वृषध्वजो निशम्येदं योषिद्रूपेण दानवान्
॥ अथ एकादशोऽध्यायः ॥
श्रीशुक उवाच–
वृषध्वजो निशम्येदं योषिद्रूपेण दानवान् ।
मोहयित्वा सुरगणान् हरिः सोममपाययत् ॥ १ ॥
पदरत्नावली
भगवज्ज्ञानसाधनभक्तिविधानार्थं देवोत्तमरुद्रादिसम्भाव्यमहिमा वर्ण्यतेऽस्मि-न्नध्याये । तत्र विष्णुशिवयोः संवादप्रकारं वक्तुमाह– वृषध्वज इति ॥ हरिः सुरगणान् सोममपाययदिति यदिदं निशम्य ॥ १ ॥
सत्यधर्मीया
रुद्रोऽप्यमोहि मोहिन्या नारायणेनेति हरेर्माहात्म्यं वक्तुं तदुपोद्घातमाह ॥ वृषध्वज इति ॥ इतीदं निशम्येत्यन्वयः ॥ १ ॥
छलारी
देवकार्यसाधनानन्तरं भगवान् किमकरोदित्यत उपोद्घातमाह ॥ वृषध्वज इति ॥ वृषध्वजो रुद्रो हरिर् योषिद्रूपेण दानवान्मोहयित्वा सुरगणान् अमृतमपाययदितीदं हरिमाहात्म्यं निशम्य ॥ १ ॥
लिङ्घेरी
श्रीहरौ भक्त्युत्पादनाय महादेवस्तुत्याऽनेकगुणवत्त्वमाहात्म्यं हरेः प्रतिपाद्यतेऽ-स्मिन्नध्याये । तत्रादौ रुद्रगमनप्रकारमाह ॥ वृषध्वज इत्यादिना ॥ वृषो नन्दिकेश्वरो ध्वजपटे चिन्हतया यस्य स वृषध्वजो रुद्रो हरिर्नारायणो, योषितो नारायण्याख्यस्त्रीरूपेण दानवान्मोह-यित्वा सुरगणान्सोमममृतमपाययत् ॥ १ ॥
वृषमारुह्य गिरिशः सर्वभूतगणैर्वृतः ।
सह देव्या ययौ द्रष्टुं यत्रास्ते मधुसूदनः ॥ २ ॥
सत्यधर्मीया
यत्रास्ते तं देशम् ॥ २ ॥
छलारी
स मधुसूदनो यत्रास्ते तत्र द्रष्टुं ययावित्युत्तरेणान्वयः । देव्या सहोमया सह
॥ २ ॥
लिङ्घेरी
गिरौ कैलासे शेते स्वपितीति गिरिश इतीदं वृत्तान्तं निशम्य श्रुत्वा वृषमारुह्य सर्वैर्भूतगणैर्वृतः सन् देव्या पार्वत्या च सहितः सन् यत्र मधुमसुरं सूदति हिनस्तीति मधुसूदनो नारायण आस्ते तं द्रष्टुं ययौ ॥ २ ॥
सभाजितो भगवता सादरं सोमया भवः ।
सूपविष्ट उवाचेदं प्रतिपूज्य स्मयन् हरिम् ॥ ३ ॥
पदरत्नावली
स उमया । ‘सोषामविन्दत् सस्वासो अग्निं, सोऽर्केण विबबाधे तमांसि, सेद्दभवो यमवथ यूयमिन्द्रश्च मर्त्यः’ इत्यादिवत् ॥ ३ ॥
सत्यधर्मीया
स उमयेति पदम् । सैष दाशरथी, ‘सोषामविन्दत्’ ‘स वामन-स्तारकोभाभ्याम्’ इत्यादिवत्सोमयेति ज्ञेयम् । हे स कोपसम्भवेति उमया सहितः सभाजितः पूजित इति हे स शूलिन्निति सम्बोध्येति वा । ‘सः कोपे वारणे सस्ये तथा शूलिनि साधक’ इति सैकविश्वः । श्रुतकथास्मृतितः स्मयन्मन्दस्मितं तन्वन् ॥ ३ ॥
छलारी
भवो रुद्रः सोमया सह । यद्वा । स उमयेति पदच्छेदः । सैष राजा युधिष्ठिरः । सोषामविन्दत्स स्वामीत्यादिवत् । भगवता सभाजितः पूजितः सूपविष्टः सम्य-गुपविष्टः । हरिं प्रतिपूज्य नमस्कारेण पूजयित्वा स्मयन् आश्चर्यं प्राप्नुवन् उवाचास्तौत् ॥ ३ ॥
लिङ्घेरी
भवो भक्तमांगल्यदो हरो, भगवता नारायणेनोमया पार्वत्या सह सादरं सभाजितो बहुमानितः सन्नुपविष्टो भगवन्तं प्रतिपूज्य स्मयन्निवेदमुवाच ॥ ३ ॥
देव देव जगद्व्यापिन् जगदीश जगन्मय ।
सर्वेषामेव भावानां त्वमात्मा हेतुरीश्वरः ॥ ४ ॥
पदरत्नावली
हेतुर्निमित्तकारणम् । अदृष्टादिवन्नेत्याह– आत्मेति ॥ न जीव इत्याह– ईश्वर इति ॥ ४ ॥
सत्यधर्मीया
हेतुः कारणम् । तन्न साधारणमित्याह ॥ ईश्वर इति ॥ स्वावस्थानस्थल ईश्वरश्चेत्तदनावासस्थलेऽन्यः स्यादित्यत आह ॥ आत्मेति ॥ आततः सर्वत्रेत्यात्मा । जगद्व्यापि यदुदर इति जगद्व्यापिन् । जगद्व्यापिन् जगति व्याप्तेत्यर्थपक्ष उक्तेतरसर्वगुण-पूर्णेत्यात्मपदार्थः । सर्वान्गुणानात्मशब्दो ब्रवीतीति श्रुतिवेदितो वेद्यः ॥ ४ ॥
छलारी
किमिति । हे देवदेव देवानां देव परदैवत स्तुत्य इति वा । जगद्व्यापित्वम् । आकाशवन्नेत्याह ॥ जगदीश इति ॥ जगन्नियामक इत्यर्थः । नियमनं च ब्रह्मादिवत्परा-धीनत्वेनेत्यत आह ॥ जगन्मयेति ॥ जगति ब्रह्मादिजगति प्रधानः स्वतन्त्र इत्यर्थः । सर्वेषामपि भावानां पदार्थानामात्माऽऽदानादिकर्ता । हेतुर्निमित्तकारणम् । ईश्वर ईशनान्मत्तो वर उत्तमः । अचिन्त्यैश्वर्यसंपन्न इति वा ॥ ४ ॥
लिङ्घेरी
देवानां ब्रह्मादीनां देव, जगद्व्यापिन् चेतनाचेतनविश्वव्यापक, पूर्वोक्तजगदीशात एव जगन्मयशब्दित हे हरे त्वं सर्वेषां भावानां पदार्थानां हेतुर्निमित्तकारण आत्माऽन्तर्यामीश्वरश्च
॥ ४ ॥
तवैव चरणाम्भोजं श्रेयस्कामा निराशिषः ।
विसृज्योभयतः सङ्गं मुनयः समुपासते ॥ ५ ॥
पदरत्नावली
ईश्वरश्चेत् शिवः किम् ? न । तस्य स्वातन्त्र्येणोपास्यमानत्वासम्भवात् । अस्य मोक्षार्थिभिस्तथात्वादित्याह– तवेति ॥ ५ ॥
सत्यधर्मीया
नेश्वरता तव नश्वरसंपत्कैर्व्यभिचचारेति ज्ञापयितुमसाधारणगुणानुपन्यस्य स्तौति ॥ तवेति ॥ उभयत ऐहिकलौकिकपारलौकिकविषयजाते सङ्गं स्पृहारूपं त्यक्त्वा निराशिषः सन्तः श्रेयो नित्यमङ्गलं त्वामेव कामयन्ते ते तथा । उपासते सेवन्ते ॥ ५ ॥
छलारी
मुमुक्षुभिरुपास्यमानत्वात्त्वमेव सर्वोत्तम इत्याशयेनाह ॥ तवैवेति ॥ श्रेयः-स्कामा मोक्षकामा निराशिष ऐहिकामुष्मिककामरहिता उभयत ऐहिकामुष्मिकविषये सङ्गं विसृज्य । मुनयः सारज्ञाः ॥ ५ ॥
लिङ्घेरी
ये श्रेयस्कामाः सर्वोत्तमत्वदर्शनेच्छा एकान्तिनो मुनयो मौनशीला ऋषयः सनकादयो निराशिष ऐहिकामुष्मिकफलाशारहिताः सन्त उभयत ऐहिकामुष्मिकयोः सङ्गं स्नेहं विसृज्य तव चरणांभोजमेवोपासते ॥ ५ ॥
त्वं ब्रह्म पूर्णममृतं विगुणं विशोक-
मानन्दमात्रमविकारमनन्यदन्यत् ।
विश्वस्य हेतुरुदयस्थितिसंयमाना-
मात्मेश्वरश्च तदपेक्षतया१ऽनपेक्षः ॥ ६ ॥
पदरत्नावली
उपास्यमानमपि शबलं किं न स्यादिति तत्राह– त्वं ब्रह्येति ॥ ब्रह्म-पदार्थमाह– पूर्णमिति ॥ अविनाशिनः पूर्णत्वं युक्तमित्याह– अमृतमिति ॥ अमृतत्वं कुत इति तत्राह– विगुणमिति ॥ अत एव विशोकम् । आनन्दमात्रमतोऽपि शोको नास्त्यस्य । षड्विकाररहितम् । एतादृशमन्यन्नास्तीत्याह– अनन्यदिति ॥ स्वगतभेदविवर्जितं वा । अन्यत्, जगत इति शेषः । सर्वस्माद्भिन्नमित्यर्थः । जगत्कारणस्य तदुदासीनस्य चैकत्व-प्रकटनाय पुनरुक्तमाह– विश्वस्येति ॥ एवंविधं ब्रह्म प्रकृत्यादिकमुपेक्ष्यानपेक्षतयाऽपि कर्तुं समर्थ इत्याह– तदुपेक्षतयेति ॥ ६ ॥
सत्यधर्मीया
ब्रह्मणो नान्यस्त्वमित्युपास्यस्तत्त्वतस्त्वमित्याह ॥ त्वं ब्रह्मेति ॥ तत्पदार्थमाह ॥ पूर्णमिति ॥ बृहन्तो ह्यस्मिन्गुणा इति श्रुतिमनुसृत्य योग्यतयान्वीयमाना-न्गुणानाह ॥ विगुणमित्यादिना ॥ विमता गुणाः सत्त्वादयो यस्माद्विरुद्धा गुणादप्रधानादिति वा विगुणम् । विशोकं शोकशून्यम् । विशोकयत्यन्यानिति विशोकं वा । आनन्दमात्रं सुखात्मकम् । अविकारं षडि्वकाररहितम् । अनन्यद् भिन्नस्वावयवगुणकर्मरहितम् । नेह नानाऽस्ति किञ्च-नेत्यादेः । अन्यज् जगद्विलक्षणं विगुणत्वादिसर्वसम्भावकममृतं नित्यमुक्तमिति । अमृतत्वस्य मुख्यताबोधनेन मुख्यप्राणं व्यावर्तयितुं विगुणत्वादिकमिति वा । यतो वा इमानीत्यादि-श्रुतिप्रतिपादितार्थोपेतस्त्वमित्याह ॥ विश्वस्येति ॥ विश्वस्य जगत्सम्बन्धिनाम् । उदयस्थिति-संयमानामेतदाद्यष्टकस्य हेतुः । विश्वस्यात्माऽन्तर्नियामक ईश्वरोऽध्यक्षः । तर्हि किं प्रकृत्यादिक-मुपादनकमुपादायैव करोतीत्यत आह ॥ तदपेक्षतयेति ॥ तेषां प्रकृत्यादीनां तद्देवतानामपेक्षा यस्मिन्स तैरपेक्षित इति तदपेक्षस्तस्य भावस्तत्ता तया । तेन स्वफलाप्त्यै त्वामपेक्षते त्वं तु दयया तांल्लालयसीति वस्तुस्थितिमाह ॥ अनपेक्ष इति ॥ अनिर्वाहेण न विद्यतेऽपेक्षा यस्य स तथा । विश्वस्यामृतस्य वायोः । ‘वायुरनिलममृत’ इत्यादेः । उदयादेर्हेतुरात्मेश्वरस्तेन वायु-नाऽपेक्षणीयत्वेन संहितः स्वयं तदनपेक्ष इति मुख्यामृतमित्यर्थो वा । इयदामनना-दित्यात्मनामीश्वरो यस्तस्य विश्वस्येति वा । तदुपेक्षतयेति पाठे तेषु कृतोपेक्षा यस्य तस्य भावस्तत्ता तयेति त्वमनपेक्ष इत्यर्थः । विनाऽपि तत्कर्तुं क्षम इति भावः । अनपेक्ष-स्तत्प्राप्यफलापेक्षारहित इति वा ॥ ६ ॥
छलारी
ननु मोक्षार्थिभिरुपास्यमानत्वादहं सर्वोत्तम इत्युक्तम् । तदयुक्तम् । मम परं ब्रह्मत्वाभावात् । परं ब्रह्मैव हि मोक्षार्थिभिरुपास्यमतस्तदेव सर्वोत्तममित्यतस्त्वमेव परं ब्रह्मे-त्याह ॥ त्वं ब्रह्मेति ॥ त्वमेव परं ब्रह्म । ब्रह्मशब्दप्रवृत्तिनिमित्तमाह ॥ पूर्णमिति ॥ गुणपरिपूर्णमित्यर्थः । अविनाशिनः पूर्णत्वं युक्तमित्याह ॥ अमृतमिति ॥ अमृतं नाशरहितं नित्यमुक्तं वा । अमृतत्वं कुत इत्यत आह ॥ विगुणमिति ॥ सत्त्वादिगुणशून्यमत एवाविकारमुत्पत्त्यादिविकाररहितम् । अत एवाशोकमत एवानन्दमात्रम् । अनन्यन्मूलरूपा-दवताररूपेभ्यश्चान्यद्भिन्नं न । यद्वा । न विद्यतेऽन्यत्सममधिकं वा । यस्मात्समाधिक-शून्यमित्यर्थः । मूलरूपादवताररूपेभ्यश्चान्यज्जगतो भिन्नम् । विश्वस्योदयस्थितिसंयमानां हेतुश्च त्वमेव । आत्मेश्वरश्चात्मानां जीवानामीश्वरः फलप्रदश्च । कुतः । तदपेक्षतया तैरात्मभिः फलार्थमपेक्ष्यन्त इति तदपेक्षस्तस्य भावस्तदपेक्षता तया फलदानार्थं जीवैरुपास्यमानत्वा-दित्यर्थः । किं राजादिवत्तयाऽप्यपेक्षया सेवकेभ्योऽहं फलप्रदः किं नेत्याह ॥ अनपेक्षत इति ॥ फलेच्छारहितः । आप्तकामस्य का स्पृहेति श्रुतेरिति भावः ॥ ६ ॥
