०९ नवमोऽध्यायः

इति दानवदैतेया नाविन्दन्नमृतं नृप

॥ अथ नवमोऽध्यायः ॥

श्रीशुक उवाच–

इति दानवदैतेया नाविन्दन्नमृतं नृप ।

युक्ताः कर्मणि यत्ताश्च नारायणपराङ्गुखाः१ ॥ १ ॥

सत्यधर्मीया

सन्नद्धानां सुराणां च युद्धमध्यायद्वयेन वदन्नादौ भगवांस्तत्रैव स्थितोऽन्यत्र गत इति विषये किञ्चिदनूद्य परमात्मगमनप्रकारमाहेत्याह ॥ श्रीशुक इति ॥ दानवाश्च दैतेयाश्च ते । अनेन विशेषेण पीयूषप्राशनं नासुराणामिति द्योत्यते । कर्मणि मथनरूपे । यत्ता इति युक्ता अमृतप्राशनयोग्या अथाऽपि नाविन्दन्नापुः । तत्र हेतुमाह ॥ नारायणपराङ्मुखा इति ॥ वासुदेवपराङ्मुखा इति बहुमुखपाठः ॥ १ ॥

छलारी

पूर्वाध्यायान्तोक्तमेवानुवदन् हरेर्गमनप्रकारं वक्ति ॥ इतीति ॥ कर्मण्यमृत-मथने युक्ता यत्ताः सन्नद्धा अप्यमृतं नाविन्दन्न प्राप्ताः । विद् लाभ इति धातोः । वासुदेव-पराङ्मुखा इति हेतुगर्भविशेषणम् ॥ १ ॥

लिङ्घेरी

श्रीहरिचरणारविंदभक्त्यादिसाधनेनैव श्रेयःप्राप्तिस्तदभावे तदभाव इति ज्ञापयितुं देवासुरजयापजयाद्याहाध्यायद्वयेन शुकः । हे नृप । दानवदैतेया वासुदेवपराङ्मुखा भक्त्यादि-विधुरास्ततः कर्मणि क्षीरसमुद्रमथनरूपे युक्ता मनोयुक्ता यत्ताश्च प्रयत्नवन्तोऽपीत्युक्तरीत्याऽमृतं नाविन्दन्न प्रापुः ॥ १ ॥

साधयित्वाऽमृतं राजन् पाययित्वाऽमृतं सुरान्२ ।

पश्यतां सर्वभूतानां ययौ गरुडवाहनः ॥ २ ॥

पदरत्नावली

भगवत्प्रसादजातेन ज्ञानेन पापप्रणाशो भवत्येव नान्येनेत्येतन्निदर्शनाय देवासुरयुद्धं वर्णयत्यध्यायद्वयेन । तत्रादौ हरेरदर्शनप्रकारमाह इति, ययावदृश्योऽभूदिति ॥ २ ॥

सत्यधर्मीया

साधनफलत्वेन पानकर्मत्वेन चामृतममृतमिति द्विवारमुक्तिः । स्वकानिति पाठे सुरामृतप्राशने हेतूनिति मन्तव्यम् । सर्वभूतानां पश्यतां सतां गरुडवाहनो ययावित्यन्वयः

॥ २ ॥

छलारी

सुरान् स्वभक्तान् । पश्यतां सताम् ॥ २ ॥

लिङ्घेरी

हे राजन् । गरुडवाहनोऽमृतं साधयित्वा सुरान्पाययित्वा च सर्वभूतानां पश्यतां सतां ययौ ॥ २ ॥

सपत्नानां परामृद्धिं दृष्ट्वा च दितिनन्दनाः ।

अमृष्यमाणा उत्पेतुर्देवान् प्रत्युद्यतायुधाः ॥ ३ ॥

सत्यधर्मीया

ये येषां सपत्नानां शत्रूणां परां वृद्धिमैश्वर्यं दृष्ट्वाऽमृष्यमाणास्ते । उद्यता-युधा दिविनन्दनास्तान्देवान्प्रत्युत्पेतुरित्यन्वयः ॥ ३ ॥

छलारी

स आयासवद्भिर्देवैः स्वान्परित्यज्यामृते पीते दैत्या किमकुर्वन्निति तत्राह ॥ सपत्नानामिति ॥ सपत्नानां वैरिणां परामृद्धिं समृद्धिम् । दितिनन्दना दैत्याः ॥ ३ ॥

लिङ्घेरी

दितिनन्दना दैत्याः सपत्नानां स्वशत्रूणां देवानां परामुत्कृष्टामृद्धिमैश्वर्याभिवृद्धिं स्वेषां तदभावं च दृष्ट्वाऽमृष्यमाणा असहिष्णवः सन्त उद्धृतायुधाः सन्तो देवान्प्रत्युत्पेतुः ॥३॥

ततः सुरगणाः सर्वे सुधया पीतयैधिताः ।

प्रतिसंयुयुधुः शस्त्रैर्नारायणपरायणाः ॥ ४ ॥

पदरत्नावली

एधिता वर्धिताः ॥ ४ ॥

सत्यधर्मीया

एधिता अभिवृद्धाः ॥ ४ ॥

छलारी

ऐधिता वर्धिताः प्रतिसंयुयुधुरभिमुखा बभूवुः ॥ ४ ॥

लिङ्घेरी

ततः सुरगणा यतो नारायणपरास्ततः पीतया सुधयैधिता बलाद्यभिवृद्धाः सन्तः शस्त्रैरसुरैः प्रतिसंयुयुधुः ॥ ४ ॥

तत्र देवासुरो नाम रणः परमदारुणः ।

रोधस्युदन्वतो राजन् तुमलो रोमहर्षणः ॥ ५ ॥

पदरत्नावली

उदन्वतः समुद्रस्य रोधसि तीरे ॥ ५ ॥

सत्यधर्मीया

तुमलः । तुमलं रणसङ्कुल इत्यमरस्तथाऽपि पुल्लिङ्गता ताम्यत्यत्रेति तमु ग्लाग्नानावस्माल्लच् इतरत्सर्वं पृषोदरादित्वात्सौत्रो वा तुमुः । रोमाणि हर्षयतीति रोमहर्षणं येन स इति वा । नाम नाम्ना । देवा असुरा सन्त्यस्मिन्निति स तथा । अर्श आद्यजन्तः । उदन्वत उदका अत्यत्र सन्ती ति स उदन्वान् । उदन्वानुदधौ चेति मत्वन्तो निपातितः । तस्य समुद्रस्य रोधसि तीरे ॥ ५ ॥

छलारी

रणं युद्धमुदन्वतः समुद्रस्य रोधसि तीरे तुमुलोऽतिशयितः ॥ ५ ॥

लिङ्घेरी

हे राजन् । तत्र तस्मिन्काले उदन्वतः समुद्रस्य रोधसि तीरे परमदारुणोऽति-क्रूरस्तुमुलः संघटितो वीराणां रोमहर्षणकरो देवासुराणां रणः । अभवदिति शेषः । ‘उदन्वानुदधिः सिन्धुः सरस्वान्सागरोऽर्णवः’ । ‘कूलं रोधश् च तीरं च’ इत्यमरः ॥ ५ ॥

तत्रान्योन्यं सपत्नास्ते संरब्धमनसो रणे ।

समासाद्यासिभिर्बाणैर्निजघ्नुर्विविधायुधैः ॥ ६ ॥

सत्यधर्मीया

अन्योन्यं गतम् ॥ ६ ॥

छलारी

रणे संरब्धमनस आग्रहयुक्तान्तःकरणा अन्योन्यं समासाद्य निजघ्नुः ॥ ६ ॥

लिङ्घेरी

तत्र रणे सपत्नाः शत्रवस्ते देवासुराः संरब्धमनसः कोपाटोपयुक्तान्तःकरणाः सन्तोऽन्योन्यं परस्परं समासाद्यासिभिः खड्गैर्बाणैः शरैर्विविधायुधैश्च निजघ्नुस्ताडितवन्तः ॥६॥

शङ्खतूर्यमृदङ्गानां भेरीडमरिणां महान् ।

हस्त्यश्वरथपत्तीनां नदतां निस्स्वनोऽभवत् ॥ ७ ॥

सत्यधर्मीया

डमरिणां डमरूणां डमितिशब्दमियर्ति मृगव्यादित्वादर्तेःकुर् गणपाठादेव गुणे डमरुर्भवति । तात्पर्योऽयं नान्तो डमरिशब्दो वाद्यविशेषवाचकः । ‘वाद्यप्रभेदा डमरु-र्मड्डुडिण्डिमखर्खरा’ इत्यमरः । हस्त्यश्वरथपत्तीनां नदमताम् । पदातिपत्तिपदगेत्यमरः ॥ ७ ॥

छलारी

डमरीति वाद्यविशेषः ॥ ७ ॥

लिङ्घेरी

तदा नदतां मुहुर्मुहुर्ध्वनिं कुर्वतां शङ्खतूर्यमृदङ्गाणां हस्त्यश्वरथपत्तीनां च निःस्वनोऽभवत् ॥ ७ ॥

रथिनो रथिभिस्तत्र पत्तिभिः सह पत्तयः ।

हया हयैरिभैश्चेभाः समसज्जन्त संयुगे ॥ ८ ॥

सत्यधर्मीया

समसज्जन्त सङ्गता अभवन् ॥ ८ ॥

छलारी

द्वन्द्वयुद्धमभूदित्याह ॥ रथिन इति ॥ समासज्जन्त संसक्ताः ॥ ८ ॥

लिङ्घेरी

तस्मिन्संयुगे युद्धे रथिनो रथिभिः पत्तयः पादचारिणः पत्तिभिः सह हयाश्च हयैरिभा गजाश्चेभैः समसज्जन्त संयुक्ता बभुवुः ॥ ८ ॥

