मनुर्विवस्वतः पुत्रः श्राद्धदेव इति श्रुतः
॥ अथ द्वादशोऽध्यायः ॥
श्रीशुक उवाच–
मनुर्विवस्वतः पुत्रः श्राद्धदेव इति श्रुतः ।
सप्तमो वर्तमानो यस्तदपत्यानि मे शृणु ॥ १ ॥
पदरत्नावली
प्रासङ्गिकं समाप्यावशिष्टश्राद्धदेवादिमनुकथाकथनेन हरेर्माहात्म्यमेव वर्णयति कतिपयैरुत्तरैरध्यायैः । तत्र श्राद्धदेवः कस्य पुत्र इति तत्राह– मनुरिति ॥ १ ॥
सत्यधर्मीया
प्रासङ्गिकमुक्त्वा प्रकुतमनुसरन् मनुकथाकथनापदेशेनेशमाहात्म्यमेव वर्णय-त्युत्तराध्यायैः । तत्र श्राद्धदेवः कस्यापत्यं तदपत्यानि कानीत्यत आह ॥ मनुरिति ॥ विवस्वतः सूर्यस्य । वर्तमान इदानीं सप्तमो मनुः श्राद्धदेव इति श्रुत इत्यन्वयः । तदपत्यानि तस्य श्राद्धदेवस्य पुत्रान् मे मत्तः ॥ १ ॥
छलारी
एवं प्रासंगिकं समाप्येदानीं हरिमाहात्म्यसूचकानि श्राद्धदेवाद्यष्टमन्वन्तराणि क्रमेण वर्णयति ॥ मनुरित्यादिना यावदध्यायसमाप्ति । विवस्वतस्तन्नामकसूर्यपुत्रः । इदानीं वर्तमानः सप्तमो मनुः श्राद्धदेव इति श्रुतः । यस्य मनोरपत्यानि शृृणु ॥ १ ॥
लिङ्घेरी
शुकः स्वायम्भुवादिचाक्षुषान्तमन्वन्तरस्थितिं सविस्तरं निरूप्य सप्तमस्य वैवस्वतो मनुस्तस्यापत्यानि पुत्रान्मे मम सकाशाच्छृणु ॥ १ ॥
इक्ष्वाकुश्च नभश्चैव धृष्टः शर्यातिरेव च ।
नरिष्यन्तोऽथ नाभागः सप्तमो दिष्ट उच्यते ॥ २ ॥
करूषश्च वृषध्रश्च१ दशमो वसुमान् स्मृतः ।
मनोर्वैवस्वतस्यैते दश पुत्राः परन्तप ॥ ३ ॥
पदरत्नावली
श्राद्धदेवस्यापत्यानि, तत्र देवनामानि, सप्त ऋषिनामानि, हरेरवतारविशेषं च वक्ति– इक्ष्वाकुरित्यादिना ॥ २ ॥
सत्यधर्मीया
तदन्तरसुरसुरर्षभऋष्यादिनाम कर्म च वक्ति ॥ इक्ष्वाकुरित्यादिना ॥ अथ नाभागानन्तरं दिष्टस्तन्नामा सप्तम उच्यते । करुषो वृषध्रश्चेतावष्टमनवमौ ज्ञेयौ । वसुमांश्च दशमः स्मृतः ॥ २,३ ॥
छलारी
तानाह ॥ इक्ष्वाकुरित्यादिना ॥ पुत्रसंख्यानाह ॥ मनोरिति ॥ वैवस्वतः श्राद्धदेव इति अपरनामा ॥ २,३ ॥
लिङ्घेरी
इक्ष्वाकादयो वसुमदन्ता दश वैवस्वतमनोः पुत्राः । हे परंतप शत्रुसंतापक परीक्षिद्राज ॥ २,३ ॥
आदित्या वसवो रुद्रा विश्वेदेवा मरुद्गणाः ।
अश्विनावृभवो राजन्निन्द्रस्तेषां पुरन्दरः ॥ ४ ॥
सत्यधर्मीया
आदित्याद्या अश्व्यन्ता ऋभवो देवा इत्यर्थः । ऋ इति स्वर्गस्य वाऽदि-तेर्वा नाम । स्वरादित्वादव्ययता । तत्र ततो वा भवन्ति । मितंद्वादित्वाड्डुः । ‘अदित्या ऋभवोऽस्वप्ना’ इत्यमरः । क्विपि ऋभुव इत्यपीत्युक्तेर्ऋभव इति पाठोऽपि दृश्यः । तेषां देवानाम् । पुरन्दरनामेन्द्रः । पूः सर्वयोर्दारिसहा वाचंयमपुरन्दरौ चेति निपातितः ॥ ४ ॥
छलारी
वैवस्वतमन्वन्तरे देवानाह ॥ आदित्या इति ॥ आदित्यादयो देवा इत्यन्वयः ॥ ४ ॥
लिङ्घेरी
वैवस्वतेऽन्तरे आदित्या इत्यादि ऋभव इत्यन्तनामानो देवास्तेषां पुरन्दर-नामेन्द्रः ॥ ४ ॥
कश्यपोऽत्रिर्वसिष्ठश्च विश्वामित्रोऽथ गौतमः ।
जमदग्निर्भरद्वाज इति सप्तर्षयः स्मृताः ॥ ५ ॥
सत्यधर्मीया
कश्यपादयः सप्त ऋषयः स्मृताः ॥ ५ ॥
लिङ्घेरी
कश्यपादयो वसिष्ठान्ताः सप्तर्षयो वैवस्वतमन्वन्तरे ॥ ५ ॥
अत्रापि भगवज्जन्म कश्यपाददितेरभूत् ।
आदित्यानामवरजो विष्णुर्वामनरूपधृक् ॥ ६ ॥
सत्यधर्मीया
