१६ षोडशोऽध्यायः

इत्युक्ता साऽदिती राजन् स्वभर्त्रा कश्यपेन वै

॥ अथ षोडशोऽध्यायः ॥

श्रीशुक उवाच–

इत्युक्ता साऽदिती राजन् स्वभर्त्रा कश्यपेन वै ।

अन्वतिष्ठद् व्रतमिदं द्वादशाहमतन्द्रिता ॥ १ ॥

पदरत्नावली

अव्यक्तस्वभावोऽपि भक्त्या भजमानस्य पुंसः प्रत्यक्षो भवति भगवा-नित्येतमर्थं दर्शयत्यध्यायद्वयेन तत्र अदित्या भक्त्या व्रताचरणप्रकारं वक्ति– इत्युक्तेति ॥१॥

सत्यधर्मीया

प्रयत्नानां सहस्रेणाव्यक्तस्वभावो भक्त्या व्यक्तीभवति भगवानित्येतमर्थं दर्शयत्यध्यायद्वयेन । तावत्तत्र भर्त्रा बोधिताऽदितिर्व्रतं चचार तथेत्याह ॥ इत्युक्तेति ॥ अतन्द्रिताऽनालस्या ॥ १ ॥

छलारी

अदित्या पयोव्रताचरणं वक्ति ॥ इत्युक्तेति ॥ चिन्तयन्ती स्मरन्तीदं पयोव्रतमन्वतिष्ठद् आचरदिति सम्बन्धः । अतन्द्रिताऽऽलस्यरहिता ॥ १ ॥

लिङ्घेरी

स्वानुग्रहमन्तरेणाधिकारिप्रयत्नेनाप्रत्यक्षोऽपि भगवान्नारायणस्तद्योग्य-कालेऽधिकारिभक्त्यादिना प्रसन्नो भूत्वा प्रत्यक्षो भवतीत्यादि हरिमहिमाऽत्राध्यायद्वयेन प्रतिपाद्यते । तत्रादावदितेः पयोव्रताचरणप्रकारमाह ॥ इत्युक्तेत्यादिना ॥ हे राजन् । साऽदितिः स्वभर्त्रा कश्यपेनेत्युक्ता सत्यतन्द्रिताऽऽलस्यरहिता च सती द्वादशदिनपर्यन्तमिदं पयोव्रतमन्वतिष्ठत्कृतवती । वा इति उक्तार्थे प्रमाणप्रसिद्धिं सूचयति ॥ १ ॥

चिन्तयन्त्येकया बुद्ध्या भगवन्तमधोक्षजम् ।

प्रगृह्येन्द्रियदुष्टाश्वान् मनसा बुद्धिसारथिः ॥ २ ॥

सत्यधर्मीया

दुष्टाश्वांस्तानिव कुपथगामिनः । मनसा प्रगृह्य निगृह्य । बुद्धिः सारथिर्यन्ता यस्याः सा ॥ २ ॥

छलारी

तदेव विवृणोति ॥ प्रगृह्येति ॥ प्रगृह्येन्द्रियाख्यदुष्टाश्वान् । बुद्धिः सारथिर्यस्याः सा ॥ २ ॥

लिङ्घेरी

साऽदितिः श्रोत्रादीन्द्रियलक्षणदुष्टाश्वान् बुद्धिलक्षणसारथिमती सती मनसा प्रगृह्य दुर्विषयेऽप्रवृत्तान् कृत्वा भगवन्तमधोक्षजमेकया सर्वोत्तमत्वविषयिण्या बुद्ध्या चिन्तयन्ती बभूब

॥ २ ॥

मनश्चैकाग्रया बुद्ध्या भगवत्यखिलात्मनि ।

वासुदेवे समाधाय चचार ह पयोव्रतम् ॥ ३ ॥

सत्यधर्मीया

अखिलात्मनि व्याप्ते । निरवधिकस्वामिनीति वा ॥ ३ ॥

छलारी

अखिलानामन्तर्यामिणि ॥ ३ ॥

लिङ्घेरी

अनन्तरमखिलचेतनात्मकजगत आत्मन्यन्तर्यामिणि स्वामिनि च भगवति नारायणे एको भगवानग्रे विषयतया च यस्यास्तया बुद्ध्या शास्त्रजनितनिश्चयेन मनोऽन्तःकरणं वासुदेवे समाधाय स्थापयित्वा पयोव्रतं चचार कृतवती । हेति प्रमाणप्रसिद्धिः ॥ ३ ॥

तस्याः प्रादुरभूत् तात भगवानादिपूरुषः ।

पीतवासाश्चतुर्बाहुः शङ्खचक्रगदाधरः ॥ ४ ॥

पदरत्नावली

तद्व्रताचरणफलमाह– तस्या इति ॥ ४ ॥

सत्यधर्मीया

फलमलब्धा ललना किलानालस्येनेत्यालपति ॥ तस्या इति ॥ ४ ॥

छलारी

व्रताचरणफलमाह ॥ तस्या इति ॥ तस्या अदित्याः । हे तात राजन्

॥ ४ ॥

लिङ्घेरी

तावत्तदैवं चिन्तयन्त्या तस्या अदितेः पीताम्बरः शङ्खचक्रगदाधरश्चतुर्बाहुरादि-पुरुषो भगवन्नारायणः प्रत्यक्षोऽभूत् ॥ ४ ॥

तं नेत्रगोचरं वीक्ष्य सहसोत्थाय सादरम् ।

ननाम भुवि कायेन दण्डवत् प्रीतिविह्वला ॥ ५ ॥

सत्यधर्मीया

सादरमादरसहितं यथा तथा । आदरं निर्भयम् । पतिबोधनस्मृतिरिति । सहसा खडिति । हसेनाभिलषितं फलितमित्युत्पन्नेन सहितेति वा ॥ ५ ॥

छलारी

नेत्रयोर्गोचरं विषयम् । प्रीत्या विह्वला ॥ ५ ॥

लिङ्घेरी

अदितिर्नेत्रयोर्गोचरं विषयं प्रत्यक्षं तं वीक्ष्य सहसोत्थाय भुवि दण्डवत्कायेन पतिता सती भगवति प्रीत्या भक्त्यतिशयेन विह्वला चलदेहा सती सादरं ननाम ॥ ५ ॥

