पीते गरे वृषाङ्गेण प्रीतास्तेऽमरदानवाः
॥ अथ अष्टमोऽध्यायः ॥
श्रीशुक उवाच–
पीते गरे वृषाङ्गेण प्रीतास्तेऽमरदानवाः ।
ममन्थुस्तरसा सिन्धुं हविर्धानी ततोऽभवत् ॥ १ ॥
सत्यधर्मीया
वृषाङ्केण । वृषो नन्दी स चाङ्को लक्ष्म वाहनत्वेन ध्वजत्वेन वा यस्य स तेन । ‘अङ्कः स्थानेऽन्तिके मन्तौ रूपकोच्छुङ्गलक्ष्मसु’ इति विश्वः । हरादिनामागृह्णानो गृह्णानो वृषाङ्कपदं वृषो वृषभरूपम् । अङ्कस्थानं सत्यकामोपदेशस्य, यस्य सवायुस्तेनापि पीत इति भावं च ध्वनयामासेति ज्ञेयम् । अथ हैनमृषभोऽभ्युवाद । वायुर्वृषभरूपः सन्निति छान्दोग्योपनिषद्भाष्योक्तेः । हविः पयोरूपं धीयतेऽस्यामिति सा कामधेनुः ॥ १ ॥
छलारी
वृषाङ्केण वृषध्वजेन शिवेन । हविर्धानी कामधेनुः ॥ १ ॥
लिङ्घेरी
एवं रुद्रेण विषपाने कृते सति तेऽमरा दानवाः प्रीताः सन्तः सिन्धुं क्षीरसमुद्रं तरसा वेगेन ममन्थुः । ततो मथितात्समुद्राद्धविर्धान्यग्निहोत्रादिहविर्योग्यक्षीरादिदात्री कामधेनु-रभवत् ॥ १ ॥
तामग्निहोत्रीमृषयो जगृहुर्ब्रह्मवादिनः ।
यज्ञस्य देवपानस्य१ मेध्याय हविषे नृप ॥ २ ॥
पदरत्नावली
किमर्थं जगृहुरिति तत्राह– यज्ञस्येति ॥ यज्ञस्य हविषे देवानां सोमपानस्य च मेध्याय । देवानां सोमपानं यस्मिंस्तथा तस्येति ॥ २ ॥
सत्यधर्मीया
अग्निहोत्रोपयुक्तत्वेनाग्निहोत्री ताम् । देवपानस्य देवानां पानं सोमपानं यस्य यज्ञस्य मेध्याय पवित्राय हविषे । ब्रह्मवादिन ऋषयः । जगृहुः । देवयानस्येति पाठे ब्रह्मलोकप्रापकमार्गस्येति वा ॥ २ ॥
छलारी
तामग्निहोत्रीं कामधेनुं देवानां सोमपानं यस्मिन्नस्य यज्ञस्य सम्बन्धिने मेध्याय पवित्राय हविषे । देवयानस्येति पाठे ब्रह्मलोकमार्गप्रापकस्य यज्ञस्येत्यर्थः ॥ २ ॥
लिङ्घेरी
हे नृप । ऋषयस्त्रिकालदर्शिनो ब्रह्मवादिनः परब्रह्मप्रतिपादकवेदाध्ययनशीला मुनयोऽग्निहोत्रोपयुक्तां तां धेनुं यज्ञस्य, देवानां पानस्य पानयोग्याय मेध्याय पवित्राय हविषे हविरर्थं जगृहुः । देवानां पानयोग्यं क्षीरादि यस्मिंस्तस्य यज्ञस्येति वा ॥ २ ॥
तत उच्चैःश्रवा नाम हयोऽभूच्चन्द्रपाण्डुरः ।
तस्मिन् बलिः स्पृहां चक्रे नेन्द्र ईश्वरशिक्षया ॥ ३ ॥
सत्यधर्मीया
चन्द्रवत्पाण्डुरः शुभ्रवर्णः । तस्मिन् उच्चैःश्रवसि । कार्यानिष्पत्तेर्न चतुर्थी । बलिः स्पृहां चक्रे । इन्द्रश्चेश्वरशिक्षया स्पृहां न चक्र इत्यन्वयः । चन्द्रपाण्डुर इत्यावर्तते ॥ ३ ॥
छलारी
चन्द्र इव पाण्डुरः । स्पृहामिच्छाम् । ईश्वरशिक्षया मथनात्प्रागेव कृतया
॥ ३ ॥
लिङ्घेरी
ततस्तदनन्तरं क्षीरसमुद्राच्चन्द्रवत्पाण्डुरः शुभ्रो नाम्नोच्चैःश्रवा हयोऽश्वोऽ-भूदुत्पन्नः । बलिर्विरोचनस्तस्मिन्नुच्चैःश्रवसि स्पृहामाकाक्षां चक्रे । ईश्वरस्य विष्णोः शिक्षयाऽऽ-ज्ञया इन्द्रस्तत्स्पृहां न चक्रे ॥ ३ ॥
तत ऐरावतो नाम वारणेन्द्रो विनिर्गतः ।
दन्तैश्चतुर्भिः श्वेताद्रेर्हरन्भगवतो महम्१ ॥ ४ ॥
सत्यधर्मीया
भगवतो भवस्य श्वेताद्रेः कैलासस्य । अनेनैव धावल्यमर्थाल्लब्धं श्वेतपद-स्वारस्यात् तदननुवृत्तिर्वा । महं कान्तिम् ॥ ४ ॥
छलारी
चन्द्रपाण्डुर इत्यनुवर्तते । वारणेन्द्रो गजश्रेष्ठश्चतुभिर्दन्तैः शिखरतुल्यैः । भगवतो रुद्रस्य श्वेताद्रेः कैलासस्य महं महत्त्वं हरन्विनिर्गत उदभूत् ॥ ४ ॥
लिङ्घेरी
तत ऐरावताख्यो वारणानां गजानामिन्द्रः श्रेष्ठः स्वस्य चुतुभिर्दन्तैः श्वेत-पर्वतस्य भगवतोऽनुग्रहेण महाकान्तिं हरन् सन्विनिर्गतः ॥ ४ ॥
ततोऽभवत् पारिजातः सुरलोकविभूषणः ।
पूरयत्यर्थिनो योऽर्थैः शश्वद् भुवि यथा भवान् ॥ ५ ॥
पदरत्नावली
सुरलोकं विभूषयतीति सुरलोकविभूषणः ॥ ५ ॥
सत्यधर्मीया
सुरलोकविभूषणं यस्मात् सुरलोकं विभूषयतीति स तथा वा । योऽर्थिनः पुराषार्थापेक्षावतो जनान् । अर्थैर् विषयैस्तैस् तैः पूरयति । तत्रान्यत्र निदर्शनं दर्शनीयं त्वत्त इत्याह ॥ शश्वदिति ॥ भुवि भवान्यथेति साम्यं शश्वदसङ्कल्पनसमयेऽपीति ततोऽतिरेकः । ‘शैला इवोन्नताः सन्तः किन्तु प्रकृतिकोमला’ इतिवत् । निरपेक्षावधूतमुखत एवमुक्तिरनौप-चारिकी न दाक्ष्यादिति ज्ञायते ॥ ५ ॥
छलारी
सुरलोकं स्वर्गलोकं विभूषयतीति तथा । तन्महिमानमाह ॥ पूरयतीति ॥ अर्थैरिष्टैः शश्वत्सर्वदा । परीक्षिद्राजानमेव दृष्टान्तयति ॥ भुवि यथा भवानिति ॥ ५ ॥
लिङ्घेरी
तदनन्तरं सुरलोकं स्वर्गं विभूषयतीति विभूषणः पारिजातो वृक्षोऽभवत् । यः पारिजातो भुवि भवान्यथा योऽर्थैर्भूम्यां स्थितैः पुरुषार्थैरर्थिनः पुरुषार्थकांक्षिणः पुरुषान् तथा पूरयति पूर्णान्करोति ॥ ५ ॥
ततश्चाप्सरसो जाता निष्ककण्ठ्यः सुवाससः ।
रमण्यः स्वर्गिणां वल्गुगतिलीलावलोकनैः ॥ ६ ॥
पदरत्नावली
निष्कमाभरणविशेषः । रमण्यो रमणीयाः ॥ ६ ॥
सत्यधर्मीया
निष्कं ग्रैवेयकं कण्ठालङ्कारो यासां ता अङ्गगात्रेति वार्तिकात् ङीप् । निष्कमस्त्री साष्टहेमशते दीनारकर्षयोः । वक्षोलङ्करण इति विश्वः । रमण्यः रमणीयाः । करणम् ईरयति ॥ वल्गुगतीति ॥ वल्ग्विति सर्वान्वयि । ‘वल्गुः काके मयूरे च वल्गुभाषितमन्यवत्’ इति विश्वः । वल्गुः स्यात् हृदयङ्गम इति रभसः । स्वर्गिणां नाकिनाम् ॥ ६ ॥
छलारी
निष्कमाभरणविशेषः । वल्गुभिः सुन्दरैर्गत्यादिभिः स्वर्गिणां रमण्यो रतिं कुर्वन्त्यः ॥ ६ ॥
लिङ्घेरी
ततो निष्कं कण्ठाभरणं कण्ठेषु यासां ताः । सुवाससः, स्वर्गिणां स्वर्गस्थ-प्राणिनां वल्गुगतिलीलावलोकनैर्मनोहरगमनक्रीडाकटाक्षदर्शनै रमण्यः सुखजनका अप्सरसो जाताः
॥ ६ ॥
ततश्चाऽऽविरभूत् साक्षाच्छ्रीरमा भगवत्प्रिया ।
रञ्जयन्ती दिशः कान्त्या विद्युत्सौदामनी यथा ॥ ७ ॥
पदरत्नावली
रुच्या विशिष्टं द्योतयतीति विद्युत् सा च सौदामनी ॥ ७ ॥
सत्यधर्मीया
श्रीमती च सा रमा च । सौदामनी । श्वेतद्वीपः सुदामेति त्रिकाण्डशेषे । तेनैक दिगित्यण् । अन्निति प्रकृतिभावादिलोपाल्लोपौ न भवतः । सुदामा कश्चिदद्रिरिति वा । सुदामातु पुमान् वारिधरपर्वतभेदयोः । सुदामि्न मेघे भवा वा । सौदामन्यप्सरोभेदे तटितद्भेधयो-रपीत्यादेः सौदामिनीत्यपपाठ इति भानुः । विद्युद्यथा साच सुदामोत्यन्नेति सौदामनी विद्यु-त्प्रकाशमान् इति वा न पुनरुक्तिः । विद्युद्यथा । सौदामनी अप्सरसः यथेत्यन्वयो वाक्यभेदेन वा ज्ञेयः ॥ ७ ॥
छलारी
विद्युद्विद्योतमाना सौदामिनी यथा तद्वत् । स्वकान्त्या दिशो रंजयन्ती श्रीर्भगवत्प्रिया साक्षाद्रमाऽऽविरभूदित्यर्थः ॥ ७ ॥
लिङ्घेरी
ततो रमयति सुखयति स्वदर्शनादिनेति रमा, भगवति विष्णौ परा तात्पर्यलक्षणभक्तिमती साक्षान्निरुपचारेण श्रीशब्दवाच्या लक्ष्मीः । सौदामिनिकृता रूपा विद्यु-त्तटिद्यथा तथा स्वकांत्या दिशो रञ्जयन्त्यलङ्कुर्वती सत्याविरभूत् । अत्र साक्षाछ्रीरित्यनेन सर्गाभिमानिश्रीर्निवारिता । आविरभूदित्यनेन लक्ष्म्या ज्ञानानन्दात्मकदेहतया नारायणवत्प्रादुर्भाव एव न तु देहोत्पत्तिरित्यसूचि ॥ ७ ॥
तस्यां चक्रुः स्पृहां सर्वे ससुरासुरमानवाः ।
रूपौदार्यवयोवर्णमहिमाक्षिप्तचेतसः ॥ ८ ॥
पदरत्नावली
रूपादिमहिम्ना ॥ ८ ॥
सत्यधर्मीया
अससुरासुरमानवा इति छेदः । सुरैः सहिताः ससुरास् ते न भवन्तीति ते तथा । ते च ते असुराश्च मानवा असन्तश्च ते । ससैन्यं रावणं हत्वेत्यादिवत्सुर-साहितीमात्रमभिहितम् । वस्तुतस्तु न स्पृहाकरण इति वा ससुरेत्युक्तिः । स्पृहाहेतुमाह ॥ रूपेति ॥ ८ ॥
छलारी
तस्यां रूपादिमहिम्नाऽऽक्षिप्तमाकृष्टं चेतो येषां ते तथा । ज्ञानिनामपि राग-जनकलोकविलक्षणसौन्दर्यं लक्ष्म्यामस्तीति द्योतयितुं सुरग्रहणं कृतमित्यवधेयम् ॥ ८ ॥
लिङ्घेरी
तस्यां लक्ष्म्यां ससुरासुरमानवाः सर्वे प्राणिनो, रूपं सौन्दर्यमौदार्यं महत्वं वयस्तारुण्यं वर्णो रूपं सुवर्णादिरूपं तेषां महिम्ना माहात्म्येनाक्षिप्तं स्थापितं चेतोऽन्तःकरणं यैस्ते तथा सन्तः स्पृहां चक्रुः ॥ ८ ॥
तस्याश्चासनमानिन्ये महेन्द्रो महदद्भुतम् ।
मूर्तिमत्यः सरिच्छे्रेष्ठा हेमकुम्भैर्जलं शुचि ॥ ९ ॥
सत्यधर्मीया
मूर्तिमत्यः धृताकाराः ॥ ९ ॥
छलारी
इदानीं लक्ष्म्याः स्वयंवरं वक्तुमादावभिषेकमहोत्सवमाह ॥ तस्याश्चे-त्यादिना ॥ मृर्तिमत्यः शरीरधारिण्यः ॥ ९ ॥
लिङ्घेरी
लक्ष्मीसौन्दर्यादिना वशीकृतान्तःकरणतयेन्द्रादीनां तत्सेवाप्रकारमाह ॥ तस्या-श्चेत्यादिना । महेन्द्रस्तस्या अद्भुतमाश्चर्यकरं महदासनं महत्पूज्यमासनमानिन्ये । मूर्तिमत्यो देहधारिण्यः सरिच्छ्रेष्ठा भागीरथ्यादिदेवता सुवर्णकलशैः शुचि निर्मलं जलमानिन्युः ॥ ९ ॥
अभिषेचनिका भूमिराहरत् सकलौषधीः ।
गावः पञ्चपवित्राणि वसन्तो मधु माधवम् ॥ १० ॥
पदरत्नावली
अभिषेचनिका अभिषेकयोग्यसाधनानि । पञ्चपवित्राणि गोमयादीनि । माधवं स्वकालसम्भवम् ॥ १० ॥
सत्यधर्मीया
अभिषेचनिका अभिषेकोपयुक्ताः । गावः पञ्च पवित्राणि गोमयादीनि । माधवं मधौ वसन्ते भवं मधु ॥ १० ॥
छलारी
अभिषेचनिका अभिषेकोचिताः । सकलौषधीः सकलधान्यानि । पञ्च पवित्राणि गोमयादीनि पञ्चगव्यानि वसन्तो वसन्त ऋत्वभिमानिदेवता मधुमाधवं चैत्रवैशाख-फलसम्भवं फलपुष्पादिकम् ॥ १० ॥
लिङ्घेरी
भूमिदेवता अभिषेचनिका अभिषेकोचिताः सकलौषधीरहरदानीतवती । गावः पवित्राणि क्षीरादीनि पञ्चगव्यादीन्याहरन् । वसन्तो माधवं चैत्रोत्पन्नं मध्वाहरत् ॥ १० ॥
ऋषयः कल्पयाञ्चक्रुरभिषेकं यथाविधि ।
जगुर्भद्राणि गन्धर्वा नार्यश्च ननृतुर्जगुः ॥ ११ ॥
पदरत्नावली
शङ्खादीनां तुमुलः निःस्वनो येषु ते तथा ॥ ११ ॥
सत्यधर्मीया
भद्राणि मनोहराणि ॥ ११ ॥
छलारी
अभिषेकमभिषेकविधिम् । भद्राणि मङ्गलानि गायनानि । नर्तक्यो नटनस्त्रियः
॥११॥
लिङ्घेरी
ऋषयोऽभिषेकं यथाविधं कल्पयांचक्रुः कृतवन्तः । गन्धर्वा भद्राणि मङ्गलानि जगुर्नटा विद्याधरादयो ननृतुः किन्नराश्च जगुः ॥ ११ ॥
मेघा मृदङ्गपणवमुरजानकगोमुखान् ।
व्यनादयन् शङ्खवेणुवीणातुमुलनिःस्वनान् ॥ १२ ॥
सत्यधर्मीया
मृदङ्गो मर्दलः । मृदक्षौदे विडादिभ्यः किदित्यङ्गच् । मृदङ्गमस्येति वा । मृदङ्गो वाद्यघोषयोरिति हैमः । पणं व्यवहारं वातीति पणवः । वातेः कः । मुखेष्टने तुदादिः पञ्चम्यामिति डः । मुराज्जायते इति मुरजः । आनको ढक्का । गोमुखा एते वाद्यविशेषाः । शङ्खश्च वेणुश्च वीणा च तासां तुमुलो निःस्वनो येषां ते तान्मृन्दगादीन् ॥ १२ ॥
छलारी
शङ्खादीनां तुमुलो गम्भीरा निःस्वना येषु तान्मृदंगादीन् ॥ १२ ॥
लिङ्घेरी
वाद्यघोषका मृदङ्गपणवमुरजानकगोमुखान्यवादयन् । शङ्खवेणुवीणानां तुमला-न्सन्दडितान्निःस्वनांश्चक्रुः ॥ १२ ॥
ततोऽभिषिषिचुर्देवीं श्रियं पद्मकरां सतीम् ।
दिगिभाः पूर्णकलशैः सूक्तवाकैर्द्विजेरितैः ॥ १३ ॥
सत्यधर्मीया
दिगिभा ऐरावतपुण्डरीकाद्याः । सूक्तवाकैर् वाकानुवाकैर्वाक्य विशेषैः
॥ १३ ॥
छलारी
दिगिभा दिग्गजाः ॥ १३ ॥
लिङ्घेरी
ततो दिश इभा गजा ऐरावताद्याः पूर्णकलशैर्बाह्मणोक्तैर्महाभिषेकसूक्तवाक्यैः पद्मकरां सतीं निर्दुष्टां श्रियमभिषिषिचुः ॥ १३ ॥
समुद्रः पीतकौशेयवाससी समुपाहरत् ।
वरुणः स्रजं वैजयन्तीं मधुना मत्तषट्पदाम् ॥ १४ ॥
सत्यधर्मीया
समुद्रः पिता । पात्राभिमानी । वरुणः जलमात्राभिमानिरूपान्तरम् । नाममात्रं भिन्नं न वस्तुद्वैराश्यम् इति ज्ञेयम् । मत्ताः षट्पदा भ्रमरा यस्यां सा ताः । मदनिमित्तं मध्वित्याह ॥ मधुनेति ॥ रसविशेषेण ॥ १४ ॥