लिङ्घेरी
ननु सनकादीनामुभयतः सङ्गाभावे निर्गुणब्रह्मोपासनमेवोचितं न तु सगुण-ब्रह्महर्युपासनमित्यतस्त्वमेव निर्गुणं ब्रह्म न त्वदन्यन्निर्गुणं ब्रह्मास्तीत्याह ॥ त्वं ब्रह्मेति ॥ हे हरे । देशकालगुणैः पूर्णमत एव ब्रह्मशब्दितं विगुणं निर्गुणं सत्त्वादिगुणरहितमानन्दमात्रं केवला-नन्दरूपमत एव विशोकमविकारं स्वरूपगुणशक्त्यादिभिरनन्यदभिन्नमन्यच्चेतनाचेतनात्मकजगतो भिन्नममृतं नित्यमुक्तं परं ब्रह्म । ब्रह्मविदाप्नोतीत्यादिश्रुतितात्पर्यगोचरं त्वमेव । ननु ‘यतो वा इमानि भूतानि जायन्ते’ इत्यादिश्रुतिषु सर्वजगदुत्पत्तिस्थितिसंहारकारणस्यैव परब्रह्मताऽवगमात् कथमस्य स्थितिमात्रकर्तृतया प्रसिद्धस्य विष्णोः परब्रह्मतेत्यत आह ॥ विश्वस्य समस्तस्य जगत उत्पत्तिस्थितिलयानां हेतुर्निमित्तमिति, आत्मनां सर्वचेतनानामीश्वरस्य तस्मिन् जग-दुपादानप्रकृत्यादावुपेक्षवत्तयाऽनपेक्षजडप्रकृत्यादिकं विनाऽजसर्जनादिसामर्थ्यवत्त्वेऽपि स्वेच्छया तदङ्गीकरोषीति निरपेक्ष इत्यादिश्रुतिप्रतिपाद्योऽसीति भावः ॥ ६ ॥
एकस्त्वमेव सदसद्द्वयमद्वयं च
स्वर्णं कृताकृतमिवेह न वस्तुभेदः ।
अज्ञानतस्त्वयि जनैर्विहितो१ विकल्पो
यस्माद् गुणव्यतिकरो निरुपाधिकश्च ॥ ७ ॥
पदरत्नावली
एतत् कथमिति तत्राह– एक इति ॥ यथा कुण्डलाद्यात्मना कृतं प्रकृत्यात्मना त्वकृतं स्वर्णमेकमेव, इह स्वर्णे वस्तुतो भेदो नास्ति, तथा सदादिवस्तुषु स्थित्वा तत्तत्स्वभावप्रवर्तकत्वेन सदादिशब्दवाच्यस्त्वमप्येक एव । इदमपि सामर्थ्यभावेन युक्तमतो निरतिशयसामर्थ्यमस्यावगम्यत इति भावः । स्थानभेदादेकस्य परमात्मनो भेदकल्पनमज्ञानमूल-मित्याह– अज्ञानत इति ॥ जनैरज्ञानतस्त्वयि विकल्पो भेदो विहितो यस्मात् तस्मादवस्तुभूत इति शेषः । विहत इति पाठे अज्ञानतस्त्वपि विकल्प इति यस्मात् तस्माद् विहतो नष्ट इत्यर्थः । भेदकल्पनायां का प्राप्तिरिति तत्राह– गुणेति ॥ गुणानां व्यतिकरो मिथः कार्यार्थ-समवायविशेषो यस्मात् स । तत्तत्कार्येषु तत्तत्प्रवर्तकत्वेन तत्स्थत्वात् तदाशङ्गेति भावः । ननु स्वतो भेदाभावेप्युपाधिभेदात् स स्यादिति तत्राह– निरुपाधिक इति ॥ उपाधिसद्भावे तद्भेदात् सोऽस्तीति शङ्कितुं शक्यते, स एव नास्ति । आनन्दमात्रमिति निर्धारितत्वात् पुनर्वचनं मन्दाशङ्कानिवारणार्थमिति ॥ ७ ॥
सत्यधर्मीया
तत्तत्पदार्थस्य भगवद्रूपाणां मूलरूपस्य च न भेद इति सदृष्टान्तमाचष्टे ॥ एक इति ॥ सदसद्द्वयं मूर्त्तामूर्त्तद्वयं तदन्तस्थस्तच्छब्दवाच्यश्च त्वमेक एव । अद्वयं समोत्तम-रहितः । स्वर्णं कृतं कुण्डलाद्यात्मकम् । अकृतं मूलसुवर्णं च यथैकं सुवर्णं तदिति वस्तुभेदो न हीह सुवर्णे तथा त्वमभिन्नः । कुतो नास्तीत्यतस्तत्र हेतुमप्यनेनाह ॥ वस्तुभेदो नेति ॥ अवस्त्वशक्तमुद्दिष्टं शक्तं वस्त्वित्यादेः । शक्तं त्वत्तोऽन्यन्नास्तीति त्वमेक इत्यर्थः । भेदो न शास्त्रावेदितः किं तूत्पे्रक्षामूल इत्यप्याह ॥ नव इति । भेदो नवो नूतनः । तुनानन्द आनन्दीति व्यवहारः किंकृत इति शङ्काशामकविशेषं सूचयति । एवं कुतस्ते जना जानत इत्यत आह ॥ अज्ञानतो मिथ्याज्ञानाज्जनैः पामरैर्विकल्पो भेदस्त्वयि विहितः । पूर्वयोजनायाम् । यस्माद्गुण-व्यतिकरो गुणानां व्यतिकरो मिश्रणं येन स तथा । तत्तत्प्रेरके तत्र तत्र विलक्षणे कार्योप-लब्धिरेव विद्यमानाभेदानुपलब्धिहेतुरित्यर्थः । मास्तु वस्तुतो भेदः स्यादौपाधिक इत्यत आह ॥ निरुपाधिक इति ॥ उपाधिशून्य इति तत्कृतभेदशून्य इत्यर्थः । योजनान्तरे यस्माद्गुणव्यतिकरो नानाविधगुणकार्यसङ्क्रमस्तस्मात्स भेदो नवः कल्पित इति यावत् । निरुपाधिक उपाधिरहितो यतस्तस्माच्चैवं कल्पः कल्पनं स विगतो यस्मिन्सः । जनोलोके महर्लोकात्परे लोके च पामर इति विश्वः । सदसत् । अर्थः पूर्वकः द्वयं सद्वितीयम् । कटकमुकुटादिरूपान्तरसहितम् । अद्वयं पुनस्तत्त्वसम्पादन इति कृताकृतमित्यन्वयो वा । एवमीहते नैव वस्तुभेदः । नानाचेष्टाया कार्यरूपिण्या वस्तुभेद इति वा । अतो विकल्पः कल्पनानर्ह इति वा । तेषां जनानां कल्पका-नामयं विकल्पो विहितः । विगतं हितं यस्मात्स तथा तेषां तम आदिकं प्रापय्याहितदा-यीत्यर्थः । यद्यपि नानन्दमात्रमित्युक्त्युपरि न सोपाधिकत्वशङ्का सम्भवति तथाऽपि मात्रशब्दस्य लेशाद्यर्थकत्वं लेशशेमुषिः कश्चिदभ्युपेत्य शङ्केत नास्य तदर्थकता किं त्वानन्दात्मकतार्थत्वमिति विवरितुं निरुपाधिकश्चेत्युक्तमिति मन्तव्यम् । नानामता नानाविधं माधवं वदन्ति परन्तु न भेदस्तवेति भावः ॥ ७ ॥
छलारी
इदानीं तत्तत्पदार्थगतभगवद्रूपाणां वस्तुगत्या भगवद्रूपस्याभेददृष्टान्ते नोप-पादयति ॥ एक इति ॥ यथा कुण्डलाद्यात्मना कृतं प्रकृत्यात्मना त्वत्कृतं च स्वर्णमेकमेवेह कृताकृतयोः सुवर्णयोर्वस्तुतो भेदो नास्ति । तथा सदसद्वयं कार्यकारणरूपद्वयं सदादि वस्तुषु स्थित्वा तत्तत्स्वभावप्रवर्तकत्वेन सदादिशब्दवाच्यम् । अद्वयं समाधिकशून्यरूपं त्वमप्येक एव । इह तव रूपद्वये वस्तुभेदो नास्ति । नन्वेकस्यैव हरेर्भेदप्रतीतिः कस्मान्निमित्तादित्यत आह ॥ अज्ञानत इति ॥ जनैरज्ञानतस्त्वयि विकल्पो भेदो विहितः कल्पितः । अतो न वस्तुभूत इत्यर्थः । भेदकल्पकं किमित्यत आह ॥ यस्मादिति ॥ गुणानां सत्त्वादिगुणानां व्यतिकरः कार्यार्थमिश्रीभावो यस्मात्स तथा । यस्मात्त्वं गुणादीनां मिश्रीकृतत्त्वेन तत्र कार्ये स्थितोऽसि । अतो भिन्नाभिन्नस्थानस्थितत्वमेव भेदकल्पकमिति भावः । ननु स्वतो भेदाभावेप्युपाधिभेदात्सः स्यादित्यत आह ॥ निरुपाधिकश्चेति ॥ त्वं तादृशोपाधिशून्यश्चेत्यर्थः । अज्ञानाद्युपाधिसद्भावे तद्भेदात्सोऽस्तीति शङ्कितुं शक्यते । स एव नास्ति । आनन्दमात्रमिति निर्धारितत्वादिति भावः
॥ ७ ॥
लिङ्घेरी
ननु ‘सदेव सोम्येदमग्र आसीत्’ ‘असद्वा इदमग्र आसीत्’ ‘न सत्तन्नास-दुच्यते’ इत्यादिषु सदसदादिविलक्षणवस्तुवाचकशब्दाभिधेयस्य कथमनन्यत्वं घटत इत्यतो दृष्टान्तमुखेन तदुपपादयति । यथा कटकमुकुटाद्यात्मना कृतं तदुपादानरूपेणाकृतं स्वर्णमेकमेव, इह सुवर्णवस्तुनि भेदो नास्ति तथा कार्यकारणरूपसदादिशब्दवाच्येषु महत्प्रधानादिषु तत्त-त्प्रेरणाय स्थितस्य सदादिशब्दवाच्यस्य तवापि भेदो नास्तीत्याह ॥ सदसद्द्वयमद्वयं च त्वमेक एवेति ॥ एवं सत्यपि यतस्त्वं गुणानां व्यतिकरः कार्यार्थसमवायविशेषहेतुस्तत्तत्कार्य-प्रवर्तकत्वेन तत्र तत्र स्थितोऽतो जनैरज्ञैरज्ञानतः ‘एकमेवाद्वितीयम्‘ । ‘न स्थानतोऽपि पर-स्योभयलिङ्गं सर्वत्र हि’ इति च । सर्वेषां भूतानामन्तरपुरुषः स म आत्मेति विद्या-दित्यादिश्रुत्यर्थापरिज्ञानात् । त्वयि विकल्पो भेदो विहितः कल्पितः । ननु स्वाभाविकभेदस्य भगवद्रूपादावभावेऽपि सोपाधिकभेदः किं न स्यादित्याशङ्कानिरासायाह ॥ त्वं निरुपाधिक-श्चेति ॥ युक्तं चैतन्निरुपाधिकत्वमानन्दमात्रस्येति व्युत्पादनानपेक्षा ॥ ७ ॥
त्वां ब्रह्म केचिदवयन्त्युत धर्ममेक
एके परं सदसतोः पुरुषं परेशम् ।
अन्ये वदन्ति नवशक्तियुतं परं त्वां
केचिन्महापुरुषमव्ययमात्मतन्त्रम् ॥ ८ ॥
पदरत्नावली
एकस्य नानामतविषयत्वं न भिन्नस्येत्याह– त्वामिति ॥ केचिद् वेदान्तिनस् त्वां ब्रह्मेत्यवयन्त्यवगच्छन्ति । एको स्मार्ता धारकत्वाद्धर्मम्, एके पौराणिकाः परेशं त्वां सदसतोः परं पुरुषम्, अन्ये पाञ्चरात्रिकास् त्वां विमलोत्कर्षणीज्ञानेत्यादिनवशक्तियुतं परं वदन्ति । केचिदेकान्तिनस् त्वामव्ययमात्मतन्त्रं महापुरुषमभिवदन्तीत्यन्वयः ॥ ८ ॥
सत्यधर्मीया
स्तौति ॥ त्वामिति ॥ केचिद्वेदान्तिनोऽवयंत्यवगच्छन्ति । एके स्मृतिपथगामिन एके पौराणिकाः परेशं सदसतोः परं पुरुषम् । अनेन नैतत्पूर्वपद्ये सदसदिति तादात्म्यविवक्षयोक्तिः किन्तु तात्स्थ्यादिति विवृतं भवति । अन्ये पाञ्चरात्रिका मान्त्रिका वा नवशक्तियुतं विमलादिनवशक्तिमन्तम् । केचिदेकान्तभक्ता आत्मतन्त्रं स्वतन्त्रम् । अव्ययं नाशरहितं परमत्यन्तं महापुरुषं वदन्तीत्यन्वयः । परमिति पूर्वान्वयि वा ॥ ८ ॥