अत्राप्येतन्मन्वन्तरेऽपि कश्यपादृषेरदित्यां भगवज्जन्माभूत् । आदित्यानां द्वादशानां मध्येऽवरजोऽन्तिमः । वामनरूपधृग्वामनरूपधारी तन्नामकश्च ॥ ६ ॥
छलारी
मन्वन्तरगतेन्द्रमाह ॥ आदित्यानामिति ॥ आदित्यानाम् । ‘विवस्वानर्यमा पूषा त्वष्टा च सविता भगः । धाता पर्जन्य वरुणो मित्रः शक्र उरुक्रम ॥’ इत्युक्तद्वादशा-दित्यानां मध्येऽवरं पश्चाज्जन्म यस्य स तथा । वामन इत्यर्थः ॥ ६ ॥
लिङ्घेरी
अत्र वैवस्वतमन्वन्तरेऽपि कश्यपादृषेरदितिदेव्यां भगवतो नारायणस्य जन्म प्रादुर्भावोऽभूत् । प्रादुर्भूतस्य नामाद्याह । प्रादुर्भूतो विष्णुरदित्युत्पन्नदेवानामनुजो वामनाख्य-रूपधारीति ॥ ६ ॥
सङ्क्षेपतो मयोक्तानि सप्तमन्वन्तराणि ते ।
भविष्याण्यथ वक्ष्यामि विष्णोः शक्त्यऽन्वितानि च ॥ ७ ॥
पदरत्नावली
मन्दानां प्रमेयविज्ञानार्थम् उत्तरमन्वतराणि प्रतिजानीते— भविष्याणीति
॥ ७ ॥
सत्यधर्मीया
स्वायम्भुवस्वरोचिषोत्तमतापसरैवतचाक्षुषाणीति षट् । वर्तमानं वैवस्वत-मन्वन्तरं चेति सप्त मन्वन्तराणि ते त्वां प्रति सङ्क्षेपत उक्तानि । भविष्याण्येष्यन्ति । विष्णोः शक्त्यान्वितानि चेति अवश्यं श्रोतव्यत्वे हेतूक्तिः ॥ ७ ॥
छलारी
मन्दानां पूर्वकथामनूद्योत्तरकथां प्रतिजानीते ॥ संक्षेपत इति ॥ ते तुभ्यं सप्त मन्वन्तराणि । स्वायंभुवस्वारोचिषोत्तमतापसरैवतचाक्षुषाख्यान्यतीतानि षट् । वैवस्वताख्यं वर्तमानं सप्तमं चेत्येवं सप्तमन्वन्तराणि संक्षेपतो मयोक्तानि वर्णितानि । अथानन्तरं विष्णोः शक्त्या सामर्थ्येनान्वितानि विष्ण्ववतारसहितानि भविष्याण्यग्रे । इतराणि । सावर्णिदक्षसावर्णि-ब्रह्मसावर्णिधर्मसावर्णिरुद्रसावर्णिदेवसावर्णिइन्द्रसावर्णिसंज्ञानि सप्तमन्वन्तराणि वक्ष्यामि ॥ ७ ॥
लिङ्घेरी
पूर्वोक्तमनुसंख्यां स्मारयन्नेव भविष्यन्मनुकथाकथनस्यापि विष्णुशक्तिप्रकाश-कत्वेनावश्यकत्वं सूचयन्नेव तत्प्रतिजानीते ॥ संक्षेपत इत्यादिना ॥ हे राजन् । मया ते सप्त मन्वन्तराणि सङ्क्षेपत उक्तानि । अथ च यस्माद्भविष्याण्यपि मन्वन्तराणि विष्णोः शक्त्य-न्वितानि । अथ तस्मात्तान्यपि ते वक्ष्यामीति ॥ ७ ॥
विवस्वतश्च द्वे भार्ये विश्वकर्मसुते उभे ।
संज्ञा छाया च राजेन्द्र ये प्रागभिहिते तव ॥ ८ ॥
सत्यधर्मीया
विवस्वतः संज्ञा छायेति द्वे भार्ये पत्न््नयौ । कस्यापत्ये इत्यतो विश्व-कर्मसुते इति । सूर्यभार्यात्वे एते योग्ये इत्याह ॥ उभे इति ॥ उरूत्कृष्टा भययोस्ते । प्राक् षष्ठे स्कन्धे ॥ ८ ॥
छलारी
अष्टमं मनुं वक्तुं तदुपयुक्तकथामाह ॥ विवस्वत इति त्रिभिः ॥ प्राक् षष्ठस्कन्धे सञ्ज्ञा छायेत्युभयेऽपि विश्वकर्मसुतेऽभिहिते ते विवस्वतस्तन्नाम्नः सूर्यस्य तेजस एव बभूवतुः ॥ ८ ॥
तृतीयां वडवामेके१ तासां संज्ञासुतास्त्रयः ।
यमो यमी श्राद्धदेवश्छायायाश्च सुतान् शृणु ॥ ९ ॥
पदरत्नावली
तासां संज्ञाछायावडवानां मध्ये संज्ञासुता एत इत्याह– यम इति ॥९॥
सत्यधर्मीया
ताभ्यामन्येयमिति तृतीयां वडवामेवैके आहुः । मम तु मतं संज्ञैव वडवेति । तथा हि । षष्ठे । ‘सैव भूत्वाऽथ वडवानासत्यौ सुषुवे भुवि’ इति । सैव संज्ञैवेत्यसूचयत् स्वमतं शुक एक इत्युक्त्येति ज्ञेयम् । तासां तिसृणां मध्ये संज्ञांशविवक्षया तासामित्युक्तिः । संज्ञायाः सुता यमो यमी यमुना । प्रकृतः श्राद्धदेवो मनुश्चेति त्रयः ॥ ९ ॥
