१४ चतुर्दशोऽध्यायः

बलेः पदत्रयं भूमेः कस्माद्धरिरयाचत

॥ अथ चतुर्दशोऽध्यायः ॥

राजोवाच–

बलेः पदत्रयं भूमेः कस्माद्धरिरयाचत ।

भूत्वेश्वरः कृपणवल्लब्धार्थोऽपि बबन्ध तम् ॥ १ ॥

पदरत्नावली

लब्धार्थः स्वीकृतत्रैलोक्यः ॥ १ ॥

सत्यधर्मीया

‘याचमानाय हरये । योऽसौ भगवता बद्ध’ इति श्रुतहरियाचनोऽथ च श्रुतवैरोचनिबन्धश्च राजोभयासम्भावित्यमुपपाद्य तदुत्तरं श्रोतुं शुकं पृच्छति ॥ राजेति ॥ ईश्वरः श्रीपतिः कृपणवद्दरिद्र इव । लब्धार्थः स्वयाचिततल्लब्धार्थः सन्नपि । तं कस्माद्बबन्ध ॥ १ ॥

छलारी

द्वादशाध्याये सावर्णिमन्वन्तरानुवर्णनसमये ‘दत्वेमां याचमानाय’ इति बलिं प्रति वामनयाचनोक्ता । ‘तथाऽसौ भगवता बद्ध’ इति वामनेन बलिबन्धनं कृतमित्युक्तम् । तत्र हरियाचनबलिबन्धनयोर्निमित्तं पृच्छति राजा ॥ बलेः पदत्रयमिति ॥ हरिः स्वयमीश्वरो भूत्वाऽपि कृपणवद्दरिद्रवद्बलेः सकाशाद्भूमेः पदत्रयं पादत्रयपरिमितां भूमिं कस्माद्धेतोरयाचत । लब्धः स्वीकृतोऽर्थस्त्रैलोक्यलक्षणो येन स तादृशो भूत्वाऽपि तं बलिं कस्माद्बबन्ध ॥ १ ॥

लिङ्घेरी

अत्रापि बलिबन्धनादि हरेर्माहात्म्यमेव प्रतिपाद्यते । तत्रादौ परीक्षिद्राजोक्तरूपं हरिमाहात्म्यं विस्तराच्छ्रोतुं शुकं पृच्छति ॥ बलेरिति ॥ हे शुक । हरिर्नारायणः स्वयं सर्व-लोकेश्वरो भूत्वाऽपि कृपणवद्बलेः सकाशाद्भूमेः पदत्रयं कस्माद्धेतोरयाचत । तथा लब्धः प्राप्तोऽर्थः स्वर्गाद्यपहरणलक्षणप्रयोजनोऽपि पुनस्तं बलिं कस्माद्बबन्ध ॥ १ ॥

एतद् वेदितुमिच्छामो महत् कौतूहलं हि नः ।

याञ्चेश्वरस्य पूर्णस्य बन्धनं वाऽप्यनागसः ॥ २ ॥

पदरत्नावली

पूर्णस्य ईश्वरस्य याञ्चा, अनागसो बलेर्बन्धनं यद् एतत् ॥ २ ॥

सत्यधर्मीया

प्रमेयस्य दुरुपपादताप्रतिपादनाय पुनर्विविच्यायाचनेऽबन्धने च हेतुमाह । पूर्णस्य शश्वत्सर्वगुणपूर्णस्य । अनागसः प्रतिज्ञातवितरणेन निरपराधस्येति ॥ २ ॥

छलारी

पूर्णस्येश्वरस्य याञ्चाऽनागसो निरपराधिनो बलेर्बन्धनं चेत्येतद्वेदितुमिच्छामोऽ-पेक्ष्यामः । कौतूहलमौत्सुक्यम् ॥ २ ॥

लिङ्घेरी

सर्वाभीष्टपूर्णस्येश्वरस्य याञ्चाऽनागसः निरपराधिनोऽपि बलेर्बन्धनमित्येतन्नोऽ-स्माकं महाकौतूहलमत्याश्चर्यकरं यस्मात्तस्मादेतत्सकारणं वेदितुं ज्ञातुं वयमिच्छामः । ‘आगोऽपराधो मन्तुश्च’ इत्यमरः ॥ २ ॥

श्रीशुक उवाच–

पराजितश्रीरसुभिश्च हापितो इन्द्रेण राजन् गुरुभिः स जीवितः ।

सर्वात्मना तानभजद् भृगून् बलिः शिष्यो महान् स्वार्थनिवेदनेन ॥ ३ ॥

पदरत्नावली

असुभिः प्राणैर्हापितो विजितः, स्वार्थनिवेदनेन सर्वस्वसमर्पणेन अभीष्टार्थ- विज्ञापनेन वा तान् भृगून् सर्वात्मना अभजत् ॥ ३ ॥

सत्यधर्मीया

असुभिरिन्द्रियैर्हापितोऽचेष्टां प्रापितो असुभिः स्वप्राणैः सह सजीवितो, जीवितेन जीवनेन सहित इति वा । तुल्यैश्वर्यवयःश्रीभिः स्वयूथैर्दैत्ययूथपैरिति वक्ष्यमाणत्वात् । गुरुभिः शुक्राचार्यैः । सर्वात्मना सर्वप्रकारेण । स्वार्थनिवेदनेन कृतकरिष्यमाणार्थविज्ञापनेन प्राप्त-सर्वसमर्पणेन चाभजत् सिषेवे ॥ ३ ॥

छलारी

तत्र तावद्बलेस्त्रिलोकीमपहर्तुं याञ्चनादि छलं कृतवानित्युक्तम् । ब्राह्मणा-राधनबलेनाखण्डलस्यैव स्वर्गविजयक्रममाह ॥ पराजित इत्यादिना यावदध्यायसमाप्ति । युद्धे पराजिता श्रीर्येन स इन्द्रेणासुभिः प्राणैश्च हापितस्त्याजितः सन् भृगुभिः शुक्राचार्यैर्जीवितस्तेषां शिष्यो महान् महात्मोदारचरितो स बलिस्तान् भृगून् भृगोर्वंशान् शुक्रादीन् अर्थानां द्रव्याणां निवेदनेन सर्वपदार्थसमर्पणेन सर्वात्मना मनोवाक्कायव्यापारैरभजदसेवत ॥ ३ ॥

लिङ्घेरी

एवं परीक्षिता पृष्टः शुक उवाच । हे राजन् । पुरेन्द्रेण देवासुरयुद्धे स बलिरप-हृतैश्वर्योऽसुभिः प्राणैर्हापितस्त्याजितः पुनर्भृगुभिः शुक्रादिभिः सञ्जीवितश्चास । तदनन्तरं महान् भृगूणां शिष्यो बलिः स्वकीयसर्वपदार्थसमर्पणेन गुरूंस्तान् शुक्रादीन् सर्वप्रकारेण सिषेवे ॥ ३ ॥