सोत्थाय बद्धाञ्जलिरीडितुं स्थिता नोत्सेह आनन्दजलाकुलेक्षणा ।

बभूव तूष्णीं पुलकाकुलाकृतिस्तद्दर्शनात्युत्सवगात्रवेपथुः ॥ ६ ॥

पदरत्नावली

तस्या भक्तिलक्षणं दर्शयति- सेति ॥ पुलकेन रोमाञ्चेनाकुला व्याप्ता आकृतिस्तनुर्यस्याः सा तथा । पुनस्तया किमकारीति तत्राह– तद्दर्शनेति ॥ तद्दर्शनमेवा-त्युत्सवस् तन्निमित्तो गात्रवेपथुर्देहकम्पो यस्याः सा तथा ॥ ६ ॥

सत्यधर्मीया

तदापरोक्ष्येण तत्पारवश्यमीरयति ॥ सेति ॥ पुलकै रोमाञ्चैः । गात्रे वेपथुः कम्पो यस्याः सा तथा । ‘वेपथुः कम्प’ इत्यमरः ॥ ६ ॥

छलारी

तस्या भक्तिलक्षणं दर्शयति । सोत्थाय बद्धाञ्जलिः स्थिता बद्धाञ्जलिर्भूत्वे-त्यर्थः । ईडितुं स्तोतुं नोत्सहे न शशाक । अपि तु तूष्णीमास । कथम्भूता । आनन्द-जलैराकुलिते पूरिते ईक्षणे यस्याः सा । पुलकैः रोमाञ्चैराकुला व्याप्ताऽऽकृतिर्देहो यस्याः सा । तस्य हरेर्दर्शनेन योऽत्युत्सवस्तेन गात्रे शरीरे वेपथुः कंपो यस्याः सा ॥ ६ ॥

लिङ्घेरी

साऽदितिर्भुव उत्थाय बद्धाञ्जली सती भगवन्तमीडितुं स्तोतुं स्थिताऽपि तस्य भगवतो दर्शनाख्यात्युत्सवेन गात्रे शरीरे वेपथुः कंपा यस्याः सा सती, पुलकैरोमांचैराकुलिता सन्दधिताऽऽकृतिराकारो यस्याः सा । आनन्दजलेनाकुलेऽक्षिणी यस्याः सा च सती ईडितुं नोत्सहे शक्ता न बभूव । तूष्णीमेव बभूव ॥ ६ ॥

प्रीत्या शनैर्गद्गदया गिरा हरिं तुष्टाव सा देव्यदितिः कुरूद्वह ।

उद्वीक्षती सा पिबतीव चक्षुषा रमापतिं यज्ञपतिं जगत्पतिम् ॥ ७ ॥

पदरत्नावली

तस्या मुग्धभावं दर्शयति- उद्वीक्षतीति ॥ ७ ॥

सत्यधर्मीया

उद्वीक्षती उद्वीक्ष्यमाणा ॥ ७ ॥

छलारी

ततः किमकरोदित्यत आह ॥ प्रीत्येति ॥ चक्षुषा पिबतीवोद्वीक्षतीक्षमाणा

॥ ७ ॥

लिङ्घेरी

हे कुरूद्वह । साऽदितिर्देवी लक्ष्मीपतिं यज्ञपतिं जगत्पतिं हरिं चक्षुषाऽऽ-दरातिशयेन पिबतीवेक्षती सती प्रीत्या गद्गदयाऽस्पष्टाक्षरया गिरा वाचा शनैर्हरिं तुष्टाव स्तुतवती

॥ ७ ॥

अदितिरुवाच–

यज्ञेश यज्ञपुरुषाच्युत तीर्थपाद

तीर्थश्रवःश्रवणमङ्गलनामधेय ।

आपन्नलोकवृजिनोपशमोदयाद्य

शं नः कृधीश भगवन्नवसन्ननाथ ॥ ८ ॥

पदरत्नावली

स्वाभीष्टोदयकरगुणविशिष्टत्वेन स्तौति– यज्ञेशेति ॥ यज्ञपुरुष अच्युत इत्यनेन गुणान्तराणि समुच्चिनोति । तानि कानीति तत्राह– तीर्थपादेत्यादि ॥ तीर्थस्य शास्त्रस्य श्रवः श्रवणं याभ्यां ते तीर्थश्रवसी, ते च ते श्रवणे चेति तीर्थश्रवःश्रवणे, ते मङ्गलयतीति तीर्थश्रवःश्रवणमङ्गलम्, तन् नामधेयं यस्य स तथा, तस्य सम्बुद्धिस्तीर्थश्रवःश्रवणमङ्गल-नामधेय । आपन्नस्य लोकस्य वृजिनं दुःखं तस्योपशमनार्थं परिहारार्थमुदयोऽवतारो यस्य स तथा, तस्य सम्बुद्धिस्तथा । कृधि कुरु । अवसन्ननाथ क्षीणजनरक्षक ॥ ८ ॥

सत्यधर्मीया

यज्ञेश तत्स्वामिन् । ई च लक्ष्मीश्च तदुपलक्षिताः प्रेक्षावन्तश्चाज्ञाश्च मदादयश्च तेषामीशेति वा । यज्ञपुरुष तन्मुख्योद्देश्य । तीर्थानि पादे यस्य । तीर्थं पवित्रं श्रवः कीर्तिर्यस्य तत्सम्बुद्धिः । श्रवणयोर्मङ्गलं तत्करं नामधेयं यस्य तत्सम्बुद्धिः । आपन्नाः शरणागतलोकास्तेषां वृजिनस्य पापस्योपशमो येन । स उदयो यस्य स तत्सम्बुद्धिः । आद्य उपजीव्य । तदुदयवद् आद्येति पदमेकं वा । अवसन्ननाथ दीननाथ । शं सुखं कृधि कुरु । यथा आपन्न भवेत्तथा शं शाश्वतिकं कुरु । लोकवृजिनार्दनेति वा ॥ ८ ॥

छलारी

स्वाभीष्टोदयकरगुणविशिष्टत्वेन स्तौति ॥ यज्ञेशेत्यादि त्रिभिः ॥ यज्ञानामीश संपादक । यज्ञो विष्णुदेवतेति श्रुतेः । पुरुष पूर्णषड्गुणाच्युत गुणैश्च््युतिरहित । तीर्थादीनि पादयोर्यस्य स तथा । तीर्थं पवित्रं श्रवः कीर्तिर्यस्य तस्य सम्बुद्धिः । श्रवणयोः कर्णयोर्मङ्गलं नामधेयं यस्य सः । आपन्नानां शरणागतानां लोकानां व्रजिनस्य दुःखस्योपशमाय परिहारार्थ-मुदयोऽवतारो यस्य स तस्य सम्बुद्धिः । हे ईश अनघ शं सुखं कुरु ॥ ८ ॥