उष्ट्रैः केचिद् द्विजैः केचिदपरेऽभिययुः खरैः ।

केचिद् गौरमृगैर्ऋक्षैर्द्वीपिभिर्हरिभिर्भटाः ॥ ९ ॥

पदरत्नावली

तेषामारोहसाधनान्याह– उष्ट्रैरित्यादिना ॥ द्विजैः पक्षिभिः ॥ ९ ॥

सत्यधर्मीया

द्विजैः पक्षिभिर् ऋक्षैर्भल्लूकैर्द्वीपिभिः शार्दूलैर्हरयः सिंहा मर्कटा वा ॥ ९ ॥

छलारी

तेषां वाहनान्याहुः ॥ उष्ट्रैरिति ॥ द्वीपिभिः शार्दूलैः । हरिभिः सिंहैः कपिभिर्वा

॥ ९ ॥

लिङ्घेरी

केचिद्भटा वीरा उष्टै्रर्दीर्घग्रीवैः, केचिद्भटा द्विजैः पक्षिभिरपरे खरैर्गर्दभैः केचिद्गौरैः श्वेतैर्मृगैः केचिदृक्षैः करडीत्यपभ्रष्ठैर्भल्लूकैर्द्वीपिभिर्व्याघ्रैर्हरिभिः सिंहैरूढाः सन्तो निर्ययुः । युद्धाय निर्जग्मुः ॥ ९ ॥

गृध्रैः कङ्कैर्बकैरन्ये श्येनैर्भासै१स्तिमिङ्गिलैः ।

शरभैर्महिषैः खड्गैर्गोवृषैर्गवयारुणैः ॥ १० ॥

पदरत्नावली

खड्गैर्मृगविशेषैः । अरुणैर्वनसत्वविशेषैः ॥ १० ॥

सत्यधर्मीया

श्येनैर्भासैः कुक्कुटैः । ‘भासो मासि समाख्यातौ लोष्ठे कुक्कुटगृध्रयोः’ इति विश्वः । तिमिङ्गिलैर्महामत्स्यैः । विस्तरस्तु दशमविवृतावनुसंधेयः । शरभैरष्टपादैः खड्गै-स्तन्नामकमृगैर्गवयैररुणैरटव्यटत्सत्त्वैः ॥ १० ॥

छलारी

श्येनभासैः श्येनपक्षिभिः । तिमिङ्गिलैर्मत्स्यविशेषैः । खड्गैर्मृगविशेषैः । अरुणैर्वनसत्त्वविशेषैः ॥ १० ॥

लिङ्घेरी

अन्ये गृध्रैरपरे कंकैरपरे बकैः केचित्सेनाभासैः कुत्सितैः सेनैरपरे तिमिंगिलैरन्ये शरभैरष्टपदमृगविशेषैः केचिन्महिषैरन्ये खड्गैरपरे गोवृषैः केचिद्गवैरन्येऽरुणैः रक्तवर्णैर्मृग-विशेषैर्निर्ययुः ॥ १० ॥

शिवाभिराखुभिः केचित् कृकलासैः शशैर्नरैः ।

बस्तैरेके कृष्णसारैर्हंसैरन्ये च सूकरैः ॥ ११ ॥

सत्यधर्मीया

शिवा गोमायवः कृकलासैः सरटैर्बस्तैरजैः ॥ ११ ॥

छलारी

शिवाभिर्गोमायुभिः । आखुभिर्मूषकैः । कृकलासैः सरटाभिः । बस्तैर्मेषैः

॥ ११ ॥

लिङ्घेरी

अन्ये शिवाभिर्जंबुकस्त्रीभिः केचिदाखुभिर् इलीत्यपभ्रष्टैः केचित्कृकलासैर् ओतीकाटेत्यपशब्दैः केचिच्छशैः प्रसिद्धैर्नरैः केचिद्बस्तैरजैरपरे कृष्णसारैरन्ये हंसैरपरे सूकरै-र्वराहैर्निर्जग्मुः ॥ ११ ॥

अन्ये जलस्थलखगैः सत्वैर्विकृतविग्रहैः ।

सेनयोरुभयो राजन् विविशुस्तेऽग्रतोऽग्रतः ॥ १२ ॥

सत्यधर्मीया

विकृतविग्रहैः सत्त्वै ऋक्षआदिभिस् ते सुरासुराः ॥ १२ ॥

छलारी

जलस्थलखगैर्जलस्थलपक्षिभिः । विकृता विग्रहा अवयवा येषां तैः सत्त्वैर्जन्तुभिः ॥ १२ ॥

लिङ्घेरी

अन्ये जलस्थलानां खगैः पक्षिभिर्विकृता विकारं प्राप्ता विग्रहाः शरीराणि येषां तैः सत्त्वैः प्राणिभिरुभयोः सेनयोरग्रतोऽग्रे विविशुः ॥ १२ ॥

चित्रध्वजपटै राजन्नातपत्रैः शितामलैः ।

महाधनैर्वज्रदण्डैर्विभ्राजद्बार्हचामरैः ॥ १३ ॥

वातोद्धूतोत्तरोष्णीषैः सत्कृतैर्वर्मभूषणैः ।

स्फुरद्भिर्विशदैः शस्त्रैः सुतरां सूर्यरश्मिभिः ॥ १४ ॥

देवदानववीराणां ध्वजिन्यौ पाण्डुनन्दन ।

रेजतुर्वीचिमालाभिर्यादसामिव सागरे ॥ १५ ॥

पदरत्नावली

बर्हचामरैः पिच्छविरचितचामरैः । वीचिमालाभिर् यादसां जलजन्तूनां वरूथिन्यौ यथा ॥ १३-१५ ॥

सत्यधर्मीया

शितानि शुभ्राणि च तान्यमलानि च तैः शितावच्छ्वेतशर्करावदमलैर्वा । चक्रे शितापर्णमहोत्सवमन्वगा इति श्रीविद्याधीशविजयव्याख्याने शिता स्याच्छ्वेतशर्करे-त्यभिधानाभिधानात् । बार्हचामरैः पिच्छप्रकीर्णैः । वातोद्धूतैस्तत्कंपितैस्तैरुत्तरैरुत्तरीयैरुष्णीषैः शिरोवेष्टनैः । उष्णीषं तु शिरोवेष्टन इति विश्वः । वर्मभिः कवचैः सूर्यरश्मिभिः सुतरां स्फुरद्भिर् विशदैः शस्त्रैः । ध्वजिन्यौ सेने । यादसां जलजन्तूनां वरूथिनी सागरे । वीचिमालाभिर्वीचीनां तरङ्गाणां वा स्त्रियामिति काकाक्षिन्यायेनोर्मिवीचिभ्यां सम्बद्ध्यते । पुल्लिङ्गस्त्रीलिङ्गयोर्वीचिमणि यष्टिमूष्टयोन्यामित्रुटिश्यामिपाटलिशाल्मलितरणिश्रेण्यूर्मयो वस्तिश्चेति वामनोक्तेः । वयति पूर्यते वा वेञो ङिच्चेति चिः । वीचिर्नित्यं स्त्रीति केचित् । वीचिः स्वल्पतरङ्गे स्यादवकाशे सुखे द्वयोरित्युक्तेर्द्विलिङ्गो वीचिशब्दः । इदं प्रासङ्गिकं ज्ञेयम् ॥ १३-१५ ॥

छलारी

चित्रध्वजपटादिभिर्देवदानववीराणां ध्वजिन्यौ सैन्ये रेजतुरित्यन्वयः । सितै-र्धवलैरमलैर्निर्मलैर्महाधनैरनर्घ्यैर्वज्रमयदण्डोपेतैः । बार्हचामरैः पिच्छाविरचितचामरैः । वातोद्धूतै-रूर्ध्वं क्षिप्तैरुत्तरैरुष्णीषैः शिरोवेष्टनवस्त्रैश्च सत्कृतैः संमृष्टैर्वर्मभूषणैः । कवचैर्भूषणैश्च सूर्यरश्मिभिश्च सुतरां स्फुरद्भिः । तत्र दृष्टान्तः । सागरे यादसां जलजन्तूनां वरूथिन्यौ वीचीनां तरंगाणां मालाभिः राजभिर्यथा रेजतुस्तद्वत् ॥ १३-१५ ॥

लिङ्घेरी

हे पाण्डुनन्दन पाण्डुकुलसन्तोषक परीक्षिद् राजन् । देवदानववीराणां ध्वजिन्यौ सेने, सागरे यादसां जलचरप्राणिनां समूहौ वीचीनां तरंगाणां मालाभिः पङ्क्तिभिरिव । चित्रै-राश्चर्यकरैर्ध्वजस्तंभैः पटैश्च, सितैः शुभ्रैरमलैर्निर्दोषैरातपत्रैः सौरकिरणानीतसंतापाद्रक्षकैश् छत्रैः । महाधनैर्बहुद्रव्यविक्रियैर्वज्रखचितदण्डवद्भिर्विभ्राजद्बार्हचामरैः प्रकाशशीलमयूरगरुत्मतचामरैः, वातेन तीव्रगमनजनितवायुनोद्धूतैरुर्ध्वं चलितैरुत्तरोष्णीषैः श्रेष्ठशिरोबन्धकवस्त्रैः सत्कृतैर्निर्दुष्टतया कृतै-र्वर्मभूषणैः कवचालंकारैर्विशदैः शाणोल्लीढतया प्रशस्तैः सूर्यरश्मिभिः संयुक्तैर्निमित्तैः सुतरां स्फुरद्भिः प्रकाशमानैर्ध्वजिन्यौ सेने रेजतुः शुशुभाते ॥ १३–१५ ॥

