एवं पुत्रेषु नष्टेषु देवमाताऽदितिस्तदा
॥ अथ पञ्चदशोऽध्यायः ॥
श्रीशुक उवाच–
एवं पुत्रेषु नष्टेषु देवमाताऽदितिस्तदा ।
हृते त्रिविष्टपे दैत्यैः पर्यतप्यदनाथवत् ॥ १ ॥
सत्यधर्मीया
नष्टेष्वदर्शनं गतेषु । अनाथेवानाथवत् ॥ १ ॥
छलारी
‘परित्राणाय साधूनां विनाशाय च दुष्कृताम् । धर्मसंस्थापनार्थाय संभवामि युगे युगे’ ॥ इति स्ववचनं सत्यं कर्तुं देवानां संकटे प्राप्ते हरिणा वामनावतारः कृत इति वक्तुं तदुपयुक्तां कथामाह ॥ एवमिति ॥ अदितिर्नष्टेष्वदर्शनं गतेषु । पर्यतप्यत्सन्तापं प्राप ॥१॥
लिङ्घेरी
अत्रापि पुत्रादर्शनप्रयुक्तव्यथयाऽदितेः कश्यपोपदेशकथनव्याजेन भगवन्महिमै-वोच्यते । तत्रादाविन्द्रादिगमनानन्तरमदितिस्थितिमाह शुक्रः परीक्षितम् ॥ एवमित्यादिना ॥ हे राजन् । एवमुक्तरीत्या पुत्रेष्विन्द्रादिषु नष्टेषु दृष्ट्यगोचरेषु सत्स्विन्द्रादिदेवानां माताऽदितिस्तदा दैत्यैस्त्रिविष्टपेऽपहृते सति संरक्षकस्वामिरहिता स्त्रीव पर्यतप्यत्संतापवती बभूव ॥ १ ॥
एकदा कश्यपस्तस्या आश्रमं भगवानगात् ।
निरुत्सवं निरानन्दं समाधेर्विरतश्चिरात् ॥ २ ॥
पदरत्नावली
तस्या अदित्याः ॥ २ ॥
सत्यधर्मीया
चिरात् पुरुकालिकात् । समाधेर्विरत उपरतः । निरुत्सवं निरानन्दम् । पुत्रतापत्रयशोकेन । तस्या अदितेः ॥ २ ॥
छलारी
तस्या अदित्याश्चिरकालीनात्समाधेर्ध्यानाद्विरत उपरतः ॥ २ ॥
लिङ्घेरी
एकस्मिन्काले चिराद्बहुकालकृतात्समाधेश्चित्तैकाग्रतपसो भगवद्ध्यानाद्विरतः शान्तः । ध्यानपरित्यागीति यावत् । भगवान्कश्यपो मुनिरुत्सवरहितं सुखरहितं च तस्या अदितेराश्रमं गतवान् ॥ २ ॥
स पत्नीं दीनवदनां कृतासनपरिग्रहः ।
सभाजितो यथान्यायमिदमाह कुरूद्वह ॥ ३ ॥
सत्यधर्मीया
सः पत्नीम् ॥ ३ ॥
छलारी
स कश्यपः कृत आसनस्वीकारो येन सः । यथान्यायं विध्युक्तप्रकारेण सभाजितः पूजितः सन् दीनवदनां म्लानमुखीं पत्नीमिदमाह ॥ ३ ॥
लिङ्घेरी
हे कुरुकुलोद्धारक राजन् । स कश्यपः कृत आसनपरिग्रहः स्वीकारो येन सः । यथान्यायं शास्त्रमनतिक्रम्यादित्या सभाजितः पूजितः सन् स्वपत्नीमदितिं दैन्योपेतमुखीं दृष्ट्वा तां प्रतीदं वक्ष्यमाणमाह ॥ ३ ॥
अप्यभद्रं न विप्राणां भद्रे लोकेऽधुनाऽऽगतम् ।
न धर्मस्य न लोकस्य मृत्योश्छन्दानुवर्तिनः ॥ ४ ॥
पदरत्नावली
हे भद्रे अदिते, लोके विप्राणामभद्रं नागतमपि किम् ? धर्मस्याभद्रं नागतमपि किम् ? अर्थस्याभद्रं नागतमपि किम् ? छन्दानुवर्तिनो मृत्योः सकाशादभद्रं लोकस्य नागतं किम् ? ॥ ४ ॥
सत्यधर्मीया
हे भद्रे । विप्राणामभद्रममङ्गलमधुनेदानीं नागतम् । लोके स्वर्गे धर्मस्यापि न । छन्दानुवर्तिनः स्वेच्छाप्रवृत्तेर्मृत्योः सकाशादपि । लोकस्य छन्दानुवर्तिनो लोकानुसारेणा-गच्छेत्युक्तावागच्छतो मृत्योर् मदिच्छानुवर्तिन इति वा । स्थलतपोऽपि महिम्ना । एतत्त्रिकमपि नात्रेति किं कारणमत्रेति भावः । नागतं किमिति वाऽन्वयः ॥ हे भद्रे । पूर्वं नानागत-मभद्रादिकमिदानीमागतं किमित्यपि पूर्वमित्यध्याहृत्य योजयन्ति ॥ ४ ॥
छलारी
दीनवदनत्वादिकमालक्ष्य बहुधा विकल्पयन्पृच्छति ॥ अप्यभद्रमिति सप्तभिः । हे भद्रे शोभनेऽदिते । स्वर्गलोकेऽधुना विप्राणामभद्रममङ्गलं नागतमपि । अपिशब्दः किंशब्दार्थः । अभद्रं मृत्युरूपं नाप्राप्तं किम् । धर्मस्याभद्रं नागतं किम् । मृत्योश्छन्दामिच्छामनुवर्तत इति मृत्योर्वशवर्तिनो जनस्येत्यर्थः । छन्दानुवर्तिनो मृत्योः सकाशाल्लोकस्येति वा । अभद्रं मृत्युरूपं नागतं किम् ॥ ४ ॥
लिङ्घेरी
हे भद्रे मङ्गलरूपे गृहमेधिनि गृहस्थाश्रमोपयुक्तधर्मसाधनि अदिते । विप्राणाम-भद्रममङ्गलमनिष्टं नागतं न प्राप्तमपि किम् । ब्राह्मणानामनिष्टं प्राप्तं किम् । एवमग्रे ज्ञातव्यम् । अधुना लोके धर्मस्याभद्रं नागतं किम् । स्वेच्छानुवर्तिनो मृत्योर्मारकदेवस्य सकाशाल्लोकस्य जनस्याभद्रं नागतं किम् ॥ ४ ॥
अपि वाऽकुशलं किं वा गृहेषु गृहमेधिनि ।
धर्मस्यार्थस्य कामस्य यत्र योगो ह्ययोगिनाम् ॥ ५ ॥
पदरत्नावली
अयोगिनां संसारिणां यत्र येषु धर्मादियोगोऽस्ति, तेषु किञ्चिदप्यकुशलं नहीति तत्रानुकर्षः कर्तव्यः ॥ ५ ॥
सत्यधर्मीया
हे गृहमेधिनि । गृहेषु किं वा अकुशलमक्षेमः । यत्र गृहेषु । अयोगिनां सांसारिकाणां धर्मस्यार्थस्य कामस्य एत्त्रिकस्य योगो घटना भवति । तत्राकुशलं किंवा जातम् । येनैवं दृश्यस इति विकल्पाशयः । न हि नेत्यन्वयो वा ॥ ५ ॥
छलारी
अपि वाऽथवा । गृहमेधिनां गृहस्थाश्रमोपेतानाम् । यत्र गृहेष्वयोगिनामपि संसारिणामपि धर्मादेर्योगः प्राप्तिर्भवति । स्वधर्मानुष्ठानेन धर्मार्थकामसिद्धिर्भवतीत्यर्थः । तेषु गृहेषु किञ्चिदप्यकुशलम् । न हीति च तत्रानुकर्षः कर्तव्यः ॥ ५ ॥
लिङ्घेरी
अयोगिनां हरीच्छादिरूपमोक्षोपायविधुराणां यत्र धर्मार्थकामेषु गृहेषु सद्मादिषु योगः स्नेहलक्षणसंबन्धः । तेषां मध्येऽपि कस्यचिदकुशलमक्षेमम् । किंवाशब्दौ पक्षान्तरसूचकौ । इत्युत्तरत्रापि ॥ ५ ॥
अपि वाऽतिथयोऽभ्येत्य कुटुम्बासक्तया त्वया ।
गृहादपूजिता याताः प्रत्युत्थानेन वा क्वचित् ॥ ६ ॥
सत्यधर्मीया
कुटुम्बासक्तया तल्लालनपालनाद्यासक्तया । प्रत्युत्थानेन वा । तावन्मात्रेण तदादिना वाऽपूजिता असम्भाजिता गृहाद् याताः किम् । अनन्तरं तदनुसन्धानेनैवम्भूतेत्याशयः
॥ ६ ॥
छलारी
कुटुम्बे पुत्रादिपोषणे आसक्तयाऽतिथयो गृहमभ्युपेत्य प्रत्युत्थानादिनाऽपूजिता इव गृहाद्याता न हि ॥ ६ ॥
लिङ्घेरी
हे गृहमेधिनि । अतिथयो देहसम्बन्धस्वग्रामीयत्वोपकारित्वादिरहिता अन्ना-द्यर्थिनो विप्रादयस्तव गृहमभ्येत्य कुटुम्बे पुत्रपोषणादावासक्तया त्वया प्रत्युत्थानादिभिरपूजिताः सन्तः क्वचित्कदाचित्स्वगृहाद्बहिर्याताः किम् ॥ ६ ॥
गृहेषु येष्वतिथयो नार्चिताः सलिलैरपि ।
यदि निर्यान्ति ते नूनं प्रेतराजगृहोपमाः ॥ ७ ॥
पदरत्नावली
प्रेतराजगृहोपमाः श्मशानतुल्याः ॥ ७ ॥
सत्यधर्मीया
तथैव गमने को दोषः येनैवं भाषसे पत इत्यत आह ॥ गृहेष्विति ॥ ते गृहाः प्रेतराजगृहोपमाः संयमनीसदृशाः श्मशानसमा वा ॥ ७ ॥
छलारी
नार्चिता अनर्चिताः सन्तो ये निर्गच्छन्ति ते गृहाः प्रेतराजगृहस्य श्मशानस्य समास्तुल्याः ॥ ७ ॥
लिङ्घेरी
गृहादतिथीनां विमुखतया गमने गृहस्थस्यानिष्टमाह ॥ गृहेष्वित्यादिना ॥ हे गृहमेधिन्यदिते । अतिथयोऽत्यैश्वर्याभावे सलिलैरपि येषु गृहेष्वपूजिता यदा निर्गच्छन्ति तदा ते गृहाः प्रेतराजस्य यमस्य गृहस्थानीयाः श्मशानतुल्याः । गृहशब्दस्य, ‘गृहाः पुंसि च भूम््नयेव’ इति बहुवचने पुल्लिंगस्यानुशासनात् त इरिति पुल्लिङ्गेन गृहपरामर्शोपपत्तिः ॥ ७ ॥
अप्यग्नयस्तु वेलायां न हुता हविषा सति ।
त्वयोद्विग्नधिया भद्रे प्रोषिते मयि कर्हिचित् ॥ ८ ॥
पदरत्नावली
वेलायां योग्यकाले । प्रोषिते गृहादन्यत्र स्थिते ॥ ८ ॥