लिङ्घेरी

स्तुतिप्रकारमाह ॥ यज्ञेशेति ॥ यज्ञानामश्वमेधादीनामीश स्वामिन् । अत एव यज्ञनामन् । पूर्णषड्गुण, देशकालगुणैरच्युत पूर्ण, भागीरथ्याख्यतीर्थपादपद्म । तीर्थं शुद्धिकरं श्रवो यशो यस्य तादृशाद् एव श्रवणयोः श्रोत्रेन्द्रिययोर्मङ्गलकरनामन् आपद्युक्तस्वशरणागतजनानां वृजिनानि पापान्युपशमयति परिहरतीत्युपशम उदयः प्रादुर्भावो यस्य तादृश । अवसन्नानां ज्ञानादिशून्यतया नष्टानां तद्योग्यानां नाथ । हे भगवन्नारायण अद्यास्माकं शं सुखं कुरुष्व ॥ ८ ॥

विश्वाय विश्वभवनस्थितिसंयमाय

स्वैरं गृहीतपुरुशक्तिगुणाय१ भूम्ने ।

स्वच्छाय शश्वदुपबृंहितपूर्णबोध-

व्यापादितात्मतमसे हरये नमस्ते ॥ ९ ॥

पदरत्नावली

विधाय विश्वनाम्ने । विश्वस्य भवनस्थितिसंहारा यस्मात् स तथा तस्मै । स्वैरं स्वेच्छया । गुणाः सत्वादयः । व्यापादितात्मतमसे विनाशिताज्ञानाय ॥ ९ ॥

सत्यधर्मीया

विश्वाय तन्नाम्ने । भवनमुत्पादनम् । विश्वस्य तदादयो यस्मात्त-त्सम्बुद्धिः । तन्नामाह ॥ आयेति ॥ स्वैरं स्वेच्छया । भूम्ने पूर्णाय । स्वच्छाय निर्मलाय । तदेव देवनैर्मल्यं प्रकटयति । शश्वदुपबृंहितः पूर्णो बोधस्तेन व्यापादितं नाशितम् । अनङ्कुरित-मिति यावत् । आत्मनः स्वस्य । नाशितम् । आत्मान आत्मीयास्तेषां च तमो येन तस्मै । उपबृंहितपदं पूर्णपदादतिरिक्तं सत्, विश्वेति तद्रूपमुपस्थापयति । मध्यमं तु गजाकारमित्युक्तेः । बृंहितं करिगर्जितमित्युक्तेः । बृंहितं न स्वस्वरेण जातो यः पूर्णो बोधस् तेन व्यापादितम् आत्मीयतमो येन स तस्मा इति वा । अनेन ऐरावतारूढशक्रदर्शनं त्वरया भवितव्यमिति कटाक्षयतीति ध्वन्यते । स्वच्छायाः । स्वस्य छाया रीतिः प्रकारश्चेति तात्पर्यान्तरात् प्रकारो येषाम् । स्वप्रतिबिम्बाश्च ते मुक्तौ शश्वदुपबृंहितेन योग्यतानुसारेण पूर्णेन बोधेन ज्ञानेन व्यापादितमात्मतमः स्वाज्ञानं येषां ते । तेन तस्मा इति वा । विश्वभवनस्थितिभ्यां सहितश्चासौ संयमः संहारश्च । तदर्थं स्वैरं गृहीताः पुरुशक्तयो गुणाश्च येन तस्मा इति वा । पुरेति पाठे पुराणि शरीराणि । इतरद् यथापूर्वम् ॥ ९ ॥

छलारी

भूम्ने महते हरये नमः । विश्वाय विश्वशब्दवाच्याय । विश्वस्य जगत उत्पत्ति-स्थितिसंहारार्थं स्वैरं स्वेच्छया गृहीताः पुरुशक्तेः प्रकृतेर्गुणा सत्त्वादयो येन तस्मै । तथाऽपि स्वस्थायाच्युतस्वरूपाय । कुतः । शश्वदुपबृंहितेनाभिव्यक्तेन पूर्णबोधेन संपूर्णज्ञानेन व्यापादितं नित्यनिरस्तमात्मनि तमोऽज्ञानलक्षणं येन तस्मै ॥ ९ ॥

लिङ्घेरी

विश्वाय सर्वजगत्पूर्णाय । विश्वभुवनस्थितिसंयमाय सर्वजगदुत्पत्तिस्थिति-नाशकर्त्रे । स्वैरं स्वेच्छया गृहीताः पुरवो बव्ह्यः शक्तयो जगदुत्पादनादिविषया गुणाः सत्त्वा-दयश्च येन तस्मै । भूम्ने सुखादिगुणपूर्णाय पारतन्त्र्यादिदोषरहिततया स्वच्छायातिशुद्धाय शश्वदुप-बृंहितः स्वपराखिलगोचरतयाऽत्यभिवृद्धोऽतः पूर्णो यो बोधो विज्ञानं तेन व्यापादितं दूरोत्सारितमात्मनस्तमोऽज्ञानं यस्य तस्मै हरये नमोऽस्तु ॥ ९ ॥

आयुः परं वपुरभीष्टमतुल्यलक्ष्मीर्द्यौर्भूरसाः सकलयोगगुणस्त्रिवर्गः ।

**ज्ञानं च केवलमनन्त भवन्ति तुष्टात् त्वत्तो नृणां किमुपसन्नजनाधिनाशः **

॥ १० ॥

पदरत्नावली

परमायुर्द्विपरार्द्धावसानलक्षणं च यच्च तदादयो नृणां तुष्टात् त्वत्तो भवन्ति यत् तस्मादुपसन्नजनाधिनाशः किं शरणागतजनमनोदुःखनाशो भवतीति किं वक्तव्यम् ? योगगुणोऽणिमादिः ॥ १० ॥

सत्यधर्मीया

नाहं परायुरित्यादेः परमायुर्द्विपरार्धावसानलक्षणं ब्रह्मणः । परमायु-र्नित्यायुर्मुक्तिरिति वा । वपुर्देहः । अभीष्टमपेक्षितम् । अभीष्टं वपुरिति सामानाधिकरण्यं च । अतुल्य असदृश । अतुल्या लक्ष्मीरिति वा । द्यौर्द्युलोकः । भूः रसा मधुरादयो रसातलादिलोका वा । सकलो विद्याभिः सहितो योगोऽणिमादिः समग्रः स इति वा । तस्य गुणस्त्रिवर्गो धर्मादिः । केवलं जडामिश्रं ज्ञानं च । तुष्टात् त्वत्तो नृणां भवन्ति । उपसन्नजनाधिनाशः । उपसन्नाश्च ते जनाश्च आश्रितजनास् तेषामाधिर्मानसी व्यथा । तस्य नाशो भवेदिति किं नाद्भुतमिति भावः