छलारी
त्वमेक एव नानामतविषयोऽसीत्यत आह ॥ त्वामिति ॥ केचिद्वेदान्तिनो ब्रह्मेत्यवयन्ति मन्यन्ते । एके मीमांसकास्त्वां धर्मं मन्यन्ते । एके साङ्ख्याः परेशं त्वां सदसतोः प्रकृतिपुरुषयोः सकाशात्परं विलक्षणं पुरुषमवयन्ति । अन्ये पाञ्चरात्रिकास्त्वां नवशक्तियुक्तं विमलोत्कर्षणीज्ञानेत्यादिनवशक्तिभिः स्वरूपभूताभिर्युतं परं पुरुषमवयन्ति । केचित्पातंजला एकान्तिनो वा त्वमेवाव्यमात्मतन्त्रं महापुरुषं मन्यन्ते ॥ ८ ॥
लिङ्घेरी
ननु केचिद्ब्रह्मैव जगत्कारणं स्वतन्त्रमित्याहुः । केचित्कर्मादिकमाहुः । कथमत्र निर्णय इत्याशङ्क्य तत्तन्मतेषु तत्तच्छब्दप्रतिपाद्यस्त्वमेवेति निर्णयोपपत्तिरित्याह ॥ त्वां ब्रह्मेति ॥ केचिद्वेदान्तिनस्त्वां ब्रह्मेत्यवयन्ति जानन्ति । एके मीमांसका धर्ममवगच्छन्ति । एके पौराणिकाः परेशं त्वां सदसतः परं पुरुषमवगच्छन्ति । अन्ये पाञ्चरात्रिकास्त्वां ‘विमलोत्कर्षणी ज्ञानाक्रियायोगा तथैव च । प्रह्वीसत्यातथेशानानुग्रहेति’ नवशक्तियुतं परं वदन्ति । केचि-देकान्तिनोऽव्ययं चतुर्विधनाशरहितमात्मतन्त्रं स्वसत्ताप्रतीतिप्रवृत्तिषु परानपेक्षं महापुरुषं वदन्ति
॥ ८ ॥
नाहं परायुर्ऋषयो न मरीचिमुख्या
जानन्ति यद्विरचितं खलु सत्वसर्गाः ।
यन्मायया मुषितचेतस ईश दैत्य-
मर्त्यादयः किमुत शश्वदभद्रवृत्ताः ॥ ९ ॥
पदरत्नावली
तद्विषयज्ञानसामग््रयभावान्नानात्वकल्पना इत्याशयेनाह– नाहमिति ॥ सत्वसर्गाः सात्विकाः । अत्रापि निमित्तमाह– यन्माययेति ॥ ९ ॥
सत्यधर्मीया
तेषां तेषां सामान्यज्ञानं तदितरेषां च ज्ञानदारिद्य्रं कैमुत्येनाह ॥ नेति ॥ पुरःस्थितेः पुरहरः स्वयं पुरस्करोति ॥ अहमिति ॥ सत्त्वसर्गाः सात्त्विकप्रकृतयः खल्वपि यन्मायया यस्य तव शक्त्या मुषितमपहृतम् । ‘मुषितं खण्डिते हृत’ इति विश्वः । चेतो मनो येषां ते तथा सन्तः । हे ईश । यद्विरचितं भवत्कृतम् । अहं न जानामि । परमायुस्तन्नामकं यस्य स ब्रह्मा । मरीचिर्मुख्यो येषां ते ऋषयो न जानन्ति । दैत्यमर्त्यादयः । शश्वदभद्रव्रताः शाश्वतिकाभद्राचारा न जानन्तीति किमु वक्तव्यमित्यर्थः । एके साङ्ख्या मान्त्रिका एके । नवभिरेव शक्तिभिर्युतम् । केचिदयमेको महापुरुष इति वदन्ति केऽपि । किमनुसृत्यैवं वचनमित्यत आह ॥ आत्मतन्त्रमिति ॥ आभिरुत्प्रेक्षितं तन्त्रं सिद्धान्तं परं वदन्तीति तात्पर्यम् । एतेषां तामसानां ज्ञानदारिद्य्रं कैमुत्येनाह ॥ नाहमिति वा । किमुत शश्वदभद्रवृत्ता इति स्वारस्यात् ॥ ९ ॥
छलारी
नानामतिविषयत्वे निमित्तमाह ॥ नाहमिति ॥ अहं रुद्रः परायुः परनामकमायुर्यस्य स ब्रह्मा । मरीचिमुख्या ऋषयः सत्त्वसर्गाः सत्त्वगुणेन सृष्टा अपि । सात्त्विकस्वभाववन्तोऽपीति यावत् । यद्विरचितं येन त्वया विरचितं व्यापारं न जानन्ति खलु सम्यक् न जानन्ति । कुतः । यन्मायया यस्य तव मायया मोहकशक्त्या मुषितानि पिहितानि चेतांसि येषां ते तन्मायया प्रतिबद्धमनस्का इति भावः । हे ईश्वर । शश्वत्सर्वदाऽभद्रं राजसतामसवृत्तं स्वभावो येषां ते तथा । दैत्यमर्त्यादयस्त्वां न जानन्तीति किमु वक्तव्यम् । तस्मात्तव नानामतिविषयत्वं युक्तमिति भावः ॥ ९ ॥
लिङ्घेरी
ननु तवापि मम समत्वाभिमाने कथमियं स्तुतिर्घटत इत्यतस्तदभावं व्यनक्ति ॥ नाहमिति ॥ हे परेश । यस्य तव माययेच्छया मुषितानि तत्त्वज्ञानादपहृतानि चेतांस्यन्तः-करणानि येषां तेऽहं रुद्रः परायुश्चतुर्मुखो मरीचिमुख्या ऋषयो यद्विरचितं न जानन्ति । सत्त्व-गुणादुत्पत्त्यभावात्तदज्ञानं किं न स्यादित्यत आह ॥ सत्त्वसर्गा अपीति ॥ शश्वदेक-प्रकारेणाभद्राऽमङ्गला वृत्तिः प्रवृत्तिर्येषां ते दैत्यमर्त्यादयो यस्य तव विरचितं न जानन्तीति किमु वक्तव्यमिति । अनेन पौण्ड्रकवासुदेवभास्करादिमतप्रसक्तमावयोः साम्यमसदित्युक्तं भवति ॥९॥
स त्वं समीहसि ततः स्थितिजन्मनाशान्
भूतेहितं च जगतो ह्यपिबन्धमोक्षौ ।
वायुर्यथा विशति खं च चराचराख्यं
सर्वं त्वदात्मकतया१ऽवगमो नुतिस्ते ॥ १० ॥
पदरत्नावली
जन्मस्थित्यादीनां भिन्नकर्तृत्वेन नानात्वं किं न स्यादिति तत्राह– स त्वमिति ॥ यो ब्रह्माद्यविज्ञातस्वरूपः स जगतः स्थितिजन्मनाशान् भूतैरीहितं च बन्धमोक्षा-वपि समीहसि करोषि हि यस्मात् तस्मान्नानात्मकत्वं भ्रान्तिरिति भावः । नन्वासुरकल्पनाऽ-स्त्वेकविषया ततोऽन्या किं तव स्तुतिरिति तत्राह– वायुरिति ॥ यथा वायुः खं चराचराख्यं सर्वं प्रविशति ततो भिन्नश्च तथा सर्वस्य त्वदात्मकतया त्वद्व्याप्तत्वेनावगमो ज्ञानं ते तव नुतिः स्तुतिः स्यादित्यन्वयः । अनेन धर्मादिप्रवर्तकत्वेन तच्छब्दवाच्यत्वावगमः स्तुतिरित्युक्तं भवति
॥ १० ॥
सत्यधर्मीया
न नानात्वं मतानां मम सम्मतमित्याह ॥ स इति ॥ योऽस्मदाद्य-विज्ञातरचितः स त्वम् । यतो जगतः स्थितिजन्मनाशान् बंधमोक्षौ च भूतं प्रभूतमीहितमपेक्षितं च । प्रजानामव्यवस्थित्येहितप्रभूततेति ज्ञेयम् । भूतानां पञ्चानामीहितम् । एतत्कार्यानुकूले । न पञ्चीकरणत्रिवृत्करणत्वादिकं च समीहसि समीहसे करोषीति यावत् । तर्हि तत्र तत्र प्रवर्तकतया स्थितस्य कर्तुश्च लौकिककर्तृवत्सङ्गोऽस्ति किमित्यतो नास्तीति सदृष्टान्तमाचष्टे ॥ वायुरिति ॥ चराचराख्यम् । खमवकाशं यथाऽसङ्गः सन्विशति तथा विशसि । ततः सर्वं त्वम् । सर्वं समाप्नोषीत्यादेः । न तु तदात्मकत्वात् । एवं त्वदात्मकतया सर्वस्यावगमो ज्ञानं ते तव नुतिः स्तवनम् । पूर्वोक्तसर्वाकारस्त्वमिति तत्त्वम् । रवं ब्रह्म सर्वमिति वाऽन्वयः । तदात्मकतयेति सरलः पाठः ॥ १० ॥
छलारी
इदानीं सर्वजगज्जन्मादिकारणत्वाच्च त्वमेव सर्वोत्तम इत्याशयेनाह ॥ स इति ॥ ब्रह्मादिभिरपि साकल्येनाज्ञेयमहिमा । त्वमेव जगतः स्थितिजन्मनाशान् भूतानामीहित-मभीष्टं च मोक्षबन्धावपि समीहसि करोषि । यथा वायुः खमाकाशं च चराचराख्यं सर्वं विशति व्याप्नोति, तथा त्वं सर्वं सृष्टं जगत्तदात्मकतया तस्य जगत आत्मकतया नियामकतया व्याप्नोषि । ‘तत्सृष्ट्वा तदेवानुप्राविशत्’ इति श्रुतेः । वायुवत्प्रवेशोक्त्या तद्वदेव जगद्गतदोषासंगो भवतो ज्ञापितो भवति । अज्ञानिनो जगत्सृष्ट्याद्ययोगादाहुः ॥ अवगम इति ॥ अवगच्छति जानाति सर्वमित्यवगमः सर्वज्ञ इत्यर्थः ॥ १० ॥
लिङ्घेरी
यत एवमावयोरत्यन्तभेदस्ततस्त्वमेव जगतः स्थितिजन्मनाशान् सर्वेषां भूतानां हितमपेक्षितं च, चेतनजगतो बन्धमोक्षावपि करोषि । यतस्त्वं वायुर्यथा खमाकाशं विशति तथा चराचराख्यं जगत्तदात्मकतया तत्प्रेरकतया विशसि । ‘तत्सृष्ट्वा तदेवानुप्राविशत्’ इत्यादेः । एवं तत्तत्प्रेरणाय तत्तत्प्रविष्टतया तत्तदुपजीव्यतया त्वम् । ‘सर्वं खल्विदं ब्रह्म’ । ‘पुरुष एवेदं सर्वं’ ‘तद्विश्वमुपजीवति’ । ‘सर्वं समाप्नोषि ततोऽसि सर्व’ इत्याद्यवगमयतीत्यवगम आगमः । आगमस्ते नुतिर्गुणोत्कर्षख्यापनसमर्थो नाहमिति स्तुत्युपसंहारः ॥ १० ॥
अवतारा मया दृष्टा रममाणस्य ते गुणैः ।
सोऽहं तद् द्रष्टुमिच्छामि यत् ते योषिद्वपुर्धृतम् ॥ ११ ॥
पदरत्नावली
तव स्तुत्या कोऽभिप्राय इति तत्राह– अवतारा इति ॥ अस्तु दृष्टिस्ततः किमिदानीमपेक्षितमिति तत्राह– सोऽहमिति ॥ ११ ॥
सत्यधर्मीया
यदर्थमत्यर्थमर्थता भवैतावता भवता कृता तावद्वदेत्यतो वक्ति ॥ अवतारा इति ॥ गुणै रममाणस्य तेऽवतारा मया दृष्टाः । ते त्वया यद्योषिद्वपुर्धृतं तद्द्रष्टुम् । स बह्ववतारद्रष्टाऽहमिच्छामि ॥ ११ ॥
छलारी
एवं स्तुत्वा प्रस्तुतं विज्ञापयति ॥ सोऽहमिति ॥ ते त्वया धृतं यद्योषिद्वपुः स्त्रीरूपं तत्सोऽहं बह्ववतारदृष्टोऽप्यहं द्रष्टुमिच्छामि । स्त्रीरूपस्य कदाऽप्यदृष्टत्वात् ॥ ११ ॥
लिङ्घेरी
एवं हरो हरिं स्तुत्वा स्वापेक्षितं विज्ञापयति । हे हरे । स्वेच्छया रममाणस्य गुणैः पूर्णास्तेऽवतारा नारायिण्यन्या मया दृष्टाः सोऽहं ते त्वया यद्योषितः वपुः शरीरं धृतं तद्द्रष्टुमिच्छामि ॥ ११ ॥
येन सम्मोहिता दैत्याः पायिताश्चामृतं सुराः ।
तद् दिदृक्षव आयाताः परं कौतूहलं हि नः ॥ १२ ॥
सत्यधर्मीया
अवलोकनकौतुककारणमीरयति ॥ येनेति ॥ मुख्यत्वादिच्छामीत्येक-वचनम् । नो दिदृक्षव इत्यादि बहुवचनं च सतीभूतगणादिसाहित्येन संभवतः ॥ १२ ॥
छलारी
