अथो सुराः प्रत्युपलब्धचेतसः परस्य पुंसः परयाऽनुकम्पया
॥ अथ दशमोऽध्यायः ॥
श्रीशुक उवाच–
अथो सुराः प्रत्युपलब्धचेतसः परस्य पुंसः परयाऽनुकम्पया ।
जघ्नुर्भृशं शक्रसमीरणादयस्तांस्तान् रणे यैरभिसंहताः पुरा ॥ १ ॥
पदरत्नावली
देवासुरयुद्धमुपक्रम्य हरिररिणा कालनेमेः शिरोऽच्छिनदित्युपसंहृतम् । तत्रामरा मृता उत पलायिताः, विनष्टमरणधर्माणां तेषां विनाशायोगात् पलायनमेव ग्राह्यम् । भगवताऽनुगृहीतबलानां तदप्ययुक्तम् । अतस्तैः किमकारीति तत्राह– अथो इति ॥ अनेन हरेरनुग्रहेणैव जयोऽन्यथा पराजय इत्ययमर्थः स्पष्टित इति ध्वनयति ॥ १ ॥
सत्यधर्मीया
प्रथमत उपक्रान्तममरासुरयुद्धं तत्र हरिणाऽरिणाऽरिशिरोहरणं मध्येऽ-भिहितम् । नावगतं किममराः समरे मृताः किं वा पलायिताः किं वा कौतुकावलोकनपरा न्यस्तशस्त्रहस्तास्तत्रैव तस्थुरित्यतो नाद्योऽनवद्यः । पीतामृततया निर्मृतेः । नापि पलायनादि-द्विकमपि सम्भवि । स्वध्यानमाविर्भूतभगवदाप्यायितत्वात्तेषामतः किमकुर्वन्सुपर्वाण इत्यतो वर्णयति ॥ अथो इति ॥ प्रत्युपलब्धानि चेतांसि येषां ते तथा । समाश्वस्तमानसा इति यावत् । तत्र तन्त्रम् ॥ परस्येत्यादि ॥ यैर्यैरभिसंहितास्तांस्तानिति पदमेकम् । ते ते पिबन्तु जिह्वयेति भाष्यटीकादिकमुदाहृत्य व्याख्यातं षष्ठे विलोकनीयं यैयैरित्यपरस्य शेषो ज्ञेयः ॥ १ ॥
छलारी
भगवता कालनेम्यादिदहनानन्तरं देवाः किमकुर्वन्निति तत्राह ॥ अथो इति ॥ प्रत्युपलब्धान्याप्याहितानि चेतांसि येषां ते । शक्रसमीरणाविन्द्रवायू आदिर्येषां ते । पुरा द्वन्द्वयुद्धकाले यैर्दैत्यैरभिसंहतास्तान् भृशं जघ्नुः ॥ १ ॥
लिङ्घेरी
अथोऽनन्तरं, शक्र इन्द्रः समीरणो वायुरादिर्येषां ते तथा सन्तः स्वयं पूर्वं यैर्यैरसुरैरभिसङ्गता योद्धुं मिलितास्तांस्तान् भृशमत्यन्तं जघ्नुः शस्त्रैस्ताडितवन्तः ॥ १ ॥
वैरोचनाय संरब्धो भगवान् पाकशासनः ।
उदयच्छद् यदा वज्रं प्रजा हाहेति चुक्रुशुः ॥ २ ॥
पदरत्नावली
तत्र बलिवासवयोः प्रसक्तं युद्धं किमभूत् ? अत्राह– वैरोचनायेति
॥ २ ॥
सत्यधर्मीया
तत्र बलिबलभिदोर्मुख्यतया तत्संख्यमाख्याति ॥ वैरोचनाय बलय इति
॥ २ ॥
छलारी
तत्र बलिवासवयोः प्रसक्तं युद्धं किमभूत्तत्राह ॥ वैरोचनायेति ॥ वैरोचनाय बलये संरब्धः कुपितः पाकशासन इन्द्र उदयच्छदुद्धृतवान् ॥ २ ॥
लिङ्घेरी
यदा भगवानैश्वर्यादिषड्गुणोपेतः पाकाख्यमसुरं शास्ति शिक्षतीति पाकशासन इन्द्रः संरब्धः कोपाटोपयुक्तः सन् वैरोचनाय विरोचनपुत्रबलये वज्रायुधमुदयच्छद्दातुमुद्यतस्तदा प्रजा जना असुरप्रकृतयो हाहेत्यतिखेदः समागतोऽस्माकमिति चुक्रुशुरार्तध्वनिं चक्रुः ॥ २ ॥
वज्रपाणिस्तमाहेदं तिरस्कृत्य पुरः स्थितम् ।
मनस्विनं सुसम्पन्नं विचरन्तं महामृधे ॥ ३ ॥
पदरत्नावली
तत्र शत्रुं प्रहरिष्यता योधेन स्वपौरुषं प्रकाश्य प्रहर्तव्यमिति न्यायमनु-सन्दधानो वज्रमुद्धृत्य वज्रपाणिस्तं वक्ति(इत्याह) वज्रपाणिरिति ॥ ३ ॥
सत्यधर्मीया
सम्पादितहरिकृपासम्पत्कत्वादमेघायुधत्वात्किञ्चिद्वैरिकुत्सनभर्त्सनपूर्वकं स्वपौरुषप्रदर्शनवचनं योद्धृसम्प्रदायप्राप्तमिति वज्रमुद्यम्यादौ वाग्वज्रमसृजच्छक्र इत्याह ॥ वज्रपाणिरित्यादिभिश्चतुर्भिः पद्यैः ॥ ३ ॥
छलारी
शत्रुं प्रधृष्यता योधेन स्वपौरुषं प्रकाश्य प्रहर्तव्यमिति न्यायमनुसंदधानो वज्र-मुद्धृत्य व्रजपाणिस्तं वक्ति ॥ वज्रपाणिरिति ॥ तं बलिं तिरस्कृत्यागणयित्वा मनस्विनं युद्धो-त्साहवन्तं सुसंपन्नं युद्धसाधनसमृद्धम् ॥ ३ ॥
लिङ्घेरी
वज्रपाणिरिन्द्रः स्वस्य पुरोऽग्रे स्थितं युद्धे सुमनस्कं शस्त्रास्त्रैः सुसम्पन्नं महामृधे विचरन्तं बलिं तिरस्कृत्येदं वक्ष्यमाणं वचनमाहोक्तवान् ॥ ३ ॥
**इन्द्र उवाच— **
नटवन्मूढ मायाभिर्मायेशान् नो जिगीषसि ।
जित्वा बालान् निबद्धाक्षान् यथा हरति१ तद्धनम् ॥ ४ ॥
पदरत्नावली
स्वपौरुषप्रकटनमपि प्रतिभटनिन्दापूर्वकमित्यतस्तं निन्दति– जित्वेति ॥ कश्चित् खल इन्द्रजालादिना निबद्धाक्षान् बालान् जित्वा नभ आकाशं चाच्छाद्य तेषां धनं यथा ये मायाभिः कपटमिश्रव्रतैर् दिवं परलोकम् आरुरुक्षन्ति, ततोप्युत्सिसृक्ष्यन्ति ऊर्ध्वं गन्तु-मिच्छन्ति, अहं तान् दस्यून् पूर्वस्माच्चक्रवर्तिपदादधो विधुनोमि । चशब्दात् ततस्ततो विधूयाधो निक्षिपामि कदाप्यूर्ध्वदर्शनरहितान् करोमीत्यर्थः । ‘यत्र नार्यपच्यवमुपच्यवं च शिक्षते’ इत्यत्र यथोपमा लुप्ता तथाऽत्रापि । ‘मायाभिस्तूत्सिसृप्सत इन्द्राद्यामारुरुक्षतः । अवदस्पूरधूनुथाः’ इत्यृचं प्रमाणयति ॥ ४-५ ॥
सत्यधर्मीया
नटोऽत्रैन्द्रजालिको मायया नयनबन्धसाधनीभूतया योजनत्रितयपर्यन्तं प्रसरन्त्या । बालांस्तद्विद्याऽज्ञान्निबद्धाक्षान्जित्वा । तद्धनं बालधनं यथा हरति, त्वं तन्नट-वन्मायाभिर्मायेशान् मायाया ईशास्तत्स्वामिनस्तान् । अथवा । मायाया ईशो मायेशः । सोऽस्त्येषामिति मायेशास्तान् । तत्स्वामिकानिति यावत् । तस्मिन्प्रविष्टेऽसुरकूटकर्मजा माया विनेशुरिति पूर्वमुक्तेरस्मान्जिगीषसीति मायेशत्वज्ञानहीनत्वं मूढेत्युक्तितो द्योतयति । नभो हरतीति पाठे नभ आकाशं चाच्छाद्येत्यर्थः । अनेनोपरिस्थानामपि ज्ञानाभावार्थं तद्बन्धो ध्वन्यते । नभो मन्त्रज्ञान्तरसमागमप्रयत्ननैष्फल्यं स्यादित्याकाशं जित्वा प्राप्य तद्धनं हरतीति वा । जिः प्राप्त्यर्थतया षष्ठे छान्दोग्यभाष्याद्युदाहृतिविवृतोऽनुसन्धेयः । न विद्यते भाः प्रकाशो यस्मिंस्तद्धनं तत्र तेषां तम एव दृश्यत इति भाव इति वा । न विद्यते भा यस्य । कोऽपि मन्त्रकोविद आगच्छेदिति निष्कान्तिरिति वा ॥ ४ ॥