सत्यधर्मीया
वेलायां विहितकाले । मयि प्रोषितेऽन्यत्र गते सति ॥ ८ ॥
छलारी
हे सति । मयि प्रापिते सति । गृहादन्यत्र स्थिते सति उद्विग्ना संभ्रान्ता धीर्यस्यास्तथा त्वया वेलायां होमकालेऽग्नयो कर्हिचिन्न हुताः किम् ॥ ८ ॥
लिङ्घेरी
भद्रे हे सति पतिव्रते । कर्हिचित्कदाचिन्मयि प्रोषिते प्रवासङ्गते सत्युद्विग्नधिया चञ्चलबुद्धिमत्या त्वयाऽग्नय आहवनीयगार्हपत्यदाक्षिणाख्या वेलायां विहितहोमकाले हविषा क्षीरादिरूपेण न हुता अपि किम् । गर्हासमुच्चयप्रश्नशङ्कासंभावनास्वपीत्यमरादत्रापिशब्दः प्रश्नार्थकः ॥ ८ ॥
यत्पूजया कामदुघान् यान्ति लोकान् गृहान्विताः ।
ब्राह्मणोऽग्निश्च वै विष्णोः सर्वदेवात्मनो मुखम् ॥ ९ ॥
पदरत्नावली
सर्वदेवात्मनो विष्णोर्मुखं ब्राह्मणोऽग्निश्चेति द्वयम् ॥ ९ ॥
सत्यधर्मीया
तन्महिम्ना सह पूर्वोदीरितविप्रमाहात्म्यमप्याह ॥ यस्याग्नेः पूजयेति । गृहान्विता गृहस्थाश्रमिणः । सर्वदेवात्मनस् तत्स्वामिनो विष्णोर्ब्राह्मणोऽग्निश्च मुखम् । ‘ब्राह्मणोऽस्य मुखमासीत्,’ ‘मुखादिन्द्रिश्चाग्निश्च’ इत्यादेः । यतस्ततः कामदुघान् । दुहः कब् न्घश्च । कामपूरकान् लोकान् यान्ति । तेऽग्नयो वेलायां न हुताः किमित्यन्वयः ॥ ९ ॥
छलारी
यस्याग्नेः पूजया । गृहेणान्वितः पुरुषः । तत्र हेतुमाह ॥ ब्राह्मण इति ॥ सर्वदेवानामन्तर्यामिणो विष्णोर्ब्राह्मणोऽग्निश्चेति द्वयं मुखं यतोऽत इत्यर्थः ॥ ९ ॥
लिङ्घेरी
हे अदिते । गृहान्विता गृहस्थाश्रमिणो येषां गार्हस्पत्यादीनां पूजया सर्वाभीष्ट-प्रदान् स्वरादिलोकान् यान्ति । अग्नेः पूज्यत्वे निमित्तमाह ॥ ब्राह्मण इत्यादिना ॥ सर्वेषां देवानां ब्रह्मादीनामात्मनः स्वामिनो विष्णोर्बाह्मणो विप्रोऽग्निश्च मुखाज्जातत्वान्मुखं मुखस्थानी-योऽतः पूज्य इति । वा इत्यनेनोक्तार्थे, ‘दर्शपूर्णमासाभ्यां स्वर्गकामो यजेत । मुखादिन्द्र-श्चाग्निश्च । ब्राह्मणोऽस्य मुखमासीत् । अग्निर्वै देवानामवमो विष्णुः परमः । विष्णुमुखा वै देवाः’ इत्यादिश्रुतिप्रसिद्धिं सूचयति ॥ ९ ॥
अपि सर्वे कुशलिनस्तव पुत्रा मनस्विनि ।
लक्षयेऽस्वस्थमात्मानं भवत्या लक्षणैरहम् ॥ १० ॥
पदरत्नावली
अस्वस्थम् अप्रकृतिस्थम् ॥ १० ॥
सत्यधर्मीया
ज्ञातसर्वोऽपि लौकिकीं रीतिमनुकुर्वन् विकल्प्यान्तिमं तन्मनःस्थितं पृच्छति ॥ अपीति ॥ भवत्यास्तव लक्षणैश्चिह्नैरात्मानं मनोऽस्वस्थं लक्षये ॥ १० ॥
छलारी
हे मनस्विनि । तव पुत्राः सर्वेऽपि कुशलिनः क्षेमवन्तः किम् । प्रश्नबीजमाह ॥ लक्षय इति ॥ भवत्या आत्मानं मनोऽस्वस्थं चिन्तायुक्तलक्षणैर्मुखम्लानादिभिर्लक्षये तर्कयामि
॥ १० ॥
लिङ्घेरी
हे प्रशस्तमनस्के । तव सर्वे पुत्राः कुशलिनः क्षेमवन्तोऽपि किम् । अहं भवत्या लक्षणैर्मुखवैकांत्यादिरूपैश्चिन्हैरात्मानं मनोऽस्वस्थं चञ्चलं लक्षये जानामि । कुशलं क्षेममस्त्रियाम् । ‘आत्मा जीवे धृतौ चित्ते देहे च परमात्मनि’ इति नानार्थमुक्तामाला । ‘चिन्हं लक्ष्म च लक्षणम्’ इत्यमरः ॥ १० ॥
अदितिरुवाच–
भद्रं द्विजगवां ब्रह्मन् धर्मस्यास्य जनस्य च ।
त्रिवर्गस्य परं क्षेत्रं गृहमेधिन् गृहा इमे ॥ ११ ॥
सत्यधर्मीया
शङ्किताशङ्कितकुशलं लपन्ती स्वमनोरथं विज्ञापयति ॥ भद्रमिति ॥ त्रिवर्गस्य धर्मादेः । परं क्षेत्रं मुख्यं स्थानम् । किं तदित्यत आह ॥ इमे गृहा इति ॥११॥
छलारी
अस्वास्थ्यकारणमन्यदस्तीति वक्तुं त्वत्पृष्टमभद्रादिकं नास्तीत्याहुः ॥ भद्र-मिति द्वाभ्याम् । द्विजानां भद्रमेवास्ति । त्रिवर्गस्य धर्मार्थकामरूपस्य परं क्षेत्रमुद्भवस्थानरूपा इमे गृहाश्च सर्वे कुशलिनः ॥ ११ ॥
लिङ्घेरी
एवं कश्यपेन पृष्टाऽदितिरुवाच । ब्रह्मन् ज्ञानादिपूर्ण गृहमेधिन् गृहस्थाश्रमोचित कर्मकरणपटो । एतद्गृहपते कश्यप । द्विजगवां धर्मस्यास्य जनस्य धर्मार्थकामरूपत्रिवर्गस्य च भद्रं क्षेममेव परमुत्कृष्टं क्षेत्रं भूमिरिमे गृहाः ॥ ११ ॥
अग्नयोऽतिथयो भृत्या भिक्षवो ये च लिप्सवः ।
सर्वं भगवतो ब्रह्मन्ननुध्यानान्न रिष्यति ॥ १२ ॥
पदरत्नावली
इमे गृहा अग्नयश्चेत्यादि सर्वं भगवतोऽनुध्यानान्न रिष्यति न क्षिणोति
॥ १२ ॥
सत्यधर्मीया
लिप्सवः सर्वे न वृथा गताः । सर्वं भगवतस्तवानुध्यानात् त्वत्स्मरणादि- रूपसेवाया । न रिष्यति न नश्यति ॥ १२ ॥
छलारी
भिक्षवो भिक्षुका लिप्सवो बान्धवाश्चाग्नय इत्यादि सर्वं भगवतस्तवानुध्यानान्मया क्रियमाणान्न रिष्यति ॥ १२ ॥
लिङ्घेरी
हे ब्रह्मन् । अग्नयोऽतिथयो भृत्या दासा भिक्षवः सन्न्यासिनो ये चान्ये लिप्स-वोऽन्नादिप्राप्तीच्छवस्तत्सर्वं भगवतस्तवानुध्यानात्स्मरणान्न रिष्यति नष्टं न भविष्यति ॥ १२ ॥
को नु मे भगवन् कामो न सम्पद्येत मानसः ।
यस्या भवान् प्रजाध्यक्ष एवं धर्मान् प्रभाषते ॥ १३ ॥
पदरत्नावली
यस्या मम प्रजानां कुशलाकुशलयोरध्यक्षः साक्षित्वेन द्रष्टा भवानेवंविधान् धर्मान् प्रवक्तीति यत् ॥ १३ ॥
सत्यधर्मीया
मानसो मनसि स्थितः । प्रजाध्यक्षो भवान् पतिरेवं धर्मांश्च प्रभाषते । तस्या मम को नु कामो न सम्पद्येत सर्वं सम्पद्येतैवेत्यर्थः ॥ १३ ॥
छलारी
प्रस्तुतं विज्ञापयितुमाह ॥ को न्विति ॥ मानसो मनस्यपेक्षितः कामो विषयो न सम्पद्येत न सिध्येत् । प्रजाध्यक्षः प्रजानां कुशलाकुशलयोरध्यक्षः साक्षित्वेन दृष्टा भवान्यस्य ममैवं पूर्वोक्तप्रकारेण धर्मान् अग्न्यतिथ्यादिपूजारूपान्प्रभाषते उपदिशति । तस्या ममेत्यन्वयः
॥ १३ ॥
लिङ्घेरी
हे भगवन् । यस्या मम भवान्प्रजाध्यक्षः सन्तानस्वामी । पतिरिति यावत् । एवमुक्तविधान्धर्मान्प्रभाषते कर्तव्यतया विधत्ते तस्या मम मनसि स्थितः को नु कामः को वा मनोरथो न प्राप्येत प्राप्येतैव ॥ १३ ॥
तवैव मारीच मनःशरीरजाः प्रजा इमाः सत्वरजस्तमोजुषः ।
मनोरथं तासु सुरादिषु प्रभो यथाविभागं भजते महेश्वरः ॥ १४ ॥
पदरत्नावली
यथाविभागं सत्वादिगुणानुकूल्येन । अद्य दैत्यानां मनोरथं साधयती-त्यभिप्रायः ॥ १४ ॥
सत्यधर्मीया
हे मारीच मरीचपुत्र । मनोजाः काश्चन । काश्चन प्रजाः शरीरजाः । सत्त्वरजस्तमोजुषः सात्त्विकादिप्रकृतयस्तासु सुरादिषु प्रजासु । यथाविभागं गुणानुगुण्येन महेश्वरो भगवान् मनोरथमभिलाषम् । भजते विभज्य ददाति । एतेन दैतेयाभिवृद्धिकालोऽयमिति तत्कटाक्षयति अदितिरिति भावः । सुराश्चादिनो राक्षसाश्चेति तेष्विति वा ॥ १४ ॥
छलारी
ननु सर्वस्यापि भद्रत्वेन तव म्लानमुखत्वं किं निमित्तमित्यतस्तत्र निमित्तं वदतीति स्वापेक्षितं प्रार्थयते ॥ तवैवेति चतुर्भिः । हे मारीच मरीचपुत्र । सत्त्वरजस्तमोजुषः सात्त्विकराजसतामसस्वभावास्तवैव मनःशरीरजा मनसा शरीरेण वा जाता या इमाः प्रजाः सुरासुरादयस्तासु सुरासुरादिषु महेश्वरो हरिर्विभागं सत्त्वादिगुणानुकूल्येन मनोरथं भजते करोति । अद्य दैत्यानां मनोरथं साधयतीति हृदयम् ॥ १४ ॥