॥ १० ॥

छलारी

अस्मन्मनोरथमीषत्करणमेव तवेति कैमुत्यन्यायेनाह ॥ आयुरिति ॥ परमायु-र्द्विपरार्धायुस्तल्लक्षणं ब्रह्मायुः । वस्तुनि सकला योगेन लभ्या गुणा अणिमादयस्त्रयाणां धर्मार्थ-कामानां वर्गः केवलं ज्ञानं तत्ज्ञानम् । हे अनन्त । तुष्टात्त्वत्तो नृणां भवन्ति यतोऽतोऽस्माकं सपत्नानां शत्रूणां दैत्यानां सकाशाज्जयस्तेभ्योऽस्मद्राज्यापहरणम् आदिशब्देन गृह्यते । एतदादि-राशिः कामः सिद्ध्यतीति किमु वाच्यम् ॥ १० ॥

लिङ्घेरी

हे अनन्त देशकालगुणैरपरिच्छिन्न नृणामधिकारिणां ब्रह्मादीनां तुष्टात्प्रसन्ना-त्त्वत्तः परं द्विपरार्धादिरूपमायुरभीष्टमपेक्षितं वपुर्ब्राह्मणादि शरीरमतुल्यलक्ष्मी असमाना संपदो द्यौरन्तरिक्षं भूरसातलादिस्थानं, सर्वेऽणिमादयो गुणा धर्मार्थकामलक्षणस्त्रिवर्गः केवलमज्ञानसंशय-विपर्यया समानाधिकरणं ज्ञानं चेत्येतानि भवन्ति । त्वामुपसन्नानां शरणागतानां जनानामाधि-नाशो मनोव्यथापरिहारो भवतीति किमु वक्तव्यम् । ‘पुंस्याधिर्मानसी व्यथा’ इत्यमरः ॥ १० ॥

श्रीशुक उवाच–

अदित्यैवं स्तुतो राजन् भगवान् पुष्करेक्षणः ।

क्षेत्रज्ञः सर्वभूतानामिति होवाच भारत ॥ ११ ॥

सत्यधर्मीया

सर्वभूतानां क्षेत्रज्ञोऽन्तर्यामी । इति वक्ष्यमाणप्रकारेण ॥ ११ ॥

छलारी

सर्वभूतानां क्षेत्रज्ञोऽन्तर्यामी वक्ष्यमाणप्रकारेणोवाच ॥ ११ ॥

लिङ्घेरी

हे भरतकुलोत्पन्न राजन् । पुष्करवत्कमलवदीक्षणे नेत्रे यस्य सः । सर्वेषां भूतानां प्राणिनां क्षेत्रे शरीरे क्रियमाणं कर्म जानातीति क्षेत्रज्ञो भगवान्नारायणोऽदित्यैवं स्तुतः सन् इति वक्ष्यमाणप्रकारेणोवाच ह ॥ ११ ॥

श्रीभगवानुवाच–

देवमातर्भवत्या मे विज्ञातं चिरकाङ्क्षितम् ।

यत्सपत्नैर्हृतश्रीणां च्यावितानां१ स्वधामतः ॥ १२ ॥

पदरत्नावली

भवत्याः सपत्नैः स्वर्गाद् बाधितानाम् उच्चाटितानां हृतश्रीणाम् आकृष्ट-सम्पदां पुत्राणामर्थे यच्चिरं काङ्क्षितं तन्मया विज्ञातमित्यन्वयः ॥ १२ ॥

सत्यधर्मीया

देवमातः । चिरकाङ्क्षितं मे मया ज्ञातम् । किं तदित्यत आह ॥ यदिति ॥ हता श्रीर्येषां ते तथा तेषाम् । वामीति नदीसंज्ञायाम् । ह्रस्वनद्यापो नुडिति नुट् । स्वधामतः स्वर्गरूपाद्गेहतः । च्यावितानां तत्सम्बन्धि यद्विज्ञानम् । बाधितानामिति पाठे बाधाऽप्येतद्रूपिणी निरूपणीया ॥ १२ ॥

छलारी

देवानां मातरदिते । सपत्नैर्हृता श्रीर्येषां स्वधामतः स्वपक्षपाताच्च बाधितानां भ्रंशितानां पुत्राणां देवानामर्थे भवत्या यच्चिरं बहुकालेन काङ्क्षितं तन्मया विज्ञातमित्यन्वयः

॥ १२ ॥

लिङ्घेरी

हे देवानां मातरदिते । भवत्यास्तव चिरं बहुकालं कांक्षितमपेक्षितं मे मया विज्ञातम् । तत्किमित्यत आह ॥ यत्सपत्नैरिति ॥ शत्रुभिरपहृतैश्वर्याणां स्थानात्प्रच्यावितानां देवानां यदैश्वर्यादिप्रत्यावर्तनमिति ॥ १२ ॥

तान् विनिर्जित्य समरे दुर्मदानसुरर्षभान् ।

प्रतिलब्धजयश्रीभिः पुत्रैरिच्छस्युपासितुम् ॥ १३ ॥

पदरत्नावली

किं तदिति तत्राह– तान् विनिर्जित्येति ॥ उपासितुम्, मामिति शेषः

॥ १३ ॥

सत्यधर्मीया

उपासितुं स्वस्थतया स्थातुं मामिति शेषः। सेवितुमित्यर्थः ॥ १३ ॥

छलारी

काङ्क्षितमेवाह ॥ तानिति त्रिभिः श्लोकैः । प्रतिलब्धा जयश्रीर्जयसंपद्यैस्ते । प्रतिलब्धा जयश्च श्रीश्च यैस्तैरिति वा । पुत्रैः सहोपासितुम् । मामिति शेषः । यद्वा । उप समीपे एकत्रेत्यर्थः । उवासितुं स्थातुमिच्छसि ॥ १३ ॥

लिङ्घेरी

हे अदिते । त्वं दुष्टमदेन गर्वेण युक्तानसुरश्रेष्ठान्समरे युद्धे विनिर्जित्य पुनः प्राप्तजयसंपद्भिः पुत्रैः सह मामुपासितुमिच्छसि ॥ १३ ॥