छलारी
इन्द्रजालाभिर्बद्धान्यक्षाणि चक्षूंषि येषां तान् बालान् जित्वा । नटः कपट-वृत्तिर्यथा तेषां धनं हरति । तथात्वं मूढवन्मायेशान्मायानियामकान्नो मायाभिर्जेतुमिच्छासि ॥४॥
लिङ्घेरी
हे मूढ कर्तव्यज्ञानरहित बले त्वं नटवदैन्द्रजालिकवन्मायाभिरिन्द्र जालादिभि-र्मायेशान्नोऽस्मान् जेतुमिच्छसि । ऐन्द्रजालिको बालानविवेकिनः स्वमायया निबद्धाक्षान् आवृत्त-दृष्टीन् कृत्वा तद्बालधनं नभः स्वावकाशस्थलं नयति हि ॥ ४ ॥
आरुरुक्षन्ति मायाभिरुत्सिसृप्सन्ति१ ये दिवम् ।
तान् दस्यून् विधुनोम्यज्ञान् पूर्वस्माच्च पदादधः ॥ ५ ॥
सत्यधर्मीया
मायाभिरुत्सिसृप्संतमिन्द्राद्यामारुरुक्षतः । अवदस्यून्रघूनथा इति ऋगर्थ-गर्भितोऽयं श्लोकः । इयमृक् टीकाकारचरणैः श्रीहरिपरतया व्याख्याता । हे परमेश्वर कुविद्या-भिरुत्तमत्वं प्राप्तुमिच्छतः स्वर्गमारोढुं चेच्छतो दस्यूनन्धे तमस्यवाक्षिप इति ज्ञानपाद-स्थाधिकरणतत्त्वप्रकाशिकायाम् । अत्र तु प्रसिद्धेन्द्रपरतया कथं योज्यम् । त इत्यनुयोज्यम् । परममुख्यामुख्यार्थत्वाभ्यां तदेतत्प्रवृत्तिरिति न विरोधः । ‘पूर्वप्रसिद्धवर्जं तु शक्रान्ता देवता मता’ इत्यादेर्न निषिषिधुरमुमर्थं च । ऋचि उत्सिसृप्सत इति पूर्वं तदनन्तरमारुरुक्षत इति सति क्रमे बलिः स्वर्गाधिपत्यकामुक इति कोपवश इन्द्र इति द्योतनायोक्तिविपर्यय इति मन्तव्यम् । ये मायाभिः कुविद्यया उत्सिसृप्संत्युत्तमत्वं प्राप्तुमिच्छन्ति दिवं स्वर्गं चारुरुक्षन्त्यारोढुमिच्छन्ति दस्यून्प्रकाशतस्करान्स्तान्दस्यूंस्तानिवेति वा । तच्छब्दस्येवार्थकत्वं यद्वचनान्तं विशेष्यं तद्वचनान्ताव्ययत्वेन विशेषणं चेति पूर्वव्युत्पादितप्रकारेण ज्ञेयम् । पूर्वस्मात्पदादधस्तदर्वाक्तने देशे विधुनोमि क्षिपामीत्यर्थः । यद्यपीयम् ऋगिन्द्रिं प्रति वेदपुरुषोदिता । तथापि स्वविषये यमिति बोधयितुमिन्द्रोऽन्ववादीदिति ज्ञेयम् ॥ ५ ॥
छलारी
मत्प्रभावं शृृण्वित्याह ॥ आरुरुक्षन्तीति ॥ ये मायाभिः कपटवृत्तेर्दिवं परलोकमारुरुक्षंत्यारोढुमिच्छन्ति । ततोऽप्युत्सिसृक्ष्यन्ति ऊर्ध्वं मोक्षं गन्तुमिच्छन्ति । तान्दस्यू-न्पूर्वस्मात्पदादपि चक्रवर्तिपदादप्यधो विधुनोमि पातयामि । ‘मायाभिस्तूत्सिसृप्सन्तमिन्द्राद्या-मारुरुक्षत’ इति श्रुतेः ॥ ५ ॥
लिङ्घेरी
हे बले । ये जना मायाभिः कपटकर्मभिर्दिवं स्वर्गमारुरुक्षंत्यारोढुं प्राप्तुमिच्छन्ति ततः स्वर्गादप्युत्सिसृक्ष्यन्त्यूर्ध्वलोकं गन्तुमिच्छन्त्यहं तान्दस्यूंश्चोरान्कपटिनः स्वायोग्यापेक्षा न कर्तव्येति ज्ञानशून्यान्पूर्वस्मात्पूर्वं प्राप्तात्पदात्स्थानाद्विधुनोम्यधश्च्यावयामि । तस्माच्चाधः-स्थानादप्यधो विधुनोमि । आरुरुक्षन्तीत्यादिपदानुकरणेनात्र मायाभिस्तूत्सिसृप्सन्तमिन्द्राद्यामारु-रुक्षतः, अवदस्यून् रघूनथा इत्यृचं प्रमाणयति ॥ ५ ॥
सोऽहं दुर्मायिनस्तेऽद्य वज्रेण शतपर्वणा ।
शिरो हरिष्ये मन्दात्मन् घटस्व ज्ञातिभिः सह ॥ ६ ॥
सत्यधर्मीया
मन्दात्मन् क्षुद्रमनस्क । ज्ञातिभिर् दैतेयैः सह घटस्व चेष्टावान् भव । यत्नं कुर्विति यावत् ॥ ६ ॥
लिङ्घेरी
हे मन्दात्मन् मूढचेतनबले । स उक्तगुणोऽहं दुष्टकर्मिणस्ते तव शिरः शत-ग्रन्थिना वज्रेण हरिष्ये । अतस्त्वं ज्ञातिभिः सगोत्रैरसुरैः सह घटस्व युद्धोद्योगं कुरुष्व ॥ ६ ॥
बलिरुवाच–
सङ्ग्रामे वर्तमानानां कालेनोदितकर्मणाम्१ ।
कीर्तिर्जयोऽजयो मृत्युः सर्वेषां स्युरनुक्रमात् ॥ ७ ॥
सत्यधर्मीया
सङ्ग्रामे वर्तमानानां सर्वेषामुदितं कर्म येषां ते तथा तेषां तदुदयः कालिक इत्याह ॥ कालेनेति ॥ उत्तरत्रत्या जयमृत्युशब्दानुकूल्या ये कालेनोदितमुत्कर्षेण दितं खण्डितं गतं फलानर्पकं कर्मैषामिति व्याख्येयम् । अनुक्रमात् कदाचिज्जयः कादाचित्त्कोऽपजय इत्यनु-क्रमात् । कालचोदितकर्मणां कालनोदितकर्मणामिति स्फुटार्थो पाठौ ॥ ७ ॥
छलारी
कालेन कालनाम्ना हरिणा चोदितानि प्रेरितानि कर्माणि येषां तेषाम् । हरिणा तत्तत्कालक्लृप्तकर्मभोक्तॄणामित्यर्थः । अनुक्रमात्कदाचिज्जयः कदाचिदपजय इत्येवं क्रमेण सर्वेषामपि स्युः ॥ ७ ॥
लिङ्घेरी
एवमिन्द्रोदितबलिरिन्द्रं वक्ति ॥ सङ्ग्राम इति ॥ हे इन्द्र । युद्धे वर्तमानानां कालाख्यरूपिणस्तवेति दशमस्कन्धोक्तरीत्या कालशब्दवाच्यहरिणा नोदितानि प्रेरितानि कर्माणि पुण्यपापरूपाणि येषां तेषां सर्वेषां वीर्याणां कीर्तिर्यशोऽकीर्तिश्च जयोऽनभिभवोऽजयोऽशिवो मृत्युरपमृत्युश्चेत्येतेऽनुक्रमात्क्रमेण स्युर्भविष्यन्ति ॥ ७ ॥
तमिमं कालरशनं जनाः पश्यन्ति सूरयः ।
न हृष्यन्ति न शोचन्ति तत्र यूयमपण्डिताः ॥ ८ ॥
पदरत्नावली
रशनं रज्जुः ॥ ८ ॥
सत्यधर्मीया
तमिममपजयादिकम् । कालरशनं कालाख्या रशना रज्जुर्यस्य तम् । तद्बद्धमिति यावत् । सूरयो जना इति सामानाधिकरण्येनान्वयः । ते पश्यन्त्यतो न हृष्यन्ति । तत्प्रापके सति । एवं न शोचन्ति । तत्र सुखदुःखसमताविषये यूयमपण्डिता अनिपुणा अधिषिणा अन्यथैवंविधमुधाभाषणं न स्यादिति भावः ॥ ८ ॥
छलारी
