बलिरेवं गृहपतिः कुलाचार्येण भाषितः
श्रीशुक उवाच–
बलिरेवं गृहपतिः कुलाचार्येण भाषितः ।
तूष्णीं भूत्वा क्षणं राजन्नुवाचावहितो गुरुम् ॥ १ ॥
पदरत्नावली
भक्तिविधानार्थं त्रिविक्रमावतारमाहात्म्यं वक्त्यस्मिन्नध्याये । तत्रादौ बलेः सत्यसन्धनिश्चयमाह– बलिरिति ॥ १ ॥
सत्यधर्मीया
अत्र त्रिविक्रमपराक्रमं वक्तुमुत्कमना आदौ दानवेन्द्रस्य स्वसन्धाभि-सन्धिमभिधत्ते ॥ बलिरिति ॥ कुलाचार्येण कुलगुरुणा । अवहितः सावधानमानसः ॥ १ ॥
छलारी
बलिर्हरेः कपटं ज्ञात्वाऽपि अनृतभीतः सन् प्रतिज्ञातं पादत्रयं ददावित्याह ॥ बलिरिति ॥ कुलस्याचार्येण शुक्रेणैवं भाषिते गृहपतिर्यज्ञाधिकारी गृहस्थः क्षणं तूष्णीं भूत्वा स्थित्वाऽवहितः स्थिरमनाः सन् ॥ १ ॥
लिङ्घेरी
अत्रापि हरौ भक्त्यभिवृद्धये तदवतारत्रिविक्रममहिमोच्यते । तत्रादौ शुक-बोधितस्यापि बलेर्बुद्धिनिश्चयमाह ॥ बलिरित्यादिना ॥ गृहपतिर्गृहस्थधर्मो बलिरेवमुक्तरीत्या स्वकुलाचार्येण भाषितः क्षणकालं तूष्णीं भूत्वा पुनरवहितः स्वस्थान्तःकरणः सन् गुरुं शुक्र-मुवाच । हे राजन्निति शुकेन क्रियमाणं परीक्षित्संबोधनम् । गृहस्थाश्रमिणैवैमेव कार्यमिति द्योतनार्थम् ॥ १ ॥
बलिरुवाच–
सत्यं भगवता प्रोक्तं धर्मोऽयं गृहमेधिनाम् ।
अर्थं कामं यशो वृत्तं यो न बाधेत कर्हिचित् ॥ २ ॥
पदरत्नावली
यो दानादिधर्मोऽर्थादिकं स्वजीवनसाधनं न बाधेत न नाशयेत् सोऽयं गृहस्थानां धर्म इति यदुक्तं तत् सत्यमबाधितमित्यन्वयः ॥ २ ॥
सत्यधर्मीया
यो गृहमेधिनां गृहस्थानामर्थं कामं यशो वृत्तिं कर्हिचिदपि न बाधेत न नाशयेत्स धर्म इति यद्भगवता प्रोक्तं तत्सत्यं यथार्थमित्यन्वयार्थः ॥ २ ॥
छलारी
भगवता त्वया प्रोक्तं सत्यमबाधितं तत् । यो दानादिधर्मः कर्हिचित्कदाप्यर्थादिकं न बाधेत न नाशयेत् सोऽयं गृहस्थानां धर्म इति ॥ २ ॥
लिङ्घेरी
हे शुक्र । यो धर्मो दानादिलक्षणोऽर्थं द्रव्यं कामं विषयेच्छां यशः कीर्तिं वृत्तिं जीवनोपायं च कर्हिचित्कदाऽपि न बाधते स एव गृहमेधिनां गृहस्थाश्रमिणां धर्म इति भगवतैश्वर्यादिगुणवता त्वया यत्प्रोक्तं यथार्थमेव । तथाऽप्यनृतापयशसोर्बिभ्यते ॥ २ ॥
स चाहं वित्तलोभेन प्रत्याचक्षे कथं द्विजम् ।
प्रतिश्रुत्य ददामीति प्राह्लादिः कितवो यथा ॥ ३ ॥
पदरत्नावली
तथैवानुष्ठेयो धर्म इति नेत्याह– स इति ॥ ये ददामीति प्रतिज्ञाय स्थितः सोऽहं(कथं)प्रत्याचक्षे न दास्यामीति निषेधं करोमि ? कुतः ? प्राह्लादिः । कितवो धूर्तः ॥ ३ ॥
सत्यधर्मीया
प्रतिश्रवश्रवणात्पूर्वं जाग्रता भाव्यम् । अधुना तुष्यादस्य वितस्तं परि-स्वोत्प्लवननीतिर्जातेति श्रुतं त्वदुक्तं न संमतं मम तदित्यदितिसुतो विज्ञापयति ॥ स चेति ॥ यः प्राल्हादिः प्रल्हादगोत्रापत्यम् । ननु द्विजव्याजनिर्जरेभ्यो विरोचनो विरोचमान एव व्यता-रीच्छरीरमिति महामाहात्म्यं तं पितरमतिहाय पितामहानुबन्धं किमिति मतिमान् बलिरलपदिति चेत् । सत्यम् । आयुष्मन् दुष्परिहरेयं तव शङ्कापिशाची । गुरुभिः करुणापूर्वं पूर्वं व्रतमनु-छ्रयम् । दृष्ट्वा मां विद्रुता द्राक् सा यात्यमन्त्रविदोऽपरान् । तथा हि विरोचनो ददौ शरीरम् । सोऽहं चेत्यनुक्त्वा उक्त्वा च स चेति । सचेत्यव्ययं सुखवाची । तथा च सुखेन कथं ददानीति तात्पर्यं ज्ञापयामास । स चासं श्रेति श्रुतेः । तद्भाष्ये च स चा सुखेनेत्युक्तेः । जीवन् श्रमं न बुभुजे न वरश्रियं चेति नानुरूपं निदर्शनमिति प्रल्हादार्थं भगवानवततार इवेदानीं मदर्थमवततारेति वा आवयोः समतेति सुखचेता ऊचे प्राल्हादिरिति तात्पर्यपर्यवसतिसम्भवात् । अत इञितीञ् । सोऽहं यथा कितवो धूर्तो मिथ्या वदति तथा द्विजं प्रति ददामीति प्रतिश्रुत्य प्रतिज्ञाय कथं वित्तलोभेन नेति प्रत्याचक्षे व्यासेधामि । कथं प्रत्याचक्षे यूयं वित्त इति वा
॥ ३ ॥
छलारी
तर्हि स एव धर्मोऽनुष्ठेयः किं नेत्याह ॥ स चेति ॥ यो ददामीति प्रतिश्रुत्य स्थितः सोऽहं वित्तलोभेन जीवनाकांक्षया कथं द्विजं प्रति प्रत्याचक्षे न दास्यामीति निषेधं करोमि । कुतः । प्राल्हादिरनृतबिभ्यत्प्राल्हादिवंशोद्भवः । हेतुगर्भविशेषणम् । कितवो धूर्तः ॥ ३ ॥
लिङ्घेरी
मम प्रतिज्ञातं न दास्यामीति वचनमशक्यमित्याह ॥ स चाहमित्यादिना ॥ प्रल्हादकुलोत्पन्नः स चोक्तगुणवानहं ब्राह्मणाय ददामीति प्रतिज्ञाय कितवो वञ्चको यथा तथा द्रव्यलोभेन न दास्यामीति द्विजं कथं प्रतिवक्ष्यामि ॥ ३ ॥
न ह्यसत्यात् परोऽधर्म इति होवाच भूरियम् ।
सर्वं वोढुमलं मन्ये ऋतेऽलीकपरं नरम् ॥ ४ ॥
सत्यधर्मीया
बधिरपुरतो गानमिव बव्हृचगीतं हितमित्यभिहितं न हितं तुभ्यं जातमिति न वेदयम् । सर्वंसहापि दुःसहमेनं मेने । तथोवाच चेति तदाह ॥ न हीति ॥ असत्या-त्परोऽधर्मो न हीति मही भूः सर्वं पर्वतादिकं वोढुं मामलं शक्तां मन्ये । तर्हि कं धर्तुं धरित्रि न शक्ता त्वमित्यतस्तत्त्वमाह ॥ ऋत इति ॥ अलीकं त्वप्रियेऽनृते इति विश्वः । मिथ्या-भाषिणं नरमृते विना । तं धर्तुमहं न शक्तेत्युवाच । यदर्थमभूदियान् विवादस्तद्वचनं चेद्विश्वसनीयं स्यादिति तदेवाह ॥ भूरिति ॥ ४ ॥
छलारी
अल्पदोषत्वादनृतं वक्तव्यमित्यतोऽनृतस्य महादोषत्वे आर्यसंमतिमाह ॥ न हीति ॥ इयं भूमिः । असत्यात्परोऽधर्मो नास्ति । यतोऽतः । मां सर्वपापकरं नरं वोढुमलं समर्थेति मन्ये । तस्यापवादमाह ॥ ऋतेति ॥ अलीकपरमनृतवक्तारम् ऋते विना । इत्युवाच ह सिद्धमेतत् ॥ ४ ॥
लिङ्घेरी
असत्यादयथार्थवचनादथापरोऽन्योऽधर्मो नास्ति । हेत्यनेन ‘नानृतात्पातकं परम्’ इति प्रसिद्धिं सूचयति । अहं, मां सर्वं जगद्वोढुं धर्तुमलं शक्तां मन्ये । अलीकपरम-यथार्थवचननिष्ठं नरं विना इतीयं भूरुवाच । इति होवाचेति वेदतुल्यत्वमस्य वाक्यस्य सूचयति । ‘अलीकं त्वप्रियेऽनृतम्’ इत्यमरः ॥ ४ ॥
नाहं बिभेमि निरयान्नाधर्माद१सुखार्णवात् ।
न स्थानच्यवनान्मृत्योर्यथा विप्रप्रलोभनात् ॥ ५ ॥
सत्यधर्मीया
