इत्थं विरिञ्चिस्तुतकर्मवीर्यः प्रादुर्बभूवामृतभूरदित्याम्
॥ अथ सप्तदशोऽध्यायः ॥
श्रीशुक उवाच–
इत्थं विरिञ्चिस्तुतकर्मवीर्यः प्रादुर्बभूवामृतभूरदित्याम् ।
चतुर्भुजः शङ्खगदाब्जचक्रः पिशङ्गवासा नलिनायतेक्षणः ॥ १ ॥
पदरत्नावली
अमृतभूर् मुक्ताश्रयो विष्णुः ॥ १ ॥
सत्यधर्मीया
अमृतभूरमृतं भावयतीति स तथा । देवानाममृतप्राप्त्याश्रयो मुक्ताश्रयो वा । अब्जं कमलम् ॥ १ ॥
छलारी
इत्थं विरिञ्चेन स्तुतं कर्म चरितं देवकार्यक्षमं वीर्यं प्रभावश्च यस्य स हरि-रदित्यां प्रादुर्बभूवेति त्रयाणामन्वयः । कथम्भूतः । अमृतानां मुक्तानां भूराश्रयः । यद्वा । अमृतभूर्मृतिजन्मशून्य इत्यर्थः । शङ्खगदाब्जचक्राण्यस्य सन्तीति तथा । अर्शादित्वेन मत्वर्थीयेऽच् प्रत्ययः । अब्जं पद्मं स चासौ पिशङ्गवासाश्चेति तथा । नलिनवत्कमलवदायते विस्तृते ईक्षणे चक्षुषी यस्य सो नलिनायतेक्षणः । प्रादुरयं वोपसर्गपूर्वक वणिक् बभूव । भू सत्तायामिति लिट् ॥ १ ॥
लिङ्घेरी
एवं चतुर्मुखस्य स्तुत्या प्रसन्नस्य हरेरदित्यां प्रादुर्भावादिरूपं माहात्म्यं निरूप्यतेऽस्मिन्नध्याये । अमृतं पीयूषं मोक्षोऽमराणां भवश्च भवति प्रसन्नादस्मादित्यमृतभूरमृतानां मुक्तानां भूराश्रयश्च यश्च भगवान्नारायण इत्थमुक्तरीत्या विरिञ्चेन स्तुतान्युत्कृष्टतया कीर्तितानि कर्माणि चरितानि वीर्यं पराक्रमो यस्य स तथा सन् अदित्यां प्रादुर्बभूव । प्रादुर्भूतं विशिनष्टि ॥ चतुर्भुज इत्यादिना ॥ शङ्खचक्रगदापद्मसहितहस्तचतुष्टयवान् पीतांबरधारी कमलवद्विस्तृत-लोचनः ॥ १ ॥
श्यामावदातो झषराजकुण्डलत्विषोल्लसच्छ्रीवदनाम्बुजः पुमान् ।
श्रीवत्सवक्षा वलयाङ्गदोल्लसत्किरीटकाञ्चीगुणचारुनूपुरः ॥ २ ॥
पदरत्नावली
झषराजो मत्स्यश्रेष्ठः मकरस्तदाकरकुण्डलत्विषा ॥ २ ॥
सत्यधर्मीया
त्विषा स्वरोचिषा । झषराजो मीनेनः । उल्लसदिति वायसलोचनन्यायेन वलयाङ्गदकिरीटान्वयी । चार्विति काञ्चीगुणनूपुरान्वयीति ज्ञेयम् ॥ २ ॥
छलारी
झषराजो मकरस्तदाकारयोः कुण्डलयोस्त्विषा कान्त्योल्लसतीः श्रीर्वदनांबुजे यस्य सः । श्रीवत्सो वक्षसि यस्य सः । वलयैः कङ्कणैरङ्गदैश्च सहोल्लसन्ति किरीटादीनि यस्य सः । काञ्चीगुणः काञ्चीसूत्रम् ॥ २ ॥
लिङ्घेरी
श्यामवर्णेनावदातः शुद्धः । निर्दुष्टश्यामवर्ण इति यावत् । झषराजवन्मीन-श्रेष्ठवद्विद्यमानयोः कर्णाभरणयोस्त्विषा कान्त्योल्लसदतिप्रकाशनादिसंपदुपेतमुखकमलः पुंस्त्वशक्ति-मान् श्रीवत्साख्यचिन्हितवक्षस्थलः कटकबाहुभूषणैः प्रकाशमाननिर्दुष्टकिरीटबाह्वाभरणपादाभरण-युक्तः ॥ २ ॥
मधुव्रतव्रातविघुष्टया स्वया विराजितश्रीवनमालया हरिः ।
प्रजापतेर्वेश्मतमः स्वरोचिषा विनाशयन् कण्ठनिविष्टकौस्तुभः ॥ ३ ॥
पदरत्नावली
वेश्मतमः गृहान्धकारम् ॥ ३ ॥
सत्यधर्मीया
मधुव्रतानां व्रातेन सङ्घेन विघुष्टया स्वरन्त्या श्रीवनमालया विराजितः । शङ्खगदाब्जैः सहितं चक्रं यस्य सः । एवमुत्तरत्रापि । प्रजापतेः कश्यपस्य । वेश्मन-स्तमोऽन्धकारं विनाशयन् । कण्ठनिविष्टकौस्तुभ इदं भगवदवगमार्थविशेषणं न तु तत्प्रकाश-प्रकाश्यत्वज्ञापनार्थम् । भास्वत्कौस्तुभभासकमिति श्रीमदुक्तेः ॥ ३ ॥
छलारी
मधुव्रतानां भ्रमराणां व्रातेन विघुष्टया स्वकीयया श्रीमत्या वनमालया विराजितः प्रजापतेः कश्यपस्य वेश्मतमो गृहस्थान्धकारं स्वरोचिषा स्वदेहकान्त्या विनाशयन्कण्ठे निविष्ठो बद्धः कौस्तुभो यस्य सः ॥ ३ ॥
लिङ्घेरी
मधुव्रतानां भ्रमराणां व्रातेन समूहेन विघुष्टया ध्वनिमत्या स्वकीयया वैजयन्त्या श्रीवनमालया विराजितः प्रजापतेः कश्यपस्य वेश्मतमो गृहांधकारं स्वरोचिषा स्वाभाविकस्वकीय- देहकान्त्या विनाशयन् कण्ठनिविष्टः संस्थितः कौस्तुभो मणिर्यस्य स तादृशो हरिरदित्यां प्रादुरभूत्
॥ ३ ॥
दिशः प्रसेदुः सलिलाशयास्तदा प्रजाः प्रहृष्टा ऋतवो गुणान्विताः ।
द्यौरन्तरिक्षं क्षितिरग्निजिह्वा गावो द्विजाः सञ्जहृषुर्नगाश्च ॥ ४ ॥
पदरत्नावली