तमिमं कीर्तिजयादि कालरशनं कालयन्त्रितं सूरयो ज्ञानिनो जनाः पश्यन्ति । अतो न हृष्यन्ति न शोचन्ति च । तत्रैवं विवेकविषये यूयमपण्डिता अनिपुणाः ॥ ८ ॥
लिङ्घेरी
सूरयो ज्ञानिनो जनास्तं पूर्वोक्तमिमं कालरशनं कालाख्यभगवदिच्छारज्जुं पश्यन्ति जानन्तीत्यतः स्वेषां जयादौ प्राप्ते सति न हृष्यन्ति सन्तोषं न प्राप्नुवन्ति । अपजयादौ च न शोचन्ति । कालशब्दितस्वादृष्टप्रेरकनारायणस्वातन्त्र्यज्ञत्वात् । तत्र तस्मि-न्विषये स्वातन्त्र्ये यूयमपण्डिता अज्ञानिनोऽत एवं ब्रूथ ॥ ८ ॥
न वयं मन्यमानानामात्मानं तत्र कारणम् ।
गिरो वः साधु शोच्यानां गृह्णीमो मर्मताडनाः ॥ ९ ॥
पदरत्नावली
तत्र जयादौ आत्मानं स्वं कारणं मन्यमानानां वो गिरः साध्विति न गृह्णीमः । मर्मण्येव ताडनं यासां तास्तथोक्ताः ॥ ९ ॥
सत्यधर्मीया
मम तु माऽस्तु तादृशी शेमुषी । ते तु तथा भवन्तु, भवतः किमित्यतः स्वस्य तदस्तीति वदन्ति ॥ न वयमिति ॥ वयं समशेमुषय आत्मानम् । तत्र कारणं कालेश्वरादिकमन्तरेण स्वयमेव कारणं मन्यमानानां साधुशोच्यानां साधुभिः समदर्शिभिः शोच्यानां ‘वृथा दुरभिमानिनो नश्यन्ति’ इति शोकार्हाणाम् । साधु यथा भवति तथेति वा । वो युष्माकं गिरो नटवन्मूढेत्यादिवाचो मर्मताडना अरुन्तुदस्तत्त्वेन न गृह्णीमो न स्वीकुर्मो दुःखिनो वयं न तदनुसन्धानेन स्यामेति भावः । मर्माणि ताडयन्तीति, तेषां ताडनं याभिरिति वा ताः ॥ ९ ॥
छलारी
एवं कार्यादिभगवदधीनत्वात्स्वाधीनत्वं मन्यमानानां वोऽहं शिरो हरिष्य इत्यादिवचनं मूर्खप्रलाप एवेत्याशयेनाह ॥ नेति ॥ वयं तत्र कीर्तिजयादावात्मानं स्वं कारणं साधनं मन्यमानानाम् । शोच्यानां शोकार्हाणाम् । अज्ञानिनामिति यावत् । वो युष्माकं गिरो वचनानि साध्विति न गृह्णीमो नाङ्गीकुर्मः । कथम्भूता गिरः । मर्मसु ताडनं याभिस्ताः । मर्मभेदकवचनेन किं प्रयोजनमिति भावः ॥ ९ ॥
लिङ्घेरी
वयं तत्र जगदावात्मानं जीवं कारणं स्वतन्त्रं मन्यमानानामत एव साधुभिर् हरिस्वातन्त्र्यज्ञैरेते वृथा नष्टा इति शोच्यानां वो युष्माकं मर्मताडना गिरो न गृह्णीमो नाङ्गीकुर्मः
॥ ९ ॥
श्रीशुक उवाच–
प्रत्याक्षिप्य१ विभुं वीरो नाराचैर्वीरमर्दनः ।
आकर्णपूर्णैरहनदाक्षेपैराहतं पुनः ॥ १० ॥
सत्यधर्मीया
वीरमर्दनो वीरो बलिर्यश्च प्रागाक्षेपैस्तिरस्काररूपवचनैराह तं विभुमिन्द्रं पुनः प्रत्याक्षिप्य तिरस्कृत्य । आकर्णपूर्णैर्नाराचैरहनदित्यन्वयः । अतो नाक्षिप्येति प्रागुदीरणा-दाक्षेपैराहतमित्यतिरिक्तं, केवलानुवादरूपताकल्पनं च जघन्यमिति निरस्तम् ॥ १० ॥
छलारी
वीरो बलिर्विभुमिन्द्रमित्याक्षिप्य विनिन्द्याकर्णपूर्णैः कर्णपर्यन्तमाकृष्टैर्नाराचैः शरै-रहनत् । कीदृशमाक्षेपैर्निन्दारूपवचनैराहतम् ॥ १० ॥
लिङ्घेरी
वीरः पराक्रमी अत एव प्रतिवीरान्मर्दयतीति मर्दनो बलिर्विभुमिन्द्रमित्याक्षिप्य तिरस्कृत्य कर्णपर्यन्तमाकृष्टैर्नाराचैर्बाणैः पुराऽऽक्षेपैस्तिरस्कारवचनैराहतमपि पुनरहनत्तताड
॥ १० ॥
एवं निराकृतो देवो वैरिणा तथ्यवादिना ।
नामृष्यत् तदधिक्षेपं तोत्राहत इव द्विपः ॥ ११ ॥
सत्यधर्मीया
तथ्यवादिना यथार्थभाषिणा । तोत्रं वेणुकमालानामित्यमरः । तेन हतो हस्तीव नामृष्यन् न सेहे ॥ ११ ॥
छलारी
तथ्यवादिना भगवदधीनमित्येवंरूपयथार्थवादिना । तदधिक्षेपं बलिकृत-धिक्कारम् । तोत्रेणांकुशेनाहतो द्विपः गज इव ॥ ११ ॥
लिङ्घेरी
तथ्यं यथा वदतीति वादी तेन । वैरिणा शत्रुभूतेन बलिनैवमुक्तप्रकारेण निराकृतो देव इन्द्रः, तोत्रेण गमनार्थं गजबोधककाष्ठेनाहतो द्विपो गज एव तत्कृतमधिक्षेपं नामृष्यन् न सेहे ॥ ११ ॥
प्राहरत् कुलिशं तस्मा अमोघं परमर्दनम् ।
सयानो न्यपतद् भूमौ छिन्नपक्ष इवाचलः ॥ १२ ॥
सत्यधर्मीया
तस्मै कुलिशं पत्येशेत इत्यादिवच्चतुर्थी द्वितीयार्थे । कुलिशमिति द्वितीया च तृतीयैव । सयानः सविमानः ॥ १२ ॥
छलारी
कुलिशं वज्रं तस्मै बलये परमर्दनः शत्रुसंहारी सयानो विमानसहितः ॥१२॥
लिङ्घेरी
अनन्तरमिन्द्रस्तस्मै बलयेऽव्यर्थं शत्रुमर्दकं कुलिशं वज्रं प्राहरद् वज्रेण तं तताड । स बलिर्वज्रेणाहतः सन् छिन्नपक्षोऽचलः पर्वत इव सयानो भूमौ न्यपतत् ॥ १२ ॥
सखायं पतितं दृष्ट्वा जम्भो बलिसखः सुहृत् ।
अभ्ययात् सौहृदं सख्युर्हतस्यापि समाचरन् ॥ १३ ॥
सत्यधर्मीया
बलेः सखा । बलिसखष् टच् । बली चासौ, सखः खानीन्द्रियाणि तैः सहितः सहोरित्यादिवत्प्रशस्तेन्द्रिय इत्यर्थः । सहितः खैरिति सखः बलिभिर्बलवद्भिः सख इति बलिष्ठसखसहित इति योग्यतालभ्योऽर्थ इति वा । सुहृद् दृढमनस्कः सखायं बलिं पतितं दृष्ट्वा हतस्य तत्प्रायस्य बलेः सख्युः सौहृदं समाचरन्नभ्ययात् सख्युर्जीवतो बन्धुवर्गस्य सौहृदं समाचरन्निति वाऽन्वयः ॥ १३ ॥
छलारी
पतितं मृतम् । जम्भस्तन्नामासुरः सुहृत्स्नेहवान् । सख्युर्बलेः ॥ १३ ॥
लिङ्घेरी
जम्भोऽसुरो यतः स्वयं बलेः सखाऽतः स्वस्य सखायं बलिं भूमौ पतितं दृष्ट्वा तस्मिन्सुहृदत्यन्तस्नेहयुक्तान्तःकरणः सन् हतस्य मृतस्यापि बलेः सौहृर्दं स्नेहं समाचरन्सन् इन्द्रमभ्ययाद् युद्धार्थमभिमुखो जगाम ॥ १३ ॥
स सिंहवाह आसाद्य गदामुद्यम्य रंहसा ।
जत्रावताडयच्छक्रं गजं च सुमहाबलः ॥ १४ ॥
सत्यधर्मीया
सिंहवाहो जम्भो रंहसा वेगेन शक्रमासाद्य गजं च जत्रौ जत्रुणि । सन्धी तस्यैव जत्रुणीत्यमरः । जश्वादेश्चेति साधु । गलाधस्तनस्थलेऽताडयत् । आसादनमात्रस्य समुच्चायकश्चः । शक्रपक्षे न ताडनस्य नीरोगतया रथारोहणभाषणस्वारस्यात् ॥ १४ ॥