तं ब्राह्मणा भृगवः प्रीयमाणा अयाजयन् विश्वजिता त्रिलोकम् ।

जिगीषमाणं विधिनाऽभिषिच्य महाभिषेकेण महानुभावाः ॥ ४ ॥

पदरत्नावली

विश्वजिता सर्वस्वदक्षिणात्मना यागेन । महाभिषेकेण मन्त्रपूतस्नान-विशेषेण ॥ ४ ॥

सत्यधर्मीया

प्रीयमाणस्तत्कृतसर्वसमर्पणेन प्रीतिं कुर्वतः । त्रिलोकं जिगीषमाणं जेतु-मिच्छन्तम् । विश्वजिता सर्वदक्षिणात्मकेन । अथात ऐन्द्रो महाभिषेकस्ते देवा अब्रुवन्नित्यादि ब्राह्मणबोधितविधिना अभिषिच्यतेऽनेनेत्यभिषेकस्तत्साधनं तेनाभिषिच्याभिषेकं कृत्वा । कर्म-विशेषेणायाजयन् याजयामासुः । त्रिनाकमिति पठित्वा स्वर्गमिति तदर्थं वर्णयन्ति । यागमात्रेण कथं तद्योग इत्यत आह । महानुभावा महाननुभावः प्रभावो निश्चयो वा येषां ते तथा । ‘अनुभावः प्रभावे स्यान्निश्चये भावसूचन’ इति विश्वः । अवितथाभिसन्धय इत्यर्थः ॥ ४ ॥

छलारी

महानुभावा अभीष्टसाधकमन्त्रसामर्थ्योपेताः प्रीयमाणाः सर्ववसुसमर्पणेन प्रीताः सन्तस्त्रिनाकं स्वर्गं जिगीषमाणं जेतुमिच्छन्तं बलिं महाभिषेकेण विधिना । अथ तमैन्द्रे महाभिषेके ते देवा अब्रुवन् । इति ऋग्वेदोक्तब्राह्मणोक्तप्रकारेणाभिषिच्य विश्वजिता तन्नामयज्ञेना-याजयन् ॥ ४ ॥

लिङ्घेरी

महान् अनुभावः स्वसामर्थ्यं येषां ते महानुभावाः । ब्रह्म भगवन्तं नारायणं वेदादींश्चाणन्त्यवगच्छन्तीति ब्राह्मणाः । व्यत्ययो बहुलमिति न्यायेन मध्यवर्णगताकारस्य पूर्वनिपातः । भृगवः शुक्रादयो बलिप्रीतिं कुर्वाणाः सन्तस्त्रिलोकं जेतुमिच्छन्तं बलिं महाभिषेकेण विधिनाऽभिषिच्य सर्वस्वदक्षिणावता विश्वजिन्नामकेन यागेन देवपूजाकारिणमकुर्वन् ॥ ४ ॥

ततो रथः काञ्चनपट्टबद्धो हयाश्च हर्यश्वतुरङ्गवर्णाः ।

ध्वजश्च सिंहेन विराजमानो हुताशनादास हविर्भिरिद्घात् ॥ ५ ॥

पदरत्नावली

हर्यश्वस्य इन्द्रस्य तुरङ्गाणां वर्णो येषां ते तथा इन्द्राश्ववर्णसदृशवर्णा इत्यर्थः । इद्धाद् दीप्तात् ॥ ५ ॥

सत्यधर्मीया

काञ्चनपट्टः सुवर्णमयान्तरपीठादिस्तेन सम्बद्धः । ‘पट्टो राजशासनान्तर-पीठयोः’ इति विश्वः । पट्टिकाभिरिति वा । हर्यश्वस्येन्द्रस्य । तुरङ्गाणां वर्ण इव वर्णो येषां ते तथा । हविर्भिर् इद्धादभिवृद्धात् हुताशनादग्नेरास गतम् । आविर्बभूवुरित्यर्थः ॥ ५ ॥

छलारी

काञ्चनपट्टबद्वः सुवर्णमयपट्टिकाभिर्बद्धो हर्यश्वस्येन्द्रस्य ये तुरंगास्तेषामिव वर्णो हरितो येषां ते । हविर्भिरिद्धाद्धीप्ताद्धुताशनादग्नेरासाविर्बभूव ॥ ५ ॥

लिङ्घेरी

ततस्तदनन्तरं शुक्रादिप्रदत्तैर्हविर्भिरिद्धादभिवृद्धाद्धुताशनाद्यज्ञाग्नेः सुवर्णपट्टिका-बन्धो रथो हरयः श्वेता अश्वास् तुरंगा यस्येन्द्रस्य तस्य तुरंगा हयास्तेषां वर्ण इव वर्णो येषां ते हया गमनशालिनोऽश्वाश्च सिंहेन चिन्हरूपेणातिप्रकाशमानो ध्वजश्चास बभूव ॥ ५ ॥

धनुश्च दिव्यं पुरटोपनद्धं तूणावरिक्तौ कवचं च दिव्यम् ।

पितामहस्तस्य ददौ च मालामम्लानपुष्पां जलजं च शुक्रः ॥ ६ ॥

पदरत्नावली

पुरटोपनद्धं सुवर्णबद्धम् । अरिक्तौ बाणैरशून्यौ, अक्षयसायकावित्यर्थः । जलजं शङ्खम् ॥ ६ ॥

सत्यधर्मीया

पुरुटोपनद्धं कार्तस्वरसम्बद्धम् । तूणाविषुधी । अरिक्तौ बाणपूर्णाविदानी-मुत्तरत्राप्यक्षयिष्णुतत्कौ । पितामहः पितुर्विरोचनस्य पिता प्रह्लादः । अम्लानानि अक्षीणहर्षाणि पुष्पाणि यस्यां सा ताम् । शुक्रो जलजं शङ्खम् ॥ ६ ॥

छलारी

पुरटेन सुवर्णेनावबद्धमरिक्तावक्षयसायकौ तूणाविषुधी दिव्यं कवचं चेत्येतत्सर्वम् । हुताशनाद् आसेत्यन्वयः । पितामहः प्रल्हादः । अम्लानपुष्पां नूतनपुष्पनिर्मिताम् । शुक्रो जलजं शङ्खं ददौ ॥ ६ ॥

लिङ्घेरी

पुरटेन सुवर्णेनोपनद्धं सम्यग्बद्धं दिव्यमलौकिकं धनुश्च, बाणैररिक्तावशून्यौ पूर्णौ तूर्णौ निषंगौ बाणाधारभूतौ, दिव्यं कवचं चेत्येतानि यज्ञाग्नेराविर्भूतानीति ज्ञेयम् । पितामहश्चतु-र्मुखस्तस्य बलेरम्लानान्यतिरोहितकान्तिमन्ति पुष्पाणि यस्यां तां मालां ददौ । शुक्राचार्यश्च जलजं शङ्खं ददौ । विवक्षातः कारकाणि भवन्तीत्यत्र संप्रदानविवक्षाभावात्तस्येति षष्ठ्युपपत्तिः । ‘अब्जः शङ्खे शशाङ्के च’ इत्यमरः ॥ ६ ॥

एवं स विप्रार्जितयोधनार्थस्तैः कल्पितस्वस्त्ययनोऽथ विप्रान् ।

प्रदक्षिणीकृत्य कृतप्रणामः प्रह्लादमामन्त्र्य नमश्चकार ॥ ७ ॥

पदरत्नावली

योधनार्थो युद्धसाधनम् । विप्राद् भृगोः ॥ ७ ॥

सत्यधर्मीया

विप्राच्छक्रादार्जितः सम्पादितो योधनार्थः युद्धसाधनवान् । तैः शुक्राचार्यैः कल्पितस्वस्त्ययनः कृतपुण्याहवाचनादिमङ्गलक्रियः । विप्रान् । तानेव । प्रह्लादं चामन्त्र्य तेभ्यस्तस्मै च नमश्चकार ॥ ७ ॥