छलारी
तासां तिसॄणां भार्याणां मध्ये संज्ञायाः सुता यमो यमी श्राद्धदेवश्चेति त्रयः
॥ ९ ॥
लिङ्घेरी
हे राजेन्द्र । विवस्वान्नामकादित्यस्य संज्ञा छाया चेति द्वे भार्ये । उभे च विश्वकर्मणः सुते । ये प्राक् पूर्वं तवाभिहिते उक्ते तदपेक्षया वडवा नाम्नी तृतीया विवस्वतो भार्या । तासां मध्ये संज्ञासुता यमो यमी श्राद्धदेव इति त्रयः । छायायाश्च सुतान्वक्ष्यमाणान् शृृणु
॥ ९ ॥
सावर्णिस्तपती कन्या भार्या संवरणस्य या ।
शनैश्चरस्तृतीयोऽभूदश्विनौ वडवात्मजौ ॥ १० ॥
सत्यधर्मीया
सावर्णिरेकस् तपती कन्यैका । या संवरणस्य तन्नाम्नो राजर्षेः । तथा ह्यादिपर्वणि । तापत्ये ‘द्विरष्टवर्षां तां पश्यन् सविता रूपशालिनीम् । नोपलेभे ततः शान्तिं सम्प्रदानं विचिन्तयन् । तामवेक्ष्य तु कौन्तेय कुरूणाम् ऋषभो बली । सूर्यमाराधयामास नृपः संवरणस्ततः । वरः संवरणो राज्ञां त्वमृषीणां वरो मुने । तपती योषितां श्रेष्ठा किमन्यत्राप-वर्जनात् । जग्राह विधिवत् पाणिं तपत्याः स नराधिप ॥’ इति । भार्या । शनैश्चरश्च तृतीय इति त्रयोऽभवन् । वडवात्मजावश्विनावभूताम् ॥ १० ॥
छलारी
सावर्णिः पुत्रस्तपती नाम्नी कन्या । या तपती संवरणस्य ऋषेर्भार्या वडावाया अश्विनावात्मजौ पुत्रौ ॥ १० ॥
लिङ्घेरी
सावर्णिर्या सावर्णाख्यस्य भार्या सा, तपती नाम्नी कन्या, शनैश्चरेति त्रयश् छायासुताः । अश्विनौ वडवायाः पुत्रौ ॥ १० ॥
अष्टमे अन्तरे याते सावर्णिर्भविता मनुः ।
निर्मोहविरजस्काद्याः सावर्णेस्तनया नृप ॥ ११ ॥
सत्यधर्मीया
अन्तरे श्राद्धदेवमन्वन्तरे । याते गते सति । अष्टमे सावर्णिर्नाम्ना मनुर्भविता ॥ ११ ॥
छलारी
एवमुपयुक्तमुक्त्वेदानीमष्टममन्वन्तरगतमन्वादीनाह ॥ अष्टम इति ॥ सावर्णिः पूर्वोक्तः । विवस्वत्सुतस्तस्य सुतानाह ॥ निर्मोहेति ॥ ११ ॥
लिङ्घेरी
हे नृप । अष्टमेऽन्तरे मन्वन्तरे याते गते सति सावर्णिर्मनुर्भविता भविष्यति । तस्य सावर्णेर्निर्मोहविरजस्काद्याः पुत्राः ॥ ११ ॥
तत्र देवाः सुतपसो विरजा अमितप्रजाः ।
तेषां विरोचनसुतो बलिरिन्द्रो भविष्यति ॥ १२ ॥
सत्यधर्मीया
सुतप आदयो देवास् तेषां विरोचनसुतो बलिरिन्द्रो भविष्यति ॥ १२ ॥
छलारी
देवानाह ॥ तत्रेति ॥ इन्द्रमाह ॥ तेषामिति ॥ विरोचनसुतो बलिरिन्द्रः
॥ १२ ॥
लिङ्घेरी
तत्र सावर्णिमन्वन्तरे सुतपसो विरजा अमितप्रजा इति नामानो देवास्तेषां देवानां विरोचनस्यासुरस्य सुतो बलिरिन्द्रो भविष्यति ॥ १२ ॥
दत्वेमां याचमानाय विष्णवे यः पदत्रयम् ।
राद्धमिन्द्रपदं हित्वा ततः सिद्धिमवाप्स्यति ॥ १३ ॥
पदरत्नावली
बलेरिन्द्रपदानन्तरं का सिद्धिरिति तत्राह– दत्वेमामिति ॥ पदत्रयं याचमानाय विष्णवे इमां पृथिवीं दत्वा राद्धं सिद्धमिन्द्रपदं हित्वा यो बलिस्ततः सिद्धिं मुक्तिमवाप्स्यतीत्यन्वयः ॥ १३ ॥
सत्यधर्मीया
यो बलिः पदत्रयं याचमानायेमां पृथिवीं दत्वा । राद्धं सिद्धमिन्द्रपदं हित्वा । ततः प्रदानपुण्यतः सिद्धिं मुक्तिमाप्स्यतीत्यन्वयः ॥ १३ ॥
छलारी