वैरोचनो बलिः सङ्ख्ये सोऽसुराणां चमूपतिः ।

यानं वैहायसं नाम कामगं मयनिर्मितम् ॥ १६ ॥

सत्यधर्मीया

वैरोचनस्तत्सम्बन्धी । पुत्र इति यावत् । वैहायसं विहायो गगनं तस्येदम्

॥ १६ ॥

छलारी

सङ्ख्ये युद्धे वैरोचनो विरोचनपुत्रोऽसुराणां या चमूस्तस्याः पतिर् यानमास्थित उदये उदयाद्रौ स्थितश्चन्द्र इव रेजतुरित्यन्वयः । विहायसाऽऽकाशमार्गेणैव गच्छमानमत एव वैहायसं नाम । मयेन दैत्यतक्षकेण निर्मितम् ॥ १६ ॥

लिङ्घेरी

हे प्रभो परीक्षित् । वैरोचनो विरोचनपुत्रो बलिर्यस्य संख्ये देवासुरयुद्धेऽसुराणां चमूपतिः सेनापतिर्भूत्वा मयेनासुरवर्धकेन निर्मितं कामेनेच्छानुसारेण गच्छतीति कामगमाकाश-गमनशक्त्याऽतिशयेन वैहायसं नाम ॥ १६ ॥

सर्वसाङ्ग्रामिकोपेतं सर्वाश्चर्यमयं प्रभो ।

अप्रतर्क्यमनिर्देश्यं दृश्यमानमदर्शनम् ॥ १७ ॥

पदरत्नावली

साङ्ग्रामिकं युद्धसाधनम् ॥ १७ ॥

सत्यधर्मीया

साङ्ग्रामिकं युद्धसाधनम् । न विद्यते दर्शनं यस्य तददर्शनमदृश्यमित्यर्थः

॥ १७ ॥

छलारी

सर्वसाङ्ग्रामिकैर्युद्धसाधनैरुपेतमप्रतर्क्यमेतादृशमिति निर्देष्टुमशक्यं च । दृश्यमानं सददर्शनं दृश्यते च विद्युद्वत् ॥ १७ ॥

लिङ्घेरी

सर्वैः साङ्ग्रामिकैर्युद्धसाधनैरुपेतं सर्वेषामाश्चर्यकरम् । अत एवाप्रतर्क्यमूहितु-मशक्यमनिर्देश्यं वक्तुमशक्यं दृश्यमानमप्यदर्शनं दर्शनरहितम् । ‘अद्भुतत्वादनिर्वाच्यम्’ इत्यादेः

॥ १७ ॥

आस्थितस्तद्विमानाग्रयं सर्वानीकाधिपैर्वृतः ।

वालव्यजनछत्राग््रयै रेजे चन्द्र इवोदये ॥ १८ ॥

सत्यधर्मीया

सर्वानीकाधिपैस्तत्तत्सेनानायकैः । उदये गिरौ । चन्द्र इव रेजे बभौ । अनेन निदर्शनेन क्रमात्क्षैण्यं कटाक्षयति ॥ १८ ॥

छलारी

वालेति ॥ चामरादिभिः ॥ १८ ॥

लिङ्घेरी

एतादृशं विमानं श्रेष्ठयानमास्थित आरूढः सन् सर्वैरनीकाधिपैः सेनानायकै-र्वृतः सन् बालव्यजने छत्रं चेत्येषामग््रयैः श्रेष्ठैरुदये चन्द्र इव रेजे दीप्तवान् ॥ १८ ॥

तस्यासन् सर्वतो यानैर्यूथानां पतयोऽसुराः ।

नमुचिः शम्बरो बाणो विप्रचित्तिरयोमुखः ॥ १९ ॥

द्विमूर्धा कालनाभोऽथ प्रहेतिर्हेतिरिल्वलः ।

शकुनिर्भूतसन्तापो वज्रदंष्ट्रो विरोचनः ॥ २० ॥

हयग्रीवः शङ्कुशिराः कपिलो मेघदुन्दुभिः ।

तारकश्चक्रदृक् शुम्भो निशुम्भो जम्भ उत्कलः ॥ २१ ॥

अरिष्टोऽरिष्टनेमिश्च मयश्च त्रिपुराधिपः ।

अन्ये पौलोमकालेया निवातकवचादयः ॥ २२ ॥

सत्यधर्मीया

यूथानां सैन्यसङ्घानाम् । मुख्याख्यानाख्याति- नमुचिरित्यादिना । द्विमूर्धा संज्ञात्वान्न षः विरोचनस्तत्पिता बाणस्तदात्मजः ॥ १९-२२ ॥

छलारी

तस्य बलिविमानस्य सर्वतः परितो यानैः सह यूथानां पतयो असुरा आसन् । यूथपतीनाह ॥ नमुचिरित्यादिना ॥ विरोचनो बलिपिता । हयग्रीवस्तन्नामको दैत्यः । पौलो-मादयो गणविशेषाः ॥ १९-२२ ॥

लिङ्घेरी

नमुच्यादयस्त्रिपुराधिप इत्यन्तानाम् असुराणां यूथानां समूहानां पतयोऽसुरा यानैः स्वस्वारूढविमानैस्तस्य बलेः सर्वतो दिक्षु स्थिता आसन् । पौलोमकालेयनिवातक-वचाख्यगणस्था अन्येऽसुराश्चासन् ॥ १९-२२ ॥

अलब्धभागाः सोमस्य केवलं क्लेशभागिनः ।

सर्व एते रणमुखे बहुशो निर्जितामराः ॥ २३ ॥

सिंहनादं विमुञ्चन्तः शङ्खान् दध्मुर्महारवान् ।

दृष्ट्वा सपत्नानुत्सिक्तान् बलभित् कुपितो भृशम् ॥ २४ ॥

ऐरावतं दिक्करिणमारूढो वियति स्वराट् ।

यथा स्रवत्प्रस्रवणमुदयाद्रिमहर्पतिः ॥ २५ ॥

पदरत्नावली

सोमस्य अमृतस्य । उत्सिक्तान् बलगर्वितान् । स्रवत्प्रस्रवणं च्योतत् प्रस्रावणं, च्योतन्मदजलम् । अन्यत्र निरन्तरस्यन्दमाननिर्झरम् । अहर्पतिः सूर्यः ॥२३-२५॥

सत्यधर्मीया

सोमस्यामृतस्य । अलब्धोऽप्राप्तो भागो यैस्ते । क्लेशभागिनो मथन-कालिकवासुकिश्वासादिबाधाजनितश्रमभागवन्तः । निर्जिताः पराजिता अमरा यैस्ते । उत्सिक्ता-न्गर्वितान् । स्वेन हरिणैव राजत्वेन कृत इति स तथा । अहर्पतिरन्हः पतिः सूर्यः । अहरादीनामिति रेफः । स्रवन्ति प्रस्रवणानि खरनीराणि यस्मिन्निति पर्वतपक्षे । ऐरावतपक्षे प्रस्रवणानि दानोदकानीति ज्ञेयम् ॥ २३-२५ ॥

छलारी

सोमस्यामृतस्यालब्धो भागो यैस्तथा । बहुशो नितरां जिताः पराभूता अमरा यैस्ते तथा । महारवान् महाशब्दजनकान् । उत्सिक्तान् बलगर्वितान् सपत्नान् शत्रून्दृष्ट्वा बलभि-द्देवेन्द्रो दिक्करिणां दिग्गजानाम् । स्वराट् स्वर्गपतिः । स्रवत्प्रस्रवणं स्रवन्ति गलन्ति प्रस्रवणानि मदजलानि यस्मिन् गजे तम् । उदयगिरिपक्षे स्रवन्ति स्यन्दमानानि प्रस्रवणानि निर्खरोदकानि यस्मिंस्तम् । अह्वःपतिः सूर्यः ॥ २३-२५ ॥

लिङ्घेरी

रणमुखे बहुवारं निर्जितदेवाः । एतेन नमुच्यादयो निवातकवचांताः सर्वे सोमस्यामृतस्याप्राप्तस्वभागाः सन्तः केवलं क्लेशभाजिनः सन्तो युद्धार्थं सिंहनादं विमुंचन्तः सन्तो बहुध्वनीन् शङ्खान् ध्वनियुक्तांश्चक्रुर् यदा तदा बलिभिदिन्द्रः सपत्नान् शत्रून् शूरानुत्सिक्ता-नभिवृद्धान् दृष्ट्वा भृशं कुपितश्चुकोप । एवं कुपितोऽसुरसेनामभिविशन्प्रवेष्टुमिच्छुः स्वराट् स्वर्गाधिपतिरिन्द्रोऽहर्पतिः सूर्यः स्रवत्प्रसवणं स्यन्दमाननिर्खरोदकमुदयपर्वतं यथा तथा स्रवन्मदजलं दिग्गजमैरावतमारुरोह ॥ २३-२५ ॥