छलारी
सिंहवाहो जम्भासुरः । जत्रौ कण्ठे ॥ १४ ॥
लिङ्घेरी
सिंहवाहनः सुमहाबलः स जंभासुरः शक्रमिन्द्रमासाद्य गदामुद्यम्योद्धृत्य रंहसा वेगेन जत्रौ कण्ठकूबरेऽताडयत् । गजमैरावतं चाताडयत् ॥ १४ ॥
गदाप्रहारव्यथितो भृशं विह्वलितो गजः ।
जानुभ्यां धरणीं स्पृष्ट्वा कश्मलं परमं ययौ ॥ १५ ॥
सत्यधर्मीया
विह्वलितश्चञ्चलः सन् कश्मलं सम्मोहम् ॥ १५ ॥
छलारी
विह्वलितः कम्पितः । कश्मलं मूर्च्छाम् ॥ १५ ॥
लिङ्घेरी
गज ऐरावतो गदाप्रहरेण व्यथोपेतो भृशमत्यन्तं विह्वलितश्चञ्चलीकृतश्च सन् जानुभ्यां धरणीं भूमिं स्पृष्ट्वा परममत्यन्तं कश्मलं मूर्च्छां ययौ ॥ १५ ॥
ततो रथो मातलिना हरिभिर्दशशतैर्वृतः ।
आनीतो द्विपमुत्सृज्य रथमारुरुहे विभुः ॥ १६ ॥
सत्यधर्मीया
दशशतैः सहस्रसङ्ख्यैः । हरिभिरश्वैर्वृतो रथो मातलिना तन्नामक-सूतेनानीतः । द्विपमैरावतम् । उत्सृज्य ततः । तं रथं गच्छन्तमेवारुरुहे विभुरिन्द्र आरुरोह । रथ गताविति स्मरणात् । गच्छत एवारोहे नैपुण्यं लाघवं चेन्द्रस्य द्योतिते भवतः ॥ १६ ॥
छलारी
मातलिना हरिभिरश्वैः । विभुरिन्द्रः ॥ १६ ॥
लिङ्घेरी
तत ऐरावतस्य भूमौ जानुभ्यामुपवेशानन्तरं दशशतसंख्याकैर्हरिभिरश्वैर्वृतो रथो मातलिनेन्द्रसारथिनाऽऽनीतः । विभुरिन्द्रस्तं द्विपमैरावतमुत्सृज्य रथमारुरुहे ॥ १६ ॥
तस्य तत् पूजयन् कर्म यन्तुर्दानवसत्तमः ।
शूलेन ज्वलता तं तु स्मयमानोऽहनन्मृधे ॥ १७ ॥
सत्यधर्मीया
यन्तुः सूतस्य । आहवे वाहने क्लिष्टे तत्क्षणे स्यन्दनानयनरूपं तत्कर्म । तं तु यन्तारमपि ॥ १७ ॥
छलारी
दानवसत्तमो जम्भासुरः । तस्य यन्तुः सारथेः कर्म समयोचितं रथयानम्
॥ १७ ॥
लिङ्घेरी
दानवेषु दनुपुत्रेषु सत्तमोऽत्युत्तमो जंभस्तस्येन्द्रस्य यन्तुः सारथेस्तत्कर्म गजपाते रथदानरूपं पूजयन् बहुमानयन् स्मयमानश्च सन् मृधे ज्वलता शूलेन तं तु मातलिनमहनत् ॥ १७ ॥
सेहे रुजं सुदुर्मर्षं सत्वमालम्ब्य मातलिः ।
इन्द्रो जम्भस्य संक्रुद्धो वज्रेणापाहरच्छिरः ॥ १८ ॥
सत्यधर्मीया
सुदुर्मर्षमन्यैः ॥ १८ ॥
छलारी
सुदुर्मर्षं सोढुमशक्यं रुजम् । शूलप्रहारं सेहेऽसहत् । सत्त्वं धैर्यमालम्ब्याश्रित्य
॥ १८ ॥
लिङ्घेरी
मातलिः, सुतरां दुःखे प्राप्तेऽपि सहनशीलो यतो रुजं शूलताडनजमुपद्रवं सत्त्वं शारीरशक्तिमाश्रित्य सेहे मर्षितवान् । अथेन्द्रः संक्रुद्धः सन् वज्रेण जंभस्य शिरोऽपाहरत् ॥१८॥
जम्भं श्रुत्वा हतं तस्य ज्ञातयो नारदादृषेः ।
नमुचिश्च बलः पाकस्त्रयोऽपेयुस्त्वरान्विताः ॥ १९ ॥
सत्यधर्मीया
तेषां नामान्याह ॥ नमुचिरिति ॥ आर्षो गुण इति । त्रय अपेयुरिति वा छेद उपेयुरित्यर्थः । अपेयुरिति छेदः । अप पालकरहित अस्मदागमनानन्तरमिति सम्बोध्य ईयुरिति वा ॥ १९ ॥
छलारी
नमुचिर्बलः पाकश्चेति ये ज्ञातयः ॥ १९ ॥
लिङ्घेरी
तस्य जंभस्य ज्ञातयो नमुचिर्बलः पाकश्चेत्येते नारदर्षेः सकाशाज्जंभं हतं श्रुत्वा त्वरान्विताः सन्तस्तत्र युद्ध अपेयुः समागताः ॥ १९ ॥
वचोभिः परुषैरिन्द्रं मर्दयन्तो१ऽस्य मर्मसु ।
शरैरवाकिरन् मेघा धाराभिरिव पर्वतम् ॥ २० ॥
सत्यधर्मीया
इन्द्रं परुषैर्वचोभिर्मर्दयन्तः । इन्द्रमर्दयन्त इति निरनुस्वारद्रकार एकः पाठो दृश्यते । तत्रार्दनं मर्दनं चानुरूपमिति सरलः । अस्येन्द्रस्य मर्मसु शरैरवाकिरन् । तदभिन्नं वर्षणं चक्रुरिति भावः ॥ २० ॥
छलारी
परुषैर्निष्ठुरैः । अवाकिरन् जघ्नुः । मेघधाराभिर्मेघवद्वर्षैः ॥ २० ॥
लिङ्घेरी
नमुच्यादयः परुषैर्निष्ठुरैर्वचोभिरिन्द्रं मर्मसु मर्दयन्तः सन्तो मेघा धाराभिः पर्वतमिवेन्द्रं शरैरवाकिरन् ॥ २० ॥
हरीन् दशशतानाजौ हर्यश्वस्य बलः शरैः ।
तावद्भिरर्दयामास युगपल्लघुहस्तवान् ॥ २१ ॥
सत्यधर्मीया
दशशतं तदात्मसङ्ख्या येषु तान्हरीन् अश्वान् । हर्यश्वस्य हरिहयस्य । हरिरश्वो यस्य सः । हरी इन्द्रस्य रोहितोऽग्नेरित्यादेः । श्यामौ मूर्धनि वा शोणाविति ऋग्भाष्य-टीकायां यतः शक्राश्वौ श्यामौ प्रमितावित्युक्तत्वेऽपि बहूनां हरिद्वर्णत्वेन तत्वव्यपदेश इति न विरोधः । ‘त्वक्केशबालरोमाणि सुवर्णाभानि यस्य तु । हरिः सुवर्णतोऽश्वस्तु पीतकौशेयसप्रभ ॥’ इति शालिहोत्रवचनं च सुवर्णस्य नानावर्णनामत्वेन पञ्चम बृहदारण्यकभाष्योक्तत्वेन सावकाश-मिति न बबाधे । हरिर्हरित्कपिलवर्णयोरिति विश्वः । तावद्भिः सहस्रैः । लघू क्षिप्रकारिणौ च तौ हस्तौ च तावस्य स्त इति स तथा ॥ २१ ॥
छलारी
बलादीनां त्रयाणां पृथग्विक्रममाह ॥ हरीनिति त्रिभिः ॥ बलिस्तन्नामको हर्यश्वस्येन्द्रस्य हरीन् परितो विद्यमानान्हयान् तावद्भिर्दशशतान् । लघुहस्तवान् लाघवयुक्त-हस्तवान् ॥ २१ ॥
लिङ्घेरी
बलोऽसुरो हरयः श्वेता अश्वा यस्य तस्येन्द्रस्य शतसंख्याकान् हरीनश्वानाजौ रणे तावद्भिर्दशशतसङ्ख्यैः शरैर्युगपद्येकदाऽर्दयामास । यतो लघुहस्तवान् शीघ्रबाण-मोचनादि-चातुर्योपेतहस्तः ॥ २१ ॥
शताभ्यां मातलिं पाको रथं सावयवं पृथक् ।
सकृत्सन्धानमोक्षेण तदद्भुतमभूद् रणे ॥ २२ ॥
पदरत्नावली
शताभ्यां शतद्वयेन । सन्धानयुक्तमोक्षेण मौर्व्यां सन्धानं ततो मोक्षणं च सकृद्युगपदिति । तत्कर्मकरणं पश्यतामिति शेषः ॥ २२ ॥
सत्यधर्मीया
शताभ्यां सकृदेकदैव तावच्छरसन्धानेन सहितो मोक्षस्त्यागश्च तेनार्दया-मासेत्यनुषञ्जनीयम् । तदेव मर्दनं रणेऽद्भुतमभूत् । पश्यतामिति शेषः ॥ २२ ॥