लिङ्घेरी
एवमदितिः पतिसमाधानं कृत्वाऽपि स्वान्तःकरणचाञ्चल्यनिमित्तं भगवा-न्नारायण एव परिहर्ता नान्यस्तथाऽपि तदहं कथयामीत्याह ॥ तवैवेत्यादिना ॥ हे मारीच मरीचिपुत्र कश्यप । सत्त्वरजस्तमोगुणसेविन इमाः प्रजा देवमानुषासुररूपा जनास्तव मनः-पूर्वकशरीरजा एव । हे प्रभो अपेक्षितप्रदानसमर्थ कश्यप । महेश्वरो मुख्यस्वामी हरिस्तासु सुरादिषु प्रजासु मनोरथं यथाविभागं तत्तद्योग्यताविभागमनतिक्रम्य भजते ददाति । यथा-विभागमित्यस्य यस्य यस्य देहिनो यस्मिन्यस्मिन्काले सुखं दुःखं वा देयमिति स्वसंकल्पस्तथा तत्तत्करोति भगवान् । इदानीं त्वसुराणां मनोरथं करोतीति भावः ॥ १४ ॥
तस्मादंशं भजन्त्या मे श्रेयश्चिन्तय सुव्रत ।
हृतश्रियो हृतस्थानाः सपत्नैः पाहि नः प्रभो ॥ १५ ॥
पदरत्नावली
अंशं देवताभागं तव देहार्थं व्यवहारार्थं वा । हृतस्थाना हृतस्वर्गस्थानाः
॥ १५ ॥
सत्यधर्मीया
अंशं तवार्धमङ्गम् । देवदैत्यमध्ये देवांशं सुकृतांशं वा । दायमिति वा । सपत्नैर्हृतस्थाना अपहृतस्वर्गा नः सुता इति तान् पाहि ॥ १५ ॥
छलारी
हे ईश पते । श्रेयः क्षेमं चिन्तय साधय । सपत्नैर्दैत्यैर्हृता श्रीर्येषां ते तान् । हृतं स्थानं स्वर्गो येषां तान् । नोऽस्मान् । पुत्रापेक्षया पुल्लिङ्गबहुवचने ॥ १५ ॥
लिङ्घेरी
हे शोभनव्रतसम्पन्न पते । यस्मात्त्वद्विधपत्न्या मम सर्वमनोरथः सिद्ध्ये-त्तस्मात्त्वं, तवांशं त्वत्सम्पादितद्रव्यभागं भजन्त्याः सेवमानायास्तद्योग्याया देहार्धं भजन्त्या मे श्रेयश्चिन्तय । हे प्रभो आपत्परिहारसमर्थ । सपत्नैर्मत्समानस्त्रीपुत्रैः शत्रुभिरपहृतसंपदः स्थाना नोऽस्मान्पाहि रक्षस्व ॥ १५ ॥
परैर्विवासिता साऽहं मग्ना व्यसनसागरे ।
ऐश्वर्यं श्रीर्यशः स्थानं हृतानि प्रबलैर्मम ॥ १६ ॥
पदरत्नावली
पुनरुक्तमेव विशिनष्टि– परैरिति ॥ मम पुत्राणामिति शेषः ॥ १६ ॥
सत्यधर्मीया
प्रलापकाल इत्युक्तं पुनरुक्तीकरोति । विवासिता सुतदेशभ्रंशभ्रंसितेति
॥ १६ ॥
छलारी
उक्तमेव विशदयति ॥ परैरिति ॥ शत्रुभिरित्यर्थः । विवासिता बहिष्कृता स्वस्थानाच्च्याविता । व्यसनसागरे दुःखसागरे । मे मम । पुत्राणामिति शेषः । ऐश्वर्यादीनि हृतानि ॥ १६ ॥
लिङ्घेरी
अहं परैः शत्रुभिर्विवासिता स्वस्थानात्प्रच्याव्य प्रवासं प्रापिता, व्यसनानां क्लेशानां सागरे मग्ना च । ममैश्वर्यं श्रीः कान्तिर्यशः कीर्तिः स्थानमाश्रय इत्येतानि प्रबलैः शत्रुभिर्हृतानि ॥ १६ ॥
यथा तानि पुनः साधो प्रपद्येरन् ममात्मजाः ।
तथा विधेहि कल्याणं धिया कल्याणकृत्तम ॥ १७ ॥
सत्यधर्मीया
कल्याणकृत्तम मङ्गलकारिवरीयः ॥ १७ ॥
छलारी
कल्याणं मङ्गलं विधेहि । धिया बुद्ध्या । अन्तःकरणपूर्वकमिति यावत् । कल्याणकर्तॄणामुत्तमः ॥ १७ ॥
लिङ्घेरी
साधो मङ्गलकारिणामुत्तम । ममात्मजाः पुत्राः पुनर्यथा येन प्रकारेण तान्यैश्वर्यादीनि प्रपद्येरन् प्राप्ता भवेयुस्तथा तेन प्रकारेण त्वं धिया बुद्धिपूर्वं कल्याणं मङ्गलं विधेहि कुरु ॥ १७ ॥
श्रीशुक उवाच–
एवमभ्यर्थितोऽदित्या कस्तामाह स्मयन्निव ।
अहो मायाबलं विष्णोः स्नेहबद्धमिदं जगत् ॥ १८ ॥
सत्यधर्मीया
कः प्रजापतिसामान्यवाची कशब्द इति केचित् । वस्तुतस्तु श्यप इति वर्णद्वयलोपेन क इति । स्मयन् स्मयमानः कश्यप इति भवति । बृहद्देवतिकायां ‘‘वर्णस्य वर्णयोर्लोप’’ इति विशेषाभिधानदर्शनेन अनुज्ञया वर्तामहे । कश्यपः हरिः करुणां कुर्यादेवेति आ सम्यक् कं यस्य स वा । हासस्तु अहो स्नेहमोहो महीयान् लोकानामिति । किञ्चिदाश्वासनाय तत्त्वमुपदिशति ॥ अहो इत्यादिना ॥ १८ ॥
छलारी
कः प्रजापतिः कश्यपः स्मयन्निवाश्चर्यं कुर्वन्निव प्रथमं तावत्पुत्रस्नेहं त्याजयितुं विस्मयव्याजेन तत्त्वमुपदिशति ॥ अहो इति ॥ मायाया मोहिन्या इच्छाया बलं सामर्थ्यम्
॥ १८ ॥
लिङ्घेरी
एवमुक्तरीत्याऽदित्या प्रार्थितो मुनिः कश्यपः स्मयन्निव तामदितिं प्रत्याह । हे अदिते । विष्णोर्मायाबलमहो आश्चर्यकरम् । येन मायाबलेनेदं चेतनरूपं जगत्स्वपुत्रादिषु स्नेहबद्धं भवति ॥ १८ ॥
क्व देहो भौतिकोऽनात्मा क्व चात्मा प्रकृतेः परः ।
कस्य के पतिपुत्राद्या मोह एव हि कारणम् ॥ १९ ॥
पदरत्नावली
अनात्मा जडात्मकः । मोहोऽज्ञानम् ॥ १९ ॥
सत्यधर्मीया
अनात्मा जडो भौतिको भूतविकृतः । आत्मा जीवः । प्रकृते-रुपादानभूतायाः परो विलक्षणः । मोहः कारणं ममताप्रयोजकमज्ञानम् ॥ १९ ॥
छलारी
अनादिष्वात्मसु जडरूपो भौतिको भूतविकारः । प्रकृतेः परो विलक्षणः । आत्मा जीवः क्व । के कस्य पतिपुत्राद्याः । संबन्धाभावादिति संम्बन्धः । एषु स्वसम्बन्धिज्ञाने मोह एव मिथ्याज्ञानमेव ॥ १९ ॥
लिङ्घेरी
भौतिक आकाशादिपञ्चभूतनिर्मितोऽत एवानात्मा जडो देहः क्व । प्रकृतेर्जड-रूपात्पञ्चमहाभूतादेः परो विलक्षणोऽत्यन्तभिन्न आत्मा जीवः क्व च । नैतयोरैक्यमिति भावः । एवं सति देहापेक्षया पतिपुत्रादिसंबन्धिनः कस्य चेतनस्य के पतिपुत्रादयो भविष्यन्ति । न कस्य केऽपि । ननु गौरोऽहं कृष्णोऽहमिति देहात्मनोरभेदावगमात्कथमेवमुच्यत इत्यत आह ॥ मोह एवेति ॥ गौरोऽहमित्यादिज्ञानेन मुह्यते भ्रान्तो भवत्यनेनेति मोहोऽज्ञानमेव कारणं, हि श्रुत्यादिप्रमितम् ॥ १९ ॥
उपतिष्ठस्व पुरुषं भगवन्तं जनार्दनम् ।
सर्वभूतगुहावासं वासुदेवं जगद्गुरुम् ॥ २० ॥
सत्यधर्मीया
आत्यन्तिकमस्या आवश्यकं स्वस्यापीदमिति विद्वान् तां सुमुखीं विधातु-मुपायमभिधत्ते ॥ उपतिष्ठस्वेति ॥ गतम् । स क्व वर्तते इति न भज चिन्तामित्याह । वासुदेवमिति ॥ तत्पदप्रवृत्तिनिमित्तं सर्वभूतगुहावासमिति ॥ २० ॥
छलारी
अत्रापरितुष्यन्तीं प्रत्याह ॥ उपतिष्ठस्वेति ॥ उपतिष्ठस्वोपास्व । सर्वभूतानां सर्वप्राणिनां हृदयगुहावासम् ॥ २० ॥
लिङ्घेरी
हे स्त्रि । त्वं पुरुषं बह्वभीष्टदातारम् अभीष्टविरोधिदुष्टजनमर्दकं सर्वप्राणिहृद्गुहा-वस्थितमत एव वासुदेवशब्दितं जगतः ब्रह्मादेश्चेतनसमूहस्य गुरुं हिताहितोपदेष्टारं भगवन्तं नारायणमुपतिष्ठस्व सेवस्व । अनेन क्व देह इत्याद्युक्तरीत्या यद्यपि पुत्रादिस्नेहेन तदभीष्ट-सिद्धिर्नापेक्ष्या तथाऽपि तत्स्नेहत्यागाशक्तस्तदर्थम् । ‘यो वेद निहतं गुहायां परमे व्योमन्’ इत्यादिश्रुतिभिरवश्यं मुमुक्षुणाऽपि ज्ञातव्यतयोक्तसाक्षात्परब्रह्मरूपनारायण एवोपास्यो नान्य इत्यसूचि ॥ २० ॥
स विधास्यति ते कामान् हरिर्दीनानुकम्पनः ।
अमोघा भगवद्भक्तिर्नेतरेति मतिर्मम ॥ २१ ॥
पदरत्नावली
इतरा देवादिविषया ॥ २१ ॥
सत्यधर्मीया
दीनेष्वनुकम्पनं यस्य । दीनाननुकम्पयतीति स तथा वा । इतरा भक्तेः
॥ २१ ॥
छलारी
विधास्यति करिष्यति । दीनेष्वनुकंपावान् । नन्वेवम्भूतकामप्राप्तिहेतुर्देवान्तर-सेवाप्रसिद्धस्तत्राह ॥ अमोघेति ॥ भक्तिर्भजनम् । इतरा इतरदेवादिविषया ॥ २१ ॥
लिङ्घेरी