तत्र किं माहात्म्यमस्ति येन तद्दर्शनाशक्यं तवाभूदित्यत आह ॥ येनेति ॥ येन स्त्रीरूपेण दैत्यमोहकातिसौन्दर्यं तत्रास्तीति तद्रूपं दिदृक्षवो वयमायाता हि यस्मान्नः परं कौतूहलमत्यन्तमुत्कटम् ॥ १२ ॥
लिङ्घेरी
तद्दर्शने स्वस्यान्तःकरणौत्कण्ठ्यमाह । येन स्त्रीशरीरेण दैत्याः संमोहिताः सुरा अमृतं पायिता वयं तद्दिदृक्षव आयातास्तद्दर्शने नोऽस्माकं परं केवलं कौतूहलं कदा द्रक्ष्यामीति बुद्धिः ॥ १२ ॥
श्रीशुक उवाच–
एवमभ्यर्थितो विष्णुर्भगवान् शूलपाणिना ।
प्रहस्य भावगम्भीरं गिरिशं प्रत्यभाषत ॥ १३ ॥
सत्यधर्मीया
भावगम्भीरं यथा तथा ॥ १३ ॥
छलारी
भावेनाभिप्रायेण गम्भीरं गम्भीरतरं वचनम् ॥ १३ ॥
लिङ्घेरी
एवं भगवान्विष्णुः शूलपाणिना रुद्रेण प्रार्थितः सन् गिरिशं प्रत्यभिप्रायेण गम्भीरं यथा तथाऽभाषत ॥ १३ ॥
श्रीभगवानुवाच–
कौतूहलाय दैत्यानां योषिद्वेषो मया कृतः ।
पश्यता सुरकार्याणि गते पीयूषभाजने ॥ १४ ॥
सत्यधर्मीया
गते हृते सति ॥ १४ ॥
छलारी
पीयूषभाजनेऽमृतकलशे गते दैत्यैरपहृते सति सुरकार्याणि योषिद्वेषेण भविष्य-न्तीति पश्यता जानता मया दैत्यानां कौतूहलाय कौतुकजननद्वारा बुद्धिभ्रंशाय योषिद्वेषः कृतः स्वीकृतः ॥ अयं भावः ॥ अवश्यं तावदमृतायोग्यान्दैत्यान्वञ्चयित्वा देवेभ्योऽमृतं देयम् । न चैवं वैषम्यम् । योषिद्विना रूपान्तरेण कर्तुमनुचितं भवति । अतो वञ्चनमोहनादिसारं कामिनीरूपं मया धृतमिति ॥ ॥ १४ ॥
लिङ्घेरी
हे रुद्र । दैत्यानां कौतूहलायाश्चर्यबुद्धिजननाय पीयूषस्यामृतस्य भाजने पात्रे दैत्यहस्तं गते सति देवकार्याणि संपाद्यानीति पश्यता बुद्धिमता मया योषिद्वेषः कृतः । पीयूषममृतं सुधा । भाजनं पात्रमित्यभिधानम् ॥ १४ ॥
तत् तेऽहं दर्शयिष्यामि दिदृक्षोः सुरसत्तम ।
तत्कामिनां च मन्तव्यं सङ्कल्पप्रभवोदयम् ॥ १५ ॥
पदरत्नावली
सङ्कल्पप्रभवस्य कामस्योदयो यस्माद्वपुषस्तत् तथा । तद्वपुः कामिनां च मन्तव्यमिति प्रयोगो ‘गन्तव्या ते वसतिरलका’ इतिवत् कृद्योगे षष्ठी । चशब्दादकामिनामिति ग्राह्यम् ॥ १५ ॥
सत्यधर्मीया
सङ्कल्पान्मनसः प्रभवतीति स मन्मथस्तस्योदयो येन तत् । अनेन मोहितानां स्वशत्रूच्छ्रयश्रवणेऽपि न स गच्छतीति तन्मोहमहिमानं ध्वनयति । तत्कामिनां ततत्वात्तदहं तस्य कामो येषामस्तीति ते निष्कामास्तेषामपि मन्तव्यं तत्त्वेन ज्ञातव्यम् । चेन च कामिनां कामुकानां किम्विति कैमुत्यं सूचयति । कामिनां मन्तव्यं गतम् ॥ १५ ॥
छलारी
सङ्कल्पप्रभवस्य कामस्योदय उद्रेको यस्माद्वपुषः । तत्सङ्कल्पप्रभवान्कामा-नित्युक्तेः । कामिनां बहुमन्तव्यं बहुमाननीयम् ॥ १५ ॥
लिङ्घेरी
हे सुराणामिन्द्रादीनां सत्तमात्युत्तम रुद्र । तद्रूपं दृष्टुमिच्छतस्तव दर्शयिष्यामि । तद्रूपं कामुकानां सङ्कल्पप्रभवस्य कामस्योदय उत्पत्तिर्यस्मात्तथा मन्तव्यम् । कामार्त्तिमतामपि कामजनकं ज्ञेयमित्यर्थः ॥ १५ ॥
श्रीशुक उवाच–
इति ब्रुवाणो भगवांस्तत्रैवान्तरधीयत ।
सर्वतश्चारयंश्चक्षुर्भव आस्त१ सहोमया ॥ १६ ॥
सत्यधर्मीया
सर्वतः सर्वत्र । एकस्मिन्नेव देवविलोकनकार्ये त्रयाणामपि लोचनानां व्यापरणाच्चक्षुरित्येकवचनम् । आस्तेति पाठः सरसः । आस्त इति पाठे य आस्ते स ददर्शे-त्युत्तरेणान्वयः ॥ १६ ॥
छलारी
सर्वतो दिक्षु चक्षुश्चारयन् संचारयन् । पश्यन्निति यावत् ॥ १६ ॥
लिङ्घेरी
भगवान् विष्णुरिति रुद्रं प्रति वदन्नेवादृश्योऽभूत् । तदा भवो रुद्र उमया सह सर्वासु दिक्षु स्वनेत्रं प्रचारयन्नास्ते ॥ १६ ॥
ततो ददर्शोपवने वरस्त्रियं विचित्रपुष्पारुणपल्लवद्रुमे ।
विक्रीडतीं कन्दुकलीलया लसन्नितम्बपर्यस्तदुकूलमेखलाम् ॥ १७ ॥
पदरत्नावली
लसन्ती नितम्बे पर्यस्ता परिवृता दुकूलोपरि मेखला यस्याः सा तथा ताम् ॥ १७ ॥
सत्यधर्मीया
विचित्रपुष्पारुणपल्लवद्रुमे विचित्राणि पुष्पाण्यरुणाः पल्लवा येषु ते च द्रुमा यस्मिंस्तस्मिन्नुपवने प्राक्तने वा तदानीमेव सृष्टे वाऽऽरामे । नितम्बे जघने लसती पर्यस्ते प्रावृते साक्षात्परम्परया दुकूलं च वस्त्रं च मेखला काञ्ची च यस्याः सा ताम् । कन्दुकलीलया कन्दुकस्य । गेन्दुकः कन्दुक इत्यमरः । लीला शृृङ्गारभावप्रदर्शनंक्रियया । लीलां विदुः कालिविलासखेला शृृङ्गारभावप्रभवक्रियास्विति विश्वः । विक्रीडतीं विक्रीडन्तीं खेलन्तीम् ॥१७॥
छलारी
विचित्रपुष्पाण्यरुणपल्लवाश्च येषां द्रुमाणां ते तादृशा द्रुमा यस्मिंस्तस्मिन्नुपवने कन्दुकस्य लीलया क्रीडया विक्रीडन्तीम् । लसद्दुकूलेन पर्यस्ते परिवृते नितम्बे मेखला काञ्ची यस्यास्ताम् ॥ १७ ॥
लिङ्घेरी
ततो रुद्रो विचित्राणि पुष्पाण्यरुणाः पल्लवाः किसलया येषु तैर्द्रुमैर्युक्ते समीप-स्थवने कन्दुकक्रीडां कुर्वन्तीं लसत्प्रकाशमाने नितम्बे कटिप्रदेशे पर्यस्ते क्षिप्ते दुकूलमेखले परिधानीयवस्त्रकांच्यौ यस्यास्तां स्त्रियं ददर्श ॥ १७ ॥
आवर्तनोद्वर्तनकम्पितस्तनप्रकृष्टहारोरुभरैः पदे पदे ।
प्रभज्यमानामिव मध्यतश्चलत्पदप्रवालं नयतीं ततस्ततः ॥ १८ ॥
पदरत्नावली
आवर्तनमवाङ्नमनम् उद्वर्तनमुन्नमनं ताम्यां कम्पितयोरारब्धचञ्चलयोः स्तनयोर् गुणतः प्रकृष्टहारस्य चोरुभरैः पदे पदे मध्यप्रदेशे भज्यमानामिव स्थिताम् । ततस्त-तस्तत्र चलत्पदपल्लवं नयन्तीं प्रचालयन्तीम् ॥ १८ ॥
सत्यधर्मीया
आवर्तनं मण्डलाकारभ्रमणम् । उद्वर्तनं चोपरि प्रसर्पणं ताभ्यां कम्पिता-श्चलन्तः स्तनयोर्ये हारास्तत्सबन्धिमुक्तास्रजस्तेषाम् । उर्वोरुत्सङ्गयोर्भरैः स्तनेषु प्रकृष्टौ तयोः स्तनौ तौ प्रकृष्टौ च । विशेषणपरनिपातो वा । हाराणां च भरैरिति वा । कंपितत्वं च स्तनयोर्लावण्यतारुण्यरसाभासमिति हारान्वितं शोभत इति ज्ञेयम् । यथा हि रुग्मिणीशविजये । ‘‘विविच्य सर्वाङ्गविचारकाले तयोः समन्ताद्घटना किलासीत् । सुपीनदेवीस्तनमध्यदेशे सुदुर्लभा सा परमच्युतस्य ॥’ इत्यादेः । चलस्तनीमित्याद्युक्तेस्तद्व्यामोहनाय कंपितताप्रदर्शनमिति तत्स्तनान्वयि वा ज्ञेयम् । मध्यतो मध्ये प्रभज्यमानामिव । तृट्यन्मध्यप्रदेशामिव विद्यमानाम् । चलत्प्रवालवद्विद्यमानं पदं पादं ततस्ततो नयन्ती । प्रवालो वल्लकी दण्डे विद्रुमे नवपल्लव इति विश्वात्तन्त्रन्यायेन म्रदिमानं रक्तिमानं न्यगदत्पदयोः प्रवालपदमिति ज्ञेयम् ॥ १८ ॥
छलारी
उत्पततोऽधःपततः कन्दुकस्य लीलावशेन यदावर्तनमर्वाग्गमनम् । उद्वर्तन-मुन्नमनं ताभ्यां कम्पितयोः स्तनयोः । प्रकृष्टानामनर्घ्याणां हाराणां चोरुभरैः पदे पदे प्रतिपाद-विक्षेपं मध्यतो मध्ये भज्यमानामिव दृश्यमानं चलत्पदमेव प्रवां पल्लववत्कोमलं चरणं ततस्त-तस्तत्र तत्र नयन्तीं प्रचालयन्तीम् ॥ १८ ॥
लिङ्घेरी
आवर्तनोद्वर्तनाभ्यामधोर्ध्वप्रदेशं ताभ्यां कम्पिताश्चलिता, स्तनौ तत्कान्त्यादि-गुणैः प्रकृष्टहारश्चेत्येतेषामुत्कृष्टभारैः पदे पदे प्रतिपादविक्षेपे मध्यतः कटिप्रदेशे विभज्यमानामिव स्थितां गमनेन चलत्पादपल्लवां ततस्ततस्तत्प्रदेशं नयतीं प्रापयन्तीम् ॥ १८ ॥
दिक्षु भ्रमत्कन्दुकचापलैर्भृशं प्रोद्विग्नतारायतलोललोचनाम् ।
स्वकर्णविभ्राजितलोलकुण्डलोल्लसत्कपोलालकमण्डिताननाम् ॥ १९ ॥
पदरत्नावली
भ्रमतः कन्दुकस्य चापलैश् चलभावैः प्रोद्विग्ने चञ्चले तारे कनीनिके ययोस्ते प्रोद्विग्नतारे, ते चायते च लोले च लोचने यस्याः सा तथा ताम् । स्वकर्णयोर्विभ्राजिते च लोलकुण्डले च स्वकर्णबिभ्राजितलोककुण्डले ताभ्याम् उल्लसद्भ्यां कपोलाभ्याम् अलकैश्च मण्डितमाननं यस्याः सा तथा ताम् ॥ १९ ॥
सत्यधर्मीया
भ्रमतः कन्दुकस्य चापलैर्भृशं यथा तथा प्रोद्विग्ने भीते च ते तारे च ते आयते चायततारेऽक्षिमध्ये । ऋक्षाक्षिमध्ययोस्तारेति विश्वः । ताभ्यां लोले लोचने यस्याः सा ताम् । प्रोद्विग्नेऽत्यायतेति चेति लोचनविशेषणं वा । स्वस्य कर्णयोर्विभ्राजिते लोले वचे कुण्डले च ताभ्यां लसन्तौ च तौ कपोलौ च ताभ्याम् । अलकैश्चूर्णकुन्तलैश्च मण्डितमाननं यस्याः सा ताम् ॥ १९ ॥
लिङ्घेरी
दिक्षु भ्रमतश्चरतः कन्दुकस्य चापलैरितस्ततो गमनरूपचञ्चलधर्मैः प्रोद्विग्ने चञ्चले तारे कनीनिके ययोस्ते च, आयते विस्तृते च लोले चञ्चले कन्दुकग्रहणतृष्णासहिते च लोचने नेत्रे यस्यास्ताम् । स्वकर्णयोर्विभ्राजितेऽतिप्रकाशिते च ये कुण्डले कर्णाभरणे ताभ्या-मुल्लसन्तौ प्रकाशमानौ गण्डस्थलावलकाश्चूर्णकुन्तलाश्च तैर्मण्डितमलङ्कृतमाननं मुखं यस्यास्ताम् । लोलश्चंचलतृष्णयोरिति नानार्थमुक्तावली ॥ १९ ॥
श्लथद्दुकूलां कबरीं च विच्युतां सन्नह्यतीं वामकरेण वल्गुना ।