सलिलाशया ह्रदाः । अग्निजिह्वा देवाः ॥ ४ ॥
सत्यधर्मीया
सलिलाशया ह्रदादयः प्रसेदुरित्यन्वयः । ऋतवो वसंतादयो गुणान्विता युगपत् । द्यौरन्तरिक्षम् । द्युलोकान्तरिक्षलोकौ । क्षितिर्भूरग्निर्जिह्वा सोमरसास्वादनसाधनं येषां ते निमिषा । द्विजा विप्रा अण्डजाश्च । नगाः पर्वता वा वृक्षा वा । तत्तदभिमानिनो यत्रानु-पपत्तिस्तत्र ग्राह्याः । संजहृषुर्हृष्टाः ॥ ४ ॥
छलारी
प्रसेदुर्निर्मला बभूवुः । सलिलाशयाः सचितः सरांसि ऋतवः सर्वेऽपि वामनोत्त्पतिकाल एव गुणैः स्वकालोचितपुष्पफलैरन्विताः । अग्निजिह्वा देवा अग्निमुखेन हविर्भुज इत्यर्थः । नगाः पर्वताश्च जह्रषुर्हर्षं प्रापुः ॥ ४ ॥
लिङ्घेरी
तदा तत्प्रादुर्भावकाले प्राच्यादिदिशः प्रसेदुः प्रसन्ना बभूवुः । तथा सलिलाशया ह्रदादयः प्रसेदुः । प्रजा जनाः प्रहृष्टाः । ऋतवस्तद्दृतुस्थवृक्षादयो गुणैः फलपुष्पादिभिरन्विताः । द्यौः स्वर्गोऽन्तरिक्षं क्षितिर्भूमिः स्वर्गादिदेवता अग्निर्जिह्वास्थानी येषां ते देवा, गावो, द्विजा, नागाः पर्वतवृक्षादिचेतनाः सन्तुष्टा बभूवुः ॥ ४ ॥
श्रोणायां श्रवणद्वादश्यां मुहूर्तेऽभिजिति प्रभुः ।
सर्वे नक्षत्रताराद्याश्चक्रुस्तज्जन्म दक्षिणम् ॥ ५ ॥
पदरत्नावली
श्रोणायां श्रावणे मासि । अभिजिति मध्यन्दिने ॥ ५ ॥
सत्यधर्मीया
तज्जन्मसमयं शंसति ॥ श्रोणायामिति ॥ भाद्रपदे मासि श्रवणयुक्तायां द्वादश्याम् । तत्रापि श्रोणायां श्रवणस्थे चन्द्रे । तत्रापि श्रवणप्रथमांशेऽभिजिदिति नक्षत्रे अभिजिन्नामनक्षत्रमुपरिष्टादाषाढनामाद्यस्ताच्छ्रोणाया इति श्रुतेः । उत्तराषाढान्त्यपादद्वयं श्रवणाद्य- पादद्वयमभिजिन्नामेति मौहूर्तिकाः । यः प्रभुः प्रादुर्बभूव । सर्वे नक्षत्रताराद्या नक्षत्राण्यश्विन्यादीनि तारास्तारारमणशुक्राद्या एवाद्या येषां ते तथा । तज्जन्म दक्षिणम् । उदारम् । दक्षिणे सरले केदारावित्यमरः । चक्रुः ॥ ५ ॥
छलारी
प्रादुर्भावमाह ॥ श्रोणायामिति ॥ भाद्रपदशुद्धद्वादशी श्रवणद्वादशीति प्रसिद्धा । तस्यां श्रावणमासशुक्लद्वादश्यां श्रवणयोगस्य कदाऽप्यसम्भवाददर्शनाच्चेदं व्याख्यातम् । तत्राऽपि श्रोणायां चन्द्रे श्रवणनक्षत्रे स्थिते सतीत्यर्थः । तत्रापि श्रवणस्य प्रथमे अंशे अभिजिति तन्नामके नक्षत्रे उत्तराषाढान्त्यपादद्वयं श्रवणाद्यपादद्वयमभिजिन्नामोच्यते । एतच्च श्रुत्या दर्शितम् । अभिजिन्नामनक्षत्रे उपरिष्टादाषाढोनामवत्तायां श्रोणायामिति । एवं विशिष्टे मूहूर्ते प्रभुः प्रादुर्बभूवेत्यर्थः । किञ्च नक्षत्राण्यश्विन्यादीनि । ताराशब्देन ग्रहा गुरुशुक्रादयः । ते आद्या येषां ते । सूर्यादयोऽपि तस्य हरेर्जन्म दक्षिणमुदारं चक्रुः । ‘दक्षिणः सरलोदारे’ इत्यभिधानात् । जन्ममुहूर्ते गुणा बहवो बभूवुरित्यर्थः
॥ ५ ॥
लिङ्घेरी
श्रोणायां श्रावणमासि श्रवणनक्षत्रयुक्तद्वादश्यामभिजिति मुहूर्ते सूर्येऽन्तरिक्षमध्यगे काले प्रभुः सर्वजगदीशो वामनः प्रादुरभूत् । तस्य वामनस्य जन्मराशिं सर्वे नक्षत्रताराद्याः प्रदक्षिणीचक्रुः । अश्विन्यादिसप्तविंशति नक्षत्राणि, इतरास्ताराः ॥ ५ ॥
द्वादश्यां सविताऽतिष्ठन्मध्यंदिनगतो नृप ।
विजया नाम सा प्रोक्ता यस्यां जन्म विदुर्हरेः ॥ ६ ॥
पदरत्नावली
श्रवणद्वादश्यामतिष्ठत् तदा सा द्वादशी विजया नाम । अनेन संज्ञान्तरं विधीयते ॥ ६ ॥
सत्यधर्मीया
श्रवणद्वादशीति प्रसिद्धाया एव विद्वत्सम्मत्या नामान्तरमाह ॥ द्वादश्या-मिति ॥ यस्यां द्वादश्यां हरेर्जन्म । यस्यां च सविता मध्यन्दिनगतोऽतिष्ठत् सा विजया प्रोक्तेति विदुर्विद्वांसः । नाम प्रसिद्धमिदं प्रमेयमित्यर्थः ॥ ६ ॥
छलारी
विशेषान्तरमाह ॥ द्वादश्यामिति ॥ यस्यां द्वादश्यां हरेर्जन्मेत्युक्तम् । तज्जन्म तस्याहन्येवेति विदुर्ज्ञानिनस्तदा मध्यन्दिनगतः सविता तिष्ठन् सा च द्वादशी विजया नाम प्रोक्तेत्यन्वयः ॥ ६ ॥
लिङ्घेरी