छलारी
पाकस्तन्नामकदैत्यः शताभ्यां पृथगेकेन शरशतेन मातलिमन्येन शरशतेन सावयवं चक्रोद्यतं सहितरथं सकृत्सन्धानयुक्तमोक्षणमौर्व्यां शरसन्धानं तन्मोक्षणं च युगपदेवेति तत्कर्मकरणम् । पश्यतामिति शेषः । अद्भुतमभूत् ॥ २२ ॥
लिङ्घेरी
पाकोऽसुरो बाणानां शताभ्यां शतद्वयेन मातलिं रथं चावयवशः सर्वेष्ववयवेषु पृथक् तताड । रणे तस्य तत्कर्म सकृद्युगपदेव बाणानां सन्धानसहितमोक्षणेन निमित्तेन पश्यता-माश्चर्यकरमभूत् ॥ २२ ॥
नमुचिः पञ्चदशभिः स्वर्णपुङ्खैर्महेषुभिः ।
आहत्य व्यनदत् सङ्ख्ये सतोय इव तोयदः ॥ २३ ॥
सत्यधर्मीया
मुचिलृ मोक्षणेऽस्मान्न मुञ्चतीति नमुचिः । इगुपथात्किदितीन् । न भ्राडित्यादिना प्रकृत्या नञ् ॥ २३ ॥
छलारी
स्वर्णपुङ्खैः । पुङ्खो नाम शरमूलप्रदेशः । आहत्येन्द्रं विध्वा । सङ्ख्ये युद्धे
॥ २३ ॥
लिङ्घेरी
नमुचिरसुरः सङ्ख्ये युद्धे पञ्चदशसङ्ख्याकैः स्वर्णखचितपुङ्खैर्ज्यासंयोज्यपृष्टैर्महद्भिः स्थूलैरिषुभिर्बाणैरिन्द्रमाहत्य तोयेनोदकेन सहितः सतोयस्तोयदो मेघ इव व्यनदन्नादं चकार
॥ २३ ॥
सर्वतः शरकूटेन शक्रं सरथसारथिम् ।
छादयामासुरसुराः प्रावृट्सूर्यमिवाम्बुदाः ॥ २४ ॥
सत्यधर्मीया
प्रावृडिति प्रथमा सप्तम्यर्थे । प्रावृषः सूर्यो वर्षाकालवर्ती तं वा ॥२४॥
छलारी
शरकूटेन शरसमूहेन प्रावृट्सूर्यं वर्षाकालीनसूर्यम् ॥ २४ ॥
लिङ्घेरी
असुराः, अम्बूनि जलानि ददतीत्यंबुदा मेघाः, प्रावृषो वर्षाकालस्य सूर्यमिव शराणां कूटेन समूहेन रथसारथिभ्यां सहितं शक्रं सर्वतश् छादयामासुः ॥ २४ ॥
अलक्षयन्तस्तमतीव विह्वला विचुक्रुशुर्देवगणाः सहानुगाः ।
अनायकाः शत्रुबलेन निर्जिता वणिक्पथा भिन्ननवो यथाऽर्णवे ॥ २५ ॥
पदरत्नावली
भिन्ननवः भिन्ननावः ॥ २५ ॥
सत्यधर्मीया
अर्णवे वणिक्पन्थाः । वणिजां पन्था येषां ते तथा । चिरन्तनाभ्य-स्तवाणिज्यात्तत्कालोचितालोचितेन कथं कथञ्चित्पारङ्गता भवेयुरेते तु नूतना इति ध्वन्यते वाणिक्पथा इत्यनेन । भिन्ननवो भिन्ननावः । अपि माषं मषं कुर्याच्छन्दोभङ्गं न कारये-दित्यादेः । यथा तथा विचुक्रुशुः ॥ २५ ॥
छलारी
तमिन्द्रमलक्षयन्तोऽपश्यन्तोऽनायका नाथरहिताः । अर्णवे भिन्ना नौर्येषां ते भिन्ननाव इत्यर्थः । वणिक्पथा वणिजां भिन्नपन्था वृत्तिर्येषां ते वणिजो यथाऽऽक्रोशं कुर्वन्ति तद्वत् ॥ २५ ॥
लिङ्घेरी
सहानुगा देवगणास्तमिन्द्रमलक्षयन्तोऽपश्यन्तोऽतीव चञ्चला अनायका रक्षक-स्वामिरहिताः शत्रुबलेन निर्जिताः सन्तः समुद्रे विदारितनावो व्यवहारिणो यथा तथा विचुक्रुशुः
॥ २५ ॥
ततस्तुराषाडिषुबद्धपञ्जराद् विनिर्गतः साश्वरथध्वजोऽग्रणीः१ ।
बभौ दिशः खं पृथिवीं च रोचयन् स्वतेजसा सूर्य इव क्षपात्यये ॥२६॥
पदरत्नावली
तुराषाडिन्द्रः । आखण्डलस्तुराषाडिति हलायुधः ॥ २६ ॥
सत्यधर्मीया
तुराषाट् । तुर त्वरणे । इगुपधेति कः । तुरं वेगवन्तं साहयत्यभि-भावयति । अधेः प्रहसन इति सूत्रे प्रहसनमभिभव इति वृत्तेःण्यन्तात्सहेः क्विप् । सहेः साडः स इति षत्वम् । अन्येषामपीति पूर्वपदस्य दीर्घः । आङ् पूर्वको वा सहिः । बाणबद्धात् पञ्जरात् । अग्रणीर्यन्ता । क्षपा रात्रिः ॥ २६ ॥
छलारी
तुराषाडिन्द्र इषुबद्धपञ्जराच्छरनिर्मितपञ्जरात्साश्वरथध्वजाग्रणीरश्वादिभिः सहितो विनिर्गतोऽग्रणीः सारथिः । क्षपाया निशाया अत्यये नाशे सति ॥ २६ ॥
लिङ्घेरी
तुरां वैरिवेगं सहतीति तुराषाडिन्द्रोऽश्वरथध्वजश्रेष्ठसहितः सन् बाणबद्ध-पञ्जराद्विनिर्गतः सन् क्षपाया रात्र्या अत्ययेऽपगमे सति स्वतेजसा सूर्य इव दिशः खमाकाशं पृथिवीं च रोचयन् बभौ । तुराषाण्मेघवाहनः । त्रियामा क्षणदाक्षपाः । ‘अनन्तं सुरवर्त्म खम्’ इति चामरः ॥ २६ ॥
निरीक्ष्य पृतनां देवः परैरभ्यर्दितां रणे ।
उदयच्छद् रिपून् हन्तुं वज्रं वज्रधरो रुषा ॥ २७ ॥
सत्यधर्मीया
उदयच्छदुद्दधार ॥ २७ ॥
छलारी
पृतनां सेनामुदयच्छदुद्धृतवान् ॥ २७ ॥
लिङ्घेरी
वज्रधरो देव इन्द्रः, परैः शत्रुभिरसुरैः स्वस्य पृतनां सेनामभ्यर्दितां निरीक्ष्य रुषा कोपेन रणे रिपून् असुरान्हन्तुं वज्रमुदयच्छदुद्धृतवान् । ‘वाहिनी पृतना चमूः । कोपक्रोधा-मर्षरोषप्रतिघारुट्क्रुधौ’ इत्यमरः ॥ २७ ॥
स तेनैवाष्टधारेण शिरसी बलपाकयोः ।
ज्ञातीनां पश्यतां राजन् जहार जनयन् भयम् ॥ २८ ॥
सत्यधर्मीया
अष्टौ धारा अराणि यस्य स तथा ॥ २८ ॥
छलारी
अष्टधारा अस्त्रा यस्य तेन वज्रेण ज्ञातीनां बलपाकबान्धवानाम् ॥ २८ ॥
लिङ्घेरी
स इन्द्रोऽष्टधारेण तेनैव वज्रेण बलपाकयोः शिरसी पश्यतां ज्ञातिनां भयं जनयन्सन् जहार ॥ २८ ॥
नमुचिस्तद्वधं दृष्ट्वा शोकामर्षरुषान्वितः ।
जिघांसुरिन्द्रं नृपते चकार परमोद्यमम् ॥ २९ ॥
सत्यधर्मीया
रुषाशब्दोऽयम् ॥ २९ ॥
छलारी
आमर्षोऽसहनशोकाभ्यां युक्तया रुषा क्रोधेनान्वितः सन् इन्द्रं जिघांसुः परमोद्यमं चकार ॥ २९ ॥
लिङ्घेरी
हे नृपते । नमुचिरसुरस्तद्बलपाकवधं दृष्ट्वा शोकासहिष्णुताकोपसहितः सन् इन्द्रं हन्तुमिच्छुरत्युद्योगं चकार ॥ २९ ॥
अश्मसारमयं शूलं घण्टावद्धेमभूषणम् ।
प्रगृह्याभ्यद्रवत् क्रुद्धो नमुचिर्दानवोत्तमः ॥ ३० ॥
सत्यधर्मीया
अश्मसारमयं लोहात्मकम् । घण्टा अस्य सन्तीति घण्टावत् ॥ ३० ॥
छलारी
अश्मसारमयं शिलासारात्मकं घण्टावद्घण्टाभिर्युक्तम् ॥ ३० ॥
लिङ्घेरी