विनिघ्नतीमन्यकरेण कन्दुकं विमोहयन्तीं जगदात्ममायया ॥ २० ॥
पदरत्नावली
सन्नह्यतीं बध्नन्तीम् । आत्ममायया स्वरूपशोभावैचित्र्येण ॥ २० ॥
सत्यधर्मीया
श्लथत्किञ्चिद्गलद्दुकूलं यस्याः सा ताम् । विच्युतां कबरीकेशपाशं जान-पादेति ङीष् । सन्नह्यतीं बध्नन्तीं वामकरेण । अन्येन करेण कन्दुकं विनिध्नन्तीम् । वल्गुनेति करद्विकान्वयि । आत्ममायया सहजशक्त्या । जगन्विमोहयन्तीम् । जगदन्तर्गतोऽयमेकः किं पादार्थ इति भावः ॥ २० ॥
छलारी
श्लथद्दुकूलां नितम्बाद्विभ्रंशत्सूक्ष्मवस्त्रां विच्युतां मुक्तग्रन्थिं कबरीं केशभारं च वल्गुना सुन्दरेण वामकरेण सन्नह्यन्ती बध्नन्तीं, सव्यकरेण दक्षिणहस्तेन कन्दुकं विनिघ्नन्तीं भूमौ पातयन्तीमात्ममायया स्वरूपशोभावैचित्र्येण जगद्विमोहयन्तीम् ॥ २० ॥
लिङ्घेरी
श्लथत्कटिप्रदेशाच्च्यवद्दूकूलं यस्यास्तां, विच्युतां कलितग्रन्थिं कबरीं बन्धित-केशसमूहं वल्गुना मनोहरेण वामकरेण सन्नह्यतीं केशान्मेलयित्वा बध्नन्तीमन्येन दक्षिणकरेण कन्दुकं विनिघ्नतीं ताडयन्तीमात्ममायया स्वकीयमोहनशक्त्या जगद्विमोहयन्तीं भ्रामयन्तीम्
॥ २० ॥
तां वीक्ष्य देव इति कन्दुकलीलयैष१
व्रीडास्फुटस्मितविसृष्टकटाक्षमूढः२ ।
स्त्रीप्रेक्षणप्रतिसमीक्षणनिर्वृतात्मा३
नात्मानमन्तिक उमां स्वगणांश्च वेद ॥ २१ ॥
पदरत्नावली
व्रीडासहितेन स्मितेन स्फुटेन प्रफुल्लेन विसृष्टेन दिक्षु मुक्तेन च कटाक्षेण मूढः । स्त्रीप्रेक्षणसमीक्षणाभ्यां निर्वृत आह्लादित आत्म यस्य स तथा सः ॥ २१ ॥
सत्यधर्मीया
तां वीक्ष्य स्थितः । एष देवो वामदेवः । कन्दुकलीलया सहिता व्रीडा लज्जा तया सहितं स्मितमीषद्धसितं तेन सहितः स्फुटविसृष्टो दृढनिपातितो यः कटाक्षो नेत्रप्रान्तभागस्तेन मूढः । स्त्रियाः प्रेक्षणम् । तत्कर्तृकं स्वकर्मकं निरीक्षणं प्रतिसमीक्षणं स्वकर्तृकं तत्कर्मकं च ताभ्यां निर्वृतः सुखित आत्मा मनो यस्य स तथा सन् । आत्मानं स्वम् । अन्तिके विद्यमानामुमां चाद्विद्यमानान्स्वगणान्पार्षदान्न वेद । मौढ्योपपादकोऽयं ग्रन्थः ॥२१॥
छलारी
तां स्त्रियं वीक्ष्य रुद्र आत्मानं स्वमन्तिके स्थितामुमां स्वभार्यां च स्वगणान्स्वभृत्यगणान्न वेद नापश्यत् । कथं भूत इति । एवं भूतया कन्दुकलीलयेषद्व्रीडा किञ्चिल्लज्जा तया स्फुटं स्मितं तेन सह स्वस्मिन्विसृष्टो यः कटाक्षोऽपाङ्गदर्शनं तेन मुष्टो वञ्चितः । मूढ इति पाठे मोहित इत्यर्थः । अत एव स्वयं स्त्रियः प्रेक्षणं तया च प्रतिसमीक्षणं स्वदर्शनं च रुद्रस्तां पश्यति । सा च रुद्रं पश्यतीत्यर्थः । एवं समदर्शनाभ्यां विह्वलश्चञ्चल आत्मा मनो यस्य सः । निर्वृतात्मेति पाठे निर्वृत आल्हादित आत्मा यस्य स इत्यर्थः ॥२१॥
लिङ्घेरी
देवो रुद्रस्तां वीक्ष्य इत्युक्तप्रकारकन्दुकलीलया ईषदल्पा व्रीडा लज्जा तत्सहितं यस्मिन्सः मन्दहासः, स्फुटमतिस्पष्टं विसृष्टो यः कटाक्षो नेत्रान्तावलोकनं तेन मूढो विवेकरहितो भ्रान्तश्च सन् । स्वकर्तृकं स्त्रीकर्मकं यत्प्रेक्षणं यच्च स्त्रीकर्तृकं स्वकर्मकं प्रतिसमीक्षणमवलोकनं ताभ्यां निर्वृतः सन्तोषातिशयवानात्माऽन्तःकरणं यस्य स तथा सन् आत्मानं स्वमन्तिके स्थितां पार्वतीं स्वगणांश्च न वेद । स्वात्माद्यनुसन्धानरहितोऽभूत् । किञ्चिदीषन्मनागल्पे । •हीस्त्रपा व्रीडेति चामरः ॥ २१ ॥
तस्याः कराग्रात् स तु कन्दुको यदा गतो विदूरं तमनुव्रजन्त्याः ।
वासः ससूत्रं लघु मारुतोऽहरद् भवस्य देवस्य किलानुपश्यतः ॥ २२ ॥
पदरत्नावली
स्त्री रुद्रं पश्यति, रुद्रः स्त्रियं पश्यतीति भावेन तं कन्दुकमनुव्रजन्त्याः स्त्रियः ॥ २२ ॥
सत्यधर्मीया
तं कन्दुकं ससूत्रं सकाञ्चि लघु सूक्ष्मं वासो वस्त्रम् । देवस्य भवस्य पश्यतः सतो मारुतो वातोऽहरत् । लघुमारुत इति समस्तं वा । लघुश्चासौ मारुतश्च । अनेन लाघवमनिले उक्तम् । वस्त्रे तद्धृते चातिलाघवमर्पयतीति ततोऽपि श्लाघ्योऽयमर्थः । किल सत्यम् । किल स्यात्सत्यनृत्ययोरिति विश्वः । एवमार्यैरुक्ता किल वार्तेति वा । किलशब्दस्तु वार्तायामिति तत्रैवोक्तेः ॥ २२ ॥
छलारी
तं कन्दुकमनुव्रजन्त्याः स्त्रियः लघु सूक्ष्मवासः परिधानं वस्त्रं ससूत्रं काञ्च्या सहितमहरदपाहरत् । भवस्यानुपश्यतः सतः ॥ २२ ॥
लिङ्घेरी
तस्या उक्तगुणनारायण्याः कराग्रात्सः कन्दुको यदा दूरं गतो रुद्रस्तं कन्दुक-मनुगच्छन्त्या लघु सूक्ष्मं कटिसूत्रसहितं वस्त्रं महादेवस्य पश्यतः सतो मारुतोऽहरत् । सा नग्नाऽभूत् ॥ २२ ॥
एवं तां रुचिरापाङ्गीं दर्शनीयां मनोरमाम् ।
दृष्ट्वा तस्यां मनश्चक्रे विलज्जन्त्यां भवः किल ॥ २३ ॥
पदरत्नावली
विलज्जन्त्यां लज्जाभावं कुर्वन्त्याम् ॥ २३ ॥
सत्यधर्मीया
दर्शनीयां स्वेनावलोकनीयामेव न तु स्पृश्या । मनोहरां मनोरमां दृष्ट्वा भवो मनस्तस्यां चक्रे । किल भगवन्मायाया भवभ्रमः सम्भावित इत्यर्थः । यद्वा यो भवो मनश्चक्रे सव्यापारं कृतवानिति चक्र इत्युच्यते सोऽपि तदभिमान्यपि अरमां रमेतरां दर्शनीयां मनोरमां रुचिरापाङ्गीं तां दृष्ट्वा तस्यां मनश्चक्र इति वाऽन्वयः । मनोनियामकस्याप्येवं चेत्का कथेतरेषा-मिति भावः । विलज्जन्त्यां विषज्जन्त्यां हस्तविन्यस्तामिव सम्बध्नन्त्याम् ॥ २३ ॥
छलारी
रुचिरोऽपाङ्गः कटाक्षाक्षेपणं यस्यास्ताम् । दर्शनीयां द्रष्टुं योग्यामत एव मनोरमाम् ॥ २३ ॥
लिङ्घेरी
भवो रुद्रो, रुचिरो मनोहरोऽपाङ्गः कटाक्षो यस्यास्तां, सौन्दर्यातिशयेन दर्शनीयामवश्यं द्रष्टव्यामत एव मनो रमयति सुखयतीति मनोरमा तामेवमुक्तरीत्या दृष्ट्वा विशेषा-कारेण लज्जां कुर्वत्यां तस्यां मनश्चक्रे ॥ २३ ॥
तयाऽपहृतविज्ञानस्तत्कृतस्मरविह्वलः ।
भवान्या अपि पश्यन्त्या गतह्रीस्तत्पदं ययौ ॥ २४ ॥
सत्यधर्मीया
अपहृतं विज्ञानं स्वस्वभार्यापार्षदाज्ञानं यस्य सः । तत्कृतस्तदुज्जृम्भितो यो स्मरस्तेन विह्वलश्चञ्चलीकृतो भवान्याः पश्यन्त्याः सत्या अपि । अनेन नैर्लज्यं परवशता च शिवस्यापारमपादेति द्योत्यते । भवान्या इत्युपपत्तिः प्रागुपपादिता ज्ञेया । तत्पदं तस्याः पदमनुययौ ॥ २४ ॥
छलारी
तया स्त्रियाऽपहृतं विज्ञानमितरपदार्थज्ञानं यस्य सस् तत्कृतेन स्त्रीकृतेन स्मरेण कामेन विह्वलश्चञ्चलस्तत्पदं तस्याः समीपम् ॥ २४ ॥
लिङ्घेरी
तथा तादृश्या नारायण्याऽपहृतं विज्ञानं परदारान्न काङ्क्षेदित्यादिरूपं यस्य स तथा सन् तन्निमित्तं जातकामेन चञ्चलो भवान्याः पार्वत्याः पश्यन्त्या सत्या अपि लज्जारहितः सन् तत्पदमनुययौ ॥ २४ ॥
सा तमायान्तमालोक्य विवस्त्रा व्रीडिता भृशम् ।
निलीयमाना वृक्षेषु हसन्ती नान्वतिष्ठत ॥ २५ ॥
पदरत्नावली
नान्वतिष्ठत नानुकूलाभूत् ॥ २५ ॥
सत्यधर्मीया
निलीयमाना वृक्षेषु गूहमाना हसन्ती । हे स्थाणोत्रापि स्थाणुमपरं स्पृष्ट्वैव वर्ते त्वं मा मयि रुष्टो भूरिति हास इति भावः । नान्वतिष्ठत अतिष्ठत् ॥ २५ ॥
छलारी
वृक्षेषु निलीयमाना स्वात्मानं गूहयन्ती । नन्वतिष्ठतानुकूला नाभूत् ॥ २५ ॥
लिङ्घेरी
वस्त्ररहिता नारायण्यागच्छन्तं रुद्रं दृष्ट्वा भृशं लज्जितेव वृक्षेषु स्वशरीर-माच्छादयन्ती हसन्ती च सती नान्वतिष्ठत । रुद्रानुकूलाऽसत्येकत्र न तस्थौ ॥ २५ ॥
तामन्वगच्छद् भगवान् भवः प्रव्यथितेन्द्रियः ।
कामस्य च वशं नीतः करेणुमिव यूथपः ॥ २६ ॥
सत्यधर्मीया
करेणुं करिणीम् । प्रव्यथितानीन्द्रियाणि तदलाभप्रयुक्तव्यथा यस्य सः । यूथपो गजः ॥ २६ ॥
छलारी
प्रव्यथितमिन्द्रियं मनो यस्य सः । यूथपो गजेन्द्रः करेणुमिव गजीमिवान्व-गच्छत् ॥ २६ ॥
लिङ्घेरी
कामवशं गतोऽत एव काम्यालाभेन दुःखितान्तःकरणो गजयूथपः करेणुं गजस्त्रियमिव भगवान् ऐश्वर्यादिगुणसंपन्नो भवः कामवशो व्यथितेन्द्रियश्च सन् नारायणीमनु-गतवान् । करेणुरिभ्यामित्यमरः ॥ २६ ॥
सोऽनुव्रज्यातिवेगेन गृहीत्वाऽनिच्छतीं स्त्रियम् ।
केशबन्ध उपानीय बाहुभ्यां परिषस्वजे ॥ २७ ॥
सत्यधर्मीया
अनिच्छन्तीमनोङ्कुर्वन्तीम् । केशबन्धे गृहीत्वा तां स्त्रियम् । उपानीय स्वसमीपं प्रापय्य बाहुभ्यां परिषष्वजे आलिलिङ्गे ॥ २७ ॥
छलारी
अतिवेगेनानुव्रज्य पृष्ठतोऽनुद्रुत्यानिच्छन्तीं तां स्त्रियं केशबन्धे गृहीत्वोपानीय समीपे आनीय, बाहुभ्यां परिषस्वजे आलिङ्गितवान् ॥ २७ ॥
लिङ्घेरी
स रुद्रोऽतिवेगेनानुगत्वाऽनिच्छतीमिव स्थितां स्त्रियं नारायणीं केशबन्धे कबर्यां गृहीत्वा स्वसमीपं प्रापयित्वा बाहुभ्यामालिलिङ्गे ॥ २७ ॥
