्तं विश्वकर्मनिर्मितं सुतलमध्यास्ताम् । अधितिष्ठतु । तत्सुतलमाहात्म्यमाह ॥ यत्रेति ॥ आधयो मनोव्यथाः । व्याधयो रोगाः । क्लमो दैन्यम् । तन्द्री आलस्यम् । पराभवः पराजयः ॥ ६५ ॥
छलारी
तर्हि तावत्पर्यन्तं कुत्र स्थातव्यमित्यत आह ॥ तावदिति ॥ ताव-त्सावर्णिमन्वन्तरपर्यन्तं सुतललोकमध्यास्तामध्यवसत्वित्यर्थः । तत्रान्यक्लेशानुभवो नास्ति किं पुनरस्येति भावेनाह ॥ यत्रेति ॥ यत्र पराभवः शत्रुभिः पराजयः ॥ ६५ ॥
लिङ्घेरी
तर्हि तावत्कालमनेन कुत्र स्थातव्यमित्यत आह ॥ तावदिति ॥ अयं बलिस्तावत्कालं विश्वकर्मविनिर्मितं सुतलं सुतललोकेऽध्यास्ताम् । यत्र सुतले आधयो मनोव्यथादयो व्याधयो भगन्दरादयः क्लमः श्रमस्तंद्य्रालस्यं पराभवोऽपजय इत्यादीन्युप-सर्गाण्युपद्रवा ममेच्छया यत्र वसतां न भवन्ति तम् । अधि शीङ् स्थासां कर्मेति कर्मसंज्ञा सुतलमित्यधिकरणे द्वितीया । पुंस्याधीर्मानसी व्यथा । तन्द्री प्रमीलेति चामरः ॥ ६५ ॥
नोपसर्गा निवसतां सम्भवन्ति ममेच्छया ।
इन्द्रसेन महाराज याहि भो भद्रमस्तु ते ॥ ६६ ॥
पदरत्नावली
उपसर्गा उपद्रवाः । भवदाज्ञामन्तरेणेदं कथं गमिष्यामीति शङ्का मा भूदित्याह– इन्द्रसेनेति ॥ ६६ ॥
सत्यधर्मीया
उपसर्गा इतरोपद्रवाः । निवसतां जनानां सम्भवन्ति सम्भावनार्हा अपि न । इतरेषामेवं तव तु नेति किं वक्तव्यमिति परोक्षत उक्त्वा साक्षात्तं स्वयं सम्बोध्य बोधयति ॥ ममेच्छयेन्द्रसेनेति ॥ ममेच्छया मत्संमत्येति यावत् । महाराज इन्द्रसेन सुतलं याहि । ते भद्रमस्तु ॥ ६६ ॥
छलारी
उपसर्गा दुर्भिक्षाद्युपद्रवाः । ममेक्षया कृपादृष्ट्या न सम्भवन्ति । एवं ब्रह्माणं प्रत्युक्त्वा करुणया परवशः साक्षाद्बलिं प्रत्याह ॥ इन्द्रसेनेति चतुर्भिः । भो इन्द्रसेन बले । ज्ञातिभिः परिवारितः सन् सुतलं याहि । ते भद्रं मङ्गलमस्तु ॥ ६६ ॥
लिङ्घेरी
हे महाराज इन्द्रसेन बले । ते मङ्गलमस्तु । त्वत्ज्ञातिभिरसुरैः परिवारितः सन् स्वर्गस्थैरप्यपेक्षितं सुतलं पाहि रक्षस्व ॥ ६६ ॥
सुतलं स्वर्गिभिः प्रार्थ्यं ज्ञातिभिः परिवारितः ।
न त्वामभिभविष्यन्ति लोकेशाः किमुतापरे ॥ ६७ ॥
पदरत्नावली
मृतवदेकः कथं गमिष्यामीत्यत उक्तम्- ज्ञातिभिरिति । स्वर्गस्थैरर्थ्यं चेत् स्पर्द्धया लोकेशा मामुपद्रविष्यन्तीति तत्राह– न त्वामिति ॥ ६७ ॥
सत्यधर्मीया
स्वर्गिभिर्दैवैरपि । तर्हींद्रादयस्तत्राप्युपद्रवं कुर्युस्तल्लोकाधिकतायामित्यत आह ॥ लोकेशा इति ॥ लोकेशा महान्तोऽपरे क्षुद्राः । परि परितो वारितो वार्भिरितः । एतेन वारिपरिवारितपरिखात इतराशक्यतामप्याहेति ज्ञेयम् ॥ ६७ ॥