छलारी
मधुना मकरंदपानेन मत्ताः षट्पदा भ्रमरा यस्यां तां वैजयन्तीं स्रजम् । अत्र समुद्रो वरुणस्यैव रूपान्तरं न पृथगिति ज्ञातव्यम् ॥ १४ ॥
लिङ्घेरी
समुद्रो वरुणः पीतकौशेयवाससी हरिद्रावर्णकुशकृमिनिर्मितवस्त्रे । मत्ताः पुष्परसपानजमदोपेताः षट्पदा भ्रमरा यस्यास्तामत एव धुनानां चाञ्चलयन्तीं नानासुगन्ध-पुष्पनिर्मितां स्रजं मालां च समुपाहरत् ॥ १४ ॥
भूषणानि विचित्राणि विश्वकर्मा प्रजापतिः ।
हारं सरस्वती पद्ममजो नागाश्च कुण्डले ॥ १५ ॥
सत्यधर्मीया
विश्वकर्मा तत्स्नुषा सरस्वती । हारं मुक्तामालाम् । हारो मुक्तावलाविति विश्वः । अजः ब्रह्मा । नागाः सर्पाः ॥ १५ ॥
छलारी
प्रजापतिर्विश्वकर्मा । अजो ब्रह्मा । नागाः सर्पाः ॥ १५ ॥
लिङ्घेरी
प्रजापतिर्विश्वकर्मा देवशिल्पिर्विचित्राणि भूषणान्याहरत् । सरस्वती ब्रह्माणी हारं मुक्तासरमजो ब्रह्मा पद्ममाहरत् । नागाः सर्पाः कुण्डले कर्णाभरणेऽहरन् ॥ १५ ॥
ततः कृतस्वस्त्ययनोत्पलस्रजं नदद्द्विरेफां परिगृह्य पाणिना ।
चचाल वक्त्रं सुकपोलकुण्डलं सव्रीडहासं दधती सुशोभनम् ॥ १६ ॥
पदरत्नावली
वक्त्रं समं स्तनद्वयं च दधाती ॥ १६-१७ ॥
सत्यधर्मीया
कृतस्वस्त्ययना कृतपुण्याहवाचना । नन्दन्तो द्विरेफा भ्रमरा यस्यां सा ताम् । चचाल अचलत् । निरगादिति यावत् ॥ १६ ॥
छलारी
इदानीं स्वयंवरप्रकारमाह ॥ तत इति ॥ कृतस्वस्त्ययना कृतपुण्याहवाचना । नदन्तो हुंकारं कुर्वन्तो द्विरेफा भ्रमरा यस्यास्तामुत्पलमालाम् । चचाल निरगात् ॥ १६ ॥
लिङ्घेरी
ततस्तदनन्तरं लक्ष्मीः कृतं स्वस्त्ययनं पुण्याहो यया सा सती । नन्दन्तो ध्वनिं कुर्वाणा द्विरेफा भ्रमरा यस्यां सा तामुत्पलस्रजं पाणिना प्रगृह्य सुकपोलकुण्डलं, सुशोभनं, व्रीडया लज्जया हासेन च सहितं वक्त्रं मुखं दधती सती चचार संचारं कृतवती ॥ १६ ॥
स्तनद्वयं चातिकृशोदरी समं निरन्तरं चन्दनकुङ्कुमोक्षितम् ।
ततस्ततो नूपुरवल्गुसिञ्जितैर्विसर्पती हेमलतेव सा बभौ ॥ १७ ॥
सत्यधर्मीया
समं निरन्तरम् । अन्तरवकाशशून्यम् । चन्दनकुङ्कुमेक्षितं स्तनद्वयं दधतीति पूर्वेणान्वयः । अतिकृशोदरी विसर्पती सा हेमलता सुवर्णवल्लीव बभावभात् ॥ १७ ॥
छलारी
अतिकृशोदरी सूक्ष्ममध्या निरन्तरमन्योन्यमत्यन्तसम्बद्धं सममेकप्रकारं स्तनद्वयं च दधती । चन्दनेन कुङ्कुमेनोक्षितं लेपितम् । नुपूरयोर्वल्गुभिः श्राव्यैः सिंजितैर्ध्वनिभिर्युक्ता ततस्ततस्तत्र तत्र विसर्पती शनैः शनैर्गच्छन्ती ॥ १७ ॥
लिङ्घेरी
अतिकृशोदर्यत्यल्पमध्यदेशा निरन्तरं घनं समं चन्दनकुङ्कुमकेसराभ्यां भूषितं लिप्तं स्तनद्वयं च दधाना, ततस्ततस्तत्र तत्र वल्गुभिर्मनोहरैः सिंजितैर्भूषणध्वनिभिः । भूषणानां तु सिंजितमित्यमरः । विसर्पती सञ्चारं कुर्वती सा रमा हेमलतेव बभौ ॥ १७ ॥
विलोकयन्ती निरवद्यमात्मनः पदं ध्रुवं चाव्यभिचारिसद्गुणम् ।
गन्धर्वयक्षासुरसिद्धचारणत्रैविष्टपेयादिषु नान्वविन्दत्(त) ॥ १८ ॥
पदरत्नावली
आत्मनः स्वस्य निर्दोषं गन्धर्वादिषु पदं स्थानं पतिलक्षणं स्थानं नान्वविन्दतेत्यन्वयः ॥ १८ ॥
सत्यधर्मीया
लोकम् अनुकुर्वन्त्या लोकमातुः कञ्चन विलासमालपति । विलोकयन्तीति ॥ ध्रुवं निरवद्यं निर्दुष्टम् । अव्यभिचारिणो नान्यत्रातिव्याप्ताः सन्तो गुणा यस्य तम् । आत्मनः स्वस्याः पदं भर्तृस्थानम् । त्रैविष्टपेयास् तृतीयं विष्टपं स्थानं यस्याः सा त्रिविष्टपा अदितिस्तस्या अपत्यानि आदितेयास् त्रैविष्टपेयाः । स्त्रीभ्यो ढगिति ढक् । तदादिषु विलोकयन्ती नान्वविन्दन् न लब्धा । तात्पर्यं निर्दोषतायामिवेतरसदोषतायां रमाया ज्ञेयम् ॥ १८ ॥
छलारी
गन्धर्वादीन्विलोकयन्ती रमा तेषु मध्ये आत्मनः स्वस्याः पदं पदलक्षणमाश्रयं ध्रुवं निरवद्यं निर्दोषमव्यभिचारिणो नित्याः सन्तो निर्दुष्टा गुणा यस्मिंस्तं नान्वविन्दत नामन्यत । त्रैविष्टपेयास्त्रिविष्टपसम्बन्धिनो देवाः ॥ १८ ॥
लिङ्घेरी
सा लक्ष्मीर्निरवद्यं पारतन्त्र्याद्यशेषदोषविदूरमव्यभिचारिणोऽतिव्याप्तिरहिताः सन्तोऽव्याप्त्यसम्भवविधुरागुणाः शुभधर्मा यस्य तम् । आत्मनः स्वस्य ध्रुवं सर्वदैकप्रकारतया स्थिरतरं पदमाश्रयीभूतं पतिं, गन्धर्वयक्षासुरसिद्धचारणत्रैविष्टपेयादिषु विलोकयन्ती सती नान्वविंदत न प्राप्तवती । त्रैविष्टपेया देवाः ॥ १८ ॥
नूनं तपो यस्य न मन्युनिर्जयो ज्ञानं क्वचित् तच्च न सङ्गवर्जितम् ।
कश्चिन्महांस्तस्य न कामनिर्जयः स ईश्वरः किं परतो व्यपाश्रयः ॥ १९ ॥
पदरत्नावली
ननु पदमनुपलभ्य किं पुंश्चली जातेत्याशङ्कां श्लोकद्वयेन परिहरति– नूनमिति ॥ यस्य तपोऽस्ति तस्य मन्युनिर्जयो नास्ति नूनं निश्चये । ‘नूनं तर्केऽर्थनिश्चये’ इत्यभिधानात् । इति तर्कयामि(इति)वा । ‘विधिनोक्तेन मार्गेण कृच्छ्रचान्द्रायणादिभिः । शरीर-शोषणं प्राहुस्तापसास्तप उत्तमम् ॥’ इति । अनेन ऋषितया नारदादयः प्रतिषिद्धाः । क्वचित् पुंसि ज्ञानमस्ति तस्य ज्ञानं सङ्गवर्जितं फलस्नेहरहितं न स्यात् । नूनमित्यत्राप्यनुकृष्यते । अनेन बृहस्पत्यादयो निषिद्धाः । कश्चिद् ब्रह्मा तत्र महानस्ति तस्य ब्रह्मणः कामनिर्जयो नास्ति । ‘प्रजापतिः स्वां दुहितरमभ्यध्यायत्’ इति श्रुतेः । ‘कस्मै देवाय हविषा विधेम’ इति च । यः परतो व्यपाश्रयः, परमन्यमाश्रयत इति स ईश्वरः किम् ? नैव । अनेन रुद्रादि-र्निवारितः ॥ १९ ॥
सत्यधर्मीया
कस्मिन् कस्मिन् कं कं दोषं योषिद्विलोक्य तं तं तत्याजेत्यतो व्याजहार ॥ नूनमिति ॥ तपो यस्य दूर्वासआदेर् नूनं तपोऽस्ति निश्चयेन मन्युनिर्जयः कोपजयो नूनं नास्तीत्येत दादावन्वेति । तपश्च विधिनोक्तमार्गेण कृच्छ्रचान्द्रायणादिभिः । शरीरशोषणं प्राहु-स्तापसां तप उत्तममित्यादि प्रोक्तम् । अम्बरीषादौ तद्व्यापृतिदृष्टेर् न मन्युजयस् तस्मिन्निति भावः । ज्ञानं क्वचिद् बृहस्पत्यादौ वर्तते । तच्च ज्ञानं सङ्गवर्जितम् । स्वभ्रातृभार्यां गर्भिणीं बलादगच्छदिति न सङ्गवर्जितमिति स न मदुद्वाहार्ह इति भावः । कश्चिन् महान् वयसा गुणेन च । महान् महत्तत्वाभिमानिचतुर्मुखः । महतश्चतुर्मुखादित्यादेरिति वा । ‘कस्मै देवाय हविषा विधेम’ इत्यादेः । ब्रह्मास्ति तथापि तस्य कामनिर्जयः नास्ति नूनम् । ‘प्रजापतिर्वै स्वां दुहितरमभ्यधावत्’ इति श्रुतेः । न च सङ्गवर्जितमित्यनेनाहं महानपि गृहीतुमर्ह इति अतिरिच्य ते न कामनिर्जय इति वाच्यम् । अत्र कामनामात्रम् । तदपि ‘न मे हृषीकाणि पतन्त्यसत्पथ’ इति तदुक्तेः प्रदर्शनमात्रम् । तत्र तु संसर्ग इति महता भेदेनोक्त इति ज्ञेयम् । य ईश्वर इन्द्रः सोऽपि किं प्रयोजकः । परतो व्यपाश्रयः व्यपाश्रयतीति स तथा । परतः परम् । इतराश्रयणेन वर्तमानो भर्ता कथं मम भवेदिति भावः ॥ १९ ॥
छलारी
कुतो नामन्यत इत्यतः क्वचित्कस्यचिद्दोषस्य सद्भावादित्याह ॥ नूनमित्य-दिना ॥ क्वचिद्गुरुशुक्रादिषु ज्ञानमस्ति । तत्ज्ञानं संगेन फलासक्त्या रहितं न । क्वचि-द्ब्रह्माऽस्ति । तस्य कामनिर्जयो नास्ति । प्रजापतिः स्वां दुहितरमभ्यधावदिति श्रुतेः । यः परतो व्यपाश्रयः परापेक्ष इन्द्रादिः स ईश्वरः किं नैवेत्यर्थः ॥ १९ ॥
लिङ्घेरी
गन्धर्वादिषु स्वपतित्वायोग्यताविमर्शप्रकारमाह ॥ नूनं तपो यस्येत्यादिना ॥ सोऽप्यमङ्गल इत्यन्तेन । यस्य तपः कायशोषणादिरूपं, ‘‘शरीरशोषणं प्राहुस्तपसामुत्तमं तपः’’ इत्यादिप्रमाणसिद्धमस्ति । तस्य पुरुषस्य मन्युनिर्जयः कोपजयो नास्ति । ‘मन्युः क्रोधे क्रतौ दैन्य’ इति नानार्थरत्नमाला । नूनं निश्चयः । अनेन ऋषयो निराकृताः । क्वचित्पुरुषे ज्ञानमस्ति तत्ज्ञानं संगवर्जितं फलाकांक्षारहितं न ॥ नूनमिति ॥ अनेन बृहस्पत्यादयो निराकृताः । देवेषु कश्चिच्चतुर्मुखो महानस्ति तस्य कामनिर्जयो नास्ति । प्रजापतिः स्वां दुहितरमभ्यध्यादिति श्रुतेः। यः परतो व्यपाश्रयोऽन्याश्रितः, स्वसंपदेऽस्य देवस्येति पूर्वोक्तश्रुतौ विष्ण्वनुग्रहेण प्राप्तपदो रुद्र ईश्वरः किं नेत्यर्थः । ईश्वरः सर्वभूतानामिति श्रुतिर्निरवकाशाऽस्य देवस्येति श्रुत्या बाधितार्थतया विवक्षितसर्वभूतेश्वरत्वं प्रतिवदतीति भावः ॥ १९ ॥
धर्मः क्वचित् तस्य न भूतसौहृदं त्यागः क्वचित् तच्च न मुक्तिकारणम् ।
वीर्यं न पुंसोऽस्त्यजवेगनिष्कृतं न हि द्वितीयो गुणसङ्गवर्जितः ॥ २० ॥
पदरत्नावली
तर्हि दण्डपाणिः स्यादिति तत्राह– धर्म इति ॥ क्वचित् संयमिन्यां धर्मोऽस्ति । तस्य धर्मस्य भूतेषु दया नास्ति, निरनुक्रोशाधिकारप्रवृत्तत्वात् । क्वचित् कस्मिंश्चित् पुंसि पुण्यलक्षणो धर्मोऽस्ति, तस्य प्राणिषु सौहृदं दुर्लभमिति सामान्यनिषेधो वा । तच्च त्यजनं च अर्थिभ्यो देवतादिभ्यो वा । न्यायार्जितधनादिदानं त्यागः । तच्च मुक्तिकारणं न भवति, भगवदर्पणबुद्ध्या नानुष्ठितत्वात् । हानोपादानाद्विलक्षणत्यागाधिकारित्वाद् वायुरपि मुक्तिकारणं न । ‘क्षीणः क्षीणः प्रविशति’ इति वचनात् । गुणसङ्गवर्जितो द्वितीयो न हि, हरिं विनेति शेषः
॥ २० ॥
सत्यधर्मीया
क्वचिद् धर्मरूपे धर्मो वर्तते तस्यैव यमरूपे भूतसौहृदं नास्ति शिक्षा-ध्यक्षत्वात् । क्वचिद्धनदे त्यागः वित्तवितरणमात्रम् । तत्सत्पात्रेभ्यो नेति मुक्तिकारणं न । तच्च तदपि मुक्तिकारणम् । मत्कर्तृकत्यागकरणम् । न वरवरणकारणमित्यावृत्त्यार्थोज्ञेयः । क्वचि-त्कार्तवीर्यादेः पुंसः वीर्यमस्ति । अजवेगस्य कालचक्रवेगस्य निष्कृतम् । प्रतीकाररूपं न । गुणसङ्गवर्जितः सनकादिर् नहिद्वितीयः । न हि विद्यते द्वितीया भार्या यस्य स तथा । नित्यं ब्रह्मचारित्वात्तस्येति भावः । पत्नीपाणिग्रहीति स्याद्वितीया सहधर्मिणीत्यमरः । मम द्वितीयः भर्ता न भवतीति वा ॥ २० ॥
छलारी
क्वचित्संयमिन्यां धर्मो यमस्तस्य भूतसौहृदं भूतेषु प्राणिषु सौहृदं दया नास्ति । निरनुक्रोशाधिकारप्रवृत्तत्वात् । क्वचित्पुंसि पुण्यलक्षणधर्मोऽस्ति तस्य भूतसौहृदं नेति सामान्यनिषेधो वा । क्वचित्पुरुषे त्यागो नामार्थिभ्यो देवतादिभ्यो वा न्यायार्जितधनत्यागः । तच्च यजनमपि मुक्तिकारणं न । भगवदर्पणबुद्ध्याऽननुष्ठितत्वात् । कस्यचित्पुंसः कार्तवीर्यार्जुनादेः सामर्थ्यमस्ति तदजवेगेन कालवेगेन परिहृतं न भवति । अनित्यमित्यर्थः । गुणसंगेन नित्यसंगेन विषयसंगेन वर्जितः स न कदाऽपि द्वितीयो मम वरो न हि । समाधिनिष्ठत्वात् । वरस्य वध्वापेक्षया द्वितीयत्वाद् द्वितीय इत्युक्तम् । अत एव वध्वा वधुवरा इति प्रथमतो निर्देशः
॥ २० ॥
लिङ्घेरी
क्वचिद्यमादौ धर्मोऽस्ति । यस्य धर्मादेर्भूतेषु सौहृदं स्नेहो दया नास्ति । निर्दयव्यापारप्रवृत्तत्वात् । क्वचित्कुबेरादौ त्यागो द्रव्यदानमस्ति तच्च त्यजनं तस्य मुक्तिकारणं न । कस्यचित्पुंस इन्द्रादेर्वीर्यमस्ति तच्चाजस्य हरेर्वीर्यान् निष्कृतं निष्क्रान्तमनाश्रयं न । तदेवं नारायणं विना समो गुणादिकार्यक्रोधादिदोषरहितः समस्तचेतनेष्वपि द्वितीयो नास्ति ॥ २० ॥
क्वचिच्चिरायुर्न हि शीलमङ्गलं क्वचित् तदप्यस्ति न वेद्यमायुषः ।
यत्रोभयं कुत्र च सोऽप्यमङ्गलः सुमङ्गलः कश्चन कांक्षते हि माम् ॥ २१ ॥
पदरत्नावली