तदेव दर्शयति ॥ अश्मेत्यादिना ॥ दानवोत्तमो नमुचिरयोविकृतं घण्टायुक्तं सुवर्णभूषितं शूलं प्रगृह्य क्रुद्धः सन् इन्द्रमभ्यद्रवत् । अश्मसारमय इति कोशः । सुवर्णं हेमहाटकमिति च ॥ ३० ॥
तदाविध्य महावीर्यो हतोऽसीति वितर्जयन् ।
प्राहिणोद् देवराजाय निनदन् मृगराडिव ॥ ३१ ॥
सत्यधर्मीया
वितर्जयन्विशेषेण भर्त्सयन् ॥ ३१ ॥
छलारी
वितर्जयन् भीषयन् देवराजायेन्द्राय प्राहिणोच्चिक्षेप । मृगराडिव सिंह इव नदन् गर्जयन् ॥ ३१ ॥
लिङ्घेरी
महावीर्यो नमुचिस्तच्छूलमाविद्ध्य भ्रामयित्वा देवराजायेन्द्राय त्वं हतोऽसीति विसर्जयन् मुंचन् मृगराट् सिंह इव नदन् ध्वनिं कुर्वन् प्राहिणोच्चिक्षेप ॥ ३१ ॥
तदापतद् गगनतले महाजवं निचिच्छिदे हरिरिषुभिः सहस्रधा ।
तमाहनन् नृप कुलिशेन कन्धरे रुषाऽन्वितस्त्रिदशपतिः शिरो हरन् ॥ ३२ ॥
पदरत्नावली
हरिरिन्द्र आकाशतले आपतन्महावेगं शूलमिषुभिः सहस्रधा निचिच्छिदे नितरामच्छिनत् । कन्धरे कण्ठे, शिरो हरन् छिन्दन् तमाहनदित्यन्वयः ॥ ३२ ॥
सत्यधर्मीया
महाजवं गगनतल आपतत् । तच्छूलं हरिरिन्द्रः । इषुभिर्बाणैः सहस्रधा निचिच्छिदे नितरां चिच्छेद । तं च, कन्धरे कन्धराऽस्मिन्प्रदेशेऽस्ति स कन्धरस्तत्प्रदेशे, शिरो हरंस्त्रिदशपती रुषान्वितः । कुलिशेनाहनत् ॥ ३२ ॥
छलारी
हरिरिन्द्रो गगनतले आकाशेऽपतत् । शूलं चिच्छेद । तं नमुचिं कन्धरे ग्रीवायां शिरो हरन् आहनत् ॥ ३२ ॥
लिङ्घेरी
हे नृप । त्रिदशपतिर्हरिरिन्द्रो गगनस्याकाशस्य तले प्रदेश आपतदागच्छन्महान् जवो वेगो यस्य तच्छूलमिषुभिः सहस्रधा चिच्छेद । कुलिशेन वज्रेण पुनरपि रुषान्वितः सन् तन्नमुचिकं शिरो धरतीति कन्धरः कण्ठस्तस्मिन्नहनत् । तेन तस्य शिरोऽहरद् अपहृतवान् चिच्छेद । कुलिशं भिदुरं पविरित्यमरः ॥ ३२ ॥
ततोऽस्य न त्वचमपि वज्र ऊर्जितो बिभेद यः सुरपतिनौजसेरितः ।
तदद्भुतं परमतिवीर्यवृत्रभित् तिरस्कृतो नमुचिशिरोधरत्वचा ॥ ३३ ॥
पदरत्नावली
ततः किमभूत् ? तत्राह– तत इति ॥ तिरस्कृतो धिक्कृतः ॥ ३३ ॥
सत्यधर्मीया
ऊर्जितो तपसा । अस्य नमुचेस्त्वचमपि चर्मापि य ओजसा । सुरपति-नेरितः सोऽपि न बिभेद । तदभेदनं परमद्भुतं महाश्चर्यम् । अतिवीर्यो यो वृत्रस्तं भिनत्तीति स तथा । नमुचिशिरोधरत्वचा तिरस्कृतस्तेनातिवीर्यवृत्रभिदिन्द्रोऽपि तिरस्कृत इति वा । तदेवं तिरस्करणं परमद्भुतमिति वा ॥ ३३ ॥
छलारी
यः सुरपतिनौजसा बलेनेरितः क्षिप्तः स वज्रः । तस्य नमुचिकण्ठस्य त्वचमप्युपरितनचर्मापि न बिभेद । तत्परमद्भुतम् । कुतः । यतोऽतिवीरं वृत्रासुरं भिनत्तीति तथा । तादृशोऽपि वज्रो नमुचेः शिरोधरस्य कन्धरस्य त्वचा तिरस्कृतो धिक्कृतः ॥ ३३ ॥
लिङ्घेरी
ततः सुरपतिनेन्द्रेणोजसा शक्त्येरितः क्षिप्तोऽपि ऊर्जित उत्कृष्टोऽपि वज्रो यः सोऽस्य नमुचेस्त्वचमपि कण्ठस्थानं न बिभेदेति यत्तदद्भुतं परं केवलम् । एवमतिवीर्यमसुरं वृत्रं भिनत्ति विदारयतीत्यतिवीर्यवृत्रभिदपि इन्द्रो नमुचिशिरोधरभागकण्ठत्वचा तिरस्कृतः ॥ ३३ ॥
तस्मादिन्द्रोऽबिभेच्छत्रोर्वज्रः प्रतिहतो यतः ।
किमिदं दैवयोगेन भूतं लोकविमोहनम् ॥ ३४ ॥
पदरत्नावली
भूतं ग्रहलक्षणम् ॥ ३४ ॥
सत्यधर्मीया
तस्माददीर्णत्वचो नमुचेरबिभेद् भीतिमाप । लोकविमोहनम् । किमिदं दैवयोगेन भूतं जातमित्यर्थः ॥ ३४ ॥
छलारी
तस्माच्छत्रोर्नमुचेः प्रतिहतो निर्वीर्योऽबिभेद् भयं प्राप । किमिति । इदं वज्रा-प्रतिहतं वस्तु लोकस्य विमोहकरं भयङ्करमित्यर्थः । दैववशाल्लोकानामिदं मोघमिति भ्रान्ति-जनकम् । यद्वा । दैवयोगेन दैवसामर्थ्येन निर्मितं भूतम् । किं कश्चन ग्रहविशेषात् । इदं वज्रं निरस्तकरणं किं भूतं किं जातमिति ॥ ३४ ॥
लिङ्घेरी
यतो यस्मान्नमुचौ प्रयुक्तो वज्रः प्रतिहतस्तस्मात्कारणादिन्द्रः शत्रोर्नमुचेर् अबिभेद् भीतियुक्तोऽभूत् । लोकानामेतद्रणद्रष्टृणां जनानां विमोहनं भ्रान्तिजनकं दैवयोगे-नादृष्टप्रेरकेश्वरेच्छयेदं किं जातमिति चिन्तयामास ॥ ३४ ॥
येन मे पूर्वमद्रीणां पक्षच्छेदः प्रजात्यये ।
कृतो निविशतां१ भारैः पतत्त्रैः पततां भुवि ॥ ३५ ॥
तपःसारमयं त्वाष्ट्रं वृत्रो येन विपाटितः ।
अन्ये चातिबलोपेताः सर्वास्त्रैरक्षतत्वचः ॥ ३६ ॥
सोऽयं प्रतिहतो वज्रो मया मुक्तोऽऽसुरेऽल्पके ।
नाहं तदाददे वज्रं ब्रह्मतेजोऽप्यकारणम् ॥ ३७ ॥
पदरत्नावली
पतत्त्रैः पततां भारैर् भुवि निविशतामद्रीणाम् । तपःसारम् अयन्निति पदच्छेदः ॥ ३५-३७ ॥
सत्यधर्मीया
सदैवमेव किमपूर्वं जानासि पुरन्दरेत्यतस्तन्माहात्म्यमाह ॥ येनेति ॥ निविशतां निविशमानानाम् । पतत्त्रैः पततां भारैः प्रजात्यये प्रजानाशे प्रसक्ते मे मयाऽद्रीणां पूर्वं पक्षच्छेदः कृतो निर्विशतामिति निर्विशङ्कः पाठः ।
येन वृत्रो विपाटितः, सर्वास्त्रैरक्षतत्वचोऽन्ये चातिबलोपेता विपाटिताश्च । तत्तपः सारमयं दधीचेस्तपःसारात्मकं, त्वाष्ट्रं त्वष्ट्रा विश्वकर्मणा निर्मितं यद्वक्ष्यति ब्रह्मतेजोऽप्यकारणमिति तदिदमेवं भूतमिति परमद्भुतमित्यन्वयः । वज्रोऽस्त्री चक्रवज्रान्धकारेति चामरलिङ्गानुशासनात् तपःसारमयं त्वाष्ट्रमित्युपपद्यते । अत एव सोऽयं वज्रो, नाहं तदाददे वज्रमिति सम्भव-त्युत्तरोक्तिः ।
अल्पकेऽत्यल्पे । ब्रह्मतेजोऽपि दधीचेः प्रभावोऽकारणमकार्यकारि ॥ ३५-३७ ॥
छलारी