तन्माहात्म्यमाह ॥ दत्वेति ॥ सप्तममन्वन्तरे यो बलिः पदत्रयं पादत्रय-परिमितां भूमिं याचमानाय विष्णवे वामनायेमां सर्वां भूमिं दत्वाऽष्टममन्वन्तरे विष्णोः प्रसादेन राद्धं लब्धमिन्द्रपदम् । भुक्त्वेति शेषः । ततोऽन्ते हित्वा त्यक्त्वा च सिद्धिं मुक्तिमवाप्स्यति । वैवस्वतान्तरेऽमृतमथनकाले इन्द्रेण हतो बलिः पुनः शुक्रेणोज्जीवितः सन् पुनरिन्द्रं जित्वा त्रैलोक्याधिपतिर्भूत्वाऽस्य यज्ञ आगत्य याचमानाय वामनरूपाय हरये सर्वभूमिं ददौ । तत्पुण्ये-नैवाष्टमे मन्वन्तरे इन्द्रपदं प्राप्यानुभूयान्ते मुक्तिमेष्यतीति भावः ॥ १३ ॥
लिङ्घेरी
यो बलिः पदत्रयं याचमानाय विष्णवे वामनरूपिणे इमां पृथिवीं दत्वा राद्ध-मैश्वर्यादिभिर्वृद्धमिन्द्रपदं स्वर्गं हित्वा परिपूज्यस्ततो विष्णोरनुग्रहात्सिद्धिं मोक्षलक्षणमवाप्स्यति । बलिशब्दवाच्ययोः कर्मदेवासुरयोर्मध्ये कर्मदेवस्य मोक्ष इति ज्ञातव्यम् ॥ १३ ॥
योऽसौ भगवता बद्धः प्रीतेन सुतले पुनः ।
निवेशितोऽधिके स्वर्गादधुनाऽऽस्ते स्वराडिव ॥ १४ ॥
पदरत्नावली
इदानीं कुत्रास्त इत्यत आह– य इति ॥ स्वराडिव इन्द्र इव ॥ १४ ॥
सत्यधर्मीया
बद्धः पुनः प्रीतेन भगवता । स्वर्गाधिके सुतले निवेशितोऽधुना स्वरा-डिन्द्रो गतमज्ञ । आस्ते वैवस्वतेऽन्तरेऽमृतमथनकाले इन्द्रेण पातितः शुक्रस्पर्शत उपलब्धेन्द्रिय इन्द्रं जित्वा त्रैलोक्याधिपतिरभूत् तदा स्वक्रतुमागत्य याचमानाय वामनाय सर्वस्वं वितार्य तत्पुण्येनैव पुनरष्टमे मन्वन्तरे पुनरिन्द्रपदमनुभूयान्ते मुक्तिमेष्यति स इति भाव इति वर्णयन्ति । तावत्पर्यन्तं सुतले वासस्तस्येति च ॥ १४ ॥
छलारी
दत्तसर्वभूमिर्बलिरिन्द्रपदप्राप्तिपर्यन्तमिदानीं कुत्रास्त इत्यत आह ॥ योऽसा-विति ॥ यो भगवता बद्धः स्वपार्षदैः पाशैर्बन्धनं प्रापितोऽसौ बलिः पुनः प्रीतेन तेनैव हरिणा स्वर्गादधिके सुतलनामके भूमिबिले निवेशितः प्रतिष्ठितः सन् अधुना वैवस्वताख्येऽस्मिन्मन्वन्तरे स्वराडिवेन्द्र इवास्ते ॥ १४ ॥
लिङ्घेरी
योऽसौ बलिर्भगवता वामनेन प्रीतेन बद्धः पुनः प्रीतेन स्वर्गाधिके सुतले निवेशितः स्थापितः सन् स्वराड् स्वर्गाधिपेन्द्र इवाधुनाऽऽस्ते ॥ १४ ॥
गालवो दीप्तिमान् रामो द्रोणपुत्रः कृपस्तथा ।
ऋष्यशृृङ्गः पिताऽस्माकं भगवान् बादरायणः ॥ १५ ॥
सत्यधर्मीया
ऋषीन् भाषते । द्रोणपुत्रोऽश्वत्थामा रामो जामदग्न्यो दीप्तिमांस्तन्नामा । अस्माकं पिता । अस्मदोर्द्वयोश्चेत्युक्तगतिकं बहुवचनम् ॥ १५ ॥
छलारी
अष्टममन्वन्तरगतानृषीनाह ॥ गालव इति ॥ दीप्तिमान् रामः परशुरामो द्रोणपुत्रोऽश्वत्थामा । अस्माकं शुकनामकस्य मम पिता बादरायणो वेदव्यासः । गुरावात्मनि चैकेषामित्युक्तेरस्माकमिति बहुवचनम् एकस्मिन्नपि स्वस्मिन्युज्यते ॥ १५ ॥
लिङ्घेरी
अष्टमे सावर्णिमन्वन्तरे गालवो दीप्तिमान् प्रशस्तकान्तिर्दीप्तिमान्नाम रामो भार्गवो द्रोणपुत्रोऽश्वत्थामा तथा कृपाचार्यो ऋष्यशृृङ्गोऽस्माकं पिता भगवान् बादरायणः ॥ १५ ॥
इमे सप्तर्षयस्तत्र भविष्यन्ति स्वयोगतः ।
इदानीमासते राजन् स्वे स्वे आश्रममण्डले ॥ १६ ॥
पदरत्नावली
स्वयोगतो ऽच्युतनिष्ठालक्षणयोगात् । इदानीं कुत्रासत इति तत्राह– इदानीमिति ॥ १६ ॥
सत्यधर्मीया
स्वयोगतः स्वसमाध्यादिना । आश्रममण्डले तत्प्रदेशे ॥ १६ ॥
छलारी
तत्राष्टमे मन्वन्तरे भविष्यन्ति । इदानीं कुत्रासत एते इत्यत आह ॥ स्वयोगत इति ॥ स्वयोगतः सत्कर्मानुष्ठानेन सह स्वस्वकर्म कुर्वन्त इत्यर्थः । आसते ॥ १६ ॥