न च सर्वथा प्रत्याख्यातव्योऽयमिति मयोक्तं किल बालिशेत्यतस्तावा-नप्यधर्मो ममोद्वेगकृदित्याह ॥ नाहमिति ॥ अधर्मात्पापकरत्वेन मम सम्मताद्विप्रलोभनाद्वञ्च-नाद्बिभेमि यथा तथा निरयात्तद्वद्विद्यमानाद् असुखार्णवाद् आगामिदौर्भाग्यहेतुकाद्दुष्पारदुःखराशेः । स्थानच्यवनात्स्वर्गभ्रंशात् । किमुत मृत्योर्मरणादपि न बिभेमि । हे विप्र प्रलोभनात्प्रस्तुत-वञ्चनादिति वा । तार्तीयस्य कुतो गतिरिति त्वदुक्तगत्यभावप्रयोजकप्रतिश्रुतादाननिमित्ताद-सुखार्णवान्नरकादाप्यादिति वा । यद्वा विगतः प्रः प्रवर्णो यस्मिंस्तद्विप्रम् । तच्च तत्प्रलोभनं च । ततश्च लोभनादिति पदलाभः । तस्माल्लोभनात् त्वदुपदिष्टवित्तवृत्तिगार्ध्याद्यथा बिभेमि तथा पूर्वस्मादन्यस्मान्न बिभेमीत्यर्थः ॥ ५ ॥
छलारी
नन्वप्रत्याख्याने दोषा उक्ताः खलु तत्राह ॥ नाहमिति ॥ अहं विप्र-प्रलोभनाद्वञ्चनाद्भ्रंशनाद्यथा बिभेमि तथा निरयान्नरकादधन्याद्दारिद्य्रात् । अधर्मादिति पाठे पापादित्यर्थः । असुखस्य दुःखस्यार्णवाद्यशःस्थानस्य च्यवानाद्भ्रंशात् । किं बहुना मृत्योरपि न बिभेमि ॥ ५ ॥
लिङ्घेरी
हे शुक्र । अहं विप्रस्य प्रलोभनाद्वंचनाद्यथा बिभेमि भीतोऽस्मि तथा निरया-द्दुर्गतेर्दारिद्य्रादेरधर्माद्विप्रवंचनानृतभाषणातिरिक्तात् पापादसुखार्णवाद् दुःखसमुद्रात् स्थानच्यवना-त्स्थानभ्रंशान्मृत्योर्मरणाच्च न बिभेमि ॥ ५ ॥
यद्यत् हास्यति लोकेऽस्मिन् सम्परेतो धरादिकम् ।
तस्यात्यागे निमित्तं किं विप्रस्तुष्येत तेन चेत् ॥ ६ ॥
पदरत्नावली
ननु वित्तलोभाभावे स्वजीवनहानिः स्यादित्याशङ्क्य दानेन विप्रालम्बुद्धिरेव प्रयोजिका नान्येत्याशयेनाह– तस्येति ॥ यत्प्रतिश्रुतं तेन वित्तेन विप्रो यदि तुष्येत तर्हि तस्य वित्तस्यात्यागे अदाने निमित्तं कारणं किम् ? न किमपि ॥ ६ ॥
सत्यधर्मीया
सम्परेतो मृतो यद्यद् धरादिकं भूम्यादि अस्मिंल्लोक एव हास्यति त्यक्ष्यति सह किमपि न नेष्यति तेन धरादिना विप्रस्तुष्येत चेत् सन्तुष्टो भवति चेत् तस्य तादृशस्य स्वाननुयायिनो धरादेरत्यागेऽदाने निमित्तं किम् । न किमपि कारणं पश्यामीति भावः ॥ ६ ॥
छलारी
मरणानन्तरं सर्वं परित्यज्य गच्छतः पुंसस्तस्यादाने निमित्तं नास्तीत्याह ॥ यद्यदिति ॥ हास्यति त्यक्षति । संपरेतो मृतो धनादिकं तस्य धनादेरत्यागेऽदाने किं निमित्तम् । न किमपि । प्रयोजनाभावेऽपि किमिति देयमित्यत आह ॥ विप्र इति ॥ तेन वस्तुना विप्रस्तुष्येत चेत्तस्यात्यागे किं कारणमित्यर्थः ॥ ६ ॥
लिङ्घेरी
सम्परेतो मृतोऽस्मिंल्लोके यद्यद्धरादिकं भूम्यादिकं हास्यति त्यजति चेद्यदि तेन धरादिनाऽपि विप्रो ब्राह्मणस्तुष्येत तर्हि तस्यात्यागेऽदाने निमित्तं किं न किमपि । भूम्यादेः सदा स्वाधीनत्वाभावात् तत्र लोभोऽयुक्त इति भावः ॥ ६ ॥
श्रेयः कुर्वन्ति भूतानां साधवो दुस्त्यजासुभिः ।
दध्यङ्शिबिप्रभृतयः को विकल्पो धरादिषु ॥ ७ ॥
पदरत्नावली
स्वजीवनं कारणं चेन्नेत्याह– श्रेय इति ॥ के ते साधव इति तत्राह– दध्यङिति ॥ दध्यङाथर्वणो देवेभ्यः स्वदेहम्, शिबिः कपोताय । ततः प्रकृते किम् ? तत्राह– को विकल्प इति ॥ दित्सितेषु धरादिषु विकल्पः दास्यामि न वेति संशयः कः ? न कोऽपीत्यर्थः ॥ ७ ॥
सत्यधर्मीया
न च जीवनावनं न सिद्ध्यतीति वञ्चनं रचनीयमिति वचनं ममैता-वच्छ्रुतवतो रुचिकरमितीरयति ॥ श्रेय इति ॥ साधवो दुस्त्यजा येऽसवः प्राणास्तैर्भूतानां श्रेयः कुर्वन्ति । ते क इत्यतोऽभिधामभिधत्ते ॥ दध्यङ्शिबिप्रभृतय इति ॥ दध्यङ् स्वदेहम् । शिबिः स्वमांसं कपोताय मत्पिता चेत्यादयो धरादिषु स्वत एव नश्यत्सु विकल्पो देयं वा न देयमिति सन्देहः कः किं प्रयोजनकस्तत्पुरत इदं नाद्भुतमिति भावः । प्रकर्षेण भृतिः पोषणं मम येन सः प्रभृतिर् विरोचनः । उपलक्षणया अन्ये ग्राह्याः । यद्वा स दानवः न मुक्तियोग्य स्वयं कर्मदेव इति, मुक्तियोग्य इत्येतन्मुक्तपङ्क्तौ न साक्षात् पितृनाम जग्राह ॥ ७ ॥
छलारी
स्वजीवनमेव कारणं चेन्नेत्याह ॥ श्रेय इति ॥ दध्यङ्नामा ऋषिः शिबीराजा एतादयः साधवो दुस्त्यजैरसुभिः प्राणैरपि स्वप्राणान् दत्वाऽपीत्यर्थः । भूतानां देवादिप्राणिनां श्रेयोऽभीष्ठं कुर्वन्त्यकुर्वन् । तत्र दध्यङ् देवेभ्यः स्वदेहं दत्वा शिबिः कपोताय स्वमांसं दत्वेति ज्ञेयम् । ततः किं प्रकृतेऽपि तत्राह ॥ क इति ॥ धरादिषु धरादिदानविषये कः विकल्पो विचारः ॥ ७ ॥
लिङ्घेरी
कैमुत्यन्यायेनापि भूम्याद्यदाने कारणाभावं दर्शयति ॥ श्रेय इति ॥ दध्यङ् अथर्वणः शिबिः राजा एतत्प्रमुखाः साधवो दयालुत्वादिसमीचीनगुणवन्तो भूतानामिन्द्रकपोता-दीनां स्वकीयैस्त्यक्तुमशक्यैरसुभिः प्राणैरपि श्रेयो हितं कुर्वन्ति । दध्यङ् देवेन्द्राय स्वास्थीनि वज्रनिर्माणाय दत्तवानिति प्रसिद्धेः । शिबिरग्निरूपकपोतरक्षणायेन्द्ररूपश्येनपक्षिणे स्वमांसं ददा-विति स्कान्दादिप्रसिद्धेः । एवं स्थिते धरादिषु विषये दास्यामि न वेत्येवंरूपो विकल्पः संशयः कः, न कोऽपीत्यर्थः ॥ ७ ॥
यैरियं भुज्यते ब्रह्मन् दैत्येन्द्रैरनिवर्तिभिः ।
तेषां कालोऽग्रसील्लोकान् न यशोऽधिगतं भुवि ॥ ८ ॥
पदरत्नावली
सति विभवेऽर्थिनि च प्राप्ते लोभाददातॄणाम् ऐहिकामुष्मिकसुखं न सेत्स्यतीत्याशयेनाह– यैरियमिति ॥ अनिवर्तिभिः, युद्ध इति शेषः । कालो यमः, स्वर्गादि-लोकानग्रसीद् ग्रस्तवान् । ‘ये लोका दानशीलानां स तानाप्नोति पुष्कलान्’ इति स्मृतिसिद्धलोका न सन्तीत्यर्थः ॥ ८ ॥
सत्यधर्मीया
को विकल्पो धरादिष्वित्यनेन कैमुत्येन धरादिवितरणस्य सुलभतोपपादिता स्वयं तथाऽपि वित्तादिस्पृहामाहात्म्यमनुसन्दधदिदानीं कीर्तिरेकैव सम्पाद्या सन्ततस्थायिनी सुमिलाः कलेवरमुचो दुर्मिलाश्च धनत्यज इति द्वाभ्यामाह ॥ यैरिति ॥ यैर्दैत्येन्द्रैरव-निवर्तिभिर्युद्धादप्रत्यावर्तनैरियं मही बुभुजे भुक्ता । तेषां समितिमृतानां लोकान् । ऐहिका-नामुष्मिकांश्च । क्षीणे पुण्य इत्यादेः । काल ईश्वरः क्लृप्तकालान्यकालप्रेरकोऽग्रसीज्जग्रास । भुव्यधिगतं प्राप्तं यद्यशस्तन्नाग्रसीत् । अधुनाऽपि तत्यजुर्दुस्त्यजं कायमिति तत्कीर्तिर्वर्तते अतः सैव संपाद्येति भावः । तेषां चर्यैतादृशीत्यप्याह । तेषां गतं भावे क्तः । गतिर्भुवि नयशोधि नयेन राजनीत्या शोधोऽस्यास्तीति तत्तथेति । केवलं कलहे कलेवरत्यज एतादृशयशो नाप्नुवन्तीति वाऽह ॥ नेति ॥ तैर्भुवि यशो वित्तवितरणजं न सम्पादितमिति वा । काल-स्तानेवाग्रसीत्तेषां लोकान्न यशः । लोकानामन्नं स्वोपभोगयोग्यं सर्वं तदर्पणजं यशो भुवि अतं गतमन्नदांस्तान् धिक् । ते निन्द्या इति वा । न यशोऽपयशश्च भुवि अतं प्राप्तमिति वा ॥८॥