छलारी

एवं पूर्वोक्तप्रकारेण विप्रैः शुक्रादिभिरार्जितः संपादितो योधनार्थः युद्धपरिकरो यस्य सः । तैर्विप्रैरवकल्पितं स्वस्त्ययनं मङ्गलवाचनादिर्यस्य स बलिर्विप्रान्प्रदक्षिणीकृत्य कृत-प्रणामः सन् प्रल्हादं पितामहमामन्त्र्य दृष्ट्वा नमश्चकार ॥ ७ ॥

लिङ्घेरी

एवमुक्तरीत्या स बलिर्विप्रैः शुक्रादिभिरार्जिताः सम्पादिता योधनस्य युद्धस्य साधनभूतपरार्था यस्य स तथा सन् तैः शुक्रादिभिः कल्पितं स्वस्त्ययनं क्षेममाङ्गल्यादिकरं पुण्याहवाचनं यस्य स तथा सन् अथ शुक्रादीन्विप्रान्प्रदक्षणीकृत्य कृतः प्रणामो नमस्कारो येन स तथा सन् स्वपितामहं प्रल्हादमामन्त्र्य ‘‘अहं कार्यसिद्ध्यै गच्छामि त्वमनुग्रहाण’’ इत्युक्त्वा नमस्कारं कृतवान् ॥ ७ ॥

अथारुह्य रथं दिव्यं भृगुदत्तं महारथः ।

सुस्रग्धरोऽथ सन्नद्धो धन्वी खड्गी धृतेषुधिः ॥ ८ ॥

पदरत्नावली

सुस्रग्धरो शोभनमालाधरः ॥ ८ ॥

सत्यधर्मीया

भृगुदत्तम् । वह्निमुखतः । स्रग्धरः प्रह्लाददत्तमाल्यधरः ॥ ८ ॥

छलारी

अथ रथमारुह्य रराजेत्युत्तरेणान्वयः । सुस्रग्धरः शोभनमालाधरः ॥ ८ ॥

लिङ्घेरी

अथ महारथो बलिर्भृगुभिर्दत्तं दिव्यं रथमारुह्य समीचीनपुष्पमालाधारी धनुष्मान् खड्गवान् गृहीतनिषंगश्चेत्येवं सन्नद्धः । ‘निषङ्गा इषुधिर्द्वयोः’ इत्यमरः ॥ ८ ॥

हेमाङ्गदलसद्बाहुः स्फुरन्मकरकुण्डलः ।

रराज रथमारुढो धिष्ण्यस्थ इव हव्यवाट् ॥ ९ ॥

पदरत्नावली

धिष्ण्यस्थ आहवनीयादिस्थाने स्थितः । हव्यवाडग्निः ॥ ९ ॥

सत्यधर्मीया

धिष्ण्यस्थ आहवनीयादिस्थानस्थः । हव्यं वहतीति स तथा ॥ ९ ॥

छलारी

हेमाङ्गदाभ्यां सुवर्णांगदाभ्यां लसन्तौ बाहू यस्य सः । धिष्ण्यस्थः कुण्डलस्थो हव्यवाट् अग्निरिव ॥ ९ ॥

लिङ्घेरी

हेम्नः सुवर्णस्यांगदाभ्यां बाहुभूषणाभ्यां लसन्तौ प्रकाशमानौ बाहू यस्य सः । स्फुरती प्रकाशमाने मकराकारे कुण्डले यस्य सो बली रथारूढः सन् धिष्ण्ये आहवनीयादिरूपे स्वस्थाने वर्तमानो हव्यवाडग्निरिव रराज ॥ ९ ॥

तुल्यैश्वर्यवयःश्रीभिः स्वयूथैर्दैत्ययूथपैः ।

पिबद्भिरिव खं दृग्भिर्दहद्भिः परिधीनिव ॥ १० ॥

वृतो विकर्षन् महतीमासुरीं ध्वजिनीं विभुः ।

ययाविन्द्रपुरीमृद्धां कम्पयन्निव रोदसीम् ॥ ११ ॥

सत्यधर्मीया

परिधीन् यज्ञीयतरुविशेषान् । तरुशाखा वा । परिधिर्यज्ञीयतरौ शाखायां चेति विश्वः । अग्निरिव परिधीन् दिश इति वा । रोदसी द्यावापृथिव्यौ । ऋद्धां ससम्पत्काम्

॥ १०-११ ॥

छलारी

स्वतुल्यमैश्वर्यं रथश्च श्रीश्च येषां तैः स्वयूथैः स्वकीयैर्दैत्ययूथपैर्वृतो ऋद्धां समृद्धामिन्द्रपुरीं स्वर्गं प्रति ययाविति द्वयोः श्लोकयोरन्वयः । कथंभूतैर्दृग्भिः खमन्तरिक्षं पिबद्भिरिव परिधीन्दिशो दहद्भिरिव । ध्वजिनीं सेनां विकर्षन् आकार्षन्प्रेरयन्नित्यर्थः । रोदसी द्यावापृथिव्यौ कंपयन्निव ॥ १०-११ ॥

लिङ्घेरी

स बलिस्तुल्याः स्वैश्वर्यादिभिः समानैश्वर्यवयःकान्तयो येषां तैः स्वसेना-समूहसहितैर्दृग्भिष्टिभिः खमाकाशं पिबद्भिरिव स्थितैः, अग्निः परिधीन् समिध इव लोकान्दह-द्भिर्दैत्यसेनासमूहरक्षकैर्वृतः सन् सङ्ख्याबाहुल्यादिना महतीमसुरसम्बन्धिनीं ध्वजिनीं सेनां विकर्षन् तन्नियमने विभुः समर्थः सन् ऋद्धां संपदाभिवृद्धामिन्द्रपुरीं प्रति भूम्यन्तरिक्षे कंपयन्निर्ययौ । द्यावाभूमी तु रोदसीत्यमरः ॥ १०-११ ॥

रम्यामुपवनोद्यानैः श्रीमद्भिर्नन्दनादिभिः ।

कूजद्विहङ्गमिथुनैर्गायन्मत्तमधुव्रतैः ॥ १२ ॥

प्रवालफलपुष्पोरुभारशाखामरद्रुमैः ।

हंससारसचक्राह्वकारण्डवकुलाकुलाम् ॥ १३ ॥

सत्यधर्मीया

विहङ्गमिथुनैः पक्षिस्त्रीपुंसैर्युतैः । अमरद्रुमै रम्यामित्यन्वयः । हंसादि-पक्षिकुलैराकुला । ताम् ॥ १२-१३ ॥

छलारी

अतिसमृद्धामित्युक्तम् । तां समृद्धिमेव वर्णयति ॥ रम्यामित्यादिभिः सार्धै-रेकादशभिः । उपवनानि फलप्रधानानि । निकटानि चोद्यानानि पुष्पप्रधानानि दूरस्थानि वा तै रम्याम् । कथम्भूतैः । कूजन्ति विहङ्गमिथुनानि येषु तैर्गायन्तो मत्ता मधुव्रता भ्रमरा येषु तैः । प्रवालादीनां पल्लवादीनामुरुभारो यासु तादृशाः शाखा येषां तादृशा अमरद्रुमा येषु तैः ॥ १२-१३ ॥