क्वचिद् वस्तुनि चिरायुरस्ति चेत् तस्य शीलमङ्गलं न हि । चिरजीवि-वत् । क्वचिद् वस्तुनि तच्छीलमप्यस्ति तर्ह्यायुषो न वेद्यम् आयुर्ज्ञानं दुःशकमित्यर्थः । कुत्र च क्वापि यत्र यस्मिन् पुंसि उभयमायुः शीलं च सोऽपि पुमानमङ्गलः गर्वितः । सुमङ्गलः कश्चन लोकविलक्षणो मुक्तजातीयो मां काङ्क्षते यदि, सोऽपि न भवतीति शेषः ॥ २१ ॥
सत्यधर्मीया
चिरायुर् दीर्घमायुरस्ति । अश्वत्थामि्न । न शीलमङ्गलम् । शीलेन स्वाचारेण मङ्गलं न हि । पूतिगन्धित्वादिनाऽमङ्गलकरत्वादिति भावः । तदपि शीलमङ्गलं क्वचिन्मनुष्योत्तमादौ आयुषः । आयुर्नवेद्यम् इयदिति ज्ञातुमशक्यम् । स्थिरं नेति तात्पर्यम् । तत्रायुर्मानं तथावेद्यं चेत्युभयं रुद्रे वर्तते चेदपि सोऽमङ्गलः श्मशानवेश्मत्वादेः । चिरायुष्ट्वशील-मङ्गलेत्युभयग्रहणे मङ्गल इति बाधितार्थमिति ज्ञेयम् । कश्चित् त्वत्कामुको वर्तेतेत्यतो न तादृशो मदीश इत्युपदिशति । कश्च सुमङ्गलः पूर्वोदीरितदोषाकलुषः मां न हि काङ्क्षते काङ्क्षति । निरपेक्षमिति वक्ष्यमाणत्वात् । ममैव तदपेक्षा स च निर्मम इति भावः । मन्युनिर्जयः दैन्य-निर्जयो न नास्ति । तपस् तापकतास्ति मन्युर्दैन्ये क्रतौ क्रुधीति विश्वः । अनेन सूर्यपर्यासः । क्वचिज् ज्ञानं मनोनियामकत्वाद् यामिनीनियामके सङ्गवर्जितं नेति तारारन्तृत्वाच्चन्द्रविद्रावणम् । वर्जितं भावे क्तः सङ्गवर्जनं क्वचिद्वायौ वर्ततेऽथाप्यज्ञानं हरिविषये इति सोऽपि प्रतिषिद्धः । यस्य हिरण्यकस्य । तपः ब्रह्माणं प्रति तत्करणात् । मन्युनिर्जयः । तस्य न । नास्तीत्यसुरस्य ‘क्रुद्धस्य यस्य कम्पन्ते त्रयो लोका’ इति तदुक्तेः । कुबेरं निराकृत्यैव यक्षान्यध्यक्षताया उक्तेर्यक्षस्य । क्वचित्तस्य भूतसौहृदं दीनशिखण्ड्यादिशरीरदानेन तुम्बरो दृश्यते चेदपि न धर्मः । स्वस्वाम्यागमन उत्थानाभिगमनादिपुण्यं नास्तीति गन्धर्वस्य । ईश्वर ईशत्वादिसिद्धिमान् कश्चिच् चेदपि परतो व्यपाश्रयः । न निरवधितदवधिकत्वमिति सिद्धस्य । परतो व्यपाश्रयश्चारणः । स ईश्वरः किमिति चारणस्य च प्रतिषेधो वादानुकूल्यायानुसन्धेयः ॥ २१ ॥
छलारी
क्वचिन्मार्काण्डेयादौ चिरायुर्दीर्घायुषमस्ति । तत्र शीलमङ्गलं मङ्गलशील-मनुकूलस्वभावो नास्ति । इन्द्रियादमनशीलत्वात् । क्वचित्पुंसि तदपि तादृशं शीलमप्यस्ति । तत्रायुषः स्थैर्यं न वेद्यं दुर्ज्ञेयम् । अकस्मादेव मृत्युसंभवात् । यत्र कुत्र च रुद्रादाविन्द्रिय-दमनाद्यभावात् । मङ्गलं शीलमायुषः स्थैर्यं निश्चयश्चेत्युभयमप्यस्ति । तथाऽपि सोऽप्यमङ्गलः । स्मशानवासाद्यमङ्गलचेष्टितैर्गर्हितः । ब्रह्माऽतिवृद्धः । सूर्यः सन्तापकर्ता । वायुश्चञ्चलो, रुद्रो दिगंबर, इन्द्रो गर्वी, चन्द्रः प्रतिदिनं क्षययुक्तः । एवमादिप्रकारेणापि रमादेव्या ब्रह्मादीनां दोषाश्चिन्तिता इति ज्ञेयम् ।
‘एष ब्रह्माऽतिवृद्धस्तपति दिनपतिश्चञ्चलो मातरिश्वा
दिग्वासा नीलकण्ठस्त्रिदशपतिरसौ गर्वितः क्षीयतेऽब्जः ।
इत्थं देव्याविचिन्त्य भ्रमरकुलकलागीतशब्दप्रफुल्ला
दत्ता माला मुरारेः सुरतरुकुसुमालङ्कृता पातु युष्मान् ॥’ इत्यादिपुराणवचनात् ।
तर्हि सर्वेषां सदोषत्वेन तव निर्दोषः पतित्वेन स्वीकार्यः क इत्यतो मुकुन्दं लक्षीकृत्याह ॥ कश्चनेति ॥ लोके विलक्षणः सुमङ्गलो निर्दोषश्च मां कांक्षते । तं वरं वृणोमीत्याशयः । यद्वा । कश्च नेत्येतत्पदद्वये कश्च यः कश्चिल्लोकविलक्षणः सुमङ्गलो निरवद्यश्चास्ति सोऽपि मां न हि कांक्षते । आत्मारामादित्याशयः ॥ २१ ॥
लिङ्घेरी
क्वचित्पुरुषे चिरायुरस्ति । शीलेन सत्स्वभावेन युक्तं मङ्गलं नास्ति । क्वचिच्च तदपि शीलं मङ्गलमप्यस्ति तथाऽप्यायुष इयत्ता वेद्यं ज्ञानं नास्ति । यत्र कुत्र चोभयमायुर्ज्ञानं चेत्युभयमस्ति सोऽपि कालान्तरेण मरणवत्त्वेनामङ्गलः । कश्चन लोकविलक्षणः सुमङ्गलः सर्वदा माङ्गल्ययुक्तः श्रीनारायणो मां कांक्षते । ययोरेव समं वित्तमित्यादिश्रुतिस्मृतिसिद्धसाम्यस्य द्वावेतौ नित्यमुक्तावित्यादिश्रुतिसिद्धत्वात् । मम सर्वकालेऽपि तत्स्त्रीत्वात् । ‘मम योनिर्महद्ब्रह्म तस्मिन् गर्भं दधाम्यहम्’ इति तदुक्तेरित्याद्यर्थं हिशब्देनाह । नारायणस्य सर्वचेतनवैलक्षण्यं सर्वदा माङ्गल्यं च ‘द्वाविमौ पुरुषौ लोके’ । ‘उत्तमः पुरुषस्त्वन्यः’ । ‘मङ्गलानां च मङ्गलम्’’ इत्यादि भारतसिद्धम् ॥ २१ ॥
श्रीशुक उवाच–
एवं विमृश्याव्यभिचारिसद्गुणं पदं निजैकाश्रयिसद्गुणाश्रयम् ।
वव्रे वरं सर्वगुणैरपेक्षितं रमा मुकुन्दं निरपेक्षमीप्सितम् ॥ २२ ॥
तात्पर्यम्
‘अनाद्यनन्तकोलेऽपि विष्णुमेवाश्रिता रमा ।
अन्येषां ज्ञापनार्थाय दोषानुक्त्वेतराञ्जहौ’ इति च ॥ २२ ॥
पदरत्नावली
एवमिन्द्रादीनपि विमृश्य दोषानुक्त्वा रमा मुकुन्दं परं पदं वव्र इत्यन्वयः । अव्यभिचारिणो नातिव्याप्ताः सन्तो ऽव्याप्त्यसम्भवाख्यदोषरहिता गुणा लक्षणानि यस्य स तथा तम् । निजाश्चैकाश्रयिणश्चैकस्मिन्नेव वर्तमानाश्च, सन्तश्च, तपआदिगुणा येषां ते तथा, तेषां पुंसामाश्रयम् । निजत्वादेकाश्रयित्वम् । ‘निजमात्मीयनित्ययोः’ इति तत्तत्सत्ताप्रदत्वेन तदा-श्रयत्वं युक्तम् । भक्त्यादिसर्वगुणैरपेक्षितत्वं नत्वन्यथा । सौशील्यादिगुणैर्वा । कश्चन काङ्क्षत इत्यस्यापवादमाह– निरपेक्षमिति ॥ तर्हि न कश्चन तस्मिन्नादरं करोतीति तत्राह– ईप्सित-मिति ॥ ‘एष ब्रह्माऽतिवृद्धस्तपतिदिनपतिश्चञ्चलो मातरिश्वा । दिग्वासा नीलकण्ठस्त्रिदश-पतिरसौ गर्वितः क्षीयतेब्जः ॥ इत्थं देव्या विचिन्त्य भ्रमरकुलकलागीतशब्दप्रफुल्ला । दत्ता माला मुरारेः सुरतरुकुसुमाऽलङ्कृता पातु युष्मान् ॥’ इति पुराणज्ञा व्याचक्षते ॥ २२ ॥
सत्यधर्मीया
एवं विलोक्येति श्लोके तर्हि नियतभार्याया रमाया इतरालोचनं कथं युज्यते उच्यमानमित्यतो मानेनार्थमाह ॥ अनाद्यनन्तेति ॥ अन्येषाम् एते दोषिण इति ज्ञापनार्थाय दोषानुक्त्वा इतरान् जहौ तत्याज । एवं गुणान् दोषांश्चेतरेषु विमृश्य तांस्त्यक्त्वा रमा । अव्यभिचारिणः क्वचिच्चाव्यभिचीर्णाः सन्तो गुणा यस्य तम् । निजः स्वयं तेनैवैको मुख्यश्चा-सावाश्रयश्च स एषामस्ति ते निजैकाश्रयिणः । तेषां सन्तो गुणास्तेषां तत्तद्योग्यतानु-सारेणाश्रयस्तम् । सर्वगुणैर् दोषासमधिकरणैः । अपेक्षितं वस्तुमिति शेषः । गुणा एव तमपेक्षन्त इति भावः । सर्वगुणैः करणैरपः पालकान्तररहित इतीक्षितः ज्ञानदृष्टिविषयीकृतस्तमिति वा । मुकुन्दं पदं तद्रूपम् । वव्रे । परं पतिम् अत्यन्तमिति वा । ईप्सितं स्वकाङ्क्षितम् । सोऽपि स्वसाकाङ्क्षश्चेदपूर्णः स्यादित्यत आह ॥ निरपेक्षमिति ॥ रमाया रतिपात्रतेत्यादेः ॥ २२ ॥
छलारी
एवं विमृश्य विचार्य रमा निरपेक्षमपि मुकुन्दमेव वव्रे । तत्र हेतुः ॥ अव्यभिचारीत्यादि ॥ अव्यभिचारिभिरन्यत्राविद्यमानैः परिपूर्णैरित्यर्थः । सद्भिः कल्याणैर् ज्ञानैश्वर्यप्रभवानन्दतेजःशक्त्यादिभिर्वरं सर्वोत्तमं निजैकाश्रयता केवलं स्वाश्रयता परानपेक्षत्वं स एव गुणस्तस्याश्रयं स्वतन्त्रमित्यर्थः । सुशीलत्वादिसर्वैर्गुणैर्निमित्तैरपेक्षितं वरणीयं ममेप्सितमति-प्रियम् । यद्यपि भगवान्स्वयमात्मारामत्वेनान्यनिरपेक्षस्तथाऽपि तद्गुणलुब्धाऽसमा तदपेक्षयाऽहं तत्सेवया कृतार्था स्यां किमन्यैः प्राकृतैरपीति तमेव वव्र इति भावः ॥ २२ ॥
लिङ्घेरी
रमैवं विमृश्य विचारं कृत्वाऽव्यभिचारिसद्गुणं निजैकाश्रयाः केवलं स्वाश्रिता भक्त्यादिसद्गुणवंतश्च ये मुक्तास्तेषामाश्रयम् । ‘मुक्तानां परमा गतिः’ इत्यादेः । संसारिणां स्वभक्तानां मुकुन्दं मोक्षप्रदं, स्वसत्ताप्रतीतिप्रवृत्तिषु निरपेक्षं पराकांक्षारहितं, इप्सितं सर्व-दाऽपेक्षितं सर्वजनैः सर्वैः सौन्दर्यादिगुणैरपेक्षितं परं सर्वोत्तमं श्रीनारायणं वरं पतिं वव्रे स्वीकृतवती ॥ २२ ॥
तस्यांसदेश उशतीं नवकञ्जमालां
माद्यन्मधुव्रतवरूथगिरोपघुष्टाम् ।
तस्थौ निवीय निकटे तदुरः स्वधाम
सव्रीडहासविकसन्नयनेन भीता ॥ २३ ॥
पदरत्नावली
तस्य हरेरंसे मालां निवीय निधाय तस्थावित्यन्वयः । उशतीमिष्ट-साधनीभूतां कान्तां वा । व्रीडया सह वर्तमानः सव्रीडः स चासौ हासश्च सव्रीडहासः । तेन विकसितनयनेन स्वस्या धाम तस्य हरेर् उरः, पश्यन्तीति शेषः । भीता शरीरकम्पोपेता । अयं च शृृङ्गारविशेषः । ‘अनाद्यनन्तकालं विष्णुमेवाश्रिता रमा । अन्येषां ज्ञापनार्थाय दोषानुक्त्वेतरान् जहौ ॥’ इति वचनाद् अधुना हरेर्लक्ष्मीप्राप्तिः, न पूर्वमिति शङ्का परिहर्तव्या । स्वस्याः स्त्रिय इत्युत्तरश्लोकविशेषणसामर्थ्याच्च ॥ २३ ॥
सत्यधर्मीया
उशतीं प्रकाशमानाम् । गतम् । माद्यन्तश्चते मधुव्रता भ्रमराश्च तेषां वरूथं सङ्गस्तस्य गिरा उपघुष्टां शब्दिताम् । घुष्टम् इति गतम् । पदे एकस्मिन् गिरयोपघुष्टाम् इति गिराशब्दः । मेरुर्गिराया गुरुरित्यादेः । नवकञ्जमालाम् । यस्य अंसदेशे स्कन्धप्रदेशे निवीय निधाय निकटे तस्थौ । तस्य यदुरः वक्षस् तच्च तत्स्वधाम स्वागारञ्च तस्मिन् । व्रीडासहितं सव्रीडम् । हासेन विकसती नयने यस्याः सा । इन इति भीता सेव । अतो नाध्याहारक्लेश इव, नयनैकत्वशङ्कापीति ज्ञेयम् । अयमपि शृृङ्गारविशेषः ।
‘एष ब्रह्मातिवृद्धस्तपतिदिनमणिश्चञ्चलो मातरिश्वा
दिग्वासा नीलकण्ठः ससुरपतिरसौ गर्वितः क्षीयतेऽब्जः ।
इत्थं देव्या विचिन्त्य भ्रमरकुलकलागीतशब्दप्रफुल्ला
दत्ता माला मुरारेः सुरतरुकुसुमालङ्कृता पातु युष्मान् ॥’ इति पौराणिकाः ।
सुरतरोः कुसुमानि चेदीप्सितपुष्पाणि भविष्यन्तीति नवकञ्जमालेति उत्पलस्रजमिति च वैसंवाद्यं पुराणस्येति मन्तव्यम् । उक्तं चैवमेव भारते हरिवंशे पारिजाते नारदेन रुग्मिणीं प्रति ‘यानि यानि च पुष्पाणि त्वं देव्यभिलषिष्यसि । कुसुमं वृक्षराजस्य तानि तानि प्रदास्यति’ इति
॥ २३ ॥
छलारी
वरणप्रकारमाह ॥ तस्येति ॥ तस्य मुकुन्दस्यांसदेशे स्कन्धदेशे उशतीं मनोहरां नवकञ्जमालां निधाय निकटे तत्समीपे तूष्णीं तस्थौ । कथम्भूता । सव्रीडहासेन लज्जायुक्त-मन्दहासेन विकसितनयनेन । स्वधाम स्वस्य स्थानभूतं तदुरो विष्णोर्वक्षो, भीता । पश्यन्तीति यावत् । कथम्भूतां मालाम् । माद्यन्तो मकरन्दयुता ये मधुव्रतास्तेषां वरूथस्य वृन्दस्य गिरा खङ्कारेणोपघुष्ठां नादिताम् ॥ २३ ॥
लिङ्घेरी
वरणप्रकारमाह ॥ तस्येति ॥ रमा तस्य श्रीनारायणस्यांसदेशे उशतीं मनोरमां भक्तानामभीष्टप्रदां च । माद्यन्तः पुष्परसपानमदोपेता ये मधुव्रता भ्रमरास्तेषां वरूथं समूहस्तेषां गिरा वाण्योपघुष्टां ध्वन्युपेतां नवकञ्जमालां नूतनकमलमालां निवीय प्रक्षिप्य व्रीडया लज्जया सहितो यो हासस्तेन विकसद्विस्तृतं यन्नयनं तेन तन्मुखारविन्दं पश्यती भीता भयभक्तियुता सती स्वधाम स्वगृहस्थानीयं तस्य हरेरुरो वक्षःस्थलं च पश्यती सती निकटे समीपे तस्थौ । ‘अनाद्यनन्तकालेऽपि विष्णुमेवाश्रिता रमा । अन्येषां ज्ञापनार्थाय दोषानुक्त्वेतरान् जहौ’ इति प्रमाणात् । हरेरिदानीमेव लक्ष्मीप्राप्तिर्न पूर्वमिति न मन्तव्यम् । स्वस्याः स्त्रिय इत्युत्तरश्लोकाच्च
॥ २३ ॥
स्वस्याः स्त्रियस्त्रिजगतो जनको जनन्या
वक्षो निवासमकरोत् परमं विभूतेः ।
श्रीः स्वाः प्रजाः सकरुणेन निरीक्षणेन
यत्र स्थितैधयत साधिपतींस्त्रिलोकान् ॥ २४ ॥
पदरत्नावली
ऐधयत अवर्धयत् ॥ २४ ॥
सत्यधर्मीया