छलारी
सति विभवे सत्पात्रेऽदातॄणामैहिकामुष्मिकसुखं न मेऽस्तीत्याशयेनाह ॥ यैरिति ॥ यैर्दैत्येन्द्रैर्युद्धेऽनिवर्तिभिरियं भूर्बुभुजे उपभुक्त्वा तेषां लोकान्स्वर्गादिलोकान् । ऐहिका-मुष्मिकभोगान्वा । कालो यमोऽग्रसीत्संहृतवान् । यच्छोकादनशीलानां सतां नाप्नोति पुष्कला-नित्युक्तम् । अदातॄणां स्वर्गादिलोका न सन्तीत्यर्थः । भुव्यधिगतं प्राप्तं यशस्तु नाग्रसीत् । अतः कीर्तिरेव साध्या नान्यदिति भावः ॥ ८ ॥
लिङ्घेरी
नश्वरस्वत्ववद्भूम्यादौ स्वत्वपरित्यागेन परस्वत्वापादानरूपदानेनानश्वरकीर्तिरेव संपाद्येत्याशयेन तदुपपादयति ॥ यैरिति ॥ हे ब्रह्मन् । यैर्दैत्येन्द्रैरियं भूर्बुभुजेऽनुभुक्त्वा तेषां संबन्धिनो लोकान् भूरादीन्कालः कालनामकभगवत्प्रेरितः प्रसिद्धकालोऽग्रसीद्ग्रस्तवान् । कालेन दैत्येन्द्राणां भूरादिस्वामित्वं नष्टमिति यावत् । ननु दैत्येन्द्राणामशक्ततया तदभूदित्यत आह ॥ अनिवर्तिभिरिति ॥ युद्धापराङ्मुखैरित्यर्थः । तथाऽपि भुव्यधिगतं व्याप्तं तेषां यशः कीर्तिं कालो नाग्रसीदिति ॥ ८ ॥
सुलभा युधि विप्रर्षे ह्यनिवृत्तास्तनुत्यजः ।
न तथा तीर्थ आयाते श्रद्धया ये धनत्यजः ॥ ९ ॥
पदरत्नावली
पात्राभावान्न दास्यन्ति तस्मिन् सति दातारः सुलभा इति तत्राह– युधीति ॥ यथा युधि युद्धादनिवृत्तास्तनुत्यजः शरीरत्यागिनः सुलभास्तथा तीर्थे पात्रे प्राप्ते श्रद्धया धनत्यजः धनदातारो न सुलभा इत्यन्वयः । ‘तीर्थं मन्त्रेऽप्युपाध्याये शास्त्रेष्वम्भसि पावने । पात्रोपायावतारेषु स्त्रीपुष्पे योनियज्ञयोः ॥’ इति यादवः । ‘परा चिच्छीर्षा ववृजुस्त इन्द्रा यज्वानो यज्विभिः स्पर्द्धमानाः’ इति च ॥ ९ ॥
सत्यधर्मीया
हे विप्रर्षे । युधि अनिवृत्तास्तनुं त्यजन्तीति तनुत्यजः सुलभाः । बहव आहवे वपुरयगमका इत्यत्र हीति ये युद्ध्यन्ते प्रधनेषु शूरासो ये तनुत्यजः । ये एव सहस्र-दक्षिणा इत्युक्तिमनुभवं चाह । तर्हि के दुर्मिला इलापाला इत्यत आलपति ॥ न तथेति ॥ तीर्थे सत्पात्रे । किञ्च तीर्थेऽध्वरादावायाते स्वत एवागते । ये श्रद्धया भक्त्या धनत्यजो धनदाः । तथा न ते सुलभास्तनुत्यग्वन्न सुलभा इति भावः । दाता जायेत वा न वेत्यादेः ॥ ९ ॥
छलारी
देहत्यागादपि धनत्यागे कीर्तिर्भवतीत्याह ॥ सुलभा इति ॥ यथा युध्य-निवृत्ता अपरावृत्ताः सन्तः । तनुत्यजः शरीरत्यागिनः सुलभाः । तथा तीर्थे पात्रे आयाते सति श्रद्धया भक्त्या ये धनत्यजो धनत्यागिनः सुलभा नेत्यन्वयः । अतोऽतिदुष्करो धनत्याग एव मया कार्य इति भावः ॥ ९ ॥
लिङ्घेरी
युद्धेऽनिवृत्ततया देहत्यागादपि सत्पात्रे द्रव्यत्यागः श्रेयानित्याशयेनाह ॥ सुलभा इति ॥ हे विप्रर्षे । युध्यनिवृत्ता अपराङ्मुखास्तनुत्यजः शरीरत्यागिनः सुलभाः सर्वत्र बहवो वर्तन्त इत्यर्थः । तीर्थे सत्पात्रे आगते सति श्रद्धया धनत्यजो द्रव्यदातारो ये ते तथा न सुलभाः । कुत्रचित्केचन वर्तन्त इत्यर्थः । ‘तीर्थं मन्त्राद्युपाध्याये शास्त्रेष्वंभसि पावने । पात्रोपायावतारेषु स्त्री पुष्पे योनियज्ञयोः’ इति यादवः ॥ ९ ॥
मनस्विनः कारुणिकस्य शोभनं यदर्थकामोपनयेन दुर्गतिः ।
कुतः पुनर्ब्रह्मविदां भवादृशां ततो वटोरस्य ददामि वाञ्छितम् ॥ १० ॥
पदरत्नावली
ननु सर्वस्वदाने स्वजीवनहानिलक्षणः क्लेशः स्यादिति यदुक्तं तत्राह– मनस्विन इति ॥ अर्थकामाय याचमानाय कामितार्थदानेनोपनयो गृहं प्रति प्रस्थापनं यत् तेन दुर्गतिर्दारिद्र्यलक्षणनाशो भवतीति यत् तत् कारुणिकस्य मनस्विन उदारस्य शोभनमिहामुत्र सुखसाधनं स्यात् । भवादृशां ब्रह्मविदां सर्वस्वदानात् क्लेशः सुखहेतुरिति किं पुनः किमु वक्तव्यम् ? फलितमाह– तत इति ॥ १० ॥
सत्यधर्मीया
सर्वस्ववितरणे क्लेशो महान्भवतीत्येतदुत्तरयति ॥ मनस्विन इति ॥ अर्थिनो यादृशतादृशस्यापि कामस्याभिलषितस्योपनयः प्रापणं तेन । दुर्गतिर्नरको दारिद्र्यं वेति यत्तन्मनस्विनः प्रशस्तवित्तस्य कारुणिकस्य दयायुजः शोभनं मङ्गलमेव । ‘दुर्गतिर्नरके निःस्व’ इति विश्वः । ब्रह्मविदां भवादृशामर्थिकामोपनयेनेत्यतः कामोपनयेनेत्येतद्विश्लिष्य योज्यम् । कामोपनयेन प्राप्या दुर्गतिरिति यत्तच्छोभनमिति कुतः पुनर्व्याहर्तव्यं न वक्तव्यम् । कैमुत्य-सिद्धत्वात् । ‘इह क्लेशाय महते प्रेत्यानन्तसुखाय च’ इत्यादेः । फलितमभिलपति ॥ ततो वटोरिति ॥ दुर्गतिः कुतो न भवेदेव । शोभनमेव यदेतीति यदागच्छदिति वा । भवादृशां ब्रह्मविदां पश्यतां सतामस्य वटोर्वांछितं ददामीति वा । महात्मसाक्षिकतया दत्तस्य महा-फलोपलम्भकत्वादिति भावः । भवादृशां विदां ज्ञानिनां यद्ब्रह्म अस्य वटोर् इति वा ॥ १० ॥
छलारी
ननु सर्वस्वदाने स्वस्य क्लेशः स्यादित्यत आह ॥ मनस्विन इति ॥ यादृशास् तादृशानामप्यर्थिनां याचमानानां कामोपनयेन कामपूरणेन दुर्गतिदारिद्र्यलक्षणक्लेशो न भवतीति यत्तन्मनस्विन उदारस्य कारुणिकस्य दयालोः शोभनमेवेहामुत्रसुखसाधनमेव स्यात् । भवादृशां तु युष्मत्सदृशानां ब्रह्मज्ञानिनां कामोपनयेन सर्वस्वसमर्पणेन दुर्गतिः क्लेशः सुखहेतुरिति किं वक्तव्य-मित्यर्थः । ‘इह क्लेशाय महते प्रेत्यानन्तसुखाय च’ इत्युक्तेः । फलितमाह ॥ तत इति ॥१०॥
लिङ्घेरी
नन्वेवं त्वत्प्रतिज्ञा, तदा वामनेनोक्तरीत्या सर्वस्वापहरणे तव दारिद्य्रप्राप्त्याऽ-शोभनं स्यादित्यत आह ॥ मनस्विन इति ॥ दानशीलमनस्कस्य याचकेषु कृपावतो यदर्थ-कामोपनयेन द्रव्याकांक्षिणे द्रव्यदानेन पुनस्तद्ग्रहप्रापणेन दुर्गतिर्दारिद्य्रं तदपि शोभनमेव । किं पुन-र्भवादृशां परब्रह्मादिज्ञानिनां द्रव्यदानेन शोभनं भवतीति वक्तव्यम् । कीर्तिकामस्यात एव दानशीलस्यापकीर्तेर्दारिद्य्रमेव वरमिति भावः । ततोऽहमस्य वटोर्वामनस्य वाञ्च्छितमपेक्षितं ददामि
॥ १० ॥
यजन्ति यज्ञक्रतुभिर्यमादृता भवन्त आम्नायविधानकोविदाः ।