लिङ्घेरी

प्रवालानां विद्रुमवतां सुवर्णपल्लवानां फलानां पुष्पाणां चोरूत्कृष्टो भारो यासां ताः शाखा येषां ते प्रवालफलपुष्पोरुभारशाखाः ॥ ‘प्रवाले विद्रुमे च नपुंसकम्’ इति नानार्थ-मुक्तामाला । ते चामरद्रुमाः पारिजातादिदेववृक्षा येषु तैः । श्रीमद्भिः पुष्पफलादिसम्पद्युक्तै-र्नन्दनादिभिरुपवनोद्यानैः, कूजतां स्वजातिस्वरं कुर्वतां विहंगानां पक्षिणां मिथुनैः स्त्रीपुरुषैर् गायद्भिरिव स्थितैः पुष्पादिरसपानमदोपेतैर्मधुव्रतैर्भ्रमरैः रम्यां मनोहरामिन्द्रपुरीं ययाविति पूर्वे-णान्वयः । ‘मधुव्रतो मधुकरो मधुलिण्मधुपालिन’ इत्यमरः । यत्रेन्द्रपुर्यां हंसचक्रवाककारण्डव-पक्षिसमुदायसन्दटिता नलिन्यः कमलसरोवराः सन्ति ॥ १२-१३ ॥

नलिन्यो यत्र क्रीडन्ति प्रमदाः सुरसेविताः ।

आकाशगङ्गया देव्या वृतां परिखभूतया ॥ १४ ॥

पदरत्नावली

यत्र इन्द्रपुर्याम् । यत्र नलिनीषु । परिखाभूतया दीर्घिकावद् वर्तमानया

॥ १४ ॥

सत्यधर्मीया

यत्र प्रमदाः क्रीडन्ति सुरसेविताश्च । यत्र यस्यां नलिन्यः पद्मिन्यस्ताभि-र्वृतामिति वा वर्तत इति वा शेषः । नलिनी पद्मिनी पद्मेत्यादिर्विश्वः । परिखभूतया । परिखाभूतया । परिवर्जितं खं विवरं यस्याः सा च सा भूश्च तया ऊता सम्बद्धा तयेति वा । सर्वां सर्वसहामभिव्याप्य वियद्गंगा वर्तत इति भावः । खेयं तु परिखेत्यमरः ॥ १४ ॥

छलारी

यत्र नलिनीषु सुरसेविता वनिताः क्रीडन्ति । ता एवं हंसादिपक्षिकुलेनाकुला व्याप्ता नलिन्यः सरांसि यत्र येषु वनेषु सन्ति । तैरुपवनोद्यानै रम्यामिति पूर्वेणान्वयः । परिखभूतया जलदुर्गवद्विद्यमानयेत्यर्थः । आकाशगङ्गया भागीरथ्याऽऽवृताम् ॥ १४ ॥

लिङ्घेरी

यत्र नलिनीषु सुरैः सेविता बहुमानिताः प्रमदाः स्त्रियः क्रीडन्ति । तामिन्द्रपुरीं ययाविति पूर्वेणान्वयः । तामेवेन्द्रपुरीं विशिनष्टि । परिखभूतया दुर्गस्य परितः खातपूर्ण-जलरूपया । देवसेवयाऽऽकाशगङ्गया वृताम् ॥ १४ ॥

प्राकारेणाग्निवर्णेन साट्टालेनोन्नतेन च ।

रुक्मपट्टकपाटैश्च द्वारैः स्फाटिकगोपुरैः ॥ १५ ॥

पदरत्नावली

पट्टमुपरिबन्धः ॥ १५ ॥

सत्यधर्मीया

पट्टमुपरिबन्धः । कं वातं शिरो वा पाटयन्तीति कपाटानि । कवं शब्द-मटन्तीति तानि । ‘कपाटमररं तुल्य’ इत्यमरः । द्वारैः प्रतीहारैः । ‘स्त्री द्वार्द्वारं प्रतीहार’ इत्यमरः । स्फाटिकानि स्फटिककृतानि गोपुराणि पुरद्वाराणि तैः । ‘पुरद्वारन्तु गोपुरम्’ इत्यमरः

॥ १५ ॥

छलारी

अग्निवर्णेन सौवर्णेन प्राकारेण चावृताम् । आट्टालाः प्राकारोपरि रचिता-न्युन्नतानि युद्धस्थानानि तत्सहितेन । रुक्मपट्टानि सुवर्णमयोपरिबन्धवन्ति कपाटानि येषु तैर्द्वारैर्गृहद्वारैः स्फटिकमयगोपुरैः पुरद्वारैश्च जुष्टां युक्ताम् ॥ १५ ॥

लिङ्घेरी

ज्वलदग्निवर्णसदृशवर्णेन । प्राकारान्तपरितः सञ्चारयोग्यकुड्यरूपाट्टालसहितेन प्राकारेण वृताम् । सुवर्णपट्टिकाबन्धकपाटवद्भिर्द्वारैः स्फटिकमणिनिर्मितपुरद्वारैश्च वृताम् । ‘रुग्मं कार्तस्वरं जाम्बूनदमष्टापदोऽस्त्रियाम्’ इत्यमरः । ‘कपाटमररं तुल्ये’ । ‘पुरद्वारं तु गोपुरम्’ इति च ॥ १५ ॥

जुष्टां विभक्तप्रपथां विश्वकर्मविनिर्मिताम् ।

सभाचत्वररथ्याढ्यां विमानैर्न्यर्बुदैर्युताम् ।

शृृङ्गाटकैर्मणिमयैर्वज्रविद्रुमवेदिभिः ॥ १६ ॥

पदरत्नावली

न्यर्बुदैरित्युपलक्षणम्, अनेकैरित्यर्थः ॥ १६ ॥

सत्यधर्मीया

प्रकृष्टाः पन्थानश्च प्रपथाः, विभक्तास्तत्तद्वीथीगमानार्थविभागिनो यस्यां सा रथ्या प्रतोली । विमानैर्व्योमयानैः । शृृङ्गाटकैः । शृृङ्गं प्राधान्यमटन्ति । अट गतौ । कर्मण्यण् । सञ्ज्ञायां कन् । तुल्ये शृृङ्गाटकचतुष्पथेत्यमरः । चतुष्पथैः । वज्रविद्रुमात्मवेदिकाभिर्जुष्टाम्

॥ १६ ॥

छलारी

विभक्ता विसृताः प्रपथा राजमार्गा यस्यास्ताम् । सभा उपवेशस्थानानि चत्वराण्यङ्गणानि रथ्या उपमार्गास्तैराढ्यां सम्पन्नाम् । दशकोटिवाचकन्यर्बुदशब्दो बहुत्ववाचकः । तथा च बहुभिर्विमानैर्युताम् । वज्रैर्विद्रुमैश्च रचिता वेदयो वेदिका येषु तैर्मणिमयैर्नवरत्नखचितैः शृृङ्गाटकैश्चतुष्पथैर्युताम् ॥ १६ ॥

लिङ्घेरी

जुष्टां नानाविधजनैः सेवितां, विविक्तप्रकृष्टमार्गोपेतां, सभाभिश्चत्वरैरङ्गणै रथ्याभिः रथवीथिकाभिश्चाढ्यां सम्पन्नां, न्यर्बुदसङ्ख्याकैर्विमानैर्देवयानैर्वृतां, विश्वकर्मणा विनिर्मि-ताम् । अङ्गणं चत्वराजिरे । रथ्या प्रतोली विशिखेति चामरः । मणिमयैः रत्नप्रचुरै-र्वज्रमणिभिर्विद्रुमैः प्रवालैश्च रचितवेदिकावद्भिः शृृङ्गाटकैश्चतुष्पथैर्युक्तमिति पूर्वेणान्वयः । शृृङ्गाटक चतुष्पथे । प्रवालं विद्रुमोऽस्त्रियामिति चामरः ॥ १६ ॥

