इति वैरोचनेर्वाक्यं धर्मयुक्तं सुसूनृतम्
॥ अथ अष्टादशोऽध्यायः ॥
श्रीशुक उवाच–
इति वैरोचनेर्वाक्यं धर्मयुक्तं सुसूनृतम् ।
निशम्य भगवान् प्रीतः प्रतिनन्द्येदमब्रवीत् ॥ १ ॥
पदरत्नावली
अनेनाध्यायद्वयेन बलेर्भक्तिविशेषं दर्शयति– इतीति ॥ इतिशब्देन हरेर्माहात्म्यसूचकं वाक्यमुक्तमिति सूचयति ॥ १ ॥
सत्यधर्मीया
अध्यायद्वयेन बलिभक्तिं दिदर्शयिषुरादौ प्रतिगृह्णानेन धाटीयमाटीकनीयेति लोकाननुकुर्वंल्लोकेश इदमतनोदित्याह ॥ इतीति ॥ प्रतिनन्द्य महावंश्यस्येदं युक्तमित्यभिनन्दनं कृत्वा ॥ १ ॥
छलारी
वैरोचनेर्बलेः सूनृतेन कुशलप्रश्नेन सहितं प्रतिनन्द्यानुमोद्य ॥ १ ॥
लिङ्घेरी
अत्रापि हरौ भक्त्यभिवृद्धये भगवतो वराहस्य भुव उद्धारेण सर्वप्रजा-पालनादिमाहात्म्यं निरूप्यते । तत्रादौ बलिस्तुस्त्या प्रसन्नवामनवाग्मितोच्यते ॥ इति वैरोचनेरिति ॥ भगवान्वामन इत्युक्तप्रकारं धर्मयुक्तं सुसूनृतमतियथार्थतया श्रोतृमनःप्रीतिजनकं विरोचनपुत्रबलेर्वचनं श्रुत्वा सन्तुष्टः सन् बलिं सन्तोषयित्वा वक्ष्यमाणप्रकारं वाक्यमाह ॥ १ ॥
श्रीभगवानुवाच–
वचस्तवैतज्जनदेव सूनृतं कुलोचितं धर्मयुतं यशस्करम् ।
यस्य प्रमाणं भृगवः साम्पराये पितामहः कुलवृद्धः प्रशान्तः ॥ २ ॥
पदरत्नावली
जनदेव नृप । साम्पराये पितामहः प्रमाणम् ॥ २ ॥
सत्यधर्मीया
जनदेव नृप । यस्य सांपराये मोक्षसाधनधर्मविषये । भृगवो गुरवः । कुलवृद्धः पितामहः प्रह्लादश्च प्रमाणं तद्रूपा बोधका इत्यर्थः । तस्य तवैतद्वचो धर्मयुतं यशस्करं कुलोचितम् ॥ २ ॥
छलारी
दातुः स्तुतिः कर्तव्या । प्रस्तावोचितं वक्तव्यमिति भिक्षुकान् शिक्षयं-स्तत्प्रकारमाह वामनः ॥ वचस्तवैतदिति षोडशभिः श्लोकैः । हे जनदेव राजन् । यस्य तव सांपराये पारलौकिकधर्मविषये भृगवः शुक्रादयः कुरुवृद्धः प्रशान्तः सात्विकस्वभावः पितामहः प्रल्हादश्चैते प्रमाणं बोधकाः । तस्य तवैतत्सूनृतादिरूपं वच उचितमेव ॥ २ ॥
लिङ्घेरी
हे जनदेव राजन् बले । तवैतद्वचः सूनृतं त्वत्कुलोचितं पुण्ययुक्तं कीर्तिकरं च । यस्य तव सांपराये मोक्षादिश्रेयसाम् ? भृगवः प्रमाणम् । तथा त्वत्कुलवृद्धः प्रशान्तो हरिनिष्ठस्तव पितामहः प्रल्हादश्च प्रमाणं ज्ञापकः । नरहरिचरणारविन्दभक्तिमत्प्रल्हादपौत्रत्वात् शुक्रादिशिष्यत्वाच्च तव मोक्षादिसर्वपुरुषार्थो निश्चित इति भावः ॥ २ ॥
न ह्येतस्मिन् कुले कश्चिन्निस्सत्वः कृपणः पुमान् ।
प्रत्याख्याता प्रतिश्रुत्य यो वाऽदाता द्विजातये ॥ ३ ॥
पदरत्नावली
सर्वे स्तुतिप्रसन्ना एवाभीष्टं कुर्वन्तीत्यतस्तत्सिद्धिप्रकारं वचनं वक्ति– न हीति ॥ यः पुमानिति प्रत्येकमभिसम्बध्यते । प्रत्याख्याता नास्तीति वक्ता । अदाता ॥३॥
सत्यधर्मीया
तं भाविकार्यानुगुण्या प्रोत्साहयति ॥ न हीति ॥ ‘सत्त्वोऽस्त्री जन्तुषु क्लीबे व्यवसाये पराक्रमे । आत्मभावे पिशाचे च रदे द्रव्यस्वभावयोः ॥’ इति यादवः । निः-सत्त्वो बलहीनः । कृपणो दीनः । प्रतिश्रुत्य ददानीत्युक्त्वा प्रत्याख्याता निषेद्धा । तथाऽदाता वा न नास्तीत्यर्थः ॥ ३ ॥
छलारी
एतस्मिन्कुले भवत्कुले कश्चित्पुमान्निःसत्त्वः कृपणश्च नास्ति हि । निःसत्त्वस्य लक्षणं किम् । यो द्विजातये याचकाय प्रत्याख्याता न ददामीति वक्तव्यः स निःसत्त्वः । कृपणस्य लक्षणं तु प्रथमं दास्यामीति प्रतिश्रुत्य प्रतिज्ञाय यो द्विजातयेऽदाता सः कृपणः ॥३॥
लिङ्घेरी
हे बले । तवैतस्मिन्कुले कोऽपि पुरुषो निःसत्त्वो दुर्बलः कृपणो दातव्य-लोभवान्दैन्योपेतश्च । तथा द्विजातये ब्राह्मणायाहं ददामीति प्रतिज्ञायादाता दानमकुर्वन्न दास्यामिति प्रतिवक्ता च न हि ॥ ३ ॥
न सन्ति तीर्थे युधि वाऽर्थिनाऽर्थिताः पराङ्मुखा ये त्वमनस्विनो नृप ।
युष्मत्कुले यद् यशसाऽमलेन प्रह्लाद उद्भाति यथोडुपः खे ॥ ४ ॥
पदरत्नावली
तीर्थे पात्रे । अर्थिना धनं युद्धं चार्थयमानेन । पराङ्मुखा अमनस्विन इत्येतद्विशेषणद्वयं यथायोग्यं सम्बन्धितव्यम् । अमनस्विनो हीनमनस्काः । यद्यस्मात् । उद्भाति उत्कृष्टतया द्योतते । उडुपश्चन्द्रः ॥ ४ ॥
सत्यधर्मीया
तीर्थेऽध्वरे तत्समये । युधि तद्विषये । तीर्थं शास्त्राध्वरोपायेति विश्वः । अर्थिना धनायोधनापेक्षावता । अर्थिता अमनस्विनः पराङ्मुखाश्च युष्मत्कुले न सन्ति । पूर्वे भवन्तु भवतोक्ता भगवंस्तथेदानीं न दानवान्ववाये तादृशः कोऽप्यस्तीत्यत आह ॥ यद्य-स्मादिति ॥ यथा खे आकाशे उडुपश्चन्द्र उद्भाति तथाऽमलेन यशसा प्रह्लादस्ते पितामह उद्भाति प्रकाशते ॥ ४ ॥
छलारी
दानावसरेऽर्थिना द्रव्यार्थिनाऽर्थिता याचिता नृपा ये तु । यच्छब्दः किंशब्दार्थे केऽपीत्यर्थः । अमनस्विनो हर्यमनस्का न सन्ति । तथा युधि युद्धसमयेऽर्थिना युद्धार्थिना नृपाः केऽपि पराङ्मुखा न सन्ति । यद्यस्मिन्युष्मत्कुलेऽमलेन शुद्धेन यशसा प्रल्हादस्ते पितामह उदुत्कर्षेण भाति भासते । खे आकाशे उडुपो चन्द्रो यथा इव ॥ ४ ॥
लिङ्घेरी
हे नृप बले । युष्मद्वंशे तीर्थे शुद्धिकरे भागीरथ्यादिक्षेत्रे श्रीरङ्गादौ च दानार्थिना प्रतिग्राहिणाऽर्थिता याचिताः सन्तो दाने विमनस्का अत एवार्थिनां पराङ्मुखा विमुखाश्च न सन्ति । तथा युद्धेऽपेक्षावता युद्धमर्थिताः सन्तो विमनस्का विमुखाश्च न सन्ति । यस्मा-न्निर्दुष्टकीर्त्या प्रतापवान्पितामहः प्रल्हादः खे आकाशे उडुपश्चन्द इवोद्भाति विराजते ॥ ४ ॥
यतो जातो हिरण्याक्षश्चरन्नेक इमां महीम् ।
प्रतिवीरं दिग्विजये नाविन्दत गदायुधः ॥ ५ ॥
सत्यधर्मीया
यतो यत्र कुले एको निःसहायः । प्रतिवीरं द्वन्द्वसमासज्जमानं प्रतिभटम् । दिग्विजये तत्काले । नाविन्दत न लब्धः ॥ ५ ॥
छलारी
इदानीं बलिप्रपितामहौ हिरण्याक्षहिरण्यकशिपौ स्तौति ॥ यत इत्यादिना ॥ यतो यस्मिनकाले जात एकोऽसहाय एव दिग्विजयविषये प्रतिवीरं प्रतिपक्षिणं नाविन्दत न लब्धवान् ॥ ५ ॥
लिङ्घेरी
यस्मिंस्तव कुले जातो हिरण्याक्ष इमां भूमिमेक एव गदायुधश्चरन्सन् दिग्विजयकाले प्रतियोद्धारं नालभत ॥ ५ ॥
यं विनिर्जित्य कृच्छ्रेण विष्णुः क्ष्मोद्धार आगते ।
नात्मानं जयिनं मेने तद्वीर्यं भूर्यनुस्मरन् ॥ ६ ॥
पदरत्नावली
कृच्छ्रेणेति मोहवचनम् । कृतः कृतिनस्तान् श्रयतीति कृछ्रस् तेन पराक्रमेणेत्यर्थ इति वा । क्ष्माया भूमेर् उद्धारे उद्धरणकाले कृच्छ्रेणागते प्राप्ते सति भूरि तस्य वीर्यं पराक्रममनुस्मरन्नपि आत्मानं जयिनं तदानीमेवात्मजयं न मेने किन्तु नित्यजयिनं मेन इत्यर्थः । यद्वा क्ष्माया उद्धारो येन स तथा स विष्णुर् ना परमपुरुषो यं विनिर्जित्य तत् स्वकीयं वीर्यं भूर्यनन्तमनुस्मरन्नात्मानं जयिनं जयशीलं मेन इति ॥ ६ ॥
सत्यधर्मीया
क्ष्मोद्धारे आगते आसन्ने । विष्णुः कृच्छ्रेण कष्टेन । यं हिरण्याक्षं त्वत्प्रपितामहं विनिर्जित्य । आत्मानं स्वं जयिनं जयवन्तं न मेने नानुसन्दधे । तत्र हेतुमाह । तस्य वीर्यं भूरि बहुलमनुस्मरन्निति । स्तुतिसमयत्वाद्वा नटनं देवस्येति ज्ञेयम् । निरालम्बाः स्वावलम्बा जना इति तत्कृच्छ्रेण विनिर्जित्य प्रागनन्तरं नात्मानं निर्जीवं चानुस्मरन् । तद्वीर्यं तत्स्वप्रतिभटीभवनं योग्यं वीर्यं यस्य तम् । जयिनं विजयावेशिनं भूरि मेने बहु मेने । आत्मानं जयिनमिदानीं न मेन इत्यपि योजयन्ति । अस्मदेतदर्थस्त्वान्तरङ्गिको ज्ञेयः ॥ ६ ॥
छलारी
विष्णुः क्ष्माया भूमेरुद्धारे उद्धरणकाले आगतं हिरण्याक्षं कृच्छ्रेण निर्जित्य हत्वाऽऽत्मानं स्वं जयिनं न मेने । भूरि तस्य हिरण्याक्षस्य वीर्यं पराक्रमं स्मरन् । कृच्छ्रेणेत्यादि जनमोहनायेति ज्ञेयम् ॥ ६ ॥
लिङ्घेरी
क्ष्मोद्धारे भुव उद्धरणकाले प्राप्ते सति भूम्यपहारकं हिरण्याक्षं कृच्छे्रणाति-काठिण्येन विनिर्जित्य पराभूय तस्य हिरण्याक्षस्य भूरि बहुलं पराक्रममनुस्मरन्सन् स्वं जयवन्तं न मेने । कृच्छ्रेण विनिर्जित्येति हिरण्याक्षप्रशंसार्थं तमोयोग्यमोहनार्थं चोक्तमिति ज्ञेयम् ॥ ६ ॥
निशम्य तद्वधं भ्राता हिरण्यकशिपुः पुरा ।
हन्तुं भ्रातृहणं क्रुद्धो जगाम निलयं हरेः ॥ ७ ॥
सत्यधर्मीया
भ्रातृहणं हिरण्याक्षहन्तारम् । एकाजुत्तरपदे ण इति णत्वम् ॥ ७ ॥