त्रिजगतो जनकः, तस्यैव जनन्याः स्वस्याः स्वकीयायाः । स्त्रिया विभूतेर् महालक्ष्म्याः । यत्र स्थिता । सकरुणेन करुणासहितेन निरीक्षणेन नेत्रावलोकनमात्रेण । साधिपतीन् । एवं निर्देशेन आधिना मनोव्यथया सहिताः साधयः, ते पतयो एषां ते इति विग्रहणेन तद्गतस्थितिरुक्ता भवतीत्यपि ज्ञेयम् । तथा च श्रुतिः ‘यं कामये’ इत्यादिका । स्वस्वाधिपतिसहितान् त्रिलोकान् तथा स्वाः प्रजाश् च ऐधयत अवर्धयत् । तद्वक्षः परमं निवासम् अकरोदित्यन्वयः ॥ २४ ॥
छलारी
भगवानपि तस्या लक्ष्म्या वक्षःस्थलं ददावित्याह ॥ स्वस्या इति ॥ त्रिजगतो जनको हरिर्विभूतयो विभवा यस्यास्तस्यास्त्रिजगतो जनन्याः श्रियः स्ववक्षः परमं सुस्थिरं निवासमकरोत् । यत्र वक्षसि स्थिता श्रीः स्वाः प्रजाः साधिपतींस्त्रिलोकांश्च सकरुणेन निरीक्षणेनैधयतावर्धयत् ॥ २४ ॥
लिङ्घेरी
त्रिजगतो लोकत्रयस्य जनक उत्पादकतया पितुःस्थानीयो, जनन्या मातुः-स्थानीयया विभूतेरैश्वर्याभिमानिन्या अनादिकाले स्वस्याः स्त्रियः स्वकीयपत्न््नयाः श्रीदेव्याः स्व-वक्षःस्थलं परमं निवासमुत्तमवासस्थलमकरोत् । श्रीर्यत्र हरेर्वक्षःस्थले स्थिता सती साधिपतीन् सस्वामिचतुर्मुखादिसहितान् त्रिलोकान् लोकत्रयस्थजनान्, यतस्ते जनाः स्वाः स्वकीयाः प्रजा अत एव सकरुणेन कृपायुक्तेन निरीक्षणेनावलोकनेनैधयताभिवृद्धैश्वर्ययुक्तानकरोत् ॥ २४ ॥
शङ्खतूर्यमृदङ्गानां वादित्राणां पृथक् स्वनः ।
देवानुगानां सस्त्रीणां नृत्यतां गायतामभूत् ॥ २५ ॥
पदरत्नावली
‘काहले गोमुखे तूर्यं दुन्दुभौ च प्रचक्षते’ इति च ॥ २५ ॥
सत्यधर्मीया
तूर्यं मुरजादि । तुरी त्वरायाम् । ऋहलोर्ण्यत् । गुणवाचित्वाद् बाहुलकात् हलि चेति दीर्घः । वादित्राणां भूवादिगृभ्योणित्रन् इति त्रन् । मुखवाद्यानां, देवानुगानां गन्धर्वाणां पृथक् स्वन अभूत् ॥ २५ ॥
छलारी
वादित्राणां वाद्यानां पृथगनेकविधः ॥ २५ ॥
लिङ्घेरी
तस्मिंल्लक्ष्मीनारायणविवाहोत्सवे शङ्कादिवाद्यानां स्वनो ध्वनिः सस्त्रीणामप्सरस-हितानां नृत्यतां विद्याधराणां गायतां देवानुगानां गन्धर्वाणां ध्वनिश्च पृथक् प्रत्येकमभूत् ॥२५॥
ब्रह्मरुद्राङ्गिरोमुख्याः सर्वे विश्वसृजो विभुम् ।
ईडिरेऽवितथैर्मन्त्रैस्तल्लिङ्गैः पुष्पवर्षिणः ॥ २६ ॥
पदरत्नावली
तल्लिङ्गैः श्रीलक्षणोपेतैः श्रीसूक्तैरित्यर्थः ॥ २६ ॥
सत्यधर्मीया
अङ्गिरा विधिसुतः । अवितथैर् विद्यमानार्थपरैर् विभुं हरिम् । तल्लिङ्गै रमालक्षणोपेतैर्मन्त्रै रमाञ्च पुष्पवर्षिणः सन्त ईडिरे अस्तुवन् ॥ २६ ॥
छलारी
अङ्गिरोनाम प्रजापतिर्ब्रह्मपुत्रः । अवितथैरबाधितार्थैर्वेदमन्त्रैस्तल्लिङ्गैर्विष्णु-लिङ्गप्रतिपादकैर्विष्णुं हरिम् । तल्लिङ्गैः श्रीलिङ्गोपेतैः श्रीसूक्तैर्विभुं श्रियमिति वा ॥ २६ ॥
लिङ्घेरी
ब्रह्मरुद्राङ्गिरसः मुख्याः श्रेष्ठा येषां ते । सर्वे विश्वसृजो विभुं हरिं पुष्पवर्षिणः सन्तस्तल्लिङ्गैर्हर्यसाधारणधर्मप्रतिपादकैरवितथैरनुपचरितार्थैर्मन्त्रैर्विष्णोर्नुकं वीर्याणीत्यादिरूपैरीडिरे स्तुतवन्तः ॥ २६ ॥
श्रिया विलोकिता देवाः सप्रजापतयः प्रजाः ।
शीलादिगुणसंपन्ना लेभिरे निर्वृतिं पराम् ॥ २७ ॥
सत्यधर्मीया
देवाः सप्रजापतयः प्रजा इतराश्च श्रिया विलोकिताः शीलादिगुणसम्पन्नाः परां निर्वृतिं लेभिरे प्रापुः ॥ २७ ॥
छलारी
परामतिशयितां निर्वृतिं सुखम् ॥ २७ ॥
लिङ्घेरी
प्रजापतिना चतुर्मुखेन सहिताः सप्रजापतयो देवा रुद्रादयस्तदितरप्रजाश्च श्रिया विलोकिताः सन्तः शीलादिगुणसंपन्नाः सन्तः परामुत्तमां निर्वृतिं मुदं लेभिरे ॥ २७ ॥
निस्सत्वा लोलुपा राजन् निरुद्योगा गतत्रपाः ।
यदा चोपेक्षिता लक्ष्म्या बभूवुर्दैत्यदानवाः ॥ २८ ॥
सत्यधर्मीया
यदा च दैत्यदानवा दितिसुता दित्यदित्येति ण्यः । दनोरपत्यानि दानवाः । लक्ष्म्योपेक्षिता अकटाक्षितास् तदैव निस्सत्त्वाः । दैत्येषु दानस्य वा उदकं यस्य । बलिर् निरन्तरं दातेति यावत् । सोऽपि बलिर् दैत्यदानवाश्च निस्सत्त्वा बभूवुरित्यावर्त्यान्वयः । दुर्बला लोलुपा वृथा काङ्क्षन्तः । गतत्रपा निर्लज्जाः । गता आगता त्रपा येषान्त इति वा बभूवुः ॥ २८ ॥
छलारी
लक्ष्म्या दैत्यादयो यदोपेक्षितास्तदा ते निःसत्त्वा धैर्यरहिता उदरपोषण एव रता निरुद्योगा आलस्यवन्तो गतत्रपा निर्लज्जा बभूवुरित्यन्वयः ॥ २८ ॥
लिङ्घेरी
यदा दैत्यदानवा लक्ष्म्योपेक्षितास्तदा यतो निःसत्त्वा अतो निरुद्योगा अपि, यतो गतत्रपा अतो लोलुपा बभूवुः । निःसत्त्वाः शरीरशक्तिरहिता अतो निरुद्योगाश्च, यतो गतत्रपास्त्यक्तलज्जा अतो लोलुपाश्च लक्ष्म्याकांक्षावन्तश्च बभूवुरिति वा ॥ २८ ॥
अथासीद् वारुणी देवी कन्या कमललोचना ।
असुरा जगृहुस्तां वै हरेरनुमतेन ते ॥ २९ ॥
सत्यधर्मीया
वारुणी तदभिमतिमती देवता । सा तु मद्यम् । अनुमतम् अनुमतिः
॥ २९ ॥
छलारी
वारुणी सुराभिमानिनी देवता ॥ २९ ॥
लिङ्घेरी
अथ वारुणी सुराभिमानी देवता कमललोचनकन्योत्पन्ना । तामसुरा हरेरनुमतेन संमत्या जगृहुः ॥ २९ ॥
अथोदधेर्मथ्यमानात् काश्यपैरमृतार्थिभिः ।
उदतिष्ठन् महाराज पुरुषः परमाद्भुतः ॥ ३० ॥
पदरत्नावली
काश्यपैर्देवासुरैः परममुत्तमम् अद्भुतमाश्चर्यमाहात्म्यं यस्य स तथा ॥३०॥
सत्यधर्मीया
काश्यपैर् देवपूर्वदेवैः । परममद्भुतम् आश्चर्यं येन सः । विस्मयोऽद्भुत-माश्चर्यमित्यमरः ॥ ३० ॥
छलारी
काश्यपैः कश्यपपुत्रैर्देवदैत्यादिभिः । पुरुषो हरिः ॥ ३० ॥
लिङ्घेरी
अथासुरैर्वारुणीस्वीकारानन्तरममृतार्थिभिः काश्यपैः कश्यपपुत्रैः सुरासुरैर्मथ्य-मानादुदधेः क्षीरसमुद्रात्परमाद्भुतोऽत्याश्चर्यकरः पुरुष उदतिष्ठदुत्तस्थौ । हे महाराजेति परीक्षि-त्सम्बोधनम् । उदतिष्ठदित्यनेनोक्तं प्रादुर्भावाभिज्ञतया स्तुत्यर्थम् ॥ ३० ॥
दीर्घपीवरदोर्दण्डः कम्बुग्रीवोऽरुणेक्षणः ।
श्यामलस्तरुणः स्रग्वी सर्वाभरणभूषितः ॥ ३१ ॥
पदरत्नावली
कम्बुग्रीवः रेखात्रयाङ्कितगलः ॥ ३१ ॥
सत्यधर्मीया
दीर्घौ पीवरौ पुष्टौ । पीवरेति गतम् । दोषौ दण्डाविव यस्य सः । कम्बुः शङ्खस्तद्वद् ग्रीवा यस्य सः । त्रिवलिकलितत्वाद्गलस्य तदौपम्यम् । श्यामलः । स्रग्वी अस्मायेति विनिः ॥ ३१ ॥
छलारी
दीर्घौ पीवरौ पुष्टौ दोर्दण्डौ भुजदण्डौ यस्य सः । कम्बुवद्रेखात्रययुक्ता ग्रीवा यस्य सः ॥ ३१ ॥
लिङ्घेरी
उत्थितं पुरुषं विशिनष्टि ॥ दीर्घेत्यादिना ॥ दीर्घा आजानावलंबिनः पीवराः पुष्टा दोर्दण्डा दण्डवत्परशिक्षणदक्षा हस्ता यस्य सः । कंबुवच्छंखवद्वलित्रयोपेता ग्रीवा यस्य सः । अरुणे कमलदलगर्भवद्रक्ते ईक्षणे नेत्रे यस्य सः । श्यामलो नीलमेघश्यामस्तरुणः षोडशवार्षिकः स्रग्वी वैजयन्त्यादिमालाधरः सर्वाभरणभूषितः ॥ ३१ ॥
पीतवासा महोरस्कः सुमृष्टमणिकुण्डलः ।
नीलकुञ्चितकेशान्तः सुभगः सिंहविक्रमः ॥ ३२ ॥
पदरत्नावली
नीलकुञ्चितकेशान्तः नीलकुञ्चितकेशस्वभावः । ‘अन्तस्त्ववसिते मृत्यौ स्वभावे परमात्मनि’ इति ॥ ३२ ॥
सत्यधर्मीया
केशाश्च तदन्तश्च केशान्ताः । नीलाश्च कुंचिताश्च ते केशान्ता यस्य स तथा । क्रमान्नैल्यं केशेषु तदन्ते वक्रता च यस्य सः । सुभगः ‘ऐश्वर्यस्य समग्रस्य वीर्यस्य यशसः श्रियः । ज्ञानवैराग्ययोश्चैव षण्णां भग इतीरणा’ इतीरितषड्गुणः । सिंहवद्विक्रमः पादक्षेपो यस्य स सिंहविक्रमः ॥ ३२ ॥
छलारी
नीलकुञ्चितः केशानामन्तो यस्य सः । सुभगः सुन्दरः सिंहविक्रमः प्रसिद्धपराक्रमः ॥ ३२ ॥
लिङ्घेरी
पीतवासाः पीताम्बरवान् । महद्विस्तृतं पूज्यं च उरः वक्षो यस्य स महोरस्कः । सु मृष्टेऽतिशयशोभितसुवर्णात्मके रत्नखचिते कर्णाभरणे यस्य स सुमृष्टमणिकुण्डलः । नीलाः कुंचिता वक्रीभूताः केशान्ता यस्य सः । सिंहस्य विक्रमवत्पराक्रमवद्विक्रमो यस्य सः । सु समीचीनो भगः समग्रैश्वर्यादिषड्गुणा यस्य सः ॥ ३२ ॥
अमृतापूर्णकलशं१ बिभ्रद् वलयभूषितः ।
स वै भगवतः साक्षाद् विष्णोरंशांशसम्भवः ॥ ३३ ॥
पदरत्नावली
अमृतस्येति षष्ठी तृतीयार्थे, अमृतेन पूर्णं कलशमित्यर्थः ॥ ३३ ॥
सत्यधर्मीया
अमृतापूर्णकलशो ऽमृतेनापूर्णः सम्यक् पूर्णः कलशस् तम् । आपूर्णेति पाठस्सरसो ऽमृताभृतमित्युत्तरमूलमूलकत्वात् । अमृतस्येति पाठे षष्ठी तृतीयार्थे । बिभ्रद्दधत् । वलयाभ्यां कङ्कणाभ्याम् । अंशः पद्मनाभस्तदंशेन सम्भवो यस्य सः ॥ ३३ ॥
छलारी
अमृतेनापूर्णं सम्पूर्णं कलशं बिभ्रत् । वलयाभ्यां कङ्कणाभ्यां भूषितः । विष्णोरंशस्य पद्मनाभस्यांशेनैकदेशेन संभवः प्रादुर्भावो यस्य सः ॥ ३३ ॥
लिङ्घेरी
अमृतस्यामृतेन पूर्णं कलशं बिभ्रद्दधानो, वलयाभ्यां कटकाभ्यां भूषित एतादृशः पुरुष उदतिष्ठदिति पूर्वेणान्वयः । स पुरुषः कस्यांशः किं नामकः किं कार्य इत्यत आह ॥ स वा इति ॥ स पूर्वोक्तपुरुषः साक्षादनुपचारेण भगवच्छब्दवाच्यस्य ‘अन्यतमो मुकुन्दात्को नाम लोके भगवत्पदार्थ’ इति स्मृतेः । विष्णोर्नारायणस्यांशांशसंभवः ॥ ३३ ॥
धन्वन्तरिरिति ख्यात आयुर्वेददृगिज्यभाक् ।
तमालोक्यासुराः सर्वे कलशं चामृताभृतम् ॥ ३४ ॥
पदरत्नावली
इज्यभाक् यज्ञभागभोक्ता । अमृतलक्षणमाहृतमाहारो यस्मिन् स तथा
॥ ३४ ॥
सत्यधर्मीया
धन्वन्तरिर् धन्वं पापम् आधिक्ये बिन्दुस् तस्मादतिशयेन तारयतीति धन्वन्तरिः । विस्तृतञ्चाशनायां मृत्युरिति व्याख्याबृहदारण्यकभाष्यतत्सजातीयस्थलेऽनुसन्धेयम् । वै स्मार्ती चेयं निरुक्तिरिति द्योतयति । धन्वं पापं तारयति प्लावयति लोकानिति वा । द्वितीयाया अलुक् । आयुर्वेदो वैद्यकवेदस्तद्दृक् । इज्यभाक् यज्ञभोक्ता । यज्ञभागहारीति वा । यज्ञभागिति पाठे अर्थः । अमृताभृतम् ॥ ३४ ॥
छलारी
आयुर्वेदं वैद्यशास्त्रं (पश्यति) जानातीति स तथा । अमृतेनाभृतं परिपूर्णं सर्ववस्तूनि ॥ ३४ ॥
लिङ्घेरी
धन्वन्तरिरिति ख्यातः प्रसिद्ध आयुर्वेदस्य वैद्यशास्त्रस्य दृक् द्रष्टा । इज्यं यज्ञहविः, तद्भोक्ता य एवंविधस्तमसुराः सर्वेऽवलोक्यामृतमाहृतमाहारो यस्मिंस्तं कलशं चाव-लोक्य ॥ ३४ ॥
लिप्सन्तः सर्ववस्तूनि कलशं तरसाऽहरन् ।
नीयमानेऽसुरैस्तस्मिन् कलशेऽमृतभाजने ॥
विषण्णमनसो देवा हरिं शरणमाययुः ॥ ३५ ॥
तात्पर्यम्
‘तेषां सत्याच्चालनार्थं हरिर्धन्वन्तरिर्विभुः ।
समर्थोऽप्यसुराणां तु स्वहस्तादमुचत्सुधामि’ति च ॥ ३५ ॥
पदरत्नावली
‘तेषां सत्याच्चालनार्थं हरिर्धन्वन्तरिर्विभुः । समर्थोऽप्यसुराणां च स्वहस्तादमुचत् ॥’ इति वचनात् (हरीच्छया)दैत्यैर्हरिहस्तादमृतं हृतं न त्वशक्तत्वादिति दर्शनरहस्यम् ॥ ३५ ॥
सत्यधर्मीया
लिप्संतः सर्ववस्तूनीति श्लोके हरिरसमर्थ इत्यहरन्नसुरा अमृतभृत-कलशमिति भात्यतः प्रमाणेन तद्यथावद्व्याख्याति ॥ तेषामिति ॥ सत्याच्चालनार्थम् । तदुत्तरत्र निकृत्या निकृतिमिति नीतितस्तद्वचनार्थमिति मन्तव्यम् । समर्थोऽपि विभुर्धन्वन्तरि-र्हरिः । स्वहस्तात् सुधां तत्कलशम् अमुञ्चन् मुमोच । इत्यष्टमेष्टमः । सर्ववस्तूनि सैन्धवानि तरसा कलशम् अहरन् । अमृतभाजने तत्पूरितकलशे । यद्वा कलशेऽसुरैर्नीयमाने विषण्णमनसः सुमनसो हरिम् अमृतभाजने विभजनविषये शरणमाययुरित्यन्वयः ॥ ३५ ॥
छलारी
कामधेन्वादीनि लिप्सन्तः प्राप्तुकामा अहरन् अपहृतवन्तः । अमृतपानेन जरामरणशून्याः सन्तः सर्वं प्राप्स्याम इति, भाजनममृतकलशमपाहरन्निति भावः । अमृत-भाजनेऽमृतपात्रे ॥ ३५ ॥
लिङ्घेरी
सर्ववस्तूनि लिप्सन्त आकाङ्क्षमाणाः कलशं तरसाऽहरन् । असुरैरमृतस्य भाजने पात्रे तस्मिन्कलशे नीयमाने सति देवा विषण्णं क्लेशयुक्तं मनो येषां ते तथा सन्तो हरिं शरणमाययुः ॥ ३५ ॥