स एष विष्णुर्वरदोऽस्तु वा परो दास्याम्यमुष्मै क्षितिमीप्सितां मुने ॥ ११ ॥
पदरत्नावली
अयं वटुरपि यः कश्चन न भवतीति दर्शयन् स्वस्य हरिविषयं ज्ञानं सूचयन्नाह– यजन्तीति ॥ क्रतुभिः सङ्कल्पैः सप्ततन्तुसञ्ज्ञैर्वा ॥ ११ ॥
सत्यधर्मीया
यदुक्तमयं हरिरिन्द्रायाच्छिद्य राज्यं रातीति तत्सत्यमयमध्वरसम्भारो यदुद्देश्येन भवद्भिः क्रियते कार्यते चास्मदादिभिः स एव चेद्बहुलो लाभ इति भाषते ॥ यजन्तीति ॥ यज्ञक्रतुभिर् यज्ञैः क्रतवश्च सत्यसंस्थासंज्ञास्तैः । यज्ञाः साधरणाः क्रतवश्च वाजिमेधादयस्तैरिति वा । यज्ञानां क्रतुर्ज्ञानं तत्करणप्रकारज्ञानं येषां तैः सह ‘स क्रतुर्ज्ञान-रूपत्वात्’ इत्युक्तेः । यजिरेतत्पक्षे मुख्यार्थः । आम्नायविधाने वेदविदितकर्मकरणे कोविदाः कुशला भवन्तो यम् आदृता यजन्ति पूजयन्ति स एष विष्णुर्वरदो वाऽस्तु परः शत्रुर्वाऽस्तु । अनुग्रहकृद्वा निग्रहकृद्वाऽस्तु । ईप्सितामेतदाकांक्षितां क्षितिं क्षोणीं दास्यामि । हे मुने । अनेन मौनमेव तव गुणदमिति सम्बोधयामासैवमिति सूचितं भवति ॥ ११ ॥
छलारी
ननु नायं बटुः किन्तु विष्णुस्तव शत्रुरित्युक्तम् । तर्हि सुतरामेव दास्या-मीत्याह । यजन्तीति ॥ आम्नायानां वेदोक्तानां कर्मणां विधानेऽनुष्ठाने कोविदा भवन्त आदृता आदरवन्तः सन्तो विष्णुं यज्ञैरश्वमेधादिभिः क्रतुभिः सप्तसप्तसंज्ञकैः कर्मभिर्यजन्ति । स एषो विष्णुर्वरदो वाऽस्तु स शत्रुर्वाऽस्तु । अमुष्मा ईप्सितां क्षितिं दास्यामि । हे मुने शुक्राचार्य
॥ ११ ॥
लिङ्घेरी
हे मुने । आम्नायविधाने वेदविहितकरणे कोविदाः कुशला भवन्त आदृताः सन्तो यं यज्ञक्रतुभिरश्वमेधैः सप्तसंस्थज्योतिष्टोमादिभिश्च यजन्ति पूजयन्त्येषो वटुर्वरदः स विष्णुर्वाऽस्त्वन्यो वाऽस्तु तथाऽप्यहमीप्सितामपेक्षितां क्षितिं भूमिममुष्मै तस्मै दास्यामि ॥११॥
यद्यप्यसावधर्मेण मां बध्नीयादनागसम् ।
तथाप्येनं न हिंसिष्ये भीतं ब्रह्मतनुं रिपुम् ॥ १२ ॥
पदरत्नावली
ब्रह्मतनुं ब्राह्मणं वटुम् ॥ १२ ॥
सत्यधर्मीया
अनागसं मामसावधर्मेण यदि बध्नीयात्तथाऽप्येनं न हिंसिष्ये हनिष्यामि । तत्र निमित्तं भीतं ब्रह्मतनुं ब्रह्मणो ब्राह्मणस्य तनुः शरीरं यस्य तं रिपुमपीति ॥ १२ ॥
छलारी
ननु तवानिष्टकर्तृत्वादयं वध्य एव किं न स्यादिति चेत् । किमयं छद्मना राज्यमपहरेद्वा युद्धादिधर्मेण वा । तत्राद्यपक्षमाशङ्क्योत्तरमाह ॥ यद्यपीति ॥ अधर्मेण छद्मनाऽ-नागसं निरपराधिनं माम् । भीतमत एव ब्रह्मतनुं ब्राह्मणवेषधारिणं रिपुमनिष्टकारिणमप्येनं बटुं न हिंसिष्ये न हन्याम् ॥ १२ ॥
लिङ्घेरी
कर्मदेवो बलिर्बलिनामासुरावेशेनाह ॥ यद्यपीति ॥ यद्यप्यहं प्रतिज्ञातं दास्याम्येव । तथाप्यऽसौ वटुरनागसं निरपराधिनं मामधर्मेण बध्नीयादिति ज्ञायते तथाऽप्यहं मम भीतमत एव ब्राह्मणशरीरं रिपुं शत्रुमेनं न हिंसिष्ये न हनिष्यामि ॥ १२ ॥
एष वा उत्तमश्लोको न जिहासति यद् यशः ।
हत्वा मैनां हरेद् युद्धे शयीत निहतो मया ॥ १३ ॥
पदरत्नावली
जिहासति त्यक्तुमिच्छति । मा माम्, एनां गाम् ॥ १३ ॥
सत्यधर्मीया
यद् यद्येष उत्तमश्लोको यशो न जिहासति कीर्तिं त्यक्तुं नेच्छति । युद्धं कुर्यादिति यावत् । तर्हि मां हत्वैनां महीं हरेत् । मया निहतः शयीत वा । इदमेकं बन्धने बीजमिति ज्ञेयम् । एष उत्तमश्लोकः । एनां न जिहासति मां हत्वा न हरेत् । न युद्धे मया निहतः शयीत च । यद्यतस्ततो यश आगच्छन्न हिंसिष्ये न नाशयिष्यामीति बलेरान्तरङ्गिको भावः ॥ १३ ॥
छलारी
द्वितीयपक्षमाशङ्क्य परिहरति ॥ एष वा इति ॥ एष उत्तमश्लोको महाकीर्ति-र्हरिर्यदि यशो न जिहासतीत्युक्तं नेच्छति । युद्धं कृत्वैव राज्यमपहरिष्यामीत्येवं कीर्तिकामुक-श्चेदिति यावत् । तर्हि युद्धे मां हत्वेनां भूमिं हरेत् । मया निहतो वा भूमौ शयीत निद्रां प्राप्नुयात् । न चायं युद्धं कृत्वा राज्यमपहर्तुं समागतः किन्तु भीतः सन् छद्मनैव ब्राह्मणवेषं धृत्वा समागतोऽतः कथमयं वध्यः स्यादिति भावः ॥ १३ ॥
लिङ्घेरी
एष उत्तमश्लोको विष्णुरन्यो वाऽस्तु । तथाऽप्यसौ कपटित्वेन मां हत्वैनां भूमिं हरेत् । मया निहतो युद्धे शयीत वा अहमेतद्बटुपादत्रयपरिमितं तद्याचितं मया प्रतिज्ञातं च दास्यामि । तत्परित्यज्य तेन यदि सर्वभूम्यपहारोद्योगं क्रियेत तदाऽन्यतरमरणादि स्यात् । तथाऽपि यद्यशः कीर्तिरपेक्षिता सा मां न जिहासति त्यक्तुं नेच्छति । पक्षद्वयेऽपि मम कीर्तिः स्यादेवेति भावः ॥ १३ ॥
श्रीशुक उवाच–
एवमश्रद्धितं शिष्यमनादेशकरं गुरुः ।
शशाप दैवप्रहितः सत्यसन्धं मनस्विनम् ॥ १४ ॥
पदरत्नावली
अश्रद्धितम् अश्रद्धयोपेतम् । प्रहितः प्रेरितः । सत्यसन्धं सत्यप्रतिज्ञम्
॥ १४ ॥
सत्यधर्मीया
श्रद्धा सञ्जाताऽस्येति श्रद्धितः । स न भवतीत्यश्रद्धितस्तम् । अनादेश-करमस्वाज्ञाकारिणं शिष्यम् । दैवेन श्रीहरिणैव प्रहितो प्रेरितः मनस्विनं दातारं सत्यसन्धं गुरुः शशाप ॥ १४ ॥
छलारी
अश्रद्धितं स्वस्मिन्नश्रद्धयोपेतमनादेशकरं स्वाज्ञाऽकारिणं सत्यसन्धं सत्यप्रतिज्ञं मनःस्विनं शुद्धान्तःकरणं शिष्यं बलिम् । दैवेनादृष्टप्रेरकेण प्रहितः प्रेषितो गुरुः शुक्राचार्यः शशाप
॥ १४ ॥
लिङ्घेरी
गुरुः शुक्राचार्य एवमुक्तरीत्याऽनादेशकरं स्वाज्ञामकुर्वाणमत एव स्वस्मिन्नश्रद्धितं विश्वासरहितं शिष्यं बलिं दृष्ट्वा दैवेनादृष्टप्रेरकेश्वरेण प्रहितः प्रेरितः सन् सत्यप्रतिज्ञं प्रशस्त-मनस्कं बलिं शशाप ॥ १४ ॥
दृढं पण्डितमान्यज्ञः स्तब्धोऽस्यस्मदुपेक्षया ।
मच्छासनातिगो यस्त्वमचिराद् भ्रश्यसे श्रियः ॥ १५ ॥
सत्यधर्मीया
तं शापप्रकारमुपपादयति ॥ दृढमिति ॥ पण्डितमानी पण्डित इति मानो गर्वो यस्यास्तीति पण्डितमानी । सति पाण्डित्ये किं नाहन्ता कर्तव्येत्यतो न तथा भवा-नित्याह ॥ अज्ञ इति ॥ अस्मदुपेक्षयाऽस्माकमुपेक्षौदासीन्यं तया । स्तब्धः शठोऽसि । त्वद्वदने के गुरवः केषां केषामिति वचोऽनुसर्तव्यमित्यस्मदुपेक्षयेति स्ववचनप्राप्तामाशङ्कां नास्मदिति बह्वभिप्रायकमिति प्रत्याख्याति ॥ मच्छासनातिग इति ॥ तथा चास्मदोर्द्वयोश्चेति वा गुरावात्मनीति वाऽस्मदित्युक्तिर्न तु गुरुसङ्ख्यागौरवादिति विभावितं भवति । पण्डितमान्य इति जानातीति पण्डितमान्यज्ञो दृढं स्तब्धोऽज्ञोऽसीति वा । मम शासनं मम शिक्षामति-गच्छतीति स तथा । यः स त्वम् । अचिरात्क्षिप्रं श्रियः सम्पदो भ्रश्यसे भ्रष्टो भविष्यसि । इति शशापेत्यन्वयः ॥ १५ ॥