लिङ्घेरी
इतीमे स्वयोगात्सप्तर्षयो भवन्ति । हे राजन् । इदानीमिमे सप्तर्षयः स्वकीये आश्रमपदे सन्ति ॥ १६ ॥
देवगुह्यात् सरस्वत्यां सार्वभौमपतिः प्रभुः ।
स्थानं पुरन्दराद् हृत्वा बलये दास्यतीश्वरः ॥ १७ ॥
पदरत्नावली
स्थानं स्वर्गम् ॥ १७ ॥
सत्यधर्मीया
देवगुह्यात्तन्नाम्न ऋषेः । ल्यब्लोपनिमित्ता पञ्चमी । देवतागुह्यं रहस्यं निमीत्तीकृत्येत्यावृत्तस्यार्थः । सरस्वत्यां तत्पत्न्याम् । सार्वभौम इति नामवान् । देवताकार्यार्थमेव पुरन्दरात् स्वर्गं हृत्वा बलये दास्यति ॥ १७ ॥
छलारी
तत्रेश्वरावतारमाह ॥ देवगुह्यामिति ॥ देवगुह्यां सरस्वत्यां भार्यायां प्रभुरीश्वरो हरिः सार्वभौमपतीति नाम्ना जातः सन् पुरन्दरात्स्थानं स्वर्गलोकं हृत्वा बलये दास्यति ॥१७॥
लिङ्घेरी
देवगुह्याख्यात्सरस्वतीनाम्नयां प्रादुर्भूतः प्रभुर्नामेश्वरो हरिः पुरंदराख्येन्द्रस्य स्थानं स्वर्गं पुरन्दरादपहृत्य बलये दास्यति ॥ १७ ॥
नवमो दक्षसावर्णिर्मनुर्वरुणसम्भवः ।
भूतकेतुर्दीप्तकेतुरित्याद्यास्तत्सुता नृप ॥ १८ ॥
सत्यधर्मीया
वरुणसम्भवस्तत्पुत्रः । इति आदिर् येषां ते तथा ॥ १८ ॥
छलारी
वरुणसंभवो वरुणपुत्रस्तत्सुता दक्षसावर्ण्याख्यमनुसुताः ॥ १८ ॥
लिङ्घेरी
हे नृप । वरुणोत्पन्नो दक्षसावर्णाख्यो नवमो मनुर्दक्षसावर्णेर्भूतकेत्वादयः सुताः
॥ १८ ॥
पारामरीचिगर्भाद्या देवा इन्द्रोऽद्भुतः स्मृतः ।
द्युतिमत्प्रमुखास्तत्र भविष्यन्त्यृषयस्ततः ॥ १९ ॥
सत्यधर्मीया
पारामरीचिगर्भौ आदी येषां ते देवाः । अद्भुत इन्द्रः । द्युतिमान् प्रमुख-माद्यो येषाम् । स प्रमुखे आदौ येषामिति वा ते ॥ १९ ॥
छलारी
परा पूर्वमन्वन्तरापेक्षयाऽन्येऽत्राद्भुतं नाम इन्द्रः स्मृतः ॥ १९ ॥
लिङ्घेरी
दक्षसावर्णिमन्वन्तरे पारामरीचिगर्भा इत्यादिनामानो देवाः । अद्भुतनामेन्द्रः स्मृतः । द्युतिमत्प्रभृतयस्तत्र सप्तर्षयो भविष्यन्ति ॥ १९ ॥
आयुष्मतोऽम्बुधारायामृषभो भगवत्कलः ।
भविता येन संत्रातस्त्रिलोकीं भोक्ष्यतेऽद्भुतः ॥ २० ॥
पदरत्नावली
अम्बुधारायां स्त्रियाम् । येन ऋषभेण सन्त्रातोऽद्भुतो नामेन्द्रः ॥ २० ॥
सत्यधर्मीया
आयुष्मतः पुरुषादम्बुधारायां तत्पत्न्याम् । भगवत्कलो भगवदंशो ऋषभस् तन्नामा अद्भुत इन्द्रः । सन्त्रातः सम्यग्रक्षितः । त्रिलोकीं भोक्ष्यते ॥ २० ॥
छलारी
अत्र भगवदवतारमाह । आयुष्मत इति ॥ आयुष्मान्नामकादम्बुधारा-नामिकायां भार्यायाम् ऋषभनामको भगवतः कलाऽवतारो भविष्यति । येन ऋषभनाम्ना सन्त्रातो रक्षितोऽद्भुतस्तन्नामेन्द्रस्त्रिलोकीं भोक्ष्यतेऽनुभविष्यति ॥ २० ॥
लिङ्घेरी
आयुष्मान्नामकादम्बुधाराख्यायाम् ऋषभनामा हरिर्भगवान् प्रादुर्भविता । किलेत्यत्र प्रमाणप्रसिद्धिं सूचयति । अद्भुतो नामेन्द्रो येन ऋषभेन संरक्षितः सन् त्रिलोकीं पालयिष्यति
॥ २० ॥
दशमो ब्रह्मसावर्णिरुपश्लोकसुतो महान् ।
तत्सुता भूरिषेणाद्या हविष्मत्प्रमुखा द्विजाः ॥ २१ ॥
सत्यधर्मीया
उपश्लोकस्य सुतः ॥ २१ ॥
छलारी
उपश्लोकस्य तन्नामकस्य सुतः । तत्सुता ब्रह्मसावर्णिनाममनुसुता द्विजाः सप्तर्षयः ॥ २१ ॥
लिङ्घेरी
उपश्लोकस्य सुतो महान्पूज्यो ब्रह्मसावर्ण्याख्यो दशमो मनुः । भूरिषेणादयो ब्रह्मसावर्णिपुत्राः । हविष्मन्नामकप्रभृतयो द्विजाः सप्तर्षयः । सुधामानो विरुद्धा इत्यादिनामका देवाः, शंभुनामेन्द्रः ॥ २१ ॥