इन्द्रज्येष्ठैश्च तनयैर्हतानां युधि विद्विषाम् ।

स्त्रियो रुदन्तीरासाद्य द्रष्टुमिच्छसि दुःखिताः ॥ १४ ॥

पदरत्नावली

इदं चाकाङ्क्षितमित्याह– इन्द्रेति ॥ इन्द्रः ज्येष्ठो येषां ते तथा तैः

॥ १४ ॥

सत्यधर्मीया

इन्द्रो ज्येष्ठो येषां ते तथा तैः । रुदन्ती रुदतीः ॥ १४ ॥

छलारी

इन्द्रो ज्येष्ठो येषां तैः । विद्विषां दैत्यानां स्त्रियो गृहिणीरासाद्य समीपं प्राप्य

॥ १४ ॥

लिङ्घेरी

युधि, इन्द्र एव ज्येष्ठो येषां तैस्तव पुत्रैर्हतानामतिद्वेषिणामसुराणां, स्वपतीना-साद्यातिदुःखिता रुदंतीः स्त्रियो द्रष्टुमिच्छसि ॥ १४ ॥

आत्मजान् सुसमृद्धान् स्वान् प्रत्याहृतयशःश्रियः ।

नाकपृष्टमधिष्ठाय क्रीडतो द्रष्टुमिच्छसि ॥ १५ ॥

सत्यधर्मीया

प्रत्याहृते यशश्च श्रीश्च यैस्ते तान् । नाकपृष्टं स्वर्गम् ॥ १५ ॥

छलारी

प्रत्याहृतं पुनः प्राप्तं यशश्च श्रीश्च यैस्तान्नाकपृष्टं स्वर्गमधिष्ठायाश्रित्य क्रीडतः सुखेन स्वस्य व्यापारान्कुर्वतः ॥ १५ ॥

लिङ्घेरी

हे अदिते त्वं प्रत्याहृतयशःश्रियोऽसुरेभ्यः पुनरपहृतकीर्तिसंपदो नाकपृष्टं स्वर्गस्थानमाश्रित्य क्रीडां कुर्वतो बलादिभिरभिवृद्धान्स्वात्मजान् द्रष्टुमिच्छसि ॥ १५ ॥

प्रायोऽधुना तेऽसुरयूथनाथा अवारणीया इति देवि मे मतिः ।

यत्तेऽनुकूलेश्वरविप्रगुप्ता न विक्रमस्तत्र सुखं ददाति ॥ १६ ॥

पदरत्नावली

नैतत् क्षिप्रसाध्यमित्याह– प्राय इति ॥ कुतः ? अत्राह– यत्त इति ॥ अनुकूलैरीश्वरविप्रैर्गुप्ता रक्षिता इति यत् तस्मात्, तत्र तेषु देवेषु ॥ १६ ॥

सत्यधर्मीया

हतानामित्यादि स्ववादमपवदति ॥ प्राय इति ॥ अनुकूलः स्वकार्य-सहकारी चेश्वरो यस्य स चासौ विप्रश्च शुक्रस्तेन गुप्ता रक्षिता इति । हे देवि । अधुना अवारणीया अनिवार्या इति मे मम मतिः । तेऽपि समञ्चितमत्का इति भावः । विक्रमस्तत्र तेषु । पराक्रमं दृष्टवतोऽपि न मे पराक्रमकालोऽयमिति भावः ॥ १६ ॥

छलारी

नैतत्कार्यं क्षिप्रं साध्यमित्यत आह ॥ प्राय इति ॥ अधुनाऽसुरयूथानां नाथास्ते प्रायो बाहुल्येनावारणीया अनिवारणीया इति मे मतिर्निश्चयः । कुत इत्यत आह ॥ यदिति ॥ यद्यस्मात्ते दैत्या अनुकूल ईश्वरो हरिर्येषां तैर्विप्रैर्भृगुभिर्गुप्ता रक्षिता अनुकूलैरीश्वरैः समर्थैर्विप्रैर्गुप्ता इति वा । तस्मात्तत्र तेषु दैत्येषु विषये देवानां विक्रमः सुखं न ददाति ॥१६॥

लिङ्घेरी

हे अदितिदेवि । अधुनाऽसुरसेनासमूहस्वामिनस्तेऽसुराः प्रायः प्राचुर्येण देवै-र्निवारयितुमशक्या यस्मात्तेऽसुरा अनुकूलः स्वकार्यसहाय ईश्वरो नारायणो येषां विप्राणां शुक्रादीनां तैः संरक्षितास्तस्मात्तत्र तद्विषये कृतो विक्रमः पराक्रमो देवानां सुखं न ददाति । न दास्यतीति मे मतिर्निश्चिता ॥ १६ ॥

अथाप्युपायो मम देवि चिन्त्यः सन्तोषितस्य व्रतचर्यया ते ।

ममार्चनं नार्हति गन्तुमन्यथा श्रद्धानुरूपं फलहेतुकत्वात् ॥ १७ ॥

पदरत्नावली

तर्ह्युपायाभावादुपरम एव श्रेयानिति तत्राह– अथेति ॥ मम सकाशान्मम व्रतचर्यया वा । श्रद्धानुरूपमिति क्रियाविशेषणम् । ममार्चनमन्यथा फलराहित्येन गन्तुं नार्हति यथा श्रद्धा तथा फलहेतुकत्वात् । पुरुषार्थलक्षणफलस्य निमित्तत्वात् कप्रत्ययः स्वार्थमिति साधयति ॥ १७ ॥

सत्यधर्मीया

अथाऽप्येवं सत्यपि । ते व्रतचर्यया सन्तोषितस्य मम उपाय-स्तदपायोपायश्चिंत्यः । भवतु भवतोऽञ्चनमकिञ्चिदुदंचकमिति न चेत्याह ॥ ममेति ॥ श्रद्धानु-रूपं विश्वासानुगुणम् । यन्ममार्हणमर्चनमन्यथा वृथा गन्तुं नार्हति । फलहेतुकत्वात् । फलस्य हेतुर्ज्ञानं यस्मात्तत्तथा । तस्य भावस्तत्त्वम् । तस्मात् फलोपलम्भकापरोक्षोपलब्धि-कारणत्वादित्यर्थः ॥ १७ ॥