इति तद्दैन्यमालोक्य भगवान् भृत्यकामकृत् ।
मा खिद्यत मिथोऽर्थं वः साधयिष्ये स्वमायया ॥ ३६ ॥
सत्यधर्मीया
भृत्यकामस्तदिच्छितः पुमर्थस् तं करोतीति कृत् । भृत्या वेतनेन कामकृन्न भवतीति वा । स्वमायया स्वेच्छया ॥ ३६ ॥
छलारी
मा खिद्यत खेदं नाप्नुत । वोऽर्थं प्रयोजनं स्वमायया स्वसामर्थ्येन दैत्यानां मिथः कलहोत्पादनेन साधयिष्ये । इत्याहेति शेषः ॥ ३६ ॥
लिङ्घेरी
भृत्यानां देवानां कामं मनोरथं करोतीति कृद् भगवान् धन्वन्तरिः, इति उक्तरीत्या तेषां देवानां दैन्यमालोक्य । हे देवा यूयं मा खिद्यत व्यथां न कुर्वत । अहं स्वमायया तेषामसुराणां मिथः परस्परं कलहं जनयित्वा वो युष्माकमर्थं प्रयोजनममृतपानरूपं साधयिष्ये । इत्याहेति शेषः ॥ ३६ ॥
मिथः कलिरभूत् तेषां तदर्थे तर्षचेतसाम् ।
अहं पूर्वमहं पूर्वं न त्वं न त्वमिति प्रभो ॥ ३७ ॥
पदरत्नावली
तर्षचेतसां तृष्णायुक्तमनसाम् ॥ ३७ ॥
सत्यधर्मीया
तर्षं तद्युतं चेतो येषां तेषाम् । कलिः कलहः । तत्प्रकारमाह ॥ अहं पूर्वमहं पूर्वमिति ॥ हे प्रभो परीक्षित् ॥ ३७ ॥
छलारी
तदेवाह ॥ मिथ इति ॥ तदर्थेऽमृतार्थे तर्षः कामस्तद्युक्तानि चेतांसि येषां ते । तेषामित्येवं समबलानां कलिरभूत् ॥ ३७ ॥
लिङ्घेरी
हे प्रभो । तस्मिन्नमृतरूपेऽर्थे तर्षेणाकांक्षायुतं चेतो मनो येषां तेषामसुराणामहं पूर्वमिदममृतं दृष्टवान् गृहीतवान् पास्ये त्वं नेत्यादिरूपः कलिः कलहोऽभूत् ॥ ३७ ॥
देवाः स्वभागमर्हन्ति ये तुल्यायासहेतवः ।
सत्रयाग इवैतस्मिन्नेष धर्मः सनातनः ॥ ३८ ॥
इति स्वान् प्रत्यषेधन् वै दैतेया जातमत्सराः ।
दुर्बलाः प्रबलान् राजन् गृहीतकलशान् मुहुः ॥ ३९ ॥
पदरत्नावली
यथा सत्रयागे सर्वेषां समानं फलम् ॥ ३८ ॥
सत्यधर्मीया
द्वाभ्यां पद्याभ्यां दुर्बलानां स्वतस्तदलाभादलाभा इत्थं प्रसस्रुर्बलिनः प्रतीतीरयति । एतस्मिन्नमृतप्राप्तिप्रयत्ने ये तुल्यायासहेतवो ऽस्मदायाससमानायासकारणानि देवा इति ते स्वभागम् अर्हन्ति । यथा सत्रयागे सर्वे यजमानाः सर्वे ऋत्विज इत्यादेर् एषः सनातनो धर्मः । स्वान् स्वयूथ्यान् जातमत्सरा बलिष्ठा इति नास्मभ्यं दद्युरिति मात्सर्योपेताः । अनेन न मनःपूर्वकं सुमनोमृतवितरणवचनं किन्तु स्वालाभप्रयुक्तोऽयं प्रलाप इति द्योत्यते । मुहुः प्रत्यषेधन् ॥ ३८-३९ ॥
छलारी
दुर्बलानां तु क्रोशप्रकारमाह ॥ देवा इति ॥ एतस्मिन्नेवामृतसाधने तुल्ये-नायासेन हेतवो ये देवास्ते स्वभागं प्राप्तुमर्हन्ति । यथा सत्रयागे सर्वेषां समबलं तद्वत् । इति दुर्बला दैत्याः स्वेषाममृताभावेन गृहीतकलशान् प्रबलान् दैत्यान् प्रत्याहुः । किमिति । देवाः स्वभागमर्हन्ति । कुतः । तुल्यायासहेतवोऽतः सत्रयाग इव इत्युक्ता दुर्बला दैत्याः प्रबलान्स्वान्दैत्यान् प्रत्यषेधन् ॥ ३८-३९ ॥
लिङ्घेरी
हे राजन् । दैतेया दैत्यादयोऽसुरा जातमत्सराः सन्तो यतः स्वयं दुर्बला अतः स्वतः प्रबलान् गृहीतामृतकलशान् स्वान्स्वकीयानेव इति प्रत्यषेधन्मुहुर्मुहुः । किमिति । हे असुराः । ये तुल्ये समाने आयासे समुद्रमथननिमित्ते हेतवः कारणीभूता देवा अपि स्वभागमर्हन्ति । यथा बहुकर्तृकानेकाहर्निवर्त्यसत्रयागे सर्वे समानफलभागिनस्तथैष धर्मः सनातनः सदातनः यतोऽतोऽस्मिन्विवादकाले कर्तुमुचित इति ॥ ३८–३९ ॥
एतस्मिन्नन्तरे विष्णुः सर्वोपायविदीश्वरः ।
योषिद्रूपमनिर्देश्यं दधार परमाद्भुतम् ॥ ४० ॥
सत्यधर्मीया
सर्वोपायविद् ईश्वरः । सर्वोपायविदामीश्वर इति वा ॥ ४० ॥
छलारी
एतस्मिन्नन्तरे दैत्यानां मिथः कलहकालेऽनिर्देश्यमिदमेतादृशमिति निर्देष्टुमशक्यम्
॥ ४० ॥
लिङ्घेरी
हे राजन् । एतस्मिन्नन्तरेऽस्मिन्नसुरकलहसमये सर्वोपायविदामीश्वरो विष्णुर-निर्देश्यमिदमेतादृगिति निर्देष्टुमशक्यमत एव परमाद्भुतं योषित्स्त्रियो रूपं दधार प्रादुश्चकारेत्यर्थः
॥ ४० ॥
प्रेक्षणीयोत्पलश्यामं सर्वावयवसुन्दरम् ।
समानकर्णाभरणं सुकपोलोन्नसाननम् ॥ ४१ ॥
पदरत्नावली
सुकपोलेनोन्नतनासिकया युक्तमाननं यस्य तत् तथा ॥ ४१ ॥
सत्यधर्मीया
उत्पलं नीलम् । उन्नता नासिका यस्य तदुन्नसं च तदाननं च । क्रतुपुरुषगुल्फकपोलमेधाभिधानानि पुंसीति लिङ्गानुशासनम् । ‘गण्डः कपोले विस्फोट’ इत्यमरः । सु शोभने कपोलोन्नसानने यस्य तत् ॥ ४१ ॥
छलारी
तद्भगवतः स्त्रीरूपं वर्णयति ॥ प्रेक्षणीयेत्यादिना ॥ प्रेक्षणीयमुत्पलमिव श्यामम् । समानयोः कर्णयोराभरणयोः कुण्डले यस्मिन् । सुकपोलं च तदुन्नसमुन्नतनासिकं चाननं यस्मिंस्तत् ॥ ४१ ॥
लिङ्घेरी
तं नारायणीरूपं वर्णयति ॥ प्रेक्षणीयेत्यादिना ॥ सौन्दर्यकोमलतादिगुणैः प्रेक्षणीयमवश्यं द्रष्टव्यं यत्, उत्पलं नीलोत्पलं तद्वच्छामं नीलवर्णं, सर्वावयवैः करचरणादिभिः सुन्दरं, समाने कर्णाभरणे यस्य तत् । सुकपोलेन समीचिनगण्डस्थलेनोन्नतनासिकया च युक्तमाननं यस्य तत् ॥ ४१ ॥
नवयौवननिष्पन्दस्तनभारकृशोदरम् ।
मुखामोदानुरक्तालिखङ्कारो१द्विग्नलोचनम् ॥ ४२ ॥
पदरत्नावली
नवयौवनेन निष्पन्दतोर्निश्चलतोः स्तनयोर्भारेण कृशं तनुतरम् उदरं यस्य तत् तथा । मुखपरिमलेनानुरक्तानां निरतानाम् अलीनां भृङ्गाणां हुङ्कारेण झेङ्कारेणोद्विग्ने भ्रान्ते लोचने यस्य तत् तथा ॥ ४२ ॥
सत्यधर्मीया
नवं यद्यौवनं तेन । न विद्यते स्पन्दः किञ्चिच् चलनं ययोस्तौ च तौ स्तनौ कुचौ च तयोर्भारस् तेन कृशं तनूदरं यस्य तत् । मुखस्य च य आमोदः परिमलम् । तत्रानुरक्ता आसक्ता अलयोऽलिनो वा तेषां खङ्कारेण उद्विग्ने भीते इव लोचने यस्य तत् ॥ ४२ ॥
छलारी
नवयौवननिवृत्तयोर्नितरां पुष्टयोः स्तनयोर्भारेण । मुखामोदे मुखपरिमलेऽनुरक्तानां निरतानामलीनां भृङ्गाणां खङ्कारेणोद्विग्ने भ्रान्ते लोचने यस्य तत् ॥ ४२ ॥
लिङ्घेरी
नवयौवनेन नूतनतारुण्येन निष्पदतोर्निश्चलतोः स्तनयोः कुचयोर्भारेण कृशं स्वल्पमुदरं यस्य तत् । मुखस्यामोदे परिमलेऽनुरक्ता अलयस्तेषां खंकारेणोद्विग्ने चञ्चले लोचने यस्य तत् ॥ ४२ ॥
बिभ्रत् स्वकेशभारेण मालामुत्फुल्लमल्लिकाम् ।
सुग्रीवकण्ठाभरणं सुभुजाङ्गदभूषितम् ॥ ४३ ॥
पदरत्नावली
सुष्ठु शोभना ग्रीवा यस्य तत् तथा । शोभनं कण्ठाभरणं यस्य तत् तथा । शोभनैर्भुजाङ्गदैर्विभूषितम् ॥ ४३ ॥
सत्यधर्मीया
उत्फुल्ला विकसिता मल्लिकास् तृणशून्यानि यस्यां सा तां मालाम् बिभ्रत्, कण्ठे आभरणं यस्य तत् । सु शोभना ग्रीवा यस्य तत् तच्च । सु शोभनानि भुजाङ्गदानि तैर्भूषितम् ॥ ४३ ॥
छलारी
सुष्टु ग्रीवा यस्मिंस्तत् सुग्रीवं, कण्ठे आभरणं यस्य तत्कण्ठाभरणं च तथोक्तम् । सुभुजयोरङ्गदाभ्यां च भूषितम् ॥ ४३ ॥
लिङ्घेरी
उत्फुल्ला विकसिता मल्लिका यस्यास्तां मालां स्वकेशभारेण बिभ्रत्, शोभमाना ग्रीवा कण्ठाभरणं च यस्य तत् । शोभनाभ्यां भुजांगदाभ्यां भूषितम् ॥ ४३ ॥
विरजाम्बरसंवीतं चित्रं वध्वीयशोभया ।
काञ्च््या प्रविलसद् वल्गुस्फुरच्चरणनूपुरम् ॥ ४४ ॥
पदरत्नावली
वधूनां विद्यमाना वध्वीया तया शोभया चित्रम् । काञ्च्या च चित्रम् । प्रविलसच्छोभमानं वा । यथा वल्गु कर्णरमणीयं तथा स्फुटन्ती शब्दं कुर्वती चरणनूपुरे यस्य तत् तथा ॥ ४४ ॥
सत्यधर्मीया
विगतं रजः मलं यस्मात् तच्च तदम्बरं वस्त्रं च तेन संवीतम् । रजोवाची रजो दन्तः शिरोवाची शिरस्तथा । निचकर्त शिरान्द्रौणिरर्थाः पादरजो यमा इत्यादेरजः-शब्दपर्यायोऽयं रजशब्दः । वधूनामियं वध्वीया सा च सा शोभा च तया चित्रम् आश्चर्यकरम् । काञ्च्या च प्रविलसत् । वल्गुनी मनोहरे स्फुरती चरणनूपुरे यस्य तत् ॥ ४४ ॥
छलारी
विरजाम्बरेण स्वच्छवस्त्रेण संवीतं परिवेष्टितं नितम्ब एव वध्वीयः विशालत्वात्तत्र शोभा यस्यां तया काञ्च्या प्रकर्षेण विलसत् । वल्गु मनोहरं यथा भवति तथा । चलतोश्चरणयोर्नूपुरे यस्मात् ॥ ४४ ॥
लिङ्घेरी
विरजं मालिन्यादिदोषरहितं यदंबरं वस्त्रं तेन संवीतं वेष्टितं वधोः स्त्रियो विद्यमानया शोभया चित्रमाश्चर्यकरं, कांच्या कट्याभरणेन प्रविलसदतिप्रकाशं, वल्गुभ्यां मनोहराभ्यां स्फुरद्भ्यां प्रकाशमानाभ्यां नूपुराभ्यां पादांगदाभ्यां युक्तम् ॥ ४४ ॥
सव्रीडस्मितविक्षिप्तभ्रूविलासावलोकनैः ।
दैत्ययूथपचेतस्सु काममुद्दीपयन्मुहुः ॥ ४५ ॥
पदरत्नावली
सव्रीडस्मितेन विक्षिप्तैर्भ्रूविलासैर्युक्तैरवलोकनैर् उद्दीपयन् ज्वलयन् ॥ ४५ ॥
सत्यधर्मीया
सव्रीडस्मितेन विक्षिप्ताः प्रसादिता भ्रूविलासास्तैः सहितानि अवलोकनानि तैः । उद्दीपयद् उज्वलयत् ॥ ४५ ॥
छलारी
सव्रीडेन स्मितेन सह विक्षिप्ता कम्पिता या भ्रूस्तस्या विलासेन सह यान्यवलोकनानि तैर्दैत्ययूथपानां चेतःसु मुहुरतिशयेन काममुद्दीपयन् ॥ ४५ ॥
लिङ्घेरी
सव्रीडेन सलज्जेन स्मितेन हासेन युक्तैर्विक्षिप्तैर्भ्रूविलासैः सहितैरवलोकनैर्दैत्यानां यूथं समूहं पांति रक्षन्तीति यूथपास्तेषां चेतःस्वन्तःकरणेषु कामं स्वविषयेच्छां मुहुः पुनरुद्दीपयदभिवृद्धं कुर्वद्योषिद्रूपं दधारेति पूर्वेणान्वयः ॥ ४५ ॥
तेऽन्योन्यतः सुधापात्रं हरन्तस्त्यक्तसौहृदाः ।
क्षिपन्तो दस्युधर्मेण आयान्तीं ददृशुः स्त्रियम् ॥ ४६ ॥
सत्यधर्मीया
दस्युधर्मेण कापट्येन आयान्तीं स्त्रियं ददृशुः । अन्योन्यं दस्युधर्मेण क्षिपन्त इति वा । धर्मेण आयान्तीमित्यत्र सन्ध्यभावो भाविदेवदैत्यसन्ध्यभावसूचकः ॥ ४६ ॥
छलारी
ते दैत्या दस्युधर्मेणान्योन्यतः परस्परमपहरन्तः क्षिपन्तः परुषं वदन्तः सन्तः
॥ ४६ ॥
लिङ्घेरी
ते असुराः । अन्योन्यतः परस्परम् एकस्माद्येक इति यावत् । सुधापात्रं हरन्तः सन्तो बलात्कारेण स्वीकुर्वाणः सन्तस्त्यक्तं सौहृदं स्नेहलक्षणं यैस्ते तथा सन्तः, क्षिपन्त-स्तिरस्कुर्वन्तः, एवं दस्यूनां चोराणां धर्मेण प्रवृत्ताः सन्त आयान्तीं स्त्रियं ददृशुः ॥ ४६ ॥
अहो रूपमहो धाम अहो अस्या नवं वयः ।
इति ते तामभिद्रुत्य पप्रच्छुर्जातहृच्छयाः ॥ ४७ ॥
सत्यधर्मीया
जातः हृच्छयो मन्मथो येषां ते तथा ॥ ४७ ॥
छलारी
अहो रूपं सौन्दर्यम् अहो धामेति वदन्तो हृच्छयवन्तः ॥ ४७ ॥
लिङ्घेरी
ते असुरास्तां दृष्ट्वा जातो हृच्छयः कामो येषां ते तथा सन्तः, अस्याः स्त्रियो रूपमहो आश्चर्यकरं, धाम तेजोऽहो, नवं वयस्तारुण्यमहो इति परस्परं वदन्तस्तामभिद्रुत्य पप्रच्छुः प्रश्नं कृतवन्तः ॥ ४७ ॥
का त्वं कञ्जपलाशाक्षि कुतो वा किं चिकीर्षसि ।
कस्यासि वद वामोरु मथ्नन्तीव१ मनांसि नः ॥ ४८ ॥
सत्यधर्मीया
पलाशानि । ‘पत्रे पलाशम्’ इति विश्वः । कस्यासि पुत्रीति शेषः । न स्पृष्टपूर्वां जानीम इत्युत्तरस्वारस्यात् ॥ ४८ ॥
छलारी
त्वं का देवादिमध्ये किं जातीया कुतः कस्माद्देशादागताऽसि । कस्य पुत्र्यसि । मथ्नतीव क्षोभयतीव ॥ ४८ ॥
लिङ्घेरी
प्रश्नप्रकारं दर्शयति ॥ का त्वमित्यादिना ॥ हे कञ्जपलाशाक्षि कमलपत्रवद्विशालतादिगुणवन्नेत्रे त्वं काऽसि? कुतः कस्मादागता? किं कार्यं चिकीर्षसि कर्तुमिच्छसि? हे वामोरु मनोहरोरुमति त्वं कस्य पुत्री कस्य भार्याऽसि तन्नोऽस्माकं वद । त्वं नो मनांसि मथ्नन्तीव भासि ॥ ४८ ॥
न वयं त्वाऽमरैर्दैत्यैः सिद्धगन्धर्वचारणैः ।
स्पृष्टपूर्वां तु जानीमो लोकेशैश्च कुतो नृभिः ॥ ४९ ॥
पदरत्नावली
त्वा त्वाम् ॥ ४९ ॥
सत्यधर्मीया
नृभिः स्पृष्टपूर्वा नेति किं वक्तव्यमित्यर्थः ॥ ४९ ॥