सोपगूढा भगवता करिणा करिणी यथा ।
इतस्ततः प्रसर्पन्ती विप्रकीर्णशिरोरुहा ॥ २८ ॥
सत्यधर्मीया
इतस्ततः प्रसर्पन्त्यात्मानं मोचितुम् ॥ २८ ॥
छलारी
भगवता रुद्रेणोपगूढाऽऽलिंगिता प्रसर्पन्ती मोचनार्थमितस्ततश्चलन्त्यभूत् । विकीर्णाः प्रसारिताः शिरोरुहाः केशा यस्याः सा ॥ २८ ॥
आत्मानं मोचयित्वाऽङ्ग सुरर्षभभुजान्तरात् ।
प्राद्रवत् सा पृथुश्रोणी माया देवविनिर्मिता ॥ २९ ॥
सत्यधर्मीया
अङ्ग हे राजन्निति शेषः । सुरर्षभो वृषभध्वजः । तस्य भुजयोरन्तरात् । पृथुश्रोण्यपि देवविनिर्मिता मायेति प्राद्रवत् ॥ २९ ॥
छलारी
हे अङ्ग राजन् । सुरर्षभस्य रुद्रस्य भुजमध्यात् पृथुश्रोणी स्थूलनितम्बा देवेन स्वेनैव हरिणा निर्मिता प्रदर्शिता माया जनमोहनकरी सा स्त्री प्राद्रवत् ॥ २९ ॥
लिङ्घेरी
सा नारायणी गजेन गजस्त्रीव भगवता रुद्रेणोपगूढा बाहुभ्यामाच्छादिता तदनन्तरं परस्परं विश्लिष्टकेशा सतीतस्ततः पादप्रसारणं कुर्वती सती पुष्टकट्यधोभागवती देवेन विष्णुना निर्मिता सा माया नारायणीन्द्रादिदेवोत्तमरुद्रभुजमध्यात्स्वां मोचयित्वा द्रुतं जगाम । अंगेति प्रियसंबोधनम् ॥ २९ ॥
तस्यासौ पदवीं रुद्रो विष्णोरद्भुतकर्मणः ।
प्रत्यपद्यत कामेन वैरिणेव विनिर्जितः ॥ ३० ॥
पदरत्नावली
वैरिणा पुरुषार्थविरोधिना, विरुद्धप्रेरणावता वा ॥ ३० ॥
सत्यधर्मीया
कामेन वैरिणा प्राक्तनरिपुणा च विनिर्जितः ॥ ३० ॥
छलारी
तस्य प्राद्रवतः स्त्रीरूपस्य विष्णोः पदवीं मार्गं प्रत्यपद्यतान्वधावत् । वैरिणेव शत्रुणेव । कामेन विनिर्जितः पीडितः सन् ॥ ३० ॥
लिङ्घेरी
रुद्रोऽद्भुतकर्मणस्तस्य नारायणीरूपस्य विष्णोः पदवीं मार्गं प्रत्यपद्यतागत-वान् । वैरिणा स्वशत्रुणा कामेन विनिर्जितश्चात्यन्तं कामुकोऽभूदित्यर्थः ॥ ३० ॥
तस्यानुधावतो रेतश्चस्कन्दामोघरेतसः ।
शुष्मिणो यूथपस्येव वासितामनुधावतः ॥ ३१ ॥
पदरत्नावली
शुष्मिणो वीर्यवतः । वासितां मैथुनेच्छावतीं करिणीम् ॥ ३१ ॥
सत्यधर्मीया
अमोघरेतसस्तस्यानुधावतो हरस्य रेतो वीर्यं चस्कन्द । अद्रवत् । शुष्मिणः प्रशस्तवीर्यवतः । शुष शोषणेऽन्येभ्योऽपीति मनिन् । संज्ञापूर्वकत्वान्न गुणः । शुषेरन्तर्भावितण्यर्थाद् अविशिविशुषिभ्यः किदिति मनिन्प्रत्ययेऽदन्तोऽपि शुष्म शुभो वास्यास्तीति शुष्मी । तच्च बलं यथोक्तम् । संयन्मदाय शुष्मिण इत्यृग्भाष्यटीकाटिप्पणीषु । बलिनेऽस्मै । ओजो वाजः शव इत्यादिष्वष्टाविंशतिसङ्ख्याकेषु बलनामसु पठितस्य शुष्मशब्दस्य बलमर्थ इति भाव इति । शुष्मिणः प्रशस्तवीर्यवतो वासितां करिणीम् । ‘वासिता करिणी नार्योः’ इति विश्वः । ‘वासिता करिण्योः’ इति विश्वः । ‘वासिता स्त्री करिण्योः’ इति नानार्थामरः । वस निवासे ण्यन्तात् क्तः । मैथुनेच्छावतीति व्याकरणेऽनिच्छतीमिति दार्ष्टान्तिकाननुरूपता ज्ञेया । विशेषाभिधानस्य स्रवद्योनिपुटा नारी वासितेत्यभिधीयत इतिवदनुदाहरणात् । अनुधावत इभस्य रेतः स्कन्दति तथा चस्कन्देत्यन्वयः ॥ ३१ ॥
छलारी
चस्कन्द गलितम् । शुष्मिणो वीर्यवतस्तरुणस्येत्यर्थः । वासितां मैथुनेच्छावतीं करिणीमनुधावतो यूथपस्येव गजश्रेष्ठस्येव ॥ ३१ ॥
लिङ्घेरी
वासितां गजस्त्रियमनुगच्छतः शुष्मिणोऽतिरेतस्कस्य गजयूथपस्येव नारायणी-मनुधावत आशु गच्छतोऽव्यर्थवीर्यस्य रुद्रस्य रेतश्चस्कन्द स्खलितम् । ‘वासिता स्त्रीकरिण्योश्च’ इत्यमरः ॥ ३१ ॥
यत्र यत्रापतन्मह्यां रेतस्तस्य महात्मनः ।
तानि रुद्रस्य हेम्नश्च क्षेत्राण्यासन् महीपते ॥ ३२ ॥
पदरत्नावली
रुद्रस्य क्षेत्राणि । हेम्नश्च क्षेत्राणि स्वर्णाकाराण्यासन् ॥ ३२ ॥
सत्यधर्मीया
यत्र यत्र महात्मनस्तस्य रेतोऽपतत् । तानि तानि रुद्रस्य हेम्नः सुवर्णस्य च क्षेत्राणि आसन् । पुण्यभुवोऽभवन् ॥ ३२ ॥
छलारी
मह्यां भूमौ रुद्रस्य शिवस्य हेम्नः सुवर्णस्य क्षेत्राण्याकरा आसन् ॥ ३२ ॥
लिङ्घेरी
हे महीपते । मह्यां भूमौ यत्र यत्र स्थले महात्मनस्तस्य रुद्रस्य रेतोऽपतत् तानि तानि रुद्रस्य हेम्नः सुवर्णस्य च क्षेत्राण्याकरा आसन् ॥ ३२ ॥
सरित्सरःसु शैलेषु वनेषूपवनेषु च ।
यत्र क्वचासन् ऋषयस्तत्र सन्निहितो हरः ॥ ३३ ॥
पदरत्नावली
क्वच यत्र क्वच सरिदादिषु रेतःक्षेत्रेषु ऋषय आसन्, तत्र भवश्च सन्निहितोऽभवत् ॥ ३३ ॥
सत्यधर्मीया
यत्र क्वचैतदादिषु रेतोऽपतत्तत्र ऋषय आसन् कृतस्वाश्रमास् तत्र हरोऽपि सन्निहित आसीत् ॥ ३३ ॥
छलारी
एवं तामनुधावन् हरो रेतः क्षेत्रेषु सरिदादिषु यत्र क्वच ऋषय आसन् । तत्र रेतो निवासस्थानेषु ऋष्याश्रमेषु च संनिहिता बभूव । यद्वा । यत्र क्वच सरिदादिषु रेतः क्षेत्रेषु ऋषय आसंस्तत्राश्रमेषु हरः संन्निहितोऽभवत् ॥ ३३ ॥
लिङ्घेरी
नदीसरोवरपर्वतेषु वनोपवनेषु च रुद्रक्षेत्रेषु ऋषय आसन्यत्र क्व च तत्र हरः सन्निहितोऽभूत् ॥ ३३ ॥
स्कन्ने रेतसि सोऽपश्यदात्मानं देवमायया ।
जडीकृतं नृपश्रेष्ठ सन्न्यवर्तत कश्मलात् ॥ ३४ ॥
अथावगतमाहात्म्य आत्मनो जगदात्मनः ।
अपरिज्ञेयवीर्यस्य न मेने तदुदाहृतम् ॥ ३५ ॥
पदरत्नावली
बुद्धिभ्रंशकरं कश्मलं निवृत्तमिति यस्मात् तस्मात्तदुदाहृतम् । तां ग्राम्योक्तिम् ॥ ३४-३५ ॥
सत्यधर्मीया
जडीकृतम् अज्ञवत्कृतम् । कश्मलात् पूर्वोदीरितकृच्छ्रात् । जगदात्मन-स्तदन्तर्यामिणः । आत्मनः स्वस्यापि । अपरिज्ञेयं वीर्यं सामर्थ्यं यस्य तस्य । अथ रेतः-पातानन्तरम् । अवगतमाहात्म्यो भवस् तद् उद् आहृतमिति पदानि । आत्मन इतस्तत आहरणं पारवश्येन नयनं यत्तत् । उद् उत्कृष्टं न मेने । अहं कियान्कियदिदमिति मेने । महामाहात्म्यस्येदं नाद्भुतमिति भावः । एवं कर्तारो वर्तन्तेऽन्ये चेत् किमेवं मनन-मित्यतोऽप्याह ॥ मेने लक्ष्मीपताविति ॥ यदुदाहृतं तन्निष्ठतयोक्तं तन् न । अन्यत्र नेति मेने ज्ञातवानिति । उद् वियुक्तं वा न मेने । ‘उद्वियोगे प्राधान्ये च’ इति विश्वः ॥ ३४-३५ ॥
छलारी
रेतसि स्कन्ने पतिते सति देवस्य मायया मोहकशक्त्या जडीकृतं निर्व्यापार-मात्मानमपश्यत् । कश्मलाद्बुद्धिभ्रंशकरात्क्लेशात् सन्न्यवर्तत निवृत्तोऽभूत् ।
अपरिज्ञेयं सम्यग्ज्ञातुमशक्यं वीर्यं माहात्म्यं यस्य तस्य जगदात्मनो जगदन्तर्नियामक-स्यात्मनः परमात्मनोऽवगतं माहात्म्यं येन सः । रुद्रस्तदिह मायया स्वस्य जडीकरणमद्भुतं न मेने ॥ ३४-३५ ॥
लिङ्घेरी
हे नृपश्रेष्ठ । स रुद्रः स्वकीये रेतसि स्कन्ने भुवि पतिते सति जातसंज्ञः सन् आत्मानं स्वं देवस्य विष्णोर्मायया मोहनशक्त्या जडीकृतं मन्दजनवत्कामुकं कृतमपश्यत्ज्ञात-वान् । तदनन्तरं कश्मलात्परस्त्र्यनुधावनरूपात्सन्निवृत्तोऽभूत् ।
अथ जगत्स्वामिनः साकल्येन तदनुग्रहमन्तरेण चाज्ञेयसामर्थ्यस्य विष्णोरवगतमाहात्म्यः सन् सम्यग्ज्ञातसर्वचेतनोत्तमत्ववान्सन् तस्य विष्णोरुदाहृतं नारायणीरूपं दर्शयेति प्रार्थनासमये यत्सुरसत्तमेति वचनं तत्स्वसाम्याभिप्रायं न मेने । यच्च कामिनामकामिनां च कामजनकमिति तदुदाहृतं तच्चानृतं न मेने । यदपि त्वामपि मोहयिष्यामीत्यभिप्रायेणोक्तं तत्कामिनां च संकल्प-प्रभवोदयमिति तदुदाहृतं तत्प्राङ् न मेने । यतोऽथानन्तरमवगततत्स्वमोहकत्वरूपमाहात्म्य इत्यादियोजनाऽत्र द्रष्टव्या । अत एवोक्तं प्राक् भावगम्भीरमिति ॥ ३४-३५ ॥
तमविक्लवमव्रीडमालक्ष्य मधुसूदनः ।
उवाच परमप्रीतो बिभ्रत् स्वां पौरुषीं तनुम् ॥ ३६ ॥
पदरत्नावली
अविक्लवं स्वस्थाम् । अव्रीडं कामजनकलज्जारहितम् ॥ ३६ ॥
सत्यधर्मीया
अविक्लवमविह्वलम् । अव्रीडं परपारवश्येन भ्रमतो मम किमिदमिति वर्जितलज्जम् ॥ ३६ ॥
छलारी
अविक्लवं स्वच्छमनसमव्रीडं भवं तं लज्जारहितमालक्ष्य दृष्ट्वा स्वां पौरुषीं पुरुषाकारां तनुं बिभ्रत् ॥ ३६ ॥
लिङ्घेरी
मधुसूदनस्तं रुद्रमविक्लवमपरवशम् । स्वस्थमिति यावत् । अव्रीडं कामुकं लज्जारहितम् । आलक्ष्य दृष्ट्वा परमप्रीतः सन् स्वां पौरुषीं पुरुषरूपां तनुं बिभ्रत् सन् उवाच
॥ ३६ ॥
श्रीभगवानुवाच–
दिष्ट्या त्वं विबुधश्रेष्ठ स्वां निष्ठामात्मना स्थितः ।
यतो दुस्तरया स्वैरं मोहितोऽस्यङ्ग मायया ॥ ३७ ॥
पदरत्नावली
स्वां निष्ठां भक्तिलक्षणाम् । आत्मना मनसा । कुत इति तत्राह– यत इति ॥ ३७ ॥
सत्यधर्मीया
निष्ठां ज्ञाननिष्पत्तिम् । स्वां तिरोहितामिति पूर्वं विद्यमानम् । आत्मना मयैवास्थितः प्रापितः । इति यत्तद्दिष्ट्या । सुखम् । का यन्मामापेति श्रिपेत्थं लपसीत्यतो लपति ॥ यत इति ॥ दुस्तरया । मत्क्रियां विना तरितुमशक्यया । अङ्ग । हे भव । मायया स्वैरं मोहितोऽसि । अङ्गमायया अङ्गनाङ्गप्रदर्शितमाययेति वा । अत इदं दिष्ट्येति भावः । निष्ठा निष्पत्तिरिति विश्वः । निष्ठां स्वस्वरूपस्थितिं वा । आस्थित आत्मना मनसेति वा ॥३७॥