यत्र नित्यवयोरूपाः श्यामा विरजवाससः ।

भ्राजन्ते रूपवन्नार्य अर्चिर्भिरिव वह्नयः ॥ १७ ॥

पदरत्नावली

शृङ्गटकैश्चत्वरमण्डपैः । वज्ररत्नविद्रुमखचितवेदिभिः । श्यामाः षोडशवर्षाः

॥ १७ ॥

सत्यधर्मीया

रूपवन्नार्यो रूपवत्यः । श्यामाः षोडशवार्षिक्यः । वर्णतः श्यामा वा । ताश्च ता नार्यश्च ॥ १७ ॥

छलारी

यत्रेन्द्रपुर्यां नित्यं वयस्तारुण्यं रूपं च सौन्दर्यं च यासां ताः श्यामाः षोडश-वत्सराः । श्यामाः षोडशवार्षिका इत्यभिधानात् । विरजवाससो निर्मलवस्त्रा रूपवत्यः स्वलङ्कृताः स्त्रियोऽर्चिभिर्ज्वालाभिर्वह्नय इव भ्राजन्ते ॥ १७ ॥

लिङ्घेरी

यस्यामिन्द्रपुर्यां नित्यानि बहुकालवन्ति वयो रूपाणि येषां ते । श्यामाः षोडशवार्षिकाः । विरजवाससो निर्मलवस्त्राः पुरुषाः स्त्रीभिर्वह्नयोऽग्नयोऽर्चिभिः स्वशिखाभि-र्ज्वालाभिरिव भ्राजन्ते । ‘श्यामः षोडशवर्षः स्यात् श्यामवर्णे च तद्वती’ इति नानार्थरत्नमाला । द्वयोर्ज्वालकीलावर्चिरित्यमरः ॥ १७ ॥

सुरस्त्रीकेशविभ्रष्टनवसौगन्धिकस्रजाम् ।

यत्रामोदमुपादाय मार्ग आवाति मारुतः ॥ १८ ॥

पदरत्नावली

सौगन्धिकैः स्थलचम्पकैः रचिताः स्रजः, तासामामोदं परिमलमुपादाय

॥ १८ ॥

सत्यधर्मीया

सौगन्धिकानाम् । ‘सौगन्धिकं तु कल्हार’ इत्यमरः । तेषां स्रजस् तासाम् । आमोदं परिमलम् ॥ १८ ॥

छलारी

यत्र मारुतः सुरस्त्रीणां केशेभ्यो विभ्रष्टानां पतितानां नवैर्नूतनैः सौगन्धिकैः स्थलचम्पकैः पुष्पैर्विनिर्मितानां स्रजां मालानामामोदं परिमलमुपादाय मार्गे आवाति ॥ १८ ॥

लिङ्घेरी

यत्रेन्द्रपुर्यां मार्गे सुरस्त्रीकेशेभ्यो विभ्रष्टाया नूतनकल्हारपुष्पमालाया आमोदं परिमलमुपादाय मारुतो वायुर्वातीतस्ततो गच्छति । नूतनं नवम् । ‘सौगन्धिकं तु कल्हार’ इति चामरः ॥ १८ ॥

हेमजालाक्षनिर्गच्छद्धूमेनागुरुगन्धिना ।

पाण्डुरेण प्रतिच्छन्नमार्गे यान्ति सुरस्त्रियः ॥ १९ ॥

पदरत्नावली

जालाक्षं गवाक्षम् ॥ १९ ॥

सत्यधर्मीया

हेमजालाक्षेभ्यः सुवर्णगवाक्षेभ्यः । अगुरोर् येगकस्येव गन्धो यस्याम् । उपमानाच्चेतीत्वम् । ‘अगुरुः शिशुपायां स्यात्येगक’ इति विश्वः । कालागुर्वगुरुः स्यात्तु मङ्गल्यं मल्लिगन्धि यत् । वंशकागुरुराजार्हलोककृमिजजौङ्ककमित्यमरः । कृष्णागरुः ॥ १९ ॥

छलारी

अगरुगन्धिना कृष्णागरुगन्धवता पाण्डुरेण शुभ्रेण हेमलाजाक्षेभ्यः सुवर्ण-गवाक्षेभ्यो निर्गच्छता धूमेन प्रतिच्छन्ने व्याप्ते सुरप्रिया अप्सरसः ॥ १९ ॥

लिङ्घेरी

यत्रेन्द्रपुर्यां सुवर्णनिर्मितगवाक्षेभ्यो बहिरागच्छमानेन कृष्णागरुपरिमलवता पाण्डुरेण शुभ्रेण धूमेनाच्छादितमार्गे सुरस्त्रियो गच्छन्ति । श्वेतपाण्डुरा इत्यमरः ॥ १९ ॥

मुक्तावितानैर्मणिहेमकेतुभिर्नानापताकावलिभीभिरावृताम् ।

शिखण्डिपारावतभृङ्गनादितां वैमानिकस्त्रीकलगीतमङ्गलाम् ॥ २० ॥

सत्यधर्मीया

मुक्तामयैर्वितानैरुल्लोचैर् मणिहेमकेतवस्तदात्मकैकचिह्नध्वजास् तैः । नाना-पताकाश्च द्विजिह्वाश्च नानावलभ्यो वक्रदारूणि । छादनी वक्रदारुणीत्यमरः । ताभिः । वैमानिका विमानस्थानाश्च ताः स्त्रियश्च तासां कलमव्यक्तमधुरं यद्गीतं गानम् । तेन मङ्गलं यस्यां सा ताम् । ‘कलः शुके कलो जीर्णेऽप्यव्यक्तमधुरध्वनौ’ इत्यमरः ॥ २० ॥

छलारी

मुक्तामयैर्वितानैर्मणिहेममयैः केतुभिर्ध्वजैश्च नानाविधपताकायुक्ताभिः । वलिभी-भिश्च विमानानां पुरोभागैरावृतां व्याप्ताम् । पताकावलिभिः समावृतामिति पाठे स्पष्टोऽर्थः । वैमानिकानां विमानोपर्युपविष्टानां स्त्रीणां कलगीतैर्मधुरगायनैर्मङ्गलां शोभितां शिखण्डिभिर्मयूरैः पारावतैः परभूतैर्भ्रमरैश्च नादिताम् ॥ २० ॥

लिङ्घेरी

मुक्तामालावलंबिवितानैर्गृहान्त उपरिबद्धपटैः रत्नखचितकेतुभिर्ध्वजैर्नानाप्रकार-पताकाभिर्वलिभीभिर्गृहस्य परितः शृृङ्गारायावबद्धवक्रदारुभिरावृताम् । शिखण्डिपारावतभृङ्गैर्नादो ध्वनिस्तेन सञ्जातो यस्यां ताम् । वैमानिकानां देवानां स्त्रीणां कलगीतैरस्पष्टाक्षरमनोहरस्वरगानै-र्माङ्गल्योपेताम् । नादितामित्यत्र तदस्य सञ्जातं तारकादिभ्य इतजिति नादशब्दस्य इतच् प्रत्ययः । एवमेव जातीयकेऽपि ज्ञेयम् । ‘ध्वनौ तु मधुरास्फुटे कल’ इत्यमरः ॥ २० ॥

मृदङ्गशङ्खानकदुन्दुभिस्वनैः सतालवीणामुरजर्ष्टिवेणुभिः ।

नृत्यैः सवाद्यैरुपदेवगीतकैर्मनोरमां स्वप्रभया जितग्रहाम् ॥ २१ ॥

पदरत्नावली

जितग्रहां निर्जितसूर्यादिग्रहाम् ॥ २१ ॥

सत्यधर्मीया

सतालेत्यादिध्वनिसहितैर्मृदङ्गादिस्वनैर्जिताः पराजिता ग्रहा नव सूर्यादयो यया ताम् ॥ २१ ॥