तद्विशदयति ॥ स इत्यादिना ॥ हे अदिते । दीनेषु दैन्योपेतभक्तिजनेष्वनु-कम्पनो दयालुः स हरिस्ते कामान्मनोभीष्टान्विधास्यति करिष्यति । यतो भगवति नारायणे भक्तिरमोघाऽव्यर्थेतरदेवताविषया भक्तिर्मोघेति निश्चयो नास्तीति मे मम मतिः ॥ २१ ॥
अदितिरुवाच–
केनाहं विधिना ब्रह्मन्नुपस्थास्ये जगत्पतिम् ।
यथा मे सत्यसङ्कल्पो विदध्यात्स मनोरथम् ॥ २२ ॥
पदरत्नावली
सत्यसङ्कल्पो हरिः ॥ २२ ॥
सत्यधर्मीया
उपस्थास्ये भजिष्ये ॥ २२ ॥
छलारी
उपस्थास्ये भजिष्ये । सत्यसङ्कल्पो हरिर्यथा मम मनोरथं विदध्यात् ॥ २२ ॥
लिङ्घेरी
एवं कश्यपेन समाहिताऽदितिरुवाच । हे ब्रह्मन् पृष्टोत्तरज्ञानपूर्ण द्विजश्रेष्ठ । अहं केन विधिना प्रकारेण जगत्पतिं हरिमुपस्थास्ये । यथा च सत्यसंकल्पः स हरिर्मे मम मनोरथं विदध्यात् ॥ २२ ॥
आदिश त्वं द्विजश्रेष्ठ विधिं तदुपधावनम् ।
आशु तुष्यति मे देवः सीदन्त्याः सह पुत्रकैः ॥ २३ ॥
पदरत्नावली
तदुपधावनं तस्य हरेः सेवाविषयम् । आशु तुष्यति, येनेति शेषः
॥ २३ ॥
सत्यधर्मीया
तं विधिं तदुपधावनमुपासनं च । आदिशोपदिश । सह पुत्रकैः । सीदन्त्याः क्लिश्यन्त्याः ॥ २३ ॥
छलारी
यथा च पुत्रकैः सह सीदन्त्याः क्लेशिताया मे, देव आशु तुष्यति तथा तस्य हरेरुपधावनं सेवाविषयं विधिं प्रकारमादिश ॥ २३ ॥
लिङ्घेरी
यथा च पुत्रैः सह सीदन्त्याः कष्टं प्राप्ताया मे स देव आशु तुष्टो भविष्यति । तथा तदुपासनसाधनं विधिं त्वमादिश ॥ २३ ॥
कश्यप उवाच–
एतन्मे भगवान् पृष्टः प्रजाकामस्य पद्मजः ।
यदाह ते प्रवक्ष्यामि व्रतं केशवतोषणम् ॥ २४ ॥
पदरत्नावली
यदेतद्व्रतं तद्वक्ष्यामि ॥ २४ ॥
पदरत्नावली
स्रोतः स्यान्दमानं जलम् । तत्र स्नानं कुर्यादित्यर्थः । रसाया रसातलात् । स्थानमिच्छता, भूतानामिति शेषः ॥ २४ ॥
सत्यधर्मीया
प्रजाकामस्य मे मया । केशवतोषणं तद्व्रतम् । ते प्रवक्ष्यामि ॥ २४ ॥
छलारी
मे मया पृष्टः पद्मजो ब्रह्मा प्रजाकामस्य पुत्रकामस्य यद्व्रतमाहैतत्केशवतोषणं व्रतं ते वक्ष्यामीत्यन्वयः ॥ २४ ॥
लिङ्घेरी
एवमदित्या पृष्टः कश्यप उवाच । हे अदिते । मया प्रजाकामनया पृष्टो भगवान्पद्मजश्चतुर्मुखः प्रजाकामस्य मे केशवस्य ब्रह्मरुद्रादिनियामकस्य हरेस्तोषणं तुष्टिकरं यद्व्रतमाह तदेतद्व्रतं ते प्रवक्ष्यामि ॥ २४ ॥
फाल्गुनस्यामले पक्षे द्वादशाहं पयोव्रतः ।
अर्चयेदरविन्दाक्षं भक्त्या परमयाऽन्वितः ॥ २५ ॥
पदरत्नावली
पयोव्रत इति पुल्लिङ्गप्रयोगः सर्वसाधनत्वज्ञापनार्थः ॥ २५ ॥
सत्यधर्मीया
अमले शुक्ले । पयसो व्रतं यस्य स्वीकारः । स साक्षात्स्वं प्रति ब्रह्मोपदेशप्रकारेणान्ववदिदीषतीति पुल्लिङ्गं सम्भवति । तथा चातन्त्रं तदिति भावः । परमया भक्त्याऽन्वितोऽरविन्दाक्षमर्चयेत् ॥ २५ ॥
छलारी
व्रतानुष्ठानप्रकारमेवाह ॥ फाल्गुनस्येत्यादिना ॥ फाल्गुनस्य मासस्यामले शुक्लपक्षे द्वादशाहं द्वादशदिनेषु पयोव्रतः । परमया भक्त्याऽन्वितः पुरुषोऽरविन्दाक्षं हरिमर्चयेत् । पयोव्रत इति पुल्लिङ्गप्रयोगस्तु व्रतस्य साधारणत्वज्ञापनार्थः ॥ २५ ॥
लिङ्घेरी
एवं व्रतं प्रवक्ष्यामीति प्रतिज्ञातं कालदेवतादि दर्शयन्नाह ॥ फाल्गुन-स्येत्यादिना ॥ एतद्व्रतं करिष्यमाणः फाल्गुनस्य मासस्यामले शुक्ले पक्षे द्वादशदिवसपर्यन्तं क्षीरव्रतः सन् अरविन्दाक्षं कमलवद्विशालनेत्रं हरिं परमयोत्कृष्टया भक्त्या व्रतः सन्नर्चयेत् । पयोव्रत इत्यादिनिर्देशेनादितिं प्रति कर्तव्यतयैतद्व्रतविधानेन चास्य व्रतस्य स्त्रीपुरुषोभयाधि-कारिकत्वमुक्तम् ॥ २५ ॥
सिनीवाल्यां मृदालिप्य स्नायात् क्रोडविदीर्णया ।
यदि लभ्येत वै स्रोतस्येतं मन्त्रमुदीरयेत् ॥ २६ ॥
पदरत्नावली
मृदो विशेषमाह– क्रोडेति ॥ वराहखातया । स्रोतः स्यन्दमानं जलम् । तत्र स्नानं कुर्यादित्यर्थः ॥ २६ ॥
सत्यधर्मीया
सिनीवाल्यां चतुर्दशीयुक्तामावास्यायाम् । क्रोडविदीर्णया । क्रोडो वराहः । क्रोडः सूकरमातंग्योरिति विश्वः । यदि सा मृद् लभ्येत । स्रोतसि । ‘स्रोतोऽम्बुवेगाद्रिपयोः’इति विश्वः । नदीप्रवाहे स्नास्यन् । इमं वक्ष्यमाणम् ॥ २६ ॥
छलारी
तत्रादौ व्रतारम्भात्पूर्वेद्युः कृत्यमाह ॥ सिनीवाल्यामित्यादिना ॥ ब्रह्मचार्यथ तद्रात्र्यामित्यन्तेन ग्रन्थेन । सिनीवाल्यां चतुर्दशीयुक्तायाममावास्यायाम् । सा नष्टेन्दुः सिनीवाली सा नष्टेन्दुः कलाकुहुरित्यभिधानात् । यदि वन्यवराहोत्खातमृत्तिका लभ्येत तर्हि क्रोडेन वन्य-वाराहेण विदीर्णयोत्खातया मृदाऽऽलिप्य स्रोतसि सप्रवाहवति जले स्नायात् । अन्यथा प्रशस्त-मृत्तिकयैव स्नायादित्यर्थः । मृत्तिकालेपन एवं वक्ष्यमाणं मन्त्रमुदीरयेत्पठेत् ॥ २६ ॥
लिङ्घेरी
यदि स्त्रोतः प्रवाहोदकं नद्यादि लभ्येत तस्मिन्स्रोतसि तदलाभेऽन्यवाप्यादि-शुद्धजले सिनीवाल्यां चतुर्दशीयुक्तायां किञ्चिच्चन्द्रदर्शनोपेतायाममायाम् । हे भूदेवि त्वं जनानां स्थानमिच्छताऽऽदिवराहेण रसातललोकादुद्धृताऽसि तुभ्यं नमोऽस्तु । त्वं मे पाप्मानं पापं प्रणाशय विनाशयेति मन्त्रमुदीरयन्नुच्चारयन्, क्रोडेन वराहेण विदीर्णया भेदितया मृदा मृत्तिकया स्वशरीरमालिप्य स्नानं कुर्यात् । साऽदृष्टेन्दुःसिनीवाली । मृन्मृत्तिका । क्रोडो भूदार इति । स्रोतोऽम्बुसरणम् ॥ २६ ॥
त्वं देव्यादिवराहेण रसायाः स्थानमिच्छता ।
उद्धृताऽसि नमस्तुभ्यं पाप्मानं मे प्रणाशय ॥ २७ ॥
पदरत्नावली
रसाया रसातलात् । स्थानमिच्छता, भूतानामिति शेषः ॥ २७ ॥
सत्यधर्मीया
रसाया रसातलात् । स्थानं लोकानामिच्छता । आदिवराहेण हरिणा । उद्धृताऽसि तुभ्यं नमः । मे पाप्मानं प्रणाशयेति ॥ २७ ॥
छलारी
तमेव मन्त्रमाह ॥ त्वं देवीति ॥ हे देवि त्वं भूमौ भूतानां स्थानमाश्रयमिच्छताऽऽदिवराहेण हरिणा रसाया रसातलादुद्धृताऽसि । तुभ्यं नमो नमः । मे पाप्मानं पापं प्रकर्षेण नाशय निवर्तितात्मनियमो नित्यनैमित्तिकात्मकः संध्योपासनादिको येन सः समाहित एकाग्रचित्तः सन् दैवमर्चयेत् ॥ २७ ॥
लिङ्घेरी
पाप्मा पापङ्किल्बिषमिति चामरः ॥ २७ ॥
निर्वर्तितात्मनियमो देवमर्चेत् समाहितः ।
अर्चायां स्थण्डिले सूर्ये जले वह्नौ गुरावपि ॥ २८ ॥
पदरत्नावली
निर्वर्तितात्मनियमः कृतसन्व्योपासनादिकः ॥ २८ ॥
सत्यधर्मीया
निर्वर्तितः समापित आत्मनियमो नित्यान्हिकसन्ध्यावन्दनः । तत्स्थाना-न्याह ॥ अर्चायां प्रतिमायामित्यादिना ॥ २८ ॥
छलारी
पूजास्थानान्याह ॥ अर्चायामिति ॥ अर्चायां सालग्रामप्रतिमायां सुवर्णादि-रचितप्रतिमायां वा । अर्चाद्यन्यतरस्मिन्नधिष्ठान इति ज्ञेयम् ॥ २८ ॥
लिङ्घेरी
एवं निर्वर्तितात्मस्नानसंध्यादिनियमः सन् समाहितः स्वस्थान्तःकरणश्च सन् अर्चायां प्रतिमायां, स्थण्डिले मार्जितपरिलिप्तशुद्धस्थले, सूर्ये जले वन्हौ गुरौ वाऽधिष्ठाने देवं नारायणमर्चयेत्पूजयेत् । ‘अर्चा पूजाप्रतिमयोः’ इति नानार्थरत्नमाला ॥ २८ ॥