हे नृप । यस्यां तिथौ हरेर्वामनस्य जन्म प्रादुर्भावं जना विदुर्दृष्टवन्तस्तस्यां द्वादश्यां सविता सूर्यो मध्यन्दिनगतोऽतिष्ठत् सा द्वादशी विजयानाम्नी प्रोक्ता ॥ ६ ॥
शङ्खदुन्दुभयो भेर्यो मृदङ्गपणवानकाः ।
चित्रवादित्रतूर्याणां निर्घोषस्तुमलोऽभवत् ॥ ७ ॥
पदरत्नावली
शङ्खादयः, नेदुरिति शेषः ॥ ७ ॥
सत्यधर्मीया
शङ्खादयो नेदुरिति शेषः ॥ ७ ॥
छलारी
शङ्खादयो ये नेदुस्तेषाम् अन्येषां च चित्रवादित्रतूर्याणां वाद्यविशेषाणां निर्घोष-स्तुमुलोऽतिशयितोऽभवत् ॥ ७ ॥
लिङ्घेरी
शङ्खादय आनकान्ता नेदुः । मृदंगा मुरजाप्रभेदा आनकाः पटाहः पणवश्चित्राणां वादित्राणां तूर्याणां कहलीति भाषितानां ध्वनिः संघटितोऽभवत् ॥ ७ ॥
प्रीताश्चाप्सरसोऽनृत्यन् गन्धर्वपतयो जगुः ।
तुष्टुवुर्मुनयो देवा मनवः पितरोऽग्नयः ॥ ८ ॥
सत्यधर्मीया
प्रीता इत्यभिप्रेतसर्वान्वयि ॥ ८ ॥
छलारी
देवा मुनय इत्यादयः कुसुमैः समवाकिरन्निति तृतीयेनान्वयः ॥ ८ ॥
लिङ्घेरी
तस्मिन्नुत्सवे प्रीता उर्वश्यादयोऽप्सरसः स्वर्गवेश्या नर्तनं चक्रुः । हाहा हूहू प्रभृतयो गन्धर्वश्रेष्ठा गानं चक्रुः । नारदादयो मुनयो ब्रह्मादयो देवाः स्वायंभुवादयो मनवोऽग्नि-ष्वात्तादयश्च पितर आहवनादयोऽग्नयः ॥ ८ ॥
सिद्धविद्याधरगणाः सकिम्पुरुषकिन्नराः ।
चारणा यक्षरक्षांसि सुपर्णभुजगोत्तमाः ॥ ९ ॥
पदरत्नावली
सुपर्णः, भुजगोत्तमाश्च ॥ ९ ॥
सत्यधर्मीया
सकिंपुरुषकिंन्नरा इत्यपरस्य पूर्वस्य वा विशेषणम् । सुपर्णोत्तमा भुजगोत्तमाश्च तुष्टुवुः । रक्षांसि सन्ति सन्ति ॥ ९ ॥
छलारी
किंपुरुषैः सहिताः किंनराश्च । सुपर्णाः पक्षिणो भुजगोत्तमाः ॥ ९ ॥
लिङ्घेरी
तथा सिद्धादयः पक्षिसर्पश्रेष्ठगरुडशेषादयश्च वामनं स्तुवन्तः ॥ ९ ॥
गायन्तोऽभिप्रशंसन्तो नृत्यन्तो विबुधानुगाः ।
अदित्या आश्रमपदं कुसुमैः समवाकिरन् ॥ १० ॥
सत्यधर्मीया
विबुधानुगा गन्धर्वाः ॥ १० ॥
छलारी
अभिप्रशंसन्तः स्तुवन्तो विबुधानुगा गन्धर्वाः ॥ १० ॥
लिङ्घेरी
विबुधा ज्ञानिनो नरा मनुष्याः केचिद्गायन्तः केचित्प्रशंसन्तः केचिन्नर्तनं कुर्वन्त आसन् । अदितेरपत्यान्यादित्या देवाः कश्यपस्याश्रमस्थानं पुष्पैः सेचितवन्तः ॥ १० ॥
दृष्ट्वाऽदितिस्तं निजगर्भसम्भवं परं पुमांसं मुदमाप विस्मिता ।
गृहीतदेहं निजयोगमायया प्रजापतिश्चाह जयेति विस्मितः ॥ ११ ॥
सत्यधर्मीया
निजगर्भात्स्वोदरात्सम्भवतीति स तथा तम् । ‘गर्भः कुक्षौ सन्धौ पनसकण्टक’ इति विश्वः । निजगर्भसम्भवं तमित्युक्तिप्रतीतशुक्लशोणितविकृतत्वं प्रतिषेधति ॥ गृहीतदेहं निजमाययेति । प्रजापतिः कश्यपश्च विस्मितः सन् । जयेत्याह ॥ ११ ॥
छलारी
निजगर्भे सम्भवो यस्य तं परं पुमांसं दृष्ट्वाऽदितिर्विस्मिताऽत्यन्तं मुदं प्राप । प्रजापतिः कश्यपोऽपि निजमायया स्वेच्छया गृहीतदेहं हरिं प्रति जय जयेति विस्मितः सन् ॥ ११ ॥
लिङ्घेरी
अदितिः स्वकीयोदरप्रादुर्भूतं परमपुरुषं वामनं दृष्ट्वा विशिष्टमन्दहासा सती मुदं हर्षमाप । प्रजापतिश्च कश्यपोऽपि स्वकीयाघटितघटनोपायभूतयेच्छयैव गृहीतवामनरूपं दृष्ट्वा विशेषमन्दहासः सन् हे वामन त्वं जयोत्कष्टो भवेत्याह ॥ ११ ॥
यत् तद् वपुर्भाति विभूषणायुधैरव्यक्तवद् व्यक्तमधारयद्धरिः ।
बभूव तेनैव स वामनो वटुः सम्पश्यतोर्दिव्यगतिर्यथा नटः ॥ १२ ॥
पदरत्नावली
यत् स्वभावतोऽव्यक्तवदव्यक्तमेव तद्वपुरनुकम्पया विभूषणायुधैर्व्यक्तं भाति, हरिस्तादृशं वपुरधारयत् । यद्वपुरव्यक्तवद्भाति हरिस्तद्वपुर्विभूषणायुधैर्व्यक्तमधारयदिति वा । स एव दिव्यगतिरनभिभूतज्ञानो हरिस्तेन विभूषणायुधविशिष्टेन रूपेण पित्रोः सम्पश्यतोः सतोर्वामनो वटुर्बभूवेत्यन्वयः । मूलरूपावताररूपयोरभेदज्ञापनायैवमुच्यते यथा नट इति तदभि-प्रायेण ॥ १२ ॥
सत्यधर्मीया
अव्यक्तवद् व्यक्तं व्यक्तिस्तदस्यास्तीति व्यक्तवद्व्यक्तिमत्तन्न भवतीति तदव्यक्तवत् । व्यक्तमिदानीम् । यदधारयद्यद्वपुर्विभूषणायुधैर्भाति तेनैव स वामनो विष्णु-र्दिव्यगतिरलौकिकमार्गोऽप्रतिहतज्ञानो वा । पित्रोः संपश्यतः सतोः । नटो यथा तथा वटुः खर्वो ब्रह्मचारी च बभूव । वामनो वटुवैकुण्ठखर्वदक्षिण इति दिग्गज इति विश्वः ॥ १२ ॥