तत्रापि जन्म भविता हरेर्विश्वसृजां गृहे ।
श्रीमूर्तिरिति विख्यातो येनाप्यायेत वै जगत् ॥ २२ ॥
हविष्मान् सुकृतः सत्यो जयो मूर्तिस्तदा द्विजाः ।
सुवासनविरुद्धाद्या देवाः शम्भुः सुरेश्वरः ॥ २३ ॥
सत्यधर्मीया
केषाञ्चिन्नामान्याह ॥ हविष्मानिति ॥ शम्भुरिन्द्रः । विश्वसृजां गृहे
॥ २३ ॥
छलारी
देवानाह ॥ सुवासनेति ॥ इन्द्रमाह ॥ शम्भुरिति ॥ शम्भुनामा सुरेश्वर इन्द्रः ॥ २३ ॥
विष्वक्सेनो विषूच्यां तु शम्भोः सख्यं करिष्यति ।
जातः शान्तस्तु भगवान् गृहे विश्वसृजां विभुः ॥ २४ ॥
पदरत्नावली
शम्भोरिन्द्रस्य । शान्तः शान्ताख्यः ॥ २४ ॥
सत्यधर्मीया
विषूच्यां तन्नाम्नयाम् । जातो विष्वक्सेनः । शान्तः शुद्धसात्त्विकवृत्तिः । शम्भोरिन्द्रस्य सख्यं सखित्वं करिष्यति । ‘विष्वक्सेनो जनार्दन’ इत्यमरः । विषु नानाऽञ्चति ऋत्विगिति क्विन् । उगितश्चेति ङीप् । विषूची सेना यस्य सः । अगकारत्वादेति संज्ञाया-मगादिति न सषत्वम् । विष्वग्विश्वक् स्मृतौ विज्ञैर्विषुवं विशुवं तथेति द्विरूपकोशात्तालव्य-मध्योऽपि विष्वक्सेना फलिन्यां स्याद्विष्वक्सेनो जनार्दन इति वोपालितः ॥ २४ ॥
छलारी
हरेरवतारमाह ॥ विष्वक्सेन इति ॥ विष्वक्सेननामको हरिः । शम्भो-स्तन्नाम्नः । इन्द्रस्य सख्यं करिष्यति ॥ २४ ॥
लिङ्घेरी
दशमे ब्रह्मसावर्णिमन्वन्तरे विष्वक्सेनाभिधाद्विषूचिनाम्नयां जातः शान्तनामा विश्वसृजां ब्रह्मादीनां विभुः स्वामी भगवान्नारायणः शम्भ्वाख्येन्द्रस्य सखा भविष्यति । विश्वजितेति पाठे तन्नामविषुचीपतेरिति ज्ञेयम् ॥ २४ ॥
मनुर्वै धर्मसावर्णिरेकादशम आत्मवान् ।
अनागतस्तत्सुताश्च सत्यधर्मादयो दश ॥ २५ ॥
पदरत्नावली
अनागतो भविष्यन् ॥ २५ ॥
सत्यधर्मीया
एकादशम एकादशोऽनागतो भविष्यन् ॥ २५ ॥
छलारी
एकादशम इति प्रयोग आर्षः । आत्मवान्मनस्विन् । अनागतो भविष्यन्मनुः । तत्सुता धर्मसावर्णिसुताः ॥ २५ ॥
लिङ्घेरी
आत्मवान्प्रशस्तभगवद्विषयमनस्को धर्मसावर्णिनामैकादशो मनुरनागतो भविता । सत्यधर्मादयो दश सावर्णिपुत्राः ॥ २५ ॥
विहङ्गमाः कामगमा निर्वाणरुचयः सुराः ।
इन्द्रश्च वैधृतस्तेषामृषयश्चारुणादयः ॥ २६ ॥
सत्यधर्मीया
विहङ्गमाद्या गणा वैधृतस्तन्नामा ॥ २६ ॥
छलारी
देवानाह ॥ विहंगमा इति ॥ तेषां देवानां वैधृतिस्तन्नामेन्द्रः । अरुणादयः सप्तर्षयः ॥ २६ ॥
लिङ्घेरी
विहङ्गमादयो निर्वाणरुच्यन्ता देवास्तेषां विहङ्गमकामगमनिर्वाणरुचिनामक-देवानामिन्द्रश्च वैधृत्याख्योऽरुणादयः सप्तर्षयः ॥ २६ ॥
आर्यकस्य सुतस्तत्र धर्मसेतुरिति स्मृतः ।
वैधृतायां हरेरंशस्त्रिलोकीं धारयिष्यति ॥ २७ ॥
सत्यधर्मीया
वैधृतायां तत्र धर्मसावर्णिमन्वन्तरे । आर्यकस्य सुतो धर्मसेतुरिति स्मृतः । हरेरंशस्तत्कार्यमाह ॥ त्रिलोकीं धारयिष्यतीति ॥ २७ ॥
छलारी
तत्र धर्मसावर्णिमन्वन्तरे वैधृतायां तन्नामिकायां स्त्रियां जात आर्यकनाम्नः सुतो धर्मसेतुरिति स्मृतः । हरेरंशोऽवतारस्त्रिलोकीं धारयिष्यति ॥ २७ ॥
लिङ्घेरी
तत्रैकादशधर्मसावर्णिमन्वन्तरे आर्यकस्य वैधृतायां धर्मसेतुरिति स्मृतो हरेरंशः सुतः सन् त्रिलोकीं धारयिष्यति पालयिष्यति ॥ २७ ॥