नमस्तुभ्यं भगवते पुरुषाय महीयसे ।
सर्वभूतनिवासाय वासुदेवाय साक्षिणे ॥ २९ ॥
सत्यधर्मीया
तद्ध्यानमन्त्रनवकमाह ॥ नम इत्यादिना ॥ २९ ॥
छलारी
तत्रावाहने नव मन्त्राण्याह ॥ नमस्तुभ्यमित्यादिना ॥ एतैर्मन्त्रैर्हृषीकेश-मित्यन्तेन ॥ पद्यादौ द्वादशाक्षरं वक्ष्यति । महीयसे महत्परिणामोपेताय ॥ २९ ॥
लिङ्घेरी
पूजासाधनमन्त्रानाह ॥ नमस्तुभ्यमित्यादिना ॥ प्रसीदतामित्यन्तेन । महीयसे पुरुषायोत्तमचेतनाय भगवतेऽव्याहतैश्वर्यादिषड्गुणवते तुभ्यं नमोऽस्तु । ‘वासनाद्वासु-देवोऽसि वासितं ते जगत्त्रयम् । सर्वभूतनिवासोऽसि वासुदेव नमोऽस्तु ते ॥’ इति स्मृतेः
॥ २९ ॥
नमोऽव्यक्ताय सूक्ष्माय प्रधानपुरुषाय च ।
चतुर्विंशद्गुणज्ञाय गुणसंख्यानहेतवे ॥ ३० ॥
पदरत्नावली
गुणसंस्थानहेतवे कपिलात्मने ॥ ३० ॥
सत्यधर्मीया
चतुर्विंशद्गुणज्ञाय चतुर्विंशतितत्त्वगुणज्ञाय । गुणसङ्ख्यानं समीचीन-साङ्ख्यशास्त्रम् । तद्धेतवे कपिलात्मने ॥ ३० ॥
छलारी
अव्यक्तायाप्रत्यक्षाय । सूक्ष्मायाणुपरिमाणाय । प्रधानपुरुषाय सर्वोत्तमपुरुषाय । चतुर्विंशद्गुणा अव्यक्तादिपृथिव्यन्तानि चतुर्विंशतितत्त्वानि जानातीति तथा तस्मै । गुणानां तत्त्वानां सङ्ख्यानं प्रतिपादनं यस्मिंस्तस्मिन् तद्गुणसङ्ख्यानं साङ्ख्यशास्त्रं तस्य हेतवे कर्त्रे कपिलात्मन इत्यर्थः ॥ ३० ॥
लिङ्घेरी
अव्यक्ताय स्वप्रसादमन्तरेणाधिकारिप्रयत्नेन दृष्ट्याद्यगोचरायात एव सूक्ष्माया-व्यक्ततोपयुक्तस्थूलदृष्ट्यगोचरशक्तिमते । तदव्यक्तमाह हि । सूक्ष्मं तु तदर्हत्वादित्यादेः । प्रधानस्य प्रकृतेश्चेतनायाः पुरि शरीरेऽचेतनाया अप्याकाररूपे शरीरे नियमनार्थं शेत इति पुरुषः । तस्मै । शरीररूपकविन्यस्तगृहीतेः । प्रकृतिं प्रविश्य भगवानित्यादेश्च । रूपादि-शब्दान्तचतुर्विंशद्गुणज्ञाय चतुर्विंशतितत्त्वरूपस्वापेक्षया प्रधानपदार्थज्ञाय गुणसंख्यानाख्यग्रन्थकर्त्रे कपिलरूपाय नमोऽस्तु ॥ ३० ॥
नमो द्विशीर्षे त्रिपदे चतुःशृङ्गाय तन्तवे ।
सप्तहस्ताय यज्ञाय त्रयीविद्यात्मने नमः ॥ ३१ ॥
पदरत्नावली
द्वे शीर्षे, चत्वारिशृृङ्गेति श्रुतेः । ‘चत्वारिशृङ्गा वेदास्तु पादास्त्रिसवनानि च । प्रायणीयं शिरस्त्वेकमन्यच्चोदयनीयकम् । हस्तास्तु सप्त छन्दांसि तैर्गृह्णाति फलान्यसौ । मन्त्रब्राह्मणकल्पैस्तु त्रिधा बद्ध इतीर्यते । शस्त्रोद्गातृस्तुतिरवै रोरवीत्यृत्विजो मुखात् । वृषभो महान् स्वधर्मत्वाद्देवस्तु फलभावनात् ॥’ इति । तन्तवे व्याप्ताय, सन्ततिहेतवे च त्रयी विद्यानां सोमपानामात्मने अन्तर्यामिणे ॥ ३१ ॥
सत्यधर्मीया
‘चत्वारि शृृङ्गा त्रयो अस्य पादा’ इति पातञ्जला जजल्पुः । स्फोटः प्रतिपाद्य इति तत्खण्डनमुखेन हरिपरतया व्याकरोति ॥ नम इति ॥ द्विशीर्षे द्वे शिरसी यस्य । शीर्ष्णे इति वक्तुं शक्यं तथाऽपि छन्दोभङ्गमविधाय द्वे शीर्षे इत्येतत् प्रति द्विशीर्षे इत्युक्तिरिति ज्ञेयम् । प्रायणीयोदयनीयनामके । त्रिपदे प्रातर्मध्याह्नतृतीयसवनाख्यानि त्रीणि पदानि यस्य तस्मै । चत्वारि शृृङ्गाणि वेदा यस्य तस्मै । तन्तवे यज्ञात्मकाय तत्स्वामिने । प्रस्तुतत्वात् सन्ततिकृते वा । सप्त छन्दांस्येव हस्ता यस्य स तस्मै । यज्ञाय तन्नामकाय । यज्ञो विष्णुर्देवतेति हि श्रुतिरित्युक्तेः । रोरवीतीत्यादेरर्थः । त्रयीविद्यात्मन इति वेदविद्याप्रतिपाद्याय ।
चत्वारि शृृङ्गा वेदास्तु पादास्त्रिसवनानि च ।
प्रायणीयं शिरस्त्वेकमन्यच्चोदयनीयकम् ।
हस्तास्तु सप्त छन्दांसि तैर्गृण्हाति फलान्यसौ ।
मन्त्रब्राह्मणकल्पैस्तु त्रिधा बद्ध इतीर्यते ।
शास्त्रोद्गातृस्तुतिरवै रोरवीत्यृत्विजो मुखात् ।
वृषभो महान्स्वधर्मत्वाद्देवस्तु फलभावनात् ॥
इति मानत एतच्छ्रुत्यर्थो विवृतः ॥ ३१ ॥
छलारी
‘चत्वारि श्रृङ्गा त्रयोऽस्य पादा’ इति मन्त्रोक्तयज्ञरूपेण विष्णुं प्रणमति ॥ नम इति ॥ द्वे शीर्षे प्रायणीयोदनीयाख्ये यस्य तस्मै । त्रीणि पदानि पादाः प्रातर्माध्यन्दिन-सायंसवनाख्यानि यस्य तस्मै । चत्वारि शृृङ्गाणि ऋगादिचत्वारो वेदा यस्य तस्मै । तन्तवे फलविस्तारकाय सन्ततिहेतवे वा । सप्त गायत्र्यादिछन्दासि हस्ता यस्य तस्मै । त्रय्यां विद्यायां मन्त्रब्राह्मणकल्पाख्यायामात्मा स्वरूपं यस्य तस्मै । मन्त्रादिभिस्त्रिभिर्यज्ञस्वरूपस्य निष्पद्य-मानत्वादिति भावः । यज्ञायैतादृशयज्ञसंनिहितत्वेन यज्ञरूपाय विष्णवे नमो नमः ।
चत्वारि शृृङ्गा वेदास्तु पादास्त्रिसवनानि च ।
प्रायणीयं शिरस्त्वेकमन्यच्चोदयनीयकम् ।
हस्तास्तु सप्त छन्दासि तैर्गृण्हाति फलान्यसौ ।
मन्त्रब्राह्मणकल्पैस्तु त्रिधा बद्ध इतीर्यते ।
शास्त्रोद्गातृस्तुतिरवै रोरवीत्यृत्विजो मुखात् ।
वृषभो महान्स्वधर्मत्वाद्देवस्तु फलभावनात् ॥
इति चत्वारि शृृङ्गेति श्रुतिव्याख्यानरूपप्रमाणोक्त एवार्थ इति ज्ञेयम् ॥ ३१ ॥
लिङ्घेरी
द्वे प्रायणीयोदनीयसंज्ञके शीर्षे शिरसी यस्य तस्मै, प्रातर्मध्यन्दिनसायं सवनाख्यत्रिपादवते । ऋग्यजुः सामाथर्वाख्यचतुःशृृङ्गाय, तंतवे कर्मसमुदायहेतवे सन्तत्यभि-वृद्धिकराय, सप्तछन्दोलक्षणहस्तवते त्रयीविद्या ऋग्यजुःसामरूपवेदविद्या । तत्राग्निमी इत्यादिना प्रतिपाद्य आत्मा स्वरूपं यस्य तस्मै तुभ्यं नमः । ‘चत्वारि शृृङ्गा त्रयोऽस्य पादा’ इत्यादि श्रुतिमुख्यप्रतिपाद्यायाग्न्यन्तर्यामिणे तुभ्यं नम इत्यर्थः ।
‘चत्वारि शृृङ्गा वेदास्तु पादास्त्रिसवनानि च ।
प्रायणीयं शिरस्त्वेकमन्यच्चौदयनीयकम् ।
हस्तास्तु सप्त छन्दांसि तैर्गृण्हाति फलान्यसौ ।
मन्त्रब्राह्मणकल्पैस्तु त्रिधा बद्ध इतीर्यते ।
शस्त्रोद्गातृस्तुतिरवै रोरवीत्यृत्विजो मुखात् ।
वृषभो महान्स्वधर्मत्वाद्देवस्तु फलभावनात्’ ॥
इत्यादिस्मृतेरुक्त एव स्मृत्यर्थः ॥ ३१ ॥
नमः शिवाय रुद्राय नमः शक्तिधराय च ।
सर्वविद्याधिपतये भूतानां पतये नमः ॥ ३२ ॥
सत्यधर्मीया
शिवाय मङ्गलरूपिणे । रुद्राय रोगद्रावकाय । शक्तिधरायेति पाङ्क्तः पाठः
॥ ३२ ॥
छलारी
शिवान्तर्यामित्वेन हरिं नमति ॥ नम इति ॥ शिवाय शिवान्तर्यामिणे मङ्गलरूपायेति वा । रुद्राय रुजं संसाररोगं द्रावयति नाशयतीति तथा तस्मै रुद्रशब्दवाच्याय । शक्तेर्लक्ष्म्याः शक्त्याख्यायुधस्य वा धराय धर्त्रे ॥ ३२ ॥
लिङ्घेरी
शिवाय सुखरूपतया मङ्गलाय । रुजं दुःखहेतुभूतरोगादिकं संसाराख्यरोगं च द्रावयतीति रुद्रस्तस्मै तुभ्यं नमः । सर्वप्राण्यन्तर्यामिरूपेषु साधारणाय गुणशक्त्यादिभिः समाय । सर्वविद्यानामधिपतये मुख्यस्वामिने । भूतानामाकाशादीनां रमाब्रह्मादिचेतनानां च पतये पालकाय स्वामिने च ते नमोऽस्तु । शिवः सुखात्मकत्वेन । ‘रुजं द्रावयते यस्माद्रुद्रस्तस्माज्जनार्दनः’ । ‘सर्वेषां भूतानामन्तरपुरुषः’ । ‘स आत्मेति विद्यात्’ । ‘ईशानः सर्वविद्यानामीश्वरः सर्व-भूतानाम्’ । ‘ईशनादेव चेशान’ इत्यादि ब्रह्माण्डपुराणैतरेयतैत्तरैयश्रुतिभ्य उक्त एवार्थः । एतेन पार्वतीपत्यभेदेन हरेरत्र शिवादिशब्दवाच्यतेति निरस्तम् । एवमग्रे ज्ञेयम् । ‘तत्तन्नाम्नोच्यते विष्णुः सर्वशास्तृत्वहेतुतः । न क्वापि किञ्चिन्नास्ति तमृते पुरुषोत्तमम् ॥’ शास्त्रमन्तर्यामीत्यादेः