छलारी
हरिः प्रादुर्भावानन्तरं किं कृतवानित्यत आह ॥ यत्तद्वपुरिति ॥ हरिरव्यक्त-वत्सर्वात्मनाऽव्यक्तसदृशम् । अव्यक्तमेवेति यावत् । स्वभावतोऽव्यक्तमेव यद्वपुर्भक्तानुकंपया व्यक्तमधारयदकरोत् । तद्वपुर्विर्भूषणायुधैर्व्यक्तं भाति शोभते । तेनैव विभूषणादिविशिष्टेन रूपेण दिव्यगतिरद्भुतचेष्टितो ऽनभिभूतज्ञानो हरिर्मातापित्रोः संपश्यतोः सतोर्वामनोऽणुपरिमाणो वटुर्ब्रह्मचारी बभूव । मूलरूपावतारैरभेदज्ञानाय तेनैवेत्याद्युक्तिः । एतदभिप्रायेणैव नट इति दृष्टान्तः । यथा नट पुरुष एक एव स्त्रीपुरुषाद्यनेकाकारान्दर्शयति तथा हरिरप्येक एवानेका-कारान्दर्शयति ॥ १२ ॥
लिङ्घेरी
हरिर्नारायणो यत्स्वस्य वपुर्ज्ञानानन्दात्मकं शरीरमव्यक्तमचलमित्यादिश्रुत्या सर्वथा ध्यानादौ कृतेऽप्यव्यक्तवत्दृष्ट्याद्यगोचरवत्प्रतीयते तद्ध्यानादौ स्वविषये कृते सति व्यक्तं प्रकाशश्च कर्मण्यभ्यासादित्याद्युक्तरीत्या भवतीति ज्ञापनायादितेः स्वप्रत्यक्षकाले विभूषणायुधै-र्व्यक्तमधारयत् । तदैवं रूपमनुपमर्द्य तेनैव रूपेणादितिकश्यपयोः पश्यतोः सतोः स वामनो वटुर्बभूव । तत्र दृष्टान्तमाह । दिव्या लोकविलक्षणा गतिः स्थितिर्यस्य स नटो यथा तथेति । अनेन मूलरूपावताररूपयोर्निर्विशेषाभेदः सूचितः ॥ १२ ॥
तं वटुं वामनं दृष्ट्वा मोदमाना महर्षयः ।
कर्माणि कारयामासुः पुरस्कृत्य प्रजापतिम् ॥ १३ ॥
सत्यधर्मीया
प्रजापतिं कश्यपम् ॥ १३ ॥
छलारी
महर्ष्यादयो वसिष्ठादयः कर्माणि जातकर्मादीनि प्रजापतिं कश्यपं पुरस्कृत्य
॥ १३ ॥
लिङ्घेरी
भृग्वादयो महर्षयो ब्रह्मचारिणं तं वामनं दृष्ट्वा मोदमानाः सन्तः प्रजापतिं कश्यपं पुरस्कृत्य जातकर्मादि कारयामासुः ॥ १३ ॥
तस्योपनीयमानस्य सावित्रीं सविताऽब्रवीत् ।
बृहस्पतिर्ब्रह्मसूत्रं मेखलां कश्यपो ददौ ॥ १४ ॥
सत्यधर्मीया
सविता सूर्यः । सावित्रीं स्वदेवताकां गायत्रीम् । अब्रवीदुक्तवान् । ब्रह्मसूत्रं यज्ञोपवीतम् । मेखलां मौञ्जीम् ॥ १४ ॥
छलारी
उपनीयमानस्य तस्य बटोः सविता सूर्यः सावित्रीं सवितृदेवातां गायत्री-मब्रवीदुपदिदेश । ब्रह्मसूत्रं यज्ञोपवीतं मेखलां मौंजीम् ॥ १४ ॥
लिङ्घेरी
सविता सूर्य उपनयनसंस्कारं प्राप्स्यमानस्य तस्य वामनस्य सावित्रीं गायत्री-मुक्तवान् । बृहस्पत्याचार्यो ब्रह्मसूत्रं यज्ञोपवीतं ददौ । कश्यपो मेखलां मौंजीं ददौ ॥ १४ ॥
ददौ कृष्णाजिनं भूमिर्दण्डं सोमो वनस्पतिः ।
कौपीनाच्छादनं माता द्यौश्छत्रं जगतः पतेः ॥ १५ ॥
सत्यधर्मीया
कृष्णाजिनम् । भूमिर्वनस्पतिः । सोमो दण्डम् । माताऽदितिः कौपीन-रूपमाच्छादनं च । कौपीनसहितमाच्छदनं वा । द्यौस्तदभिमानिनी छत्रम् ॥ १५ ॥
छलारी
भूमिर्भूदेवता । वनस्पतिर्वनानां पतिः सोमश्चन्द्रः । कौपीनमाच्छादनं च माता अदितिः । द्यौर्द्युलोकाभिमानिनी देवी ॥ १५ ॥
लिङ्घेरी
भूमिः कृष्णाजिनं ददौ । वनस्पतिः सोमश्चन्द्रो दण्डं ददौ । माताऽदिति-राच्छादनं कौपीनं ददौ । द्यौः स्वर्गाभिमानी देवश् छत्रं जगत्पतये वामनाय ददौ ॥ १५ ॥
कमण्डलुं वेदगर्भः कुशान् सप्तर्षयो ददुः ।
अक्षमालां महाराज सरस्वत्यक्षयात्मनः ॥ १६ ॥
सत्यधर्मीया
कमण्डलुं करकम् । वेदगर्भो ब्रह्मा । अक्षमालाम् । कमण्डलुः स्यात्करके । अक्षमालाऽक्षसूत्रे स्यादिति विश्वौ । सरस्वती ददौ ॥ १६ ॥
छलारी
वेदगर्भश्चतुर्मुखः । अक्षमालां जपमालाम् ॥ १६ ॥
लिङ्घेरी
वेदगर्भो ब्रह्मा कमण्डलुं ददौ । सप्तर्षयः कुशान्ददुः । हे महाराज । सरस्वती चतुर्मुखपत्नी क्षयरहितदेहस्य वामनस्याक्षमालां ददौ ॥ १६ ॥
तस्मा इत्युपनीताय यक्षराट् पात्रिकामदात् ।
भिक्षां भगवती साक्षादुमाऽदादम्बिका सती ॥ १७ ॥
पदरत्नावली
पात्रिकां भिक्षापात्रम् । उमा उमेति सस्यविशेषव्यावृत्यर्थमम्बिकेति
॥ १७ ॥
सत्यधर्मीया