तस्यासन् सर्वतो देवा नानावाहध्वजायुधाः ।

लोकपालाः सह गणैर्वाय्वग्निवरुणादयः ॥ २६ ॥

सत्यधर्मीया

तानेव लोकपालानाह ॥ वाय्वग्नीति ॥ २६ ॥

छलारी

यस्येन्द्रस्य सर्वतः समन्तात् । नानाविधानि वाहनानि येषां ते । वाय्वग्नि-वरुणादयो लोकपालाः सह गणैः स्वस्वगणैः सह ॥ २६ ॥

लिङ्घेरी

वाय्वग्निवरुणादयो लोकपाला देवा नानाप्रकारवाहनध्वजायुधयुक्ताः सन्तस्त-स्येन्द्रस्य सर्वतो दिक्षु स्वगणैः स्थिता संरक्षका आसन् ॥ २६ ॥

तेऽन्योन्यमभिसंसृत्य क्षिपन्तो नामभिर्मिथः ।

आह्वयन्तो विशन्तोऽग्रे युयुधुर्द्वन्द्वयोधिनः ॥ २७ ॥

सत्यधर्मीया

ते दैतेया आदितेयाश्च ॥ २७ ॥

छलारी

क्षिपन्तः परुषवचनैर् धिक्कुर्वन्तो मिथो नामभिराह्वयन्तोऽग्रे प्रथमे द्वन्द्वयोधिनः द्वन्द्वेन योधिनः सन्तः ॥ २७ ॥

लिङ्घेरी

ते देवासुरा अन्योन्यं परस्परमभिसंहत्य मिलित्वा द्वन्द्वयोधिनो द्वौ द्वौ मिलित्वा युद्धं कर्तुमिच्छवः सन्तो नामभिराह्वयन्तस्तत्तन्नामग्रहणं कारयन्तो मिथः परस्परं क्षिपन्तस्तिर-स्कुर्वन्तोऽग्रे सेनामुखे विशन्तः प्रविशन्तो युयुधुर्युद्धं चक्रुः ॥ २७ ॥

युयुधे बलिरिन्द्रेण तारकेण दिवस्पतिः ।

वरुणो हेतिनाऽयुध्यन्मित्रो राजन् प्रहेतिना ॥ २८ ॥

सत्यधर्मीया

दिवस्पतिः सेनानीः स्कंदः ॥ २८ ॥

छलारी

द्वन्द्वान्याह ॥ युयुधे इत्यादिना ॥ गुहः स्कन्दोऽस्यतायुध्यत ॥ २८ ॥

लिङ्घेरी

हे राजन् । बलिरिन्द्रेण युयोध । दिवस्पस्तिस्तारकेण युयोध । वरुणो हेतिना, मित्राख्यः सूर्यः प्रहेतिनाऽयुध्यत् ॥ २८ ॥

यमस्तु कालनाभेन विश्वकर्मा मयेन वै ।

शम्बरो युयुधे त्वष्ट्रा सवित्रा तु विरोचनः ॥ २९ ॥

सत्यधर्मीया

सविताऽप्यत्रोत्तरत्र चापरः सूर्यः ॥ २९ ॥

छलारी

सवित्रा तन्नामकसूर्येण ॥ २९ ॥

लिङ्घेरी

यमस्तु कालनाभेनासुरेण । विश्वकर्मा देवतक्षको मयेनासुरतक्षकेन युयुधे इति वै प्रसिद्धम् । शंबरोऽसुरस्त्वष्ट्राख्यादित्येन, विरोचनोऽसुरः सवित्राख्यादित्येन युयुधे ॥ २९ ॥

अपराजितेन नमुचिरश्विनौ वृषपर्वणा ।

सूर्यो बलिसुतैर्देवो बाणज्येष्ठशतेन सः ॥ ३० ॥

सत्यधर्मीया

बाणो ज्येष्ठो यस्य तच्च तच्छतं तेन बलिसुतैरित्यन्वयः ॥ ३० ॥

छलारी

सूर्यो विवस्वान्नामक एव शतेन शतसंख्याकैर् बाणःज्येष्ठो यस्य तेन ॥३०॥

लिङ्घेरी

अपराजिताख्यदेवेन नमुचिरसुरो युयुधे । अश्विनौ देवौ वृषपर्वणाऽसुरेण शर्मिष्ठा पित्राऽयुध्यत् । बाणोऽसुरः ज्येष्ठः श्रेष्ठो यस्य तेन शतेन शतसंख्याकैर्बलेरसुरस्य सुतैः सह प्रसिद्धः सूर्यो देवो युयुधे ॥ ३० ॥

राहुणा च तथा सोमः पुलोम्ना युयुधेऽनिलः ।

निशुम्भशुम्भयोर्देवी भद्रकाली नराशनी ॥ ३१ ॥

सत्यधर्मीया

अनिलो भूतवातः । भद्रकाली दुर्गा ॥ ३१ ॥

छलारी

अनिलो भूतवायुः । निशुम्भशुम्भाभ्याम् भद्रकाली दुर्गा ॥ ३१ ॥

लिङ्घेरी

सोमश्चन्द्रश्च राहुणाऽसुरेण युयुधे । अनिलो वायुः पुलोम्नाऽसुरेण । न रियन्त ब्रह्मादिवरबलेन न क्षियन्त इति नरा महिषासुरादयस्तानश्नातीति नराशनी । भक्तानां मङ्गलं दत्तत्वाद्भद्राऽसुराणां संहारकत्वात्काली दुर्गादेवी निशुंभशुंभाभ्यां युयुधे । निशुंभशुंभयोरिति कर्तरि षष्ठी ॥ ३१ ॥

वृषाकपिस्तु जम्भेन महिषेण विभावसुः ।

इल्वलः सहवातापिर्ब्रह्मपुत्रैररिन्दम ॥ ३२ ॥

सत्यधर्मीया

वृषाकपिः रुद्रः । ‘वृषाकपिः शिवे कृष्ण’ इति विश्वः ॥ ३२ ॥

छलारी

वृषाकपी रुद्रः । विभावसुरग्निः । ब्रह्मपुत्रैर्दक्षप्रजेश्वरैः ॥ ३२ ॥

लिङ्घेरी

हे अरिंदम शत्रुशिक्षक । परीक्षित्सम्बोधनं वीररसाभिज्ञत्वख्यापनाय । वृषाकपिस्तु देवो जंभेनासुरेण विभावसुरग्निर्महिषेणासुरेण । सहवातापिर्वातापिसहितेल्वलोऽसुरो ब्रह्मपुत्रैर्वसिष्ठादिभिर्युयुधे ॥ ३२ ॥

कामदेवेन दुर्मर्ष उत्कलो मातृभिः सह ।

बृहस्पतिस्तूशनसा नरकेण शनैश्चरः ॥ ३३ ॥

सत्यधर्मीया

ब्रह्मपुत्रा दक्षाद्या । मातृभिः । ‘ब्राह्मी माहेश्वरी चैव कौमारी वैष्णवी तथा । वाराही च तथेन्द्राणी चामुण्डा सप्त मातर ॥’ इत्युक्तसप्तभिः ॥ ३३ ॥

छलारी

मातृभिब्राह्यादिसप्तमातृभिः । ‘ब्राह्मी माहेश्वरी चैव कौमारी वैष्णवी तथा । वाराही च तथेन्द्राणी चामुण्डा सप्त मातरः ॥’ इत्युक्तेः । उशनसा शुक्राचार्येण ॥ ३३ ॥

लिङ्घेरी

दुर्मर्षोऽसुरः कामदेवेनोत्कलोऽसुरो मातृभिर्ब्राह्यादिसप्तमातृभिः । बृहस्पति-र्देवाचार्यस्तूशनसा शुक्रेणासुराचार्येण, शनैर्मन्दं चरतीति राशिष्विति शनैश्चरो देवो नरकेणासुरेण युयुधे ॥ ३३ ॥

मरुतो निवातकवचैः कालेयैर्वसवोऽमराः ।

विश्वेदेवास्तु पौलोमै रुद्राः क्रोधवशैः सह ॥ ३४ ॥

सत्यधर्मीया

कालेयैस्तद्गणैः ॥ ३४ ॥

छलारी

मरुत एकोनपञ्चाशन्मरुद्गणाः । वसवो वसुनामका गणाः । रुद्रा रुद्रगणाः

॥ ३४ ॥

लिङ्घेरी

एकोनपञ्चाशन्मरुतो देवा निवातकवचैरसुरैः । अष्टवो वसवो देवाः कालेयैर-सुरैः । दश विश्वेदेवास्तु पौलोमैरसुरैः । एकादशरुद्राः क्रोधवशैरसुरैः सह युयुधुः ॥ ३४ ॥

त एवमाजावसुराः सुरेन्द्रा द्वन्द्वेन संहत्य च युध्यमानाः ।

अन्योन्यमासाद्य निजघ्नुरोजसा जिगीषवस्तीक्ष्णशरांश्च चिक्षिपुः ॥ ३५ ॥

सत्यधर्मीया

संहत्य मिलित्वा । अनेनायमनेनाहमिति संहत्य सङ्घं कृत्वेति वा । अनन्तरमन्यमासाद्य ॥ ३५ ॥