छलारी
स्वर्गिभिः स्वर्गस्थैः प्रार्थ्यम् । स्वर्गिभिरपेक्षणीयं चेत् । स्पर्धयेन्द्रादयो लोकेशा मामभिभविष्यन्ति इति तत्राह ॥ न त्वामिति ॥ राज्यं त्यक्त्वाऽऽगतस्य तव शासने वयं न तिष्ठाम इति वदतां दण्डार्हत्वादिति ॥ ६७ ॥
लिङ्घेरी
तत्र तस्यापि भयं नास्तीत्याह ॥ न त्वामिति ॥ लोकेशा इन्द्रादयोऽपि स्वर्गिभिः प्रार्थ्ये सुतले स्थितं त्वां न तिरस्कुर्वन्ति । अपरे न तिरस्कुर्वन्तीति किमु वक्तव्यम्
॥ ६७ ॥
त्वच्छासनातिगान् दैत्यान् चक्रं मे सूदयिष्यति ।
रक्षिष्ये सर्वतोऽहं त्वां सानुगं सपरिच्छदम् ॥ ६८ ॥
पदरत्नावली
राज्यं त्यक्त्वा गतस्य तव शासने वयं न तिष्ठाम इति तिष्ठतां दण्ड-माह– त्वच्छासनेति । किं बहुनोक्तेन, सर्वतो मद्रक्षावज्रं तवास्तीत्याह– सर्वत इति ॥६८॥
सत्यधर्मीया
तत्र त्वदाज्ञाऽवज्ञातृणामज्ञानामसुराणां दशेदृशीति शंसति ॥ त्वच्छास-नेति ॥ चक्रं सूदयिष्यति । अनेन चक्रमात्रं स्थापयामीत्युक्तं स्यादित्यत आह ॥ रक्षिष्य इति ॥ तत्र मां सदा संनिहितं भवान् द्रक्ष्यते । स्वस्य स्ववाटं प्रति गमनसमये दौवारिकवारिणं ततोऽन्तरेव गतवता मयैतदनुभावितमितरत्रापि विनाऽऽज्ञां राज्ञः कश्चिदन्तर्न निवेशेतेति मयैव जाग्रता भवितव्यमिति द्वारपं सन्तं बलेर्द्वारिस्थोऽहमित्याचार्योक्तेः । किञ्च रावणस्य स्वदौवारिक-जयतया तत्पराजयस्तद्रूपधारिणैव कार्य इति वा तथा । इदमप्यूचे सचेताः । तेन मया रक्षोऽस्तं योजनमयुतं पदाङ्गुल्येति मारणं रावणस्य तदानीं नाभूदिति शङ्कांकुरार्पणं देवेन तदैव कृतमतो मयैवेत्युक्त्या पराकृतम् । नृसिंहस्तु द्वार्येवापत्येत्युक्ते द्वार्येवारिं ददार । श्रीदामोदरो दूत्यकृत्ये नियुक्त इति युक्तं हननमवतारत्रिकेण तदसुरत्रिकहननमेवमिति भावमाविर्भावयन्ति
॥ ६८ ॥
लिङ्घेरी
गतैश्वर्यादिकस्य ममाज्ञातिक्रमे दैत्यैः क्रियमाणैरेकाकिनैव मया तत्र कथमव-स्थेयमित्यत आह ॥ त्वच्छासनातिगानिति ॥ त्वच्छासनातिगान्दैत्यान्मे चक्रं हनिष्यतीति । लोकेशादिभ्योऽप्यधिकदेवासुरपीडायां किं कार्यमत आह ॥ रक्षिष्य इति ॥ किं बहुना सर्वतः सर्वापद्भ्योऽहं भृत्यसामग्रीसहितं त्वां रक्षिष्य इति ॥ ६८ ॥
सदा सन्निहितं वीर तत्र मां द्रक्ष्यते भवान् ।
तत्र दानवदैत्यानां सङ्गात् ते भाव आसुरः ।
दृष्ट्वा मदनुभावं वै सद्यः कुण्ठो विनङ्क्ष्यति१ ॥ ६९ ॥
॥ इति श्रीमद्भागवतेऽष्टमस्कन्धे विंशोऽध्यायः ॥ ८-२० ॥
पदरत्नावली