भविता रुद्रसावर्णी१ राजन् द्वादशमो मनुः ।
देववानुपदेवश्च देवश्रेष्ठादयः सुताः ॥ २८ ॥
सत्यधर्मीया
एकादशमवद्द्वादशमः ॥ २८ ॥
छलारी
भविता भविष्यति ॥ २८ ॥
लिङ्घेरी
हे राजन् । रुद्रसावर्ण्याख्यो द्वादशो मनुर्भविता । देववानुपदेवदेवश्रेष्ठादिनामानो रुद्रसावर्णिपुत्राः ॥ २८ ॥
ऋतधामा च तत्रेन्दो देवाश्च हरितादयः ।
ऋषयश्च तपोमूर्तितपश्चाग्नीध्रकादयः ॥ २९ ॥
सत्यधर्मीया
हरितादयो देवा ऋतधाम इन्द्रः ॥ २९ ॥
छलारी
ऋतधामा तन्नामकेन्द्रः ॥ २९ ॥
लिङ्घेरी
द्वादशमे रुद्रसावर्णिमन्वन्तरे ऋतधामाख्येन्द्रो हरितादिनामानश्च देवास्तपोमूर्ति-तपश्चाग्नीध्रकादिनामानो रुद्रसावर्णिसप्तर्षयः ॥ २९ ॥
स्वधामाख्यो हरेरंशः साधयिष्यति तन्मनोः ।
अन्तरं सत्यमहसः सूनृतायाः सुतो विभुः ॥ ३० ॥
सत्यधर्मीया
स्वधामाख्यो हरेरंशस् तन्मनोरन्तरं रुद्रसावर्णिमन्वन्तरं सत्यमहसः पुंसः सूनृतायाः सुतः ॥ ३० ॥
छलारी
सत्यमहसस्तन्नामकस्य सूनृतायास्तन्नाम्नयाः स्त्रियश्च सुतः सन् स्वधामाख्यो हरेरंशोऽवतारस्तस्य रुद्रसावर्णिनाम्नो मनोरन्तरं साधयिष्यति पालयिष्यति ॥ ३० ॥
लिङ्घेरी
सत्यमहसोनामकात्सूनृताख्यायां जातः सर्वकार्यसमर्थः स्वधामाख्यो हरेरंशो द्वादशरुद्रसावर्णिमन्वन्तरं पालयिष्यति ॥ ३० ॥
मनुस्त्रयोदशो भाव्यो देवसावर्णिरात्मवान् ।
चित्रसेनविचित्राद्या देवसावर्णिदेहजाः ॥ ३१ ॥
सत्यधर्मीया
आत्मवान् मनस्वी ॥ ३१ ॥
छलारी
देवसावर्णेर्देहजा आत्मजाः ॥ ३१ ॥
लिङ्घेरी
आत्मवान्देवसावर्णिस्त्रयोदशो मनुर्भविष्यति । चित्रसेनविचित्रादिनामानो देव-सावर्णिपुत्राः ॥ ३१ ॥
देवाः सुकर्मसुत्रामसंज्ञा इन्द्रो दिवस्पतिः ।
निर्मोकतत्त्वदर्शाद्या भविष्यन्त्यृषयस्तदा ॥ ३२ ॥
पदरत्नावली
दिवस्पतिर् नाम्ना ॥ ३२ ॥
सत्यधर्मीया
दिवस्पतिर्नाम्ना । दिवः पतिः । षष्ठ्या पतिपुत्रेति सत्वविधानसामर्थ्या-ल्लोकवेदसाधारण्येन वृद्धकुमारीवरन्यायेनालुक् ज्ञापितः कस्कादित्वात्सः । शतमन्युर्दिवस्पति-रित्यमरः ॥ ३२ ॥
छलारी
दिवस्पतिस्तन्नामेन्द्रः ॥ ३२ ॥
लिङ्घेरी
सुकर्मसुत्रामनामानो देवा दिवस्पतिरिन्द्रस्तदा देवसावर्णिमन्वन्तरे निर्मोक-तत्त्वदर्शादयः सप्तर्षयो भविष्यन्ति ॥ ३२ ॥
देवहोत्रस्य तनय उपहर्ता दिवस्पतेः ।
योगेश्वरो हरेरंशो बृहत्यां सम्भविष्यति ॥ ३३ ॥
सत्यधर्मीया
देवहोत्रस्य । बृहत्यां हरेरंशो योगेश्वरस् तन्नामा कुमारो दिवस्पतेरिन्द्रस्य । उपहर्ता उपकर्ता भविष्यति ॥ ३३ ॥
छलारी
यो योगेश्वरनामको हरेरवतारो बृहत्यां तन्नाम्नयां स्त्रियां देवहोत्रस्य तनयः संभविष्यति ॥ ३३ ॥
लिङ्घेरी
देवहोत्रस्य बृहतीनाम्नयां भार्यायां दिवस्पतिनामकेन्द्रस्यैश्वर्यादेरुपहर्ता दाता योगेश्वराख्यो हरेरंशः पुत्रो भविष्यति ॥ ३३ ॥
मनुर्वा इन्द्रसावर्णिश्चतुर्दशम एष्यते ।
जन्तुभीरववर्याद्या इन्द्रसावर्णिवीर्यजाः ॥ ३४ ॥
सत्यधर्मीया
चतुर्दशमोऽन्तिमः ॥ ३४ ॥
छलारी
इन्द्रसावर्णिवीर्यजाः पुत्राः ॥ ३४ ॥
लिङ्घेरी
इन्द्रसावर्णिश्चतुर्दशत्वसंख्यापूरकमनुर्भविष्यति । चतुर्दशम इत्यादिप्रयोगे मप्रत्ययः पूर्णार्थकः । जन्तुभीरववर्याद्या इन्द्रसावर्णिपुत्राः ॥ ३४ ॥
विचित्राश्चाक्षुषा देवाः शुचिरिन्द्रो भविष्यति ।