॥ ३२ ॥
नमो हिरण्यगर्भाय प्राणाय जगदात्मने ।
योगैश्वर्यशरीराय नमस्ते योगहेतवे ॥ ३३ ॥
पदरत्नावली
हिनोति दुःखं, राति सुखमिति हिरण्यं रेतोलक्षणं गर्भं यस्य स तथा तस्मै
॥ ३३ ॥
सत्यधर्मीया
हिरण्यं कोशे गर्भे यस्य स तस्मै । हिरण्यगर्भः पुत्रोऽस्यास्तीति स तथा तस्मै वा । प्राणाय सकलचेष्टकाय । जगदात्मने प्राणस्वामिने । तद्व्यापिने । योगैश्वर्यशरीराय योगैश्वर्यादि एव शरीरं यस्य तस्मै । लोकानां योगहेतवेऽणिमादेरुपायस्य वा कारणाय ॥ ३३ ॥
छलारी
हिरण्यगर्भाद्यन्तर्यामित्वेन नमति ॥ नम इति ॥ हिरण्यगर्भाय चतुर्मुख-संनिहिताय । प्राणाय सूत्रनामकवाय्वन्तर्गताय । जगत आत्मने स्वामिने । योगैश्वर्यमणिमाद्यैश्वर्यं शरीरं यस्य तस्मै । योगस्य प्राणायामादिप्रतिपादकयोगशास्त्रस्य हेतवे कर्त्रे ॥ ३३ ॥
लिङ्घेरी
हिनोति परिहरति दुःखं, राति ददाति सुखमिति हिरं, बलज्ञानात्मकत्वाण्यं, हिरं च तत् ण्यं च हिरण्यं वीर्यं ब्रह्माण्डोत्पादकं यस्य गर्भे स हिरण्यगर्भश् चतुर्मुखान्तर्यामी तस्मै हिरण्यगर्भाय । प्रकृष्टचेष्टकत्वात्प्राणशब्दवाच्याय मुख्यप्राणान्तर्यामिणे । जगतश्चेतनाचेतनात्मक-स्यात्मनेऽन्तर्यामिणे स्वामिने चाणिमाद्यष्टयोगैश्वर्योपेतशरीराय योगानां च हेतवे दत्तात्रेयादिरूपाय ते नमोऽस्तु । ‘हिरण्यगर्भः समवर्तताग्र’ इत्यादिश्रुतेः ॥ ३३ ॥
नमस्त आदिदेवाय देवदेवाय ते नमः ।
नारायणाय ऋषये नराय हरये नमः ॥ ३४ ॥
सत्यधर्मीया
नमस्त आदिदेवायेति पाठः । देवदेवाय देवस्तुत्याय नरायाविनाशिने
॥ ३४ ॥
छलारी
ऋषये ऋषिरूपाय ॥ ३४ ॥
लिङ्घेरी
आदौ चतुर्मुखादिचेतनमहदाद्यचेतनोत्पत्तेः प्राक् देवाय क्रीडादिगुणविशिष्टाय । देवानां चतुर्मुखादीनां देवाय ते नमः । ऋषये ज्ञानरूपाय, नारायणाय ज्ञानानन्दादिगुणवते, सर्वदा क्षयरहिततया नरशब्दवाच्याय, हरयेऽरिष्टपरिहारकायेष्टप्रापकाय ते नमः । ‘एको नारायण आसीत् । न ब्रह्मा न च शङ्कर’ इत्यादेः । ‘आनीदवातं स्वधया तदेकम्’ इत्यादेः ॥३४॥
नमो मरकतश्यामवपुषेऽधिगतश्रिये ।
केशवाय नमस्तुभ्यं नमस्ते पीतवाससे ॥ ३५ ॥
सत्यधर्मीया
अधिगता श्रीर्यं तस्मै ॥ ३५ ॥
छलारी
अधिगता प्राप्ता श्रीर्येन तस्मै । केशवाय कश्चेशश्च केशौ । तयोः प्रवर्तकाय
॥ ३५ ॥
लिङ्घेरी
मरकतमणिवच्छ्यामवर्णवच्छरीराय सर्वाधिकसर्वदाप्राप्तसंपदे तुभ्यं नमः । कश्चेशश्च केशौ ब्रह्मरुद्रौ वर्तयति प्रेरयतीति केशवस्तस्मै तुभ्यं नमः । पीताम्बरवते नमः
॥ ३५ ॥
त्वं सर्ववरदः पुंसां वरेण्य वरदर्षभ ।
अतस्ते तपसा धीराः पादरेणुमुपासते ॥ ३६ ॥
पदरत्नावली
यतो वरदर्षभः, अतः श्रिया विनिर्जिते पद्मे ययोस्तौ तथा तयोः पादयोरामोदं स्पृहयन्तो देवा यमन्ववर्तन्त स भगवान्(मे प्रसीदताम्) ॥ ३६ ॥
सत्यधर्मीया
यतः सर्वे ये वरास्तान्ददातीति स तथा । वरेण्य । गतम् । अतस्ते पादरेणुं धीरा बुद्धौ रममाणा उपासते ॥ ३६ ॥
छलारी
हे वरदानाम् ऋषभ । वरेण्य भक्तैर्वरणीय । हरे । त्वं पुंसां यतः सर्ववरदोऽस्य-तस्ते पादरेणुमुपासते ॥ ३६ ॥
लिङ्घेरी
हे हरे । त्वं पुरुषाणां सर्वाभीप्सितप्रद यतस्त्वं वरदेभ्यो ब्रह्मादिभ्यो वृषभः श्रेष्ठोऽतस्त्वं पुरुषाणां वरेण्यो भजनीयोऽतस्त्वां धीरा ज्ञानिनः श्रेयसे मोक्षादिपुरुषार्थाय ते पादरेणुं भजन्ति ॥ ३६ ॥
अन्ववर्तन्त यं देवाः श्रीविनिर्जितपद्मयोः ।
स्पृहयन्त इवामोदं भगवान् मे प्रसीदताम् ॥ ३७ ॥
सत्यधर्मीया
श्रिया कान्त्या विनिर्जिते पद्मे याभ्याम् । तयोः पादयोरिति शेषः । आमोदं परिमलं स्पृहयन्तः काङ्क्षन्तो देवा अन्ववर्तन्त । स भगवान्मे प्रसीदताम् ॥ ३७ ॥
छलारी
देवाः श्रीश्च, तत्पादपद्मयोस्तस्य हरेः पादपद्मयोरामोदं परिमलं स्पृहयन्त इवेच्छन्त इव यमन्ववर्तन्त सो मे प्रसीदताम् ॥ ३७ ॥
लिङ्घेरी
देवा ब्रह्मादयः, श्रिया कान्त्यादिसम्पदा विनिर्जिते पराजिते पद्मे कमले याभ्यां तयोस्ते पादकमलयोरामोदं परिमलं स्पृहयन्तोऽभिलषन्त एव यमन्ववर्तन्तानुकूलाः सेवितवन्तः स भगवान्नारायणो मे प्रसीदतां प्रसन्नो भूयात् ॥ ३७ ॥
एतैर्मन्त्रैर्हृषीकेशमावाहनपुरस्सरम् ।
अर्चयेच्छ्रद्धया युक्तः पाद्योपस्पर्शनादिभिः ॥ ३८ ॥
पदरत्नावली
उपस्पर्शनम् आचमनम् ॥ ३८ ॥
सत्यधर्मीया
पाद्यं पादार्घ्याभ्यां चेति यत् । उपस्पर्शनम् आचमनादि । स्यादुप-स्पर्शनास्पर्शे स्नानाचमनयोरिति विश्वः ॥ ३८ ॥
छलारी
एभिर्नवमन्त्रैरुपस्पर्शनमाचमनम् ॥ ३८ ॥
लिङ्घेरी
भगवदर्चकः श्रद्धयाऽस्तिक्यबुद्ध्या युक्तः सन् चाभिलषितमहाफलाय हृषीकाणां मन आदीन्द्रियाणामीशं प्रेरकं स्वामिनं चैतैरुक्तैर्मन्त्रैः पाद्यमुपस्पर्शनमाचमनादि येषां तैरुपचारै-रावहनपूर्वकमर्चयेत् । ‘यदेव श्रद्धया करोति तदेव वीर्यवत्तरं भवति’ इत्यादेः ॥ ३८ ॥
अर्चितं गन्धमाल्याद्यैः पयसा स्नापयेद् विभुम् ।
वस्त्रोपवीताभरणपाद्योपस्पर्शनैस्ततः ॥ ३९ ॥
सत्यधर्मीया
माल्यं माला पुष्पाणि च तदाद्यैः । पयसा क्षीरेण ॥ ३९ ॥
छलारी
पयसा क्षीरेण । उपवीतं यज्ञोपवीतम् ॥ ३९ ॥
लिङ्घेरी
आदौ पयसा क्षीरेण विभुं हरिं स्नापयेत् । तदनन्तरं वस्त्रोपवीताभरणपाद्योप-स्पर्शनैर्गन्धपुष्पैस्तुलस्यादिभिरर्चितं कुर्यात् । तुलसीवर्जितैः पुष्पैरिति तुलस्यतिरिक्तपूजायाः शतापराधेषु गणनात् ॥ ३९ ॥
गन्धधूपादिभिश्चार्चेद् द्वादशाक्षरविद्यया ।
सृतं पयसि नैवेद्यं शाल्यन्नं विभवे सति ॥ ४० ॥
पदरत्नावली
द्वादशाक्षरविद्यया ॐ नमो भगवते वासुदेवायेति । पयसि शृतं पायसान्नम्
॥ ३९ ॥
सत्यधर्मीया
द्वादशाक्षरविद्यया वासुदेवद्वादशाक्षरमन्त्रेण । पयसि क्षीरे शृृतं पक्वमन्नम् । पायसम् । विभवे सम्पदि सतीति । सम्बुध्यन्तमपि । शाल्यन्नं कलमान्नम् । ‘शालस्तु गन्ध-मार्जारे कलमादिषु च स्मृत’ इति विश्वः । अणुव्रीहिविशेषः ॥ ४० ॥
छलारी
पद्यादौ मन्त्रमाह ॥ द्वादशाक्षरविद्ययेति ॥ ॐ नमो भगवते वासुदेवायेति मन्त्रेण । पयसि शृृतं पक्वं पायसम् ॥ ४० ॥
लिङ्घेरी
गन्धेन परिमलेनोपेतधूपसाधनद्रव्यादिभिश्च तमर्चयेत् । ॐ नमो भगवते वासुदेवायेति द्वादशाक्षरविद्यया स्वस्य विभवे ऐश्वर्ये सति पयसि शृृतं पक्वं राजान्नाख्यशाल्यन्नं गुडगोघृतसहितं नैवेद्यं दत्वा मूलविद्यया नारायणमन्त्रेण होमं कुर्यात् ॥ ४० ॥
ससर्पिः सगुडं दत्वा जुहुयान्मूलविद्यया ।
निवेदितं तद्भक्ताय दद्याद् भुञ्जीत वा स्वयम् ॥ ४१ ॥
सत्यधर्मीया