न केवलं सन्निधानविशेषाद् रक्षामि किन्तु प्रत्यक्षत एवेत्युक्तम्- तत्र मामिति । तत्राप्ययमनर्थस्तदवस्थ एव दानवादीनां संसर्गादिति च शङ्का मा भूदित्याह– तत्र दानवेति ॥ सद्यःकुण्ठ इत्येकं पदम् । सद्यः कुण्ठश् छेदो यस्य स तथा । अवनङ्क्षयतीति । विनङ्क्षयतीति पाठे निर्मूलो भविष्यतीत्यर्थः ॥ ६९ ॥
॥ इति श्रीमद्भागवतटीकायां विजयध्वजतीर्थभिक्षुकृतायाम्
अष्टमस्कन्धे विंशो(एकविंशो)ऽध्यायः ॥
सत्यधर्मीया
आसुरो भावो मदनुभावं दृष्ट्वा स्थितस्य । सद्यः कुण्ठो यस्य स सन् विनंक्ष्यति नश्यति । मयि सति । सर्वे सुपर्वाणोऽप्यविरोधेन स्थितप्राया इत्यभिप्रायेणाप्याह ॥ सदासमिति । दासैः सहितं सदासम् । निहितं सन्निहितम् । अनिष्टनिवृत्तिरेव हरे उपपादिता मुक्तिर्न युक्ता किमित्यतोऽप्याह । वै सद्यः कुण्ठो वैकारः सद्यः सदनीयो योजनीयः सङ्गमनीयः । कुण्ठपदात्पूर्वं ततश्च वैकुण्ठ इति पदसम्पत्तिः । तव सङ्गात् सङ्गमयति गच्छतीति स तथा । प्राप्तो भवति भवतापवर्ग इति भाव आन्तरङ्गिकः ॥ ६९ ॥
॥ इति श्रीसत्यधर्मयतिकृतायां भागवतटिप्पण्याम् अष्टमस्कन्धे विंशोऽध्यायः ॥ ८-२० ॥
छलारी
त्वच्छासनं त्वदाज्ञामधिगच्छन्त्यतिवर्तन्त इति । तथा तान्सूदयिष्यति हरिष्यति । किं बहुनोक्तेन सर्वतो मद्रक्षावज्रं संनिहितं, त्वत्समीपे विद्यमानं मां भवान्सदा द्रक्ष्यते पश्यति । तत्राप्ययमनर्थस्तदवस्थ एव दानवादीनां संसर्गादिति शङ्का मा भूदित्याह ॥ तत्रेति ॥ सङ्गाद्य आसुरो भावः स मदनुभावं मम महिमानं दृष्ट्वा । सद्यःकुण्ठ इत्येकं पदम् । सद्यः कुण्ठश्छेदो यस्य स यः कुण्ठः सन् विनक्ष्यति निर्मूलो भविष्यतीत्यर्थः ॥ ६९ ॥
॥ इति श्रीछलारी शेषाचार्यकृतायां श्रीभागवतटिप्पण्याम् अष्टमस्कन्धे विंशोऽध्यायः ॥८-२०॥
लिङ्घेरी
तव दर्शनाभावे सर्वमिदं व्यर्थमित्यत आह ॥ सदेति ॥ हे वीर । सर्वस्मि-न्काले तत्र त्वत्समीपवर्तिनं मां त्वं द्रक्ष्यसे द्रष्टाऽसि । ननु त्वदाज्ञया तत्र दानवादिभिः सह मया वासे क्रियमाणे दुष्टतत्सङ्गत्या ममासुरभावप्राप्त्या पुनस्त्वय्यभक्त्याद्यनर्थप्रसक्तिः स्या-दित्यत आह ॥ तत्रेति ॥ मदनुभावं माहात्म्यं दृष्ट्वा स्थितवतस्तव दानवदैत्यप्रसङ्गा-त्प्रसक्तासुरो भावः सद्यस्तत्क्षणादवकुण्ठः स्वकार्यजनने निरुद्धः सन् विशेषतः समूलघातं नष्टो भविष्यति । अतस्ते न काऽपि शङ्का तत्र कार्येति भावः ॥ ६९ ॥
॥ इति श्रीलिङ्घेरी श्रीनिवासाचार्यकृतायां श्रीभागवतटिप्पण्याम् अष्टमस्कन्धे विंशोऽध्यायः ॥