यक्षराट् कुबेरः । पात्रिकां भिक्षापात्रम् । भगवती साक्षादुमा अम्बिका सती भिक्षामदात् । सती न काचित्कामिनीत्याह ॥ अम्बिकेति ॥ साऽपि न काचिदम्बै-वाम्बिकेति कस्यचिन्मातेत्याह ॥ साक्षादुमेति ॥ ओः रुद्रस्य मा संपद् यया सा । भिक्षामट-तस्त्र्यक्षस्य स्त्रीति कथं तद्ददावित्यतो भगवतीति । तदटनं नटनमिति भावः । स्वरूपनिरूपक-मितरद्विशेषणं वा ॥ १७ ॥
लिङ्घेरी
यक्षराट् कुबेर इत्युक्तप्रकारेणोपनयनसंस्कारवते तस्मै वामनाय पात्रिकां पात्रं भिक्षार्थं ददौ । सती निर्दुष्टा भगवत्यैश्वर्यादिगुणवती उमा वागभिमानितयोत्कृष्टज्ञानप्रदांऽबिका पार्वती भिक्षामदात् ॥ १७ ॥
स ब्रह्मवर्चसेनैव सभां सम्भावितो वटुः ।
ब्रह्मर्षिगणसञ्जुष्टामात्यरोचत मारिषः ॥ १८ ॥
पदरत्नावली
सभां प्राप्यात्यरोचत सभामरोचयदिति वा । मारिषः पूज्यः ॥ १८ ॥
सत्यधर्मीया
ब्रह्मवर्चसेन । ब्रह्महस्तीत्यच् आत्यरोचतात्यरोचयत् । मारिष आर्यः । मारिषेति पाठे परीक्षित्सम्बोधनम् । ‘मारिषश्चार्ये मारिषः कनकेऽम्बुधौ’ इति विश्वः ॥ १८ ॥
छलारी
एवं पूर्वोक्तप्रकारेण संभावितो मानितो मारिषः श्रेष्ठः स वटुर्ब्रह्मवर्चसेन कान्तिविशिष्टेन ब्रह्मर्षीणां गणेन संजुष्टां सभामतिक्रम्यारोचत ब्रह्मर्षिसभापेक्षयाऽतिशयेन शुशुभ इति भावः । सभामरोचयदिति वा ॥ १८ ॥
लिङ्घेरी
हे मारिष ज्ञानभक्त्यादिभिः श्रेष्ठ । राजन् । वटुः स वामन उक्तरीत्या ब्रह्मादिभिः संभावितो बहुमानितः सन् देवर्षिगणेन संसेवितां सभां स्वब्रह्मवर्चसेनैवाति-प्रकाशितमकरोत् । ‘आर्यस्तु मारिष’ इत्यमरः ॥ १८ ॥
समिद्धमाहितं वह्निं कृत्वा परिसमूहनम् ।
परिस्तीर्य समभ्यर्च्य समिद्भिरजुहोद् द्विजः ॥ १९ ॥
सत्यधर्मीया
आहितं विहितप्रकारेण स्थापितम् । एह्यग्ने मम सन्मुखो भवेत्यावाहितं वा । समिद्धं सम्यग्दीप्तं वह्निं कृत्वा, परिसमूहनम् अप्परिषेचनादिकं च कृत्वा । परिस्तीर्य कुशास्तरणं कृत्वा । द्विजः समिद्भिरजुहोत् हुतवान् ॥ १९ ॥
छलारी
आहितमग्न्युत्पत्तिविधिना समिद्धम् । परिसमूहनम् अग्नेः समन्तादुदकैः प्रोक्षणं कृत्वा दर्भैः परितः परिस्तीर्य परिस्तरणं कृत्वा । द्विजो बटुः ॥ १९ ॥
लिङ्घेरी
द्विज उपनयनं प्राप्तो वामन आहितमग्निं समिद्धं ज्वालयाऽभिवृद्धं कृत्वा परितः समूहनं च कृत्वा दर्भैः परिस्तीर्याक्षतादिभिः समभ्यर्च्य समिद्भिर्देवेभ्योऽवदानमकरोत् । ‘यदा लेलीयते ह्यर्चिः समिद्धे हव्यवाहने । तदाज्यभागावन्तरेणाहुतीः प्रतिपादयेत्’ इति श्रुत्या समिद्धस्याग्नेर्होमाधिकरणत्वं समिद्धोमो वटुरिति स्मृत्या ब्रह्मचारिणः समिद्द्रव्यावदानं चावगम्यते
॥ १९ ॥
श्रुत्वाऽश्वमेधैर्यजमानमूर्जितं बलिं भृगूणामुपकल्पितैस्ततः ।
जगाम तत्राखिलसारसम्भृतो भारेण गां सन्नमयन् पदे पदे ॥ २० ॥
पदरत्नावली
भृगूणामुपकल्पितैर् अश्वमेधैर् यजमानं यष्टारं बलिं श्रुत्वा तत्र जगाम । अखिलसारैर्गुणैः । सम्भृतः पूर्णः । भारेण गरिम्णा ॥ २० ॥
सत्यधर्मीया
यजमानं यजन्तमुपकल्पितैरश्वमेधैः । श्रुत्वा लोकमनुकुर्वन् । अखिल-सारसम्भृतः सकलबलपूर्णः भारेण गरिम्णा गां भूमिम् । पदे पदे प्रतिपदपातम् । संनमयन् निम्नां कुर्वन् । तत्र ततः श्रवणानन्तरम् उपनयनानन्तरं वा । जगाम ॥ २० ॥
छलारी
यदर्थं बटूर्बभूव तदाह ॥ श्रुत्वेत्यादिना यावत्समाप्तिः । भृगूणां भृगुभिरुप-कल्पितैः प्रवर्तितैरश्वमेधैर्यजमानं यजन्तमूर्जितं बलिं श्रुत्वा । तत्राखिलैः सारैर्गुणैः संभृतः पूर्णो वामनो जगाम । कथम्भूतः । भारेण गरिम्णा पदे पदे प्रतिपादविक्षेपे गां भूमिं नमयन् प्रदक्षिणीकुर्वन् ॥ २० ॥
लिङ्घेरी
वामनस्ततः स्वोपनयनानन्तरं शुक्रादिभिर्भृगुकुलोद्भवैरुपकल्पितैः प्रदर्शित-प्रकारैरश्वमेधैरैश्वर्यादुत्कृष्टं बलिं चक्रवर्तिनं यजमानं देवान्पूजयन्तं श्रुत्वा स्वयमखिलशब्देभ्यः सारैर् ऋगादिवेदैः सम्भृतः पूर्णस्तत्प्रवचनपटुः । ‘निगमवाक्पटवे बटवे नम’ इति स्मृतेः । अखिलेभ्यो ब्रह्मचार्यन्तरधृतसमस्तकौपीनादिब्रह्मचारिसाधनेभ्यः संभृतः पूर्णः, अखिलजगतः सारो ज्ञानानन्दादिगुणैः संभृतः पूर्णः सन् स्वगौरवेण गां भूमिं पदे पदे प्रतिपादविक्षेपं नमयन्निव जगाम ॥ २० ॥
