मन्वन्तरेषु भगवन् यथा मन्वादयस्त्विमे
॥ अथ त्रयोदशोऽध्यायः ॥
राजोवाच–
मन्वन्तरेषु भगवन् यथा मन्वादयस्त्विमे ।
यस्मिन् कर्मणि ये येन नियुक्तास्तद्वदस्व मे ॥ १ ॥
पदरत्नावली
यथा कथम् । प्रवृत्त इति शेषः । ये इमे मन्वादयो येन पुरुषेण यस्मिन् कर्मणि नियुक्ताः प्रेरिता वर्तन्ते तत् सर्वम् ॥ १ ॥
सत्यधर्मीया
ते ते मनवस्ते ते मुनयः स स देवेन्द्रः स स भगवांश्च किं किं चक्रुरिति मुनिमवनीशः पृच्छति ॥ मन्वन्तरेष्विति ॥ मन्वन्तरेष्विमे मन्वादयः । ये येन यस्मिन् कर्मणि यथा येन प्रकारेण नियुक्ताः । भगवत्पक्षे प्रार्थितः । भगवन्निति शुकसम्बोधनं वा । तत्तेषां नियोजनं मे वदस्व गतम् ॥ १ ॥
छलारी
चतुर्दशमन्वन्तरस्थानां मन्वादीनां पृथक् पृथक् कर्माणि निरूप्यन्तेऽ-स्मिन्नध्याये । हे भगवन् शुकाचार्य । यथा कथं य इमे मन्वादयो येन पुरुषेण यस्मिन्कर्मणि व्यापारे यथा येन प्रकारेण नियुक्ताः प्रेरिताः प्रवर्तन्ते । तत्सर्वं वदस्व ॥ १ ॥
लिङ्घेरी
एवं श्रुतयज्ञादिनामकभगवान्परितोऽपि ईक्षिता परीक्षिद्विस्तरेण तच्छ्रवणकामः पुनः पृच्छतीत्याह सूतः ॥ राजेत्यादिना ॥ तत्रादौ राजा शुकं पृच्छति ॥ मन्वन्तरे-ष्वित्यादिना ॥ हे शुक । भगवान्नारायणो मन्वन्तरेषु स्वायंभुवादीन्द्रसावर्ण्यन्तचतुर्दशमनुकालेषु यथा केन प्रकारेण प्रवृत्तो भवति । तं प्रकारम् इमे स्वायम्भुवादिमनवः केन केन प्रकारेण वर्तन्ते एके येन केन यस्मिन्कस्मिन्कर्मणि नियुक्ता भवन्ति तत्सर्वं त्वं मे वदस्व ॥ १ ॥
ऋषिरुवाच–
मनवो मनुपुत्राश्च मुनयश्च महीपते ।
इन्द्राः सुरगणाश्चैव सर्वे पुरुषशासनाः ॥ २ ॥
सत्यधर्मीया
पुरुषस्य शासनं येषां ते तथा ॥ २ ॥
छलारी
तत्रादौ मन्वादिषट्कमध्ये भगवदवतारकर्माण्याह ॥ मनव इति ॥ मुनयः सप्तर्षयः । येन नियुक्ता इत्यस्योत्तरम् ॥ पुरुषेति ॥ पुरुषेण हरिणाऽऽशास्यन्ते नियुज्यन्त इति पुरुषशासनाः ॥ २ ॥
लिङ्घेरी
इति परीक्षिता पृष्टो ऋषिः शुक उवाच ॥ मनव इति ॥ येन नियुक्ता इत्यस्योत्तरमाह । हे महीपते । मनवो मनुपुत्राश्च मुनयश्चेन्द्राः सुरगणाश्चेते सर्वे पूर्णषड्गुण-त्वादिनिमित्तेन पुरुषशब्दितविष्ण्वाज्ञानुवर्तिन एवेति ॥ २ ॥