छलारी
स्वां निष्ठां मद्भक्तिलक्षणामात्मना मनसाऽऽस्थितः प्राप्त इत्येतद्दिष्ट्वा । आश्चर्यम् । कुतः । यतः । हे अङ्ग रुद्र । दुस्तरया तर्तुमशक्यया मायया बन्धकभूतया प्रकृत्या स्वैरमत्यन्तं मोहितोऽसि ॥ ३७ ॥
लिङ्घेरी
अंग हे प्रिय । विबुधश्रेष्ठ रुद्र । त्वं मम मायया मोहितोऽस्यनन्तरं दिष्ट्या मदिच्छयाऽऽत्मनस्तव स्वां निष्ठां स्थितिं स्थितो गतोऽसि । यत्तत्सा माया स्वैरं स्वेच्छया तर्तुमशक्येति भावः । ‘मामेव ये प्रपद्यन्ते मायामेतां तरन्ति ते’ इति स्मृतेः ॥ ३७ ॥
को नु मेऽतितरेन्मायां विषक्तस्त्वदृते पुमान् ।
तांस्तान् विसृजतीं भावान् दुस्तरामकृतात्मभिः ॥ ३८ ॥
पदरत्नावली
दुरन्ते जीवराशौ कश्चिन्मायां तरेत्, वैचित्र्यादिति तत्राह– ऋज्ञते त्वदिति ॥ विषये विषक्तः । ये ये विषयपाशबन्धकास्तांस्तान् भावान् (कामान्) ‘कश्चिद्धीरः प्रत्यगात्मानमैक्षत्’ इति श्रुतेः । माया तरणपटूनां सद्भावात् कथं कोऽन्वित्याक्षिप्यत इति तत्राह– दुस्तरामिति ॥ ३८ ॥
सत्यधर्मीया
त्वदृते को नु पुमान् । विषक्तस्तल्लग्नचित्तो मे मायामतितरेत् । सा कीदृशीत्यत ईदृशीत्याह ॥ तांस्तानिति ॥ अकृतात्मभिरशिक्षितमानसैर्दुस्तराम् । तत्र तन्त्रमाह । तांस्तान्भावान् इतरमोहकान् विलासान् सृजन्तीमुत्पादयन्तीमिति ॥ ३८ ॥
छलारी
अनन्ते जीवराशौ यः कश्चिन्मायामतितरेत्तज्जीवानां वैचित्र्यादतः किमाश्चर्य-मित्यत आह ॥ को न्विति ॥ विषक्तो विषयासक्तः को नु पुमान् त्वदृते त्वां विना मे मायामतितरेत् । ये ये बन्धकास्तांस्तान् भावान्विषयान्सृजतीम् । अकृतोऽनिगृहीत आत्मा मनो यैस्तैर्मनोजयरहितैर्दुस्तराम् ॥ ३८ ॥
लिङ्घेरी
हे रुद्र । त्वां विना को नु पुमान् स्त्र्यादिविषये विषक्तः प्रवृत्तान्तःकरणोऽपि तांस्तान् भावान् शृृङ्गादीन्प्रदर्श्य मानसविकारान्विसृजतीम् । अत एवाकृतात्मभिः परमात्मानु-ग्रहासंपादकैस्तर्तुमशक्यां मे मायामतितरेत् । ‘विकारो मानसो भाव’ इत्यमरः ॥ ३८ ॥
सेयं गुणमयी माया न त्वामभिभविष्यति ।
मया समेतं कालेन कामरूपेण भागशः ॥ ३९ ॥
पदरत्नावली
मदनुग्रहवतः सुतरेत्याह– सेऽयमिति ॥ भागश एकदेशेनापि ॥ ३९ ॥
सत्यधर्मीया
त्वदृते को नु तरेदित्यनेन मम सामर्थ्यमेतावदिति न भव भव भ्रान्त इति तात्पर्यं स्वयमाह ॥ सेयमिति ॥ गुणमयी सत्वादिगुणात्मिका । माया प्रकृतिः । त्वां नाभिभविष्यति पराभावयति । तत्र हेतुमाह ॥ मयेति ॥ कालेन तन्नामकेन कामरूपेणेच्छो-पात्तगात्रेण । मया भागश एकांशेन समेतमिति । ‘देवी ह्येषा गुणमयी मम माया दुरत्यया । मामेव ये प्रपद्यन्ते मायामेतां तरन्ति ते ॥’ इत्यादेः । कामांस्तत्तदिच्छाविषयान् निरूपयति प्रतिष्ठापयतीति स तथा तेनेति वा ॥ ३९ ॥
छलारी
मदनुग्रहतः सुतरेत्याशयेनाह ॥ सेयमिति ॥ गुणमयी सत्त्वादिगुणत्रयात्मिका सेयं माया प्रकृतिस्त्वां नाभिभविष्यति । मदनुग्रहपात्रस्य तव बन्धिका न भविष्यति । कथं भूता । कालेन सृष्ट्यादिनिमित्तेन सृष्ट्यादिकाले । सृष्ट्याद्यर्थमिति यावत् । कालरूपेण काल-नियामकेन मया भागश एकदेशेनापि समेता । मदधीनेत्यर्थः ‘दैवी ह्येषा गुणमयी मम माया दुरत्यया । मामेव ये प्रपद्यन्ते मायामेतां तरन्ति त ॥’ इत्युक्तेः ॥ ३९ ॥
लिङ्घेरी
हे रुद्र । गुणमयी सत्त्वादिगुणात्मिका सेयं माया जडप्रकृतिलक्षणा त्वां नाभि-भविष्यति भ्रान्ततया तिरस्कृतं न करिष्यति । तत्र निमित्तमाह ॥ मया समेतमित्यादिना ॥ कालाख्यरूपवता कालनाम्ना भागशोंऽशेन मया समेतं त्वामिति ॥ अयमभिप्रायः ॥ काल-नियामकतया संहर्तृतया च कालशब्दवाच्यस्त्वयि स्थितोऽहं यदा त्वां भक्तत्वेनानुगृण्हामि तदा त्वं भ्रान्तिमुक्तरूपां न यास्यसीति । मया सम्यगितो भक्ततया भ्रान्तो मा भूदित्यङ्गीकारं प्राप्त इति यत्सामर्थ्येनायमभिप्रायोऽवगम्यते । अन्यथा कालादिशब्दवाच्यभगवदंशस्य रुद्रे सर्वदा सत्वात्प्राक्तना रुद्रभ्रान्तिर्नोपपद्यत इति ज्ञातव्यम् ॥ ३९ ॥
श्रीशुक उवाच–
एवं भगवता राजन् श्रीवत्साङ्केन सत्कृतः ।
आमन्त्र्य तं परिक्रम्य सगणः स्वालयं ययौ ॥ ४० ॥
सत्यधर्मीया
सत्कृतो लालितः ॥ ४० ॥
छलारी
श्रीवत्सोऽङ्कं चिन्हं यस्य तेन हरिणा सत्कृतो रुद्र आमन्त्र्यानुज्ञां गृहीत्वा परिक्रम्य प्रदक्षणीकृत्य सगणः प्रमथादिभूतगणैः समेतः स्वालयं कैलासम् ॥ ४० ॥
लिङ्घेरी
हे राजन् । रुद्रो भगवता श्रीवत्सचिन्हवता सत्कृतः सन् तमामन्त्र्य परिक्रम्य प्रदक्षणीकृत्य सगणः सन् स्वाश्रमं ययौ ॥ ४० ॥
आत्मांशभूतां तां मायां भवानी भगवान् भवः ।
शंसतामृषिमुख्यानां प्रीत्या तुष्टाव भारत१ ॥ ४१ ॥
सत्यधर्मीया
शंसतां संस्तुवतामृषिमुख्यानां सताम् । भगवान् भवो भवानीं विलक्ष्य । आत्मांशभूतां परमात्मन एकदेशरूपिणीम् । तां मायां प्रीत्या मां किमिति स्तुवन्ति भवन्तस्तां स्तुवतेति स्वयं तां मायां तुष्टाव अस्तौषीत् । भवानीं भव इत्युक्तोपपत्तिकम् ॥ ४१ ॥
छलारी
भवो रुद्रो ऋषिमुख्यानां शंसतामात्मानं स्तुवतामात्मनः परमात्मनोंऽशभूतां स्वरूपांशभूतां तां स्वेन दृष्टां मायां स्त्रीरूपं प्रीत्या भवानीमुमां प्रीत्या अचष्टाब्रवीत् । तुष्टावेति पाठे भवानीं सम्बोध्येति शेषः । तां मायां तुष्टावेति योज्यम् ॥ ४१ ॥
लिङ्घेरी
हे भारत । आत्मनो विष्णोरंशभूतां मायां नारायणीरूपां भवानीं पार्वतीं प्रति ऋषिश्रेष्ठानां शंसतां कथयतां स्तुवतां सतां भगवान् भवः प्रीत्या तां मायां तुष्टाव स्तुतवान्
॥ ४१ ॥
अयि व्यपश्यस्त्वमजस्य मायां परस्य पुंसः परदेवतायाः ।
अहं कलानामृषभो विमुह्ये यया वशोऽन्ये किमुतास्वतन्त्राः ॥ ४२ ॥
सत्यधर्मीया
अये सति त्वं परदेवताया मदादिपरेष्टदेवस्य । परमपुंसः परमपुरुषस्या-जस्य विष्णोर्मायां व्यपश्यः किल । कलानां भगवद्विभूतीनाम् । कासाञ्चिन्मध्ये ऋषभः श्रेष्ठोऽपि सन्नहं यथा विमुह्ये मोहितोऽभवम् । अन्येऽनंशबाहुल्या अस्वतन्त्राः परतन्त्राः । मदधीना इति यावत् । ते मुह्येयुरिति किमुत न वक्तव्यमित्यर्थः । अहंकलानामिति पदमेकं वा । अह-मित्यव्ययमहन्तत्त्ववाची । अहं कलाश्च तासां कलानामृषभो विद्यास्वामी । ज्ञानसम्पन्न इति यावदिति वा ॥ ४२ ॥
छलारी
अयि उमे । त्वं परस्य पुंसः सर्वोत्तमपुरुषस्य परदेवताया अस्मदादीनामिष्ट-देवताया अजस्य विष्णोर्मायां व्यपश्यो विशेषेण दृष्टवत्यपि । कथम्भूताम् । यया मायया कलानां हरेर्भिन्नांशानां विभूतिरूपाणां मध्ये ब्रह्माणं विना ऋषभः श्रेष्ठोऽहमवशः सन् विमुह्ये मोहं प्राप्तवान् । मदधीना अन्ये प्राणिनो विमुह्यन्तीति किमु ॥ ४२ ॥
लिङ्घेरी
हे भवानि । त्वं परस्योत्तमस्य पुंसोऽजस्य विष्णोर्मायां नारायणीरूपां त्वं व्यपश्योऽप्यद्राक्षीः । किं च परदेवताया विष्णोः कलानामंशवताम् ऋषभः श्रेष्ठोऽप्यहं वशोऽपि वशीकृतान्तःकरणोऽपि यया मामया विमुह्ये भ्रान्तोऽस्मि । मनोनिग्रहेऽस्वतन्त्रा अन्ये विमुह्येयु-रिति किमुत ॥ ४२ ॥
यं मामपृच्छस्त्वमुपेत्य योगात् समासहस्रान्त उपारतं वै ।
स एष साक्षात् पुरुषः पुराणो न यत्र कालो विशते न वेदः ॥ ४३ ॥
सत्यधर्मीया
समासहस्रान्ते । समानां संवत्सराणां सहस्रं तस्यान्ते । सहस्राणि तेषामन्त इति वा । समायाः सहस्राणि तेषामन्त इति वा । हायनोऽस्त्री शरत्समा इति नित्यबहुवचनान्तः समाशब्द इत्यमरज्ञापनात् कथमेकवचनान्तविग्रह इति चेन्न । समष्टम-वैक्लव्ये । समान्ति विक्लवं कुर्वन्ति सर्वामिति अपचाद्यचि डाप् तदन्तत्वा डात् । समं विजायत इति सूत्रात् समासमामिति तद्भष्याच्च वचनान्तरमस्तीति ज्ञायते । समान्ति सह ऋतवो वर्तन्तेऽस्यामिति वा । मा माने आतश्चोपसर्ग इत्यङ् । समासंवत्सरे स्त्रियामिति रत्नकोशाच्चैक-वचनं च सम्भवति । प्रायिकाभिप्रायपरो वाऽमरः पामरो वेति ज्ञेयम् । यद्यपि विनैतच्चर्चां श्लोकव्याकृतिर्भवति चेदपि प्रायेणैकवचनान्तप्रयोगो दुर्मिलः । एकवचनता चैतस्य बोधनीयेति विग्रहप्रदर्शनमुखेन सा बोधितेति सन्तोष्टव्यम् । योगात् समाध्यादेस्तपसः । उपारतम् । कं प्रति तपः पते भव भवता क्रियत इति मां प्रति त्वमुपेत्यापृच्छः पृष्टवती । स एषः साक्षात्त्वयेदानीं प्रत्यक्षीकृतपुराणः सर्वदेहवर्ती । पुरुषो न सुलभं तज्ज्ञानम् । किन्तु दययैवेवं जातमित्याह ॥ यत्रेति ॥ यत्र यस्मिन् कालो न विशते विशति स्वकार्यं कर्तुमसुशकमित्याशयः । वेदः सोऽपि न विशति साकल्येन प्रतिपादयितुं न शक्तः । ‘यतो वाचो निवर्तन्त’ इति श्रुतेः ॥ ४३ ॥