काऽत्र कथंतेत्यतो वज्रवीर्यमाह ॥ येनेति ॥ पूर्वं पतत्त्रैः पक्षैः पततां भारैर्भुवि निविशतां गुरुत्वेन निमित्तेन लोकोपरि पततानामद्रीणां पक्षच्छेदो येन वज्रेण कृतः । तत्र निमित्तम् । प्रजानामत्यये नाशे सति ।
तथा सारमयं वीर्याधिकं त्वाष्टृदेवतासम्बन्धि तपः । एवं वृत्रस्त्वाष्टृतपसा जात इत्यर्थः । यद्वा । तपः सारमय इति, त्वाष्ट्रं तपः सारमयच्छदिति वा पदच्छेदः ॥ त्वाष्ट्रं तपः सारमयत्प्राप्त इत्यर्थः । सोऽसुरो येन वज्रेण विपाटितो हतः । तथा सर्वास्त्रैरप्यक्षतत्व-चोऽच्छिन्नचर्माणः । बलोपेता अन्ये च बलश्च पाकादयो येन हता इत्यर्थः ।
अल्पके दुर्बलेऽसुरे नमुचौ मया मुक्तः सोऽयं वज्रः प्रतिहतो निर्वीर्योऽभूत् । तस्माद्दण्डं निर्वीर्यलकुटतुल्यं तद्वज्रमहं नाददे । स्वीकार्यं यतोऽतो ब्रह्मतेजोऽपि ब्रह्मणो दधीचिर्षेस्तेजोऽपि सामर्थ्यमप्यकारणं कार्यं कर्तुं क्षमं नाभूत् । वज्रस्य दधीचिर्षेरस्थिनिर्मितत्वाद्ब्रह्मतेज इत्युक्तम्
॥ ३५-३७ ॥
लिङ्घेरी
तमेव विशदयन्ति ॥ येनेत्यादिना ॥ येन वज्रेण मे मया पूर्वं पतत्त्रैः पक्षैः पततां भुवि ग्रामे ग्रामे निविशतामुपविश्यमानानामद्रीणां पर्वतानां भारैः प्रजानां जनानामत्यये नाशे सति पक्षच्छेदः कृतस्तत्तादृशं त्वाष्ट्रस्य दधीचेरस्थिनिर्मिततया त्वाष्ट्रं त्वाष्ट्राख्योत्तमतपःप्रचुरं च येन वज्रेण वृत्रोऽसुरो विपाटितो विदारितोऽन्येऽतिबलोपेताः । सर्वास्त्रैरक्षता अविदारितास्त्वचो येषां तेऽपि विपाटिताः । स तादृशगुणोऽयं वज्रो मया क्षुद्रतरेऽसुरे नमुचौ मुक्तः प्रतिहतो वृथाऽभूत् । तस्मादहं ब्राह्मणतपःसामर्थ्योपेतमप्यत्र नमुचिवधेऽकारणं तत्तं दण्डं वज्ररूपं नाददे न ग्रहिष्यामीति ॥ ३५–३७ ॥
इति शक्रं विषीदन्तमाह वागशरीरिणी ।
नायं शुष्कैरथो नार्द्रैर्वधमर्हति दानवः ॥ ३८ ॥
सत्यधर्मीया
शुष्कैः पदार्थैः । एवं नार्द्रैः ॥ ३८ ॥
छलारी
अशरीरिण्यशरीरस्य वायोः संम्बन्धिनी । विषीदन्तं खेदयुक्तमिन्द्रमाह ॥३८॥
लिङ्घेरी
इति विषीदन्तं क्लेशं कुर्वन्तं शक्रं प्रति हे इन्द्र अयं दानवो नमुचिः शुष्कैरथो आर्द्रैश्च वस्तुभिर्वधं मरणं नार्हतीत्यशरीरिणी वागाह ॥ ३८ ॥
मयाऽस्मै यद् वरो दत्तो मृत्युर्नैवार्द्रशुष्कयोः ।
अतोऽन्यश्चिन्तनीयस्ते उपायो मघवन् रिपोः ॥ ३९ ॥
पदरत्नावली
कुतो नार्हति वधम् ? अत्राह– मयेति ॥ कोऽयं वर इति तत्राह– मृत्युरिति ॥ ३९ ॥
सत्यधर्मीया
किं निमित्तमेवमिति हस्ते गृहीत्वा प्रष्टुं स्वाशरीरत्वेनाशक्तः शक्र इति दयावती सैव देव्याह ॥ मयेति ॥ आर्द्रशुष्कयोः सकाशात् । अत आभ्यां रिपोस्तद्धनन-सम्बन्धी ॥ ३९ ॥
छलारी
अयं कुतो वधं नार्हतीत्यत आह ॥ मयेति ॥ ब्रह्मस्वरूपेण मया किमिति वरो दत्त इत्यत आह ॥ मृत्युरिति ॥ आर्द्रशुष्कयोः पदार्थयोः सकाशान्मृत्युर्नैवेति । ते त्वया रिपोर्वधे उपायश्चिन्तनीयः ॥ ३९ ॥
लिङ्घेरी
हे मघवन् यस्मादस्मै नमुचये आर्द्रशुष्काभ्यां मृत्युर्नैव स्यादिति वरो दत्तोऽत एतस्मात्कारणात्ते रिपोर्नमुचेर्वधायान्य उपायश्चिन्तनीयः ॥ ३९ ॥
तां दैवीं गिरमाकर्ण्य मघवान् सुसमाहितः ।
ध्यायन् फेनमथापश्यदुपायमुभयात्मकम् ॥ ४० ॥
सत्यधर्मीया
ध्यायन् किं स्यादुभयरूपमिति चिन्तयन् उभयात्मकमाद्रमनार्द्रं चैकमेव
॥ ४० ॥
छलारी
मघवानिन्द्रः । सुसमाहित एकाग्रचित्तः सन् एतादृशं किमिति ध्यायन् फेनं जलविकारं वस्तु । अपभृष्टभाषया नोरे । उभयात्मकमनार्द्रमशुष्कं च ॥ ४० ॥
लिङ्घेरी
मघवान् धनादिसंपन्न इन्द्रस्तामुक्तप्रकारां दैवीं गिरमाकर्ण्य श्रुत्वाऽतिसमाधानो-पेतान्तःकरणः सन् यत्केवलशुष्कमार्द्रं च न भवति तादृग्वस्तु चिन्तयानः सन् शुष्कार्द्रोभयात्मकं फेनलक्षणमुपायमपश्यद्दृष्टवान् ॥ ४० ॥
नशुष्केण नचार्द्रेण जहार नमुचेः शिरः ।
तं तुष्टुवुर्मुनिगणा माल्यैश्चावाकिरन् विभुम् ॥ ४१ ॥
सत्यधर्मीया
शुष्को न भवतीति नशुष्क एवं नचार्द्रः । तथा च श्रुतिः । ‘अपां फेनेन नमुचेः शिर इन्द्रोदवर्तय’ इति नोपधः पुंसि । इनः फेन इति लिङ्गानुशासनव्याख्यानोक्तेः पुल्लिङ्गः फेनशब्दः । तं विभुमिन्द्रम् ॥ ४१ ॥
छलारी
उभयात्मकं विवृण्वन्नाह ॥ न शुष्केण न चार्द्रेण फेनेनेति ॥ तथा च श्रुतिः । ‘अपां फेनेन नमुचेः शिर इन्द्रो जहार यत’ इति । माल्यैः पुष्पैर्विभुमिन्द्रमवाकिरन् अभ्यवर्षन् ॥ ४१ ॥
लिङ्घेरी
इन्द्रो न शुष्केण केवलं शुष्कभिन्नेन न चार्द्रेण केवलमार्द्रभिन्नेन च फेनेन नमुचेः शिरो जहार । मुनिगणा विभुं शत्रुहननसमर्थं तमिन्द्रं स्तुवन्तो माल्यैः पुष्पैरवाकिरन् । ‘माल्यं पुष्पे पुष्पदामि्न’ इति नानार्थमुक्तावली ॥ ४१ ॥
गन्धर्वमुख्यौ जगतुर्विश्वावसुपरावसू ।
देवदुन्दुभयो नेदुर्नर्तक्यो ननृतुर्मुदा ॥ ४२ ॥
सत्यधर्मीया
विश्वावसुश्च परावसुश्च तौ ॥ ४२ ॥
छलारी
विश्वावसुपरावसुनामकौ गन्धर्वमुख्यौ गन्धर्वश्रेष्ठौ जगतुर्गायनं चक्रतुः । देव-दुन्दुभयो भेरिणो नेदुः । नर्तक्योऽप्सरस्त्रियो नृत्यं चक्रुः ॥ ४२ ॥
लिङ्घेरी
तदा गन्धर्वेषु मुख्यौ प्रधानौ नाम्ना विश्वावसुः परावसुर्जगतुर्गानं चक्रतुः । देवदुंदुभयो भेर्यो नेदुर्ध्वनिं चक्रुः । नर्तक्योऽप्सरसो मुदा सन्तोषेण नर्तनं चक्रुः ॥ ४२ ॥
अन्येऽप्येवं प्रतिद्वन्द्वान् वाय्वग्निवरुणादयः ।
सूदयामासुरस्त्रौघैर्मृगान् केसरिणो यथा ॥ ४३ ॥
सत्यधर्मीया
अन्येऽपि वाय्वग्निवरुणादयः प्रतिद्वन्द्वान् प्रतियोद्धृन् ॥ ४३ ॥