तं नर्मदायास्तट उत्तरे बलेर्यज्ञर्त्विजस्ते भृगुवत्ससंज्ञिके ।
प्रवर्तयन्तो भृगवः क्रतूत्तमं व्यचक्षतारादुदितं यथा रविम् ॥ २१ ॥
पदरत्नावली
भृगुवत्सेति संज्ञा यस्य स तथा तस्मिन् ॥ २१ ॥
सत्यधर्मीया
भृगुवत्सेति संज्ञा नाम यस्य तस्मिन् । येऽत्र बलेः क्रतूत्तमं प्रवर्तयन्तो भृगवस्ते आराद्दूरे उदितं रविं यथा तथा व्यचक्षतापश्यन् ॥ २१ ॥
छलारी
नर्मदाया नद्या उत्तरे तटे भृगुवत्ससंज्ञके क्षेत्रे क्रतूत्तमं प्रवर्तयन्तो ये बलेर्ऋत्विजो भृगव आसंस्ते तं बटुं व्यचक्षतापश्यन् । कमिव । आरात्समीप एवोदितं रविं यथा सूर्यमिव ॥ २१ ॥
लिङ्घेरी
भृगुवत्ससंज्ञिके नर्मदाया उत्तरे तीरे क्रतूत्तममश्वमेधं प्रवर्तयन्तो बलेर्यज्ञर्त्विजो भृगवश्च तं वामनमारात्समीप उदितम् उदयगतं सूर्यं यथा तथा सम्यगपश्यन् । सप्ततन्तुर्मखः क्रतुः । आराद्दूरसमीपयोरिति चामरः ॥ २१ ॥
तत्रर्त्विजो यजमानः सदस्या हतत्विषो वामनतेजसा नृप ।
सूर्यः किमायात्यथवा विभावसुः सनत्कुमारोऽथ दिदृक्षया क्रतोः ॥ २२ ॥
सत्यधर्मीया
यज्ञर्त्विज इति पाठे यज्ञे ऋत्विक्त्वेन वृता इत्यर्थः । हतत्विषो गतकान्तयः । विभावसुरग्निः ॥ २२ ॥
छलारी
यज्ञर्त्विज इति पाठे यज्ञे ऋत्विग्भूता इत्यर्थः । ऋत्विज एव सदस्या नामकाः केचन यज्ञे आवश्यकाः सन्ति ते ऋत्विजः । य एष सूर्यः किलोत वा विभावसुरग्निः । अथवा सनत्कुमारो हरिः क्रतोर्यज्ञस्य दिदृक्षया द्रष्टुमिच्छयाऽऽयातीति । व्यतर्कयन्निति शेषः ॥ २२ ॥
लिङ्घेरी
हे नृप । तत्र यज्ञशालायां तस्मिन्काले विद्यमाना ऋत्विजो यजमानो बलिरन्ये च सभास्थिता वामनशरीरकान्त्या तिरस्कृतकान्तयो बभूवुः । अनन्तरं सूर्यः क्रतोरश्वमेधस्य दिदृक्षयाऽऽयाति । विभावसुरग्निः क्रतुदर्शनेच्छयाऽऽयाति । अथवा । सनत्कुमारो मुनिरायाति । ‘चित्रभानुर्विभावसुः’ इत्यमरः ॥ २२ ॥
इत्थं सशिष्येषु भृगुष्वनेकधा वितर्क्यमाणो भगवान् स वामनः ।
सदण्डछत्रं सजलं कमण्डलुं विवेश बिभ्रद् हयमेधवाटम् ॥ २३ ॥
पदरत्नावली
वाटं शालाम् ॥ २३ ॥
सत्यधर्मीया
बहुधा सूर्यादित्वेनानेकधा । वितर्क्यमाण ऊह्यमानः । अनुवादेन वादेऽप्यायाति किमित्यतर्कयन्निति शेषः । कर्तव्य इत्यसूचि । हयमेधवाटमश्वमेधशालाम् । हयमेधस्य वाटो वृत्तिर्यत्र तत्स्थलं वा । ‘वाटौ वृत्तौ च मार्गे च’ इति विश्वः ॥ २३ ॥
छलारी
सशिष्येषु भृगुषु । भृगुभिरिति यावत् । इत्थं पूर्वोक्तप्रकारेणानेकधा वितर्क्यमाणो विचार्यमाणः स वामनः । दण्डेन सहितं छत्रं कमण्डलुं बिभ्रद्वामनो हयमेधवाटमश्वमेधमण्टपं विवेश ॥ २३ ॥
लिङ्घेरी
एवं सशिष्येण बलिना सहितैर्भृगुभिर्बहुप्रकारेणोह्यमानो भगवान्स वामनो दण्डेन सहितं छत्रमुदकसहितं कमण्डलुं च बिभ्रत्सन् अश्वमेधशालां प्रविवेश । ‘वाटं शाला वाटिका च’ इति नाममहोदधौ ॥ २३ ॥
मौञ्ज्या मेखलयाऽऽवीतमुपवीताजिनोत्तरम् ।
जटिलं वामनं विप्रं मायामाणवकं हरिम् ॥ २४ ॥
प्रविष्टं वीक्ष्य भृगवः सशिष्यास्ते सहाग्निभिः ।
प्रत्यगृह्णन् समुत्थाय संक्षिप्तास्तस्य तेजसा ॥ २५ ॥
पदरत्नावली
आवीतं परिवीतम् ॥ २४ ॥
सत्यधर्मीया
मुञ्जाकृता मौंजी तया मेखलया कांच्या । आवीतं कटितटे । उपवीतं यज्ञोपवीतं तेन सहितं कृष्णाजिनमैणेयं चर्म । तदेवोत्तरमुत्तरीयं यस्य स तम् । वामनं तन्नामानम् । ह्रस्वमिति वा । माययैव माणवकम् । सशिष्याः सबलयः । तस्य तेजसा संक्षिप्ताः । अग्निभि-राहवनीयादिभिः सह समुत्थाय प्रत्यगृह्णन् । इत आगन्तव्यमिति स्वीकृतवन्तः ॥ २४-२५ ॥
छलारी
मौंज्या मौंजनामकतृणनिर्मितयाऽऽवीतं कटिदेशे परिवीतमुपवीतवद्धृतमजिनं कृष्णसारचर्म वा उत्तरम् उत्तरीयवस्त्रं यस्य तम् । उपवीताजिनोत्तरमुपवीतमजिनाख्योत्तरीयं च यस्य तमिति वा । जटिलं जटाधारिणं मायया स्वेच्छया माणवकं बटुभूतं हरिम् । प्रविष्टं वीक्ष्य सशिष्या भृगवोऽग्निभिराहवनीयगार्हपत्यदक्षिणाग्निभिः सह समुत्थाय प्रत्यगृण्हन् अत्रागच्छत्विति स्वीकृतवन्तः । आहृतवन्त इति यावत् । कथम्भूताः । तस्य बटोस्तेजसा संक्षिप्ता अभिभूताः सन्तः ॥ २४-२५ ॥