छलारी

इदानीं विक्रमासम्भवे तूष्णीमेवास्थेयमित्यत आह ॥ अथाऽपीति ॥ यद्यपीदं पराक्रमं साध्यं न भवति तथाऽपि । हे देवि । मम मयोपायश्चिन्त्य एव विचार्य एव । व्रतस्य चर्ययाऽनुष्ठानेन सन्तोषितस्य । हेतुगर्भमिदम् । त्वद्व्रतेन मम प्रीतत्वादित्यर्थः । तदेव विवृणोति ॥ ममेति ॥ ममार्चनमन्यथा निष्फलत्वेन गन्तुं भवितुं नार्हति । श्रद्धानुरूपमिति क्रियाविशेषणम् । मदर्चनस्य श्रद्धानुसारेण फलहेतुत्वात्पुरुषार्थनिमित्तकत्वात् । कप्रत्ययः स्वार्थे

॥ १७ ॥

लिङ्घेरी

हे देवि । यद्यपीत्थम् अथाऽपि ते व्रताचरणेन सन्तोषितेन मया तव पुत्रश्रेय उपायश्चिन्तितः । यतो ममार्चनं तत्तद्भक्तविश्वासानुसारिफलदमतोऽन्यथा व्यर्थं गन्तुं नार्हति

॥ १७ ॥

त्वयाऽर्चितश्चाहमपत्यगुप्तये पयोव्रतेनानुगुणं समीडितः ।

स्वांशेन पुत्रत्वमुपेत्य ते सुतान् पातास्मि मारीचतपस्यवस्थितः ॥ १८ ॥

सत्यधर्मीया

त्वयाऽहमर्चितोऽनुगुणमित्युभयानुगुणं समीडितश्च । ते सुतानित्यप्यन्वेति त इति । मारीचस्य तपस्यवस्थितः सन्निहितः ॥ १८ ॥

छलारी

उक्तानुवादेन चिन्तितोपायमेवाह ॥ त्वयेति ॥ अपत्यानां पुत्राणां गुप्तये रक्षणायानुगुणं योग्यतानुसारेण समीडितः स्तुतश्च स्वांशेन स्वरूपभूतांशेन मारीचस्य मरीचिपुत्रस्य कश्यपस्य तपस्यवस्थितः सन् ते पुत्रत्वमुपेत्य ॥ १८ ॥

लिङ्घेरी

हे अदिते । अहं त्वया तेऽपत्यानां पुत्राणां देवानां गुप्तये संरक्षणाय पयोव्रतेनार्चितः स्वज्ञातैर्गुणैः संस्तुतश्चातोऽहं स्वांशेन ते पुत्रत्वमुपेत्य सुतान्संरक्षिताऽस्मि । यतश्च मरीचिपुत्रः कश्यपस्तपोनिमित्तेनापि च पुत्रपालने संस्थितोऽतोऽपि त्वत्पुत्रपालने तव संशयो माऽभूदिति भावः ॥ १८ ॥

उपधाव पतिं भद्रे प्रजापतिमकल्मषम् ।

मां च भावय तेऽपत्यमेवंरूपमवस्थितम् ॥ १९ ॥

पदरत्नावली

उपधाव उपास्व । अपत्यम् अपत्यत्वेन ॥ १९ ॥

सत्यधर्मीया

उपधावोपास्व । एवंरूपमवस्थितं मां चापत्यं पुत्रम् । भावय तत्त्वेन चिन्तय ॥ १९ ॥

छलारी

अतः पतिमुपधाव पतिमुपास्व । इदानीं ते पुरतोऽवस्थितमेवंरूपमेवमाकारं मां चापत्यत्वेन पुत्रत्वेन भावय चिन्तय ॥ १९ ॥

लिङ्घेरी

हे भद्रे यतोऽहं त्वत्तः प्रधानकश्यपतपसाऽपि त्वद्वांछितकर्ताऽतस्त्वं कामादिदोषविधुरं स्वाश्रितप्रजानां पालकं ते पतिं कश्यपमुपधाव सेवय तुष्टं च कुरु । एवं परिदृश्यमानरूपमवस्थितं मां च ते पुत्रत्वेनोपास्व ॥ १९ ॥

नैतत् परस्मा आख्येयं देवगुह्यं कथञ्चन ।

सर्वं सम्पद्यते देवि देवगुह्यात् सुसंवृतात् ॥ २० ॥

पदरत्नावली

परस्मै शत्रवे ॥ २० ॥

सत्यधर्मीया

योषितां शापान्न हृदि स्थिरीभवति बोधितमिति तां शिक्षयति ॥ नैतदिति ॥ परस्मै यस्मै कस्मै वा नान्यस्मै सुसंवृताद् अत्यन्ताच्छादिताद्देवगुह्यात् । सर्वं सम्पद्यते ॥ २० ॥

छलारी

परस्मा अयोग्याय शत्रवे वा एतदेव रहस्यं नाख्येयं न वक्तव्यं देवगुह्यं सर्वं यस्मात्सुसंवृतमाच्छादितं सत्सम्पद्यते सिद्ध्यते इति ॥ २० ॥

लिङ्घेरी

हे देवि । एतन्मदुक्तं प्रमेयं यस्माद्देवानां गुह्यं गोप्यं स्वानाप्तेभ्यः कथनायोग्यं तस्मात्त्वयाऽपि कथंचन केनापि प्रकारेण परस्मा अनाप्तायान्यस्मै न वक्तव्यम् । यस्मात्सुतरां संवृतादाच्छादितादुक्ताद्देवगुह्यात्ते कार्यं संपद्यते प्राप्तं भवेत् ॥ २० ॥

श्रीशुक उवाच–

एतावदुक्तवा भगवांस्तत्रैवान्तरधीयत ।

अदितिर्दुर्लभं लब्ध्वा हरेर्जन्मात्मनि प्रभोः ॥

उपाधावत् पतिं भक्त्या परया कृतकृत्यवत् ॥ २१ ॥

सत्यधर्मीया

प्रभोर्हरेः । उपाधावत् ॥ २१ ॥

छलारी

प्रभोर्हरेरात्मनि स्वस्मिन् जन्म लब्ध्वा मयि हरिर्जनिष्यतीति निश्चित्येत्यर्थः । कथं भूतम् । दुर्लभमल्पपुण्यैरप्राप्यमत एव हरेः स्वपुत्रत्वसिद्ध्यर्थं पतिमुपाधावदभजत् ॥२१॥

लिङ्घेरी

भगवान्नारायणोऽदितिं प्रति एतावत्प्रमेयमुक्त्वा तत्रैवादृश्योऽभूत् । अदितिर-योग्यजनानामप्राप्यमात्मनि प्रभोः सर्वकार्यसमर्थस्य हरेर्जन्म प्रादुर्भावलक्षणं वरं लब्ध्वा कृतकृत्य-वत्स्थिता सती स्वपतिं कश्यपमुत्कृष्टया भक्त्या सेवामकरोत् ॥ २१ ॥