छलारी

एवं द्वन्द्वेन संहत्य ॥ ३५ ॥

लिङ्घेरी

बलीन्द्रादयोऽसुराः सुरेन्द्राः संहत्य परस्परं प्राप्य द्वन्द्वेनाजौ युद्धभूमावेवं युद्ध्यमानाः सन्तोऽन्योन्यमासाद्य खड्गादिभिरोजसाऽवष्ठंभनशक्त्या निजघ्नुः । एवं परस्परं जिगीषवो जेतुमिच्छवः सन्तस्तीक्ष्णशरान् क्रूरान् बाणांश्चिक्षिपुश्च ॥ ३५ ॥

भूशुण्डिभिश्चक्रगदर्ष्टिपट्टिशैः शक्तयुल्मुकैः प्रासपरश्वधैरपि ।

निस्त्रिंशभल्लैः परिघैः समुद्गरैः सभिण्डिपालैश्च शिरांसि चिच्छिदुः ॥ ३६ ॥

सत्यधर्मीया

भूशुण्डय आयुधविशेषाश् चश्चक्राणि गदाश्च चक्रगदम् । ऋष्टयोऽसयः । असिरिष्टय इत्यमरः । ऋषेर्गत्यर्थाच्चेदकारपूर्वः रिषेर्हि सार्धाच्चेद्रेफपूर्वः । प्राक् पक्षे ऋत्यक इति प्रकृतिभावः । पट्टिशैरुभयपार्श्वधारैः खड्गविशेषैः । शक्तय उल्मुका उल्मुकानि वा । चुबुकं शालूकप्रातिपदिकां शुकोल्मुकानि नपुंसके चेति लिङ्गानुशासनोक्तेः । अलातानि । ‘अङ्गारो लातमुल्मुकम्’ इत्यमरः । प्रासाः । प्रासस्तु कुंत इत्यमरः । परश्वधाः स्वधितिः । ‘परशुश्च परश्वध’ इत्यमरः । भल्ला बाणविशेषाः । ‘भल्लो भल्ली च बाणे स्यात्’ इति विश्वः । परिघैः परिघातनैर्लोहाञ्चितलगुडैर्मुद्गरैः । द्रुघणे मुद्गरघनावित्यमरः । भिन्दिपाला भिण्डिपाला इति वा । भिन्दतः पालयतीति स तथा । द्वितीये डकारः पृषोदरादिः । ‘भिन्दिपालः सृगस्तुल्यौ’ इत्यमरः

॥ ३६ ॥

छलारी

विनष्टमरणधर्माणां देवानां पराक्रमं वर्णयति ॥ भृशुण्डिभिरिति ॥ निस्त्रिंशैः खड्गैर्भिन्दिपालसहितैः पूर्वोक्तायुधविशेषैः शिरांसि देत्यानां चिच्छिदुः । देवा इति शेषः ॥३६॥

लिङ्घेरी

ते देवासुराः परस्परं भृशुण्डिभिश्चक्रैर्गदाभिः, ऋष्टिभिः साधारणखड्गैः पट्टिशै-र्विस्तृतखड्गैः शक्तिभिरयोमुखैर्दीर्घदण्डैरुल्मुकैर्गतज्वलाग्नियुक्तकाष्टैः प्रासैरूर्ध्वमधश्चायोमुखैर्दण्डैः परश्वधैः कुठारैर्निस्त्रिंशैस्त्रिंशदङ्गुलिभ्योऽधिकदीर्घखड्गैर्भल्लैर्बाणैः परिघैः कवाटपृष्ठोपोद्बलकदारु-विशेषैः, पृथुपुष्टबृहच्छिरोदण्डविशेषैर्भिण्डिपालैः शिरांसि चिच्छिदुर्द्विधाऽकुर्वन् ॥ ३६ ॥

गजास्तुरङ्गाः सरथाः पदातयः सारोहवाहा विविधा विखण्डिताः ।

निकृत्तबाहूरुशिरोधराङ्घ्रयश्छिन्नध्वजेष्वासतनुत्रभूषणाः ॥ ३७ ॥

पदरत्नावली

ज्यया मौर्व्या आसम् आसनं यत् तद् धनुः । तनुत्रं कवचम् ॥ ३७ ॥

सत्यधर्मीया

सारोहवाहा अध्यारूढपुरुषसहितवाहनानि । इष्वासः कोदण्डः । ‘कार्मुकमिष्वास’ इत्यमरः ॥ ३७ ॥

छलारी

सारोहवाहा आरोहन्तीत्यारोहाः पुरुषास्तै सहिता अन्ये वाहा उष्ट्रादीनि वाहनानि च । खण्डनमेव विशदयति ॥ निकृत्तेति ॥ निकृत्ताश्छिन्ना बाह्वादयो येषां ते शिरोधरा ग्रीवाः । इष्वास इषोर्बाणस्यासमासनं धनुः । तनुत्रं कवचम् । छिन्नानि ध्वजादीनि येषां ते ॥ ३७ ॥

लिङ्घेरी

रथैः सहिता गजास्तुरंगाश्चाश्वाः, पदातयः पादचरा नरा, विविधा आरोहन्ती-त्यारोहा गजाद्यारूढाः पुरुषास्तैः सहिताः सारोहावाहा वाहनानि विखण्डिताश्छिन्ना बभूवुः । एवं तत्र वीरा निकृत्ताश्छिन्ना बाहव ऊरवः शिरोधरा ग्रीवा अंघ्रयः पादा येषां ते तथा बभूवुः । छिन्नानि ध्वजज्यासानि धनूंषि तनुत्राणि कवचानि भूषणानि येषां ते तथा चासन् ॥ ३७ ॥

तेषां पदाघातरथाङ्गचूर्णितादायोधनादुल्बण उच्छ्रितस्तदा ।

रेणुर्दिशः खं द्युमणिं च छादयन् न्यवर्ततासृक्सृतिभिः परिप्लुतः ॥ ३८ ॥

सत्यधर्मीया

चक्रं रथाङ्गमित्यमराद्रथाङ्गाच्चक्रात् । उल्बणोऽसह्य उच्छ्रित उन्नतः । रेणुर्धूलिः ‘रेणुस्तु पर्यटे धूल्याम्’ इति विश्वः । असृजां रक्तानां सृतिभिः स्रावैः परिप्लुतः । न्यवर्तत भूलग्नोऽभूदिति यावत् ॥ ३८ ॥

छलारी

तेषां देवादीनां पदाघातैः पादप्रहारै रथाङ्गै रथस्याङ्गभूतैश्चक्रैश्च चूर्णितात् । आयोधनाद्युद्धभूमेः सकाशादुत्थितो रेणुर्धूलिर्दिशः खमाकाशं द्युमणिं सूर्यमाच्छादयन्सन् तदैव न्यवर्तत सूर्यादेः सकाशान्निवृत्तोऽभूत् । कथम्भूतः । अस्रक्सृतिभि रक्तस्रावैः परिप्लुतः सिक्तः सन् ॥ ३८ ॥

लिङ्घेरी

तेषां गजाश्वपदातीनां पदाघातैः पादसंघट्टनै रथांगैः रथचक्रैश्च चूर्णितादा-योधनाद्युद्धमण्डलादुत्थित उल्बणस्तीक्ष्ण उच्छ्रित उन्नतो रेणुर्धूलिस्तदा दिशः खमाकाशं द्युमणिं सूर्यं चाच्छादयन् स्थितोऽपि असृक्सृतिभिः रक्तप्रवाहैः परिप्लुतः क्लिन्नो न्यवर्तत शान्तोऽभूत्

॥ ३८ ॥

शिरोभिरुद्वृत्तकिरीटकुण्डलैः संरम्भदृग्भिः परिदष्टदच्छदैः ।

महाभुजैः साभरणैः सहायुधैः संप्रास्तृता भूः कलभोरुभिर्बभौ ॥ ३९ ॥

पदरत्नावली

उद्वृत्तं विपर्यस्तं रहितं वा । दच्छदैरोष्ठैः । सम्प्रास्तृता सञ्छादिता

॥ ३९ ॥

सत्यधर्मीया

कलभोरुभिर्गजोत्सङ्गैः । दष्टदच्छदैर्गतम् । सम्प्रास्तृता आच्छादिता बभौ

॥ ३९ ॥

छलारी

शिरोभिर्महाभुजैश्च । करभोरुभिः करिकरसदृशैरुरुभिश्च । सा भू रणभूमिः प्रकर्षेणास्तृताऽऽच्छादिता सती बभौ । कथम्भूतैः शिरोभिः । उद्वृत्तान्युत्पतितानि किरीटानि कुण्डलानि च येभ्यस्तैः । संरंभयुक्ताः कोपाकारयुक्ता दृशो येषु तैः । परिदष्टा दच्छदा ओष्ठा येषु तैः ॥ ३९ ॥

लिङ्घेरी

तदा भूः, उद्वृत्तानि शिरसः स्खलितानि किरीटानि शिरोभूषणानि कुण्डलानि कर्णाभरणानि येषां तैः । संरभेन कोपाटोपेन युक्ता दृशा नेत्राणि येषां तैः । परिदष्टानि दन्तैर्गृहीता दतां दन्तानां छदा आच्छादका ओष्ठा येषां तैः । शिरोभिः साभरणैः सहायुधै-र्महाभुजैः करभवद्गजहस्तवत् क्रमवर्तुलत्वपुष्टत्वादिगुणैरुरुभिः प्रस्तृता आच्छादिता सती बभौ