लिङ्घेरी
भृगवः शिष्येण बलिना सहितास्ते, मुञ्जानिर्मितकटिसूत्रपरिवेष्टित मुपवीत-कृष्णाजिनाभ्यामुत्कृष्टं जटायुक्तं स्वेच्छया ब्रह्मचारिणं बलिवञ्चनेच्छया ब्रह्मचारिवेषं ब्राह्मणरूपं वामनं हरिं यज्ञशालायां प्रविष्टं दृष्ट्वा वामनस्य ब्रह्मवर्चसेन तिरस्कृताः सन्त आहवनीयाद्यग्निभिः सह वामनं प्रत्युत्थानं कृत्वा स्वीकृतवन्तः ॥ २४-२५ ॥
यजमानः प्रमुदितो दर्शनीयं मनोरमम् ।
रूपानुरूपावयवं तस्मा आसनमाहरत् ॥ २६ ॥
सत्यधर्मीया
रूपानुरूपावयवम् । रूपस्याकारस्यानुरूपा अवयवा यस्य तम् । मनोरमं यजमानो वीक्ष्येत्यनुकर्षः । तस्मै दर्शनीयं मनोहरमासनमाहरदानीतवान् । ददाविति यावत्
॥ २६ ॥
छलारी
यजमानो बलिर्दर्शनीयं सुन्दरं मनोरमम् । मनःसुखकररूपस्य देहाकारस्यानुरूपा अनुकूला अवयवा हस्तादयो यस्य तम् । दृष्ट्वेति शेषः ॥ २६ ॥
लिङ्घेरी
यजमानो बलिर्दर्शनीयमतिसुन्दरमत एव मनःसन्तोषजनकं स्वाकारानुगुण- करचरणाद्यवयवं वामनं दृष्ट्वाऽतिहृष्टः सन् तस्मै वामनायासनं ददौ ॥ २६ ॥
स्वागतेनाभिनन्द्याथ पादौ भगवतो बलिः ।
अवनिज्यार्चयामास मुक्तसङ्गं मनोरमम् ॥ २७ ॥
सत्यधर्मीया
मुक्तसङ्गं विवाहादिविरहात् ॥ २७ ॥
छलारी
अयमासने उपवेशानन्तरं स्वागतेन सकुशलं किम् ? एमेवंरूपेणाभिनन्द्यापृच्छ््य सन्तोष्य भगवतः पादाववनिज्य प्रक्षाल्य, मुक्तः सङ्गो विषयासक्तिर्येन तं विरागिणमर्चयामास
॥ २७ ॥
लिङ्घेरी
अथ बलिर्वामनं प्रति त्वया सम्यगागतमिति स्वागतवचनेन वामनं सन्तोष-यित्वा स्वयं च सन्तुष्टः सन्ननन्तरं भगवतो वामनस्य पादौ शुद्धोदकेन प्रक्षाल्य साधनान्तरैः पूजयामास । मुक्तः सङ्गः यस्य तम् । दर्शनीयं मनोरममिति वामनविशेषणद्वयेन विषयवैराग्य-ब्रह्मवर्चसोः पूज्यताहेतुता सूच्यते । स्पष्टयिष्यते चैतद्वामनेन यदृच्छालाभतुष्टस्य तेजो विप्रस्य वर्धते इति ॥ २७ ॥
तात्पादशौचं कलिकल्मषापहं स धर्मविन्मूर्ध्न्यदधात् सुमङ्गलम् ।
यद् देवदेवो गिरिशश्चन्द्रमौलिर्दधार मूर्ध्ना परया च भक्तया ॥ २८ ॥
सत्यधर्मीया
तदवनेजनजलमाहात्म्यमाह ॥ यत्पादशोचमिति ॥ धर्मवित्स बलिर् मूधर्ि्न सुमङ्गलमदधात् ॥ नैतच्चित्रमित्याह । देवदेव इन्द्रादिस्तुत्यश्चन्द्रमौलिर्गिरिशो हिमवत्सुखदः परया भक्त्या मूर्ध्ना यद्दधार तत्तादृशम् ॥ २८ ॥
छलारी
धर्मविद्विप्रप्रक्षालनोदकधारणजन्यपुण्यवित्स बलिः कलेः कल्मषान् दोषान् अपहन्ति नाशयतीति तथा सुमङ्गलम् । तस्य बटोः पादशौचं पादोदकं मूध्नर्यदधात् । कीदृशं तत् । देवानां देवः, चन्द्रो मौलौ यस्य स गिरीशश्च महादेवोऽपि परमया भक्त्या यत्पादोदकं गङ्गारूपं मूर्ध्ना दधार तादृशमित्यर्थः ॥ २८ ॥
लिङ्घेरी
ब्राह्मणपूजादिधर्मज्ञः स बलिः कलिकालप्रसक्तपापनाशकं तस्य वामनस्य पादशौचं प्रक्षालनोदकं यतोऽत्यन्तमङ्गलकरमतः शिरसा दधार । हरिपादोदकस्य कलिकल्मष-निवर्तकत्वे मङ्गलदत्वे च पुरा भगीरथप्रार्थितश्चन्द्रः कलारूपो मौलौ शिरसि यस्य स इन्द्रादिदेवो गिरिशो रुद्रो यद्धरिपादोदकं परया भक्त्या शिरसा दधारेति हरिपादोदकस्योक्तफलकत्वे संप्रदायो दर्शितः । स्मर्यते च । ‘यच्छौचनिःसृतसरित्प्रवरोदकेन तीर्थेन मूध्नर्यधिधृतेन शिवः शिवोऽ-भूत्’ । ‘अथाऽपि यत्पादनखावसृष्टं जगद्विरिञ्चोपहृतार्हणांभं शेषं पुनाति’ इति । अत्र पर्वते शयानदेवतान्तरव्यावृत्त्यर्थं चन्द्रमौलिरिति रुद्रविशेषणं ज्ञेयम् ॥ २८ ॥
बलिरुवाच–
स्वागतं ते नमस्तुभ्यं ब्रह्मन् किं करवाम ते ।
ब्रह्मर्षीणां तपः साक्षान्मन्ये त्वाऽऽर्य वपुर्धरम् ॥ २९ ॥
सत्यधर्मीया
ते स्वागतमस्तु । तुभ्यं नमः । ते किं करवाणीत्यन्वयः । ब्रह्मर्षीणां साक्षात्तप एव । आर्य । तु विशेषतो वपुर्धरम् एतच्छरीरस्य धरं मन्ये । त्वा त्वाम् । तप एव साक्षाद्वपुर्धरं मन्य इति वा ॥ २९ ॥