छलारी
त्वाममरादिभिः स्पृष्टपूर्वाम् ॥ ४९ ॥
लिङ्घेरी
हे स्त्रि । वयं त्वाममरैर्दैत्यैः सिद्धगन्धर्वचारणैश्च लोकेशैरिन्द्रादिभिश्च न तु स्पृष्टपूर्वां पूर्वमस्पृष्टामननुभुक्तां जानीमः । यदैवं त्वं लोकेशैश्चास्पृष्टपूर्वा तदा नृभिर्मनुष्यैर-स्पृष्टपूर्वेति कुतो वक्तव्यम् ॥ ४९ ॥
नूनं त्वं विधिना सुभ्रुः पे्रषितासि शरीरिणाम् ।
सर्वेन्द्रियमनःप्रीतिं विधातुं सघृणेन किम् ॥ ५० ॥
पदरत्नावली
विधिना विरिञ्चेन ॥ ५० ॥
सत्यधर्मीया
सुभ्रुरित्येव पाठः । अवृत्तकर्तनात् । हे सुभ्रूः । हापितः क्वासि हे सुभ्रु इति भट्टिः प्रमाद एवायमिति बहव इति कौमुद्युक्तेः । सघृणेन सकरुणेन । विधिना धात्रा प्रेषितासि किम् ॥ ५० ॥
छलारी
सर्वेन्द्रियाणां मनसश्च प्रीतिं विधातुं सघृणेन दयालुना विधिना नूनं हरिणैव प्रेषिताऽसि किम् ॥ ५० ॥
लिङ्घेरी
हे सुभ्रु । त्वं सघृणेन दयावता विधिनाऽस्मददृष्टप्रेरकेणेश्वरेणास्मदादिशरीरिणां सर्वेन्द्रियमनःप्रीतिं विधातुं कर्तुं प्रेषिता किं प्रेषिता नूनं निश्चयः ॥ ५० ॥
सा त्वं नः स्पर्धमानानामेकवस्तुनि भामिनि ।
ज्ञातीनां बद्धवैराणां शं विधत्स्व सुमुध्यमे ॥ ५१ ॥
पदरत्नावली
शं विधस्त्व शंविधानं मनःसन्तोषकारणम् ॥ ५१ ॥
सत्यधर्मीया
एकवस्तुनि अमृतरूपैकपदार्थे । हे भामिनि । स्पर्धमानानां सङ्घर्षं कुर्वतां तत्रापि ज्ञातीनां बद्धवैरिणाम् । हे सुमध्यमे शं विधत्स्व यथाभागं विभजनेन सुखं कुरु । भामिनि, सु मध्ये मिर्यस्याः सा तत्संबुद्धिः सुमध्यमे इति च वचनचातुरी ज्ञेया । एकवस्तुनीति नपुंसकनिर्देशेन स्त्रीप्रयुक्तोऽयं कलहो न भवतीति न सुन्दोपसुन्दनीत्यवसर इति ध्वन्यते ॥५१॥
छलारी
एकवस्तुन्यमृतविषये । शं सुखं विधत्स्व कुरुष्व ॥ ५१ ॥
लिङ्घेरी
हे भामिनि । अननुकूलेषु कोपनशीलेषु सुमध्यमे । सा त्वमेकवस्तुन्यमृत-लक्षणविषये स्पर्धमानानामत एव बद्धवैराणां ज्ञातीनां नोऽस्माकं शं सुखं विधत्स्व कुरु ॥५१॥
वयं कश्यपदायादा भ्रातरः कृतपौरुषाः ।
विभजस्व यथान्यायं नैव भेदो यथा भवेत् ॥ ५२ ॥
सत्यधर्मीया
ज्ञातितां विज्ञापयन्ति ॥ वयमिति ॥ कृतं पौरुषं मथनोपयुक्तं यैस्ते । यथान्यायम् । तदेव विवृण्वन्ति । भेदो यथा नैव भवेदिति ॥ ५२ ॥
छलारी
दायादाः पुत्राः । भेदो मिथो विग्रहो न भवेत्तथा ॥ ५२ ॥
लिङ्घेरी
हे सुभ्रु । वयं कश्यपार्जितद्रव्यभोक्तारः कृतपराक्रमा भ्रातरश्च । त्वयास्मिन्नमृते विभज्यमानेऽस्माकं भेदः कलहो यथा न भवेत्तथा नीतिमनतिक्रम्यामृतं विभजस्व ॥ ५२ ॥
श्रीशुक उवाच—
इत्युपामन्त्रितो दैत्यैर्मायायोषिद्वपुर्हरिः ।
प्रहस्य रुचिरापाङ्गैर्निरीक्षन्निदमब्रवीत् ॥ ५३ ॥
पदरत्नावली
मायया इच्छया अङ्गीकृतस्त्रीदेहः ॥ ५३ ॥
सत्यधर्मीया
निरीक्षन् निरीक्षमाणः । हासस्तु ‘हे सुरा असुरा मद्वशाः’ इति
॥ ५३ ॥
छलारी
मायया स्वेच्छया स्त्रीरूपं यस्य सः ॥ ५३ ॥
लिङ्घेरी
मायया स्वेच्छया योषिद्वपुः स्त्रीरूपधारी हरिर्दैत्यैरित्युपामन्त्रितः प्रार्थितः सन् प्रहस्य रुचिरापाङ्गैर्मनोहरकटाक्षैरसुरान्निरीक्षन् सन्निदं वक्ष्यमाणवचनमब्रवीदुक्तवान् ॥ ५३ ॥
श्रीभगवानुवाच–
कथं कश्यपदायादाः पुंश्चल्यां मयि सङ्गताः ।
विश्वासं पण्डिता जातु कामिनीषु न यान्ति हि ॥ ५४ ॥
पदरत्नावली
पुंश्चल्यां पुंश्चलीशीलगुणवत्याम् ॥ ५४ ॥
सत्यधर्मीया
पुंश्चल्यां पुरुषमात्रगमनोद्देशेन चलन्त्यां वारनारीसमायां मयि । पण्डितास् तारकादीतजन्तः कामिनीषु विश्वासं न यान्ति । तत्रापि यूयं कश्यपदायादास् तत्पुत्राः ॥५४॥
छलारी
पुंश्चल्यां वेश्याशीलगुणवत्यां मयि कथं संगताः सक्ताः । भवताम् ऋषिपुत्र-त्वादित्यर्थः ॥ ५४ ॥
लिङ्घेरी
हे पुरुषाः कश्यपस्य दायादाः पुत्राः । यूयं पुंश्चल्यां स्वैरिण्यां स्वेच्छया नानापुरुषकामिन्यां कथं संगता विश्वस्ताः । पण्डिता ज्ञानिनः कामिनीषु स्वेच्छाचारासु स्त्रीषु विश्वासं जातु कदाचिन्न यान्ति ॥ ५४ ॥
सालावृकाणां स्त्रीणां च स्वैरिणीनां सुरद्विषः ।
सख्यान्याहुरनित्यानि नूत्नं नूत्नं विचिन्वताम् ॥ ५५ ॥
पदरत्नावली
नूत्नं नूतनम् ॥ ५५ ॥
सत्यधर्मीया
हे सुरद्विषः । सालावृकाणां श्वाविधां स्वैरिणीनाम् । स्वादीरेरिणोर् इति वृद्धिः । स्त्रीणां च । सख्यान्यनित्यान्यस्थिराण्याहुः । श्रुतया न वै स्त्रैणानि सरव्यानि सन्ति सालावृकाणां हृदयान्येता इतीत्येवंजातीयकाः । तत्र हेतुः ॥ नूत्नं नूत्नं विचिन्वतामिति ॥ विचिन्वन्त्यस्त्रियश्च विचिन्वन्तश्च शालावृकाश्च । विचिन्वन्त इत्येकशेषः । नूत्नं नूत्नं भक्ष्य-मेकत्रापरत्र पुरुषम् । णु स्तुतावित्यस्य नूनवस्यन् आदेशो यत्नत्पुनरवखाश्च प्रत्यया वक्तव्या इति नू आदेशे नूत्नेति भवति । ‘नवो नूत्न’ इत्यमरः ॥ ५५ ॥
छलारी
कुतो विश्वासं न यान्तीत्यत आह ॥ सालावृकाणामिति ॥ मृगविशेषाणां स्वैरिणीनां पुंश्चलीनाम् । हे सुरद्विषः । नूत्नं नूत्नं प्रतिक्षणं नूतनमेव विचिन्वतां मृगयन्तीनाम्
॥ ५५ ॥
लिङ्घेरी
हे सुरद्विषः । पण्डिताः शालावृकाणां कपिक्रोष्टुशुनां स्वैरिणीनां स्त्रीणां च सख्यान्यस्थिराण्याहुः । नूत्नं नूत्नं नवं नवं विचिन्वतामिति हेतुगर्भविशेषणम् । शालावृकाणां विचिन्वतीनामिति स्त्रीणामिति ज्ञेयम् ॥ ५५ ॥
श्रीशुक उवाच–
इति ते क्ष्वेलितैस्तस्या आश्वस्तमनसोऽसुराः ।
जहसुर्भावगम्भीरं ददुश्चामृतभाजनम् ॥ ५६ ॥
पदरत्नावली
क्ष्वेलितैश् छलमिश्रवचनैः ॥ ५६ ॥
सत्यधर्मीया
भावगम्भीरं यथा तथा तस्याः क्ष्वेलितैश् छलालापैः । अथवा भावगम्भीरं यद्यपि वदति सुदती विश्वासं पण्डिता न यान्तीति तथा वञ्चनं न तनुयादिति किञ्चिद् गाम्भीर्यं भावे ज्ञेयम् । तत्फलं लपति ॥ ददुरिति ॥ आशु अस्तं निरस्तं कलहे मनो येषां ते इति वा । अहं पूर्वमहं पूर्वमिति तदुक्तेः ॥ ५६ ॥
छलारी
क्ष्वेलितैश् छलमिश्रितवचनैराश्वस्तमनसः समाहितान्ता भावेन केनाप्यभिप्रायेण गम्भीरं यथा भवत्येवं जहसुः ॥ ५६ ॥
लिङ्घेरी
तेऽसुरास्तस्याः स्त्रिय इत्युक्तलक्षणैः क्ष्वेलितैः परिहासपूर्वकछद्मवचनैराश्वस्त मनसः सन्तो भावगंभीरं जहसुर्हासं कृतवन्तोऽमृतस्य भाजनं पात्रं ददुश्च ॥ ५६ ॥
ततो गृहीत्वाऽमृतभाजनं हरिर्बभाष ईषत्स्मितशोभया गिरा ।
यद्यभ्युपेतं क्व च साध्वसाधु वा कृतं मया वो विभजे सुधामिमाम् ॥ ५७ ॥
पदरत्नावली
अभ्युपेतम् अङ्गीकृतम् ॥ ५७ ॥
सत्यधर्मीया
ईषत्स्मितेन शोभा यस्याः सा तया गिरा वाण्या । तदेव भाषणमा-विष्करोति ॥ यदीति ॥ मया कृतं क्व च साधु क्व चासाधु च यदि अभ्युपेतमङ्गीकृतं स्यात् तर्हि इमां सुधां विभजे विभागं करोमीति बभाषे ॥ ५७ ॥
छलारी
ईषत्स्मितेन शोभा यस्यास्तया गिरा । क्व च कुत्रचित्तथा कृतं साधु वाऽसाधु वा यद्यभ्युपेतमङ्गीकृतं तर्हि सुधां विभजे ॥ ५७ ॥
लिङ्घेरी
ततो हरिरमृतभाजनं गृहीत्वेषत्स्मितेन शोभा यस्यास्तया गिरा वाण्याऽऽह ॥ हे असुराः । मया कृतं क्व च कुत्रचित्साध्वसाधु वा, यत्तु तद्युष्माभिरभ्युपेतमङ्गीकृतं यदि तर्हीमां सुधाममृतं वो युष्माकं विभजे विभागं कृत्वा दास्यामीत्येवं रूपया गिरा बभाषे ॥ ५७ ॥
इत्यभिव्याहृतं तस्या आकर्ण्यासुरपुङ्गवाः ।
अप्रमाणविदस्तस्यास्तत् तथेत्यन्वमंसत ॥ ५८ ॥
पदरत्नावली
प्रमाणमियत्ता ॥ ५८ ॥
सत्यधर्मीया
प्रमाणं तस्या योषितस्तस्या व्याहृतेर् भाषाया इयत्ताम् । अतो न तस्या इत्यस्यातिरेकः ॥ ५८ ॥
छलारी
प्रमाणमियत्तां तन्न जानन्तीत्यप्रमाणविदस्तस्याः स्वभावस्थितिं न जानन्त इत्यर्थः ॥ ५८ ॥
लिङ्घेरी
असुरपुंगवा इति उक्तरूपं तस्या अभिव्याहृतं वचनमाकर्ण्य श्रुत्वा यतस्तस्या अप्रमाणविदः स्वरूपानभिज्ञा अतस्तत्कार्यं तथास्त्वित्यन्वमंसतानुज्ञातवन्तः ॥ ५८ ॥
अथोपोष्य कृतस्नाना हुत्वा च हविषाऽनलम् ।
दत्वा गोविप्रभूतेभ्यः कृतस्वस्त्ययना द्विजैः ॥ ५९ ॥
सत्यधर्मीया
विप्रेभ्यः भूतेभ्यश्च तूष्णी त्यागः । देवयोनयश्च ते ॥ ५९ ॥
छलारी
द्विजैः कृतस्वस्त्ययनाः कृतपुण्याहवाचनाः ॥ ५९ ॥
लिङ्घेरी
अथ कृतस्नानास्तेऽसुरा वासांसि परिधायातिभूषिताः सन्तो द्विजैः कृत-स्वस्त्ययनाः, सन्तो हविषाऽनलं हुत्वा, विं परमात्मानं प्रीणन्तीति विप्रास्तथाभूतेभ्यो ब्राह्मणेभ्यो गां दत्वा प्रागग्रेषु कुशेषु यथोपजोषं यथा सुखं स्यात्तथा प्राविशन्नुपविष्टाः ॥ ५९-६० ॥
यथोपजोषं वासांसि परिधायाहतानि ते ।
कुशेषु प्राविशन् सर्वे प्रागग्रेष्वभिभूषिताः ॥ ६० ॥
सत्यधर्मीया
यथोपजोषं यथाप्रीति । आहतानि नूतनानि । तदा धूतानि वा । आहतं स्यात्पुरातने नूत्नवस्त्रेऽपि चाहतमिति विश्वः । अहतमिति पठन्तो ‘अहतं यत्र निर्मुक्तमुक्तं वासः स्वयम्भुवा । शस्तं मङ्गलकार्येषु तावन्मात्रेण सर्वदा ॥’ इति लक्षणं चाचक्षते । प्रागग्रेषु कुशेषु दर्भेषु । अभिभूषिता अलङ्कृताः सन्तः प्राविशन्नुपविविशुः ॥ ६० ॥
छलारी
यथोपजोषं यथा अहतानि नूतनानि । प्रागग्रेषु प्राक्कूलेषु कुशेषु प्राविशन् उपाविशन् ॥ ६० ॥
प्राङ्मुखेषूपविष्टेषु सुरेषु दितिजेषु च ।
धूपामोदितशालायां जुष्टायां माल्यदीपकैः ॥ ६१ ॥
सत्यधर्मीया
धूपैरागर्वादिधूपैः । आमोदिता सुरभीकृता शाला तस्याम् । माल्यैः कुसुमैर्मालाभिर्वा । ‘माल्यं मालाप्रसूनयोः’ इत्यमरः । दीपकैर्दीपैः । जुष्टायां सेवितायाम् ॥६१॥
छलारी
धूपैरामोदितायां सुरभीकृतायाम् । जुष्टायां मङ्गलकृतायाम् ॥ ६१ ॥
लिङ्घेरी
माल्यैः पुष्पमालाभिश्च । ‘माल्यं पुष्पे पुष्पदाम्नी’ इति रत्नमाला । जुष्टायां सेवितायामलङ्कृतायां, धूपैः कृष्णागर्वादिजैरामोदिता परिमलिता या शाला तस्याम् । सुरेषु दितिजेषु च प्राङ्मुखेषु पूर्वाभिमुखेषूपविष्टेषु सत्सु ॥ ६१ ॥
तस्यां नरेन्द्रकरभो१रुलसद्दुकूलश्रोणीतटालसगतिर्मदविह्वलाक्षी ।
सा कूजती कनकनूपुरसिञ्जितेन कुम्भस्तनी कलशपाणिरथाविवेश ॥ ६२ ॥
पदरत्नावली
कलभो गजपोतः, तत्करवच्छोभमानयोरूर्वोर् लसता दुकूलेन युतं श्रोणीतटं यस्याः सा । कलभो वंशांकुरस्तद्वद् वर्तमानयोर्वा । अलसगतिर् अलसा मन्दा गतिर्यस्याः सा तथा । सिञ्चितेन शब्दितेन । शिजि अव्यक्ते शब्दे इति धातुः ॥ ६२ ॥
सत्यधर्मीया
करभो मणिबन्धमारभ्य कनिष्ठिकापर्यन्तबहिर्भागः । ताविवोरू यस्याः सा ‘करभो मणिबन्धादि कनिष्टान्ते तथोष्ट्रक’ इति विश्वः । कलभेति पाठे करिशावशुण्डेत्यर्थः । कलभत इति योगात् । साक्षादुदकलाभः करिकरस्यैवेत्यौचित्यात् । लक्षणयेति पूर्वे । लसद्दुकूलं यस्मिंस्तच्च तच्छ्रोण्योर्नितम्बयोस्तटं बिम्बस्तेनालसा मन्थरा गतिर्यस्याः सा च सा मदविह्वलाक्षी । मदेन विह्वले चञ्चलेऽक्षिणी लोचने यस्याः सा मदविह्वलेत्यानुपूर्व्या प्रतिदितिसुतं मद्विषयेऽविह्वलाक्षी मामेव स्थिरं कटाक्षयतीयमिति धिषणाजननीति द्योत्यते । भूषणानां तु सिञ्जितम् । सिजि अव्यक्ते शब्दे । तालव्यादिः । भावे क्तः । अत्र तु तद्भूषणं नूपुरम् । सगतिम् । कुम्भाविव स्तनौ यस्याः सा ॥ ६२ ॥
छलारी
अथ तस्यां शालायाम् । हे नरेन्द्र । कलशपाणिराविवेश । कथम्भूता । कलभो गजपोतस्तेन तच्छुण्डालवत्कलभसदृशयोरुर्वोर्लसद्दुकूलं यस्याः सा । सा चासौ श्रोणीतटे मण्डले । अलसा मन्दा गतिर्यस्याः सा । मदेन विह्वले चञ्चलेऽक्षिणी यस्याः सा । सिञ्जिजितेन शब्देन कूजती ॥ ६२ ॥