छलारी
पण्डितमान्यहं पण्डित इत्येवमहंकारवान् वस्तुतस्तु किमपि न जानातीत्यर्थः । अत एव स्तब्धोऽसि कस्याप्यनम्रोऽसि । अस्मदुपेक्षया अस्मान्न लक्षीकृत्वेति यावत् । मम शासनमाज्ञामतिगोऽतिक्रान्तवानसि । अतस्त्वमचिराच्छ्रियो राज्याद्भ्रश्यसे च्युतो भविष्यसि
॥ १५ ॥
लिङ्घेरी
हे अज्ञ स्वहितज्ञानरहित बले । त्वं दृढं पण्डितमानी अहमेव विवेकी-त्यहङ्कारवान् स्तब्धः शठश्चासि यत्तस्मादस्मदुपेक्षया मच्छासनातिगो मदाज्ञाऽतिक्रमी स त्वमचिराच्छीघ्रं श्रियः संपदो भ्रश्यसे भ्रष्टो भविष्यसि ॥ १५ ॥
एवं शप्तः स गुरुणा१ सत्यान्न चलितो महान् ।
वामनाय ददावेतामर्चित्वोदकपूर्वकम् ॥ १६ ॥
सत्यधर्मीया
स बलिर्गुरुणा शुक्रेणैवं शप्तः । स्वगुरुणेति न तरुणः पाठः । सन्नपि सत्यान्न चलितस्तन्न तत्याज । उदकपूर्वकमर्चित्वा वामनाय भगवते एतां महीं ददौ ॥ १६ ॥
छलारी
एवं गुरुणा शप्तोऽपि सत्यान्न चलितः सत्यं न त्यक्तवानित्यर्थः । अत एव महान्सज्जनः ॥ १६ ॥
लिङ्घेरी
सत्यवचनादिगुणैर्महान् बलिरेवमुक्तप्रकारेण स्वगुरुणा शुक्रेण शप्तोऽपि सत्याद् यथार्थवाक्यान्न चलितः । तदेव दर्शयति ॥ एवमिति ॥ वामनमर्चित्वा पूजयित्वा वामनायैतां भूमिमुदकपूर्वकं ददाविति ॥ १६ ॥
विन्ध्यावलिस्तदागत्य पत्नी जालकमालिनी ।
आनिन्ये कलशं हैममावनेजन्यपां१ भृतम् ॥ १७ ॥
पदरत्नावली
जालकैः कुड्मलैः कृता मालाऽस्या अस्तीति जालकमालिनी । ‘जालक-कोरककलिकाकुड्मलमुकुलानि तुल्यानि’ इति हलायुधः । अपामद्भिर् भृतं पूर्णम् । जलैरवने-जयन्ती प्रक्षालनमिच्छन्ती ॥ १७ ॥
सत्यधर्मीया
उदकपूर्वकं कथं ददावित्यतः सपरिकरं तदीरयति ॥ विन्ध्यावलि-रिति ॥ विन्ध्यावल्यभिधा बलिवधूः । अवनेजनस्येमा आवनेजन्यस्ताश्च ता आपश्चावनेजन्य-पास्तासाम् । समासान्तविधेरनित्यतया नाप्रत्ययः । तत्पादयुगमित्युत्तरत्रत्यमत्रान्वेतव्यम् । यत्पादयुगमवनेजनि अवनेजनं यावतीभिरद्भिर्भवेत्तावत्स्थानम् अपामद्भिर्भृतम् । हैमं हेमविकृतं गतं कलशमानिन्ये आनिनाय । जालकमालिनी । विनाभिधानं जालकं मुक्ताभरणविशेषस्तन्माला-वतीतीतरे । जालकैः कुड्मलैः कृता माला अस्या अस्तीति जालकमालिनी । ‘जालक-कोरककलिकाकुड्मलमुकुलानि तुल्यानि’ इति हलायुध इति पूर्वे । सोमाध्वरप्रयोगे । अत्र पत्नी-शिरसि कुम्बकुरीरमध्यहनमिति जालं कुम्बकुरीरमित्याचक्षते । तद्व्याख्याने रामाण्डारे कुम्बकुरीरं पत्न््नयां शिरस्यध्वर्युः क्षिपति । कुम्बकुरीरं जालं तन्तुमयं दर्भमयं वा जीवतो मेषस्योर्णानां कृष्णमिति विकल्पः । अत्रेति वचनादन्तर्वेद्यामानीय पत्नीजालाध्यहनमिति तथा सोमाध्वरप्रयोगे व्याख्यानान्तरे यजमानवत् पत्नी ब्रह्मचर्यम् । कृष्णं जीवोर्णानामिति वाजसनेयकम् । जीवतो मेषस्योर्णायाः कृष्णेन लोम्ना कृतेन जालेनेत्युक्तेर्जालस्य तन्तुमयस्य दर्भमयस्य जीवतो मेष-स्योर्णायाः कृष्णेन लोम्ना कृतस्य के शिरसि माला यस्य अस्तीति जालकमालिनीति वा । वसुदेवयज्ञप्रकरणे तन्महिष्यश्च मुदिता निष्ककण्ठ्यः सुवाससस्ताभिर्दुकूलवलयहारनूपुरकुण्डलैः स्वलङ्कृताभिर्विभवैर्दीक्षितो जनसंवृतो दीक्षाशालामुपाजग्मुरालिप्त्या इति भागवतोक्तेः सर्वं सम्भावितं मन्तव्यम् । हयमेधत्वात् ॥ १७ ॥
छलारी
उदकपूर्वकं ददावित्येतद्विशदयति ॥ विन्ध्यावलिरिति ॥ जालकं मुक्ताभरण-विशेषः । तत्कृतमालावती । यद्वा । जालकानि कुड्मलानि तैः कृतमालाऽस्या अस्तीति जालकमालिनी । ‘जालकं कोरककलिका कुड्मलानि’ इति हलायुधः । विंध्यावलिस्तन्नाम्नी पत्नी बलिभार्याऽवनेजनी पादप्रक्षालनमिच्छती । अपां भृतमुदकैः पूर्णं कलशमानिन्ये ॥ १७ ॥
लिङ्घेरी
जालकानां कुड्मलानां मालाऽस्यामस्तीति जालकमालिनी नाम्ना विंध्यावलिर्बलेः पत्नी तदाऽऽगत्य हैममावनेजन्यपां पादप्रक्षालनयोग्यजलैर्भृतं पूर्णं कलशमानिन्ये । जालककोरक कलिकाकुलानि तुल्यानीति हलायुधः ॥ १७ ॥
यजमानः स्वयं तस्य श्रीमत्पादयुगं मुदा ।
अवनिज्यावहन्मूर्ध्नि तदपो विश्वपावनीः ॥ १८ ॥
सत्यधर्मीया
यदा विन्ध्यावलिः कलशमानिन्ये स्वयं यजमानः श्रीमत्पादयुगम् अस्तं समस्तं वा । इदानीं चरणप्रसरणसमयत्वात्पदेत्यवदन्पादेति जगादेति तात्पर्यं ज्ञेयम् । अवनिज्य प्रक्षाल्य तदपो मूधर्ि्न मुदा यदाऽवहत् । उरु तन्माहात्म्यमाह ॥ विश्वपावनीरिति ॥ विश्वं जगत्पावयन्तीति तास्तथा ताः । विश्वपो विश्वेश्वरो हरः स चावनिर्भूमिराश्रयो यासां ता इति वा । सेशं पुनाति यच्छौचेत्यादेः ॥ १८ ॥
छलारी
यजमानः स्वयं बलिस्तस्य वामनस्य श्रीमत्कान्तिमत्पादयुग्ममवनिज्य प्रक्षाल्य विश्वं समस्तं पावयन्ति पवित्रयन्तीति विश्वपावनीस् तदपः प्रक्षालनोदकानि मूधर्ि्न स्वशिरस्यवह-द्धृतवान् ॥ १८ ॥
लिङ्घेरी
यजमानो बलिः स्वयं तदा तस्य वामनस्य श्रीमत्कान्त्यादिसम्पदुपेतं पादयुगं पादपद्मद्वयमवनिज्य प्रक्षाल्य विश्वपावनीः सर्वजगत्पावित्र्यकरास्तदपो मूध्नर्यवहद्भक्तिश्रद्धापूर्वकं दधार ॥ १८ ॥
तदाऽसुरेन्द्रं दिवि देवतागणा गन्धर्वविद्याधरसिद्धचारणाः ।
तत्कर्म सर्वेऽपि गृणन्त आर्जवं१ प्रसूनवर्षैर् ववृषुर्मुदाऽन्विताः ॥ १९ ॥
पदरत्नावली
आर्यं ज्ञानिनमसुरेन्द्रम् ॥ १९ ॥
सत्यधर्मीया
तदा दिवि देवतागणा गन्धर्वादय उपदेवाश्चेति सर्वे तत्कर्म आर्जवं च, रिपुमपि विदित्वा मेदिनीं ददाविति गृणन्तः स्तुवन्तो मुदान्विताः प्रसूनवर्षैर्ववृषुः । आर्यमिति पाठोऽप्यार्यसम्मतः । ज्ञानिनमित्यर्थः ॥ १९ ॥
छलारी
यदा दिवि देवतागणादयः सर्वेऽपि तस्य बलेः कर्म गृणन्तः स्तुवन्त आचार्यं ज्ञानिनमसुरेन्द्रं बलिं प्रसूनैर्ववृषुः ॥ १९ ॥
लिङ्घेरी
तदा दिव्यन्तरिक्षे वामनपूजादर्शनार्थं स्थिता देवतागणा गन्धर्वविद्याधरचारणाश्च सर्वे तत्पूजारूपं कर्म वीक्ष्य मुदान्विताः सन्तो विशेषाकारेणार्यं ज्ञानादिवृद्धं बलिं स्तुवन्तः सन्तः पुष्पवृष्टिभिः सेचितवन्तः ॥ १९ ॥