यज्ञादयो याः कथिताः पौरुष्यस्तनवो नृप ।
मन्वादयो जगद्यात्रां नयन्त्याभिः प्रचोदिताः ॥ ३ ॥
पदरत्नावली
कोऽयं पुरुष इति तत्राह– यज्ञादय इति ॥ मन्वादिकालमारभ्य तेन यज्ञनाम्ना हरिणा प्रचोदिता मन्वादयो जगद्यात्रां जगत्स्थितिं नयन्तीत्यन्वयः ॥ ३ ॥
सत्यधर्मीया
स च पुरुषोऽयमिति दर्शयति ॥ यज्ञादय इति ॥ पुरुषः पूर्णषड्गुणो भगवान् । तत्सम्बन्धिन्यः । आभिर्यज्ञादिभगवत्तनुभिः प्रचोदिता मन्वादयः स्वायम्भुवादयः । जगद्यात्रां जगज्जीवनोपायं नयन्ति कुर्वन्ति । जगद्यात्रां नयन्ति प्रापयन्तीति पृथक्पदं वा । ‘यात्रा तु यापनोपाये गतौ देवार्चनोत्सव’ इति विश्वः ॥ ३ ॥
छलारी
तदेव विशदयति ॥ यज्ञादय इति ॥ यज्ञादयो याः पौरुष्यः परस्य हरेः सम्बन्धिन्यस्तनवोऽवताराः कथिताः । मन्वन्तरेष्वाभिस्तनुभिः प्रचोदिताः सन्तो मन्वादयः । आदिपदेन मनुपुत्रा ऋषींद्रदेवा ग्राह्याः । जगद्यात्रां जगत्स्थितिं नयन्ति कुर्वन्तीत्यर्थः ॥ ३ ॥
लिङ्घेरी
ननु प्रकृतस्वायम्भुवादीनां यज्ञाद्याज्ञानुवर्तनोक्तेः कथमिदानीं पुरुषाज्ञानु-वर्तितोच्यत इति मन्दाशङ्कां प्रमादादुत्थां परिहरति ॥ यज्ञादय इति ॥ हे नृप । यज्ञनामक-भगवदादयो याः पुरुषशब्दितविष्णुसम्बन्धिन्यस्तनवोऽवताराः कथिता आभिस्तनुभिर्यज्ञाद्यवतारैः सम्यक् प्रेरिताः स्वायम्भुवमन्वादयो जगत्प्रवृत्तिं कारयन्ति । अनेन येन यस्मिन्कर्मणि नियुक्ता इत्यस्य सामान्यत उत्तरमुक्तमिति ज्ञेयम् ॥ ३ ॥
चतुर्युगान्ते कालेन ग्रस्तांच्छ्रुतिगणान् यथा ।
तपसा ऋषयोऽपश्यन् यतो धर्मः सनातनः ॥ ४ ॥
पदरत्नावली
यतः श्रुतिगणेभ्यः सनातनो धर्मः सिद्ध ऋषयस्तांच्छ्रुतिगणान् यथावत् तपसा पश्यन् ॥ ४ ॥
सत्यधर्मीया
चतुर्युगान्ते दिनकल्पे । कालेन तद्बलेन । ग्रस्तानप्रतिभूतान् श्रुति-गणांस्तान् । यथा पूर्ववत् । ऋषयोऽपश्यन् अवलोकितवन्तः । तत्र हेतुस्तप इत्याह ॥ तपसेति ॥ वेदकर्म चेदमित्याह ॥ यत इति ॥ सनातनो धर्मो यतः सिद्ध्यति । अयं मुनिव्यापारः । हरिणोदिता इति सर्वत्र ग्राह्यम् ॥ ४ ॥
छलारी