लिङ्घेरी
हे नरेन्द्र परीक्षित् । सा नारायणी तस्यां सभायां कलभवद्गजहस्तवत्क्रमवर्तुल-त्वादिगुणविशिष्टयोरूर्वोर्लसत्प्रकाशमानं दुकूलं यस्याः सा । श्रोणितटाभ्यामलसा मन्दा गतिर्यस्याः सा । मदेन हर्षोद्रेकेण विह्वलेऽक्षिणी यस्याः साः कनकनूपुरयोः सिञ्जितेन ध्वनिना कूजन्ती कुम्भस्तनी कलशपाणिः सती विवेश प्रवेशं कृतवती । ‘कलभः करिपोते स्यात्करिहस्ते पुमानयम्’ इति मुक्तामाला ॥ ६२ ॥
तां श्रीमुखीं कनककुण्डलचारुकर्ण
नासाकपोलवदनां परदेवताख्याम् ।
संवीक्ष्य संमुमुहुरुत्स्मितवीक्षणेन
देवासुरा विगलितस्तनपट्टिकान्ताम् ॥ ६३ ॥
पदरत्नावली
कनककुण्डलचारुकर्णाभ्यां नासाकपोलाभ्यां च युक्तं वदनं यस्याः सा तथा ताम् ॥ ६३ ॥
सत्यधर्मीया
श्रीमन्मुखं यस्याः सा । स्वाङ्गाच्चोपसर्गादसंयोगोपधादिति ङीष्, श्रिया शोभया मुखं निस्सरणं यस्येति वा । ‘मुखनिःसरणे वक्त्र’ इति विश्वोक्तेः । अतो न वदनातिरेक उभयत्र । कनकस्य तदात्मके कुण्डले ययोस्तौ च तौ चारू कर्णे च चारुर्नासा च चारुश्च कपोलश्च गण्डश्च चारु च वदनं यस्याः सा । तां परदेवताख्यां तन्नाम्नीम् । विगलितः स्खलितः स्तनपट्टिकाया अन्तोऽन्तभागो यस्याः सा ताम् । विगलिता स्तनपट्टिका कञ्चुकादि-र्यस्याः सा ताम् । उत्स्मितेन सहितं च तद्वीक्षणं तेन करणेन । देवदानवा मुमुहुः ॥ ६३ ॥
छलारी
श्रीमुखीं परदेवताख्यां संवीक्ष्य देवासुराः संमुमुहुः । कथम्भूताम् । कनकमये कुण्डले यस्याः सा कनककुण्डला । चारवः कर्णादयो यस्याः सा । कनककुण्डला च सा चारुकर्ण नासाकपोलवदना च ताम् । उत्स्मितवीक्षणेन स्मितपूर्वकावलोकनेन युक्ताम् । विगलितो विस्रस्तः स्तनोपरि बद्धपट्टिकाया अन्तो यस्याः सा ॥ ६३ ॥
लिङ्घेरी
देवासुराः कनककुण्डलचारुकर्णे नासाकपोलश्च यस्य तद्वदनं यस्यास्ताम् । विगलितः स्तनच्युतः स्तनपट्टिकाया अन्तो यस्यास्ताम् । श्रिया कांत्यादिसम्पदा युक्तं मुखं यस्यास्तां परदेवताख्यां नारायणीं संवीक्ष्य तस्या उत्स्मितेनोत्कृष्टमन्दहासेन सहितेन वीक्षणेन वीक्षिताः सम्मुमुहुरतिभ्रान्ता बभूवुः ॥ ६३ ॥
असुराणां सुधादानं सर्पाणामिव दुर्नयम् ।
मत्वा जातिनृंशसानां नतान् व्यभजदच्युतः ॥ ६४ ॥
पदरत्नावली
‘सुधा पयसि देवान्ने गुणपक्वपयोमृदि’ इति वचनात् सर्पाणां पयोदान-मिव । तानुद्दिष्य ॥ ६४ ॥
सत्यधर्मीया
सुधा चैकत्रामृतमन्यत्र क्षीरम् । सुधा पयसि देवान्ने गुणपक्वपयोमृदि’ इत्यभिधानात् । दुर्नयं दुर्गतो नयो न्यायो यस्य तद् अनीतिं मत्वा तान्प्रति तान्न व्यभजत् । न विबभाज । तत्र हेतुः ॥ जातिनृशंसानामिति ॥ जात्या स्वभावेनैव नृशंसास्तेषाम् । एतत्पानेऽपि यथा पीतं क्षीरं सर्पेषु विषपोषहेतुस्तथा तेषां नृशंसतोत्तंसतैव स्यादिति दुर्नयमिति भावः । एते बहवः स्वयमेकाकी किंवा कुर्युरिति न भीतः पीताम्बरः किमित्यतः कथयति ॥ अच्युत इति ॥ च्यावितश्च्युतेः । ते किं करिष्यन्तीति भावः । तर्हि कान्प्रति व्यभजदित्यतः संक्षेपतोऽप्यनेनैवाह ॥ नतानिति ॥ नतान्प्रवणानमरगणान्व्यभजदिति ॥ ६४ ॥
छलारी
एवं तान्मोहयित्वा यत्कृतवान्हरिस्तदाह ॥ असुराणामित्यादिना ॥ असुराणां सुधादानममृतदानं सर्पाणां सुधादानमिव । ‘सुधा पयसि देवान्ने’ इति वचनात् । दुर्नयमन्याय्यम् । महाजात्यैव स्वभावेनैव नृशंसानां क्रूराणां दैत्यानां तां सुधां नैव व्यभजत् ॥ अयं भावः ॥ दैत्यैर्मया कृतं साधु वाऽसाधु वा सर्वमनुमतमेवातो मद्भक्तान्देवानेव सुधां पाययिष्यामि । किञ्च तैर्यथा न्यायं विभजस्वेत्युक्तम् । न चैतेभ्योऽक्रूरेभ्योऽमृतदानं न्याय्यं न । अमृतं सुधामुभयेषां न ददामीति ॥ ६४ ॥
लिङ्घेरी
अच्युतो जातिनृशंसानामुत्पत्तिमारभ्यान्यहिंसकानां सर्पाणां सुधादानमिव क्षीर-प्रदानमिवासुराणां सुधाया अमृतस्य दानं दुर्नयमनीतिरिति मत्वा तानुद्दिश्य तां सुधां न व्यभजत्
॥ ६४ ॥
कल्पयित्वा पृथक् पङ्क्तीरुभयेषां जगत्पतिः ।
तांश्चोपवेशयामास स्वासु स्वासु१ च पङ्क्तिषु ॥ ६५ ॥
पदरत्नावली
‘आली श्रोणी स्त्रियां पङ्क्तिरुभयोस्ततिरुच्यते’ इति ॥ ६५ ॥
सत्यधर्मीया
तदुभयं वितत्य वक्ति ॥ कल्पयित्वेति ॥ उभयेषां सुराणामसुराणां च । पृथक् पङ्क्तीः । ‘वीथ्यालिरावलिः पङ्क्तिः’ इत्यमरः । ‘आली श्रेणी स्त्रियां पङ्क्तिरुभयोस्तति-रुच्यत’ इत्यभिधानात् । क्वाचित्कः स्वेषु स्वेष्विति पाठोऽपि शुद्धिमर्हति । स्वेषुस्वेष्विति पदमेकम् । देवेषु देवान्दैत्येषु दैत्यानिति । तथा पङ्क्तीषूपवेशयामासेति तत्रार्थः । अथवा स्वेषु स्वेष्विति नपुंसकस्यापि शक्यं नेतुं पङ्क्तिविशेषणता । विस्तृतं च प्राक् । तान्देवदानवान् । स्वासु स्वासु पङ्क्तिषूपवेशयामास ॥ ६५ ॥
छलारी
उभयेषां देवासुराणां पङ्क्तीः पृथग्विविच्य कल्पयित्वा विधाय तासु पङ्क्तिषु स्वेषु जातीयेषु जनेषु मध्ये तान्देवासुरान् उपवेशयामास । तत्रासुराणां प्रतारणार्थमेवोपवेशनं ज्ञेयम्
॥ ६५ ॥
लिङ्घेरी
जगत्पतिरुभयेषां देवासुराणां पृथक् पङ्क्तीः कल्पयित्वा स्वासु स्वासु पङ्क्तिषु ता असुरदेवता उपवेशयामास ॥ ६५ ॥
दैत्यान् गृहीतकलशो वञ्चयन्नुपसञ्चरैः ।
दूरस्थान्पाययामास जरामृत्युहरं सुधाम् ॥ ६६ ॥
पदरत्नावली
उपसञ्चरैः समीपगमनादिनर्मव्यवहारैः ॥ ६६ ॥
सत्यधर्मीया
उपसञ्चरैः समीपपरिभ्रमणैः । दूरस्थान्देवान् । जरामृत्युहरां सुधां पायया-मास । तदेतदाभाणकं जगति विततमभूत् । परिवेषकाः स्वकीयाश्चेत्क्वोपवेशेऽपि किमिति
॥ ६६ ॥
छलारी
उपसंचरैः समीपगमनबहुमानप्रियवाक्यादिभिर्वञ्चयन् दूरस्थानपि देवान् ॥६६॥
लिङ्घेरी
गृहीतामृतकलशो हरिरुपसंचरैः समीपसंचरणादिभिर्दैत्यान्वंचयन् दूरस्थान्देवान् जरामृत्युहरां सुधां पाययामास ॥ ६६ ॥
ते पालयन्तः समयमसुराः स्वकृतं नृप ।
तूष्णीमासन् कृतस्नेहाः स्त्रीविवादजुगुप्सया ॥ ६७ ॥
पदरत्नावली
कृतास्नेहाश् छिन्नस्नेहाः । कृञ् छेदने इति धातुः । पूर्वं सम्पन्नस्नेहा अधुना नष्टस्नेहा इत्यर्थः ॥ ६७ ॥
सत्यधर्मीया
तेऽसुराः । यद्यभ्युपेतं क्वच साध्वसाधु वेति तथोक्तास्तत्तथेत्यन्वमंसते-त्यादिनोक्तं स्वकृतं समयबन्धं पालयन्तस्तूष्णीमासन् । कृतस्नेहाः । इदानीं स्त्रीविवादनिमित्ता या जुगुप्सा लोककर्तृकस्वकर्मकनिन्दा तया । इदानीं तु कृतश् छिन्नः स्नेहो येषां ते तथेति व्याकरणपक्षे श्लोक उत्तरः कथं व्याकार्य इत्यार्या आचार्या विचार्याः । कृतः कृतश्च कृतः गुपगोपनकुत्सनयोर् गुपे निन्दायां सन् । अप्रत्ययादिकारः प्रत्ययः । ‘उपक्रोशो जुगुप्सा च’ इत्यमरः । कृतेन हसितेन सह स्नेहश्च यैस्ते । ‘कृतं युगेऽपि पर्याप्ते विहिते हसिते फल’ इति विश्वः ॥ ६७ ॥
छलारी
समयं कालविशेषं पालयन्तः प्रतीक्षन्तस्तस्यां कृतस्नेह आसक्तिर्यैस्ते स्त्रिया सह विवादस्य जुगुप्सया । निन्दितत्वादिति यावत् ॥ ६७ ॥
लिङ्घेरी
हे नृप । नारायण्यां कृतस्नेहाः कामुकत्वात्तेऽसुरा एवं नारायण्या वञ्चने कृतेऽपि स्वकृतं समयं सङ्केतं ‘त्वया यथा क्रियते तथाऽस्माकं सम्मतम्’ इत्यादिरूपं पालयन्तः सन्तः स्त्रिया सह विवादे जुगुप्सया च युक्ताः सन्तस्तूष्णीमासन् ॥ ६७ ॥
तस्यां कृतातिप्रणयाः प्रणयापायकातराः ।
बहुमानेन चाबद्धा नोचुः किञ्चन विप्रियम् ॥ ६८ ॥
पदरत्नावली
प्रणयस्यापाय उपशमनं सम्भवतीति कातरा भीताः ॥ ६८ ॥
सत्यधर्मीया
कृतोऽतिप्रणयो बहुस्नेहो यैस्ते । ‘विश्वासो वा प्रणयः प्रेम्णि विश्रंभ’ इति विश्वः । प्रणयस्यापायोपगमो भवतीति कातरा धृता धैर्याः । ‘अधीरे कातरत्रस्तौ’ इत्यमरः । ईषत्तरतीत्यप् । ईषदर्थे चेति कोः कादेशः । बहुमानेनान्तया समीपस्थापनादिरूपसत्कृत्या । श्रीमद्भिः पुरुषैः किं कामिनीकलहेनेति दुरहङ्कारेणेति केचित् । आबद्धा नियन्त्रिताः । तद्बहु-मानस्य समयसंरक्षणकृतस्नेहत्वस्त्रीविवादजुगुप्सितत्वकृतप्रणयापायकातरतेत्यादिहेतुभिः । किञ्चन विप्रियम् । एतत्सर्वनिर्वासकम् । नोचुर्नाब्रुवन् ॥ ६८ ॥
छलारी
कृतो ऽतिप्रणयोऽत्यन्तप्रीतिर्यैस्ते । प्रणयस्यापायेन नाशेन कातरा भीताः । किञ्चैते देवास्तावत्कृपणाः पूर्वं किञ्चित्पिबन्तु यूयं तु धीराः क्षणं प्रतीक्षध्वमित्यादि बहुमानेन चाबद्धा नियन्त्रिता दैत्याः । समयपालनत्वं स्नेहत्वं स्त्रीविवादजुगुप्सितत्वं कृतातिप्रणयत्वं प्रणयापायकातरत्वं बहुमानेनाबद्धत्वं चेत्येतैः षडि्भर्निमित्तैर्विप्रियं किञ्चन नोचुः । तूष्णीमासंश्च
॥ ६८ ॥
लिङ्घेरी
तस्यां कृतोऽतिप्रणयः स्नेहो यैस्ते । प्रणयस्यापायो नाशः स्यादिति कातरा भीता । बहुमानेनाबद्धाश्चासुराः किञ्चना विप्रियमनिष्टं नोचुः ॥ ६८ ॥
देवलिङ्गप्रतिच्छन्नः स्वर्भानुर्देवसंसदि ।
प्रविश्य सोममपिबच्चन्द्रार्काभ्यां च सूचितः ॥ ६९ ॥
सत्यधर्मीया
देवलिङ्गेन तच्चिह्नवद्धृतचिह्नेन प्रतिच्छन्न आच्छादितनिजरूपः स्वर्भानू राहुः । देवसंसदि तत्पङ्क्तौ प्रविश्य सोमममृतमपिबन् मुखमात्रे प्रावेशयत् । चन्द्रार्काभ्यां सूचितः । हरिं प्रति । अनुचितं रचितमेतेनेति सूचितः ॥ ६९ ॥
छलारी
देवसंसदि देवपङ्क्तौ । देवलिङ्गेन देववेषेण प्रतिच्छन्नोऽप्रकटितस्वरूपः स्वर्भानू राहुश्चन्द्रार्कयोर्मध्ये प्रविष्ट उपविष्टः सोमममृतमपिबत् । चन्द्रार्काभ्यां सूचितो ज्ञापितः ॥ ६९ ॥
लिङ्घेरी
स्वर्भानू राहुर्देवानां लिङ्गेन चिन्हेन प्रतिच्छन्न आच्छादितस्वरूपः सन् देवानां संसदि पङ्क्तौ प्रविश्य सोमममृतमपिबत् । चन्द्रार्काभ्यामयं राहुरिति हरये सूचितश्च । ‘राहुः स्वर्भानुः’ इत्यमरः ॥ ६९ ॥
चक्रेण क्षुरधारेण जहार पिबतः शिरः ।
हरिस्तस्य कबन्धस्तु सुधया प्लावितोऽपतत् ॥ ७० ॥
सत्यधर्मीया
हरिः क्षुरस्य छुरिकाया इव धारा यस्य तेन । पिबतस्तस्य शिरो जहार । सुधया प्लावितः कबन्धः । अयमूर्ध्वः कलेवरे । ‘कबन्धस्तूत्तरे रक्षो विशेषे च विधुन्तुद’ इति विश्वः । तत्सम्बन्धमात्रतोऽजरामरोऽपतत् पातितः । स्वादूदोदधौ । यथोक्तं भगवत्पादैः । ‘क्षिप्तः कबंधोऽस्य शुभोदसागरे त्वया स्थितोऽद्यापि हि तत्र सामृत’ इति ।
‘राहुर्बाहुबलेन दुर्लभमिति ज्ञात्वाऽन्यपङ्क्तौ स्थितः।
श्रीशेन स्वशयेऽर्पितं तदमृतं द्राङ्नापिबत्कौतुकी ।
तर्ह्येवेन्दुरविप्रचोदित हरिच्छिन्नात्ममूर्धा पतच् चालस्यादमृतं विषं च भवतीत्याभाणकं प्रासरत् । यत्त्वत्राप्लावितो संस्पृष्ट इति व्याकरणं तदद्यापि जरामृतिरहिततयावस्थानहेत्वन्तर-स्यानुपन्यसनात्तस्योपेक्ष्यं परकीयं तदनुसरन्तः केचनास्माकीनाश्च नाचार्यवचनदर्शनवत इति महान्तः ॥ ७० ॥
छलारी
हरिस्तस्य राहोरमृतं पिबतोऽसतः, क्षुरवच्छुरिकावद्धाराः प्रान्ता यस्य तेन चक्रेण शिरो जहार । कबन्धः शिरोरहितदेहः सुधया आप्लावितः संस्पृष्टः ॥ ७० ॥
लिङ्घेरी
हरिः क्षुरवन्नापितशस्त्रवद्धारावता चक्रेणामृतं पिबतस्तस्य राहोः शिरो जहाराप-हृतवान् । तस्य राहोः कबन्धः शिरोरहितदेहः सुधयाऽमृतेन प्लावित आर्दीकृतोऽपतत् । शुद्धोदसमुद्रे इति शेषः ॥ ७० ॥
शिरस्त्वमरतां नीतमजो ग्रहमचीक्लृपत् ।
यस्तु पर्वणि चन्द्रार्कावभिधावति वैरधीः ॥ ७१ ॥
सत्यधर्मीया