छलारी
तस्य हिरण्याक्षस्य वधं भ्रातृहणं स्वभातृहंतारं विष्णुं हन्तुं हरेर्निलयं वैकुण्ठं जगाम ॥ ७ ॥
लिङ्घेरी
तथा हिरण्याक्षभ्राता सहोदरो हिरण्यकशिपुः पूर्वं तस्य हिरण्याक्षस्य वधं वराहरूपेण हरिणा कृतं श्रुत्वा कुपितः सन् स्वभ्रातृहन्तारं नारायणं हन्तुं हरेर्निलयमाश्रयं वैकुण्ठं जगाम ॥ ७ ॥
तमायान्तं समालोक्य शूलपाणिं कृतान्तवत् ।
चिन्तयामास कालज्ञो विष्णुर्मायाविनां वरः ॥ ८ ॥
पदरत्नावली
मायाविनां ज्ञानिनां वरः मोक्षादिवरदाता ॥ ८ ॥
सत्यधर्मीया
कृतान्तवद् यममिव । मायाविनां सहजशक्तियुतां वरः श्रेष्ठः । कालज्ञो न समयोऽयं स मया कालान्तरे रूपान्तरेण वध्य इति प्रच्यावनकालज्ञानी ॥ ८ ॥
छलारी
कृतान्तवद्यमवत् । कालज्ञो नायमेतद्धननकालः किन्तूत्तरो नृसिंहावतारकाल इति जानन्मायाविनां समर्थानां वरो महाशक्त इत्यर्थः ॥ ८ ॥
लिङ्घेरी
मायाविनां परमोहनशक्तिवतां ज्ञानवतां च वरः श्रेष्ठो विष्णुर्यस्मिन्यस्मिन्काले यद्यत्कार्यं तत्तज्ज्ञानसंपूर्णो यतो यत इत्यादि वक्ष्यमाणप्रकारेणालोचनमकरोत् । मेधा मायास्रजा-विनिरिति मायाशब्दस्य मत्वर्थे विनिप्रत्ययः । ‘कृतान्तो यमसिद्धान्तौ’ इत्यमरः ॥ ८ ॥
यतो यतोऽहं तत्रासौ मृत्युः प्राणभृतामिव ।
अतोऽहमस्य हृदयं प्रवेक्ष्यामि पराग्दृशः ॥ ९ ॥
पदरत्नावली
पराग्दृशः बाह्यदृष्टेः । ‘पराञ्चि खानि व्यतृणात्’ इति श्रुतेः । परं दूर-मञ्चतीति पराक्, पराग् दूरस्थं वस्तु पश्यतीति पराग्दृक् तस्य दूरवस्तुदर्शिन इत्यर्थे वा ॥९॥
सत्यधर्मीया
पराग्दृशो बहिर्दृष्टेर्दूरप्रसारितचक्षुष इति वा । मम मायाविषये पराची दृग्यस्य । तज्ज्ञानहीनस्येति वा । यतो यतोऽहं तत्र तत्रासौ हिरण्यकशिपुरायाति । अतोऽ-समयत्वादस्य हृदयं प्रवेक्ष्यामि । तेन किमित्यत आह । प्राणभृतां मृत्युरिव । अहमपरिहार्य इत्यान्तरङ्गिको भावः, बाह्यस्तु स्फुट इति ॥ ९ ॥
छलारी
चिन्ताप्रकारमेवाह ॥ यत इति ॥ अहं यतो यतो यत्र यत्र गच्छेयं तत्रासौ हिरण्यकशिपुरागमिष्यत्येव । कथम् । प्राणवतां देहिनां मृत्युरिव । अतः पराक् दृशः । बाह्यदृष्टेः शरीराद्बहिरिव पश्यति न त्वन्तरित्यर्थः । दूरस्थवस्तुदर्शन इति वा । अस्य हिरण्य-कशिपोर्हृदयं प्रवेक्ष्यामि ॥ ९ ॥
लिङ्घेरी
अहं यतो यतो यत्र यत्र गमिष्यामि तत्र तत्रासौ हिरण्यकशिपुः प्राणिनां मृत्यु-रिवायास्यत्यतोऽहं पराग्दृशो बहिर्दृष्टेरस्य हिरण्यकशिपोर्हृदयं प्रवेक्ष्यामीति चिन्तयामास हरि-रित्यन्वयः ॥ ९ ॥
एवं स निश्चित्य रिपोः शरीरमाधावतो निर्विविशेऽसुरेन्द्र ।
श्वासानिलान्तर्हितसूक्ष्मदेहस्तद्घ्राणरन्ध्रेण विविग्नचेताः ॥ १० ॥
पदरत्नावली
तद्घ्राणरन्ध्रेण तस्य घ्राणद्वारेण ॥ १० ॥
सत्यधर्मीया
आधावतः स्वं प्रति । स हरिरेवं विनिश्चित्य । तस्य रिपोर्हिरण्यकशिपोः शरीरं निर्विविशे । तत्प्रकारमीरयति ॥ श्वासेति ॥ घ्राणरन्ध्रेण नासिकाछिद्रेण । ‘घ्राणं घ्राते च नासिकायाम्’ इति विश्वः । विग्नमुद्विग्नम् । तन्नेति विविग्नमनुद्विग्नं चेतो यस्य स तथाऽन्तरङ्गे । उद्विग्नचेता इति बहिः ॥ १० ॥
छलारी
हे असुरेन्द्र बले । स विष्णुर्बहिर्दृष्टिरयमसुरो हृदये स्थितं मां न ज्ञास्यतीत्येवं निश्चित्याधावतोऽभिमुखमापततो रिपोः शरीरं श्वासानिले श्वासवायावन्तर्हितः सूक्ष्मदेहो यस्य सः श्वासानलान्तर्हित सूक्ष्मदेहः सन् तस्य हिरण्यकशिपोर्घ्राणरन्ध्रेण नासिकाछिद्रेण निर्विविशे प्रविष्टवान् । कथम्भूतः । विग्नमुद्विग्नं भीतं चेतो यस्य स उद्विग्नचेताः । इदं मोहकं विशेषणम्
॥ १० ॥
लिङ्घेरी
हे असुरेन्द्र बले । विविक्तचेताः कर्तव्याकर्तव्यविषयज्ञानसंपन्नः स विष्णु-रेवमुक्तरीत्या स्वस्मिन्निश्चयं कृत्वा स्वं प्रत्याधावतः शीघ्रमागच्छतः शत्रोर्हिरण्यकशिपोः शरीरम् । तस्य हिरण्यकशिपोर्घ्राणछिद्रेण निःश्वासवायोः प्रविश्य सूक्ष्मशरीरः सन् हिरण्य-कशिपोर्देहमाविवेश । छिद्रं निर्व्यधनं लोको रंध्रमित्यमरः ॥ १० ॥
स तन्निकेतं परिमृश्य शून्यमपश्यमानः कुपितो ननाद ।
क्ष्मां द्यां दिशः खं विवरान् समुद्रान् विष्णुं विचिन्वन् न ददर्श वीरः ॥११॥
पदरत्नावली
तन्निकेतम्, जगतामिति शेषः । तस्य हरेर्वैकुण्ठं परिमृश्येति वा ॥११॥
सत्यधर्मीया
तस्य हरेर्निकेतं गृहरूपं वैकुण्ठादि । तन्निकेतं शून्यं हरिविरहितं परिमृश्य विमृश्य । तमपश्यमानोऽपश्यन् कुपितो ननाद ॥ ११ ॥
छलारी
स हिरण्यकशिपुः शून्यं हरिणा रहितं तन्निकेतं तस्य हरेर्निकेतं निलयं वैकुण्ठं परिमृश्यान्विष्य हरिमपश्यमानः कुपितो ननाद गर्जितवान् । तथा क्ष्मां भूमिं द्यां स्वर्गं ख-मन्तरिक्षं विवरान्पातालादिबिलानि च विचिन्वन्मृगयन्न ददर्श । अन्तः प्रविष्टत्वात् ॥ ११ ॥
लिङ्घेरी
स हिरण्यकशिपुस्तस्य विष्णोर्निकेतमाश्रयं वैकुण्ठं परिमृश्य शोधयित्वा विष्णुना शून्यं ज्ञात्वा विष्णुमपश्यन्कुपितो ननाद । वीरो हिरण्यकशिपुः क्ष्मां भूम्यां द्यामन्तरिक्षे प्राच्यादि- दिक्ष्वाकाशेऽतलवितलादिविवरेषु समुद्रेषु च विष्णुं मृगयन्नपि न ददर्श ॥ ११ ॥
अपश्यन्निति होवाच मयाऽन्विष्टमिदं जगत् ।
भ्रातृहा मे गतो नूनं यतो नावर्तते पुमान् ॥ १२ ॥
पदरत्नावली
यतो गतस्ततः ॥ १२ ॥
सत्यधर्मीया
यतो यत्र गतः पुमान्नावर्तते तत्र गतो नूनं निश्चयः । मृत इति यावत्
॥ १२ ॥
छलारी
अन्विष्टं विचारितं मे भ्रातृहा हरिर्नूनं गतः । कुत्र । पुमान्यतः सकाशान्नावर्तते तत्रेत्यर्थः । मृत इति भावः ॥ १२ ॥
लिङ्घेरी
विष्णुमपश्यमानो हिरण्यकशिपुर्मयेदं जगत्तद्विचारार्थं प्रविष्टमथाऽपि मे भ्रातृहंता स विष्णुः, पुरुषो यं लोकं प्राप्तः पुनर्नावर्तते तं लोकं गतो नूनं निश्चय इति होवाच ॥१२॥
वैरानुबन्ध एतावानामृत्योरिह देहिनाम् ।
अज्ञानप्रभवो मन्युरहम्मानोपबृंहितः ॥ १३ ॥
पदरत्नावली
क्रोधहेतुको वैरानुबन्ध इत्याह– अज्ञानेति ॥ प्रह्लादस्य यः पुत्रो स तव पिता विरोचनस् तान् द्विजरूपिणो देवान् विद्वान्, द्विजानां लिङ्गं वेषो येषां ते तथा, तेभ्यो देवेभ्यः स्वमायुरदादित्यन्वयः ॥ १४ ॥
सत्यधर्मीया
अज्ञानप्रभवोऽज्ञानात्प्रभवतीति स तथा । अहंमानेनाहन्तया उप-बृंहितोऽभिवृद्धो मन्युः कोपो वैरानुबन्धश्च । इह लोके एतावानेतत्पर्यन्तः । सोऽवधिः क इत्यतोऽभिधत्ते ॥ आमृत्योरिति ॥ अरिमरणानन्तरमपि वैरं कुर्वन्तोऽप्युर्वीशा वर्तन्त इत्यत आह ॥ अज्ञानप्रभव इति ॥ न विद्यते ज्ञानमामृत्योर्वैरानुबन्ध इति येषाम् । ते च ते प्रभवो राजानश्चेत्यावृत्त्याऽर्थो ज्ञेयः ॥ १३ ॥
छलारी
ततो विष्णौ वैरं त्यक्तवानित्याशयेनाह ॥ वैरानुबन्ध इति ॥ देहिनां देहे निरूढाभिमानवतां शूराणामिह संसारेऽज्ञानेन प्रभव उत्पन्नोऽहंमानेनाहङ्कारेणोपबृंहितोऽभिवृद्धो मन्युः कोपो वैरानुबन्धश्चैतावान् एतावत्पर्यन्तम् । तदेव विवृणोति ॥ आमृत्योरिति ॥ मरणपर्यन्तं भवति वर्तते ततो निवर्तत इति भावः ॥ १३ ॥
लिङ्घेरी
देहधारिणां शत्रुषु वैरानुबन्धो द्वेषानुवृत्तिरेतावान्वैर्यदर्शनपर्यन्तः यदा शत्रुर्मृग्य-माणोऽपि न दृश्यते ततः प्रभृति तद्द्वेषो ह्रसतीति भावः । ननु हरेः सर्वज्ञत्वेन स्वतन्त्रतया च वैषम्यनैर्घृण्यरहिततया तत्कर्मानुसारेण फलदातृत्वात्कथं हरौ हिरण्यकशिपौ द्वेषापरनाम-मन्युरित्यत आह ॥ अज्ञानेत्यादिना ॥ १३ ॥
पिता प्रह्लादपुत्रस्ते तद्विद्वान् द्विजवत्सलः ।
स्वमायुर्द्विजलिङ्गेभ्यो देवेभ्योऽदात् स याचितः ॥ १४ ॥
सत्यधर्मीया
प्रह्लादपुत्रः प्रह्लादस्य पुत्रस्ते पिता विरोचनस्तद्विद्वान् तान्वेत्तीति तद्विद्वान् । द्विजानां लिङ्गं येषां ते तथा । तेभ्यः । तैर्याचितः स्वमायुर्ददौ ॥ १४ ॥
छलारी
पितामहप्रपितामहौ स्तुत्वा तत्पितरं विरोचनं स्तौति ॥ पितेति ॥ प्रल्हादस्य पुत्रस्ते पिता विरोचनो द्विजवेषधारिणो मद्वैरिणो देवाः । एतेन तु द्विजा इति तद्विद्वानपि तज्जानमानोऽपि स याचितः सन् तेभ्यो देवेभ्यः स्वं स्वकीयमायुरदात् । शत्रुत्वेन ज्ञात्वाऽपि किमर्थं दत्तवानित्यत उक्तम् ॥ द्विजवत्सल इति ॥ ब्राह्मणभक्तत्वादित्यर्थः ॥ १४ ॥