इदानीम् ऋषिकर्माण्याह ॥ चतुर्युगान्त इति ॥ यतो येभ्यः श्रुतिगणेभ्यः सनातन अनाद्यनन्तकालेऽपि सर्वैः क्रियमाणो धर्मः सिध्यति । ताश्चतुर्युगान्ते दिनकल्पान्ते कालेन निमित्तेन ग्रस्तांस्तिरोहितान् श्रुतिगणान् ऋषयो यथा यथावत्तपसा सम्यक् तपः कृत्वेत्यर्थः । अपश्यन् ॥ ४ ॥
लिङ्घेरी
तदेव विशिष्याह ॥ चतुर्युगान्त इत्यादिना ॥ चतुर्युगशब्दितदैनन्दिनान्तिम-महायुगान्ते कालेन प्रलयरूपेण ग्रस्तान्प्रवर्तकाभावेन निगीर्णप्रायान् श्रुतिगणानृषयस्तपसा साधनेन यथावदपश्यन् ततः श्रुतिगणाद्धर्मो सनातनः सार्वकालिको ज्ञातव्यः ॥ ४ ॥
ततो धर्मं चतुष्पादं मनवो हरिणोदिताः ।
युक्ताः सञ्चारयन्त्यद्धा स्वे स्वे काले महीं नृपाः ॥ ५ ॥
पदरत्नावली
ततस्तदुक्तविधिना हरिणा चोक्ता मनवस्तं चतुष्पादं धर्ममद्धा सञ्चारयन्ति
॥ ५ ॥
सत्यधर्मीया
तपः सत्यं दया शौचमिति पादचतुष्टयोपेतं धर्मं युक्ता उपायज्ञाः स्वे स्वे काले महीं सञ्चारयन्ति । तत्र न्यून्यता नेत्याह ॥ ओति ॥ अञ्जसा मह्यां धर्मं हरिप्रेरिताः प्रवर्तयन्ति । मनुव्यापारोऽयम् । नृपा राजानः ॥ ५ ॥
छलारी
मनुकर्माण्याह ॥ तत इति ॥ हरिणोदिताः प्रेरिता मनवो युक्ताः सावधान-मनसः सन्तः स्वे स्वे काले स्वस्याधिकारकाले महीं भूमिं, ततो वेदेषु विहितं चतुष्पादं, तपः सत्यं दया शौचाख्यपादचतुष्टयवन्तं धर्मं सञ्चारयन्ति मह्यां धर्मं प्रवर्तयन्तीत्यर्थः ॥ ५ ॥
लिङ्घेरी
ततस्तदनन्तरं ततः श्रुतिगणाद् ऋषिभ्यश्चोक्तप्रकारं पादचतुष्टयोपेतं संपूर्णं धर्मं हरिणा च उदिता एतादृशो धर्म इत्युक्ताश्च । उक्तधर्मविषये युक्ताश्च युक्तायुक्तादिनियामकयुक्ति-युक्ताश्च मनवः सञ्चारयन्ति । अद्धा याथार्थ्येन ॥ ५ ॥
पालयन्ति प्रजापाला यावदन्तं विभागशः ।
यज्ञभागभुजो देवा ये च तत्रानुकीर्तिताः ॥ ६ ॥
पदरत्नावली
प्रजापाला नृपाश्च स्वस्वकाले विभागशो यावदन्तं कर्मक्षयपर्यन्तं महीं पालयन्तीत्यन्वयः ॥ ६ ॥
सत्यधर्मीया
मनुतनुजनिकृत्यमाह ॥ पालयन्तीति ॥ यावदन्तं तत्तन्मन्वन्तराव-सानम् । विभागशः स्वस्वविभागानुसारेण पुत्रपौत्रपरंपरया वा । महीं पालयन्ति । देवकर्मैतदेवेति वदति ॥ यज्ञेति ॥ ६ ॥
छलारी