॥ ३९ ॥

कबन्धास्तत्र चोत्पेतुः पतितैः स्वशिरोऽक्षिभिः ।

उद्यतायुधदोर्दण्डैराधावन्तो भटान् मृधे ॥ ४० ॥

पदरत्नावली

कबन्धाः शिरोरहितदेहाः ॥ ४० ॥

सत्यधर्मीया

स्वशिरोऽक्षिभिस्तत्स्थितैर्नेत्रैः। पश्यन्त इति शेषः । भटान्स्वप्रतिभटान्

॥ ४० ॥

छलारी

कबन्धाः शिरोरहितदेहाः । पतितानि यानि शिरांसि तत्रत्यैरक्षिभिः पश्यन्त उद्यतान्यायुधानि यैस्ते । दोर्दण्डैर्युक्ता आधावन्तो द्रुवन्तो मृधे युद्धायोत्पेतुरभ्यपद्यन्त ॥ ४० ॥

लिङ्घेरी

तत्र मृधे युद्धे कबन्धा वीरान्पश्यन्तः सन्त उद्यतायुधैर्दण्डाकारैर्हस्तैर्युक्ताश्च सन्त उत्पेतुरुपरि पतिता अभवन् ॥ ४० ॥

बलिर्महेन्द्रं दशभिस्त्रिभिरैरावतं शरैः ।

चतुर्भिश्चतुरो वाहानेकेनारोहमार्च्छयत् ॥ ४१ ॥

सत्यधर्मीया

चतुरो वाहान् अश्वान्करचरणरक्षणार्थं स्थापितान् । वाजिवाहार्वेत्यमरः । प्रथमान्तं च सद्बलिविशेषणम् । कुशल इति तदर्थः । आरोहमंबष्टम् । आर्च्छयद् आर्च्छत् । धातूनामनेकार्थत्वाद्गत्यर्थोऽपि ऋच्छिस्ताडनार्थस्तताड ॥ ४१ ॥

छलारी

वाहान् ऐरावतपादचतुष्टयरक्षवान् । आरोहं गजयन्तारम् । आर्च्छयद्विव्याध

॥ ४१ ॥

लिङ्घेरी

बलिर्दशभिः शरैर्महेन्द्रं त्रिभिः शरैरैरावन्तं चतुर्भिः शरैश्चतुःसङ्ख्याकान्वाहान् एकेन शरेण, आरोहत्यनेनेत्यारोहः वाहनप्रेरकस्तं चार्च्छयत्तताड ॥ ४१ ॥

स तानापततः शक्रस्तावद्भिः शीघ्रविक्रमः ।

चिच्छेद निशितैर्भल्लैरसंप्राप्तान् हसन्निव ॥ ४२ ॥

सत्यधर्मीया

तावद्भिरष्टादशभिः । हसन्निव हसन्नेव ॥ ४२ ॥

छलारी

तावद्भिः कलिमुक्तशरसंख्याकैर्भल्लैः शरैः ॥ ४२ ॥

लिङ्घेरी

स शक्रो यतः शीघ्रविक्रमस्तत आपतत आगच्छतोऽसंप्राप्तान् स्वप्राप्तिशून्यान् मध्ये तावत्संख्याकैर्निशितैः शाणोल्लीढैर्भल्लैर्बाणैर्हसन्निव परिहासं कुर्वन्निव चिच्छेद ॥ ४२ ॥

तस्य कर्मोत्तमं वीक्ष्य दुर्मर्षः शक्तिमाददे ।

तां ज्वलन्तीं महोल्काभां हस्तस्थामच्छिनद्धरिः ॥ ४३ ॥

पदरत्नावली

हरिरिन्द्रः ॥ ४३ ॥

सत्यधर्मीया

हरिर्हस्तस्थां रिपोः ॥ ४३ ॥

छलारी

उत्तमं कर्म पाटवं दुर्मर्षोऽसहमानो बलिर्महोल्काभां महोल्कसदृशीं हस्तस्थाम् । हरिरिन्द्रः ॥ ४३ ॥

लिङ्घेरी

बलिस्तस्येन्द्रस्योत्तमं कर्म स्वशरच्छेदनरूपं वीक्ष्य दुर्मर्षोऽसहिष्णुः सन् शक्तिमाददे जगृहे । हरिरिन्द्रो बलेर्हस्तस्थां महोल्काभामत एव ज्वलन्तीं तां शक्तिमच्छिनद् द्विधा चकार ॥ ४३ ॥

ततः शूलं ततः प्रासं ततस्तोमरमृष्टयः ।

यद्यच्छस्त्रं समादद्यात् सर्वं तदच्छिनद् विभुः ॥ ४४ ॥

पदरत्नावली

ऋष्टय ऋष्टीः ॥ ४४ ॥

सत्यधर्मीया

शूलं ततः प्रासं गततोमरम् । सर्वलाम् । सर्वला तोमरोऽस्त्रियाम्’ इत्यमरः । ऋष्टयो ऋष्टीन् ये ऋष्टयः । ततो द्वितीयार्थे तसिः । तानिति वा । समा-दद्यात्समादत्त । बलिरिति शेषः । विभुरिन्द्रः ॥ ४४ ॥

छलारी

विभुरिन्द्रः ॥ ४४ ॥

लिङ्घेरी

विभुः शत्रुजयसमर्थ इन्द्रो, बलिस्ततः शूलमनन्तरं प्रासं तोमरमृष्टयश्चेत्येवमादि यद्यदस्त्रं समादद्याद्गृहीतवांस्तत्सर्वमच्छिनत् ॥ ४४ ॥

ससर्जाथासुरीं मायामन्तर्धानगतोऽसुरः ।

ततः प्रादुरभूच्छैलः सुरानीकोपरि प्रभो ॥ ४५ ॥

सत्यधर्मीया

अन्तर्धानं गतोऽन्तर्धानगतः ॥ ४५ ॥

छलारी

असुरो बलिः सुरानीकोपरि देवसैन्योपरि शैलो मायामयः । हे प्रभो राजन्

॥ ४५ ॥

लिङ्घेरी

हे प्रभो । अनन्तरमसुरो बलिरदृश्यत्वं गतः सन् असुरसंबन्धिनीं भ्रान्तिजनकां विद्यां सृष्टवान् । ततो मायया देवसैन्योपरि भागे पर्वतः प्रकटोऽभूत् ॥ ४५ ॥

ततो निपेतुस्तरवो दह्यमाना दवाग्निना ।

शिलाविटङ्कशिखराश्चूर्णयन्तो१ द्विषद्बलम् ॥ ४६ ॥

पदरत्नावली

विटङ्कशिखरा उन्नतशृङ्गा विस्तृतप्राग्रा वा ॥ ४६ ॥

सत्यधर्मीया

विटङ्कवद्विद्यमानानि शिखराण्यग्रभागाः । ‘शिखरं शैलवृक्षाग्र’ इति विश्वः । ‘कपोतपालिकायां स्याद्विटङ्कं पुंनपुंसकम्’ इत्यमरः । शिलानां विटङ्कशिखराणि येषां ते । दवदहनदग्धद्रुमाः । विशेषेण टङ्क्यतेऽत्रेति टकि वर्धने हलश्चेति घञ् । शिलाविटङ्क-शिखरसहिताः । तत्तापस्फुटितद्विषद्बलं चूर्णयन्तः निपेतुरित्यन्वयः । अधिकारश्च तद्धानि-रित्यत्रेव विठङ्कशिखराः शिला दवाग्निना दह्यमानास्तरव इत्येते चूर्णयन्त इति वाऽन्वयः । चूर्णयन्त्य इति पाठे तत्र तरवः पेतुरित्यन्वयः । शिलाश्चूर्णयन्त्यः पेतुरित्यन्वय इति विवेकः

॥ ४६ ॥

छलारी

विटङ्कान्युन्नतानि शिखराणि यासु ता इत्यर्थः । द्विषतां सुराणां सैन्यं बलम्

॥ ४६ ॥

लिङ्घेरी

ततः पर्वताद्दवाग्निनाऽरण्यवन्हिना दह्यमाना जलमानास्तरवो वृक्षाः पतिताः । उन्नतशिखराः शिलाश्च पाषाणा अपि द्विषतामसुरद्वेषिणां देवानां बलं सैन्यं चूर्णयन्तः पतिताः

॥ ४६ ॥

महोरगाः समुत्पेतुर्दन्दशूकाः सवृश्चिकाः ।

सिंहव्याघ्रवराहाश्च मर्दयन्तो महासुरान् ॥ ४७ ॥

पदरत्नावली

महोरगा अजगराः । दन्दशूका दंशनशीलाः सर्पाः ॥ ४७ ॥

सत्यधर्मीया

महान्तश्च ते सुराश्च तान् ॥ ४७ ॥

छलारी

महोरगा अजगरा दन्दशूका दंशनशीलाः सर्पाः ॥ ४७ ॥

लिङ्घेरी

सवृश्चिका महोरगा अजगराः, दंशनशीला दंदशूकाः सर्पाः, सिंहव्याघ्रवराहाश्च महतः पूज्यान्सुरान् मर्दयन्तो निपेतुः । आन्महत इत्यादिना महच्छब्दस्याकारादेशः ॥ ४७ ॥

यातुधान्यश्च शतशः शूलहस्ता विवाससः ।

छिन्दि भिन्धीति वादिन्यस्तथा रक्षोगणा विभो ॥ ४८ ॥

सत्यधर्मीया

विवाससो दिगम्बराः ॥ ४८ ॥

छलारी

यातुधान्यो राक्षसस्त्रियो विवाससो दिगम्बरा इत्यर्थः ॥ ४८ ॥

लिङ्घेरी

हे विभो । शूलहस्ता, विवाससो वस्त्ररहिताः । छिन्धि द्विधा कुरु । भिन्धि विदारयेति वादिन्यः शतसङ्ख्याका यातुधान्यो राक्षस्यस्तथा राक्षससमूहाश्च समुत्पेतुः ॥ ४८ ॥