अग्निर्बाहुः शुचिः शुद्धो मागधाद्यास्तपस्विनः ॥ ३५ ॥
सत्यधर्मीया
तपस्विनो ऋषयः ॥ ३५ ॥
छलारी
विचित्रादिनामानः शुचिनामक इन्द्रस्तपस्विनः सप्तर्षयः ॥ ३५ ॥
लिङ्घेरी
विचित्रचाक्षुषनामानो देवाः शुचिर्नामेन्द्रो भविष्यति । अग्निबाहुशुचिशुद्ध-मागधाद्याः सप्तर्षयः ॥ ३५ ॥
सत्रायणस्य तनयो बृहद्भानुस्तदा हरिः ।
वितानायां महाराज क्रियातन्तून् वितायिता ॥ ३६ ॥
पदरत्नावली
क्रियातन्तून् क्रियासमुदायान् । वितायिता विस्तारं कारयिता ॥ ३६ ॥
सत्यधर्मीया
सत्रायणस्य वितानायां वनितायाम् । तदा तदनन्तरम् । हरिर्बृहद्भानुरिति नामा तनयः क्रियातन्तून् क्रियाकलापं, वितायिता । तायृ सन्तानपालनयोरिति स्मरणाद् विस्तारयितेति वा ॥ ३६ ॥
छलारी
हरेरवतारमाह ॥ सत्रायणस्येति ॥ तदेन्द्रसावर्णिमन्वन्तरे हरिर्विनताख्यस्त्रियां सत्रायणाख्यस्य बृहद्भानुमनोस्तनयः सन् क्रियातन्तून् कर्मसमुदायान्वितायिता विस्तारयिष्यति ॥३६॥
लिङ्घेरी
नारायणस्य वितानायां हरिर्बृहद्भानुनामतनयः सन् क्रियासमुदाया-न्विस्तार-यिष्यति ॥ ३६ ॥
राजन् चतुर्दशैतानि त्रिकालानुगतानि१ ते ।
प्रोक्तान्येभिर्मितः कल्पो युगसाहस्रपर्ययः ॥ ३७ ॥
॥ इति श्रीमद्भागवतेऽष्टमस्कन्धे द्वादशोऽध्यायः ॥
पदरत्नावली
त्रिकालानुगतानि अतीतवर्तमानभविष्यत्संज्ञास्त्रिकालाननुवर्तमानानीति । ‘त्रिलोकानुगतानि’ इति पाठे स्पष्टोऽर्थः । ते तव मितः प्रमाणीकृतः ॥ ३७ ॥
॥ इति श्रीमद्भागवतटीकायां विजयध्वजतीर्थभिक्षुकृतायाम्
अष्टमस्कन्धे द्वादशोऽध्यायः ॥
सत्यधर्मीया
त्रिकालानुगतानि ॥ अतीतानागतवर्तमानसञ्ज्ञान् कालाननुवर्तमानानि । मन्वन्तराणि अतीतानि षट् । सप्तमं वर्तमानम् । एष्यन्ति सप्तेति चतुर्दश । एभिर्मन्वन्तरैर्युगचतुष्टयम् । महायुगानां सहस्रं साहस्रं तेन पर्ययः परिवर्तो यस्य सः । मित एतत् प्रमाणकः कल्पो ब्रह्मदिनकल्पः ब्रह्मणोऽहनि चैकस्मिंश्चतुर्दश मन्वन्तराणि भवन्तीति भावः ॥ ३७ ॥
॥ इति श्रीसत्यधर्मयतिकृतायां भागवतटिप्पण्याम् अष्टमस्कन्धे द्वादशोऽध्यायः ॥ ८–१२ ॥
छलारी
चतुर्दशमन्वन्तराण्युपसंहरति ॥ राजन्निति ॥ त्रिकालानुगतान्यतीतवर्तमान-भविष्यत्कालेष्वनुगतान्यनुवर्तमानान्यतीतानि षट् । सप्तमं वर्तमानम् । भविष्याणि सप्तैवं चतुर्दशैतानि मन्वन्तराणि ते तव प्रोक्तानि । प्रसङ्गात् प्रमेयविशेषमाह ॥ एभिरिति ॥ युगचतुष्टयं महायुगमुच्यते । युगानां महायुगानां सहस्रेण पर्ययः परिवर्ति यस्य सः सहस्रयुग-प्रमाणः कल्पो ब्रह्मयुगकल्पः । एभिश्चतुर्दशमन्वन्तरैर्मितः परिमितः सहस्रमहायुगपरिमिते ब्रह्मण एकस्मिन्नहनि चतुर्दशमन्वन्तराणि भवन्तीति भावः ॥ ३७ ॥
॥ इति श्रीछलारी शेषाचार्यकृतायां श्रीभागवतटिप्पण्याम् अष्टमस्कन्धे द्वादशोऽध्यायः ॥८–१२॥
लिङ्घेरी
हे राजन् त्रिषु भूतभविष्यद्वर्तमानाख्येषु कालेष्वनुगतान्येतानि चतुर्दश-मन्वन्तराणि ते तव प्रोक्तानि । येभिर्मन्वन्तरैश्चतुर्दशभिः कृतत्रेताद्वापरकलियुगसमुदायलक्षण-महायुगसहस्रनामतो दैनन्दिनकल्पो मितः परिमितः । एकस्मिन्दैनन्दिनकल्पे स्वायंभुवादय-श्चतुर्दश मनवो भवन्तीति यावत् ॥ ३७ ॥
**॥ इति श्रीलिङ्घेरी श्रीनिवासाचार्यकृतायां श्रीभागवतटिप्पण्यां **
अष्टमस्कन्धे द्वादशोऽध्यायः ॥ ८–१२ ॥