छलारी

तालैः सहिताभिर्वीणादिभिः सवाद्यैर्नृत्यैरुपदेवानां गन्धर्वाणां गीतकैश्च मनो-रमाम् । स्वप्रभया जिता तिरस्कृता ग्रहाः सूर्यादयो यया सा ताम् ॥ २१ ॥

लिङ्घेरी

मृदङ्गादीनां ध्वनिभिः सहिताम् । वाद्यसहितैर्नर्तनैरुपदेवानां गन्धर्वाणां गानै-र्मनोरमाम् । स्वप्रभया जिता अभिभूता ग्रहाः सूर्यादिनवग्रहा यया ताम् ॥ २१ ॥

यां न व्रजन्त्यधर्मिष्ठाः खला भूतद्रुहः शठाः ।

मानिनः कामिनो लुब्धा एभिर्हीना व्रजन्त्युत ॥ २२ ॥

पदरत्नावली

एभिरधर्मादिभिः ॥ २२ ॥

सत्यधर्मीया

एभिरधर्मिष्टत्वादिभिर्हीना रहिताः ॥ २२ ॥

छलारी

अधर्मिष्ठाः पापकर्तारः खला दुर्जना भूतद्रुहः प्राणिनामपकारकारिणः शठा गूढ-द्वेषिणो मानिनोऽहङ्कारिणः कामिनः कामुकाः । लुब्धाः सत्पात्रेऽदातारश्च । यां न व्रजन्ति । एभिः पूर्वोक्तैरधर्मादिभिर्दोषै रहिताः पुरुषा यामिन्द्रपुरीं व्रजन्ति । यत्र नित्यवयोरूपा इत्यादि यच्छब्दानां तामित्युत्तरेणान्वयः ॥ २२ ॥

लिङ्घेरी

यामिन्द्रपुरीं खला गूढद्वेषा भूतान्प्राणिनो द्रुह्यन्तीति प्राणिद्रोहिणः शठाः स्तब्धा मानिनोऽहंकारिणः कामिनो निषिद्धापेक्षावन्तो लुब्धा अदानबुद्धय इत्येवमादयोऽधर्मिष्ठा अति-पापिनो न गच्छन्तीत्येभिर्गूढद्वेषादिभी रहिता गच्छन्त्यपि । अतिशायेने तमबिष्ठनावित्यधर्म-शब्दस्येष्ठन् प्रत्ययः ॥ २२ ॥

तां देवधानीं स वरूथिनीपतिर्बहिः समन्ताद् रुरुधे पृतन्यया ।

आचार्यदत्तं जलजं महास्वनं दध्मौ प्रयुञ्जन् भयमिन्द्रयोषिताम् ॥ २३ ॥

पदरत्नावली

पृतन्यया पृतनया ॥ २३ ॥

सत्यधर्मीया

पृतन्यया पृतनया । देवधानीममरावतीम् । योषितामिति बहुवचनेन शच्यादयो बव्ह्यः पत्न््नय इन्द्रस्येति ज्ञायते । श्रौतं च सपत्नीं मे पराधमेति ॥ २३ ॥

छलारी

तां देवधानीं देवपुरीं वरूथिनीपतिः सेनापतिः स बलिः पुर्या बहिः समन्ता-त्परितः पृतन्यया सेनया रुरुधे । आचार्येण शुक्रेण दत्तं जलजं शङ्खम् । प्रयुञ्जन् जनयन् ॥२३॥

लिङ्घेरी

वरूथिनीनां पतिः पालकः स्वामी च स बलिस्तां पूर्वोक्तगुणां देवास्तिष्ठ-न्त्यस्यामिति देवधानीममरावतीं बहिः समन्तात्परितः पृतन्यया सेनया रुरुधे निरुद्धवान् । अथेन्द्रस्त्रीणां भयं जनयन् सन् शुक्राचार्यदत्तं महाध्वनियुक्तं जलजं शङ्खं दध्मौ ध्वनियुक्तमकरोत् । ‘पृतना च वरूथिनी’ इति हलः । ‘स्त्री योषिदबला योषा’ इत्यमरः ॥ २३ ॥

मघवांस्तदभिप्रेत्य बलेः परममुद्यमम् ।

सर्वदेवगणोपेतो गुरुमेतदुवाच ह ॥ २४ ॥

सत्यधर्मीया

गुरुं बृहस्पतिम् ॥ २४ ॥

छलारी

मघवानिन्द्रो बृहस्पतिम् ॥ २४ ॥

लिङ्घेरी

मघवानिन्द्रो बलेस्तत्परममुद्यममुद्योगमभिप्रेत्य युद्धकरणाभिप्रायेणागत इति सम्यग्ज्ञात्वा सर्वदेवगणोपेतः सन् गुरुं बृहस्पतिं प्रत्येतद्वक्ष्यमाणमुवाच ॥ २४ ॥

इन्द्र उवाच–

भगवन्नुद्यमो भूयान् बलेर्नः पूर्ववैरिणः ।

अविषह्यमिदं मन्ये केनासीत् तेजसाऽसमः१ ॥ २५ ॥

पदरत्नावली

असौ बलिस्तेजसा केन ब्रह्मणा समः । केन केनापीति वा ॥ २५ ॥

सत्यधर्मीया

इदं तेजः । केन हेतुना असमो ऽसदृशः । इतरोऽर्थस्तूत्तराननुगुणः

॥ २५ ॥

छलारी

भूयानुद्यमो महान्प्रयत्नो दृश्यते । इमं बलिमविषह्यं सोढुमशक्यं मन्ये । अयं केन हेतुनैवं तेजसोर्जित आसीत् ॥ २५ ॥

लिङ्घेरी

हे भगवन् पूज्य बृहस्पते । नः पूर्ववैरिणो बलेरुद्यम उद्योगो भूयान् । इमं बलिमविषह्यं सोढुं सहितुमशक्यमहं मन्ये । अयं बलिः केन तेजसा तप आदिरूपेणासमः समानरहित आसीत् ॥ २५ ॥

नैनं कश्चित् कुतो वापि प्रतिवोढुमधीश्वरः ।

पिबन्निव मुखेनेदं लिहन्निव दिशो दश ॥ २६ ॥

पदरत्नावली

प्रतिवोढुं प्रतियोद्धुं वारयितुं वा । इदं जगद् यतः ॥ २६ ॥

सत्यधर्मीया

प्रतिवोढुमपवाहयितुम् । अधीश्वरः शक्रः । तत्तेज एव वर्णयति पिबन्निवेत्यादिना ॥ २६ ॥

छलारी

कुतो वाऽपि कुतश्चित्कारणादपि प्रतिवोढुं प्रतियोद्धुमपाकर्तुं वाऽधीश्वरः समर्थः । इदं जगद्दश दिशो लिहन्नास्वादयन्निव ॥ २६ ॥

लिङ्घेरी

तदेव विवृणोति ॥ नैनमिति ॥ कश्चिदपि वीरः कुतः कस्मादपि साधनाद्येनं बलिं प्रत्याभिमुख्येन वोढुं शस्त्रादिकं धर्तुमधीश्वरः समर्थो न भवेत् । अयं बलिर्मुखेनेदं जगत्पिबन्निवास्ते । जिह्वया दश दिशो लिहन्नास्वादयन्निवास्ते ॥ २६ ॥