मनुपुत्रव्यापारमाह ॥ पालयन्तीति ॥ प्रजापाला मनुपुत्रास्तत्तन्मनुकाले यावन्मन्वन्तरावसानं विभागशः पुत्रपौत्रादिक्रमेण महीं धर्मं पालयन्ति । देवव्यापारमाह ॥ यज्ञेति ॥ तत्र मन्वन्तरे ये देवा अनुकीर्तिता अनुवर्णिताः । यज्ञभागभुजो यज्ञभागभोक्तारः ॥६॥
लिङ्घेरी
एवं स्वस्वकीयकाले प्रजापाला नृपा विभागशो विभागेन स्वस्वविभक्तदेशानु-सारेण यावदन्तं स्वपाल्यभूमिमर्यादा तावन्महीं पालयन्ति संरक्षयन्ति । ये देवाश्चात्रानुकीर्तितास्ते यज्ञभागभुजः ॥ ६ ॥
इन्द्रो भगवता दत्तां त्रैलोक्यश्रियमूर्जिताम् ।
भुञ्जानः पाति लोकांस्त्रीन् कामं लोके प्रवर्षति ॥ ७ ॥
सत्यधर्मीया
कामं यथेच्छम् ॥ ७ ॥
छलारी
इन्द्रव्यापारमाह ॥ इन्द्र इति ॥ ७ ॥
लिङ्घेरी
इन्द्रस्तु भगवता विष्णुना दत्तामुत्कृष्टां त्रैलोक्याधिपत्यादिसम्पदं भुञ्जानोऽनु-भवन् त्रींल्लोकान् भूर्भुवःस्वर्लक्षणानि भुवनानि तत्स्थजनांश्च रक्षति । भूलोके कामं कर्षकप्रजेच्छा-पूर्तिर्यथा तथा मेघैर्वृष्टिं कारयति ॥ ७ ॥
ज्ञानं चानुयुगं१ ब्रूते हरिः सिद्धस्वरूपधृक् ।
ऋषिरूपधरः कर्म योगं योगेशरूपधृक् ॥ ८ ॥
पदरत्नावली
सिद्धस्वरूपः ज्ञानमुपदिशति, ऋषिरूपधरो हरिः कर्म योगेश्वररूप-धृग्योगम् ॥ ८ ॥
सत्यधर्मीया
अनुयुगं युगानुसारम् । ज्ञानं तत्साधनं ब्रूते । कपिलादिः सनकादिभ्यः साक्षादसाक्षाद्रूपधरः सन् । ऋषिरूपधरः परशुरामपाराशररूपधरः । कर्मयोगं कर्ममार्गोपायम् । योगेशाश्च दत्तात्रेयादयः ॥ ८ ॥
छलारी
प्रसङ्गाद्रूपान्तरैरपि जगद्धात्रा प्रवर्तनमाह ॥ ज्ञानमिति ॥ अनुयुगं प्रतियुगं हरिः सिद्धानां सनकादीनां स्वरूपधृक् । सनकाद्यन्तर्गतरूपेणेत्यर्थः । ज्ञानं ब्रूत उपदिशति । ऋषीणां याज्ञवल्क्यादीनां रूपधरः । याज्ञवल्क्याद्यन्तर्यामिणेत्यर्थः । कर्म यज्ञादिकर्ममार्गं ब्रूते । योगेशरूपधृक् योगप्रवर्तकदत्तात्रेयादिरूपधारी । तन्नामा साक्षाद्रूपेणेत्यर्थः । योगं प्राणायामादि-प्रतिपादकं शास्त्रम् ॥ ८ ॥
लिङ्घेरी
हरिः सिद्धरूपधरः सन् कपिलाद्यवतारो भूत्वाऽनुयुगं प्रतियुगं ज्ञानं ब्रूते । चातुर्युगमिति पाठे कृतादियुगचतुष्टयम् । ऋषेर्व्यासादे रूपधारी कर्मयोगं ब्रूते । योगेशो दत्तात्रेयादि रूपवान् योगमणिमादिसाधनं ब्रूते ॥ ८ ॥