लिङ्घेरी
वामनो बलिं प्रति यत्प्राक् तद्वंशजस्य युद्धाविमुखत्वमुक्तं तद्यतो जातो हिरण्याक्ष इत्यादिना विचिन्वन्न ददर्शेत्यन्तेनोपपाद्य यद्दानाविमुखत्वमुक्तं तदुपपादयति ॥ पितेति ॥ हे बले । प्रल्हादस्य पुत्रस्ते पिता यो विरोचनः सः, ‘देवा द्विजवेषेण स्वस्यायुष-मपहर्तुमागता’ इति यत्तज्ज्ञानवानपि ब्राह्मणेषु वात्सल्यवान् देवैस्त्वदायुर्देहीति याचितः सन् द्विजलिङ्गेभ्यो देवेभ्यः स्वमायुर्दत्तवान् । अनेन दानशीलेनापि स्वेष्टायुरभिवृद्धये दातव्यानि वस्तूनि दीयन्ते न त्वायुरपि । तदप्यनेन दत्तमिति कैमुत्येन दानावैमुख्यं विरोचनस्य सूचितम् ॥१४॥
भवानाचरिता धर्मानास्थितान् गृहमेधिभिः ।
ब्राह्मणैः पूर्वजैः शूरैरन्यैश्चोद्दामकीर्तिभिः ॥ १५ ॥
पदरत्नावली
किञ्च यद्ब्राह्मणैरनुष्ठितं तन्ममाभीष्टमिति प्रकटनाय भवानप्याचरतीत्याह– भवानिति ॥ आचरिताऽनुष्ठाता । अन्यैः राजादिभिः ॥ १५ ॥
सत्यधर्मीया
गृहमेधिभिरास्थितान् अनुष्ठितान्धर्मान्भवानाचरिता । ते चैतदादय इत्याह ॥ ब्राह्मणैरिति ॥ उद्दामा उत्कृष्टा कीर्तिर्येषां तैः ॥ १५ ॥
छलारी
इदानीं बलिं च स्तौति ॥ भवानिति ॥ गृहमेधिभिर्ब्राह्मणादिभिराचरितान्धर्मान् भवानास्थितोऽनुष्ठितवान् । उद्दामोत्कृष्टा कीर्तिर्येषां तैः ॥ १५ ॥
लिङ्घेरी
भगवान्वामन एवं बलिपित्रादीन्स्तुत्वा प्रकृतमनुसरन्स्वाभिलषितदानाय बलिमपि स्तौति ॥ भवानिति ॥ हे बले । गृहमेधिभिर्गृहस्थाश्रमैः पूर्वजैर्ब्राह्मणैः शूरैः क्षत्रियैरुत्कृष्टय-शस्कैरन्यैश्चास्थितानाश्रितान्क्रियमाणान् धर्मान् भवानप्याचरिता कर्तेति ॥ १५ ॥
तस्मात् त्वत्तो महीमीषद् वृणेऽहं वरदर्षभ ।
पदानि त्रीणि दैत्येन्द्र सम्मितानि पदा मम ॥ १६ ॥
पदरत्नावली
यस्मात् त्वं पुण्यवतां कुले जातो धर्मकर्ता तस्मात् पदानीति बहु-वचनोक्त्या भीतिर्मा भूदित्याह– त्रीणीति ॥ तेषां च महत्वेन भयशङ्का तदवस्थेति तत्राह– सम्मितानीति ॥ १६ ॥
सत्यधर्मीया
ईषत् । अमो लोपोऽव्ययत्वात् । अमहीयसीं महीमित्यर्थः । ईषत्तव मम दातुरनीषदिति नेति भाषते ॥ पदानीति ॥ तान्यपि न बहूनीत्याह ॥ त्रीणीति ॥ मम पदा संमितानि । एतेनेत्यनुक्त्या महांत्यपि तानि न स्वत्वं व्यभिचरन्तीति नालीकं वचनं च हरेरित्यन्तरङ्गे ॥ १६ ॥
छलारी
यस्मात्त्वं पुण्यवतां कुले जातो धार्मिकस्तस्माद्वरदानामृषभात्त्वत्तो महीमीष-त्किञ्चिद्वृणे । किञ्च त्वमेवाह ॥ पदानीति ॥ मम पदा पादेन संमितानि सदृशानि त्रीणि पदानि पादत्रयं भूमिं वृण इत्यर्थः । मम पदा संमितानीति त्रिविक्रमपादाभिप्रायेण न तु दृश्यमान-पादाभिप्रायेण । न चानृतवादित्वम् । तत्रापि स्वपादत्वानवगमात् ॥ १६ ॥
लिङ्घेरी
हे वरदर्षभ याचकाभिलषितदातृषु श्रेष्ठ बले । यस्मात्त्वं पूर्वाचरितधर्मकरण-शीलस्तस्मादहं त्वत्तोऽपीषदल्पां भूमिं वृणे स्वीकर्तुमिच्छामि । ईषदित्युक्तं स्पष्टयति ॥ पदानीति ॥ १६ ॥
नान्यं ते कामये राजन् वदान्याज्जगदीश्वरात् ।
नैनः प्राप्नोति वै विद्वान् यावदर्थं प्रतिग्रहात् ॥ १७ ॥
पदरत्नावली
इतोऽपि महत्तरं कामं वदस्व दास्यामीति तत्राह– नेति ॥ वदान्या-द्दानशीलाद् राज्ञः प्रतिग्रहात् तव दोषो न स्यात् किम् ? नेत्याह– नेति ॥ यावता प्रतिग्रहेण स्वप्रयोजनं सिद्ध्यति तावता प्रतिग्रहाद् आदानात् । ‘न वा अजीविष्यमिमानखादन्’ इति श्रुतेः । विद्वान् प्रतिग्रहदोपदहनपटुज्ञानवान् ॥ १७ ॥
सत्यधर्मीया
इयतीमेव कुतः कुं कामयस इत्यत आह ॥ नान्यमिति ॥ अधिकाशा चेत्प्रत्यवेयामहमित्याह । यावदर्थं यावत्स्वप्रयोजनं प्रतिग्रहात् । विद्वान् प्रतिग्रहो दोषकृदिति तत्प्रायश्चित्तादिकं जानन् । एनः पापं न प्राप्नोति । अतोऽन्यं न कामये । लोभिनो मत्तः को लाभो भवितेत्यतो नेत्याह ॥ वदान्यादिति ॥ यद्यप्यतिदाता । तथाऽपि परायत्त इत्येवं पृच्छसि तुच्छं वरं किमित्यतो नेत्याह ॥ जगदीश्वरादिति ॥ १७ ॥
छलारी
इतोऽपि महत्तरं कामयस्व दास्यामीति तत्राह ॥ नेति ॥ वदान्याद्दानशूरात् । राजप्रतिग्रहात्तव दोषो न स्यात्किं नेत्याह ॥ नेति ॥ यावदर्थमेव यावत्प्रयोजनमेव प्रतिग्रहो यस्य सः । यावता प्रतिग्रहेण स्वप्रयोजनं सिद्ध्यति तावत्प्रतिग्रहवानित्यर्थः । विद्वान्प्रति-ग्रहदोषदहनपटुर्ज्ञानवान् एनं प्रतिग्रहदोषं न प्राप्नोति । अतो नाधिकं कामय इति भावः ॥१७॥
लिङ्घेरी
हे दैत्येन्द्र राजन् बले । जगत्स्वामिनो वदान्याद्दानशूरात्तव सकाशादहं ममाणोः पदा पादेन संमितानि परिमितानि भूमेस् त्रीणि पदानि कामये वाञ्छामि । अन्यन्न कामये । इत्यनेन यत्पदानीति बहुवचनस्यापर्यवसानात्पदानां च महत्वेऽपि महत्या भूम्या भाव्यमिति बलिमानसशंका त्रीणि मम पादसंमितानीति वदता परिहृता । ननु मम जगदीश्वरत्वाद्दानशूरत्वाच्च बहुपदार्थयाचनं त्वया कर्तुमुचितम् । किमल्पं याचितमिति तत्राह ॥ नैनः प्राप्नोतीति ॥ विद्वान्याचकज्ञानिपुरुषो यावतैव स्वशरीरयात्रादिसिद्धिस्तावद्द्रव्यस्य प्रतिग्रहात्स्वीकारादेनः पापं न प्राप्नोति । अत एव चर्मकारं प्रति ब्राह्मणेन स्वप्राणात्ययसमये तच्चर्मस्थकुलित्था याचयित्वा भक्षिताः । उदकं गृहाणेति चर्मकृता प्रार्थितेन ब्राह्मणेनोदकस्य स्वयमेव ग्रहीतुं शक्यत्वेन न प्रतिगृहीतम् । तदेतत् ‘अजीविष्यन्निमानखादन्काममुदकम्’ इत्यादि श्रुतिसिद्धम् ॥ १७ ॥
बलिरुवाच–
अहो ब्राह्मणदायाद वाचस्तेऽवृद्धसम्मताः ।
त्वं बालो बालिशमतिः स्वार्थं प्रत्यबुधो यथा ॥ १८ ॥
पदरत्नावली
अवृद्धसम्मताः कुतः ? अत्राह– त्वमिति ॥ बुद्धिवैशद्ये बालत्वम-प्रयोजकम्, अत्राह– बालिशेति ॥ जडमतिः । स्वप्रयोजनं ज्ञातुं न शक्त इत्यर्थः ॥ १८ ॥
सत्यधर्मीया
दायादौ सुतबान्धवावित्युक्तेर्ब्राह्मणदायादसुत ब्राह्मणसुत । ते वाचोऽवृद्ध- संमताः । त्वं च बाल इत्यनुरूपमिदमिति भावः । बालत्वं व्यभिचीर्णं ध्रुवादिषु पण्डितेष्वित्यत आह ॥ बालिशमतिरिति ॥ बालिशानां मूर्खाणां मतिरिव मतिर्यस्य स तथा । ‘बालिशः शाबके मूर्खे’ इति विश्वः । कुत एवमित्यत आह । यथा यस्मात्स्वार्थं प्रत्यबुधोऽज्ञातेति । अनेन बलिना स्वबन्धने बीजवाप ईश्वरतिरस्कारात्माऽनुष्ठित इति ध्येयम् ॥ १८ ॥
छलारी
एवमीश्वरस्यापि हरेर्याञ्चा किमर्थमिति प्रश्नस्य देवकार्यार्थमेवेत्युत्तरत्वेन याचनाप्रकारमुक्त्वा निरपराधिनो बलेर्बन्धनं कुत इति प्रश्नस्योत्तरत्वेन तस्य गर्वातिरेकेणाधि-क्षेपप्रकारमाह ॥ अहो इति त्रिभिः । अहो ब्राह्मणस्य दायाद पुत्र । ते वाचो वृद्धानां संमतास्त्वं तु बालो बालिशमतिश्च । बालिशानामज्ञानामिव मतिर्यस्य सः । त एव स्वार्थं प्रति स्वकार्यं प्रति यथा यथावदबुधो यावदपेक्षितं स्वकार्यं न जानन्तीत्यर्थः । यद्वा ते वाचोऽ-वृद्धसंमता वृद्धानां संमता न भवन्ति । कुतः । यतो बालोऽसीत्युक्तिर्युक्तं वचो ग्राह्यं न तु पुरुषगौरवमिति न्यायात् । बुद्धिवैशेष्ये बालत्वमप्रयोजकमाह ॥ बालिशेति ॥ मन्दमतिः स्वप्रयोजनं ज्ञातुं शक्नोऽपीत्यर्थः ॥ १८ ॥
लिङ्घेरी
अहो ब्राह्मणदायाद पुत्र । ते वाचो द्रव्यार्जकेषु वृद्धानामसंमताः । यथा यतस्त्वं बालोऽत ईदृश्यो वाचः केषाञ्चिद्बालानामपि स्वार्थे बुद्धिमत्वं दृश्यते । त्वं तु स्वार्थं प्रत्यबुधोऽज्ञानी । अत एव बालिशा मतिः ॥ १८ ॥
मां वचोभिः समाराध्य लोकानामेकमीश्वरम् ।
पदत्रयं वृणीते योऽबुद्धिमान् द्वीपदाशुषम्१ ॥ १९ ॥
पदरत्नावली
कथमेतदवगतम् ? अत्राह– मां वचोभिरिति ॥ अबुद्धिमान् दाशुषं दानशीलम्(इव)बुद्धिमानिति व्यतिरेको वा ॥ १९ ॥
सत्यधर्मीया
वचोभिः कुलादि प्रशस्य बाहुविध्याद्वचोभिरिति बहुवचनम् । द्वीप-दाशुषम् । तदपि दातारम् । दाश्वानिति निपातितः शब्दो ऽतोऽबुद्धिमान् ॥ १९ ॥
छलारी
अबुद्धत्वमेवाह ॥ मामिति ॥ यो भवान् लोकानामेकं मुख्यमीश्वरं द्वीपस्य जंब्वादेर्दाशुषं दातारं मां वचोभिः प्रीतिजनकाभिः समाराध्य स्तुत्वा पदत्रयं वृणीते सोऽबुद्धिमान् स्वप्रयोजनं ज्ञातुं न शक्तः । यतो बहु दातारं मां प्राप्य स्वल्पं वृणीषे । अतोऽज्ञानीति भावः
॥ १९ ॥
लिङ्घेरी