ततो महाघना व्योमि्न गम्भीरपरुषस्वनाः ।

अङ्गारान् मुमुचुर्वातैराहताः स्तनयित्नवः ॥ ४९ ॥

पदरत्नावली

स्तनयित्नवः सनिर्घाता मेधाः ॥ ४९ ॥

सत्यधर्मीया

महाघना अतिविपुलाः स्तनयित्नवो बलाहकाः । स्तन गदे देवशब्दे । चुरादावदन्तः स्तनितषीती लुच् । अयामन्तेति णेरञ् । स्तनयन्तीति स्तनयित्नवो ये महान्तो घना लोहमद्गुरास्ततस्तान् । ‘घनः सान्द्रे दृढे दीर्घे विस्तारे लोहमुद्गरे’ इति विश्वः । अङ्गारपातमभ्युपेत्यानलोहमुद्गरपाते मनो विनोदनीयम् । मायायाः किमसुशकम् ॥ ४९ ॥

लिङ्घेरी

व्योम्नयाकाशे महामेघाः स्तनयित्नवो गर्जनशीलाः, गंभीराः, परुषाः क्रूराः स्वना ध्वनयो येषां ते तथा सन्तो वातैराहताश्च सङ्घटिताः सन्तोऽङ्गारान्साग्निकाष्टमुखान्मुमुचु-स्त्यक्तवन्तः ॥ ४९ ॥

सृष्टो दैत्येन सुमहान् वह्निः श्वसनसारथिः ।

सांवर्तक इवात्युग्रो विबुधध्वजिनीमधाक् ॥ ५० ॥

पदरत्नावली

सांवर्तकः प्रलयाग्निः । अधाक् अदहत् ॥ ५० ॥

सत्यधर्मीया

सांवर्तकः प्रलयकालसम्बन्धी । अधाक् । आर्षः । ददाह ॥ ५० ॥

छलारी

श्वसनसारथिर्वायुसखः । सांवर्तक इव प्रलयाग्निरिव । अधाक् छान्दसोऽयं प्रयोगः । अधोक्षीदित्यर्थः ॥ ५० ॥

लिङ्घेरी

दैत्येन बलिना सृष्ट उत्पादितः श्वसनो वायुः सारथिः सहायो यस्य श्वसन-सारथिः सांवर्तकः प्रलयाग्निरिवातितीक्ष्णः सुमहान् अतिस्थूलतरो वह्निर्विबुधानां देवानां ध्वजिनीं सेनामधाक् भस्मीचकार ॥ ५० ॥

ततः समुद्र उद्वेलः सर्वतः प्रत्यदृश्यत ।

प्रचण्डवातैरुद्भूततरङ्गावर्तभीषणः ॥ ५१ ॥

पदरत्नावली

उद्वेलस् तीरमतिक्रन्तः ॥ ५१ ॥

सत्यधर्मीया

वेलामतिक्रान्त उद्वेलः । आवर्ताः । ‘स्यादावर्तोऽम्भसां भ्रम’ इत्यमरः । तैर्भीषयतीति तथा ॥ ५१ ॥

छलारी

उद्वेलो वेलामतिक्रान्तः । उद्भूतैस्तरंगैरावर्तैश्चांभसां भ्रमैश्च भीषणः ॥ ५१ ॥

लिङ्घेरी

तदनन्तरं प्रचण्डवातैरतितीक्ष्णवायुभिरुद्भूता जनिता ये तरङ्गास्तैरावर्तै-श्चक्राकारभ्रमजलैश्च भीषणो भयङ्कर उद्वेलः मर्यादातिलङ्घी सन् समुद्रः सर्वतः सर्वासु दिक्षु प्रत्यदृश्यत दृष्टोऽभूत् ॥ ५१ ॥

एवं दैत्यैर्महामायैरलक्ष्यगतिभीषणैः ।

सृज्यमानासु मायासु विषेदुः सुरसैनिकाः ॥ ५२ ॥

सत्यधर्मीया

अलक्ष्याऽदृश्या गतिस्तया । सैनिकाः सेनायां समवेताः ॥ ५२ ॥

छलारी

अलक्ष्यगत्याऽदृश्यगत्या विभीषणैर्महामायैरैन्द्रजालामायाविभिः । एवमन्यैश्च दैत्यैः सृज्यमानासु मायासु विषेदुर्विषण्णाः ॥ ५२ ॥

लिङ्घेरी

सुराणां सैनिकाः सेनारक्षका महामायैरत एवालक्ष्याऽमेया गतिः स्थितिस्तया भीषणैर्भयजनकैर्दैत्यैरेवमुक्तप्रकारेण मायासु सृज्यमानासु सतीषु विषेदुर्व्यथिता बभूवुः ॥ ५२ ॥

न तत्प्रतिविधिं यत्र विदुरिन्द्रादयो नृप ।

ध्यातः प्रादुरभूत् तत्र भगवान् विश्वभावनः ॥ ५३ ॥

पदरत्नावली

यत्र यदा तदा ध्यातः ॥ ५३ ॥

सत्यधर्मीया

यत्र यदा । प्रतिविधिं परिहारोपायम् । तत्र ध्यातस्तैः ॥ ५३ ॥

छलारी

तत्प्रतिविधिं तस्यासुरकृतकर्मणः प्रतिक्रियां यत्र यदा न विदुस्तत्र तैर्ध्यातः सन् विश्वभावनो विश्वपालकः ॥ ५३ ॥

लिङ्घेरी

हे नृप । यत्र यदेन्द्रादयो देवास्तत्प्रतिविधिं बल्याद्यसुरसृष्टमायाप्रतीकारं न विदुरज्ञातवन्तस्तत्र तदा विश्वभावनः सर्वोत्पादको भगवान्नारायण इन्द्रादिभिर्ध्यातः सन्प्रादुरभूत्

॥ ५३ ॥

ततः सुपर्णांसकृताङ्घ्रिपल्लवः पिशङ्गवासा नवकञ्जलोचनः ।

अदृश्यताष्टायुधबाहुरुल्लसच्छ्रीकौस्तुभानर्घ्यकिरीटकुण्डलः ॥ ५४ ॥

सत्यधर्मीया

अष्टावायुधाष्टकसहिता बाहवो यस्य सः ॥ ५४ ॥

छलारी

सुपर्णांसयोर्गरुडस्कन्धयोः स्थापितपादपल्लवः । नवकञ्जवद्विकसितपद्मवल्लोचने यस्य सः । अष्टावायुधयुक्ता बाहवो यस्य सः । श्रीश्च कौस्तुभश्चानर्घ्यानि किरीटकुण्डलानि च । उल्लसन्ति श्रीकौस्तुभादीनि यस्य सः ॥ ५४ ॥

लिङ्घेरी

प्रादुर्भावानन्तरं भगवान् सुपर्णस्य गरुडस्यांसयोः कृतौ स्थापितौ पल्लवसदृशाङ्घ्री यस्य स तथा सन् पिशङ्गं हरिद्रावर्णसदृशं वासो वस्त्रं यस्य स तथा सन् नवकञ्जवन्नूतन-कमलवदम्लानविस्तृतलोचने नेत्रे यस्य स तथा सन् । अष्टसङ्ख्याकायुधोपेतहस्तः सन् उल्लसन्नतिप्रकाशमानः श्रिया कान्त्या युक्तो यः कौस्तुभः, अत्युत्तमतयाऽनर्घ्याणि मौल्यरहितानि किरीटकुण्डलानि मुकुटकर्णाभरणानि यस्य स तथा च सन् देवासुरैरदृश्यत ॥ ५४ ॥

तस्मिन् प्रविष्टेऽसुरकूटकर्मजा माया विनेशुर्महतां महीयसि ।

स्वाप्नो यथाऽहिः प्रतिबोध आगते हरिस्मृतिः सर्वविपद्विमोक्षणी१ ॥ ५५ ॥

पदरत्नावली

असुरकूटकर्मजा असुरकपटकर्मजाताः । अत्र कैमुत्यन्यायमाह– हरिस्मृतिरिति ॥ हरिस्मृतिरेव सर्वविपद्विनाशिनी किमुत हरिरिति ॥ ५५ ॥

सत्यधर्मीया

असुराणां कूटकर्म कपटव्यापारस्तस्माज्जायन्त इति ताः । प्रतिबोधे जागरे । अस्थिरतामात्रे निदर्शनम् । अथवा स्वाप्नपदेन जाग्रत्कालिकपदार्थतादात्म्यं गृह्यते । परमात्मस्मरणमात्रमियत्कार्यकरं का कथा स्वतस्तस्यैवागमने मायापाय इत्याशयेनाह ॥ हरिः स्मृतिरिति ॥ ५५ ॥

छलारी

असुराणां कूटकर्म मन्त्रादिप्रयोगः । तस्माज्जाता । महतां महीयस्यतिशयेन महति प्रतिबोधे आगते सति स्वाप्नो यथा नश्यति तद्वत् । अत्र कैमुत्यन्यायमाह ॥ हरिस्मृतिरिति ॥ हरेः स्मृतिरेव सर्वासां विपदां विनाशिनी । किमुत हरिरित्यर्थः ॥ ५५ ॥