छलारी
प्रतिद्वन्द्वान्प्रतिपक्षिणः । केसरिणः सिंहा मृगान्यथा ॥ ४३ ॥
लिङ्घेरी
केसरिणः सिंहा मृगान् यथा तथा वाय्वग्निवरुणादयोऽप्यन्ये देवाः स्वस्व-प्रतिद्वन्द्वान् स्वैर्द्वन्द्वीभूय युद्ध्यतोऽसुरान्सूदयामासुर्हतवन्तः ॥ ४३ ॥
ब्रह्मणा प्रेषितो देवान् देवर्षिर्नारदो नृप ।
वारयामास विबुधान् दृष्ट्वा दानवसङ्क्षयम् ॥ ४४ ॥
सत्यधर्मीया
देवान् अधुनापि विजिगीषून् विबुधान् नारदो वारयामासेत्यन्वयः ॥४४॥
छलारी
दानवानां संक्षयं नाशं दृष्ट्वा ब्रह्मणा चतुर्मुखेन प्रेषितो नारदो दैत्यनाशं दृष्ट्वा देवान्वारयामासेति भावः ॥ ४४ ॥
लिङ्घेरी
हे नृप । तदा ब्रह्मणा चतुर्मुखेन दानवानां संक्षयं दृष्ट्वा देवान्प्रति प्रेषितो देवर्षिर्नारदो विबुधान्देवान्वारयामास युद्धं मा कुरुध्वमित्यवोचत् ॥ ४४ ॥
नारद उवाच–
भवद्भिरमृतं प्राप्तं नारायणभुजाश्रयैः ।
श्रिया समेधिताः सर्वे उपारमत विग्रहात् ॥ ४५ ॥
सत्यधर्मीया
यूयं श्रिया समेधितास्ते च न तथेत्युपारमतेति वारयामासेत्यन्वयः
॥ ४५ ॥
छलारी
किमिति । श्रिया ऐश्वर्येण समेधिता अभिवृद्धाः । विग्रहाद्युद्धादुपारमत विरमत । कृतकार्यत्वाद्वृथा हिंसां न कुरुतेति भावः ॥ ४५ ॥
लिङ्घेरी
तदेव निमित्तकथनपूर्वं विशदयति ॥ भवद्भिरिति ॥ हे देवा नारायण-भुजाश्रयैर्भवद्भिरमृतं प्राप्तम् । भवन्तः श्रिया संपदा समेधिता अत्यभिवृद्धाश्चातः सर्वे यूयं विग्रहात्कलहादुपारमत शान्ता भवतेति ॥ ४५ ॥
श्रीशुक उवाच–
संयम्य मन्युसंरम्भं मानयन्तो मुनेर्वचः ।
संगीयमानानुचरैर्ययुः सर्वे त्रिविष्टपम् ॥ ४६ ॥
पदरत्नावली
ते च अनुचरैः संगीयमाना इत्यर्थः । संरम्भं द्वेषोद्रेकम् ॥ ४७ ॥
॥ इति श्रीमद्भागवतटीकायां विजयध्वजतीर्थभिक्षुकृतायाम्
अष्टमस्कन्धे दशमोऽध्यायः ॥
सत्यधर्मीया
मुनेः । मुनिस्तु सर्वविद्यानां ब्रह्मेत्युक्तेर्ब्रह्मणो नारदस्य च । मन्युसंरम्भं कोपोद्रेकम् । सङ्गीयमानानुचरैः सङ्गीयमाना अनुचरा भटास् तैः ॥ ४६ ॥
छलारी
मन्युसंरम्भं द्वेषोद्रेकं संयम्य निगृह्य त्रिविष्टपं स्वर्गं ययुः ॥ ४६ ॥
लिङ्घेरी
देवा मुनेर्नारदस्य वचो बहुमानयन्तः स्वेषामसुरेषु मन्युं सरंभं कोपाटोपं संयम्य निगृह्यानुचरैर्गन्धर्वैः सङ्गीयमानाः सन्तः सर्वे त्रिविष्टपं स्वर्गं ययुः प्रापुः । मन्युः क्रोधे क्रतौ दैन्ये । ‘सुरलोको द्यौ दिवो द्वे स्त्रियां क्लीबे त्रिविष्टपम्’ इति चामरः ॥ ४६ ॥
येऽवशिष्टा रणे तस्मिन् नारदानुमतेन ते ।
बलिं विपन्नमादाय अस्तंगिरिमुपागमन् ॥ ४७ ॥
सत्यधर्मीया
विपन्नं शीर्णाङ्गम् ॥ ४७ ॥
छलारी
नारदस्यानुमतेनानुज्ञया येऽवशिष्टा हतावशिष्टास्ते दैत्या विपन्नं मृतं बलिमुपादायास्तं गिरिं प्रापुः ॥ ४७ ॥
लिङ्घेरी
तस्मिन्देवासुररणे येऽसुरा अवशिष्टास्ते नारदसंमत्या विपन्नमापद्गतं बलिमादायास्तपर्वतं गताः ॥ ४७ ॥
तत्राविनष्टावयवान् विद्यमानशिरोधरान्१ ।
उशना जीवयामास सञ्जीविन्या स्वविद्यया ॥ ४८ ॥
सत्यधर्मीया
अविनष्टा अवयवा येषां ते तान् । विद्यमानशिरोधरांश्चोशना सञ्जीविन्या जीवयामास । सावयवान्सशिरोधरांश्च गतासूनुशना सञ्जीवयामास तथैवावयवसद्भावान्न विशल्य-करण्यादिकृत्यमिति भावः । स्वविद्यया मन्त्रेण चेति केचित् । न च शुक्रेणोज्जीवितास्ते तु पुनस्तेनैव पातिता इत्यतीततात्पर्ये सञ्जीविन्या अनुक्तत्वात्तद्विरोध इति वाच्यम् । तत्र मुख्यस्य शुक्रमात्रस्योपादानं नोपायोपन्यास उपायस्याप्यत्रोक्तिरिति तंत्रे तान्तयन्ति । सञ्जीविनी स्वविद्यैव तयेति वा ॥ ४८ ॥
छलारी
तत्र युद्धभूमौ । अविनष्टा अवयवा हस्तपादादयो येषां तान् । भिद्यमानाः शिरोधराः कन्धरा येषां तान्मृतान् दैत्यान् संजीविनीनामिकयोशनाः शुक्राचार्यो जीवयामास
॥ ४८ ॥
लिङ्घेरी
तत्रास्तपर्वते उशनाः शुक्रः सञ्जीविन्याख्यविद्यया अविनष्टावयवान्विद्य मान-शिरोधरानसुरान् उज्जीवयामास प्राणधारिणोऽकरोत् । ‘उशना भार्गवः कविः’ इत्यमरः ॥ ४८ ॥
बलिश्चोशनसा स्पृष्टः प्रत्यापन्नेन्द्रियस्मृतिः ।
पराजितोऽपि नाखिद्यल्लोकतत्वविचक्षणः ॥ ४९ ॥
॥ इति श्रीमद्भागवतेऽष्टमस्कन्धे दशमोऽध्यायः ॥
सत्यधर्मीया
प्रत्यापन्ना प्रत्यागता । इन्द्रियेषु स्मृतिर्यस्येन्द्रियाणि स्मृतिर्वा यस्य सः । विपन्नमित्यस्य मृतिमिति व्याकरणं, स्पृष्टः प्रत्यापन्नेन्द्रियस्मृतिरित्युत्तरास्वारस्यस्वारस्यकम् । लोकैर्ज्ञानिभिर्यत्तत्वमिति निश्चितं तत्र लोकतत्त्वे ज्ञानिरहस्यप्रमेये विचक्षणः कुशल इति । पराजितोऽपि । नाखिद्यत्खेदवान्नाभूत् ॥ ४९ ॥
॥ इति श्रीसत्यधर्मयतिकृतायां भागवतटिप्पण्याम्
अष्टमस्कन्धे दशमोऽध्यायः ॥ ८–१० ॥
छलारी
प्रत्यापन्नानि पुनः प्राप्तानीन्द्रियाणि स्मृतिश्च येन सः । लोकस्य ज्ञानिनस्तत्त्वे मते विचक्षणो जयपराजयादेर्भगवदधीनत्वज्ञानीत्यर्थः । यतोऽतो नाखिद्यदित्यर्थः ॥ ४९ ॥
॥ इति श्रीछलारी शेषाचार्यकृतायां श्रीभागवतटिप्पण्याम्
अष्टमस्कन्धे दशमोऽध्यायः ॥ ८–१० ॥
लिङ्घेरी
तत्र बलिरसुर उशनसा शुक्रेण स्पृष्टः सन् पुनः प्राप्तेन्द्रियशक्तिः स्मृत्यादिमान्सन् यतः स्वयं लोकतत्त्वे जनस्थितौ विचक्षण ईश्वरपराधीनत्वादिविवेकवानत इन्द्रेण पराजितोऽपि खेदं नाकरोत् । ४९ ॥
**॥ इति श्रीलिङ्घेरी श्रीनिवासाचार्यकृतायां श्रीभागवतटिप्पण्यां **
अष्टमस्कन्धे दशमोऽध्यायः ॥ ८–१० ॥