ननु मम बालिशत्वं स्वार्थाज्ञत्वं च कथं त्वया बुद्धमित्यत आह ॥ मा-मिति ॥ हे द्विज । स्तुतिरूपैर्वचोभिर्लोकानामीश्वरं सप्तद्वीपानामपि दानसमर्थं मां समाराध्य संसेव्य यो भवान् भूमेः पदत्रयं वृणीते स भवान्न बुद्धिमान् बालिशश्चेति । अनेन यद्वामनेन बलिं प्रति जगदीश्वर दानशूरेत्यादि स्तुतिं कुर्वता, तवैतादृशत्वेऽपि यावदर्थप्रतिग्रहो दोषाभावेनैतावदेव मया प्रार्थ्यत इति स्वाभिप्रायप्रकटनं कृतम् । तदज्ञानिना बलिनैवमुच्यत इति ज्ञातव्यम् ॥१९॥
न पुमान् मामनुव्रज्य भूयो याचितुमर्हति ।
तस्माद् वृत्तिकरीं भूमिं वटो कामं प्रतीच्छ मे ॥ २० ॥
पदरत्नावली
कुतो मामपहससीति तत्राह– न पुमानिति ॥ २० ॥
सत्यधर्मीया
त्वत्त इयदस्तु पुनरन्यतोऽन्यद्गह्णामीति वा त्वत्त एव समयान्तर इति न वद वटो इत्याह ॥ नेति ॥ मामनुव्रज्यागत्य । अन्यमिति शेषः । भूयो मां वा याचितुं पुमान्नार्हति तस्मात् । वृत्तिकरीं तव जीवनोपायभूताम् । कामं यथेच्छं मे मत्तः । वटो प्रतीच्छ ग्रहाण ॥ २० ॥
छलारी
कुतो मामपहससीत्यत्राह ॥ नेति ॥ पुमान्मामुपव्रज्य प्राप्य मया दत्तां गृहीत्वेदं नालमिति भूयो मां याचितुं नार्हति । यावदपेक्षितस्वीकारात् । त्वं यावदपेक्षितं याचितुं न जानासि । अल्पस्यैव स्वीकृतत्वात् । अतोऽपहास इति भावः । वृत्तिकरीं जीवनहेतुं कामं यथेष्ठम् ॥ २० ॥
लिङ्घेरी
बलिरेवं वामनमप्रबुद्धतया विनिंद्य स्वस्य स्वकीर्त्यर्थं तस्य हितोपदेशं करोति ॥ न पुमानिति ॥ हे वटो ब्रह्मचारिन्वामन । कश्चिदपि पुमान्स्वस्य जीवनोपयुक्त-द्रव्यार्थी सन्मामनुव्रज्य तद्द्रव्यं याचितुं प्राप्य भूयः पुनस्तद्द्रव्यमन्यं याचितुं नार्हति यस्मा-त्तस्मात्त्वं तव यावज्जीववृत्तिकरीं जीवनोपायभूतां भूमिं मे सकाशात्कामं यथेच्छं स्वीकुरु ॥२०॥
श्रीभगवानुवाच–
यावन्तो विषयाः प्रेष्ठास्त्रिलोक्यामजितेन्द्रियम् ।
न शक्नुवन्ति ते सर्वे प्रतिपूरयितुं नृप ॥ २१ ॥
पदरत्नावली
यदुक्तं वृत्तिकरीं भूमिं प्रतिगृहाणेति तदजितेन्द्रियं प्रति व्यर्थमित्या-शयेनाह– श्रीभगवानिति ॥ अजितेन्द्रियमलम्बुद्धिरहितम्, पुरुषमिति शेषः ॥ २१ ॥
सत्यधर्मीया
एवं बलिनोक्तो वामनस्तया वा मनस्तृप्यति किं नेत्याह ॥ यावन्त इति ॥ अजितेन्द्रियमजितान्यस्वाधीनानीन्द्रियाणि यस्य तं पुमांसम् । प्रतिपूरयितुं तर्पयितुं न शक्नुवन्ति ॥ २१ ॥
छलारी
पुनरपि निस्पृहामाविष्कुर्वन्नेवाह ॥ यावन्त इति सप्तभिः । प्रेष्ठा अत्यन्त-प्रीतिविषयाः पदार्थाः सन्ति ते सर्वेऽजितेन्द्रियजनं बुद्धिरहितं पुरुषमिति शेषः । परिपूरयितुं तृप्तं कर्तुं न शक्नुवन्ति ॥ २१ ॥
लिङ्घेरी
एवं बलिना बोधितो वामनोऽलम्बुद्धिरहितस्य स्ववृत्तिकरिभूम्या पूर्तिर्न भवेदिति कैमुत्येनाह ॥ यावन्त इति ॥ हे नृप बले । त्रिलोक्यां प्रेष्ठा अतिप्रीतिविषया यावन्तो विषया भोगसाधनपदार्थाः सन्ति सर्वेऽपि तेऽजितं मनोलक्षणेन्द्रियं येन तं पुरुषं प्रतिपूरयितुं विषयान्तरापेक्षारहितं कर्तुं न शक्ता भवन्ति ॥ २१ ॥
त्रिभिः क्रमैरसन्तुष्टो द्वीपेनापि न पूर्यते ।
नववर्षसमेतेन सप्तद्वीपधरेच्छया ॥ २२ ॥
पदरत्नावली
एतदेवोपपादयति– त्रिभिरिति ॥ न नदी द्वपोऽत्र कथ्यत इत्याह– नवेति ॥ कुतः ? अत्राह– सप्तेति ॥ २२ ॥
सत्यधर्मीया
नवभिर्वर्षैः खण्डैः समेतेन युक्तेन द्वीपेनापि न पूर्यते न तृप्यति । सप्तद्वीपवती या धरा भूमिस्तदिच्छया ॥ २२ ॥
छलारी
तदेवोपपादयति ॥ त्रिभिरिति ॥ न नदी द्वीपोऽत्र कथ्यत इत्यत आह ॥ नवेति ॥ नवभिर्नवसंख्याकैर्वर्षैर्भरतादिखण्डैः समेतेन द्वीपेनापि न पूर्यते पूर्णो न भवति । कुतः । सप्तानां द्वीपावरणानामिच्छया ॥ २२ ॥
लिङ्घेरी
तदेवोपपादयति ॥ त्रिभिरिति ॥ यः पुरुषो भूमेस्त्रिभिः क्रमैः पादविक्षेपपरिमितैः स्थलैरसन्तुष्टो नालम्बुद्धिः स नवखण्डसमेतेन जम्ब्वाख्येनैकेन द्वीपेन समग्रप्राप्तेनापि न पूर्यतेऽ-लम्बुद्धिमान्न भवति । पुनः सप्तद्वीपानपि धरिष्यामि प्रतिगृहीष्यामीति जातेच्छावत्त्वात् ॥ २२ ॥
सप्तद्वीपाधिपतयो नृपा वैन्यगदादयः ।
अर्थैः कामैर्गता नान्तं तृष्णाया इति नः श्रुतम् ॥ २३ ॥
पदरत्नावली
नैतावताऽपि पूर्तिरित्याह– सप्तेति ॥ अन्तमवसानम् । अर्थैः कामैः । अर्थसम्पादितकामैर्वा ॥ २३ ॥
सत्यधर्मीया
तादृशान्कांश्चिन्निदर्शयित्वा निःस्पृहतां स्वस्य दर्शयति ॥ सप्तद्वीपेति ॥ वैन्यः पृथुः । अन्तमवसानम् । कामैः काम्यैरर्थैः । कामैरर्थैरिति यथायथं विशेषणविशेष्यभावः । नोऽस्माभिः श्रुतम् । आर्यमुखत इति शेषः ॥ २३ ॥
छलारी
नैतावताऽपि पूर्तिरित्याह ॥ सप्तेति ॥ वैन्यो वेनपुत्रः पृथुश्चक्रवर्ती । गदस्तन्नामको राजा । अर्थैः कामैस्तृष्णाया विषयाभिलाषस्यान्तमवसानं न गता इत्यस्माभिः श्रुतम् ॥ २३ ॥
लिङ्घेरी
तथा सप्तद्वीपानामधिपतयो वेनजपृथुचक्रवर्ती गदराजादयो नृपा अर्थैर्द्रव्यैः कामैर्विषयभोगैश्च पुनरपि मे भूयादितीच्छारूपायास्तृष्णाया अन्तं समाप्तिं न प्राप्ता इति नोऽ-स्माभिः श्रुतम् ॥ २३ ॥
यदृच्छयोपपन्नेन सन्तुष्टो वर्तते सुखम् ।
नासन्तुष्टस्त्रिभिर्लोकैरजितात्मोपसादितैः ॥ २४ ॥
पदरत्नावली
सन्तोषशब्दाभिप्रायं वदन्नलम्बुद्धिरेव सुखसाधनमित्याह– यदृच्छयेति ॥ व्यतिरेकमाह– नासन्तुष्ट इति ॥ उपसादितैरवाप्तैः सुखं न वर्तत इति पूर्वेणान्वयः ॥ २४ ॥
सत्यधर्मीया
यदृच्छयेशेच्छया सन्तुष्टः सुखं वर्तते । अजितात्मा । उपसादितै-स्त्रिभिर्लोकैरसन्तुष्टः सुखं न वर्तते ॥ २४ ॥
छलारी
अलम्बुद्धिरेव सुखसाधनमित्याह ॥ यदृच्छयेति ॥ हरीच्छयोपपन्नेन लब्धेन वित्तेन सन्तुष्टोऽलम्बुद्धिमान्सुखं यथा भवति तथा वर्तते । असन्तुष्टस्त्वजितमात्मा मनो येन सः । मनोजयरहित इत्यर्थः । उपसादितैः प्राप्तैस्त्रिभिर्लोकैरपि न सुखं वर्तते ॥ २४ ॥
लिङ्घेरी
यस्मादेवं तस्मादीश्वरेच्छाप्राप्तद्रव्येण शरीरयात्रादिकं करिष्य इत्यलंबुद्धिरेव सुखहेतुरित्यन्वयव्यतिरेकाभ्यां दर्शयति ॥ यदृच्छयेति ॥ यः पुमान् यदृच्छा हि तदिच्छा स्यादिति स्मृत्युक्तहरीच्छया प्राप्तेनालंबुद्धिमान्स्वस्य सुखं यथा स्यात्तथा वर्तते । अस्य धर्मस्य ‘ईशावास्यमिदं सर्वं तेन त्यक्तेन भुञ्जीथा’ इति श्रुतिविहितत्वेनैहिकपारत्रिकानन्दहेतुत्वा-दित्यन्वयो दर्शितः । व्यतिरेकमपि दर्शयति । अलम्बुद्धिरहितोऽत एवाजितान्तःकरणस्त्रिभिर्लोकैः स्वस्य प्राप्तैरपि सुखं न वर्तत इति ॥ २४ ॥
पुंसोऽयं संसृतेर्हेतुरसन्तोषोऽर्थकामयोः ।
यदृच्छयोपपन्नेन सन्तोषो मुक्तये स्मृतः ॥ २५ ॥
पदरत्नावली
इतोऽपि सन्तोष एवापाद्यः सुखहेतुत्वादन्यस्यानर्थहेतुत्वाच्चेत्याह– पुंस इति ॥ अर्थकामयोरसन्तोषः ॥ २५ ॥
सत्यधर्मीया
अर्थकामयोरसन्तोषस्तत्सम्बन्धिन्यनलम्बुद्धिः । पुनः संसृतेर्हेतुः कारणम् । मुक्तये मोक्षार्थम् । स्मृत इति स्वोक्तेः प्रमाणसंमतिमाचष्टे ॥ २५ ॥
छलारी
इतोऽपि सन्तोष एव सम्पाद्यो मुक्तिहेतुत्वान्नासन्तोषः संसारहेतुत्वादित्याह ॥ पुंस इति ॥ अर्थकामयोर्विषये ॥ २५ ॥
लिङ्घेरी
इदानीमलम्बुद्ध्यनलम्बुद्ध्योः क्रमेण मोक्षसंसारहेतुत्त्वाद्यदृच्छया प्राप्तेनालंबुद्धिरेव संपाद्येत्याह ॥ पुंस इति ॥ पुरुषस्य योऽयमर्थकामयोर्विषयेऽनलम्बुद्धिरूपोऽसन्तोषः सः संसृतेः संसारस्य कारणम् । यश्चायमर्थकामयोर्यदृच्छया प्राप्तेन सन्तोषः स मोक्षहेतुतया ‘यदृच्छा-लाभसन्तुष्टो द्वन्द्वातीतो विमत्सर’ इत्यादिस्मृत्युक्तः ॥ २५ ॥
यदृच्छालाभतुष्टस्य तेजो विप्रस्य वर्धते ।
तत् प्रशाम्यत्यसन्तोषादम्भसेवाशुशुक्षणिः ॥ २६ ॥
पदरत्नावली
तेजो बलादिकम् । ‘तेजो बले प्रभावे च ज्योतिष्यर्चिषि रेतसि । नवनीतेऽनले धर्मे दाने हस्तिमदेऽपि च ॥’ इति । तत् तेजः । आशुशुक्षणिर् अग्निः । ‘आशुशुक्षणिरर्केऽग्नौ यजनेथाश्रुतीबले’ इति ॥ २६ ॥
सत्यधर्मीया
तत्तेजो बलादिकम् । असन्तोषात्प्रशाम्यति । शान्तं गतं भवतीति यावत् । आशुशुक्षणिरग्निरम्भसेव गतम् ॥ २६ ॥
छलारी
तेजो ब्रह्मवर्चसः वर्धतेऽभिवृद्धो भवति । असन्तोषात्तत्तेजः प्रशाम्यति नश्यतीति । आशुशुक्षणिरग्निः ॥ २६ ॥
लिङ्घेरी