दहन्निव दिशो दृग्भिः संवर्ताग्निरिवोत्थितः ॥ २७ ॥

सत्यधर्मीया

संवर्ताग्निः प्रलयानलः ॥ २७ ॥

छलारी

दृग्भिर्नभोऽन्तरिक्षं दहन्निव सांवर्तकाग्निरिव प्रलयाग्निरिवोत्थितः ॥ २७ ॥

लिङ्घेरी

उत्थितोऽभिवृद्धः संवर्ताग्निः प्रलयाग्निरिव दृष्टिभिर्नभोऽन्तरिक्षं दहन्निव वर्तते । संवर्त प्रलय इत्यमरः ॥ २७ ॥

ब्रूहि कारणमेतस्य दुर्धर्षत्वस्य मद्रिपोः ।

ओजः सहो बलं तेजो यत एष समुद्यमः ॥ २८ ॥

पदरत्नावली

ओजआदय एष समुद्यमश्च यतः मद्रिपोर् एतस्य दुर्धर्षत्वस्य कारणं ब्रूहीत्यन्वयः ॥ २८ ॥

सत्यधर्मीया

यत एतत्सर्वं तत्कारणं ब्रूहि ॥ २८ ॥

छलारी

यतः कारणाद्बलेरोजआदिकमासीत् । यत ओजआदेर्निमित्तादेष उद्यम आसीत् । मद्रिपोर्मम शत्रोर्बलेरेतस्यैतादृशस्य दुर्धर्षत्वस्य धर्षयितुमशक्यत्वस्य कारणं ब्रूहि ॥ २८ ॥

लिङ्घेरी

हे बृहस्पते । त्वं मद्रिपोर्बलेर्यदोजोऽवष्ठम्भशक्तिः, परनिरोधशक्तिः, सहनशक्ति-र्बलं शारीरशक्तिस्तेजः प्रताप इत्येतेषां तत्प्रयुक्तदुर्धर्षत्वस्य च कारणं ब्रूहि । यत ओजादिभिरेषः समुद्यमो जातः ॥ २८ ॥

गुरुरुवाच–

जानामि मघवन् शत्रोरुन्नतेरस्य कारणम् ।

शिष्यायोपभृतं तेजो गुरुभिर्ब्रह्मवादिभिः ॥ २९ ॥

पदरत्नावली

गुरुभिर्भृगुभिर्यतः कारणात् ॥ २९ ॥

सत्यधर्मीया

शत्रोरुन्नतेरुच्छ्रयस्य । शिष्यायास्मै बलये । गुरुभिः शुक्राचार्यैः । तेज उपभृतं पूरितम् ॥ २९ ॥

छलारी

अस्य बलेरुन्नतेरुत्कर्षस्य कारणम् । तत्किं ब्रह्मवादिभिः ॥ २९ ॥

लिङ्घेरी

एवं मघवता पृष्टो बृहस्पतिरुवाच । हे मघवन् । तव शत्रोर्बलेरुन्नतेरुत्कर्षस्य कारणं ब्रह्मवादिभिर्गुरुभिर्भृगुभिः स्वशिष्यायोपभृतं विद्योपदेशादिना पूर्तं तेजः शौर्यमिति जानामि

॥ २९ ॥

भवद्विधो भवान् वापि वर्जयित्वेश्वरं हरिम् ।

नास्य शक्तः पुरः स्थातुं कृतान्तस्य यथा जनाः ॥ ३० ॥

सत्यधर्मीया

भवान्भवद्विधस्त्वत्सदृशः । कृतान्तस्य जना पुरःस्थातुं यथा न शक्ता-स्तथा न शक्तः । तर्हि कोऽपि नास्ति किमित्यत आह । ईश्वरं हरिं वर्जयित्वा त्यक्त्वेति । स एकः शक्त इति भावः ॥ ३० ॥

छलारी

भवद्विधो भवत्सदृशो वाऽस्य बलेः पुरः स्थातुं न शक्तः । यथा कृतान्तस्य यमस्य पुरतो जनः स्थातुं न शक्तस्तद्वत् ॥ ३० ॥

लिङ्घेरी

हे मघवन् । जनाः कृतान्तस्य यमस्य पुरः स्थातुं यथा न शक्नुवन्ति तथा हरिं नारायणं विना भवत्सदृशोऽन्यो देवो भवानपि वाऽस्य बलेः पुरःस्थातुं शक्तो न । ‘कृतान्तो यमुनाभ्राता शमनो यमराड्यम’ इत्यमरः ॥ ३० ॥

तस्मान्निलयमुत्सृज्य यूयं सर्वे त्रिविष्टपम् ।

यात कालं प्रतीक्षन्तो१ यतः शत्रोर्विपर्ययः ॥ ३१ ॥

पदरत्नावली

त्रीणि विष्टपानि महरादिस्थानानि यस्मिन् तत् तथा ॥ ३१ ॥

सत्यधर्मीया

अरण्यरोदनवदिदं जातं गुरो । किमुत्तरत्रास्माभिः कर्तव्यमित्यत आह ॥ तस्मादिति ॥ निलयं त्रिविष्टपं स्वर्गम् । प्रतीक्षन्तो यात । प्रतीक्षमाणो यतो यदवधिकः शत्रोर्विपर्ययस्तं कालम् ॥ ३१ ॥

छलारी

अत्रोचितमुपायमाह ॥ तस्मादिति ॥ यूयं त्रिविष्टपं स्वर्गमुत्सृज्य निलयम-दर्शनमित्यर्थः । यात प्राप्नुत । कथम्भूताः । यतः कालाच्छत्रोर्विपर्ययो विपत्तिः स्यात् । तं कालं प्रतीक्षन्तो प्रतीक्ष्यमाणाः ॥ ३१ ॥

लिङ्घेरी

हे मघवन् । यत उक्तरीत्या शत्रोर्बलेर्विपर्ययो वैपरीत्यं भवदपकृष्टशौर्यादिमत्वं तस्य तदपेक्षयोत्कृष्टशौर्यादिमत्वं तस्माद्यूयं सर्वे स्वोत्कर्षकालं प्रतीक्षन्तः सन्तो निलयमाश्रयभूतं त्रिविष्टपं स्वर्गमुत्सृज्यान्यत्र यात गच्छत ॥ ३१ ॥

एष विप्रबलोदर्कः सम्प्रत्यूर्जितविक्रमः ।

एषामेवावमानेन सानुबन्धो विनङ्क्ष्यति ॥ ३२ ॥

पदरत्नावली

एष बलिर्विप्राणां भृगूणां सकाशाद् उत्तरोत्तरबलं, यस्य स तथा । कुत इति तत्राह- सम्प्रतीति ॥ ३२ ॥

सत्यधर्मीया

अन्ततो गत्वैतच्छामकं किं वदेत्यतो वक्ति ॥ एष इति ॥ संप्रतीदानीम् । एषामेव शुक्राचार्याणामेव ॥ ३२ ॥

छलारी

केनास्य विपर्ययः स्यादित्यत आह ॥ एष इति ॥ एष बलिर्विप्राणां बले-नोदर्कोऽभिवृद्धोऽत एवं संप्रतीदानीमुत्कृष्टपराक्रमः । एषामेव भृगूणामेवापमानेन सानुबन्धः सकुटुम्बो विनंक्ष्यति नाशं प्राप्स्यति ॥ ३२ ॥