नेदुर्मुहुर्दुन्दुभयः सहस्रशो गन्धर्वकिम्पूरुषकिन्नरा जगुः ।
मनस्विनाऽनेन कृतं सुदुष्करं विद्वानदाद् यद् रिपवे जगत्त्रयम् ॥ २० ॥
पदरत्नावली
विद्वान् दानफलं शत्रुरिति वा, स्वजातिरिपवे वामनाय जगत्त्रयमदादिति यत् तस्मादनेन मनस्विना बलिना सुदुष्करं कृतमित्युक्त्वा जगुः ॥ २० ॥
सत्यधर्मीया
मनस्विना उशनसा शासन इयति कृतेऽप्यवक्रीभूतचेतसा । विद्वान् यद्यतो रिपवे जगत्त्रयम् । अदात्तत्सुदुष्करमनेन कृतमिति जगुः ॥ २० ॥
छलारी
यद्यस्माद्विद्वान् शत्रुरिति ज्ञानी रिपवे वामनाय जगत्त्रयमदात् । अतो मनस्विना धीरेणानेन सुदुष्करं कर्म कृतमिति गन्धर्वादयो जगुः ॥ २० ॥
लिङ्घेरी
तदा सहस्रसङ्ख्याका दुन्दुभयो भेर्यो मुहुर्महुर्नेदुर्ध्वनियुक्ता बभूवुः । गन्धर्वकिन्नर किंपूरुषा यस्मादयं बलिर्विद्वान् अयं दैत्यारिरिति स्वजातिरिपुत्वेन ज्ञानवानपि रिपवे वामनरूपाय जगत्त्रयमदात् तस्मादिदं मनस्विना बलिनैवं कृतमन्यैस्तु दुष्करमिति जगुर्गानं चक्रुः ॥ २० ॥
तद् वामनं रूपमवर्धताद्भुतं हरेरनन्तस्य गुणत्रयात्मकम् ।
भूः खं दिशो द्यौर्विवराः पयोधयस्तिर्यङ्नृदेवा ऋषयः सदासन् ॥ २१ ॥
पदरत्नावली
भूस्वादयो यस्मिन् रूपे आसन् सावकाशं स्थितास् तद्वामनमणुतरं रूपम-वर्द्धतेत्यन्वयः । गुणत्रयस्यात्मा कृतिर्येन तत् तथा तत् । ‘आत्मा जीवे कृतौ देहे स्वभावे परमात्मनि । यक्षेऽर्केऽग्नौ मतौ वातेऽप्याखुः सूकरमूषकौ ॥’ इति यादवः ॥ २१ ॥
सत्यधर्मीया
यद्यत्र रूपे भूः खं दिशो द्यौः, विवरा भूबिलानि, पयोधयः समुद्रास्तिर्यङ् पश्वाद्या नरो देवा ऋषय आसन् सावकाशं स्थिताः । तदनन्तस्यापरिच्छिन्नस्य हरेर् गुण-त्रयात्मकं गुणत्रयमात्मनि काये यस्य तत् । गुणत्रयात्मना कं सुखं तदुपलक्षितं योग्यं दुःखादिकं येन तदिति । गुणत्रयाणामात्मा स्वामी च तत्कं सुखात्मकमिति वा । वामनं खर्वं सदद्भुतं यथा यथा चावर्धत ॥ २१ ॥
छलारी
अनन्तस्यापरिच्छिन्नस्य हरेस्तद्वामनरूपमणुतमं रूपमद्भुतं यथा स्यात्तथाऽ-वर्धत । कथम्भूतमभिवृद्धं रूपम् । गुणत्रयं सत्त्वादिगुणत्रयमात्मनि यस्य तत् । अत एव भूमिः खमित्यादयो यद्यस्मिन्नासन् स्थितवन्तः । द्यौः स्वर्गो विवरा भूबिलानि पयोधयः समुद्रास्तिर्यञ्चः पश्वादयः ॥ २१ ॥
लिङ्घेरी
यद्यस्मिन् भूः, खमाकाशो, दिशो, द्यौः स्वर्गो, विवराः पातालादयः, पयोधयः समुद्रास्तिर्यङ् पश्वादयो, नृदेवा, नरा मनुष्या ऋषयश्चासन् सावकाशस्थितास्तद्गुणत्रयस्य सत्त्वा-देरात्मा धारणं भवत्यनेनेति गुणत्रयात्मकमद्भुतमाश्चर्यकरमनन्तस्य हरेर्वामनरूपमवर्धत । आत्मा जीवे धृतौ देहे स्वभावे परमात्मनीति यादवः ॥ २१ ॥
काये बलिस्तस्य महाविभूतेः सहर्त्विगाचार्यसदस्य एतत् ।
ददर्श विश्वं त्रिगुणं गुणात्मके भूतेन्द्रियार्थाशयजीवयुक्तम् ॥ २२ ॥
पदरत्नावली
अर्थाः शब्दादयः । आशयो मनो बुद्धिर्वा ॥ २२ ॥
सत्यधर्मीया
महाविभूतेर्विभूतिरैश्वर्यं विविधभवनं वा । महती सा यस्य स तथा । तस्य विष्णोः काये देहे । ऋत्विजश्चाचार्यः शुक्रश्च सदस्याः सभास्ताराश्च तैः सहितो बलिः । तच्छरीरमितरशरीरविलक्षणमित्याह ॥ गुणात्मके आनन्दज्ञानादिगुणरूप इति । भूतानि पञ्च इन्द्रियाणि दश वैकादश वा अर्थाः शब्दादयो आशयो बुद्धिर्मनो जीवाश्च तैर्युक्तम् । त्रिगुणं सत्त्वादिसहितं विश्वं ददर्शापश्यत् । सहर्त्विगाचार्यसदस्य इति सप्तम्यन्तं सत्कायविशेषणं वा
॥ २२ ॥
छलारी
सहर्त्विगाचार्यसदस्यो ऋत्विगादिसहितो बलिर्महती विभूतिर्वृद्धिर्यस्य तस्याभि-वृद्धस्य तस्य । गुणात्मके ज्ञानानन्दादिस्वरूपे देहे काये त्रयो गुणाः सत्त्वादयो यस्मिंस्तत् । त्रिगुणं भूतानि पृथिव्यादीनि इन्द्रियाणि चक्षुरादीन्यर्थाः शब्दादय आशयो मनो जीवश्चैतै-र्युक्तमेतद्विश्वं ददर्श ॥ २२ ॥
लिङ्घेरी
ऋत्विगाचार्यसभ्यसहितो बलिर्महाविभूतेरणिमादिपूर्णैश्वरस्य वामनस्य देहे गुणत्रयाधारभूते भूतैराकाशाद्यभिमानिभिश्चक्षुरादीन्द्रियाभिमानिभिः शब्दाद्यभिमानिभिराशयशब्दित-मनोभिमानिभिरपि जीवैर्गणेशादिभिर्युक्तं परंपरया गुणत्रयोपादानकं विश्वं समस्तं जगद्ददर्श ॥२२॥
रसामचष्टाङ्घ्रितलेऽथ पादयोर् महीं महीध्रान् पुरुषस्य जङ्घयोः ।
पतत्त्रिणो जानुनि विश्वमूर्तेरूर्वोर्गणं मरुतामिन्द्रसेनः ॥ २३ ॥
पदरत्नावली
महीध्रान् पर्वतान् । इन्द्रसेनो बलिः ॥ २३ ॥
सत्यधर्मीया
विश्वस्वामिनो देहे विश्वमचष्टेत्येतत्स्पष्टयति ॥ रसामिति ॥ पुरुषस्य विश्वमूर्तेरिति सर्वान्वयि । रसां तदुपलक्षितसप्ततलादीन् । पादयोर्महीं तदुत्पन्नां तदाश्रिताम् । जङ्घयोर्जान्वधोभागयोर्महीध्रान्पर्वतान् । जानुनि पतत्त्रिणः पक्षिणः । उर्वोर्मरुतां गणं समूहम् । इन्द्रसेन इति बलेरेव नामान्तरमिति सम्प्रदायविदः । पादतले पादयोरित्याद्येकवचनद्विवचन-शाबल्येनावयवानां परस्परं न भेदः, व्यवहारमात्रं विशेषकृतमिति विशेषं सूचयामासेति ज्ञेयम् । तत्रापि प्रथमं पादतल इत्येकवचनेन विनिगमकं चोक्तमिति सन्तोष्टव्यम् ॥ २३ ॥
छलारी
तदेव प्रपञ्चयति ॥ रसामित्यादिभिः ॥ विश्वमूर्तेर्व्याप्तदेहस्याङ्घ्रितले पादाधोभागे रसां रसातलादिसप्तबिलान्यचष्टापश्यत् । पादयोः पादोर्ध्वभागे महीं भूमिम् । जङ्घयोरधोभागे महीध्रान्पर्वतान् जानुनि पतत्त्रिणः पक्षिण ऊर्वोर् मरुतां गणं वायुसङ्घमिन्द्रस्य सेनेव सेना यस्य सः । बलिरिन्द्रपदे स्थितत्वात् ॥ २३ ॥
लिङ्घेरी
अथेन्द्रसेनो बलिर्वामनस्याङ्घ्रितले रसां रसातलादि, पादयोर्महीं भूमिं, पुरुषस्य जंघयोर्महीध्रान्पर्वतान्, जानुनि पतत्त्रिणः पक्षिणो, विश्वमूर्तेर्जगद्व्याप्तशरीरस्य वामनस्योर्वोर् मरुतां गणमचष्ट ददर्श ॥ २३ ॥
सन्ध्यां विभोर्वाससि गुह्य ऐक्षत् प्रजापतीन् जघने स्वात्ममुख्यान्१ ।
नाभ्यां नभः कुक्षिषु सप्तसिन्धूनुरुक्रमस्योरसि ऋक्षमालाम् ॥ २४ ॥
पदरत्नावली
स्वात्ममुख्यं भृत्येषु मुख्यम् । ऋक्षमालां नक्षत्रपङ्क्तिम् ॥ २४ ॥
सत्यधर्मीया