इतोऽपि स्वादृष्टप्रेरकेश्वरप्रापितद्रव्यादावलम्बुद्धिरेव ब्रह्मवर्चसादिहेतुस्तद भावश्चानर्थकर इत्याह ॥ यदृच्छालाभतुष्टस्येति ॥ यदृच्छालाभेनालम्बुद्धिमतो ब्राह्मणस्य तेजो ब्रह्मवर्चोऽभिवृद्धं भवति । यदृच्छालाभेऽप्यनलंबुद्धिकरणादस्य ब्राह्मणस्य तद्ब्रह्मवर्चो ज्ञान-भक्त्यादिरूपं सामर्थ्यं चाम्भसोदकेनाशुशुक्षणिरग्निरिव प्रशाम्यति नष्टं भवति । अलम्बुद्धिहेतु-वैराग्याभावेन वैराग्यहेतुकभक्त्यादेरसम्भवात् । अम्भोऽर्णस्तोयमिति । शिखावानाशुशुक्षणि-रित्यमरकोशात् ॥ २६ ॥
तस्मात् त्रीणि पदान्येव वृणे त्वद् वरदर्षभात् ।
एतावतैव सिद्धोऽहं वित्तं यावत्प्रयोजनम् ॥ २७ ॥
पदरत्नावली
यतः सन्तुष्टोऽहं तस्मद्यावत्प्रयोजनं वित्तम्, स्वीकुर्यामिति शेषः ॥ २७ ॥
सत्यधर्मीया
षड्भिः स्वनिःस्पृहतां व्युत्पाद्य सप्तमेनोपसंहरति ॥ तस्मादिति ॥ वित्तं यावत्प्रयोजनम् । नैनः कारणमेतावतैवाहं सिद्धः पूर्णमनोरथ इति त्रीणि पदान्येव वृणे याचे । पदानि त्रीणि दैत्येन्द्रेत्यारभ्य तस्मात्त्रीणि पदान्येव वृणे त्वद्वरदर्षभादित्यन्तं यत्र यत्राङ्घ्रिवाचक-शब्दप्रयोगस्तत्र तत्र पदादिशब्दमप्रयुंजानः प्रयुञ्जानश्च पदपदं वामनस्तत्रापि वामनतां बोधया-मासेति चातुरी मन्तव्या । ‘त्रीणि पदा विचक्रमे । त्रेधा निदधे पदम्’ इति श्रुतिरपि शिर आन्दोलयति ॥ २७ ॥
छलारी
त्वत्त्वत्त एतावतैव पदत्रयेणैवाहं सिद्धः कृतार्थः । एतावतैव सर्वस्वापहार- सिद्धेरिति गूढाभिप्रायः । कुत इत्यत आह ॥ वित्तमिति ॥ वित्तं हि यावत्प्रयोजनमेव सुख-साधनमधिकस्य क्लेशावहत्वादित्यर्थः ॥ २७ ॥
लिङ्घेरी
यस्मादुक्तरीत्या स्वादृष्टप्रेरकेश्वरप्रेरितस्वेच्छा यावद्रव्यमात्रविषयिणी स्वप्रयोज-नायालं तावन्मात्रग्रहणेन ब्रह्मवर्चसादिश्रेयःप्राप्तिस्तस्मादहं सर्वाभिलषितदानसमर्थतया वरदश्रेष्ठा-दपि त्वत्तस्त्रीण्येव पदानि स्वीकरोमि । एतावतैवाहं सिद्धोऽलम्बुद्धिमान् । यस्मात्स्वोपजीवनादि- प्रयोजनं यावत्तावत्साधनमेव द्रव्यमाकांक्ष्यं नातोऽधिकमिति तेन त्यक्तेन भुञ्जीथा मा गृधः कस्यस्विद्धनमिति श्रुत्या विधीयत इति भावः ॥ २७ ॥
श्रीशुक उवाच–
इत्युक्तः स हसन्नाह वाञ्छितं प्रतिगृह्यताम् ।
वामनाय महीं दातुं जग्राह जलभाजनम् ॥ २८ ॥
सत्यधर्मीया
इत्युक्तो वामनेन स बलिर्हसन्नाह । सहसन्नाह । दानोपयोगिसन्नाह-सहितेत्यावृत्तं वामनवाचि चेति ज्ञेयम् । जलभाजनमम्ब्वमत्रम् ॥ २८ ॥
छलारी
वाञ्छितमपेक्षितं प्रतिगृह्यतामित्याह । एवमुक्त्वा जलभाजनं कमण्डलुं जग्राह
॥ २८ ॥
लिङ्घेरी
इति वामनेनोक्तो बलिः प्रहासं कुर्वन्सन् । हे बटो । यावदपेक्षितं तावदेव तर्हि त्वया प्रतिगृह्यतामित्युक्त्वा वामनाय तद्याचितभूमिं दातुं जलपात्रं गृहीतवान् ॥ २८ ॥
विष्णवे क्ष्मां प्रदास्यन्तमुशना असुरेश्वरम् ।
जानंश्चिकीर्षितं विष्णोः शिष्यं प्राह विदां वरः ॥ २९ ॥
पदरत्नावली
उशना विदुषा गुरुणा शिष्याय हितोपदेशः कर्तव्य इति शिक्षयन्नाह– विष्णव इति ॥ २९ ॥
सत्यधर्मीया
उशना असुरेश्वरमित्यत्र सवर्णदीर्घाभावः शुक्रस्य बलेश्चासन्धिसूचकः । विदां वरो विद्वद्वरिष्ठः ॥ २९ ॥
छलारी
शुक्राचार्यो ‘विदुषा गुरुणा शिष्याय हितोपदेशः कर्तव्य’ इति शिक्षयन्नाह ॥ विष्णव इति ॥ उशनाः शुक्राचार्यो विष्णोर्वामनरूपस्य चिकीर्षतं विष्णुना क्रियमाणं कार्यं जानन्विदां वरो ज्ञानिनां श्रेष्ठः ॥ २९ ॥
लिङ्घेरी
विदां कर्तव्याकर्तव्यज्ञानिनां नीतिज्ञानां वरः श्रेष्ठ उशनाः शुक्राचार्यो विष्णो-र्वामनस्य स्वचिकीर्षितं कर्तुमपेक्षितं देवकार्यसाधनं जानन्सन् वामनरूपाय विष्णवे क्ष्मां भूमिं प्रदास्यन्तं दातुमिच्छन्तमसुराणामीश्वरं स्वस्य शिष्यं बलिं प्रति वक्ति ॥ २९ ॥
उशना उवाच–
एष वैराचने साक्षाद् भगवान् विष्णुरव्ययः ।
कश्यपाददितेर्जातो देवानां कार्यसाधकः ॥ ३० ॥
सत्यधर्मीया
वैरोचने बले । एषोऽव्ययः साक्षाद्भगवान्विष्णुः । कश्यपाददितेः प्रजा-तश्चेत्किं बहुस्तोष इत्यतो भाषते । देवानां त्वत्सपत्नानां कार्यस्याभिलषितस्य साधकः साधयितेति ॥ ३० ॥
लिङ्घेरी
हे विरोचनपुत्र बले । त्रिपदयाचको बटुः साक्षादनुपचारेण परममुख्यवृत्त्या भगवच्छब्दवाच्योऽव्ययः पूर्णैश्वर्यो विष्णुरेव कश्यपाददित्यां प्रादुर्भूतः सन् देवानां कार्यसाधकः सन्निहायातः ॥ ३० ॥
प्रतिश्रुतं त्वयैतस्मै यदनर्थमजानता ।
न साधु मन्ये दैत्यानां महानुपगतोऽनयः ॥ ३१ ॥
पदरत्नावली
बन्धनाद्यनर्थमजानता त्वया एतस्मै वामनाय प्रतिज्ञातं यत् तत् साधु न मन्य इत्यन्वयः । कुतः ? अत्राह– दैत्यानामिति ॥ अनयो दुःखहेतुरनीतिः ॥ ३१ ॥
सत्यधर्मीया
अनर्थं भाविनम् । अजानताऽविदुषा त्वया । एतस्मै वामनाय मेदिनीं ददानीतीदानीं यत्प्रतिश्रुतं तद् दैत्यानां साधु मङ्गलं न मन्ये । महाननयोऽन्यायो दैत्या-नामुपगतः प्राप्तः ॥ ३१ ॥
छलारी
एषो वामनः । वैरोचने । कश्यपाददितेरदित्या जातः । अनर्थमुत्तरत्र प्राप्यमाणमात्मबन्धनादिरूपमजानता त्वयैतस्मै वामनाय यत्प्रतिश्रुतं दास्यामीति यत्प्रतिज्ञातं तत्साधु क्षेमकारीति न मन्ये । कुतः । दैत्यानां महान् असह्योऽनयोऽन्यायः । अनर्थ इति यावत् । उपगतः प्राप्तः ॥ ३१ ॥
लिङ्घेरी
हे बले । अस्यापरिच्छिन्नस्वरूपतया तत्पादत्रयपरिमितभूमेरपि दानाशक्तेन बन्धनस्वस्थानापहरणमजानता त्वयाऽस्मै वामनायाभिलषितं भूदानं यत्प्रतिज्ञातं तदहं साधु समीचिनं न मन्ये । यस्मादेतत्प्रतिज्ञया दैत्यानां महाननयोऽनीतिरागता ॥ ३१ ॥
एष ते स्थानमैश्वर्यं श्रुतं तेजो यशः श्रुतम् ।
दास्यत्याच्छिद्य शक्राय मायामाणवको हरिः ॥ ३२ ॥
पदरत्नावली
तदुपपादयति– एष इति ॥ विश्वकायः ॥ ३२ ॥
सत्यधर्मीया
आत्मनाऽवगतमन्यायच्छायां दर्शयति ॥ एष इति ॥ श्रुतं प्रसिद्धं यश आच्छिद्य बलाद्गृहीत्वा शक्राय दास्यति ॥ ३२ ॥
छलारी
अन्यायमेवाह ॥ एष इति ॥ स्थानं स्वरूपमैश्वर्यं प्रभुत्वं श्रियं संपदं बलादिकं यशः कीर्तिं श्रुतं ज्ञानम् । सर्वस्वापहरणे बुद्धेर्भ्रंशादिति भावः । आच्छिद्यापहृत्य मायया स्वेच्छया माणवकः बटुः ॥ ३२ ॥
लिङ्घेरी
मायया तद्वंचनेच्छया माणवको ब्रह्मचारीरूप एष वामनात्मा हरिस्ते ॥३२॥
त्रिभिः क्रमैरिमांल्लोकान् विश्वकायः क्रमिष्यति ।
सर्वस्वं विष्णवे दत्वा मूढ वर्तिष्यसे कथम् ॥ ३३ ॥
सत्यधर्मीया
विश्वकायो व्याप्तकायस्त्रिभिः क्रमैरिमांल्लोकान्क्रमिष्यति । सर्वस्वं श्वोऽन-न्नयगतिकं यथा तथा वर्तिष्यसे । जीवसि कथम् । अकथं, कं च खं च थम् अन्नं च कथे । ते न स्तः यस्मिन् कर्मणि । असुखान्नं यथा तथा वर्तसे इति वा । एतावज्ज्ञानहीनतया मूढेत्युक्तिः ॥ ३३ ॥
छलारी
ननु पदत्रयमेव प्रतिश्रुतं नाधिकमतः स्थानाधिकं सर्वमपहरेदित्युक्तिः कथ-मित्यत आह ॥ त्रिभिरिति ॥ क्रमैः पादन्यासैर्विश्वकायो व्याप्तदेहः क्रमिष्यत्याक्रमिष्यति । आक्रमतामिति चेत्तत्राह ॥ सर्वस्वमिति ॥ कथं तिष्ठसि जीवनोपायाभावादिति भावः ॥३३॥
लिङ्घेरी
हे मूढ भाविकार्यानभिज्ञ बले । एषो वामनो विश्वकायो ब्रह्माण्डपर्यन्तं पूर्णदेहः सन् त्रिभिः पादविक्षेपैरिमांल्लोकान्नाक्रमिष्यति । त्वदीयं सर्वं द्रव्यं विष्णवे वामनाय दत्वा कथं वर्तिष्यसे प्रवर्तिष्यसे जीविष्यसि । जीवनोपायाभावात् ॥ ३३ ॥
क्रमतो गां पदैकेन द्वितीयेन दिवं विभोः ।
खं च कायेन महता तार्तीयस्य कुतो गतिः ॥ ३४ ॥
पदरत्नावली
त्रिपदक्रमणप्रकारं स्पष्टयति– क्रमत इति ॥ तार्तीयस्य तृतीयपदस्य
॥ ३४ ॥
सत्यधर्मीया
पदत्रयक्रमणप्रकारमाह ॥ क्रमतो गामिति ॥ गां भूमिम् । द्वितीयेन पदा दिवं क्रमतो विभोः कायेन मध्यदेहेन खमाकाशं च क्रमतस्तार्तीयस्य तृतीयपादसम्बन्धिनः क्रमणस्य गतिः का । न किञ्चिदपि तावकमुर्वरितमित्याशयः ॥ ३४ ॥
छलारी
त्रिपदैः सर्वलोकाक्रमणप्रकारं स्पष्टयन्प्रतिज्ञातं संपादनीयमेवेति वदन्तं प्रत्याह ॥ क्रमत इति ॥ एकेन पदा पदन्यासेन गां भूमिं द्वितीयेन पदा दिवं द्युलोकं महता स्थूलेन कायेन खं चान्तरिक्षं च क्रमत आक्रममाणस्य विभोस्तार्तीयस्य तृतीयपादन्यासस्य का गतिः स्थलं कुतः क्व वर्तते न क्वापीत्यर्थः ॥ ३४ ॥