छलारी
हे ब्रह्मन् । ते स्वागतं कुशलं किम् । हे आर्य । त्वां साक्षात्प्रत्यक्षं ब्रह्मर्षीणां तप एव मन्ये । कथम्भूतम् । तपो वपुर्धरं मूर्तिमत् ॥ २९ ॥
लिङ्घेरी
बलिनोक्तस्वागतवचनादिप्रकारमाह शुकः ॥ बलिरुवाचेत्यादिना ॥ हे ब्राह्मण । ते त्वया सुष्ट्वागतं तुभ्यं नमोऽस्तु । वयं ते किं करवाम? कान्त्यादिना श्रेष्ठ-शरीरधारिणं त्वा त्वां ब्रह्मर्षीणां साक्षात्तपोरूपं मन्ये ॥ २९ ॥
अद्य नः पितरस्तृप्ता अद्य नः पावितं कुलम् ।
अद्य स्विष्टः क्रतुरयं यद् भवानागतो गृहान् ॥ ३० ॥
सत्यधर्मीया
अयं क्रतुः स्विष्टोऽङ्गसाकल्येनेष्टः । सर्वत्रापि निमित्तं यद्भवानागतो गृहानिति ॥ ३० ॥
छलारी
अयं क्रतुरद्य स्विष्टः सम्यगिष्टः । अत्र सर्वहेतुमाह ॥ यदिति ॥ यद्भवान्नो गृहान् प्रत्यागतोऽत इत्यर्थः ॥ ३० ॥
लिङ्घेरी
हे ब्रह्मन् । यस्माद्भवानद्यास्मद्गृहान्प्रत्यागतस्तस्मादद्य नोऽस्माकं पितरस्तृप्ताः । अस्माभिर्दीयमानकव्ये विषयेऽलम्बुद्धिमन्तो जाताः । अद्य नः कुलं पवित्रीकृतम् । अद्याय-मश्वमेधक्रतुः सुष्ट्विष्टः कृतः ॥ ३० ॥
अद्याग्नयो मे सुहुता यथाविधि द्विजात्मज त्वच्चरणावनेजनैः ।
हतांहसो वार्भिरियं च भूमिरद्धा पुनीता तनुभिः पदैस्तव ॥ ३१ ॥
पदरत्नावली
तनुभिः रेणुभिः कोमलैर्वा ॥ ३१ ॥
सत्यधर्मीया
त्वच्चरणावनेजनैर्वार्भिरुदकैस्तनुभिरणुभिः । तनुः काये कृशे लये च विरलेऽपि च वाच्यवदिति विश्वः । पदैस्तद्विन्यासैर्भूमिरद्धा सम्यक् पुनीता पवित्रिता ॥ ३१ ॥
छलारी
हे द्विजात्मज । त्वच्चरणयोरवनेजनैः पादप्रक्षालनरूपैर्वार्भिर्जलैर्हतानि नष्टा-न्यंहांसि दुरितानि यस्य तस्य मेऽग्नयो यथाविध्यद्य सुहुताः । अहो बटु । इयं च भूस्तनुभिः कोमलैर्वा तव पादैः पादस्पर्शेनेत्यर्थः । पुनीता पवित्रीकृताऽभूत् ॥ ३१ ॥
लिङ्घेरी
हे ब्राह्मणपुत्र । अद्य त्वत्पादप्रक्षालनोदकैर्विनष्टपापस्य मेऽग्नयो विधिमनति-क्रम्य सम्यगवदानयुक्ता जाताः । त्वत्पादप्रक्षालनवार्भिरुदकैरियं संनिहिता भूमिः पवित्रीकृता । तथा त्वदाश्रममारभ्येतत्स्थानपर्यन्तं च भूमिस्तनुभिरल्पैस्तव पादैः पादप्रक्षेपजपादचिन्हैरद्धा प्रत्यक्षं यथार्थेन पुनीता पवित्रीकृता । अंहो दुरितदुष्कृतम् । अद्धा प्रत्यक्षसत्ययोरित्यमरः । दभ्रं कृशं तन्विति च ॥ ३१ ॥
॥ इति श्रीलिङ्घेरी श्रीनिवासाचार्यकृतायां श्रीभागवतटिप्पण्याम्
अष्टमस्कन्धे सप्तदशोऽध्यायः ॥ ८–१७ ॥
यद् यद् वटो वाञ्छसि तत् प्रतीच्छ मे त्वामर्थिनं विप्रसुतानुतर्कये ।
गां काञ्चनं गुणवद् वाऽथ धाम मृष्टं तथाऽन्नमुत वा विप्रकन्याम् ।
ग्रामान् समृद्धान् तुरगान् गजान् वा रथांस्तथार्हत्तम संप्रतीच्छ ॥ ३२ ॥
॥ इति श्रीमद्भागवते अष्टमस्कन्धे सप्तदशोऽध्यायः ॥
पदरत्नावली
प्रतीच्छ गृहाण ॥ ३२ ॥
॥ इति श्रीमद्भागवतटीकायां विजयध्वजतीर्थभिक्षुकृतायाम्
अष्टमस्कन्धे सप्तदशोऽध्यायः ॥
सत्यधर्मीया
प्रतीच्छ प्रतिगृहाण । यद्यदिति स्वोक्तं विविच्याह ॥ गामित्यादिना ॥ विप्रसुतेति दानपात्रतामाह । गुणवदिति धामविशेषणम् । अन्तःसाहितीसहितमिति तदर्थः । मृष्टमन्नं शाश्वतिकं समीचीनं च । कन्यां पुनरपि सम्प्रतीच्छेत्यनेन न सन्देहः कार्य इति ध्वनयति ॥३२॥
॥ इति श्रीसत्यधर्मयतिकृतायां भागवतटिप्पण्याम् अष्टमस्कन्धे सप्तदशोऽध्यायः ॥
छलारी
हे बटो । त्वं यद्यत्त्कामं वाञ्छसि तत्तत्कामं मे मत्सकाशात्प्रतीच्छ गृहाण । हे विप्रसुत । त्वामर्थिनमर्थापेक्षयाऽऽगतमनुतर्कये ऊहयामि । अतो गां धेनुं भूमिं वा । गुणा धान्यादि-वस्तून्यस्मिन्सन्तीति गुणवत्सर्वसम्पत्समृद्धमित्यर्थः । धाम गृहं वा मृष्टं प्रशस्तमन्नं वा । हे विप्र । विवाहार्थं कन्यां वा समृद्धग्रामादीन्वा । हे अर्हत्तम पूज्यतम । तं प्रतीच्छ स्वीकुरु ॥ ३२ ॥
**॥ इति श्रीछलारी शेषाचार्यकृतायां श्रीभागवतटिप्पण्यां **
अष्टमस्कन्धे सप्तदशोऽध्यायः ॥ ८–१७ ॥