लिङ्घेरी

एषो बलिः सम्प्रतीदानीं शुक्रादिविप्राणामनुग्रहेण बलेन शरीरशक्त्योदर्क उत्कृष्ट ऊर्जितपराक्रमश्च । तथाऽप्युत्तरकाले एषामेव शुक्रादीनामवमानेन स्वकृतेन सानुबन्धो देहि-सम्बन्ध्यादिभिः सहितः सन् विनष्टो भविष्यति । एतर्हि संप्रतीदानीमित्यमरः ॥ ३२ ॥

श्रीशुक उवाच—

एवं सुमन्त्रितार्थास्ते गुरुणाऽर्थानुदर्शिना ।

हित्वा त्रिविष्टपं जग्मुर्गीर्वाणाः कामरूपिणः ॥ ३३ ॥

सत्यधर्मीया

अर्थानुदर्शिना । एष्यदर्थज्ञेन तत्प्रदर्शकेन वा । बहिः पृतनावृत्तेः कथं त्रिविष्टपं त्यक्त्वा गता गीर्वाणा इत्यत आह ॥ कामरूपिण इति ॥ गुर्वाज्ञाकारित्वादे-तत्पूर्तिसामर्थ्यम् । अर्थपरिज्ञातता च तेषामिति भावः ॥ ३३ ॥

छलारी

अर्थानुदर्शिना देशकालोचितकार्यदर्शिना गुरुणैवं सुमन्त्रितो विचारितोऽर्थः कार्यं येषां ते गीर्वाणा देवास्त्रिविष्टपं स्वर्गं हित्वा कामरूपिणः प्रच्छन्नाकाराः सन्तो निलयनं जग्मुः

॥ ३३ ॥

लिङ्घेरी

ते गीर्वाणा देवा अर्थानुदर्शिना भविष्यत्प्रयोजनाभिज्ञेन गुरुणा बृहस्पति-नैवमुक्तरीत्या सुमन्त्रिता विचारिता अर्थाः प्रयोजनानि यैस्ते सन्तः स्वेच्छानुसारिरूपधारिणश्च सन्तस्त्रिविष्टपं परित्यज्य गतवन्तः । ‘गीर्वाणा दानवारय’ इत्यमरः ॥ ३३ ॥

देवेष्वतिविलीनेषु बलिर्वैरोचनः पुरीम् ।

देवधानीमधिष्ठाय वशं निन्ये जगत्त्रयम् ॥ ३४ ॥

सत्यधर्मीया

अतिविलीनेषु अत्यन्तमदर्शनं गतेषु ॥ ३४ ॥

छलारी

अतिविलीनेष्वदर्शनं गतेषु सत्सु देवधानीं देवाश्रयां पुरीं स्वर्गमधिष्ठायाश्रित्य । निन्ये चक्रे ॥ ३४ ॥

लिङ्घेरी

विरोचनपुत्रो बलिर्देवेष्विन्द्रादिषूक्तरीत्या विलीनेष्वाच्छादितस्वरूपेषु सत्सु स्वयं देवधानीं पुरीममरावतीम् । पुर्यामिति यावत् । अधिष्ठाय स्थित्वा भूर्भुवःस्वर्लक्षणं जगत्त्रयं स्ववशं चक्रे । अधिशीङ्स्थासां कर्मेति अध्युपपदानां स्वप्नगतिनिवृत्त्युपवेशनार्थानां शीङ्स्था-सामधिकरणस्य कर्मसंज्ञाविधानाद्देवधानीमिति कर्मणि द्वितीया ॥ ३४ ॥

तं विश्वजयिनं शिष्यं भृगवः शिष्यवत्सलाः ।

शतेन हयमेधानामनुव्रतमयाजयन् ॥ ३५ ॥

सत्यधर्मीया

हयमेधानां शतेन । इन्द्रमुख्यलक्षणत्वात्तस्येति भावः ॥ ३५ ॥

छलारी

एवं प्राप्तमिन्द्रपदं स्थिरं कर्तुं भृगवो बलिमयाजयन्नित्याह ॥ तमिति ॥ अनुव्रतमनुवर्तिनं हयमेधानामश्वमेधानां शतेन ॥ ३५ ॥

लिङ्घेरी

शिष्ये बलौ वात्सल्योपेता भृगवः शुक्रादयः सर्वजगद्विजयवन्तं स्वेषामनुव्रत-मनुकूलं शिष्यं तं बलिमश्वमेधानां यज्ञानां शतेनायाजयन् देवपूजाकारिणमकुर्वन् ॥ ३५ ॥

ततस्तदनुभावेन भुवनत्रयविश्रुताम् ।

कीर्तिं दिक्षु वितन्वानः स रेज उडुराडिव ॥ ३६ ॥

सत्यधर्मीया

वितन्वानो विततां कुर्वाणः ॥ ३६ ॥

छलारी

तदनुभावेनाश्वमेधमहिम्ना । उडुराडिव चन्द्र इव ॥ ३६ ॥

लिङ्घेरी

ततः स बलिस्तेषां शुक्रादीनामनुभावेन समग्रानुग्रहरूपेण भुवनत्रये प्रसिद्धां कीर्तिं दिक्षु विस्तारयन् उडूनां नक्षत्राणां राडधिपतिश्चन्द्र इव दीप्तिमानभूत् ॥ ३६ ॥

बुभुजे च श्रियं स्वृद्धां१ द्विजदेवोपलम्भिताम् ।

कृतकृत्यमिवात्मानं मन्यमानो महामनाः ॥ ३७ ॥

॥ इति श्रीमद्भागवते अष्टमस्कन्धे चतुर्दशोऽध्यायः ॥

पदरत्नावली

द्विजा भृगवस्त एवमभीष्टदातृत्वेन देवास्तैर् उपलम्भितां प्रापिताम्

॥ ३७ ॥

॥ इति श्रीमद्भागवतटीकायां विजयध्वजतीर्थभिक्षुकृतायाम्

अष्टमस्कन्धे चतुर्दशोऽध्यायः ॥

सत्यधर्मीया

स्वृद्धां सम्यगभिवृद्धाम् । द्विजदेवाः शुक्राचार्यास् तैरुपलम्भितां प्रापिताम् । आत्मानं स्वं कृतकृत्यमिव मन्यमानो महामनाः श्रियं बुभुज इत्यन्वयः । इव महामना इत्येताभ्यां हरिकरुणासंपादितमिदं नेति तदस्थिरताऽप्येकत्र वर्तत इति सूचयति ॥ ३७ ॥

॥ इति श्रीसत्यधर्मयतिकृतायां भागवतटिप्पण्याम् अष्टमस्कन्धे चतुर्दशोऽध्यायः ॥

छलारी

द्विजदेवैर्बाह्मणैरुपलंभितां प्राप्तामृद्धामतिसमृद्धाम् ॥ ३७ ॥

॥ इति श्रीछलारी शेषाचार्यकृतायां श्रीभागवतटिप्पण्याम् अष्टमस्कन्धे चतुर्दशोऽध्यायः ॥

लिङ्घेरी

महामना बलिरात्मानं स्वं कृतकृत्यं मुक्तमिव मन्यमानो द्विजैः शुक्रादिभिर्देवेन हरिणा चोपलंभितां प्रापितामभिवृद्धां श्रियं त्रैलोक्यसंपदं बुभुजेऽनुभुक्तवान् ॥ ३७ ॥

॥ इति श्रीलिङ्घेरी श्रीनिवासाचार्यकृतायां श्रीभागवतटिप्पण्याम् अष्टमस्कन्धे चतुर्दशोऽध्यायः ॥