वाससि पीते सन्ध्यां देवीम् । गुह्ये मेढ्रे प्रजापतीन् दक्षादीन् । जघने स्वात्ममुख्यमिति वा स्वात्ममुख्यानिति पाठौ सख्यं भेजाते । स्वात्मा बलिर्मुख्यो येषां तान् । स्वभृत्यसङ्घानित्यर्थः । स्वात्ममुख्यमिति पाठे दाससङ्घमित्यर्थः । नाभ्यां नभोऽन्तरिक्षम् । कुक्षिषु, अदितिः पाशानितिवत्प्रदेशबाहुल्याद्बहुवचनम् । उदरे सप्तसिन्धून् समुद्रान् । उरुक्रम-स्येति सर्वत्रान्वेति । उरसि ऋक्षमालां नक्षत्रपंक्तिम् । ऐक्षदैक्षत ॥ २४ ॥
छलारी
वाससि पीताम्बरे संध्यां गुह्ये शिश्ने प्रजापतीन् दक्षादीन् जघने कट्यां स्वात्मा स्वयं बलिर्मुख्यो येषां तान् जनान् नाभ्यां नभोऽन्तरिक्षं कुक्षिषूदरप्रदेशेषु सप्तसिंधून् उरुक्रमस्य हरेरुरसि वक्षसि ऋक्षमालां नक्षत्रपङ्क्तिमैक्षत् ॥ २४ ॥
लिङ्घेरी
विभोर्व्याप्तस्य वामनस्य वाससि वस्त्रे संध्यां तदभिमानिनीं सावित्र्यादिनामिकां, गुह्ये लिङ्गे प्रजापतीन्, जघने कट्यां स्वात्ममुख्यं स्वप्रभृतिजीवजातं, नाभ्यां नभोऽन्तरिक्षं, कुक्षिषु सप्तसमुद्रान् उरुक्रमस्य त्रिविक्रमस्योरसि ऋक्षमालां नक्षत्रपंक्तिमिन्द्रसेन ऐक्षत् ॥ २४ ॥
हृद्यङ्ग धर्मं स्तनयोर्मुरारेर्ऋतं च सत्यं च मनस्यथेन्दुम् ।
श्रियं च वक्षस्यरविन्दहस्तां कण्ठे च सामानि समस्तरेफान् ॥ २५ ॥
पदरत्नावली
समस्तरेफान् सर्वशब्दान् ॥ २५ ॥
सत्यधर्मीया
अङ्ग हे राजन् । मुरारेर्हृदि धर्मम् । स्तनयोर्ऋतं यथार्थज्ञानं सत्यं यथार्थभाषणम् । मनसीन्दुम् । अरविन्दहस्तां श्रियम् उरसि वक्षसि । कण्ठे सामानि रथन्तरादीनि । समस्तरेफान् समस्तशब्दान् । ‘रेफो रवर्णे शब्दे च कुत्सिते वाच्यवत्पुन’ इति धनञ्जयः ॥२५॥
छलारी
हे अङ्ग राजन् हृदि धर्मं स्तनयोर्ऋतं यथार्थज्ञानं सत्यं यथार्थभाषणं च । मनसीन्द्रं चन्द्रं च । वक्षस्यरविन्दहस्तां श्रियम् । कण्ठे सामानि रथन्तरादिसामानि । समस्तान् रेफादीन् शब्दान् ॥ २५ ॥
लिङ्घेरी
हे अङ्ग प्रियपरीक्षित् । इन्द्रसेनो मुरारेर्वामनस्य हृदि धर्मं तदभिमानिनं स्तनयोर्ऋतसत्याभिमानिनौ, मनसि इन्दुं चन्द्रं, वक्षसि कमलहस्तां श्रियं देवीं, कण्ठे सामानि समस्तरेफांश्चैक्षत् ॥ २५ ॥
इन्द्रप्रधानानमरान् भुजेषु तत्कर्णयोः ककुभो द्यौश्च मूर्धनि१ ।
केशेषु मेघान् श्वसनं नासिकायामक्ष्णोश्च सूर्यं वदने च वह्निम् ॥ २६ ॥
सत्यधर्मीया
इन्द्र एव प्रधानो येषां ते तानमरान् भुजेषु । तदित्यव्ययम् । तस्य कर्णयोः ककुभो दिशो, द्यौर् द्यां शिरसि, श्वसनं वायुं नासिकायां, अक्ष्णोश् चक्षुषोः सूर्यं, वदने वह्निमचक्षत ॥ २६ ॥
छलारी
ककुभो दिशो द्यौः श्वसनं प्राणवायुम् ॥ २६ ॥
लिङ्घेरी
तथा वामनस्य भुजेषु इन्द्रमुख्यान्देवान्, तत्कर्णयोः ककुभो दिशस्तदभिमानि-नश्चन्द्रमादीन् मूधर्ि्न शिरसि द्यामन्तरिक्षोपरितनदेशं, केशेषु मेघान् नासिकायां श्वसनं नासिक्य-वायुमक्ष्णोर्नेत्रयोः सूर्यं, वदने मुखे वह्निमग्निम् ॥ २६ ॥
वाण्यां च छन्दांसि रसे जलेशं भ्रुवोर्निषेधं च विधिं च पक्ष्मसु ।
अहश्च रात्रिं च परस्य पुंसो मन्युं ललाटेऽधर एव लोभम् ॥ २७ ॥
पदरत्नावली
रसे रसनायाम् । मन्युं क्रोधाभिमानिनं देवम् ॥ २७ ॥
सत्यधर्मीया
वाण्यां छन्दांसि वेदान्वा गायत्र्यादीनि । रसे रसनायां जलेशं वरुणं, भ्रुवोर्निषेधमधर्मप्रतिषेधं, विधिं सत्कर्मणः । परस्य पुंसः पक्ष्मसु नेत्रलोमसु अहश्च रात्रिं च, ललाटे मन्युं कोपाभिमानिनं देवम् । अधरे ओष्ठे लोभं तदभिमानिनम् ॥ २७ ॥
छलारी
वाण्यां वागिन्द्रिये छन्दांसि वेदान् । रसे रसनेन्द्रिये जलेशं वरुणं भ्रुवोर् निषेधमधर्मनिषेधम् । विधि धर्मविधिं च । पक्ष्मसु निमिषेष्वहश्च रात्रिं च । ललाटे मन्युं क्रोधाभिमानिनं देवम् । ओष्ठे लोभम् ॥ २७ ॥
लिङ्घेरी
तथा परस्य पुंस पुरुषोत्तमस्य वामनस्य वाण्यां छन्दांसि वेदान्, रसे जिह्वायां जलेशं वरुणं, भ्रुवोर्निषेधं विधिं च, पक्ष्मसु नेत्राच्छादकरोमसु अहश्च रात्रिं च, ललाटे मन्युं क्रोधाभिमानिनमधरोष्ठे लोभाभिमानिनं चैक्षत् ॥ २७ ॥
स्पर्शे च कामं नृप रेतस्यमम्भः पृष्ठे त्वधर्मं क्रमणेषु यज्ञम् ।
छायासु मृत्युं हसिते च मायां तनूरुहेष्वौषधिजातयश्च ॥ २८ ॥
पदरत्नावली
रेतस्यं रेतस उद्भूतम् ॥ २८ ॥
सत्यधर्मीया
स्पर्शे त्वचि कामम् । अम्भः, रेतस्यं रेतोभवम् । पृष्ठे अधर्मं तद्देवम् । क्रमणेषु पादन्यासेषु यज्ञं साक्षात्तमेव । छायासु सृष्टासु मृत्युं, हसिते हासे मायां मोहकशक्तिम् । तनूरुहेषु लोमसु या ओषधिजातयस्ता जातीर्वा ॥ २८ ॥
छलारी
स्पर्शे श्वसनेन्द्रिये कामम् । रेतस्यमम्भो जलम् । पृष्ठेऽधर्मं क्रमणेषु पादन्यासेषु यज्ञं हसिते हास्ये मायां जनमोहकशक्तिविशेषम् । तनुरुहेष्वौषधिजातयो वृक्षजातीः ॥ २८ ॥
लिङ्घेरी
हे नृप । वामनस्य स्पर्शे त्वगिन्द्रिये तद्गुणे च कामं, रेतस्यमम्भो जलं, पृष्ठभागेऽधर्मं निर्ऋतिं च तदभिमानिनम् । क्रमणेषु पादविक्षेपेषु यज्ञं तदभिमानिनमिन्द्रं छायासु मृत्युं देवतां, हसिते हासे मायां जगन्मोहिकां, तनूरुहेषु रोमस्वौषधीनां व्रीहियवादीनां जातयो जातीश्च बलिरैक्षत् ॥ २८ ॥
नदीश्च नाडीषु शिला नखेषु बुद्धावजं देवगणानृषींश्च ।
प्राणेषु गात्रे स्थिरजङ्गमानि क्षणार्धमात्रेण विवृद्धमूर्तेः ॥ २९ ॥
सत्यधर्मीया
नाडीषु सुषुम्नादिषु नदीः । नखेषु शिलाः । बुद्धावजं ब्रह्माणम् । देव-गणानृषींश्च प्राणेषु । क्षणार्धमात्रेण विवृद्धमूर्तेर् गात्र उर्वरित एवं देहे वा स्थिरजङ्गमानि । ऐक्षत्
॥ २९ ॥
छलारी
बुद्धावजं चतुर्मुखं प्राणेष्विन्द्रियेषु देवादीन् । क्षणार्धमात्रेण विवृद्धमूर्ते-रभिवृद्धदेहस्य हरेर्गात्रे सर्वदेहे स्थिरजङ्गमानि चराचरात्मकानि जगन्ति । आचष्टेति पूर्वे-णान्वयः । सर्वाणि भूतानि ददर्श । वीरानिति क्वचित्पाठः । तत्र स्थिरजंगमात्मकसर्वाणि भूतानि ददर्शेत्यर्थः ॥ २९ ॥
लिङ्घेरी
तथा तस्य क्षणार्धमात्रेणात्यभिवृद्धशरीरस्य त्रिविक्रमस्य नाडीषु नदी भागीरथ्याद्याः, नखेषु शिलाः, बुद्धावजं ब्रह्माणं प्राणेषु श्वासादिषु देवगणान् प्राणादिदेवसमूहान् ऋषींश्चैवं गात्रे शरीरे स्थावरजंगमानि ददर्श ॥ २९ ॥