लिङ्घेरी

प्रतिबोधे जागरे आगते सति स्वप्नावस्थाद्रष्टो गजतुरगादिर्यथा विनश्यति चक्षुषा दृश्यो न भवति तथा महतामुत्तमानां महीयस्युत्तमे नारायणे तस्मिन्युद्धे प्रविष्टे सति असुरमायाकर्मजाः पर्वतवृक्षादयो विनेशुरदृश्या अभूवन् । नैतद्विचित्रमित्याह । हरिस्मृतिः सर्वविपद्भ्यो विमोक्षिणी विमोचिका किमु हरिरिति ॥ ५५ ॥

दृष्ट्वा मृधे गरुडवाहमिभारिवाह१

आविध्य शूलमहिनोदथ कालनेमिः ।

तल्लीलया गरुडमूधर्ि्न पतद् गृहीत्वा

तेनाहनन्नृप सवाहमरिं त्र्यधीशः ॥ ५६ ॥

तात्पर्यम्

‘कालनेम्यादयः सर्वे हरिणा निहता अपि ।

शुक्रेणोज्जीविताः सन्तः पुनस्तेनैव पातिता’ इति च ॥ ५६ ॥

पदरत्नावली

अहिनोद् अहितान् (प्रति) अमुञ्चत् । अरीनसुरान् वहतीत्यरिवाहः कुम्भकारशब्दवदण्प्रत्ययान्तः । अरिः सिंहो वाहो यस्य स तथा । इभारिवाह इति पाठे स्पष्टोऽर्थः ॥ ५६ ॥

सत्यधर्मीया

दृष्ट्वा मृध इति श्लोक उत्तरश्लोके न कालनेम्यादिमृतिश्चाक्षुषे श्रूयते । श्रूयते च पुनर्वैवस्वतमन्वन्तरे समुद्रमथने तत्कृतयुद्धादौ तन्मृतिश्चेति तच्च न युज्यत इत्यतो मानमेवाह ॥ कालनेम्यादय इति ॥ हरिणा वैवस्वतमन्वन्तरे समुद्रमथने निहिताः । पुनरपि मृतसञ्जीविन्या विद्यया शुक्रेण जीविताः सन्तस्तेनैव हरिणा पातिताः । अतो न विरोध इति भावः । अत्र विस्तरस्तु प्रकाशिकातोऽवसेयः । अनेन स एव पुनरेतन्मन्वन्तर एवाष्टाविंशतितमे द्वापरे कंसः सन्कृष्णेन निहत इति दर्शितमित्याहुः । इत्यष्टमे नवमः । अथ श्लोकार्थः । इभारिहवाहः सिंहवाहनः कालनेमिः शूलामाविध्य भ्रामयित्वाऽहिनोत्प्राहिणोत् । गरुडवाह-मथारिवाह इति वाऽऽहुः । अरीन्सुरान्वहतीत्यरिवाह इत्यर्थं च वर्णयन्ति । त एवारिर्गजारिः सिंहो वाहो यस्येत्यप्याहुः । गरुडमूधर्ि्न पतत् । शूलं लीलया गृहीत्वा तेनैव सवाहमरिं कालनेमिमहनदहन् । त्र्यधीशस्त्रिलोकीनाथः । ‘अप्रजाः संत्वत्रिण’ इति ऋग्भाष्ये पितृदेव-मनुष्याणामित्युक्तमार्गत्रयाधीशः । वेदाधीश इति वा ॥ ५६ ॥

छलारी

इभारिर्गजरिपुः सिंहो वाहो यस्य स तथा कालनेमिः शूलमाविध्य भूमौ पोथयित्वाऽहिनोच्चिक्षेप । त्रयाणां लोकानामधीशो हरिर्गरुडमूधर्ि्न पतच्छूलं हस्तेन गृहीत्वा तेनैव सवाहमरिं कालनेमिमहनज्जघान ॥ ५६ ॥

लिङ्घेरी

हे नृप । अनन्तरमरीन् शत्रून् वहत्युद्धरति रणभूमेरित्यरिवाहः शत्रुपलायन-करः । अरिर्मृगारिः सिंहो वाहो यस्येति चारिवाहः । इभस्य गजस्यारिः सिंहो वाहो यस्येती-भारिवाहः । अस्मिन्पाठद्वये वाहशब्दोऽण्प्रत्ययान्तः कुम्भकारशब्दवज्ज्ञेयः । कालनेमिरसुरो युद्धे गरुडवाहं भगवन्तं दृष्ट्वा स्वत्रिशूलमाविद्ध्य भ्रामयित्वा हरये आहिनोत् प्रेषयामास । त्रयाणां लोकानां वैकुण्ठश्वेतद्वीपानन्तासनानां सत्त्वरजस्तमसामधीशोऽधिकस्वामी नारायणो गरुडशिरसि पतत्त्रिशूलं लीलयाऽनायासेन गृहीत्वा तेन शूलेन वाहनसहितं शत्रुं कालनेमिमहनत्तताड हिंसितवांश्च ॥ ५६ ॥

माली सुमाल्यतिबलौ युधि पेततुर्यच्चक्रेण कृत्तशिरसावथ माल्यवांस्तम् ।

आहत्य तिग्मगदयाऽहनदण्डजेन्द्रं तावच्छिरोऽच्छिनदरेर्नदतोऽरिणाऽऽद्यः ॥५७॥

॥ इति श्रीमद्भागवतेऽष्टमस्कन्धे नवमोऽध्यायः ॥

पदरत्नावली

आहत्य संघट्य अण्डजेन्द्रो गरुडः । आद्यो हरिररिणा चक्रेण नदतोऽरेः कालनेमेः शिरोऽच्छिनदित्यन्वयः । अच्छिनदिति क्रियापदशक्तेर्द्विवारं कालनेम्यादीन् हतवान् हरिरित्येषोऽर्थोऽभिविज्ञायते । छिदिर् द्वैधीभाव इति द्वैधीभावश्रवणात्, उशना जीवयामासेत्युत्तर-वाक्याच्च द्विवारं हरिरस्ति । ‘कालनेम्यादयः सर्वे हरिणा निहता अपि । शुक्रेणोज्जीविताः सन्तः पुनस्ते वै निपातिता ॥’ इति वचानाच्च निश्चितोऽयमर्थ इति ॥ ५७ ॥

॥ इति श्रीमद्भागवतटीकायां विजयध्वजतीर्थभिक्षुकृतायाम्

अष्टमस्कन्धे नवमोऽध्यायः ॥

सत्यधर्मीया

मालीसुमाली चेत्यतिबलौ यच्चक्रेण कृतशिरसौ कृत्तं छिन्नं शिरो ययोस्तौ पेततुः । अथ माल्यवान् । गदामाहत्य भ्रामयित्वा तया तिग्मगदयाऽण्डजेन्द्रम् । अण्डजः पक्षी गरुडस्तदिन्द्रं तत्स्वामिनं हरिम् । यच्चक्रेण तमित्युक्तिस्वारस्यात् । यद्याग्रहो निरवग्रहस्तर्हि तं तद्वाहमण्डजेन्द्रं गरुडमित्यर्थो ज्ञेयः । अहनत्ताडनोद्युक्तोऽभूत् । तावत्तन्मध्य एवारिणा चक्रेणाद्यो नदतोऽरेर्माल्यवतः शिरोऽच्छिनत् । आहत्य प्राप्येति वा । आद्यः सुरोपजीव्यः । आदिभवो वा

॥ ५७ ॥

॥ इति श्रीसत्यधर्मयतिकृतायां भागवतटिप्पण्याम् अष्टमस्कन्धे नवमोऽध्यायः ॥ ८–९ ॥

छलारी

यस्य हरेश्चक्रेण कृत्तशिरसौ पेततुः । तं भगवन्तं माल्यवांस्तन्नामाऽऽहत्य संहत्य । आसाद्येति यावत् । तिग्मगदयांऽडजेन्द्रं पक्षीन्द्रं गरुडं यावदहनत्तं हन्तुं गदामुन्न-मय्येत्यर्थः । तावदाद्यो हरिर्नदतोऽरेर्माल्यवतः शिरोऽरिणा चक्रेणाच्छिनत् ॥ ५७ ॥

॥ इति श्रीछलारी शेषाचार्यकृतायां श्रीभागवतटिप्पण्याम्

अष्टमस्कन्धे नवमोऽध्यायः ॥ ८–९ ॥

लिङ्घेरी

अतिबलौ माली सुमाली चेत्युभौ यद्यदा युधि रणभूमौ हरिणा कृत्तशिरसौ सन्तौ पतितौ । अथानन्तरं माल्यवानसुरोंऽडजानां पक्षीणामिन्द्रं श्रेष्ठं गरुडमाहत्य भ्रामयित्वा गदया यावद्यदाऽहनत्तताड तावत्तदाऽऽद्यः पुराणपुरुषो भगवान्नदतो ध्वनिं कुर्वतोऽरेर्माल्यवतः शिरोऽ-रिणा चक्रेणाच्छिनत् । अत्रायं विशेषो ज्ञेयः । ‘कालनेम्यादयः सर्वे हरिणा निहता अपि । शुक्रेणोज्जीविताः सन्तः पुनस्ते वै निपातिता ॥’ इति ॥ ५७ ॥

**॥ इति श्रीलिङ्घेरी श्रीनिवासाचार्यकृतायां श्रीभागवतटिप्पण्यां **

अष्टमस्कन्धे नवमोऽध्यायः ॥ ८-९ ॥