लिङ्घेरी
इमांल्लोकानित्युक्तलोकनामग्रहणपूर्वकं प्रतिज्ञातभङ्गमाह ॥ क्रमत इति ॥ एकेन पादेन गां भूमिमाक्रमिष्यतो द्वितीयेन पदा दिवं स्वर्गमाक्रमिष्यतो महता कायेन स्वदेहेन तदन्तरस्थमाकाशमप्याक्रमिष्यतोऽस्य वामनस्य तार्तीयस्य तृतीयस्य पादस्य तत्परिमितिस्थल-दानस्य तव गतिः कुतः क्वास्तीति ॥ ३४ ॥
निष्ठान्तं१ नरकं मन्ये ह्यप्रदातुः प्रतिश्रुतम् ।
प्रतिश्रुतस्य योऽनीशः प्रतिपादयितुं भवान् ॥ ३५ ॥
पदरत्नावली
प्रतिश्रुतमदातुर् निष्ठान्तं प्रतिश्रुतदानपर्यन्तं नरकं दुःखं मन्ये । नरक-मेवोपपादयति- प्रतिश्रुतस्येति ॥ ३५ ॥
सत्यधर्मीया
प्रतिश्रुतं प्रतिज्ञातम् । अदातुर्निष्ठान्तं दिशामीति प्रतिज्ञातवितरण-पर्यन्तम् । निष्ठान्ते इति पाठे मरणानन्तरमित्यर्थः । नरकं लोकं तत्र भोक्तव्यं दुःखं वा । प्रतिश्रुतस्य प्रतिश्रुतं प्रतिपादयितुं दातुं यो भवाननीशस्तस्य नरकं मन्य इत्यन्वयः॥ ३५ ॥
छलारी
तृतीयपादन्यासस्य स्थलाभावादेव स्थलं न दास्यामि किं बाधकमिति चेत्तत्राह ॥ निष्ठामिति ॥ प्रतिश्रुतं वस्त्वप्रदातुः । ते नरके निष्ठां स्थितिं मन्ये । निष्ठान्तं नरकमिति क्वचित्पाठः । तत्र निष्ठान्तं प्रतिश्रुतं दानपर्यन्तं नरकं दुःखमित्यर्थः । प्रति-श्रुतस्याप्रदाने निमित्तमाह ॥ य इति ॥ यो भवान्प्रतिश्रुतस्य प्रतिश्रुतं वस्तु प्रतिपादयितु-मनीशोऽसमर्थस्तस्मादित्यर्थः ॥ ३५ ॥
लिङ्घेरी
हे बले । यो भवान् भवता प्रतिज्ञातस्य समर्पयितुमसमर्थस्तस्य ते निष्ठान्तं नियतं प्रतिज्ञातदानपर्यन्तं नरकं मन्ये । यतः प्रतिज्ञातमदातुर्नरकं नरकः प्रतिश्रुतः । ‘वाचा दत्तं मनोदत्तं धारादत्तं न दीयते । षष्ठिवर्षसहस्राणि विष्टायां जायते कृमिः ॥’ इति श्रुत्या प्रतिज्ञातः ॥ ३५ ॥
न तद्दानं प्रशंसन्ति येन वृत्तिर्विपद्यते ।
दानं यज्ञस्तपः कर्म लोके वृत्तिमतो यतः ॥ ३६ ॥
पदरत्नावली
तस्य तव दानं कुतो न प्रशंसन्ति इति तत्राह– येनेति ॥ वृत्तिर्जीवनं विपद्यते नश्यतीति येन, तस्मादिति शेषः । ‘सम्भावितस्य चाकीर्तिर्मरणादतिरिच्यते’ इति स्मृतेः । वृत्तिर्जीवनसाधनं वा नष्टं स्यात् । तन्नाशे किं छिन्नम् ? अत्राह– दानमिति ॥३६॥
सत्यधर्मीया
वृत्तिर्जीवनं विपद्यते नश्यति । वृत्त्यभावेऽपि प्रवृत्तिनिवृत्तिः कुत इत्यतो वक्ति । वृत्तिमतः पुरुषस्य यतो यस्मात् । दानं यज्ञस्तपः कर्मेत्यादिकं संपद्यतेऽतस्तन्नाशे सर्वनाश इति भावः । वृत्तिर्जीवनसाधनं वा ॥ ३६ ॥
छलारी
ननु शरीरत्यागानन्तरं यत्किञ्चिद्भवत्वीदानीं सर्वस्वदानात्कीर्तिस्तावद्भ-विष्यतीति चेत्तत्राह ॥ नेति ॥ न प्रशंसन्ति न श्लाघयन्ति । कुतो न प्रशंसन्तीत्यत आह ॥ येनेति ॥ वृत्तिर्जीवनं जीवनसाधनं विपद्यते नश्यति । तन्नाशे किन्नश्छिन्नमत आह ॥ दान-मिति ॥ लोके वृत्तिमत एव दानादिकं सिद्ध्यति । वृत्त्यभावे तु तदभावं स्यादिति भावः । तपश्चित्तैकाग््रयं कर्म पूर्तं तस्मात्सर्वस्वदानं न कर्तव्यमिति भावः ॥ ३६ ॥
लिङ्घेरी
ननु दानं यज्ञानां वरूथमिति श्रुत्या दानस्य विहितत्वात् । ‘लोके दातारो गुणसर्वभूतान्युपजीवन्ति दानेनारातिरपानुदन्तो दानेन द्विषन्तो मित्रा भवन्ति दाने सर्वं प्रतिष्ठितं तस्माद्दानं परं वदन्ति’ इति प्रशंसितदानकर्तुर्मे कथमनर्थप्राप्तिरित्यत आह ॥ न तद्दानमिति ॥ हे बले । येन दानेन वृत्तिः स्वजीवनमेव विपद्यते नश्यति तद्दानमुक्तश्रुत्यादयो न प्रशंसन्ति । किन्तु स्वोपजीवनाविरोधि दानमेव प्रशंसन्ति । यस्माद्वृत्तिमतः स्वजीवनोपायद्रव्यादिमत एव दानयज्ञतप आदिकर्म विधीयते ॥ ३६ ॥
धर्माय यशसेऽर्थाय कामाय स्वजनाय च ।
पञ्चधा विभजन् वित्तमिहामुत्र च मोदते ॥ ३७ ॥
पदरत्नावली
अर्थाय कोशवृद्धये, क्रियादिव्यवहाराय वा ॥ ३७ ॥
सत्यधर्मीया
दात्रेत्थं भवितव्यमित्याह ॥ धर्मायेति ॥ धर्माय पुण्यार्थं विप्र-प्रमुखेभ्यः । यशसे नटनर्तकादिभ्यः । कामाय स्वभोगार्थम् । स्वजनाय सतीसुतादिभ्यः । अर्थाय व्यवहारमुखेन तद्विवृद्धिसिद्धयेऽभीप्सितार्थान्तरार्थं वा । एवं पञ्चधा ॥ ३७ ॥
छलारी
ननु सर्वस्वं न दातव्यं चेत्तर्हि किं दातव्यमित्यत आह ॥ धर्मायेति ॥ धर्माय सत्पात्रदानादिपुण्यसम्पादनाय । यशसे मठादिभ्यो दानेन कीर्त्यर्थम् । अर्थाय कोशाभि-वृद्धये । कामाय विषयभोगार्थम् । स्वजनाय बन्धुभ्यो दानार्थम् । एवं वित्तं पञ्चधा विभजन्पुरुष इह लोकेऽमुत्र च परलोके मोदते । तथा चैवमार्जितं द्रव्यं पञ्चधा विभज्य पञ्चमांशं सत्पात्रे दद्यादिति भावः ॥ ३७ ॥
लिङ्घेरी
किञ्च यावज्जीवनसाधनद्रव्यमवशेष्यान्यद्रव्यस्य वक्ष्यमाणरीत्या दातुरेवैहिक-पारत्रिकसुखं भवति नान्यथेत्यतोऽपि स्वजीवनविरोधि दानमनुचितमित्याह ॥ धर्माये-त्यादिना ॥ धनीपुरुषो वित्तं स्वन्यायार्जितं द्रव्यं धर्माय पुण्याय यशसे कीर्त्यै अर्थाय स्वजीव-नोपायद्रव्याय कामाय विहितविषयभोगाय स्वशरीरसम्बन्धिजनाय चेत्येवं पञ्चधा विभागः कुर्वन्नेवेह लोकेऽमुत्र परलोके च मोदते सन्तुष्टो भवति ॥ ३७ ॥
अत्रापि बह्वृचैर्गीतं शृणुष्वासुरसत्तम ।
सत्यमोमिति यत् प्रोक्तं यन्नेत्याहानृतं हि तत् ॥ ३८ ॥
पदरत्नावली
किमन्यत् त्वदुक्तेः प्रमाणमित्याशङ्क्य बह्वृचां वाक्यं प्रमाणमित्याह– अत्रापीति ॥ बह्वृचैर् ऋग्वेदिभिः । किं तद्गीतमित्यर्थतः प्रतीकयति- सत्यमिति ॥ ओमिति यत् प्रोक्तम् । अर्थिनं प्रति तत् सत्यं तथेति संवेदनीयमित्यर्थः । नेति यदाह अर्थिनं प्रति तदनृतम् । हिशब्द उभयोर्विरोधमाह ॥ ३८ ॥
सत्यधर्मीया
न मयैवं शिष्य इति दययोच्यतेऽपि तु बृहतीसहस्र ऐतरेयके ऋग्वेदि-भिरावेदितं न स्ववृत्तिविच्छित्तिवितरणं कार्यमितीत्येतत्प्रतीकयति ॥ अत्रापीति ॥ बह्वृचैर्बहवो ऋचो येषां ते तथा । ऋक्पूरब्धूरित्यप्प्रत्ययः । ओमिति यदर्थिनं प्रति प्राह तत्सत्यं प्रोक्तम् । यन्नेत्याह तदनृतं प्रोक्तम् । ‘ॐमिति सत्यं वद नेत्यनृतं हि । तदेतत्पुष्पं फलम् । वाचो यत्सत्यं स ईश्वरो यशस्वी कल्याणकीर्तिर्भवतोः पुष्पं हि फलं वाचः सत्यं वदत्यथैतन्मूलम् । वाचो यदनृतम् । तद्यथा । वृक्ष आविर्मूलः शुष्यति स उद्वर्त्तत एवेमवानृतं वदन्नाविर्मूलमात्मानं करोति । स शुष्यति स उद्वर्त्तते । तस्मादनृतं न वदेत्तत्त्वेन । पराग्वा एतद्रिक्तमक्षरं यदेतदोम्’ इति । तद्यत्किञ्चोमित्याहात्रैवास्मै तद्रिच्यते । स यत्सर्वमोङ्कुर्याद् रिच्यादात्मानं स कामेभ्यो नालं स्याद् अथैतत्पूर्णमभ्यात्मं यन्नेति तत्सर्वं नेति ब्रूयादित्यपि काऽस्य कीर्तिर्जायेत । सैनं तत्रैव हन्यात्तस्मात्काल एव दद्यात्काले न दद्यात्तत्सत्यानृते मिथुनी करोति । तयोर्मिथुना-त्प्रजायते भूयान्भवति यो वैतां वाचं वेद । यस्या एष विकारः स सम्प्रति विदकारो वै सर्वा वाक्सैषा स्पर्शोष्मभिर्व्यज्यमाना बह्वी नानारूपा भवति तस्या इतीति । तद्भाष्ये च सम्यग्वक्तृत्व इत्यारभ्य विष्णुगुणब्रुवा इत्यन्तेन छायया तृतीयाध्यायाष्टादशखण्डोऽयं व्याख्यातो व्याकृतं तद्भाष्यटिप्पणकृद्भिरिति विशेषस्ततोऽनुसन्धेयः । विस्तरदरतो न वितायितः । अनृतं विना न सत्यसंपत्तिः कुतश्चिदपि भवतीति भावः ॥ ३८ ॥
छलारी
ननु सत्यमुक्तं त्वया । तथाऽपि प्रतिश्रुत्य न दास्यामीति कथमनृतं वक्तव्यम् । नानृतात्पातकं परमित्यनृतस्य महादोषोक्तेरिति चेन्न । वृत्तिसङ्कटादिष्वनृतस्यादोषत्वात् । किमत्र प्रमाणमित्यतो बह्वृचश्रुतिः प्रमाणमित्याह ॥ अत्रापीति ॥ अत्रापि सत्यस्य प्रायशो गुणत्वं कुत्रचिद्दोषत्वमनृतस्य प्रायशो दोषत्वं कुत्रचिददोषत्वमित्येवं सत्यानृतव्यवस्थायामित्यर्थः । बह्वृचैर्ऋग्वेदादिभिर्गतिमुक्तं शृृणु । बह्वृचश्रुत्यादि प्रथमं तावत् । ‘ॐमिति सत्यं वद नेत्यनृतं हि । तदेतत्पुष्पं फलं वाचं यत्सत्यं स ईश्वरो यशस्वी कल्याणकीर्तिर्भवतोः पुष्पं हि फलं वचः सत्यं वदत्यथैन्मूलं वाचो यदनृतम् । तद्यथा । वृक्ष आविर्मूलः शुष्यति स उद्वर्त्ततैवमेवानृतं वदन्नाविर्मूल आत्मानं करोति स शुष्यति स उद्वर्त्तते । तस्मादनृतं न वद’ इत्यनेन श्रुत्या सत्यानृतयो-र्लक्षणकथनपूर्वकं स्तुतिनिन्दाभ्यां सत्यं विहितमनृतं निषिद्धम् । तमिमं श्रुत्यर्थं दर्शयन्नाह ॥ सत्यमित्यादिना ॥ ओमिति यत्प्रोक्तमर्थिनं प्रति तत्सत्यमिति ज्ञेयम् । नेति यदाहार्थिनं प्रति तदनृतमिति ज्ञेयम् ॥ ३८ ॥