ससर्पिः सघृतम् । मूलविद्यया प्रस्तुतवासुदेवद्वादशाक्षरमन्त्रेणैव । तद्भक्ताय वासुदेवदासाय दद्यात् । वाशब्दः समुच्चये । तद्भक्तदत्तान्नशेषं स्वयं च भुञ्जीत । विकल्पार्थकतायां नाहं तथाद्मीत्यादेरनानुगुण्यम् । असाक्षिकं भक्षणं चाविहितं चेति दोषप्राप्तेः
॥ ४१ ॥
छलारी
सर्पिः सगुडं दत्वा हरौ समर्प्य मूलविद्यया द्वादशाक्षरेणैव । निवेदितं होमशेषं तदन्नं स्वयं वा भुंजीत ॥ ४१ ॥
दत्वाऽचमनमर्चित्वा ताम्बूलं च निवेदयेत् ।
जपेदष्टोत्तरशतं स्तुवीत स्तुतिभिः प्रभुम् ॥ ४२ ॥
सत्यधर्मीया
अष्टोत्तरशतं तमेव मन्त्रम् ॥ ४२ ॥
छलारी
अर्चित्वा छत्रचामरादिराजोपचारैः पूजयित्वा । अष्टोत्तरशतं द्वादशाक्षरं जपेत् । स्तुतिभिः पूर्वोक्ताभिरन्वभिश्च ॥ ४२ ॥
लिङ्घेरी
भगवते नैवेद्यसमर्पणानन्तरमाचमनं दत्वा पुष्पादिभिरर्चयित्वा तांबूलं च समर्पयेत् । अनन्तरं नारायणो नरः शौरीत्याद्यष्टोत्तरशतं भगवन्नाम जपेत् । स्तोत्रैः स्तुतिं कुर्वीत ॥ ४२ ॥
कृत्वा प्रदक्षिणं भूमौ प्रणमेद् दण्डवन्मुदा ।
कृत्वा शिरसि तच्छेषं देवमुद्वासयेत् ततः ॥ ४३ ॥
पदरत्नावली
तच्छेषं पुष्पं द्रवमाणम् ॥ ४३ ॥
सत्यधर्मीया
दण्डवन्निरभिमानेन । तच्छेषं पुष्पादिकम् । ततो देवमावाहितं पूर्वोक्त-स्थाने उद्वासयेत् ॥ ४३ ॥
छलारी
तस्य हरेः शेषं निर्माल्यं पुष्पादिकमुद्वासयेद्विसृजेत् ॥ ४३ ॥
लिङ्घेरी
तदनन्तरं प्रदक्षिणं कृत्वा मुदा हर्षेण भूमौ दण्डवत्पतित्वा नमस्कुर्यात् । तस्य हरेः शेषं निर्माल्यं शिरसि स्थितं कृत्वा ततो देवं नारायणमुद्वासयेदुपसंहरेत् ॥ ४३ ॥
द्व्यवरान् भोजयेद् विप्रान् पायसेन यथोचितम् ।
भुञ्जीत तैरनुज्ञातो हुतशेषं सभाजितैः ॥ ४४ ॥
पदरत्नावली
द्व्यवरान् अवरपक्षेऽपि द्वावपेक्षितौ मुख्यपक्षस्तु द्वादशेति ॥ ४४ ॥
सत्यधर्मीया
द्व्यवरान् द्वाववरौ येषु तान् । केवलमवरपक्षे द्व्युक्तिः । द्वादशेति मुख्यपक्षे ततोऽधिकानां न निषेधः । सभाजितैः सत्कृतैस्तैरनुज्ञातो हुतशेषमग्नौ विप्रमुखे च हुतस्य शेषं भुञ्जीत ॥ ४४ ॥
छलारी
द्वाववरौ येषां तान् । अवरपक्षेऽपि द्वाववश्यं भोजयेदित्यर्थः । मुख्यतस्तु द्वादशेति भावः । सभाजितैर्भोजनादिना पूजितैस्तैर्विप्रैरनुज्ञातः सन् सेष्टो बन्धुभिः सहितो भुञ्जीत
॥ ४४ ॥
लिङ्घेरी
द्वाववरौ कनिष्टपक्षप्राप्तौ येषां तान् द्विजान् पायसेन यथोचितं घृतशर्करादि दत्वा भोजयेत् । अनन्तरं तांबूलदक्षिणादिभिः सभाजितैर्बहुमानितैस्तैर्बाह्मणैरनुज्ञातः स्वयं हुतशेषं भुंजीत ॥ ४४ ॥
ब्रह्मचार्यथ तद्रात्र्यां श्वो भूते प्रथमेऽहनि ।
प्रातः शुचिर्यथोक्तेन विधिना सुसमाहितः ॥ ४५ ॥
पयसा स्नापयित्वाऽर्चेद् यावद् व्रतसमापनम् ।
पयोभक्षो व्रतमिदं चरेद् विष्ण्वर्चनादृतः ॥ ४६ ॥
सत्यधर्मीया
तद्रात्र्यां व्रतारम्भप्राग्दिनरात्र्याम् । ब्रह्मचारी विविक्तशायी । श्वो भूते उषसि जाते । तत्रापि प्रातः पूर्वेद्युः । पूर्वेद्युरिष्यते प्रातरिति विश्वः । श्वो भूते जातप्राय इति वा । व्रतसमापनं यावत्तावद्वादशदिनपर्यन्तम् । पयोभक्षः । क्षीरमात्रं भक्षयतीति स तथा । असाधारण्येन न्यायात् ॥ ४५-४६ ॥
छलारी
तस्यां रात्रौ ब्रह्मचारी च भवेत् । एवं व्रतारम्भात्पूर्वदिनकृत्यमुक्त्वाऽथ व्रतदिनकृत्यमाह ॥ श्वो भूत इत्यादिना ॥ श्वो भूते प्रभाते सति यथा यथावत् । न केवलं दण्डपूजनं प्रथमदिनमात्रे किन्तु यावद्व्रतसमापनं द्वादशदिनात्मकं व्रतसमाप्तिपर्यन्तमर्चयेत् । पयोभक्षः क्षीरमात्राहारः । विष्ण्वर्चने आदृत आदरवान् ॥ ४५-४६ ॥
लिङ्घेरी
प्रथमदिवसे तद्रात्र्यां ब्रह्मचारी गुह्येन्द्रियनियमवान् शयीत । अथ श्वो भूते परदिने प्रात उक्तेन विधिना सुतरां स्वस्थान्तःकरणः सन् स्नानादिना शुचिः सन् हरिं पयसा स्नापयित्वाऽर्चयेत् । एवमेव प्रतिदिनं व्रतसमाप्तिपर्यन्तं कुर्यात् । एवं विष्णुपूजायामादर-वान्पयःपानवदिदं पयोव्रतं चरेत् ॥ ४५-४६ ॥
पूर्ववज्जुहुयादग्निं ब्राह्मणांश्चापि भोजयेत् ।
एवं त्वहरहः कुर्याद् द्वादशाहं पयोव्रतम् ॥ ४७ ॥
सत्यधर्मीया
अहरहर्निरन्तरमुक्तं नक्तंदिवसमध्ये ॥ ४७ ॥
छलारी
अहरहः प्रतिदिनम् । होमरूपमर्हणमग्निपूजनम् ॥ ४७ ॥
लिङ्घेरी
पूर्ववज्जुहुयादग्निमिति श्लोकः सुगमार्थः ॥ ४७ ॥
हरेराराधनं होममर्हणं द्विजतर्पणम् ।
प्रतिपद्दिनमारभ्य यावच्छुक्लत्रयोदशी१ ॥ ४८ ॥
सत्यधर्मीया
प्रतिपद्दिनम् । प्रतिपत्तिथिस् तदभिन्नं दिनम् । शुक्लत्रयोदशीति दीर्घान्त-पाठे यावत् त्रयोदशी भवति तावत्पर्यन्तम् । ह्रस्वपाठे यावच्छुक्लत्रयोदशीति अव्ययीभावः
॥ ४८ ॥
लिङ्घेरी
हरेराराधनं पूजादिरुपं होममर्हणं ब्राह्मणपूजाऽन्नदानादिना द्विजानां तर्पणं तृप्तिकरणम् । ब्रह्मचर्यमुक्तम् ॥ ४८ ॥
ब्रह्मचर्यमधःस्वापं स्नानं त्रिषवणं चरेत् ।
वर्जयेदसदालापं भोगानुच्चावचांस्तथा ॥ ४९ ॥
सत्यधर्मीया
अधो भूमौ । उच्चावचान् अनेकप्रकारान् ॥ ४९ ॥
छलारी
अधः स्वापमधःशयनं त्रिषवणं प्रातर्मध्यान्हसायंकालीनं स्नानम् । असद्भि-र्दुजनैः सहालापनं संभाषणमुच्चावचान् बहून् आलापान्वा । भोगान् ॥ ४९ ॥
लिङ्घेरी
अधः शुद्धभूमौ स्वापं निद्रां त्रिषवणस्नानं च । फाल्गुणशुद्धप्रतिपद्दिवसमारभ्य शुक्लत्रयोदशीपर्यन्तमेवं साधारण्येन हरिमर्चयेत् । तथाऽसद्भिरसज्जनैरालापं संभाषणमुच्चावचानु-त्कृष्टापकृष्टांश्च भोगान्विषयांश्च वर्जयेत् ॥ ४९ ॥
अहिंस्रः सर्वभूतानां वासुदेवपरायणः ।
त्रयोदश्यामथो विष्णोः स्नापनं स्नापकै१र्विभोः ॥ ५० ॥
पदरत्नावली
स्नापकैः स्नानसाधनैः ॥ ५० ॥
सत्यधर्मीया
अहिंस्रोऽहिंसाशीलः । स्नापकैर्द्विजैः ॥ ५० ॥
छलारी
अहिंस्रोऽहिंसकः । पञ्चकैः पञ्चामृतैः ॥ ५० ॥
लिङ्घेरी
समस्तप्राणिहिंसारहितो वासुदेवैकनिष्ठश्च भूयात् ॥ ५० ॥
कारयेच्छास्त्रदृष्टेन विधिना विधिकोविदैः ।
पूजां च महतीं कुर्याद् वित्तशाठ्यविवर्जितः ॥ ५१ ॥
सत्यधर्मीया
कोविदैः कुशलैः ॥ ५१ ॥
छलारी
विधिकोविदैर्ब्राह्मणैर्ऋषिभिः । विभवे सति वित्तशाठ्येन द्रव्यलोभेन वर्जिताः
॥ ५१ ॥
लिङ्घेरी
अथो त्रयोदश्यां प्राप्तायां शास्त्रदृष्टेन विधिना विधिकोविदैर्भगवत्पूजाप्रकार-कुशलैरुदीरितैः स्नापकैर्महाभिषेकसाधनसूक्ताद्यैर्विष्णुं स्नपयन्विष्णोर्महापूजां वित्तशाठ्यविवर्जितः सन् कुर्यात् ॥ ५१ ॥
चरुं निरुप्य पयसि शिपिविष्टाय विष्णवे ।
सृतेन तेन पुरुषं यजेत सुसमाहितः ॥ ५२ ॥
पदरत्नावली
शिपिषु रश्मिषु विष्टः शिपिविष्टः शिपौ गरुडे विष्टस् तस्मै वा ॥ ५२ ॥
सत्यधर्मीया
शिपिविष्टाय व्याख्यातम् । श्रायाके सृतेन । चरुं निरुप्य चर्वा वापं कृत्वा । वप धातो रूपमिदम् । निरूप्येति क्वचित्पाठः श्रुत्यननुगुणः । सौर्यं चरुं निर्व-पेदित्यादेः ॥ ५२ ॥
छलारी