सर्गं प्रजेशरूपेण दस्यून् हन्ति स्वराड्वपुः ।
कालरूपेण सर्वेषामभावाय२ पृथग्गुणः ॥ ९ ॥
पदरत्नावली
प्रजापतिरूपेण सर्गं करोति । स्वराड्वपुः क्षत्रवपुर् दस्यून् हन्ति । पृथग्गुणो ऽयथार्थज्ञानजनकतमोगुणप्रवर्तकः ॥ ९ ॥
सत्यधर्मीया
प्रजेशरूपेण कृष्णदक्षादिप्रजापतिरूपेण सर्गम् । स्वराड्वपुर्दाशरथि-पृथ्वादिरूपी । दस्यून् हन्ति । कालरूपेण कल्क्यादिकालान्तर्गतरूपेण च सर्वेषामभावाय नाशाय । पृथग्गुणः कार्यार्थमुपात्तसत्त्वादिगुण इति पृथग्गुणोऽयथार्थज्ञानजनकतमोगुणप्रवर्तक इति वा ॥ ९ ॥
छलारी
प्रजेशा मरीच्यादयस्तदन्तर्गतरूपेण । सर्गं करिष्यतीति शेषः । स्वराड्वपू रामकृष्णादिराजन्यो दस्यून्हन्तीति । कालरूपेण सर्वेषामसतामभावाय नाशाय पृथग्गुणोऽयथार्थ-ज्ञानजनकतमोगुणप्रवर्तको भवति ॥ ९ ॥
लिङ्घेरी
प्रजेशेषु ब्रह्मादिषु स्थितेन रूपेण सर्गं सृष्टिं करोति । स्वराडिन्द्रादिरूपेण दस्यूंश्चोरान् असुरांश्च हन्ति संहरति । पृथग्गुणस्तमोगुणप्रवर्तको भगवान् कालरूपेण सर्वसंहारक-नृसंहादिरूपेण सर्वेषां जनानामभवाय नाशाय प्रवर्तते ॥ ९ ॥
स्तूयमानो जनैरेभिर्माययाऽनामरूपया ।
विमोहितात्मभिर्नानादर्शनैर्न च दृश्यते ॥ १० ॥
पदरत्नावली
एभिर्ऋष्यादिभिः स्तूयमानो दृश्यते । नामरूपरहिततया अदृश्यत्वादि-स्वभावविशिष्टया मायया अव्यक्तशब्दवाच्यया मोहितात्मभिर् जनैः कल्पितैर्नानादर्शनैरद्वैतादि-नानाविधशास्त्रैर्न दृश्यते न ज्ञायते । चशब्दाद्द्वैतज्ञानेन दृश्यत इति ग्राह्यम् । ‘अन्यमीशमस्य महिमानमिति वीतशोकः’ इति श्रुतेः ॥ १० ॥
सत्यधर्मीया
एभिः सात्त्विकैर्जनैर् ऋष्यादिभिः स्तूयमानो दृश्यते । अनामरूपया मायया स्वशक्त्या विमोहितात्मभिर्नानादर्शनैर्नानाविधदुर्दर्शनवद्भिर्न च दृश्यते न ज्ञायते । विमोहितात्मभिर्मोहितात्मविरुद्धैरित्यर्थकं सत् सज्जनविशेषणमपि । चशब्दो दृश्यत इति समुच्चायकः ॥ १० ॥
छलारी
एवंविधो हरिरनामरूपयाऽप्रसिद्धस्वरूपाऽव्यक्तशब्दवाच्या, तयेत्यर्थः । मायया प्रकृत्या मोहित आत्मा मनो येषां तैरेभिर्जनैः कल्पितैर्नानादर्शनैरद्वैतादिशास्त्रैः स्तूयमानोऽपि निरूप्यमाणोऽपि न दृश्यते सम्यक् न ज्ञायते । चशब्दाद्भेदज्ञानिभिर्वेदादिसच्छास्त्रैः स्तूयमानो हरिर्ज्ञायत इति ज्ञेयम् ॥ १० ॥