तच्छिरोऽमरताम् । तदाविष्टत्वात्तत्त्वम् । शिरस्तु तस्य गृहतामवाप सुरैः समाविष्टमिति श्रीमदुक्तेः । तुश्च । तेनामृतार्थं हि सहस्रजन्मसु प्रतप्य भूयस्तप आरितो वरः । स्वयम्भुव इति श्रीमदुक्तविशेषस्याशेषविदो हरेर्विरिञ्चवररिरक्षयिषयैव पीयूषस्थापनं पाणौ चन्द्रसूर्यसूचनं च स्वसेवाघटनार्थं देवं प्रति । सत्सु सुरेष्वन्येष्वेताभ्यामेव सूचनं लोचन-निभालनीये कार्ये तन्नेत्रतया शशिसूर्यनेत्रमिति स्मृताभ्यां युक्तं पत्युक्तं च कथं विश्वचक्षुर्नापश्य-दित्यादिविशेषस्य च द्योतक इति ध्येयम् । अजो ब्रह्मा । नवग्रहमध्य एकं ग्रहमचीक्लृपद-कल्पयत् । सूचनमचारि ताभ्यामिति वैरधीर्वैरयुक्तबुद्धिर्यश्चन्द्रार्कौ पर्वण्यमापौर्णम्यादिपर्वकाले । अभिधावति मण्डलाच्छादकतया । यथोक्तमादिपर्वणि । ‘ततो वैरविनिर्बन्धः कृतो राहुमुखेन वै । शाश्वतश्चन्द्रसूर्याभ्यां ग्रसत्यद्यापि चैव तौ’ इति । गृह्णातीति तदुद्योगं करोतीति ग्रह इति तद्व्युत्पत्तिर्ज्ञेया । ग्रसितुमित्युक्तिरप्येतदभिप्रायातम् ॥ ७१ ॥
छलारी
अमरतां नाशरहिततां नीतं प्राप्तं शिरो ग्रहं सूदिवद्ग्रहत्वादिकारणं कल्पयामास । यो राहुश्चन्द्रार्कयोर्वैरधीः पर्वणि पौर्णिमायाममावास्यां च चन्द्रार्कौ प्रतिग्रसितुमभिधावति तद्ग्रहं राहुनामकं ग्रहमचीक्लृपदिति सम्बन्धः ॥ ७१ ॥
लिङ्घेरी
अजो ब्रह्मा राहोः शिरोऽमृतानीतं ग्रहमचीक्लृपत् कल्पितवान् । यो ग्रहः पर्वणि सूर्यचन्द्रोपरागयोश्चन्दार्कौ प्रति वैरधीः सन् अभिधावति ॥ ७१ ॥
पीतप्रायेऽमृते देवैर्भगवांल्लोकभावनः ।
पश्यतामसुरेन्द्राणां स्वरूपं जगृहे विभुः ॥ ७२ ॥
सत्यधर्मीया
पीतप्राये योग्यतातुल्यतयाऽमृते पीत इत्यर्थः । अधुना हस्ते किञ्चि-च्छिष्टमिति पीतप्राय इत्युक्तिर्वा । स्वरूपं पुरुषाकारम् ॥ ७२ ॥
छलारी
स्वरूपं पुरुषरूपम् ॥ ७२ ॥
लिङ्घेरी
लोकभावनः सर्वजगदुत्पादको भगवान्हरिर्देवैरमृते प्रायशः पीते सति असु-रेन्द्राणां पश्यतां सतां पुरुषरूपं जगृहे स्वीकृतवान् । प्रभुरित्यनेनाघटितघटनासामर्थ्यं हरेः सूचयति ॥ ७२ ॥
एवं सुरासुरगणाः समदेशकाल
हेत्वर्थयोगगतयो विफले१ विकल्पाः ।
तत्रामृतं सुरगणाः फलमञ्जसाऽऽपुः
यत्पादपङ्कजरजःश्रयणान्न दैत्याः ॥ ७३ ॥
पदरत्नावली
समा देशादयो येषां ते । तथापि विफलैर्विशिष्टफलैर् विकल्पा विकल्प-योग्या अभूवन् । कथम् ? तत्राह– तत्रेति ॥ तत्रापि हेतुमाह– यत्पादेति ॥ फलवैकल्पे विशेषणविशिष्टकल्पनार्हा इति ॥ ७३ ॥
सत्यधर्मीया
हरिकरुणा चेत्कर्म फलवन्नापरथेति स्फुटमाचष्टे ॥ एवमिति ॥ समदेश-कालहेत्वर्थयोगगतयः । समो देशः । क्षीरनिधितीरादिः । कालश्च मथनकालः । हेतुर्मन्दरादिः । अर्थाश्च कामधेनुप्रभृतयस्तैर्योगः सम्बन्धस्तदर्थं गतिश्च येषां ते तथा । अनेन परिदृश्यमानो-परितनसाधनान्योन्याभावः प्रकाश्यते । तत्रैवंविधसाधने सत्वेऽपि । तयोर्मध्य इति वा सुरगणा अमृतं फलं तद्रूपमंजसा सम्यगापुः । तत्र हेतुमाह ॥ यत्पादेति ॥ यस्य हरेः पादावेव पङ्कजे तयोर्यद्रजः परागवत्धूलयस्तदाश्रयणात् । विफले फलानुपलम्भके लक्ष्मीशे सति । विपरीत इति यावत् । विकल्पा असमर्थाः सन्तो दैत्या नापुः । विशिष्टे फले देवप्राप्ये व्यवस्थितविकल्पे येषामस्तीत्यच्प्रत्ययान्तः शब्दः । तमेव विकल्पपदार्थमाह । फलममृतमञ्जसा नापुर्दैत्या इति
॥ ७३ ॥
छलारी
हरिभक्तानामेवोद्यमफलं नान्येषामित्येवं व्याख्याय तात्पर्यमाह ॥ एवमिति ॥ समा देशादयो येषां ते तादृशा अपि । हेतुर्मन्दराद्रिरर्थः समुद्रे क्षिप्तवीरुधादिद्रव्यम् । विविधः कल्पः केषाञ्चित्फलं नियतं केषाञ्चिन्नेति वैचित्र्यमित्यर्थः । तथा च केवलविकल्पो वैचित्र्यं येषां ते फले विकल्पाः फलवैषम्यवन्तो बभूवुरित्यर्थः । निमित्तं वदन् फलवैषम्यमाह ॥ तत्रेति ॥ तत्र देवासुरेषु मध्ये सुरगणा यस्य हरेः पादपङ्कजयो रजसः परागस्याश्रयणादञ्जसा । अञ्जःशब्दोऽवधारणे । सेवनादेवेत्यर्थः । आपुः प्राप्नुवन् । दैत्यास्तु न प्रापुः । स हरिः सेव्य इत्यर्थः ॥ ७३ ॥
लिङ्घेरी
एवं सुरासुरगणाः समानदेशकालकारणार्थप्राप्त्युपायगमनादिवन्तोऽपि फलविषये विकल्पाः फलतदभाववन्तोऽभवन् । तदेव दर्शयति । सुरगणा यस्य हरेः पादपंकजरजः श्रयणादमृत रूपं फलमंजसा निर्विघ्नेनापुर्दैत्यास्तदभावान्नापुः । स एव फलार्थिभिः सेव्य इति शेषः ॥ ७३ ॥
यद्युद्यतेषु वसुकर्म१मनोवचोभि
र्देवात्मजादिषु२ नृभिस्तदसत् पुरस्तात् ।
तैरेव सद् भवति यत् क्रियते च तस्मिन्३
सर्वस्य तद् भवति मूलनिषेचनं यत् ॥ ७४ ॥
॥ इति श्रीमद्भागवते अष्टमस्कन्धेऽष्टमोऽध्यायः ॥
पदरत्नावली
नन्वसुरादीनामपि शिवादिदेवार्चनादिसद्भावात् कथं तैर्विशिष्टफलं नावाप्त-मित्याशङ्क्य श्रीहरिचरणारविन्दप्रणामाभावान्नावाप्तमित्याशयेनाह– यदीति ॥ नृभिः पुरुषैः पुरस्तादुद्यतेषु फलदानाभिमुखेषु देवात्मजादिषु यदर्चनादिकं वित्तादिभिः क्रियते यदि तर्ह्यपि तदसत्कर्म विशिष्टफलं न भवति । कुत इति तत्राह– उद्यतेष्विति ॥ उत्कृष्टफलमुद्दिश्य यतेषूपरतेषु, विशिष्टशक्त्यभावादिति द्विरावृत्त्या योजनीयम् । तर्हि कथङ्कारं तद्भवतीति तत्राह– तैरिति ॥ यदीत्यनुवर्तते । यदि तैः पूर्वोक्तैर्वित्तादिभिरेव चास्मिन् हरौ यत् कर्म क्रियते तर्हि तत् पूर्णफलं भवति । हरिभक्तिमात्रेण देवाद्युद्दिष्टद्रव्यैस्तदर्चनाभावे कथं तत् पूर्णफलं स्यादिति तत्राह– सर्वस्येति ॥ यन्मूलभूतस्य हरेरर्चनलक्षणं निषेचनं तत् सर्वस्य देवतादेः । तन्निषेचन-फलं भवति । हरिभक्तिमन्तरेण शिवाद्यर्चनेनासुराणां विशिष्टफलं नाभूत् तस्मात् तद्भक्त्या भाव्यमितीदं मुक्तितमसोर्निदर्शनायोक्तमिति ज्ञातव्यम् । देहात्मजादिष्वेव महादाराद्धारौ तदभावा-दात्मा महनीय इति वचनादित्यतो वाह– यदीति ॥ देहात्मजादिष्विति केचित् पठन्ति, तत्रैवं योजनिका । पुरस्ताद्देहान्तरावाप्तेः पूर्वमेवासन् वित्तादिव्यय एव नान्य इत्यर्थ इति । शेषं समम्
॥ ७४ ॥
॥ इति श्रीमद्भागवतटीकायां विजयध्वजतीर्थभिक्षुकृतायाम्
अष्टमस्कन्धे अष्टमोऽध्यायः ॥
सत्यधर्मीया
समश्रमादीनाममराणामनमराणां मध्ये कुतः फलमफलं लेभिरे सुरासुराः कुतो नापुरित्यत एवङ्करणानेवंकरणाभ्यामित्याह ॥ यदीति ॥ वसु द्रव्यम् । कर्म मनो वचांसि च तैः । देवात्मजादिषु । देवाश्च । अत्रात्मजादीति दृष्टान्तोपदर्शनार्थम् । यथाऽऽत्मजादिषु तद्वद्देवेषु हरीतरेष्विति । न च द्वन्द्वनिर्दिष्टेष्वेकस्य कथं दृष्टान्तसमर्पकतेति वाच्यम् । आकाश-ग्रहणं दृष्टान्तोपदर्शनार्थमित्यादिसुधा । विद्याशब्दस्य योगरूढिभ्यामिति सुधाव्याख्यायां चाचार्यैरत्र यथार्थज्ञानेऽपि वेदनं विद्येति योग्यस्य ‘कर्मणा बद्ध्यते जन्तुर्विद्यया च विमुच्यते’ । विद्यैव तु निर्धारणादित्यादिप्रयोगमभ्युपेत्य रूढेश्च प्रदर्शनं दृष्टान्ततयेति ज्ञातव्यमित्युक्तेः । एवं द्वितीया-ध्यायद्वितीयपादीयमहत्त्वाणुत्त्वयोश्चैवेत्यनुव्याख्याव्याख्यायामत्र महत्त्वग्रहणं दृष्टान्तार्थमित्यादि बहुस्थले विलोकनीयमिदं प्रमेयमिति नापूर्वता । नृभिरधिकारिभिः । पुरस्तात् । धनाद्याराधनेन । पुरस्ताद्वेदाद्यान्तरङ्गिकार्थाननुसन्धनादग्रतः । उद्यतेषु त्वमेतत्त्वमेतत्कुर्वितीश्वरनियममनुसृत्य वर्तमानेषु । अस्वतन्त्रेषु देवात्मजादिषु । एते एवं तुष्यंत्विति यदि यत्किञ्चित्क्रियते तर्हि तदसदविद्यमानम् । अफलोपलम्भकत्वात् । तैरेव नृभिः । तैर्वस्वादिभिर्यदाराधनं तस्मिन्भगवति क्रियते तत्सफलत्वेन विद्यमानं भवति । न ह्येकं श्रीकान्तमाराधयतां तदितरसुरसपर्यया कथं कथय फललाभः प्रत्युतासमञ्चिता रुषान्वितास्ते भवेयुरित्यत आह । यन्मूलनिषेचनं तरुवेरनीर-निषेके शाखादीनामम्लानतैवं वासुदेवपूजने सभाजनभाजनानि सुरा इति न सरूढत्वं तेषामिति भाव इति । देवात्मजादिभिरित्यत्रानेवं व्याकरणे देवोत्तमात्मजनिबन्धः किमनुबन्ध इत्यनुयोगो दुष्पारः स्यात् । देवात्मजेषु तत्परमात्मजातेषु पद्मजादिष्विति यावत् । तानेव एतीत्यनुसंहितं तदसदिति वा । देहात्मजादिष्विति पाठो ललितः । सुलभार्थश्च । यद्युज्यतेषु वसुकर्म-देहात्मजादिषु नृभिस्तदसत्पृथक्त्वात् । तैरेव सद्भवति यत्क्रियते पृथक्त्वादिति क्वाचित्कः पाठः । तन्मात्रप्रीत्या शासनात्तत्सत्क्रियाभेदात् । अपृथक्त्वात् । परमात्मसमर्पणतत्परिवार-त्वेनापृथग्भावात् । पृथक्त्वमपृथक्त्वं च निमित्तीकृत्येति ल्यब्लोपपञ्चम्यौ वा । असवः प्राणाश्च । यद्युज्यते देहाद्युपयुक्तं क्रियते तत् । उर्वरितं सर्वं पूर्ववत् । श्रीधरीये तथा छलारीये च । असुश्च प्राणाश्चेति सति । पुंसि भूम्नयसवः प्राणा इति योऽसावसौ पुरुषः सोऽह-मित्यादिवदनिर्वाहाभावेऽपि समासः किमनुबन्धनिबन्ध इति न जानीमः । उद्यतेषु वसुकर्मेत्यादि पाठे इषुशब्दो बाणशब्दलक्षकः स च शरीरवाची । उद्यतानि देवात्मजादिसत्कारोद्युक्तानि । इषु बाणं शरीरं वसुकर्ममनोवचनानि च तैः । न च कथमिषुपदेन बाणग्रहस्तेन च कायो बाणं शरीरं चेत्युक्तशरीरपरिग्रह इति वाच्यम् । सूस्मूर्षतुभवाद्द्विरेफद्युरत्नादेः ॥ ७४ ॥
॥ इति श्रीसत्यधर्मयतिकृतायां भागवतटिप्पण्याम् अष्टमस्कन्धे अष्टमोऽध्यायः ॥ ८–८ ॥
छलारी
एतदेवोपपादयति ॥ यदीति ॥ असुः प्राणो वसु धनं प्राणादिभिर्देहात्मजादिषु देहापत्यकलत्रादिषु यद्युज्यते प्रयुज्यते केवलं देहाद्युद्देशेन वित्तादिना पोषणादिरूपं यत्कर्म क्रियत इत्यर्थः । तदसदल्पफलं भवति । कुतः । पृथक्त्वात्पोषणादेः केवलं देहादिविषयमात्रत्वेन हरिविषयादित्वाभावात् । तथा तैरेव वित्तादिसाधनैरीश्वरोद्देशेन यत्कर्म क्रियते तत्सन्महाफलं भवति । कुतः । अपृथक्तत्वात्तत्कर्मण ईश्वरं विनाऽकृतत्वात् । ईश्वरभक्त्यैव कृतत्वादिति यावत् । तर्हीतो देवताद्यर्चनाभावात्कथं महाफलं स्यादित्यत आह ॥ सर्वस्येति ॥ यन्मूलस्य प्रधानस्य हरेर्निषेचनमर्चनं तत्सर्वस्येतरदेवादेरपि भवति । कुतः । अपृथक्त्वात्परिवारतया स्थितत्वादित्यप्यर्थो ग्राह्यः । यस्य कस्यापि पूजेश्वरप्रीत्युद्देशेन कृता चेत्सफला नान्यथा । अतो देवानां तादृशत्वात्फलप्राप्तिर्न दैत्यानामभक्तत्वादिति भावः ॥ ७४ ॥
॥ इति श्रीछलारी शेषाचार्यकृतायां भागवतटिप्पण्याम् अष्टमस्कन्धे अष्टमोऽध्यायः ॥ ८–८ ॥
लिङ्घेरी
नन्वसुराणामपि ब्रह्मरुद्राद्याश्रयणात्कथं फलाप्राप्तिर्ब्रह्मरुद्रविष्णूनां समत्वादित्या-शङ्क्य श्रीहरेरेव ब्रह्मरुद्राभ्यामुत्तमत्वेन तदनुग्रहमभिभाव्यासुराणां फलादाने स्वपादपद्माराधकदेवानां फलदाने च समर्थत्वादिना नैवं शङ्क्यमिति परिहरति ॥ यदीति ॥ नृभिः फलार्थिभिः पुरुषै-रुद्यतेषु फलदानाभिमुखेषु देवात्मजादिषु वसुकर्ममनोवचोभिर्द्रव्यक्रियाकरणवाक्यैर्यदर्चनं पुरस्ता-त्प्रथममेव ते स्वतन्त्रा इति बुद्ध्या क्रियन्ते तदसद्दुष्टं निष्फलं भवेत् । यतस्तैरेव देवात्म-जादिभिरेव स्वेषामर्चनादि यत्स्वातन्त्र्यबुद्ध्या स्वमात्राराधकैः क्रियते तत्तस्मिन् हरौ समर्पितं भवति । यत्पुनर्मूलनिषेचनं प्रथमत एव हरिपूजादिकं क्रियते तद्वृक्षमूले उदकसेचनं यथा सर्वस्य वृक्षस्य साधनं भवति तद्वत्सर्वस्यापि फलस्य हरिगुरुदेवतानुग्रहप्राप्यस्य साधनं भवति । येऽप्यन्यदेवताभक्ता यजंत्यविधिपूर्वकम् । अन्तवत्तु फलं तेषाम् । देवा विष्ण्वर्पणं कृत्वेत्यादेः
॥ ७४ ॥
॥ इति श्रीलिङ्घेरी श्रीनिवासाचार्यकृतायां भागवतटिप्पण्याम् अष्टमस्कन्धे अष्टमोऽध्यायः ॥८–८॥