छलारी
हरिमाहात्म्यं वर्णयति ॥ यमिति ॥ हे गौरि । त्वं समाः सहस्रान्ते समानां वत्सराणां सहस्रस्यान्तेऽवसाने योगाद्धरिविषयकध्यानलक्षणयोगादुपारतं विरतं मामुपेत्य यम-पृच्छस्त्वद्ध्यानविषयः कः कीदृश इत्येवं पृष्ठवत्यसि सम्यग्ध्यानविषय एषो ममापि मायामोहकः साक्षात्पुराणपुरुषो हरिः । स कीदृश इत्यस्योत्तरम् ॥ न यत्रेत्यादि ॥ यत्र भगवति कालो न विशते जन्मादिविकारं कर्तुं न शक्नोति । वेदश्च न विशते न प्रवर्तते । यं वेदोऽपि साकल्येन प्रतिपादयितुं न शक्नोति । ‘यतो वाचो निवर्तन्त’ इति श्रुतेः ॥ ४३ ॥
लिङ्घेरी
हे भवानि । त्वं योगादुपासनादिलक्षणात्समानां वर्षाणां सहस्रान्त उपारतं निवृत्तं मामुपेत्य यमपृच्छः पृष्टवत्यसि सः साक्षात्पुराणः पुरुष एष नारायणीरूपो यत्र विष्णोः कालः परिमितायुष्यज्ञापको जरादिविकारजनकश्च न विशते प्रविष्टो न भवति । वेदोऽपि यं साकल्येन प्रतिपादयितुं न विशते ॥ ४३ ॥
श्रीशुक उवाच–
इति तेऽभिहितस्तात विक्रमः शार्ङ्गधन्वनः१ ।
सिन्धोर्निर्मथने येन धृतः पृष्ठे महाचलः ॥ ४४ ॥
सत्यधर्मीया
शृृङ्गस्य विकारः शार्ङ्गं धनुः । अनुदात्तादेश्चेत्यञ् । अस्यास्तीति स शार्ङ्गधन्वा । वा संज्ञायामीत्यनुङ् । तस्य । धन्विन इति पाठे व्रीह्यादिरिनिः शार्ङ्गधन्विनः
॥ ४४ ॥
छलारी
पञ्चमाध्याये उपक्रान्तं चाक्षुषमन्वन्तरेऽवतीर्णस्य हरेरजितनाम्नोऽमृतमथनार्थं मन्दरोद्धरणादिविक्रममुपसंहरति ॥ इतीति ॥ हे तात । शार्ङ्गधन्विनोऽजितनाम्नो हरेर्येनाजितेन । कूर्मरूपेणेति शेषः ॥ ४४ ॥
लिङ्घेरी
हे तात कृपास्पदपरीक्षित् । मया ते तव सिन्धोः क्षीरसमुद्रस्य मथनकाले येन महाचलो मन्दरः पृष्ठे धृतस्तस्य शार्ङ्गधन्वनो हरेर्विक्रम इति उक्तप्रकारेण कथितः ॥ ४४ ॥
एतन्मुहुः कीर्तयतोऽनुशृृण्वतो न रिष्यते जातु समुद्यमः क्वचित् ।
यदुत्तमश्लोकगुणानुवर्णनं समस्तसंसारपरि(भ्र)श्रमापहम् ॥ ४५ ॥
पदरत्नावली
उत्तमश्लोकस्य हरेर्गुणानुवर्णनं समस्तसंसारपरिश्रमविनाशनमिति यद्यस्मात् तस्मान्निरन्तरमेतदनुशृृण्वतः कीर्तयतः पुरुषस्य समुद्यतः समीचीनः प्रयत्नो जातु न रिष्यते न नश्यति । रीङ् क्षते ॥ ४५ ॥
सत्यधर्मीया
उत्तमैः श्लोक्यते स । उद्गतं तमो ग्लानिरज्ञानम् अन्यथाज्ञानं वा यस्मात्स । श्लोकः कीर्तिर्यस्य तस्य । गुणानामनुवर्णनम् । समस्तो यः संसारे परिभ्रमो भ्रमणं संसाराद् यः परिश्रमस्तमपहन्तीति तत्तथा । अपेक्लेशतमसोरित्युक्तत्वेप्यन्येष्वपीति डः । मुहुर्य-त्कीर्तयतोऽनुशृृण्वतश्चाधिकारिणो जनस्य । समुद्यमः समीचीनफलोपलम्भक उद्योगः । जातु कथञ्चित् कदाचित् क्वचिद्देशे न रिष्यते । रीङ् क्षये । न नश्यति । सफलमेव सदा भविष्यतीति भावः ॥ ४५ ॥
छलारी
अजिताख्यानकीर्तनादिना फलमाह ॥ एतदिति ॥ यद्यस्मादुद्गच्छति नश्यति । तमो मिथ्याज्ञानं यस्मात्स उत्तमो मिथ्याज्ञाननाशक इत्यर्थः । एतादृशः श्लोकः कीर्तिर्यस्मा-द्यस्येति वा । तस्य हरेर्गुणानामनुवर्णनं समस्तसंसारपरिश्रमं संसारदुःखमपघ्नन्ति नाशयतीति तथोक्तम् । तस्मादेतदतीतचरितम् । मुहुर्निरन्तरं कीर्तयतोऽनुशृृण्वतश्च पुरुषस्य कश्चित्स्वा-पेक्षयैहिकामुष्मिककार्यमात्रविषये समुद्यमः प्रयत्नो जातु कदाचिदपि न रिष्यते न नश्यति । सार्थक एव भवतीति भावः ॥ ४५ ॥
लिङ्घेरी
एतादृशं शार्ङ्गधन्विनो वीर्यं शृृण्वतः पुनःपुनरनुकीर्तयतश्चोद्यम उद्योग ऐहिकपारत्रिकसाधनः क्वचित्कस्मिन्विषयेऽपि जातु कदाचिदपि न रिष्यते क्षयवान्न भवति । यस्मात्कारणादुत्तमैर्ब्रह्मादिभिः स्तुत्यः श्लोकः कीर्तिर्यस्य तस्य हरेर्गुणानुवर्णनं तद्गुणश्रवणं च समस्तसांसारिकश्रमनाशकं तस्मात्तदुभयं मुमुक्षुणाऽवश्यमनुष्ठेयम् ॥ ४५ ॥
असदविषयमङ्घ्रिं भावगम्यं प्रपन्ना-
नमृतममरवर्यानाशयत् सिन्धुमथ्यम् ।
कपटयुवतिवेषो मोहयन् यः सुरारीं-
स्तमिममुपसृतानां कामपूरं नतोऽस्मि ॥ ४६ ॥
॥ इति श्रीमद्भागवते अष्टमस्कन्धे एकादशोऽध्यायः ॥
पदरत्नावली
निरन्तरमनुस्मरणार्थं पूर्वोक्तगुणविशिष्टत्वेन तं श्रीनारायणं नमति असद-विषयमिति ॥ यो भावेन भक्त्या गम्यं प्राप्यं, चासतामभक्तानामविषयमङ्घ्रिं प्रपन्नानमरवर्यान् सिन्धोर्मथनोद्भूतममृतमाशयदपाययत् । कीदृशः ? कपटयुवतिवेषः । सुरारीन् असुरान् मोहयन् उपसृतानां शरणं गतानां पुंसां कामपूरम् अभीष्ठदं तमिमं श्रीनारायणं नतोऽस्मीत्यन्वयः । अनेनैवंविधे भगवति भक्तिः कर्तव्येति सिद्धमित्युक्तं भवति ॥ ४६ ॥
॥ इति श्रीमद्भागवतटीकायां विजयध्वजतीर्थभिक्षुकृतायाम्
अष्टमस्कन्धे एकादशोऽध्यायः ॥
सत्यधर्मीया
एतावता स्तुतभगवद्गुणः शुकस्तत्परवशाशयः स्वयं नमति ॥ असद-विषयमिति ॥ योऽसदविषयमसतामविषयम् । अङ्घ्रिम् । भावो भक्तिस्तया गम्यं पादमूलम् । प्रपन्नान् अमरवर्यान् सिन्धुमथ्यम् । तन्मथनाज्जातममृतम् । कपटयुवतिवेषः सुरारीन् मोहयन् सन् । आशयत्प्राशयामास । गतिबुद्धीति द्विकर्मकता आशयच्चामृतं देवानितिवत् । तेषां तोषद-श्चेत्किमायातं भवतोऽस्माकं च महिष्या धृतमनीषच्चेन् माहिषस्य किमायातमित्याभाणक-विषय-वदित्यत आह ॥ तमिममिति ॥ उपसृतानां कामपूरं कामान् काम्यानिच्छाविषयान् पूरयतीति स तथा तम् । नतोऽस्मि । उपसरणमात्रमस्मत्कृत्यं तदपि स एव कारयित्वा तत्फलं प्रयच्छतीति भावः । असदविषयं तदप्राप्यं भावगम्यं भक्तये कव्यंग्यमङ्घ्रिम् । अधिर्गत्यर्थ इति ज्ञानार्थः । असदविषयोऽङ्घ्रिः समीचीनं ज्ञानं तम् । प्रपन्नान् अमरवर्यान् इदानीं सिन्धुमथ्यम-मृतमाशयदनन्तरममृतंमित्युक्तिः । व्यक्तिसुखरसम् अराण्या इति । सिन्धुमथनव्यक्तं माशयदेष्य-न्न्यायेन । यच्च सुरारीन् । ‘सुरा हरेर्गुणाः प्रोक्ता’ इत्युक्तगुणानाम् अरयो हरौ । तेनापि तु ईश्वरोऽहम् आढ्योऽभिजनवानस्मि कोऽन्योऽस्ति सदृशो मयेत्यादिप्रकारेण स्वेषु तांश्चिन्तयन्तो मिथ्याज्ञानिनः । एतत्पक्षे अमरवर्यान् पूर्वदेवानित्यर्थः । कपटयुवतिवेषो लोके कपटकामिनी-वेषः । कपटकः कुत्सितः पटः गजचर्म वा दिशो वा यस्य स कपटकः । तं प्रति युवतिवेषः प्रदर्शितो येन सः । ‘स एष स्त्री एष पुरुष’ इत्युक्तेः । स्वाभाविको भवति भगवति कामिन्याकार इति । वेषपदं चातदाकारतदाकारप्रदर्शकवाची च भूषामेतत्पक्षे भजते । मोहयन् सिन्धुमथ्यं विषमाशयदिव यस्तमिमम् । उपसृतानाम् । उप इति सर्वाधिक इति सृतं ज्ञानं येषां तेषाम् । कामपूरमभिलषितपूरकम् । उपसृतं सृतिर्येषामुपलक्षणतया प्रमिततम आदिग्रहस्तेषां कामपूरम् । वन्ध्येच्छानां पुरो हि सद्यो येन स तम् । इमं प्राप्स्ये मनोरथमित्यादेः । कामानेव पूरयतीति स तथा वा तम् । एतादृशं भगवन्तं नतोऽस्मीत्यपि विवृण्वन्ति ॥ ४६ ॥
॥ इति श्रीसत्यधर्मयतिकृतायां भागवतटिप्पण्याम् अष्टमस्कन्धे एकादशोऽध्यायः ॥ ८–११ ॥
छलारी
भगवता कृतं भक्तपक्षपातं स्मरन्नमस्करोति ॥ असदिति ॥ असताम-भक्तानामविषयमप्राप्यं किन्तु भावेन भक्त्या गम्यमङ्घ्रिचरणं प्रपन्नान् अमरवर्यान् सिन्धुमथ्यं सिन्धोर्मथने जातममृतं यो हरिरश्यदपाययत् । उपसृतानां शरणागतानां पुंसां कामरूपमभीष्टप्रदं तं हरिमहं नतोऽस्मीत्यन्वयः । कथम्भूतः सन् । कपटयुवतिवेषो । कापट्यर्थं दैत्यवञ्चनार्थं युवत्याः स्त्रियो वेषो यस्य सः सुरारीन्मोहयन् सन् । अनेनैवंविधे भगवति भक्तिः कर्तव्येति सूचितं भवति ॥ ४६ ॥
॥ इति श्रीछलारी शेषाचार्यकृतायां श्रीभागवतटिप्पण्याम्
अष्टमस्कन्धे एकादशोऽध्यायः ॥ ८–११ ॥
लिङ्घेरी
एवं भगवद्गुणकीर्तनोद्रिक्तभक्तिः शुक उक्तगुणं भगवन्तं स्तुवन्नमति ॥ असदविषयमिति ॥ यो हरिः सिंधोः क्षीरसमुद्रमध्ये मथनजममृतमसतामभक्त्यादिदोषवताम-सुराणामविषयं तत्साधनागोचरमप्राप्यम् । भावेन भक्त्या सतां भक्तानां प्राप्यम् । स्वस्याङ्घ्रिं पादपद्मं प्रपन्नान् शरणागतान् अमरवर्यान्देवश्रेष्ठान् आशयद्भोजयामास । पाययामासेति यावत् । किं कुर्वन् । सुरारीनसुरान् कपटेन छद्मना युवतेः स्त्रियो वेषेण नारायण्याख्येन मोहयन्सन् । अहं तं तादृशगुणमिमं स्वपादसमीपं पूजाद्यर्थमुपसृतानां प्राप्तानां कामानामभिलाषाणां पूरकं नतोऽस्मि
॥ ४६ ॥
॥ इति श्रीलिङ्घेरी श्रीनिवासाचार्यकृतायां श्रीभागवतटिप्पण्यां
अष्टमस्कन्धे एकादशोऽध्यायः ॥ ८–११ ॥