सर्वात्मनीदं भुवनं निरीक्ष्य सर्वेऽसुराः कश्मलमापुरङ्ग ।
सुदर्शनं चक्रमसह्यतेजो धनुश्च शार्ङ्गं स्तनयित्नुघोषम् ॥ ३० ॥
सत्यधर्मीया
असह्यं तेजो यस्य तच्चक्रम् । असुराणां, सुराणां तु सुदर्शनं मङ्गलकरं दर्शनं यस्य तत् । अतो नातिरेकोऽन्यतरशब्दस्येति ज्ञेयम् । एवमुत्तरत्रापि । स्तनयित्नवो मेघास्तद्वद्घोषष्टङ्करणं यस्य तत् ॥ ३० ॥
छलारी
हे अङ्ग राजन् । सर्वेऽसुराः सर्वात्मनि सर्वत्र व्याप्ते हराविदं भुवनं वीक्ष्य कश्मलं क्लेशमापुः प्रापुः । असह्यतेजो वीर्यं यस्य तत्सुदर्शनं तन्नामकं चक्रं स्तनयित्नुवद्धोषो ज्याध्वनिर्यस्मिंस्तत् । शार्ङ्गनामकं धनुश्च ॥ ३० ॥
लिङ्घेरी
हे अङ्ग सर्वेऽसुरा बलिव्यतिरिक्ताः सर्वात्मनि सर्वजगद्व्याप्तदेहे वामने इदं भुवनं दृष्ट्वा कश्मलं मूर्च्छामापुः । असह्यतेजः सुदर्शनाख्यं चक्रं, स्तनयित्नोर्गर्जन्मेघस्य घोष इव घोषो ध्वनिर्यस्य तच्छार्ङ्गाख्यं धनुश्च ॥ ३० ॥
पर्जन्यघोषो जलजः पाञ्चजन्यः कौमोदकी विष्णुगदा तरस्विनी ।
वैद्याधरोऽसिः शतचन्द्रयुक्तस्तूणोत्तमावक्षयसायकौ च ॥ ३१ ॥
पदरत्नावली
वैद्याधरो विद्याधरसम्बन्धी ॥ ३१ ॥
सत्यधर्मीया
पाञ्चजन्यः । गतम् । तरस्विनी विष्णुगदा । विष्णुना स्वद्वारेण गदा आमया वैरिणां यया सा कौमोदकी नाम्ना । वैद्याधरोऽसिः । नन्दकस्यैव नामान्तरो विद्या-धराधिष्ठित इति वा । शतचन्द्रयुक्तः शतचन्द्रं च चर्म तद्युक्तः । स्वोपरि चन्द्राकार-शतरेखाखचित इति वा । अक्षयाः सायका ययौस्तौ तूणोत्तमौ इषुध्यधिकौ ॥ ३१ ॥
छलारी
पर्जन्यवन्मेघवद्धोषो यस्य सः । पाञ्चजन्यनामा जलजः शङ्खश्च तरस्विनी कौमोदकीसंज्ञा विष्णुगदा च शतचन्द्रैः शतचन्द्राकारै रेखाविशेषैर्युक्तो विद्याधरसंज्ञोऽसिः खड्ग-श्चाक्षयाः सायका बाणा ययोस्तौ तूणोत्तमौ श्रेष्ठौ च ॥ ३१ ॥
लिङ्घेरी
पर्जन्यस्य गर्जनवन्मेघस्य घोष इव घोषो यस्य स पाञ्चजन्याख्यो जलजः शङ्खस्तरस्विनी वेगवती कौमोदकीनाम्नी विष्णुगदा शतचन्द्राख्यचर्मणा युक्तो विद्याधरेषु-सम्बन्ध्यसिर्नन्दकाख्योऽक्षयबाणवन्तौ स्तूणोत्तमौ चेषुधी चेत्येते । तदा दृश्यन्तेति शेषः ॥३१॥
सुनन्दनन्दा उपतस्थुरीशं पार्षादमुख्याः१ सहलोकपालाः ।
स्फुरत्किरीटाङ्गदमीनकुण्डलश्रीवत्सरत्नोत्तममेखलाम्बरैः ।
मधुव्रतस्रग्वनमालया वृतो रराज राजन् भगवानुरुक्रमः ॥ ३२ ॥
सत्यधर्मीया
पार्षदा एव पार्षादा अधिमाषमित्यादेस्तेषु मुख्या जयादयः सहलोक-पालास्तत्सहिताः । सुनन्दनन्दौ च प्रतीहारौ । ईशमुपतस्थुरसेवन्त । मधुव्रतानां स्रक् माला आवलिरिति यावत् । तया युता वनमाला तया आवृत उरुक्रमो भगवान् रराज ॥ ३२ ॥
छलारी
पार्षदेषु मुख्याः सुनन्दमुख्याः । मुख्यशब्देन जयविजयादयो ग्राह्याः । लोक-पालैश्चन्द्रादिलोकपालैः सहेशमभिवृद्धं हरिमुपतस्थुरसेवन्त । स्फुरन्ति प्रकाशमानानि किरीटादीनि यस्य सः । मीनकुण्डले मकरकुण्डले श्रीवत्सरत्नेनोत्तममेखलया चोत्तमाकांच्या चाम्बरेण पीताम्बरेण चेत्येते मधुव्रतानां भ्रमराणां स्रजो माला यस्यां तया वनमालया च वृत उरुरुत्कृष्टः क्रमः पादविक्षेपो यस्य सः भगवान् रराज ॥ ३२ ॥
लिङ्घेरी
इन्द्रादिलोकपालसहिताः समीपवर्तिषु प्रधानाः सुनन्दादय ईशं सर्वस्वामिनं वामनमुपतस्थुः सेवितवन्तः । हे राजन् । तदा भगवान् ऊरुक्रमस्त्रिविक्रमः प्रकाशमानशिरो-बाहुभूषणमकरकुण्डल श्रीवत्सश्रेष्ठमणिखचितकाञ्चीपीताम्बरैः पुष्परसलोलुपभ्रमरवद्वैजयन्तिमालया वृतः सन् रराज । सर्वदा कान्तियुक्तोऽपि लौकिकानां तदाऽतिप्रकाशयुक्तवददृश्यत ॥ ३२ ॥
क्षितिं पदैकेन बलेर्विचक्रमे नभः शरीरेण दिशश्च बाहुभिः ।
पदं द्वितीयं क्रमतस्त्रिविष्टपं न वै तृतीयस्य तदीयमण्वपि ।
उरुक्रमस्याङ्घ्रिरुपर्यथो१ दिवो महर्जनाभ्यां२ तपसः परं गतः ॥ ३३ ॥
॥ इति श्रीमद्भागवतेऽष्टमस्कन्धे एकोनविंशोऽध्यायः ॥
पदरत्नावली
कियत्पर्यन्तमवर्धतेति तत्राह– क्षितिमिति ॥ ३३ ॥
॥ इति श्रीमद्भागवतटीकायां विजयध्वजतीर्थभिक्षुकृतायाम्
अष्टमस्कन्धे एकोनविंशोऽध्यायः ॥
सत्यधर्मीया
एकेन पदा बलेः क्षितिं विचक्रमे । शरीरेण नभो बाहुभिर्दिशश्च विचक्रमे । त्रिविष्टपं प्रति द्वितीयं पदं क्रमतः क्षिपतस्त्रिविक्रमस्य तृतीयस्य सङ्कल्पिततृतीयस्य पदस्य तदीयं बलिसम्बन्धि अण्वल्पमपि पदं स्थानं न नावर्तत । वै प्रसिद्धम् । तृतीयं पदं क्रमतस्त्रि-विष्टपम् अणु स्वल्पं जातम् । एतदधीनलोकगमनादपूर्णमभूदतस्तृतीयस्य तदीयमण्वपि किञ्चिदपि नाभूदिति वा । तर्हि स द्वितीयः कियत्पर्यन्तमङ्घ्रिर्गत इत्यत आह ॥ उरुक्रमस्येति ॥ दिवः स्वर्गादुपरि । अथो महर्जनाभ्यां तथा तपसस्तपोलोकादपि परं सत्यलोकं गतः । महर्जनोभ्यामिति पाठोऽपि पाङ्क्तः ॥ ३३ ॥
॥ इति श्रीसत्यधर्मयतिकृतायां भागवतटिप्पण्याम्
अष्टमस्कन्धे एकोनविंशोऽध्यायः ॥ ८-१९ ॥
छलारी
उरुक्रमत्वमेवाह ॥ क्षितिमिति ॥ एकेन पदा बलेः क्षितिं विचक्रमे आक्रान्तवान् । नभोऽन्तरिक्षं शरीरेण मध्यदेहेन बाहुभिर्दिशश्च । द्वितीयं पादं क्रमतो विक्षिपतो हरेस्त्रिविष्टपं स्वर्गं तदीयं बलिसम्बन्धि किञ्चिन्मात्रं जातम् । तृतीयाय तृतीयपादविक्षेपाय तु तदीयमण्वपि किञ्चिदपि स्थलं नाभूत् । कुत इति चेन्न । द्वितीयपादस्य स्वर्गापेक्षयोपरिगत-त्वात् । कियत्पर्यन्तमुपरि गतमित्यत आह ॥ उरुक्रमस्येति ॥ उरुक्रमस्य हरेरङ्घ्रिर्द्वितीयपादः स्वर्गादुपरि गच्छन् महर्जनाभ्यां महर्लोकजनोलोकाभ्यां तपोलोकाच्च परं सत्यलोकं गतः ॥३३॥
॥ इति श्रीछलारी शेषाचार्यकृतायां श्रीभागवतटिप्पण्याम्
अष्टमस्कन्धे एकोनविंशोऽध्यायः ॥ ८-१९ ॥
लिङ्घेरी
स उरुक्रमो बलेर्भूमिमेकेन पादेनाक्रान्तवान् । नभोऽन्तरिक्षं शरीरेण दिशो बाहुभिश्चाक्रान्तवान् । द्वितीयपदं निधाय त्रिविष्टपं स्वर्गमाक्रमतो वामनस्य तृतीयस्य पदस्य दातुं तदीयं बलिसंबंध्यणुमात्रमपि नैवाभूत् । एवमुरुक्रमस्याङ्घ्रिः पादो दिवः स्वर्गस्योपर्यधश्च व्याप्तः सन् महर्जनाभ्यां लोकाभ्यां तपोलोकाच्च परमुपरिदेशं गतः ॥ ३३ ॥
**॥ इति श्रीलिङ्घेरी श्रीनिवासाचार्यकृतायां श्रीभागवतटिप्पण्यां **
अष्टमस्कन्धे एकोनविंशोऽध्यायः ॥ ८-१९ ॥