लिङ्घेरी
स्वोक्तार्थे ऐतरेयवाक्यं प्रमाणमित्याह ॥ अत्रापीति ॥ हे असुरेष्वत्युत्तम बले । त्वमत्रापि स्वजीवनोपयोग्यन्यद्रव्यदानमेव कर्तव्यमित्यत्रापि बह्वृर्चैर्ऋग्वेदिभिर्गीतमुक्तं वचनं शृृणुष्व । तदेकदेशग्रहणेन तदर्थविवरणेन च दर्शयति ॥ सत्यमोमिति ॥ याचकं प्रति त्वद्याचितं सर्वं दास्यामीत्येवमर्थकमोमिति यत्प्रोक्तं तत्सत्यमित्युच्यते । यत्तन्नास्तीति वक्ति तदनृतं ह्यत्र प्रसिद्धम् ॥ ३८ ॥
सत्यं पुष्पफलं विद्यादात्मवृक्षस्य जीवतः ।
वृक्षेऽजीवति तन्न स्यादनृतं मूलमात्मनः ॥ ३९ ॥
पदरत्नावली
कुतः ? अत्राह– सत्यमिति ॥ पुष्पमेव फलं यस्य तत् पुष्पफलम् । जीवतः प्राणधारकस्वात्माख्यवृक्षस्य सत्यं पुष्पफलं विद्यात् । पुष्पं च फलं च पुष्पफलमिति वा । यथाऽशुष्कस्य वृक्षस्य पुष्पफले स्यातां तथाऽऽत्मनः सत्यलक्षणे पुष्पफले विद्यादित्यर्थः । तदुक्तम् ‘पुष्पं हि फलं वाचः सत्यं वदति’ इति । आत्मवृक्षेऽजीवति शुष्कलक्षणमरणे सति तत् सत्यलक्षणपुष्पफलं न स्यात् । आत्मन आत्मवृक्षस्य अनृतं सर्वस्वादानलक्षणं मूलं स्थितिकारणम् । ‘अथैतन्मूलं वाचा यदनृतम्’ इति च ॥ ३९ ॥
सत्यधर्मीया
कुत एवमित्यतः सनिदर्शनमन्वयव्यतिरेकमुखेनाह ॥ सत्यमिति ॥ आत्मवृक्षस्य जीवतो जीवारण्यवृक्षस्य सत्यं तत्पुष्पफलम् । यथा जीवतो महीरुहस्य स्यातां फलपुष्पे । तथा जीववृक्षस्य सत्यं पुष्पं फलं च विद्याज्जानीयात् । सर्वे द्वन्द्वन्यायेन वा समाहारेण वोत्तरपदलोपसमासेन वोपपत्तिः । चेत्किमित्यत आह ॥ वृक्ष इति ॥ आत्मवृक्षे दात्राख्यजीववृक्षे अजीवति सर्वस्वार्पणेन वृत्तिविच्छित्त्या निरुपाये सति । तत् पुष्पफलरूपं सत्यं न स्यात् । आत्मनो जीवने तदनृतं मूलस्थितिहेतुः ॥ ३९ ॥
छलारी
तत्सत्यं किञ्चिदनृतं विना न सिद्ध्यतीत्याशयेनाह ॥ सत्यमिति ॥ जीवत आत्मवृक्षस्य देहाख्यवृक्षस्य सत्यं सत्यवचनं पुष्पफलं फलस्थानीयं विद्याज्जानीयात् । यद्यपि श्रुत्या वाचो वाक्यस्य सत्यं पुष्पं फलं चेत्युक्तम् । तथाऽपि वचो देहे निर्वाहाधीनत्वादात्म-वृक्षस्येत्युक्तम् । भवतु पुष्पफलस्थानीयं सत्यं ततः किमित्यत आह ॥ वृक्ष इति ॥ आत्म-वृक्षेऽजीवति सति शुष्कत्वरूपं मरणं प्राप्नुवति सति तत्पुष्पफलस्थानीयं सत्यं न स्यात् । देहश्चानृतेन रक्षणीय इत्याशयेनाह ॥ अनृतमिति ॥ अनृतं त्वात्मनो देहाख्यवृक्षस्य मूलं स्थितिहेतुः । अनेनानृतमपि न परित्याज्यमित्युक्तं भवति ॥ ३९ ॥
लिङ्घेरी
जीवतः प्राणधारिणो देहाख्यवृक्षस्योक्तविधं सत्यं पुष्पफलसाधनं जानीयात् । आत्मलक्षणे वृक्षेऽजीवति जीवनसाधनद्रव्यरहिते तत्सत्यलक्षणतज्जन्यपुष्पं फलं स्वर्गादिलक्षणं न स्यात् । यत आत्मनो जीववृक्षस्यानृतं स्वसर्वस्वदानानङ्गीकारवचनं वृक्षस्य मूलमिव मूलमभि-वृद्धिहेतुः । अनेन श्लोकेन ‘पुष्पं हि फलं वाचः सत्यं वदति । अथैतन्मूलं वाचो यदनृतम्’ इत्युपनिषद्भागो वक्ष्यमाणार्थे प्रमाणतया सूचितः ॥ ३९ ॥
यद् यथा१ वृक्ष उन्मूलः शुष्यत्युद्वर्ततेऽचिरात् ।
एवं नष्टानृतः सद्य आत्मा शुष्येन्न संशयः ॥ ४० ॥
पदरत्नावली
विपक्षे बाधकमाह– तद्यथेति ॥ तद्यथा तथोदाहरिष्यामः । उन्मूल उत्खातशिफः वृक्षः शुष्यति, अचिरादुद्वर्तते नश्यति च । एवं नष्टानृतः नष्टमूलः सद्यस्तत्क्षण- मेव शुष्येत् शुष्यति नश्यति । ‘तद्यथा वृक्ष आविर्मूलः शुष्यति स उद्वर्तत एवमेवानृतं वदन्ना-विर्मूलमात्मानं करोति स शुष्यति स उद्वर्तते तस्मादनृतं न वदेत्’ इति च प्रमाणवाक्यम् ॥४०॥
सत्यधर्मीया
यथोन्मूल उत्खातबेरः । वृक्षः शुष्यत्यचिरादुद्वर्तते नश्यति च । एवं नष्टं स्वस्थितिहेतुबीजस्थानीयमनृतं यस्य स तथा । आत्मा शुष्येत् । विना जीवनोपायं कृशः स्यादनन्तरमुद्वर्तेत नश्येत् । तत्र नालस्यमित्याह ॥ सद्य इति ॥ मन्दसन्देहं न कुर्वित्याह ॥ न संशय इति ॥ दानविषये संशयः समीचीनः शयः पाणिर्यस्य स नेत्यप्यर्थः । कुरु मां बहुदायिनः करमित्याद्युक्तिरपि स्वजीवनाविरोधिवितरितकरपरेति ज्ञेयम् । अतः पूर्वोत्तरमपरामृश्य कलितजलकलशस्तव शयो न सुशय इत्याशयः ॥ ४० ॥
छलारी
विपक्षे बाधकं दृष्टान्तेन स्पष्टयति । तदित्यस्य लिङ्गविपरिणामेन स इत्यर्थः । यथा सः प्रसिद्धवृक्ष उन्मूल उत्पाटितमूलः सन् शुष्यति । अचिरादेवोद्वर्तते पतति च । एवं नष्टं त्यक्तमनृतरूपं यस्य स आत्मा देहः शुष्येत् । न संशयः । भागवतेऽनृतं न त्याज्यमित्युच्यते श्रुतौ त्वनृतं न वदेत्यनृतं निषिद्ध्यते । तथा च कथमिमं श्रुतिरुक्तार्थे प्रमाणं भवेत् । उभयो-र्विरुद्धार्थकत्वादिति चेन्न । श्रुतौ नापद्यनृतविषये विषयत्वेन भागवतस्यापद्यनृतस्वीकार-विषयत्वेनोभयोरविरोधात् । तथा चानापद्यनृतनिषेधकर्त्र्या श्रुत्याऽऽपद्यनृतमभ्यनुज्ञातम् । कुत एवं कल्प्यत इति चेन्न । सत्यानृते मिथुनीकरोतीत्युपसंहारवाक्येऽनृतस्वीकारस्याप्यनुज्ञानात् । तमिमं श्रुत्यर्थं मनसि निधायैवं नष्टानृत इति वाक्यं प्रवृत्तम् । तस्य चायमर्थः । अनृतेनैव परिहरणीयायामापद्यात्मानष्टानृतश्चेच्छुष्येत् । अतः संकटेऽनृतं न दोष इत्युक्तं भवति ॥ ४० ॥
लिङ्घेरी
उत्खातितमूलवान्वृक्षो यथाऽऽशु शुष्यति शोषं प्राप्नोत्युद्वर्तते नष्टश्च भवति तथैवेदं नष्टानृत उक्तविधानृतमवदन् आत्मत्वाधिकारी शुष्येन्नश्येच्चात्र संशयो नास्ति । एवं नष्टानृतो यस्मात्तस्मादिति वा । अनेन पद्येन तद्यथा वृक्षोऽनिर्मूलः शुष्यति स्वोद्वर्तत एवमेवानृतं वदन्नानिर्मूलमात्मानं करोति । स शुष्यति स उद्वर्तत इत्युपनिषद्भागः सूचितः ॥ ४० ॥
पराग्रिक्तमपूर्णं वा अक्षरं यत् तदोमिति ।
तद् यत् किञ्चोमिति ब्रूयान्न स रिच्येत१ वै पुमान् ॥ ४१ ॥
पदरत्नावली
यत् तदोमित्यक्षरमेतदपूर्णं सर्वस्वं पराक् परविषयं रिक्तं पृथक्कृतम् अर्थितं सर्वस्वं दत्तमित्यर्थस्य वाचकं वदेदित्यर्थः । ‘पराग्वा एतद् रिक्तमक्षरं यदेतदोमिति’ इति च । फलितमाह– तदिति ॥ तत् तस्मात् पुमान् यत् किञ्च स्वजीवनातिरिक्तं धनम् ओं दास्यामीति ब्रूयाद् ब्रवीति स न रिष्येत वै न नश्यतीत्यन्वयः । ‘तद्यत् किञ्चोमित्याहात्रैवास्मै तद्रीच्यते’ इति । रिच्यते सम्पन्नो भवतीत्यर्थः ॥ ४१ ॥
सत्यधर्मीया
यदोमित्यक्षरं तत्पराक् । परं दूरमञ्चतीति तत्तथा । सर्वस्ववितरण-परमोमिति तद्दूरे कर्तव्यमित्यर्थः । रिक्तमिति श्रुतिपदं व्याकरोति ॥ अपूर्णं वा इति ॥ स्वजीवनोपायापायावहमिति अपूर्णम् । असर्वस्वविषयकमोमित्यक्षरं ब्रूयादिति । फलितमभि-लपति । यत्किञ्चिदस्वजीवनोच्छित्ति स्वल्पम् । ओमिति दास्यामिति ब्रूयाच्चेत् तेन पुमान् रिच्येतोद्रिच्येत । पुमानिति प्रस्तुतं पुरस्कृत्याधिकारीत्यर्थः । न स रिष्येतेति पाठे न नश्येदित्यर्थः ॥ ४१ ॥
छलारी
सर्वथा सत्यवचने देहो न निर्वहेदिति स्फुटीकर्तुं प्रथमं तावत्सत्यस्य दोषान्वक्तुं पराग्वा एतद्रिक्तमक्षरं यदेतदोमिति तद्यत्किंचोमित्याहात्रैवास्मै तद्रिच्यत स यत्सर्व-मोङ्कुर्याद्रिंच्यादात्मानं स कामेभ्यो नालं स्यादिति श्रुतिः प्रवृत्ता । तमिमं श्रुत्यर्थं दर्शयति ॥ परागिति ॥ यदोमित्येकाक्षरं दास्यामीत्यङ्गीकारं प्रतिपादकमक्षरं तत्पराक् स्वस्य प्रतिकूलम् । कुत इति शङ्कापरिहारार्थं प्राप्तं रिक्तमिति श्रुतिपदं व्याचष्टे ॥ अपूर्णं वेति ॥ स्वस्यापूर्णत्वा-पादकत्वादित्यर्थः । इति यद् यस्मात्पुमान्यत्किञ्चिद्वस्त्वर्थिने ॐ दास्यामीति ब्रूयात्तेन वस्तुना रिच्यते न्यूनो भवेत् । यदि भिक्षवे याचमानाय सर्वं सर्वस्वं ॐकुर्वन् दास्यामीत्यंगीकुर्यात्तर्ह्यात्मने कामेभ्यो नालं पर्याप्तो न भवति । सर्वेषां विषयाणां दत्तत्वात् । तस्य भोगो न सिद्ध्यतीत्यर्थः । जीवनोपायरहितो भवतीति भावः ॥ ४१ ॥
लिङ्घेरी