स वै समाधियोगेन कश्यपस्तदबुध्यत ।

प्रविष्टमात्मनि हरेरंशं ह्यवितथेक्षणः ॥ २२ ॥

पदरत्नावली

किमवबुद्धमिति तत्राह– प्रविष्टमिति ॥ २२ ॥

सत्यधर्मीया

कश्यपः समाधियोगेन तदबुद्ध्यत तज्ज्ञातवान् । किं तदित्यत आह ॥ प्रविष्टमिति ॥ तदवबोधो बाधितार्थः किं न स्यादित्यत आह । अवितथमनन्यथाभवदीक्षणं प्रेक्षा यस्य स तथेति ॥ २२ ॥

छलारी

अभजतेत्यनुवादाद्धरिः पितृमातृक्रमानुसारेण पूर्वं कश्यपे प्राविशदिति विशेषो ज्ञेयो ऽवितथं यथार्थेक्षणं दर्शनं यस्य सः कश्यपो हरेस्तत्तं स्वरूपांशमात्मनि प्रविष्टमबुद्ध्यत । तत्र साधनं समाधियोगेन ध्यानलक्षणोपायेनेति ॥ २२ ॥

लिङ्घेरी

अवितथमव्यर्थं यथार्थमीक्षणं ज्ञानं यस्य स कश्यपः स्वस्मिन्प्रविष्टं हरेस्तमंशं स्वसमाधिलक्षणोपायेन ज्ञातवान् ॥ २२ ॥

सोऽदित्यां वीर्यमाधत्त तपसा चिरसंभृतम् ।

समाहितमना राजन् दारुण्यग्निं यथाऽनिलः ॥ २३ ॥

सत्यधर्मीया

चिरसम्भृतमूर्ध्वरेतस्कतया तपःकाले सञ्चितम् । सङ्गृहीतमिति वा । अनिलो वायुर्दारुणि च परस्परसङ्घर्षाद् अग्निं यथा तथा स वीर्यमदित्यां समाधत्तेत्यन्वयः

॥ २३ ॥

छलारी

स कश्यपस्तपसा चिरकालसञ्चितं बहुकालीनेनोर्ध्वरेतस्कत्वादिरूपेण तपसा सङ्गृहीतम् । इदं वीर्यं दैत्यनाशकरं भवेदिति समाहितं मनो यस्य स तथा । तथाऽनुसन्धानः सन् अदित्यां वीर्यमाधत्त । तत्र दृष्टान्तः ॥ दारुणीति ॥ अनिलो वायुर्यथा सर्वत्र समोऽपि दारुणि वृक्षे परस्परं सङ्घर्षणं वनदाहकमग्निमाधत्ते । एवं स्वयं पुत्रेषु समोऽपि दैत्यक्षपणं वीर्यमाधत्तेत्यर्थः ॥ २३ ॥

लिङ्घेरी

स कश्यपः स्वकृतेन तपसा निमित्तेन स्वस्मिन् बहुकालसम्पादितं वीर्यम् अदित्यां, आधत्त वायुरग्निमथनकाष्ठेऽग्निं यथा तथा स्थापयामास ॥ २३ ॥

अदित्यां निहितं गर्भं भगवन्तं सनातनम् ।

हिरण्यगर्भो विज्ञाय समीडे गुह्यनामभिः ॥ २४ ॥

सत्यधर्मीया

भगवन्तं तद्रूपम् ॥ २४ ॥

छलारी

हिरण्यगर्भश्चतुर्मुखो भगवन्तं हरिमदित्यां विहितं गर्भं विज्ञाय समीडे तुष्टा-वेत्यर्थः ॥ २४ ॥

लिङ्घेरी

हिरण्यगर्भश्चतुर्मुखोऽदित्यां कश्यपेन निहितं वीर्यद्वारा स्थापितं भगवन्तमधोक्षजं नारायणं ज्ञात्वा गोप्यनामधेयैर्भगवन्तं स्तुतवान् ॥ २४ ॥

ब्रह्मोवाच–

जयोरुगाय भगवन्नुरुक्रम नमोऽस्तु ते ।

नमो ब्रह्मण्यदेवाय त्रिगुणाय नमोऽस्तु ते ॥ २५ ॥

सत्यधर्मीया

उरुगाय रमादिस्तुत्याय । उरु पदार्थं सर्वं गच्छतीत्यवगच्छतीति वा उरुगस्तस्मै वा । त्रिगुणाय तत्प्रवर्तकाय । त्वं जय । ते नमः । जयोऽर्जुन उरुगायो मह-त्स्तुत्यो येन तत्सम्बुद्धिरिति वा । उरुक्रमेति भाविज्ञानं स्वस्यास्तीति ध्वनयति ॥ २५ ॥

छलारी

गुह्यतमान्याह ॥ जयेत्यादिना ॥ उरुभिरुत्कृष्टैर्देवैर्ब्रह्मादिदेवैर्गीयत इति तथा तस्य सम्बुद्धिरुरुगायेति । उरवः क्रमाः पादविक्षेपा वा यस्योरुक्रमेति सम्बुद्धिः । ब्रह्मणि जातो हितो ब्रह्मण्यस्तस्मै देवाय । त्रिगुणाय सत्त्वादिगुणप्रवर्तकाय ॥ २५ ॥

लिङ्घेरी

स्तुतिप्रकारमाह ॥ जयेत्यादिना ॥ उरुगाय सर्वोत्तमतया श्रुत्यादिप्रतिपाद्य, उत्कृष्टपादप्रक्षेप हे भगवन् । त्वं जय शत्रूनभिभावय । ते नमोऽस्तु । ब्राह्मणादिषु दयालुतया ब्रह्मण्याय क्रीडादिगुणविशिष्टाय, त्रयो लोका गुणा अप्रधाना यस्मात्तस्मै त्रिगुणाय ते नमोऽस्तु

॥ २५ ॥

पृश्निगर्भाय देवाय वेदगर्भाय१ वेधसे ।

त्रिगुणाय त्रिपृष्ठाय शिपिविष्टाय विष्णवे ॥ २६ ॥

पदरत्नावली

पृश्न्यां गर्भो यस्य स तथा तस्मै । वेदगर्भाय सद्योजन्मशक्तये । त्रीणि पृष्ठानि वैकुण्ठादीनि यस्य स तथा तस्मै ॥ २६ ॥