शिपौ गरुडे विष्टाय रूढाय विष्णवे विष्णुमुद्दिश्य निरूप्य श्रपयित्वा । शृृतेन पक्वेन तेन चरुणा पुरुषं हरिमुद्दिश्य यजेताग्नौ जुहुयात् ॥ ५२ ॥
लिङ्घेरी
चरुं होतव्यान्नं गरुडारूढाय विष्णवे निरूप्य संस्कारपूर्वकं स्थापयित्वा । समर्प्येति यावत् । सुसमाहितः सृतेन तेन चरुणा पूर्णषड्गुणं हरिमुद्दिश्य यजेत जुहुयात् ॥५२॥
नैवेद्यं चापि गुणवद् दद्यात् पुरुषतुष्टिदम् ।
आचार्यं ज्ञानसम्पन्नं वस्त्राभरणधेनुभिः ॥ ५३ ॥
पदरत्नावली
मधुरादिगुणवत् ॥ ५३ ॥
सत्यधर्मीया
ज्ञानसंपन्नमाचार्यं तोषयेदित्यन्वयः ॥ ५३ ॥
छलारी
गुणवन्माधुर्यादिषड्रसोपेतम् । पुरुषस्य हरेस्तुष्टिदम् ॥ ५३ ॥
लिङ्घेरी
मधुरादिषड्गुणोपेतं पुरुषतुष्टिदं नैवेद्यं दद्यात् । तत्त्वज्ञानादिसंपन्नमाचार्यं वस्त्रालङ्कारगोभिः सन्तोषयेत् ॥ ५३ ॥
तोषयेद् ऋत्विजश्चैव तद् विध्द्याराधनं हरेः ।
भोजयेत् तान् गुणवता सदन्नेन शुचिस्मिते ॥ ५४ ॥
सत्यधर्मीया
तदेव हरेराराधनं विद्धि । गुणवता रसवता । सदन्नेन शोधितकेशादिना
॥ ५४ ॥
छलारी
ऋत्विजश्च ऋत्विग्भूतान् ब्राह्मणांश्च । तद् आचार्यादिपूजनं हरेराराधनं विद्धि । गुणवता मधुरादिगुणोपेतेन सदन्नेन । हे शुचिस्मितेऽदिते ॥ ५४ ॥
लिङ्घेरी
ऋत्विजश्च । यदाचार्याद्याराधनं तत्तदन्तर्यामिहर्याराधनं जानीहि । हे शुचि-स्मिते । तानाचार्यादीन् गुणवता निर्दुष्टान्नेन भोजयेत् ॥ ५४ ॥
अन्यांश्च ब्राह्मणान् शक्त्या ये च तत्र समागताः ।
दक्षिणां गुरवे दद्याद् ऋत्विग्भ्यश्च यथार्हतः ॥ ५५ ॥
अन्नाद्येनाश्वपाकांश्च प्रीणयेत् समुपागतान् ।
भुक्तवत्सु च विप्रेषु दीनान्धकृपणादिषु ॥ ५६ ॥
विष्णोस्तत्प्रीणनं विद्वान् सह भुञ्जीत बन्धुभिः ।
नृत्यवादित्रगीतैश्च स्तुतिभिः स्वस्तिवाचकैः ॥ ५७ ॥
सत्यधर्मीया
यथार्हतो यथायोग्यम् । अन्नाद्येन अन्नवस्त्रादिना । बन्धुभिः सह भुञ्जीत
॥ ५५-५७ ॥
छलारी
ये च तत्र तस्मिन्महोत्सवे समागतास्तानन्यान् ब्राह्मणांश्च शक्त्या भोजयेत् । यथार्हतो यथायोग्यमाश्वपाकांश्चाण्डालपर्यन्तान् जनान् । ननु दीनान्धादिभोजनं विष्णोः प्रीणनं प्रीतिकरमिति विद्वान् जानन् । स्वस्तिवाचकैः स्वस्तिवाचनैः ॥ ५५-५७ ॥
लिङ्घेरी
ये तत्र ब्राह्मणा भोजनादिकाले समागतास्तान्न वारयेत् । ऋत्विग्भ्योऽन्यान् ब्राह्मणांश्च शक्त्यनुसारेण भोजयेत् । तेभ्यो गुरवे आचार्याय ऋत्विग्भ्यश्च तत्तद्योग्यतानुसारेण दक्षिणांश्च दद्यात् । अन्नादिना तदर्थितया समागतान् श्वपचपर्यन्तांश्च प्राणिनः प्रीणयेत् तृप्तान्कुर्यात् । विप्रेषु दीनांधकृपणादिषु च भुक्तेषु तद्विप्रादिप्रीतिकरणं विष्णोः प्रीतिकरं जानन्सन् तैरनुज्ञातः स्वबन्धुभिः सह भुंजीत ॥ ५५-५७ ॥
कारयेत् तत्कथाभिश्च पूजां भगवतोऽन्वहम् ।
एतत् पयोव्रतं नाम पुरुषाराधनं परम् ॥ ५८ ॥
पितामहेनाभिहितं मम ते समुदाहृतम् ।
त्वं चानेन महाभागे सम्यक् चीर्णेन केशवम् ॥ ५९ ॥
आत्मना शुद्धभावेन भजनीयं भजाव्ययम् ।
अयं वै सर्वयज्ञाख्यः सर्वैर्व्रतमिदं श्रुतम् ॥ ६० ॥
सत्यधर्मीया
परं पुरुषाराधनम् । पितामहो ब्रह्मा । आत्मना प्रयत्नेन । शुद्धभावेन शोभनमनसा । अयं मयोक्तो व्रतविशेषः । सर्वयज्ञ इत्याख्या यस्य सः । सर्वव्रतमिदं श्रुतम्
॥ ५८–६० ॥
छलारी
तस्य हरेः कथाभिरन्वहं निरन्तरम् । उपसंहरति ॥ एतदिति ॥ पितामहेन ब्रह्मणा मह्यमभिहितं मया च ते तव समुदाहृतम् । एवं पयोव्रतविधिमुक्त्वेदं त्वमपि कुर्वित्युप-दिशति ॥ त्वं चेति ॥ हे महाभागेऽदिते । सम्यक् चीर्णेन कृतेनानेन पयोव्रतेन शुद्धभावेन शुद्धस्वभावेनात्मना मनसा त्वं भजनीयं केशवं भज । आदरजननाय पयोव्रतं स्तौति ॥ अयं वा इति ॥ अयं पयोव्रताख्यो यज्ञः सर्वयज्ञफलप्रदत्वात्सर्वयज्ञाख्य इत्युच्यते । इदं सर्वव्रतफल-प्रदत्वात्सर्वव्रतमिति च स्मृतम् ॥ ५८–६० ॥
लिङ्घेरी
एवमन्वहं प्रतिदिनं नृत्यादिभिर्विष्णोर्महापूजां कारयेत् । पुरुषस्याराधनं साधनं परमुत्तमं पयोव्रतं नाम व्रतं मम पितामहेन चतुर्मुखेनोक्तं तन्मया ते तुभ्यं समुदाहृतम् । हे महाभागे । त्वं च भजनीयमव्ययं केशवं सम्यक् कृतेनानेन पयोव्रतेन शुद्धस्वभाववताऽत्म-नाऽन्तःकरणेन भज ॥ ५८–६० ॥
तपःसारमिदं भद्रे दानं चेश्वरतर्पणम् ।
त एव नियमाः साक्षात् त एव च यमोत्तमाः ।
तपो दानं व्रतं यज्ञो येन तुष्यत्यधोक्षजः ॥ ६१ ॥
पदरत्नावली
‘तपः सन्तोष आस्तिक्यं दानमीश्वरपूजनम् । सिद्धान्तश्रवणं चैव ह्रीर्मतिश्च जपो व्रतम् । एते तु नियमाः प्रोक्तास्तांश्च सर्वान् पृथक् शृणु । अहिंसा सत्यमस्तेयं ब्रह्मचर्यं दयाऽर्जवम् । क्षमा धृतिर्मिताहारः शौचं चैते यमाः स्मृताः ॥’ इति ॥ ६२ ॥
॥ इति श्रीमद्भागवतटीकायां विजयध्वजतीर्थभिक्षुकृतायाम्
अष्टमस्कन्धे पञ्चदशोऽध्यायः ॥
सत्यधर्मीया
तपःसारं तच्छ्रेष्ठम् । ‘तपः सन्तोष आस्तिक्यं दानमीश्वरपूजनम् । सिद्धान्तश्रवणं चैव ह्रीर्मतिश्च जपो व्रतम् । एते तु नियमाः प्रोक्तास्तांश्च सर्वान् पृथक् शृृणु । अहिंसा सत्यमस्तेयं ब्रह्मचर्यं दयाऽर्जवम् । क्षमा धृतिर्मिताहारः शौचं चैते यमाः स्मृता ॥’ इति तपआदिकं ज्ञेयम् ॥ ६१ ॥
छलारी
इदं तपःसारभूतमिदमेव महादानफलहेतुरीश्वरस्य तर्पणं तृप्तिकरणं च । पयोव्रतस्य यमनियमत्वं चाह ॥ त एवेति ॥ येन सर्वसाधनोत्तमेन पयोव्रतेनाधोक्षजस्तुष्यति । यमनियमाश्च । ‘तपः सन्तोष आस्तिक्यं दानमीश्वरपूजनम् । सिद्धान्तश्रवणं चैव ह्रीर्मतिश्च पयोव्रतम् । एते तु नियमा प्रोक्तास्तांश्च सर्वान्पृथक् शृृणु । अहिंसा सत्यमस्तेयं ब्रह्मचर्यं दयार्जवम् । क्षमा धृतिर्मिताहारः शौचं वैते यमाः स्मृताः ॥’ इति वचनोक्ता ज्ञेयाः ॥६१॥
लिङ्घेरी
हे भद्रे मङ्गलरूपे । इदं पयोव्रतं सर्वयज्ञादिसमफलमीश्वरतृप्तिकरं च । येन यैः साधनैरधोक्षजः । ‘न चक्षुषा पश्यति न श्रोत्रेण शृृणोति न मनसा मनुते’ इत्यादि श्रुतेरिन्द्रिय-जन्यज्ञानाविषयः श्रीनारायणस्तुष्टो भवति त एव नियमादयः ॥ ६१ ॥
तस्मादेवं व्रतं भद्रे प्रयता श्रद्धया चर ।
भगवान् परितुष्टस्ते वरानाशु विधास्यति ॥ ६२ ॥
॥ इति श्रीमद्भागवते अष्टमस्कन्धे पञ्चदशोऽध्यायः ॥
सत्यधर्मीया
प्रयता नियमवती वराणां विधानं वितरणम् ॥ ६२ ॥
॥ इति श्रीसत्यधर्मयतिकृतायां भागवतटिप्पण्याम् अष्टमस्कन्धे पञ्चदशोऽध्यायः ॥ ८-१५ ॥
छलारी
प्रयतैकाग्रचित्ता । आचर कुरु व्रतान् ॥ ६२ ॥
॥ इति श्रीछलारी शेषाचार्यकृतायां श्रीभागवतटिप्पण्याम् अष्टमस्कन्धे पञ्चदशोऽध्यायः ॥
लिङ्घेरी
हे भद्रे । यस्मादेतत्पयोव्रतमुक्तगुणं तस्मादेतदेवमुक्तविधिना प्रयता शुचिर्भूता सती श्रद्धयोपेता च सती समाचर । त्वत्कृतेनानेन व्रतेन भगवान्नारायणस्ते तव सन्तुष्टः सन् वरानपेक्षितान् पुरुषार्थान्विधास्यति करिष्यति ॥ ६२ ॥
॥ इति श्रीलिङ्घेरी श्रीनिवासाचार्यकृतायां श्रीभागवतटिप्पण्याम् अष्टमस्कन्धे पञ्चदशोऽध्यायः ॥