पराक् परविषये यदोमित्यक्षरं तदपेक्षितं सर्वं दास्यामीति रूपं तद्रिक्तमर्थशून्यं स्वजीवनद्रव्यदानस्योक्तरीत्याऽनर्थहेतुत्वेन बाधितत्वादत एवापूर्णं च स्वायोग्यदानस्यैवापूर्णत्वात् । यस्मादेवं स्वसर्वस्य दानमनुचितं तस्माद्यत्किञ्चिद्दास्यामीत्येवमर्थकमोमिति वाक्यं यो ब्रूयात् स पुमान्न रिष्येत नष्टो न भवेत् । वै प्रसिद्धम् । अनेन पराग्वा एतद्रिक्तमक्षरं यदेतदोमिति । तद्यत्किञ्चो-मित्याहात्रैवास्मै तद्रिच्यतेत्युपनिषद्भागः प्रमाणीकृतः ॥ ४१ ॥
भिक्षवे सर्वमोङ्कुर्वन्नालं कामेभ्य आत्मने ।
अथैतत् पूर्णमभ्यात्मं यच्च नेत्यनृतं वचः ॥ ४२ ॥
पदरत्नावली
तात्पर्यादुक्तं बाधकान्तरेण द्रढयति– भिक्षव इति ॥ भिक्षवे याचमानाय सर्वमोंकुर्वन् सर्वस्वं ददत् कामेभ्यो विषयाणां दत्तत्वादात्मने नालम् आत्मनो भोज्याभावेन पर्याप्तो न भवति नष्टो भवतीत्यर्थः । अथ तस्मान्नेत्यनृतं यद्वच एतदभ्यात्मम् आत्मानं प्रति पूर्णम् । सर्वस्वादाने स्वजीवनं सम्पन्नं भवतीत्यर्थः । अतिथिं प्रति सर्वं न दास्यामीति ब्रूयात् तर्हि आत्मानं पूर्णं सर्वस्वं जीवनं समृद्धं भवतीति पूर्वेण सम्बन्धः । पूर्णं सम्पन्नम् ॥ ४२ ॥
सत्यधर्मीया
सर्वथा सर्वस्वदानं दानवेन्द्राविहितमिति रीत्यन्तरेण दृढयति ॥ भिक्षव इति ॥ भिक्षवे याचकाय सर्वमोङ्कुर्वन्दाताऽऽत्मने आत्मनः स्वस्य कामेभ्यो हेतुभ्यो दत्तेभ्यः । आत्मने स्वदेहाय तत्पोषायेति यावत् । अलं शक्तो न भवति । अथ तस्मान्नेत्यनृतं वच एतदभ्यात्मम् । आत्मानमभि प्रति पूर्णं तत्त्वापादकम् । व्ययाभावादिति भावः ॥ ४२ ॥
छलारी
इदानीमनृतस्य गुणं वक्तुमथैतत्पूर्णमभ्यात्मं यन्नेति श्रुतिः प्राप्ता । तच्छत्यर्थं दर्शयति ॥ अथेति ॥ नेति यदनृतं वचोऽर्थिने न दास्यामीति निषेधवचनमेतदभ्यात्ममात्मानं प्रति पूर्णं पूर्णत्वसंपादकम् । अर्थव्ययाभावादिति भावः ॥ ४२ ॥
लिङ्घेरी
उक्तार्थे तात्पर्यं सूचितं पुनरुक्तमेव विशदयति ॥ भिक्षव इति ॥ भिक्षवे याचकाय सर्वस्वं दास्यामीत्यङ्गीकुर्वन्स्वकामेभ्यः । उपलक्षणमेतत् । अर्थादिभ्योऽलं समर्थो नात्मने स्वजीवनाय च पर्याप्तो न भवति । यस्मादथ तस्माद्यत्सर्वस्वं न ददामीत्यनृतं वच एत-दभ्यात्ममात्मनोऽभिवृद्धिकरम् । स्वजीवनोपायस्यावशेषितत्वात् । स कामेभ्यो नालं स्यादथै-तत्पूर्णमभ्यात्मं यन्नेति भागोऽनेन सूचितः ॥ ४२ ॥
सर्वं नेत्यर्थिनं ब्रूयात् स दुष्कीर्तिः श्वसन्मृतः ।
स्त्रीषु नर्मे विवाहे२ च वृत्त्यर्थे प्राणसङ्कटे ।
गोब्राह्मणार्थे हिंसायां नानृतं स्याज्जुगुप्सितम् ॥ ४३ ॥
॥ इति श्रीमद्भागवतेऽष्टमस्कन्धे अष्टादशोऽध्यायः ॥ ८–१८ ॥
पदरत्नावली
किञ्च नेत्यतिथिं प्रति ब्रूयादिति योगविभागः कर्तव्यः । तथाहि । अतिथिं प्रति किञ्च न दास्यामीति ब्रूयात् तर्हि स दुष्कीर्तिः श्वसन् जीवन् मृतश्च भवति । तदुक्तं भवति । याचकाय सर्वस्वदाने स्वजीवननाशः । किञ्चिदप्यदाने च अदृष्टविरोधेन दुष्कीर्त्या जीवन्मृतत्वं स्यात् । तस्माद् यावद् विहितं कर्तव्यमिति । तदुक्तम् ‘स यत् सर्वमाकुर्याद्रिच्यादात्मानं स कामेभ्यो नालं स्यादथैतत् पूर्णमभ्यात्मं यन्नेति । स यत् सर्वं नेति ब्रूयात् पापिकाऽस्य कीर्तिर्जायेत सैनं तत्रैव हन्यात् तस्मात् काल एव दद्यात् काले न दद्यात् तत् सत्यानृते मिथुनीकरोति तयोर्मिथुनात् प्रजायते भूयान् भवति यो वै तां वाचं वेद’ इति । आत्मानं रिच्यात् शून्यं कुर्यात् । ननु प्रतिश्रुताप्रदाने महान् दोषः स्यादित्याशङ्क्यैष न स्यादित्याह– स्त्रीष्विति ॥ नर्मे नर्मणि । हिंसायां त्रैवर्णिकविषयायाम् । ‘न स्त्रीषु राजन् न विवाहकाले प्राणात्यये सर्वधनापहारे’ इत्यादिसिद्धमेतत् ॥ ४३ ॥
॥ इति श्रीमद्भागवतटीकायां विजयध्वजतीर्थभिक्षुकृतायाम्
अष्टमस्कन्धे अष्टादशोऽध्यायः ॥
सत्यधर्मीया
न दास्यामीति वदेति कवेस् तात्पर्यं किमित्यतो वदति ॥ सर्वमिति ॥ यदि यः कोऽपि सर्वं न दास्यामीति ब्रूयात्स दुष्कीर्तिरपयशःपात्रः स्यात् श्वसन्नपि लोकदृष्ट्या जीवन्नपि मृतस्तत्प्रायः । अत्रेदमाकूतम् । कवेः सर्वस्ववितरणे स्वजीवहानिरवितरणे दुर्यश-साऽऽसादितेन जीवन्मृतता । तस्माद्यथा स्वजीवनं स्यात्स्यान्नार्थी सर्वथा प्रत्याख्यातस्तथा देयं वित्तमिति । तथाऽपि किञ्चित्संकुचितताऽनृत एवायातेति न च मननीयमेतदादावदोषत्वा-त्तस्येत्याह ॥ स्त्रीष्विति ॥ नर्मे नर्मकाले । विवाहे तत्काले । नर्मविवाहे इति पाठे तत्सहितो विवाहस्तत्कार्यद्वयेऽपि नर्मणा सहितो इविवाहः । इना स्वेच्छयाऽऽगतं विवाह इत्यैक पद्यं वा । वृत्त्यर्थे जीवनोपायविषये । वृत्तिनिवृत्तौ प्राप्यायामिति वा । प्राणसङ्कटे प्राप्ते । गवां ब्राह्मणानां त्रैवर्णिकानामर्थहिंसायां सर्वार्थानां चेत्येतद्धिंसायां प्रसक्तायाम् । अनृतं जुगुप्सितं निन्दितं न स्यात् । इत्येव नापि तु तद्विहितमेव । यथाह याज्ञवल्क्यः । ‘वर्णिनां हि वधो यत्र तत्र साक्ष्यनृतं वदेत्’ इति । अन्यत्रापि विवाहकाले रतिसम्प्रयोगे पञ्चानृतान्याहुरपातकानीत्युक्तेस्त्वं स्वजीवनोपायमनतिहायास्मै दिश । तेन नानृतवाक्त्वप्रयुक्तदोषवान् स्यादिति कविहृदयम्
॥ ४३ ॥
॥ इति श्रीसत्यधर्मयतिकृतायां भागवतटिप्पण्याम् अष्टमस्कन्धे अष्टादशोऽध्यायः ॥ ८–१८ ॥
छलारी
ननु तर्हीदमनृतमेव सर्वदा सेव्यं स्यादित्यतो नेति वक्तुं स यत्सर्वं नेति ब्रूयात्पापिकास्य कीर्तिर्जायेत सैनं तत्रैव हन्यादिति श्रुतिः प्राप्ता । तच्छ्रुत्यर्थमाह ॥ सर्वमिति ॥ यदि सर्वं न दास्यामीत्यर्थिने किमपि न दास्यामीत्यनृतं ब्रूयात्तर्हि स दुष्कीर्तिः श्वसन्मृतो जीवन्मृतश्च स्यात् । अयं भावः । याचकाय सर्वस्वदाने स्वजीवननाशः किञ्चिदप्यदानेऽदृष्टविरोधेनापकीर्त्या जीवन्मृतत्वं स्यात् ॥ तस्य यावद्विहितं कार्यमिति । तथा च श्रुतिः । तस्मात्काल एव दद्यान्नाकाले दद्यात्तत्सत्यानृते मिथुनीकरोतीति । अतो वृत्तिसङ्कटादिष्वनृतं न दोषायेत्युक्तमुपसंहरति ॥ स्त्रीष्विति ॥ स्त्रीषु प्रोत्साहनेन वशीकरणे नर्मे नर्मणि परिहासे विवाहे च वरादिस्तुतौ वृत्त्यर्थे जीवनोपायार्थे । सर्वधनापाहार इति यावत् । प्राणस्य संकटे चौर्यादिभिः स्वस्य वधलक्षणे । न स्त्रीषु राजन्नविवाहकाले प्राणात्यये सर्वधनापाहार इत्युक्तेः । गवानां ब्राह्मणानां चार्थे हितार्थे हिंसायां च । कस्यचित्त्रैवर्णिकस्य प्राप्तायां वर्णिनां हि वधो यत्र तत्र साक्ष्यनृतं वदेदिति याज्ञवल्क्योक्तेः । येषु स्थलेष्वनृतं जुगुप्सितं निन्द्यं न स्यात् । तस्मात्तवापि सर्वस्वदाने प्रतिज्ञया वृत्तिनाशस्य प्राप्तत्वात्सर्वं न दास्यामीत्यनृतं ब्रूहीति । अनृतदोषाभावादिति भावः ॥ ४३ ॥
॥ इति श्रीछलारी शेषाचार्यकृतायां श्रीभागवतटिप्पण्याम्
अष्टमस्कन्धे अष्टादशोऽध्यायः ॥ ८–१८ ॥
लिङ्घेरी
यया, स यत्सर्वमोङ्कुर्याद्रिच्यादात्मानमिति श्रुत्या यः सर्वस्वदानप्रतिज्ञाता स आत्मानं रिच्याच्छून्यं कुर्यादिति सर्वदानप्रतिज्ञा न युक्ता तथा याचकापेक्षितसर्वं नेत्युक्तिश्चेत्याह ॥ सर्वं नेति ॥ योऽर्थिनं याचकं प्रति तद्याचितं सर्वं नास्तीति ब्रूयात् स दुष्कीर्तिर्जीवन्मृतश्च भवतीत्यनेन ‘स यत्सर्वं नेति ब्रूयात्पापिकास्य कीर्तिर्जायेत सैनं तत्रैव हन्यात्तस्मात्काल एव दद्यात्काले न दद्यात्तत्सत्त्यानृते मिथुनीकरोति तयोर्मिथुनात् प्रजायते भूयान्भवति यो वै तां वाचं वेद’ इति भागः सूचितः । ननु तर्ह्येवमस्य विष्णुत्वमज्ञाय त्रीण्यपि पदानि न दास्यामीत्यनृत-वचनेनानृतात्पातकं परमिति स्मार्तं जुगुप्सितमनृतपापं स्यादित्याशङ्कमानं बलिं प्रति शुक आह ॥ स्त्रीष्वित्यादि ॥ हे बले । स्त्रीषु कामुकासु नर्मे परिहासवेलायां विवाहे च जीवनोपायप्रयोजने गोब्राह्मणादिहिंसायां यदनृतं तज्जुगुप्सितं नेति । न स्त्रीषु राजन्नविवाहकाले प्राणात्यये सर्वध-नापहार इत्यादिप्रमाणप्रसिद्धं यतोऽतस्तेऽत्र शङ्का मा भूदिति भावः ॥ ४३ ॥
**॥ इति श्रीलिङ्घेरी श्रीनिवासाचार्यकृतायां श्रीभागवतटिप्पण्यां **
अष्टमस्कन्धे अष्टादशोऽध्यायः ॥ ८–१८ ॥