सत्यधर्मीया

पृश्निगर्भाय पृश्निनाम्नयपत्याय । पृश्नेर्गर्भोऽर्भक इति वा । ‘गर्भो भ्रूणेऽर्भके कक्षौ’ इति विश्वः । वेदगर्भाय वेदरहस्याय । देवगर्भायेति पाठे देवा गर्भे यस्य स तस्मै । वेधसे संवित्स्वरूपाय । त्रिपृष्ठाय त्रीणि पृष्ठाणि वैकुण्ठदिस्थानानि यस्य सः । त्रयाणां लोकानां पृष्ठ उपरिभागे स्थिताय । शिपिविष्ठाय । शिपिशब्दः पशुवाची । पशवश्चात्र देवादयस्तत्र विष्टः । ‘यज्ञो वै विष्णुः पशवः शिपिर्यज्ञ एव पशुषु प्रतितिष्ठति’ इति श्रुतेः । शिपयो रश्मयो ज्ञानकला विष्टाः प्रविष्टा यं तस्मा इति वा । शिपिर्गरुडस्तत्र विष्टायोपविष्टाय वा । विष्णवे व्याप्ताय वा । विष्णुपदार्थ ऐतरेयादिभाष्यविलासे प्रकाशितोऽस्माभिः षष्ठस्पष्टनेऽनुसन्धेयः

॥ २६ ॥

छलारी

अदितेरेव पूर्वस्मिन् जन्मनि प्रश्निरिति नाम । इदं च दशमस्कन्धादौ प्रसिद्धम् । तस्या गर्भाय पुत्राय । वेदा गर्भे यस्य तस्मै । वेदानां गर्भाय वेदेषु प्रकाशमानायेति वा । वेधसे सर्वज्ञाय । यत्र ये भूरादयो लोका नाभौ यस्य सस्त्रिनाभस्तस्मै । त्रीणि पृष्ठानि त्रिलोकेभ्य उपरि स्थितानि वैकुण्ठादीनि गृहभूतानि सन्ति यस्य तस्मै । शिपिविष्टाय । शिपि-शब्देन पशुशब्दवाच्या ग्राह्याः । तेष्वन्तर्यामित्वेन प्रविष्टाय । ‘यज्ञो वै विष्णुः पशवः शिपिर्यज्ञ एव पशुषु प्रतिष्ठिति’ इति श्रुतेः । यद्वा । शिपयो रश्मयस्तैर्विष्ठितायेत्यर्थः । विष्णवे व्यापिने

॥ २६ ॥

त्वमादिरन्तो भुवनस्य मध्यमनन्तशक्तिं पुरुषं यमाहुः ।

कालो भवानाक्षिपतीश विश्वं स्रोतो यथाऽम्भःपतितं गभीरम् ॥ २७ ॥

पदरत्नावली

गभीरं स्रोतो नदी । आक्षिपति तीरं प्रति नयति ॥ २७ ॥

॥ इति श्रीमद्भागवतटीकायां विजयध्वजतीर्थभिक्षुकृतायाम्

अष्टमस्कन्धे षोडशोऽध्यायः ॥

सत्यधर्मीया

गभीरं स्रोतो ऽगाधजलप्रवाहः । अम्भः पतितं यथा आक्षिपति तीरं प्रापयति तथेश त्वमन्त इति विश्वं कालः भवानाक्षिपतीत्यन्वयः ॥ २७ ॥

छलारी

यथाऽन्तः पतितं तृणादिकं गभीरं स्रोतो नद्याक्षिपत्याकर्षति तथा कालात्मा भवान्विश्वमाक्षिपति स्वोदरे प्रवेशयति ॥ २७ ॥

लिङ्घेरी

हे ईश । त्वं भुवनस्यादिरुत्पादको मध्यं स्थितिहेतुरन्तो नाशक इत्यपरिमित-शक्तिं पुरुषं त्वामागमा ज्ञानिनश्चाहुः । गभीरं निम्नभूमिस्थं स्रोतस्तीव्रेण स्रवज्जलं यथा स्वान्तः पतितं तृणाद्याक्षिपति तीव्रं(तीरं) नयति तथा विश्वं समस्तजगद्यः काल आक्षिपति स कालनियामकतया कालनामा भवान् ॥ २७ ॥

त्वं वै प्रजानां स्थिरजङ्गमानां प्रजापतीनामसि सम्प्रविष्टः ।

दिवौकसां देव दिवश्च्युतानां परायणं नौरिव मज्जतोऽप्सु ॥ २८ ॥

॥ इति श्रीमद्भागवते अष्टमस्कन्धे षोडशोऽध्यायः ॥ ८–१६ ॥

सत्यधर्मीया

हे देव । दिवश्च्युतानां दिवौकसामिति प्रस्तुतविवक्षया स्तुतिः । परायणं मुख्याश्रयः मज्जतो जन्तोरप्सु जले नौर्नौकेव ॥ २८ ॥

॥ इति श्रीसत्यधर्मयतिकृतायां भागवतटिप्पण्याम् अष्टमस्कन्धे षोडशोऽध्यायः ॥

छलारी

इदानीं सर्वान्तर्यामित्वेन सर्वाश्रयत्वं प्रतिपादयन् स्वाभीष्टं सूचयति ॥ त्वमिति ॥ हे देव । स्थिरजङ्गमानां प्रजानां चराचरप्राणिनामित्यर्थः । दिवश्च्युतानां स्वर्गाद्भ्रंशितानां परायणं परमाश्रयो यतः सर्वाश्रयोऽतः सांप्रतं देवकार्यसाधनायावतीर्णस्त्वं स्वर्गच्युतान्पुनः स्वर्गे स्थापयेति भावः ॥ २८ ॥

॥ इति श्रीछलारी शेषाचार्यकृतायां श्रीभागवतटिप्पण्याम् अष्टमस्कन्धे षोडशोऽध्यायः ॥

लिङ्घेरी

हे देव । त्वं स्थावरजंगमरूपाणां प्रजानां जीवानां तथा प्रजापती-नामन्तःप्रविष्टः सन्पुरुषरूपेण संरक्षिताऽसि यतोऽतो दिवः स्वर्गाच्च्युतानामिन्द्रादिदेवानां जलेषु मज्जमानजनस्य नौरिव परायणं मुख्याश्रयः ॥ २८ ॥

**॥ इति श्रीलिङ्घेरी श्रीनिवासाचार्यकृतायां श्रीभागवतटिप्पण्यां **

अष्टमस्कन्धे षोडशोऽध्यायः ॥ ८–१६ ॥