लिङ्घेरी
ब्रह्मादिस्तूयमानो दृश्यते । प्राकृतनामरूपरहितया मायया नारायण्यादिरूपया मोहितात्मभिर्जनैः, स्वबुद्धिकल्पितैर्नानाप्रकारैरद्वैतादिभिर्दर्शनैः शास्त्रैरुक्तविधयोपासितो नैव दृश्यते । ‘दृश्यते त्वग्रया बुद्ध्या’, ‘प्रोक्ताऽन्येनैव सुज्ञानाय प्रेष्ठ’ इत्यादिश्रुतेः ॥ १० ॥
एतत् कल्पविकल्पस्य प्रमाणं परिकीर्तितम् ।
यत्र मन्वन्तराण्याहुश्चतुर्दश पुराविदः ॥ ११ ॥
॥ इति श्रीमद्भागवते अष्टमस्कन्धे त्रयोदशोऽध्यायः ॥
पदरत्नावली
उपसंहरति एतदिति ॥ पुराविदो यत्र यस्मिन् कल्पे चतुर्दशमन्वन्तरा-ण्याहुस्तस्य कल्पस्यैतत् प्रमाणमुक्तम् । यस्मिन् अवान्तरमन्वन्तराण्याहुस्तस्य विकल्पस्यै-तत्प्रमाणं परिकीर्तितम्, शास्त्रान्तर इति शेषः । इति कल्पविकल्पस्य कल्पभेदस्येति वा ॥११॥
॥ इति श्रीमद्भागवतटीकायां विजयध्वजतीर्थभिक्षुकृतायाम्
अष्टमस्कन्धे त्रयोदशोऽध्यायः ॥
सत्यधर्मीया
पुराविदः प्राचीनविपश्चितः । यत्र चतुर्दशमन्वन्तराणि द्विविधानि भवन्तीत्याहुः । कल्पस्य महतः विकल्पस्यावान्तरकल्पस्य च प्रमाणं मानं परिकीर्तितं मया । त्वां प्रतीति शेषः ॥ ११ ॥
॥ इति श्रीसत्यधर्मयतिकृतायां भागवतटिप्पण्याम्
अष्टमस्कन्धे त्रयोदशोऽध्यायः ॥ ८–१३ ॥
छलारी
प्रासङ्गिकं निरूप्य प्रकृतमुपसंहरति ॥ एतदिति ॥ पुराविदः पुरातनज्ञानिनो यत्र कल्पे चतुर्दश मन्वान्तराण्याहुस्तस्य कल्पे विकल्पस्य कल्पभेदस्यावान्तरकल्पस्येत्यर्थः । एतत्तु चतुर्दशमनुभोग्यकालस्य प्रमाणमुक्तम् ॥ ११ ॥
॥ इति श्रीछलारी शेषाचार्यकृतायां श्रीभागवतटिप्पण्याम्
अष्टमस्कन्धे त्रयोदशोऽध्यायः ॥ ८–१३ ॥
लिङ्घेरी
हे राजन् । पुराविदः पुरातनस्थितिज्ञा यत्र चतुर्दश मन्वान्तराण्याहु-स्तस्यैतत्कल्पविकल्पस्य दैनन्दिनात्मककल्पविशेषस्य प्रमाणं सहस्रयुगपर्ययो महायुगसहस्ररूपं प्रमाणमियत्ता परिकीर्तितमुक्ता ॥ ११ ॥
**॥ इति श्रीलिङ्घेरी श्रीनिवासाचार्यकृतायां श्रीभागवतटिप्पण्यां **
अष्टमस्कन्धे त्रयोदशोऽध्यायः ॥ ८–१३ ॥